Digital Sanskrit Buddhist Canon

वज्रजापक्रमः प्रथमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Vajrajāpakramaḥ prathamaḥ

आचार्यनागर्जुनप्रणीतः

पञ्चक्रमः
[ १ ]
वज्रजापक्रमः प्रथमः

ओं नमो बुद्धाय

सर्वबुद्धात्मकं नाथं नत्वा श्रीमन्महासुखम्।
वज्रजापक्रमं वक्ष्ये योगतन्त्रानुसारतः॥१॥

उत्पत्तिक्रमसंस्थानां निष्पन्नक्रमकाङ्क्षिणाम्।
उपायश्चैष संबुद्धैः सोपानमिव निर्मितः॥२॥

प्राणभूतश्च सत्त्वानां वाय्वाख्यः सर्वकर्मकृत्।
विज्ञानवाहनश्चैष पञ्चात्मा दशधा पुनः॥३॥

वायुतत्त्वानुपूर्वेण मन्त्रतत्त्वं समाविशेत्।
मन्त्रनिध्यप्तिमागम्य वज्रजापः सुशिक्ष्यते॥४॥

वज्रजापस्थितो मन्त्री चित्तनिध्यप्तिमाप्नुयात्।
मयोपमसमाधिस्थो भूतकोट्यां समाविशेत्॥५॥

भूतकोटेः समुत्तिष्ठन्नद्वयज्ञानमाप्नुयात्।
युगनद्वसमाधिस्थो न किञ्चिच्छक्षते पुनः॥६॥

अयं निष्पन्नयोगाख्यो महावज्रधरश्च सः।
सर्वाकारवरोपेतः सर्वज्ञो जायते ततः॥७॥

अनागतमतीतं च वर्तमानं भवत्रयम्।
तत्क्षणात् निखिलं पश्येत् प्रभास्वरविशुद्धितः॥८॥

एतत्तत्त्वं स्थितं तन्त्रे श्रीसमाजे सुमुद्रितम्।
व्याख्यातन्त्रानुसारेण बोद्धव्यं गुरुवक्त्रतः॥९॥

तत्र प्रथमतरं वायुतत्त्वोद्देशपदं मूलसूत्रादेवावतार्यते-

नासाग्रे सर्षपं चिन्तेत् सर्षपे सचराचरम्।
भावयेज्ज्ञानपदं रम्यं रहस्यं ज्ञानकल्पितम्॥१०॥

पञ्चवर्णं महारत्नं सर्षपस्थूलमात्रकम्।
नासिकाग्रे प्रयत्नेन भावयेद् योगतः सदा॥११॥

इति सन्धाभाषेयमस्य वज्रपदस्य निर्देशमाह चतुर्देवीव्याख्यातन्त्रे ः

तद् देवि सम्प्रवक्ष्यामि सारात् सारतरं परम्।
रहस्यं सर्वबुद्धानां यत् तत् सर्वात्मनि स्थितम्॥१२॥

पश्चज्ञानमयं तत्त्वं सर्षपस्थूलमात्रकम्।
तस्य मध्ये स्थितो देवो ह्यव्यक्तो व्यक्तरूपवान्॥इति।१३॥

समाजोत्तरेऽप्यमुमर्थं द्योतयन्नाहः।
पञ्चज्ञानमयं श्वासं पञ्चभूतस्वभावकम्।
निश्चार्य पद्मनासाग्रे पिण्डरूपेण कल्पयेत्॥१४॥

पञ्चवर्णं महारत्नं प्राणायाममिति स्मृतम्।
स्वमन्त्रं हृदये ध्यात्वा चित्तं बिन्दुगतं न्यसेत्॥१५।

इत्यस्यापि प्रतिनिर्देशमाह वज्रमालानाम्नि व्याख्यातन्त्रेः

नासाग्रे सर्षपं नाम प्राणायामस्य कल्पना।
प्राणायामस्थिताः पञ्च रश्मयो बुद्धभावतः॥१६॥

