Digital Sanskrit Buddhist Canon

महामायासाधनम्

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2010
  • Proof Reader:
    Dr. Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Mahāmāyāsādhanam

महामायासाधनम्

महामायाह्वयं देवं चतुर्मुखं चतुर्भुजम्।
अङ्के यस्य तथा देवी चतस्रो दिक्षु चापराः॥
महावज्रधरस्यैव कृपया भीषणाकृतेः।
महामायाभिधानस्य साधनं साधु कथ्यते॥

इह भावनाधिकृतो मन्त्री चतुर्देवीगीतिचोदनाविबुद्धः प्रातरुत्थाय स्वहृत्सूर्यस्थं हुँकाररश्मिभिरात्मानं विशोध्य कृतमुखशौचादिको हुं फडिति स्थानात्मयोगरक्षां कृत्वा ध्यानालयं प्रविश्य हुंकारेण अर्घ्यं परिजप्य सुखासनोपविष्टः पुरस्तादन्तरिक्षे भगवन्तं सपरिवारमालोक्य हृन्मन्त्रकिरणोद्भवैः पञ्चोपहारमेघैः सम्पूज्य पापदेशनाकमिति कुर्यात्-देशयाम्यहमात्मनः पापम्, अनुमोदे सर्वपुण्यानि, सर्वबुद्धबोधिसत्त्वार्यपृथग्जनानां परिणामयामि सर्वमात्मनः कुशलमनुत्तरायां सम्यक्संबोधौ, आबोधेस्त्रीणि रत्नानि शरणं गच्छामि, बुद्धरत्नं धर्म्मरत्नं संघरत्नम्, अहो बताहमनुत्तरां सम्यक्सम्बोधिमधिगच्छेयं सर्वसत्त्वानामर्थाय हिताय यावदेतेषाम् अत्यन्तनिष्ठे निर्वाणे निरुत्तरे च तथागतज्ञाने प्रतिष्ठापनाय। तदनु चित्तमात्रमेवेदं सर्वमसत्येव तेन तेनाकारेण प्रख्याति। तद्यथा स्वप्न इत्यधिमुच्य सर्वाकारान् परित्यज्य निर्मलनभोनिभं निराभासमनन्तं प्रकाशमात्रं पश्येत्, ॐ शून्यताज्ञानवज्रस्वभावात्मकोऽहमिति चाधितिष्ठेत्। अनन्तरं पुरस्तादन्तरिक्षसूर्ये हुँकारेण विश्ववज्रं विचिन्त्य तद्दीप्तरश्मिस्फुरणैरधो वज्रमयीं भूमिं तिर्यग्वज्रप्राकारमुपरि वज्रपञ्जरं मध्ये घोरश्मशानं विभाव्य तन्मध्ये कूटागारमेकपुटं सर्वरत्नमयं पश्येत्-

चतुरस्रं चतुर्द्वारं चतुस्तोरणभूषितम्।
हाराद्यैरप्सरोभिश्च भास्वद्वेदीचतुष्टयम्॥

तन्मध्ये रक्तकमलमष्टदलं ध्यात्वा तत्कर्णिकायामनादिनिधनं तारमुक्ताफलनिभं ज्ञानामृतबिन्दुं ध्यायात्।

इत्ययमनादियोगो नाम प्रथमः समाधिः।

मध्यबिन्दुत एव चतुरो बिन्दूनष्टदिग्दलेषु संस्फार्य बीजाकारपरिणतान् पश्येत्, यथाक्रमं हुं स्वा आ हाः। यथाक्रमं तेभ्यो वज्रमणिपद्मकर्मकुलेशान् तत्कुलानि च संस्फार्य पुनस्तेष्वेव संहृत्य तत्परिणताश्चतस्रो योगिनीः पश्येत्। पूर्वदले वज्रडाकिनीं नीलवर्णां नीलपीतसितहरितवदनां वज्रकपालघण्टाखट्वाङ्गधारिणीम्, दक्षिणदले रत्नडाकिनीं पीतवर्णां पीतनीलसितहरितवदनां रत्नच्छटात्रिशूलग्रीवानिपीडितजम्बूकपताकाधारिणीम्, पश्चिमदले पद्मडाकिनीं सितवर्णां सितपीतनीलहरितवदनां विश्वकमलशरकपालचापधराम्, उत्तरदले विश्वडाकिनीं हरितवर्णां हरितपीतसितनीलवदनाम् असिडमरुपाशकपालधराम्। चन्द्रासनप्रभाः सर्वाः। शेषमासां प्रभुमिव नाथमुत्थापयेयुस्ता वज्रगीतिकयाऽनया-

