Digital Sanskrit Buddhist Canon

प्रथमं योगस्थानम्

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
  • Parallel Romanized version Prathamaṁ yogasthānam
श्रावकभूमिः

गोत्रभूमिः

//[।] इन्द्रियैर विकलता, आयतनगतः प्रसादः, अपरिवृत्तकर्मान्तता [।]

तत्र मनुष्यत्वं कतमत्। यथापीहैकत्यो मनुष्याणां सभागतायां प्रत्याजातो भवति। पुरुषश्च पुरुषेन्द्रियेण [समन्वागतो भवति। इदमुच्यते मनुष्यत्वं [।]

आर्या[य]तने प्रत्याजातिः कतमा [।] यथापीहै] कत्यो मध्येषु [ज] नपदेषु प्रत्याजातो भवति पूर्व्ववद्यावद्यत्र गतिः सत्पुरुषाणामियमुच्यते आर्यायतने प्रत्याजातिः [।]

इन्द्रियैरविकलता कतमा [।] यथापीहैकत्यः अजातो भवत्यनेडक इति विस्तरः [।] अंगप्रत्यंगाविकलो वा यद्रूपेणांप्रत्यंगावैकल्येन श्रोत्रावैकल्यादिकेन भव्यः कुशलपक्षसमुदागमाय [।] इदमुच्यते इन्द्रिया वैकल्यं [।]

आयतनगतः प्रसादः कतमः [।] यथापीहैकत्येन तथागतप्रवेदिते धर्म्मविनये श्रद्‍धा प्रतिलब्धा भवति। चेतसः प्रसादः [।] अयमुच्यते आयतनगतः प्रसादस्तदायतनं तथागतप्रवेदितो धर्मविनयः सर्व्वेषां लौकिकलोकोत्तराणां शुक्लधर्माणामुत्पत्तये [।] या पुनरत्र श्रद्‍धा, तेन पूर्वग (४) मेनाधिपत्येन स आयतनगतः प्रसादः [।]

सर्व्वक्लेशमलकालुष्यापनयना अपरिवृत्तकर्मान्तता येन पंचानामानन्तर्याणां कर्म्मणां, तद्यथा मातृवधात् पितृवधादर्हद्‍वधात्संघभेदात्तथागतस्यान्तिके दुष्टचित्तरुचिरोत्पादादन्यतमान्यतमदानन्तर्यं कर्म दृष्ट एव धर्मे न कृतं भवति नाध्याचरितमिय मुच्यते। अपरिवृत्तकर्मान्तता। इतीमानि पञ्चानन्तर्याणि कर्म्माणि कृतोपचितानि [।] दृष्ट एव धर्मे परिवर्त्याभव्यो भवति परिनिर्व्वाणायार्यमार्गस्योत्पत्तये तस्मादेतानि परिवृत्तकर्मान्ततेत्युच्यते। स्वयमेवानेन स आत्मभाव एभिः पञ्चभिरङ्गैः सम्पादितो भवति। तस्मादात्मसम्पदि त्युच्यते।

परसम्पत् कतमा [।] तद्यथा बुद्धानामुत्पादः, सद्धर्मदेशनादेशितानां धर्माणां अवस्थानमवस्थितानां चानुप्रवर्त्तनं। परतश्च प्रत्यनुकम्पा [।]

तत्रः बुद्धानामुत्पादः कतमः [।] यथापीहैकत्यः सर्व्वसर्व्वसत्वे (त्त्वे) षु कल्याणं हिताध्याशयमुत्पाद्य प्रभूतैर्दुष्करसहस्रैर्महता च पुण्यज्ञानसम्भारेण [ ] आत्मभावप्रतिलम्भे बोधिमण्डे निषद्य, पञ्चनिवरणानि प्रहाय, चतुर्षु स्मृत्युपस्थानेषु सूपस्थितचित्तः, सप्तत्रिंशद् बोधिपक्ष्यान् धर्मान् भावयित्वा [अ]नुत्तरां सम्यक्संबोधिमभिसंबुध्यते। अयमुच्यते बुद्‍धाना [मु] त्पादः। अतीतानागतप्रत्युत्पन्नेष्वध्वसु एवमेवा [ ] [ क्लेश आ या] त एवं बुद्‍धा भगवन्तो लोक उत्पद्य तस्यैव च श्रावकलोकानुकम्पामुपादाय चत्वार्यार्यसत्यान्यारभ्य दुःख [ ] सद्भिरयञ्च धर्मो निर्यातो, देशितः, प्रशस्तो बुद्‍धैश्च बुद्‍धश्रावकैश्चा [ यमुच्यते बुद्धानामुत्पादः]।

देशितानां धर्माणां अवस्थानं कतमत्। देशिते सद्‍धर्मे, प्रवर्तिते धर्मचक्रे, यावच्च बुद्‍धो भगवां (वान्) जीवति, तिष्ठति च, परिनिर्वृते च बुद्‍धे भगवति, यावता कालेन प्रतिपत्तिर्न हीयते, सद्‍धर्मश्च नान्तर्धीयते [।] इदमुच्यते सद्‍धर्मस्यावस्थानं याव [ वस्थानं वेदितव्यं] [।]

अवस्थितानां धर्माणामनुप्रवर्त्तनं कतमत्। यत्त एवाधिगन्तार [ः] सद्‍धर्मस्य, सद्‍धर्मसाक्षात्क्रियायै भव्यां प्रतिबलतां जानतां विदित्वा यथाधिगतामेवानुलोमिकीमववादानुशासनीमनुप्रवर्त्तयन्तीदमुच्यते अवस्थितानां धर्माणामनुप्रवर्त्तनं॥

परतः प्रत्यनुकम्पा कतमा। परत उच्यन्ते दा यकदानपतयः ते यानि तस्यानुलोमिकानि जीवितो पधारणानि तैः प्रत्यनुकम्पते (न्ते) यदुत चीवरपिंडपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैरियमुच्यते परतः प्रत्यनुकम्पा॥

कुशलो धर्मच्छन्दः कतमः [।] यथापीहैकत्यस्तथागतस्य वा, तथागतश्रावकस्य वा अन्तिकाद्‍धर्मं श्रुत्वा श्रद्‍धां प्रतिलभते। स तां प्रतिलभ्य इदं संशिक्षते। संबाधो गृहावासो रजसामावासः। अभ्यवकाशं प्रव्रज्य यन्व(यन्न्व) हं सर्वं कड(ल) त्रवर्गं, धनधान्यहिरण्यं चोत्सृज्य स्वाख्याते धर्मविनये सम्यगेवागारादनागारिकां प्रव्रजेयम्। प्रव्रजित्वा (प्रव्रज्य) च प्रतिपत्त्या सम्पादयेयमिति। य एवमुत्पन्नश्छन्दः कुशलेषु धर्मेष्वयमुच्यते कुशलो धर्मछन्दः (च्छन्दः)॥