ऊर्ध्वं घ्राणाद् विनिष्क्रान्तो वामदक्षिणद्वन्द्वतः।
स्तब्धश्चेति चतुर्धाऽस्माद् वेला आध्यात्मिका स्मृता॥१७॥

कण्ठहृन्नाभिगुह्याब्जे गत्यागती विनिर्दिशेत्।
विहरेद् अर्धयामिकां वेलां परिपाट्या यथाक्रमम्॥१८॥

दक्षिणाद् विनिर्गतो रश्मिर्हुतभुङ्मण्डलं च तत्।
रक्तवर्णमिदं व्यक्तं पद्मनाथोऽत्र देवता॥१९॥

वामाद् विनिर्गतो रश्मिर्वायुमण्डलसंज्ञितः।
हरितश्यामसङ्काशः कर्मनाथोऽत्र देवता॥२०॥

द्वाभ्यां विनिर्गतो रश्मिः पीतवर्णो महाद्युतिः।
माहेन्द्रमण्डलं चैतद् रत्ननाथोऽत्र देवता॥२१॥

स्तब्धो मन्द्रप्रचारस्तु सितकुन्देन्दुसन्निभः।
मण्डलं वारुणं चैतद् वज्रनाथोऽत्र देवता॥२२॥

सर्वदेहानुगो वायुः सर्वचेष्टाप्रवर्तकः।
वैरोचनस्वभावोऽसौ मृतकायाद् विनिश्चरेत्॥२३॥

वायुतत्त्वमिदं व्यक्तं पञ्चज्ञानस्वभावकम्।
तार्किका न प्रजानन्ति अगम्यं बालयोगिनाम्॥२४॥

इत्येवं वायुत्तत्वं प्रतिपाद्येदानीं मन्त्रतत्त्वस्योद्देशपदं मूलसूत्रादवतार्यते ः

सर्वतथागतकायवाक्‌चित्तरहस्यं सर्वतन्त्रहृदयसञ्चोदनं नाम परमगुह्यं स्वकायवाक्‌चित्तवज्रेभ्यो वाक्पथनिरुक्त्या मन्त्रसमुच्चयमुदाजहार ओं आः हूं।

अर्थानुमजापेन निःस्वभावेन चारुणा।
विचारणा त्र्यध्वबुद्धेभ्यो वज्रजापः स उच्यते॥२५॥

भिक्षाशिना न जप्तव्यं न च भैक्षरतो भवेत्।
जपेन्मन्त्रमभिन्नाङ्गं सर्वकामोपभोगकृत्॥२६॥

इत्युद्देशपदम् अस्य निर्देशमाह सन्ध्याव्याकरणव्याख्यातन्त्रे तदवतार्यतेः

प्रत्युवाच ततः श्रीमान् महावैरोचनं विभुम्।
विश्वरूपमिदं चित्तं सर्वसत्त्वोपपत्तितः॥२७॥

जातं सन् निःस्वभावोऽपि भावाख्यं तु प्रतीत्यतः।
कृत्वा चानुभवं सम्यग् बोधिचित्तं खतुल्यकम्॥२८॥

जगदर्थं विधातुं च तद्देशयोत्तमे जने।
साधनोपायितामात्रं ज्ञात्वा तन्त्रे विपञ्चितम्॥२९॥

आचार्या वयमित्येवं वदन्त्यागामिका विभो।
यद् वाक्यं ममेत्येवमुक्त्वा क्षिपन्ति बालिशाः।
सन्ध्याय बोधिचित्तं ते न विदन्ति यथार्थतः॥ इति। ३०॥

यथेदं भगवान् स्वामी महावैरोचनो विभुः।
त्रिष्कृत्वा साधुवचनं वज्रपाणिं वदेदिदम्॥३१॥