हले सहि विअसिअ कमलु पबोहिउ वज्जें।
अललललहो महासुहेण आरोहिउ णच्चें॥
रविकिरणेण पफुल्लिउ कमलु महासुहेण।
अललललहो महासुहेण आरोहिउ णच्चें॥

अथ गीतिकानुभावेन भगवान् बिन्दुरूपतां हित्वा बीजद्वयाकार्रेणाविर्भवति। ॐ हुँ। ततः ॐकाराद् वैरोचनं तत्कुलं च संस्फार्य संहरेत्, हुँकारात् पञ्चजिनान् तत्कुलानि च। ततः ॐकार्रोद्भवया बुद्धडाकिन्या सहैव भगवान् हेरुको हुँकारादुत्पद्यते।

भस्मनोद्धूलितः कृष्णो ललितार्कासनप्रभः।
कपिशोर्ध्वज्वलत्केशः कपालमकुटोत्कटः॥
नीलपीतमहाश्वेतहरिताद्यचतुर्मुखः।
कपालशरखट्वाङ्गचापधारिचतुर्भुजः॥
पञ्चबुद्धविशुद्ध्या तु पञ्चमुद्राविभूषितः।
चक्री कुण्डलकण्ठी च हस्ते रुचकमेखलाम्॥
नरचर्माम्बरधरो द्वादशारुणलोचनः।
ज्वालामालाकुलक्रोधः परमानन्दसुन्दरः॥
अर्धपर्यङ्कनाट्यस्थो नवनाट्यरसैर्युतः।
अन्तःकरणोद्गीर्णैश्च जनौघैर्जगदर्थकृत्॥
प्रियतुल्यायुधा रक्ता तत्कण्ठाश्लेषिदोर्द्वया।
श्रीबुद्धडाकिनी रक्तपीतश्वेतहरिन्मुखी॥
बुद्धाभिषेका शबरी हेवज्रे गीयते यथा।
तथेह बुद्धडाकिन्या हेरुकः संप्रपूज्यते॥
बुद्धो रक्तोऽत्र सत्त्वानां बुद्धकायेन रञ्जनात्।
शुद्धा धर्माः प्रकृत्येति वागीशस्यैव शुक्लता॥

तदनु भगवतश्चक्षुरिन्द्रिये ॐकारं रक्तं श्रोत्रेन्द्रिये हुँकारं नीलं घ्राणेन्द्रिये चीकारं पीतं जिह्वेन्द्रिये आःकारं सितम् उष्णीषस्थाने रेफं हरितं मनसि खकारं सितं चिन्तयेत्। इति षडिन्द्रिये षडक्षरन्यास।

कवचनम्-ॐ आः हुँ इति कायवाक् चित्ताधिष्ठानं यथाक्रमं सिरःकण्ठहृदयेषु। स्तनान्तरे सूर्ये स्वदेवताबीजं तज्ज्ञानस्वभावं दृष्ट्वा तत्किरणङ्कुशैर्ज्ञानमण्डलमाकृष्य हुँकारेण विघ्नानुत्सार्य अर्घ्यं दत्त्वा जः हुँ वँ होः इत्याकृष्य प्रवेश्य बद्ध्वा वशीकृत्य तेन सहैकलोलीभूतं समयमण्डलं पश्येत्। ततो ज्ञानबीजरश्मिचोदित-तथागतप्रेषिताः पञ्चयोगिन्य आगत्य पञ्चज्ञानाम्बुपूर्णै रत्नकलशैर्भगवन्तो योगिन्यश्चाभिषिञ्चेयुः। अभिषिच्यमानानां शिरसि स्वकुलेश उत्पद्यते। भगवतोऽक्षोभ्यः बुद्धडाकिन्यादीनां यथाक्रमं शाश्वताक्षोभ्यरत्नेशवागीशामोघसिद्धयः। ततो ज्ञानबीजरश्मिमुखस्फारिताभिः पञ्चोपहारपञ्चकामगुणपूजाभिर्भगवन्तं भगवतीं च पूजयेत्। ततो भगवन्तं देवीनां मुखैः स्तूयात्-