प्रव्रज्या कतमा [।] या तमेव कुशलं धर्मच्छन्दमधिपतिं कृत्वा ज्ञप्तिचतुर्थेन वाक्कर्मणा उपसम्पत्कुशलैरशी (ःशी) लसमादानं वा [।] इयमुच्यते प्रव्रज्या॥

शीलसम्बरः कतमः [।] स तथा प्रव्रजितः शीलवान् विहरति, प्रातिमोक्षसम्वरसंवृतः। आचारगोचरसम्पन्नः। अणुमात्रेष्ववद्ये षु भयदर्शी, समादाय शिक्षते शिक्षापदेषु [।] अयमुच्यते शीलसम्वरः॥

इन्द्रियसम्वरः कतमः॥ स तमेव शीलसम्वरं निश्रित्यारक्षितस्मृतिर्भवति। निपकस्मृतिः। स्मृत्या [ऽऽ] रक्षितमानसः समावस्थावचारकः [।] स चक्षुषा रूपाणि दृष्ट्वा। न निमित्तग्राही भवति, नानुव्यंजनग्राही यतो[अ]धिकरणम स्य पापका, अकुशला धर्माश्चित्तमनुस्रवेयुस्तेषां सम्वराय प्रतिपद्यते [।] स श्रोत्रेण शब्दां (ब्दान्), घ्राणेन गन्धान्, जिह्वया रसान्, कायेन स्प्रष्टव्यानि (।), मनसा धर्मान् विज्ञाय न निमित्तग्राही भवति नानुव्यंजनग्राही यतो[अ]धिकरणमस्य पापका अकुशला धर्माश्चित्तमनुस्रवेयुस्तेषां सम्वरा [य प्रतिपद्यते, रक्षति] मन इन्द्रियं मन इन्द्रियेण सम्वरमापद्यते। अयमुच्यते इन्द्रियसम्वरः।

भोजने मात्रज्ञता कतमा [।] स तथा संवृतेन्द्रियः प्रतिसंख्यायाहारमाहरति। न दर्पार्थं, न मदार्थं, न मण्डनार्थं, न विभूषणार्थं, यावदेवास्य कायस्य स्थितये, [यापनायै, ब्रह्मचर्यानुग्रहाय] इति। पौराणां वेदनां प्रहास्यामि, नवां च नोत्पादयिष्यामि [।] यात्रा च मे भविष्यति। बलंच, सुखं चानवद्यता च, स्पर्शविहारता चेयमुच्यते भोजने मात्रज्ञता॥

जागरिकानुयोगः कतमः। [सदिवा चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परि] शोधयति। स दिवा चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोध्य, ततो विहारान्निर्गम्य, बहिर्विहारस्य पादौ प्रक्षाल्य, दक्षिणेन पार्श्वेन सिंहशय्यां कल्पयत्यालोकसंज्ञी, स्मृतः, संप्रजानन्, उत्थानसंज्ञामेव मनसि कुर्व्वन् स रात्र्याः पश्चिमे यामे [लघु लघ्वेव प्रतिविबुध्य, चंक्रमनिषद्याभ्या] मावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयतीयमुच्यते पूर्व्वरात्रापररात्रं जागरिकानुयुक्तता [।]

संप्रजानद्विहारिता कतमा [।] स तथा जागरिकानुयुक्तः अति (भि) क्रमप्रतिक्रमे संप्रजानद्विहारी भवत्यालोकितव्यवलोकिते, साम्मिञ्जितप्रसारिते, सांघाटीचीवरपात्रधारणे, अशितपीतखादितस्वादिते निद्राक्लमविनोदने, गते, स्थिते, निषण्णे, शयिते, जागृते, भाषिते, तूष्णीम्भावे सम्प्रजानद्विहारी भवति। इयमुच्यते सम्प्रजानद्विहारिता॥

प्राविवेक्यं कतमत् [।] स एभिर्धर्मैः परिकर्म्मभूमिं शोधयित्वा विविक्तानि शयनासनान्यध्यावसत्यरण्यानि, वृक्षमूलानि, शून्यागाराणि, पर्वतकन्दरगिरिगुहापलाल [पुंजा] (ऽ) भ्यवकाशश्मशानवनप्रस्थानि प्रान्तानि शयनासनादीनीदमुच्यते प्राविवेक्यम्॥

निवरणविशुद्धिः कतमा [।] सो [अ] रण्यगतो वा, वृक्षमूलगतो वा, शून्यागारगतो वा, पंचभ्यो निवरणेभ्यश्चित्तं विशोधयति। कामच्छन्दाद् व्यापादात्स्त्यानमिद्‍धादौद्‍धत्यकौकृत्याद्विचिकित्सायाः [।] स एभ्यो निवरणेभ्यश्चित्तं विशोध्य विनिवरणं समाधिकल्पतायामवस्थापयतीयमुच्यते निवरण विशुद्धिः।

समाधिसन्निश्रय कतमः। स पञ्चनिवरणानि प्रहाय चेतसोपक्लेश (चेतस उपक्लेश) कराणि संक्लेशकराणि। विविक्तं कामैर्विविक्तम्पापकैरकुशलैर्धर्मैः सवितर्क सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसंपद्य विहरति [।] सवितर्कसविचाराणां व्युपशमादध्यात्मसंप्रसादाच्चेतस एकोतीभावादवितर्कमविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानमुपसम्पद्य विहरति। स प्रीतेर्विरागादुपेक्षको विहरति स्मृतः संप्रजान[न्] सुखं च कायेन प्रतिसम्वेदयते यत्। तदार्या आचक्षते उपेक्षकः स्मृतिमान् सुखविहारी तृतीयं ध्यानमुपसम्पद्य विहरति स सुखस्य च प्रहाणात् पूर्व्वमेव सौमनस्यदौर्मनस्ययोरस्तगमा (रस्तङ्गमा) ददुःखासुखमुपेक्षास्मृतिपरिशुद्‍धं चतुर्थं ध्यानमुपसम्पद्य विहरति। अयमुच्यते समाधिसन्निश्रयः[।]