कथयमामि प्रभेदेन निर्विकल्पार्थतत्त्वतः।
प्रव्याहारोपलम्भाख्यं साङ्केतं पारमार्थिकम्॥३२॥

प्रव्याहारो हि सामान्यं बुद्धरूपोपलम्भकम्।
साङ्केतं मन्त्रतत्त्वाख्यं तथता पारमार्थिकम्॥३३॥

एकादिर्नवमध्ये तु दशभिर्यो न बध्यते।
तमबद्धं विजानीयात् स वेत्ति परसम्पदम्॥३४॥

स्वरव्यञ्चनवर्णाश्च नवसंख्यानुवर्तिनः।
' अबद्धान्योन्यसंयोगाद् यो वेत्ति स जगद्‍गुरुः॥३५॥

भूतान्तेन समायुक्तं कलादिषोडशे स्थितम्।
पञ्चपञ्चकसंयुक्तं चतुस्त्रयनियोजितम्॥३६॥

सानुस्वारं सदीर्घं न गुणसंयोलोपवत्।
ह्रस्वं समस्तवाक्यं स्यान्न चानेकं न चैककम्॥३७॥

ये वर्णाः पृष्ठतः प्रोक्ता अभिमुखाश्च ये पुनः।
स्त्री-पुं-नपुंसकास्ते च धात्वादिपरिकल्पिताः॥३८॥

अध-ऊर्ध्वसमायुक्तं ज्ञात्वा बुद्ध्या नियोजयेत्।
प्रव्याहारमिदं मन्त्रं निःस्वभावस्वभावजम्॥३९॥

ततः परिणतं रूपं यद्देवतोपलम्भिकम्।
साङ्केतिकं त्रितत्त्वस्थं प्रकृतिजापलपक्षणम्॥४०॥

अकारोद्देशकं ज्ञानं बुद्धस्य हृदयं भवेत्।
ओंकारः संसृजेत् सत्त्वान् बुद्धरूपाग्रकल्पितान्॥४१॥

हूंकारःसंहरेत् सत्त्वान् आःकारः स्थापको भवेत्।
प्रवेशश्व स्थितिश्चैव व्युत्थानं च क्रमेण च॥४२॥

जपेन् मन्त्रमभिन्नाङ्गं प्रज्ञोपायपदे स्थितः।
पाण्डरादिजपः प्रक्तः पञ्चविंशच्छतद्वयम्॥४३॥

चतुर्भिर्गुणितं सम्यक् चतुर्योगशतं नव।
नवशतं तु यद् दृष्टं चतुर्विंशत्परिक्रमैः।
प्रत्युत्पादाद् भवेत् तत्र द्व्ययुतं शतषोडशम्॥४४॥

इदमेवाध्यात्मिकवेलायां द्योतयन्नाह समाजोत्तरे ः

विद्यानयविधानेन चतुःसन्ध्याप्रयोगतः।
जपेन्मन्त्रमभिन्नाङ्गं लक्षमक्षरसंख्यया॥४५॥

बाह्यजापं त्यजेद् योगी भावनायान्तरायिकम्।
मन्त्रार्थो भगवान् वज्री वज्रात्मात्र कथं जपेत्॥४६॥

हस्तिनं लभते सद्यो मृगयेद्धस्तिनः पदम्।
मन्त्रमूर्तिः स्वयं साक्षात् किमन्यत्तु गवेषते॥४७॥

अपि च वज्रधृक् कश्चित् त्रिसंयोगान्वितो नरः।
आवाहनविसर्जनं स्यात् तथा स्थापनमेव च॥४८॥

आवाहनं प्रवेशेन त्वरितेन विसर्जनम्।
वाष्पेण स्थापनं तत् स्याद् विश्वस्तात् सिद्धिरुत्तमा॥४९॥

त्वरिते निबन्धके वाष्पे मन्त्रनियोजना कथिता।
कर्णमूले तु शिष्यायाचार्येण सुप्रयत्नतः॥५०॥