दंष्ट्रोत्कटमहाभीममुण्डस्रग्दामभूषितम्।
भक्षमाणं महामांसं श्रीहेरुकं नमाम्यहम्॥ इति।

ततो दिग्देव्यः स्फुरणयोगेन बुद्धडाकिन्यामन्तर्भवेयुः। ततोऽस्याः शिरसि हृदि नाभौ गुह्ये ऊर्वोश्च यथाक्रमं ॐ हुँ स्वा आ हा इत्येतान् विभाव्य तैरन्योन्यावधिस्फुरद्भिरस्याः शरीरमभिव्याप्य तया ह्रीःकरजरक्तकमलया अकारजमुक्ताकर्णिकया तद्वद् हुँकारजकुलिश ॐकारजमणिः प्रारभेत रतिमनुरागं यामीत्यनेन मन्त्रेण। ततो मणिद्वयरश्मिचोदितास्तथागता आगत्य मुखे प्रविश्य विलीय कमलदले पतेयुः। तत् पञ्चज्ञानामृतं जिह्वाग्रललितेन गृह्यमाणं चिन्तयेदिति।

श्रीमण्डलराजाग्रीनम द्वितीयः समाधिः।

ततो भगवच्चोदिता बुद्धडाकिन्यादयः पञ्चभगवत्कायमेघस्फुरणैः सत्त्वानमर्थं यथाक्रमम् आदर्शज्ञानं सुविशुद्धधर्मधातुज्ञानं समताज्ञानं प्रत्यवेक्षणाज्ञानं कृत्यनुष्ठानज्ञानं महावज्रधरपदं चोत्पाद्य स्वकायमेघान् मूलकाये संहरेयुरिति।

कर्मराजाग्रीनाम तृतीयः समाधिः।

यदि पुनर्योगी चित्तं स्थिरीकर्तुमिच्छेत्, सर्वसमाधीनामग्रनिष्पत्तये, तदा समासतः समाधित्रयं विभाव्य नाभिकमलकर्णिकायां रविसोमसम्पुटप्रान्तेषु निःसन्धि ध्यात्वा तन्मध्ये सर्षपसूक्ष्मसितस्वच्छज्ञानं बिन्दुरूपं महासुखमयं वीरं विचिन्त्य तद्रश्मिरेखां मृणालतन्तुनिभां चन्द्रमध्येन निर्गत्य सम्पुटं तिर्य्यक् त्रिभिर्वेष्टैः संयम्य स्थितां दृष्ट्वा चन्दोपरि स्थितेषु त्रिषु वेष्टार्धेषु ग्रथितान् प्रत्येकं षोडश वर्णान् पश्येत्। उक्तं हि संवरोत्तरे-

ककारादिदकारान्तं ङञवर्जं निवेशयेत्।
धकारादिहकारान्तम् आलिद्वयं समालिखेत्।
मध्यस्थेन त्वकरालिर्न्यस्तव्यः शशिमण्डले॥ इति।

इहाप्युक्तम्-"दिव्यमक्षरपङ्क्तिभिः " इति। एवं नाभिमध्ये कमलकर्णिकारविसोमसंपुटगर्भे वीरं भावयन् भावनापरिपाकमधिमुच्य तस्मादेव द्वितीयसूक्ष्मरेखाज्वलितैकज्वालावदवस्थितां पश्येत्। तस्याः प्रभावेण स्रवदमृतपूरप्लावितो वीरः सा च रश्मिरेखा सितीभवेत्। ततो वीरे नियमितचित्तस्तं पश्येत्, यावत् चेतसं स्थैर्यलाभं निमित्तैरुपलक्षयेत्। उपलक्षिते स्थैर्ये तस्या रश्मिरेखायाः स्फुटमालोकमनन्तं विश्वमवभासयन्तं विचिन्त्य सर्वं करतलामलकवत् पश्येत्, सर्वसमाधींश्चाशु निष्पादयेत्।