सो [अ] नया [ऽऽ]नूपूर्व्या उत्तरोत्तरान्विशिष्टान् विशिष्टतरान् विशिष्टतमान् प्रत्यग्रानात्मसम्पत्पूर्व्वान् समाधि] संनिश्रयपर्यवसानान् समुदानयति। एवं परिशुद्‍धे चित्ते पर्यवदाते अनंगणे विगतोपक्लेशे ऋजुभूते कर्मण्ये स्थिते आनिंज्यप्राप्ते स चेच्चत्वार्यार्यसत्यान्यारभ्य तेषां परिज्ञायै प्रहाणाय साक्षात्क्रियायै भावनायै परतो घोषमववा दानुशासनीं प्रतिलभते। एवमसौ भव्यो भवति प्रतिबलश्च योगनिमित्तस्य मनस्कारस्योत्पादनाय। य (त) त्पूर्व्विकायाश्च सम्यग्दृष्टेर्यया चत्वार्यार्यसत्यान्यभिसमागच्छति। विमुक्तिञ्च परिपूरयति। निरुपधिशेषे च निर्व्वाणधातौ परिनिर्व्वाति। तत्र या सम्यग्दर्शनमुपादाय विमुक्तिपरिपूरिः। निरुपधिशेषपरिनिर्व्वाणं चायं गोत्रसमुदागमो वेदितव्यः। तत्रात्मसम्पदमुपादाय यावत्समाधिसन्निश्रयो [अ]यं। हीनः समुदागमप्रत्ययो वेदितव्यः। तत्र यः चतुःसत्यदेशनाववादाधिपतेयः परतो घोषः, यश्च योनिशो मनस्कारः। अयं प्रधानः समुदागमप्रत्ययो वेदितव्यः। इदमुच्यते गोत्रव्यवस्थानं॥

गोत्रस्थस्य पुद्गलस्य कतमानि लिंगानि। आह। यान्यपरिनिर्व्वाणधर्मकस्य लिंगानि। ( आह। यान्यपरिनिर्व्वाणधर्मकस्य लिंगानि।) तद्‍विपर्ययेण गोत्रस्थस्य पुद्गलस्य लिंगानि वेदितव्यानि।

कानि पुनरपरिनिर्व्वाणधर्मकलिंगानि यैः समन्वागतः अपरिनिर्व्वाणधर्मकः। अपरिनिर्व्वाणधर्मको [ऽ]यमिति विज्ञेयः। बहून्यपरिनिर्व्वाणधर्मकलिंगानि। (प्रदेशमात्रं।) प्रदेशमात्रन्तु निर्देक्ष्यामि। इहापरिनिर्व्वाणधर्मस्य पुद्गलस्यादित एवाल [ ] तृष्णा सर्व्वेण सर्व्वं सर्व्वथा च सर्व्वबुद्‍धैराश्रयसन्निविष्टा अप्रहाणधर्मिणी भवत्यनुत्पाद्‍या दूरागता प्रगाढसन्निविष्टा [इदं]। इदं प्रथम [म] गोत्रकस्थस्य पुद्गलस्य लिंगं॥ पुनरपरमगोत्रस्थः पुद्गलः अनेकपर्यायेण संसारगुणान् विचित्रान् प्रभूतांश्च श्रुत्वा निर्व्वाणगुणांश्चानेकपर्यायेण विचित्रान्। प्रभूतांश्च श्रुत्वा परीत्तमपि प्रपंचे संसारदोषदर्शनमादीनवदर्शनं। संवेगमात्रं नोत्पादितवानतीतमध्वानमुपादाय नोत्पादयिष्यत्यानागत [मध्वान] मुपादाय नोत्पादयति [वर्त] मानमध्वानमुपादाय परीत्तकल्पमात्रकमवरमात्रकं निर्व्वाणे, तृष्णाक्षये, विरागे, निरोधे गुणदर्शनमुशन्स (शंस) दर्शनं प्रसादमात्रकमतीतानागतप्रत्युत्पन्नमध्वानमुपादाय नोत्पादितवान्नोत्पादयिष्यति नोत्पादयति। इदं द्वितीयमगोत्रस्थ [स्य पुद्गलस्य] लिंगम्। पुनरपरमगोत्रस्थः पुद्गलः [अनेकपर्या] [येण..............] गामीदुः [खा] पत्राप्येण समन्वागतो भवति। येनायमघृणचित्तश्चासंकुचितचित्तश्च प्रहृष्टचित्तश्च सर्व्वस्यायमध्याचरति। न च कदाचित्तनि (न्नि) दानं विप्रतिसारी भवति। नान्यत्र // [।] [इदं तृतीयमगोत्रस्थं लिङ्गं [।]पुन] रपरम गोत्रस्थः सर्व्वाकारपरिपूर्ण्णे [अ] स्य (।) दो [ष] युक्ते चित्रे (त्ते) गमके दुःखं वा आरभ्य, समुदयं वा, निरोधम्वा, मार्गम्वा, सद्धर्मे देश्यमाने न लभते चेतस आवर्जनमात्रे कर्मणि, मुक्तिमात्रे [यदुताती] [तमध्वानमुपादायानागतमध्वानमुपादाय य] दुत प्रत्युत्पन्नमध्वानमुपादाय। इदं चतुर्थमगोत्रस्थं लिंगं। पुनरपरमगोत्रस्थः पुद्गलः स चेत् कदाचित् कर्ह (र्हि)चित् स्वाख्याते धर्मविनये प्रव्रजति। स राजा भिनिर्णीतो वा, चो (चौ) राभिनिर्णीतो वा, ऋ[णा] र्तो वा, अजीविकामयभीतो वा, मा [रभयभीतो वा, अश्रमणः श्रमणप्रति] ज्ञः, अब्रह्मचारी ब्रह्मचारी (रि-) प्रतिज्ञः, अतीतानागतप्रत्युत्पन्नेष्वध्वस्वगोत्रस्थस्य पुद्गलस्यैवमेव प्रव्रज्या वेदितव्या। न वा शिक्षाकामस्य पुद्गलस्य प्रव्रज्योपसम्पद्भिक्षुभावः। तदनेन पर्यायेणानेनाभिसन्धिना अर्थतो नै [र्याणिकतो [अ]गोत्रस्थः पुद्गलः प्रव्रजित] इति संख्यां गच्छति। इदं पञ्चममगोत्रस्थस्य पुद्गलस्य लिंगम्॥ पुनरपरमगोत्रस्थः पुद्गलो यत्किंचित् कुशलं कर्म करोति। कायेन, वाचा, मनसा वा तत्सर्व्वं भवाभिप्रायो वा, विशिष्टमायतिपुनर्भवमभिप्रार्थयमानो भोगाभिप्रायो [वा भवति। इदं षष्ठमगोत्रस्थस्य पुद्गलस्य] लिंगं। एवंभागीयानि चास्य बहूनि लिङ्गानि सम्विद्यन्ते यैः समन्वागतः। अपरिनिर्व्वाणधर्मको [अ] परिनिर्व्वाणधर्म्मक इति संख्यां गच्छति॥