अथ योगेश्वराणां तु दिव्योपायः प्रदर्शितः।
गुह्याक्षरं प्रवक्ष्यामि योगसिद्धिफलप्रदम्॥५१॥

येन चिन्तितमात्रेण योगिनः स्युर्वरप्रदाः।
आद्यक्षरप्रयोगेण उच्छवासं कुरुते सदा॥५२॥

अष्टान्तेन समायुक्तमुकारेण सबिन्दुकम्।
निश्वासं कुरुते योगी रुचिजाप्तमिहोच्यते॥५३॥

अयुतद्वयं सहस्रं च षट् शतानि तथैव च।
अहोरात्रेण योगीन्द्रो जपसंख्यां करोति च॥५४॥

तदेवं गुह्यसन्ध्यायां सूक्ष्मयोगः प्रकाशितः।
ध्यानाध्ययनवीतं तु तथापि जाप उच्यते॥५५॥

अनेन वज्रजापेन सेवां कृत्वा यथाविधि।
साधयेत् सर्वकार्याणि मायोपमसमाधिना॥५६॥

अत्राह अद्वयसमतामहायोगतन्त्रे ः
जपित्वा मन्त्रमतुलं साधयेत् साधनात्मकः।
सिध्यते तस्य त्रैलोक्यं मासैकेन न संशयः॥५७॥

षड् लक्षाणि जपित्वा तु मन्त्रं ज्ञानसमुद्भवम्।
वज्रसत्त्वं नमस्कृत्य पूर्णमास्यां स सिध्यति॥५८॥

न तस्य व्रतमाख्यातं नाक्षसूत्रं न मन्त्रकम्।
धारणा होमकर्माणि वर्ज्यन्ते च परापरम्॥५९॥

यकारार्थेन यत् किञ्चित् सिद्धिमिच्छता।
रेफादित्रितयेनैव जतत्कार्यं प्रवर्तते॥६०॥

अग्निवायव्यमाहेन्द्रवारुणे प्रतिमण्डले।
अर्धयामिकवेलायां द्वौ द्वौ कर्मणि तिष्ठतः॥६१॥

पूजाप्रायो भवेत् पूज्यो जापप्रायो विशुध्यति।
अग्निहोत्रपरो भूतिं मोक्षं ध्यानपरो लभेत्॥६२॥

ज्ञात्वा इत्थं ततो मन्त्री जगद्‍बालवदाचरेत्।
ततः सिध्यन्ति मन्त्राश्च निर्विकल्पैकधर्मतः॥६३॥

मन्त्रतत्त्वमिदं व्यक्तं वाग्वज्रस्य प्रसाधनम्।
ज्ञानत्रयप्रभेदेन चित्तमात्रे नियोजयेद्॥ इति॥ ६४॥

गुरोरवज्ञासुशठोऽप्रसन्नो
मन्त्रोद्धतः पुस्तकदृष्टिगर्वः।
अश्रद्दधानस्त्वभिषेकहीनो
वार्ता क्रमस्यापि च तस्य नोक्ता॥६५॥

यः श्रद्दधानो गुरुभक्तिरक्तः
शुश्रूषणायां च सदाभियुक्तः।
ग्राह्यः श्रुतिं नैव धनं निरीक्ष्यं
गुरुप्रधानोऽय गुरुप्रसादः॥६६॥

गिरीन्द्रमूर्ध्नः प्रपतेत् तु कश्चित्
नेच्छेच्च्युतिं तु च्यवते तथापि।
गुरुप्रसादाप्तहितोपदेश
इच्छेन्न मोक्तं स तथापि मुक्तंः॥६७॥

॥ वज्रजापक्रमः समाप्तः॥

कृतिरियं श्रीनागार्जुनपादानामिति।
ग्रन्थप्रमाणमस्य षदधिकसप्ततिः॥ प्रथमः क्रमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project