इति बिन्दुयोगः।

जप्तविद्यस्य सिद्धिरिति जप उच्यते। तथैव षड्देवताचक्रं योगी नाभीकमलकर्णिकावस्थितरविसोमसम्पुटगर्भे चिरं विचिन्त्य तथैव च तद्रश्मिरेखया वर्णावलीत्रयग्रथितया वेष्टत्रयसंयुते मन्त्रं जपेत्। इह तन्त्रे अ(त्र्य)क्षरा मन्त्राः। तत्र भगवतो मन्त्रः, ॐ हुँ हुँ। बुद्धडाकिन्यादीनां यथाक्रमम्- ॐ ॐ हुँ, ॐ हुँ हुँ, ॐ स्वा हुँ, ॐ आ हुँ, ॐ हा हुँ। कथं जपेत् ? संपुटगर्भे जप्यं बीजाक्षरं विन्यस्य तच्छीर्षे वीरमुत्थाप्य ॐकारमुच्चारयन् वी(वि)राट्रश्मिरेखामुच्छ्वासवायुना सहोत्थाप्य तयावभास्य जगद् बुद्धमयं कुर्यात्। बीजाक्षरमुच्चारयन् तेषु सर्वबुद्धेषु स्वदेवतास्वभावतामधिमुञ्चेत्। अन्त[ः] हुँकारं उच्चारयन् निश्वासवायुना समाकृष्य तद्बुद्धमयं जगद् वीरे संहरेत्। एवं पुनः पुनः कुर्यात्, यावत् खेदो न भवति। सति खेदे विश्रम्य सर्वमिदं कुशलमनुत्तरायै सम्यक्सम्बोधयेऽभिमतफलसिद्धये च परिणमय्य पूर्ववत् पूजां कृत्वा स्वहृद्बीजाक्षरे मण्डलमन्तर्भाव्य, तत उत्थाय स्वदेवतात्मकमात्मानमधिमुच्य सर्वं कुर्वीत। सर्वं च भोज्यं पञ्चभिर्बीजैः पञ्चज्ञानामृतमयं कृत्वा स्वहृदये च देवताचक्रमधिमुच्य विचिन्त्य च तज्जिह्वासु तदमृतं जुहुयात्। स्नानं कुर्वन् देवताभिषेकविधिं ध्यायत्।

मध्यान्हसायाह्नसम्ध्ययोस्तु मण्डलगृहं प्रविश्य स्वहृद्बीजरश्मिभिराधारमण्डलं निर्माय [तस्मा]देव बीजाच्चतस्रो योगिनीः क्रमेण संस्फार्य यथास्थानं निवेश्य पूर्ववदभिषेकादिकं सर्वविधिमनुष्ठाय मण्डलमन्तर्भाव्य तत उत्थाय पूर्ववत् समाहितयोगं कुर्यात्।

अर्धरात्रसन्ध्यायां त्वयं विशेषः- संपूज्यार्घ्यं दत्त्वा ॐ वज्र मुरिति ज्ञानमण्डलमुत्सृज्य स्वज्ञानबीजे समयमण्डलमन्तर्भाव्य, निराभासं सम्बोधिचित्तमधिमुच्य सुप्यात्। एवं दिनान्तरेष्वपि देवीसङ्गीतिचोदनोत्थापितः सर्वं पूर्ववत् कुर्यात्। एवं प्रत्यहं यावत् सिद्धिनिमित्तानि लभते। तत्र मण्डलेश्वरस्य मन्त्रो लक्षजापेन सिद्ध्यति, शेषाणामयुतजापेन। मालामन्त्रश्च तन्त्रान्तरादानेतव्याः। तान् स्वहृत्सूर्ये हृच्चन्द्रे वा यथायोगं मण्डलीकृत्य प्रदीपमालावज्ज्वलतश्चेतसाऽभिलिख्य मनसा वाचयन्निव जपेदिति।

ब्रुतुतैवं महामायासाधनं यन्मयार्जितम्।
कुशलं तेन बुद्धः स्यां वशी विश्वार्थसाधने॥

॥महामायासाधनं समाप्तम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project