तत्र कतमे गोत्रस्थाः पुद्गलाः। आह। अस्ति गोत्रस्थः पुद्गलः। गोत्र एव स्थितो, नावतीर्ण्णो न निष्क्रान्तः [अवतीर्ण्णो न निष्क्रान्तः, अवतीर्ण्णो निष्क्रान्तो], मृद्विन्द्रियो, मध्येन्द्रियः, तीक्ष्णेन्द्रियः, रागचरितो, द्वेषचरितो, मोहचरितः। अक्षणोपपन्नः। अप्रमत्तः, मिथ्याप्रतिपन्नः, अमिथ्याप्रतिपन्नः, आवृतो [अ]नावृतः, दूरे, अन्तिके [।] परिपक्वश्चा [अ] परिपक्वश्च, विशुद्धश्चाविशुद्ध [श्च [।]॥

तत्र कतमो गोत्रस्थ एव पुद्गलः। आह।] यथापीहैकत्यः पुद्गलो लोकोत्तरधर्मबीजमोहागतो भवति। न च पुनरद्यापि लभते सत्पुरुषसंसेवां वागम्य, सद्धर्मश्रवणं वा, तथागतप्रवेदिते धर्मविनये श्रद्धां च शीलं च समाददाति। न श्रुतमुद्गृहणाति। न त्यागं बृंहयति, न दृष्टिमृजूक [रोति। अयमुच्यते गोत्रस्थ एव पुद्गलः॥

अ]स्य विपर्ययेण शुक्लपक्षेण गोत्रस्थश्चावतीर्ण्णश्च वेदितव्यः। अयन्तु विशेषो नो तु लाभी भवत्यार्यमार्गस्य। तत्फलस्य च क्लेश विसंयोगस्य॥

कतमो गोत्रस्थश्चावतीर्ण्णश्च निष्क्रान्तश्च॥ एतदेवोक्त्वा [अ]यं विशेषः [।] लाभी भवत्यार्यमार्गस्य तत्फलस्य च॥ [।]

[तत्र मृद्विन्द्रियः पुद्गलः कतमः। यस्य नात्यर्थं ज्ञेये वस्तुन्यालम्ब]ने अत्यर्थं धन्धवाहीनीन्द्रियाणि भवन्ति। मन्दवाहीनि वा [।] श्रुतमयेन वा, चिन्तामयेन वा, भावनामयेन वा मनसिकारेण संप्रयुक्तानि। यदुत श्रद्धा, वीर्यं, स्मृतिः, समाधिः। प्रज्ञा वा [।] न समर्थानि, न प्रतिबलानि धर्म्मस्य वा प्रतिवेधायार्थस्य वाशुच प्रतिवेधाय। अयमुच्यते मृद्विन्द्रियः पुद्गलः॥

मध्येन्द्रियः कतमः[।] यस्य नात्यर्थं ज्ञेये वस्तुन्यालम्बने धन्धवाहीनीन्द्रियाणि सर्व्वं पूर्व्ववद्विस्तरेण वक्तव्यमयमुच्यते मध्येन्द्रियः पुद्गलः॥

तीक्ष्णे[न्द्रियः पुद्गलः] कतमः [।] यस्य पुद्गलस्य ज्ञेये वस्तुन्यालम्बने [अ] धन्धवाहीनीन्द्रियाणि भवन्ति। अमन्दवाहीनि [।] श्रुतमयेन [वा, चिन्तामयेन वा, भावनामयेन वा मनसिकारेण संप्रयुक्तानि। यदुत श्रद्धा, वीर्यं, स्मृतिः,] समाधिः, प्रज्ञा वा [।] शक्तानि भवन्ति धर्मस्य प्रतिवेधाय, अर्थस्य वा आशु च प्रतिवेधाय। [तनु] वा [।] अयमुच्यते तीक्ष्णेन्द्रियः पुद्गलः [।]

रागचरितः पुद्गलः कतमः। यो रंजनीये आलम्बने तीव्ररागश्च भवत्यायतरागश्च, अयमुच्यते [रागचरितः पुद्गलः॥

द्वेषचरितः पुद्गलः कतमः। यः प्र] तिघस्थानीये आलम्बने तीव्रद्वेषश्च भवत्यायतद्वेषश्चायमुच्यते द्वेषचरितः पुद्गलः॥

मोहचरितः पुद्गलः कतमः। यो ज्ञेये वस्तुनि तीव्रमोहश्च भवत्यायतमोहश्चायमुच्यते मोहचरितः पुद्गलः॥

अक्षणोपपन्नप्रमत्त [मिथ्याप्रतिपन्नाश्च पुद्गलाः कतमे। अक्षणो] पपन्नाः प्रमत्तामिथ्याप्रतिपन्नानावृता (पन्ना अनावृता) वेदितव्या [ः]॥

दूरे पुद्गलः कतमः। अस्ति पुद्गलः कालदूरतया निर्व्वाणस्य दूरे। अस्ति प्रयोगदूरतया (।) तत्र कतमः कालदूरतया दूरे। अनेकैर्जातिशतैरनेकैर्जातिशतसहस्रैः [अनेक जातिशतसहस्रैः] ततः पश्चाद् भव्यो [भवत्याशुप्रत्ययलाभाय। परिनिर्व्वाणाय। तत्र। प्रयोगदूरतया पु] द्गलो गोत्र एव केवले स्थितो भवति। नावतीर्ण्णः। स भव्यो भवत्याशुप्रत्ययलाभाय। परिनिर्वाणाय[।] स निर्व्वाणायानारब्धप्रयोगदूरतया [दूरत्वात् प्रयोग] कालदूरतया अयमुच्यते दूरे पुद्गलः॥ आसन्ने पुद्गलः। .............................

अवतारभूमिः

........... यैः षड्भिर्भव्यो मृदुकुशलमूलसमन्वागतो मध्यकुशलमूलसमन्वागतः। अधिमात्रकुशलमूलसमन्वागतः। निष्ठाप्रायोगिको, निष्ठागतश्च।

तत्र कतमो भव्य एव पुद्गलः। यो गोत्रस्थान (नं) चा (भि) ध्यायि (यी) तत्प्रथमतस्तथागतप्रवेदिते धर्मविनये श्रद्धां प्रतिलभते। या च दृष्टिमृजूकरोति।

तत्र कतमो मृदुकुशलमूलसमन्वागतः। यो गोत्रस्थस्तेन वा तथागतप्रवेदिते धर्मविनये तत्प्रथमतः श्रद्धा प्रतिलब्धा भवति। यावद् दृष्टि ऋजूकृता [।] अयमुच्यते मृदुकुशलमूलसमन्वागतः [।]

मध्यकुशलमूलसमन्वागतो गोत्रस्थः पुद्गलस्तत्प्रथमतस्तथागतप्रवेदिते धर्मविनये श्रद्धां प्रतिलभ्य, यावद्दृष्टिमृजुं कृत्वा एकम्वा (कं वा), द्वे वा, सम्बहुलानि वा जन्मान्यभिनिर्व्वर्त्तयति। विशेषाये(यै) ति।

य [ः] परैति। नो चरममात्मभावं प्रतिलभते। यत्र स्थितः परिनिर्व्वात्ययमुच्यते। अधिमात्रकुशलमू लसमन्वागतः पुद्गलः।

तत्र कतमो निष्ठाप्रायोगिकः पुद्गलः। यः पुद्गलश्चरममात्मभावं प्रतिलभ्यास्रवक्षयाय सम्यगववादानुशासनीं, सद्धर्मश्रवणं वा प्रतिलभ्य सम्यगेव प्रयुज्यते। न चाध्मायि (यी?) सर्व्वेण सर्व्वं सर्व्वथा प्रतिपद्यते। आस्रवक्षयमनुप्राप्नोति। न निष्ठां गच्छत्ययमुच्यते निष्ठाप्रायोगिकः पुद्गलः।

तत्र निष्ठागतः पुद्गलः कतमः [।] यः सम्यगावेदितः सम्यगनुशिष्टः। यदुतास्रवक्षयाय तथा तथा प्रतिपद्यते। यत् सर्व्वेण सर्व्वं सर्व्वथा आस्रवक्षयमनुप्राप्नोति। कृतकृत्यो भवति परमशीतीभावप्राप्तः [।] अयमुच्यते निष्ठागतः पुद्गलः॥

तत्र भव्यजातीयः पुद्गलो गोत्रं निश्रित्य, गोत्रं प्रतिष्ठाय मृदूनि कुशलमूलानि प्रतिलभते। अवतीर्ण्णश्च भवति। सो[अ] वतीर्ण्णो मृदूनि कुशलमूलानि निश्रित्य, प्रतिष्ठाय, मध्यानि कुशलमूलानि प्रतिलभतेतैश्चात्मानम्परिपाचयति। स तथा परिपच्यमानो मध्यानि कुशलमूलानि निश्रित्य प्रतिष्ठायाधिमात्राणि कुशलमूलानि प्रतिलभते। परिपक्वश्च भवति। सो [अ]धिमात्रकुशलमूलहेतुसमुदागतेना [ऽऽ]त्मभावप्रतिलम्भेन यदा सम्भारञ्च समुदानयति। चित्तैकाग्रताञ्च स्पृशति। सम्यक्त्वञ्च न्याममवक्रामति। स्त्रोत आपत्तिफलम्वा, सकृदागामिफलं वा [अ]नागामिफलम्वा साक्षात्करोति। नो त्वग्रफलमर्हत्वं(त्त्वं) साक्षात्करोति। तदा निष्ठाप्रायोगिक इत्युच्यते।

यदा तु सर्व्वक्लेशप्रहाणमर्हत्वं (त्त्वं) साक्षात्करोति। तदा निष्ठागतो भवति॥

सैषा सादिमध्यपर्यवसाना सर्व्वश्रावकचर्या षड्भिः पुद्गलव्यवस्थानैः सन्दर्शिता भवति। तत्र गोत्रेणादि [ः] श्रावकचर्यायाः सन्दर्शितः। निष्ठाया (निष्ठया) पर्यवसानं। तदन्येन मध्यं संदर्शितं॥

तत्रावतीर्ण्णानां पुद्गलानां किं परिमाणनियतस्तुल्यश्च सर्व्वेषां कालो भवति। परिनिर्व्वाणाया होस्विदपरिमाणनियतः। अतुल्यनिश्चयः सर्व्वेषां कालो भवति। न परिनिर्व्वाणाय आहो नैषां परिमाणनियतः कालो नापि तुल्यः सर्व्वेषाम्परिनिर्व्वाणाय [।] अपि तु यथायोगमेषां यथाप्रत्ययलाभं परिनिर्व्वाणं वेदितव्यं। केषांचिच्चिरेण, केषांचिच्चातिचिरेण, केषांचित्पुनः क्षिप्रमेव परिनिर्व्वाणं भवत्यपि तु यो गोत्रस्थः पुद्गलः [स] सर्व्वक्षिप्रं परिनिर्व्वाति। सो[अ] वश्यं त्रीणि जन्मान्यभि निर्वर्त्तयति। एकस्मिन्नवतरत्येकस्मिं (स्मिन्) परिमुच्यते। एकास्मिं(स्मिन्) जन्मनि परिपक्वो भवति। तत्रैव च परिनिर्व्वाति। नो चेत् परिनिर्व्वाति। सो [अ]वश्यं शैक्षकालं करोति। परञ्च सप्तभवानभिनिर्व्वर्त्तयतीदमुच्यते अवतारव्यवस्थानं।

अवतीर्ण्णस्य पुद्गलस्य कतमानि लिंगानि। इह गोत्रस्थः पुद्गलः अवतीर्ण्णमात्र एव यदा जन्मान्तरपरिवर्त्तेनापि स्मृतिसंप्रमोषं प्रतिलभते। आशास्तरि धर्म्मविनये वा सति सम्विद्यमाने [अ]पि दुराख्याते धर्म्मविनये स्वाख्याते [अ] प्यनेकपर्यायेण दुराख्यातस्य धर्म्मविनयस्य वर्ण्णं स्तुतिमानुशन्सं(शंसं) श्रुत्वा नावतरति। न प्रव्रजति। प्रव्रजितो[अ] प्यवतीर्ण्णो लघु लध्वेव प्रत्युदावर्त्तखे। प्रकृत्यैव चास्य तत्रारोचकः संतिष्ठते। मधुनि जातस्येव च प्राणकस्य शुक्तिप्रक्षिप्तस्य कामोपभोगिनो वा कर्दे(न्दे ?)ण, स्यन्दनिकायाम्वा प्रक्षिप्तस्य यथापि तत्पूर्व्वकेणैव हेतुबलाधानेन स्वाख्यातस्य वा पुनर्धर्म्मविनयस्य नैव वर्ण्ण [ं] स्तुतिमानुशन्सं (शंसं) श्रृणोति वा कण्डति वा। अल्पमात्रमवरमात्रम्वा श्रुत्वा, अश्रुत्वा वा लघु लघ्वेवावतरति प्रव्रजति वा[।] तथा प्रव्रजितश्चावतीर्ण्णो न प्रत्युदावर्त्तते। प्रकृत्यैव चास्य तत्र रुचिः संतिष्ठते। मधुप्राणकस्य वा मधुनि, कामोपभोगिनो वा प्रणीतायां कामचर्यायां। यथापि तत्पूर्व्वकेणापि हेतुबलाधानेन। इदं प्रथममवतीर्ण्णस्य पुद्गलस्य लिङ्गम्॥

पुनरपरमवतीर्ण्णः पुद्गलः (लो) न तावद्विसंयुक्तो भवत्यपायक्षणगमनीयैः क्लेशैः। न च पुनरक्षणेपूपपद्यते। अवतीर्ण्णं च पुद्गलं सन्धायोक्तं भगवता।

सम्यग्दृष्टिरधिमात्रा लौकिकी यस्य विद्यते।
अपि जातिसहस्राणि नासौ गच्छति दुर्गतिम्॥

स यदा अधिमात्रेषु कुशलमूलेषु प्रतिष्ठो भवत्यनुपूर्व्वेण परिपाकगमनीयेषु तथा नाक्षणेषूपपद्यते[।] न त्वन्येषु। इदं द्वितीयमवतीर्ण्णस्य पुद्गलस्य लिङ्गम्।

पुनरपरमवतीर्ण्ण[ः] पुद्गलः बुद्धस्य वा, धर्म्मस्य वा, संघस्य वा गुणांच्छ्रुत्वा, अनुस्मृत्य वा, लभते चेतसः प्रसादमुदारं, कुशलं, नैष्क्रभ्योपसंहितं, भूयो भूयस्तेनालम्बनेन, प्रसादद्रवचित्ततया अस्त्रप्रपाताद्रोमांचा [दीनि] प्रतिलभते इदं तृतीयमवतीर्ण्णस्य पुद्गलस्य (पुद्गलस्य) लिङ्गम्।

पुनरपरमवतीर्ण्णः पुद्गलः प्रकृत्यैव तीव्रेण ह्रीव्यपत्राप्येण समन्वागतो भवति। यदुत सर्व्वसावद्‍द्यस्थानसत्ता (मु)दाचारेष्विदं चतुर्थमवतीर्ण्णस्य पुद्गलस्य लिङ्गम्॥

पुनरपरमवतीर्ण्णः पुद्गलः छन्दिको भवति। तीव्रछ (च्छ)न्दः उद्देशे, स्वाध्याये, परिपृच्छायां, योगे, मनसिकारे, किंकुशलगवेषी भवति। इदं पञ्चममवतीर्ण्णस्य पुद्गलस्य लिङ्गम्॥

पुनरपरमवतीर्ण्णः पुद्गलः सर्व्वकर्मान्तेष्वनवद्येषु स [र्व्व स]मादानेषु कुशलपक्षप्रयोगेषु दृढारम्भश्च भवति स्थिरारम्भश्च निश्चितारम्भश्च यदुत समागमाय [।] इदं षष्ठमवतीर्ण्णस्य पुद्गलस्य लिङ्गम्॥

पुनरपरमवतीर्ण्णः पुद्गलः मन्दरज [स्क] जातीयो भवति। मन्दमन्दं क्लेशपर्यवस्थानमुत्पादयति। न च पुनः प्रबन्धं स्थापयत्यशठश्च भवत्यमायावी निहतमदमानाहंकारगुणाभिनिविष्टो दोषद्वेष्टा[।] इदं सप्तममवतीर्ण्णस्य पुद्गलस्य लिङ्गम्॥

पुनरपरमवतीर्ण्णः पुद्गलोऽसंलीनचित्तो भवत्युदरेष्वधिगम्येषु स्थानेषु नात्मानम्परिभवति। नाप्रतिबलतायामवतरति। अधिमुक्तिबहुलो भवति। इदमष्टममवतीर्ण्णस्य पुद्गलस्य लिङ्गम्॥

इमान्येवंभागीयानि प्रभूतान्यवतीर्ण्णानां पुद्गलानां लिङ्गानि वेदितव्यानि॥ येषामेतत् प्रदेशमात्रमाख्यातं॥

पुनरेतानि लिङ्गानि मृदुकुशलमूलस्थस्यावतीर्ण्णस्य मृदूनि भवन्ति। सछि(च्छि) द्राण्यनिरन्तराणि अपरिशुद्धानि[।] मध्यकुशलमूलस्थितस्य मध्यानि, अधिमात्रकुशलमूलस्थितस्याधिमित्राणि, निरन्तराणि, परिशुद्धानीमान्युच्यन्ते अवतीर्ण्णस्य पुद्गलस्य लिङ्गानि। यैलिंगैः समन्वागत[ः] अवतीर्ण्ण इति संख्यां गच्छति। अपि पुनरेतानि गोत्रस्थानामवतीर्ण्णानाञ्च पुद्गलानां आनुमानिकानि लिङ्गानि वेदितव्यानि। बुद्धा एव तु भगवन्तः परमपारमि[ता] प्राप्ताश्च श्रावकास्तायिनः। तत्र प्रत्यक्षदर्शिनः। सुविशुद्धेन ज्ञानदर्शनेन प्रत्यनुभवन्ति। यदुत गोत्रं चावतारञ्च [॥]

अवतीर्ण्णाः पुद्गलाः कतमे [।] अस्त्यवतीर्ण्णः पुद्गलः। अवतीर्ण्ण एव, न परिपच्यमानो, न परिपक्वो, न निष्क्रान्तः॥ अस्ति परिपक्वो न निष्क्रान्तः। अस्ति निष्क्रान्तो न परिपक्व एषां च पूर्व्ववद्विभागो वेदितव्यः॥ ये[अ]पि तदन्ये मृद्विन्द्रिया दयः पुद्गलाः। गोत्रभूमौ निर्दिष्टाः। तेषामिहापि यथायोगं विभागो वेदितव्यः [।]

तत्र यश्चायमवतारस्य स्वभावः, यच्च व्यवस्थानं, यानि चेमान्यवतीर्ण्णानां लिङ्गानि। ये चेमे अवतीर्ण्णां पुद्गलाः तत्सर्व्वमभिसंक्षिप्यावतारभूमिरित्युच्यते॥

॥ उद्दानम्॥

स्वभावस्तद् व्यवस्थानं लिङ्गं पुद्गल एव च।
अवतारभूमिविज्ञेया सर्व्वमेतत् समासतः॥
॥श्रावकभूमा[व]वतारभूमिः समाप्ता॥

नैष्क्रम्यभूमिः

नैष्क्रम्यभूमिः कतमा। आह[।] यच्च लौकिकेन मार्गेण वैराग्यगमनं। यच्च लोकोत्तरेण मार्गेण वैराग्यगमनं। यच्च(यश्च) तयोस्सम्भारः तदेकत्यमभिसंक्षिप्य नैष्क्रम्यभूमिरित्युच्यते।

लौकिकेन मार्गेण वैराग्यगमनं कतमत्। यथापीहैकत्यः कामधातावौदारिकदर्शी भवति। प्रथम एव स समापत्त्युपपत्तिके ध्याने विवेकजे प्रीतिसुखे शान्तदर्शी भवति। स तथादर्शी तद्बहुलविहारी सत्कायवैराग्यमनुप्राप्नोति। प्रथमञ्च ध्यानं समापद्यते। एवं सर्व्वध्यानादूर्ध्वं सर्व्वास्वधरिमासु भूमिष्वौदारिकदर्शी भवति। सर्व्वासु चोपरिमायु भूमिषु शान्तदर्शी, स तथादर्शी तद्बहुलविहारी समानो यावदाकिञ्चन्यायतनाद्वैराग्यमनुप्राप्नोति। नैवसंज्ञानासंज्ञायतनं च समापद्यते[।] लौकिकेन मार्गेण वैराग्यगमनं नास्त्यत उत्तरि नातो भूयः।

लोकोत्तरेण मार्गेण वैराग्य गमनं कतमत्। यथापीहैकत्यः सत्पुरुषाणां दर्शी आर्यधर्मेषु कोविदः दुःखम्वा दुःखतो यथाभूतं प्रजानाति। समुदयम्वा समदयतः। निरोधम्वा निरोधतः। मार्गम्वा मार्गतः। शैक्षेण ज्ञानदर्शनेन समन्वागतः। ततश्चोत्तरि मार्गं भावयंस्त्रैधातुकेभ्यो दर्शनभावनाप्रहातव्येभ्योधर्मेभ्य आत्मानं विसंयोजयति विमोचयत्येवं चासौ त्रैधातुकसमतिक्रान्तो भवति। इदमुच्यते लोकोत्तरेण मार्गेण वैराग्यगमनम्॥

तत्र सम्भारः कतमः। तद्यथा आत्मस्वपरसम्पत् (आत्मसम्पत्)। परसम्पत्, कुशलः (लो)धर्म[च्] छन्दः, शीलसम्वरः, भोजने मात्रज्ञता, पूर्व्वरात्रापररात्रं जागरिकानुयुक्तता, संप्रजानद्विहारिता, कल्याणमित्रता, सद्धर्मश्रवणचित्तं (चिन्तना) अ[न]न्तरायः त्यागः, श्रमणालंकारश्च इतीमे धर्मा लौकिकलोकोत्तरवैराग्य [गम]नाय सम्भार इत्युच्यते। तत्र या चात्मसम्पत्, परसम्पत् कुशलश्च धर्मछ(च्छ)न्द एषां पूर्व्ववद्विभागो वेदितव्यः। यदुक्तं निहीने बीजसमुदागमप्रत्यये।

तत्र शीलसम्वरः कतमः[।] यथापीहैकत्यः शीलवान् विहरति यावत् समादाय शिक्षते शिक्षापदेषु[।] कथं च शीलवान् विहरति। यावत् समादाय शिक्षते शिक्षापदेषु[।] (कथं शीलवान् विहरति।) यथा समात्तेषु शिक्षापदेषु अविपन्नकायकर्मान्तश्च, भवत्यविपन्नकायकर्मान्तश्च। अखण्डचारी, अछि(च्छि)द्रचारी एवं शीलवान् भवति॥

कथं प्रातिमोक्षसम्वरसंवृतो भवति। सप्तनैर्याणिकं शीलं प्रातिमोक्षसम्वर इत्युच्यते। त एते निकायभेदेन बहवः सम्वरा भवन्ति। अस्मिंस्त्वर्थे भिक्षुसम्वरमधिष्ठायाह प्रतिमोक्षसम्वरसंवृतः।

कथमाचारसम्पन्नो भवति। यथापि तदीर्यापथमितिकरणीय(यं) वा, कुशलपक्षप्रयोगम्वा अधिष्ठाय लोकानुवर्त्तिना, लोकानुत्क्रान्तेन, विनयानुवर्त्तिना, विनयानुत्क्रान्तेन चाचारेण समन्वागतो भवति।

तत्र ईर्यापथाधिष्ठान आचारः। कथं न लोकानु(को) त्क्रान्तो [न] विन योत्क्रान्तः [।] यथापि तद्यत्र चंक्रमितव्यं। यथा चंक्रमितव्यं[।] तत्र यथा चंक्रम्यते (चंक्रमते) येन न लोकगर्हितो भवति, न सतां, सम्यग्रतानां, सत्पुरुषाणां, सहधार्मिकाणां, विनयधराणां, विनयशिक्षितानामबध्यो भवति। [अ] गर्ह्यस्थानीयः। यथा चंक्रम एवं स्थानं, निषद्या, शय्या वेदितव्या।

तत्र इतिकरणीय आचारः। कथं न लोकोत्क्रान्तो भवति। न विनयोत्क्रान्त इति करणीयमुच्यते। चीवराच्छादनं। उच्चारवस्त्रावं। उदकदन्तकाष्ठं। ग्रामप्रवेशः। पिण्डपातनिर्हारपरिभोगः। पात्रनिर्मार्द (र्ज)नं स्थापनं च। पादप्रक्षालनं च। शयनासनप्रज्ञप्तिः। तस्यैव चाभिसंक्षेपः पात्रकर्म्म चीवरकर्म्म इति। यद्वा पुनरेवंभागीयं किंचित्तदितिकरणीयमित्युच्यते। तच्च यथायोगं यत्र कल्पयितव्यं, यथा च कल्पयितव्यं तत्र तथा कल्पयति। येन लौकिकानामनभ (भि) योज्यो भवत्यविगर्हितः। विनयधराणां [विनयशिक्षिताना] मनपवाद्यो भवत्यविगर्हितः। सम्यग्रतानां सहधार्मिकाणामेवमितिकरणीयाधिष्ठान आचारो लोकानुत्क्रान्तो भवति। विनयानुत्क्रान्तश्च॥

तत्र कुशलपक्षप्रयोगधिष्ठान आचारः[।] कथं लोकानुत्क्रान्तश्च भवति, विनयानुत्क्रान्तश्च[।] कुशलपक्ष‍उच्यते[।] तद्यथा स्वाध्यायगुरूणां सामीचीकर्म, उपस्था(प) नं च, तथा ग्लानोपस्थानमन्यो[अ]न्यमनुकम्पाचित्तमुपस्थाप्य च्छन्ददान [स]मु [ ]प्रयोगः, परिपृच्छा, धर्मश्रवणदक्षस्यानलसस्य विज्ञानां सब्रह्मचारिणां कायेन चैया(चेर्या) कृत्यक्रिया, परेषां च कुशलपक्षसमुदापना, धर्मदेशना। प्रतिसंलयनप्रवेशपर्यङ्कनिबन्धानिषद्या इति य एवं भागीया अप्यन्ये धर्मा अयमुच्यते। कुशलपक्षप्रयोगः [।] स एवं कुशलपक्षप्रयोगो (गं) यथायोगं यथापरिकीर्तितं। यत्र कल्पयितव्यं तत्र तथा कल्पयति। येन नानुयोज्यो भवति। गर्हितो लौकिकानां विनयधराणां, विनयशिक्षितानां, सम्यग्रतानां, सत्पुरुषाणां, सहधार्मिकाणामयमुच्यते कुशलपक्ष प्रयोगाधिष्ठान आचार(रो) लोकानुत्क्रान्तो, विनयानुत्क्रान्तश्च[।] य एभिराकारैः सम्पन्न आचार इयमुच्यते आचारसम्पत्। एवं चाचारसम्पन्नो भवति।

कथञ्च गोचरसम्पन्नो भवति। पञ्च भिक्षोरगोचराः(।) कतमे पञ्च [।] तद्यथा घोषो, वेषं (वेश्या-)पानागारः, राजकुलं, चण्डालकठिनमेव पञ्चममिति। य एतांस्तथागतप्रतिक्षिप्तानगोचरान् वर्जयित्वा अन्यत्र गोचरे चरत्यनवद्ये तत्र कालेनैवं गोचरसम्पन्नो भवति॥

कथमणुमात्रेष्ववद्येषु भयदर्शी भवति। अणुमात्रमवद्यमुच्यते। क्षुद्राणु (नु) क्षुद्राणि शिक्षापदानि येष्वध्यापत्तिर्व्युत्थानं च प्रज्ञायते। तेषां याध्यापत्तिरिदमवद्यमणुमात्रं। पुनस्तथा हि तस्या अध्यापत्तेरल्पकृच्छेण व्युत्तिष्ठते येन तदणुमात्रमित्युच्यते।

तत्र कथं भयदर्शी भवति। सा है वाह(सोऽह) मेषामध्यापत्तिहेतोरभव्यो वा स्यामप्राप्तस्य प्राप्तये, अनधि[गतस्याधि] गमाय, असाक्षात्कृतस्य साक्षात्क्रियायै, अपायगो वा स्यामपायगामी, आत्मा वा मे अपवदेत्, शास्ता वा, देवता वा, विज्ञा वा, सब्रह्मचारिणो [अ] धर्मतया विगर्हयेयुः। दिग्विदिक्षु च मे पापको वर्ण्णकीर्त्तिशब्दश्लोको [अ] भ्युद्गच्छेत्स एभ्यो दृष्टधर्मसांपरायिकेभ्यस्तद्धेतुकेभ्यो वि[शि]ष्टेभ्यो धर्मेभ्यो भयदर्शी भवति। येन तानि क्षुद्राणु(नु) क्षुद्राणि शिक्षापदानि जीवितहेतोरपि न संधिभ्यो व्यापद्यते। कदाचित् कर्ह(र्हि) चित् स्मृतिसंप्रमोषादध्यापन्नः लघु लघ्वेव यथाधर्मं प्रतिकरोति व्युत्तिष्ठते[।] एवमणुमात्रेष्ववद्येषु भयदर्शी भवति।

कथं समादाय शिक्षते शिक्षापदेषु। आह[।] पूर्व्वमनेन प्रातिमोक्षसम्वरसमादानज्ञप्तिचतुर्थेन कर्म्मणा उपसम्पद्यमानेन कतिपयानां शिक्षापदानां शरीरं श्रुतं, सातिरेकं च तदन्यं दिवसं शिक्षापदशतं प्रातिमोक्षसूत्रोद्दिष्टं प्रतिज्ञयेवोपगतं सर्व्वत्र ल (ब्धा)ष्यामीति (लप्स्यामीति)। आचार्योपाध्यायानामन्तिकाच्छ्रुत्वा आलप्तकसं लप्तकसंस्तुतकमप्रियकानां(णाम्) अध्बरमासंगप्रातिमोक्षसूत्रोद्देशतः। ततश्च तेन सर्व्वशिक्षासमादानात् प्रातिमोक्षसम्वरः प्रतिलब्धस्तत उत्तरकालं येषु शिक्षापदेषु कुशलो भवति। तानि तावन्नाध्यापद्यते। अध्यापन्नश्च यथाधर्मं प्रतिकरोति। येषु पुनः शिक्षापदेषु कुशलो भवति। अव्युत्पन्नबुद्धिः। तानि पूर्व्वं प्रतिज्ञासमादानेन समादत्तान्येतर्हि व्युत्पत्तिकौशल्यतया समाददाति। तेभ्यः पूर्व्वं यथापरिकीर्त्तितेभ्यः स्थानेभ्य आचार्यस्य वोपाध्यायस्य वा पूर्व्ववत्। व्युत्पत्तिकौशल्यतया च पुनः समादाय, यथानुशिष्टः अन्यूनमधिकं शिक्षते। ते [षु गुरु] स्थानीयव्यपदिष्टेषु शिक्षापदेषु अविपरीतग्राही च भवत्यर्थस्य व्यंजनस्य च। एवं समादाय शिक्षते शिक्षापदेष्वयं तावद्विभंगः शीलसम्वरस्य विस्तरकृतः॥

तत्र कतमः समासार्थः। तथायं समासार्थस्त्रिलक्षण एव। शीलस्कन्धः परिदीपितो भगवता, तद्यथा‍अविप्रणाशलक्षणः, स्वभावलक्षणः, स्वभावगुणलक्षणश्च। यथा कथमिति यत्तावदाह शीलवान् विहरतीत्यनेन तावदविप्रणाशलक्षणं शीलसम्वरस्याख्यातं॥ यत्पुनराह प्राति मोक्षसम्वरसंवृत इति। अनेन स्वभावलक्षणमाख्यातं। यत्पुनराह। आचारगोचरसम्पन्नः। अनेन परमुपनिधाय, तथा समादत्तस्य प्रातिमोक्षसम्वरस्य गुणलक्षणमाख्यातं। तथापि परे तामाचारगोचरसम्पदमुपलभ्याप्रसन्नाश्च प्रसीदन्ति, प्रसन्नानां च भवति भूयोभावः। प्रसन्नाश्च प्रसन्नाधिकारं कुर्व्वन्ति। न च मनान्सि (मनांसि) प्रदूषयन्ति। नाव्वर्णं निश्चारयन्त्यन्यथा शीलसम्पन्नस्याचारगोचरसम्पन्नस्यायं पराधिपतेयो गुण आनुशन्सा (आनुशंसा) च भवेदेतद्विपर्ययेण वा (चा)स्य दोष एव भवेत्। यत्पुनराह। अणुमात्रेष्ववद्येषु भयदर्शी समादाय शिक्षते शिक्षापदेषु[।] अनेना[ऽ]ध्यात्माधिपतेयगुणानुशन्स(शंस)लक्षणमाख्यातं। तत्कस्य हेतोर्यदस्येद (म)माचारगोचरसम्पन्नः पराधिपतेयं गुणानुशन्सं (शंसं) प्रतिलभेत। अपि च। शीलं वि पातयित्वा (विपात्य) तद्धेतुस्तत्प्रत्ययमपायेषूपपद्यते। अभव्यताम्वा (तांवा) अप्राप्तस्य प्राप्तये पूर्व्वत्। यत्पुनरणुमात्रेष्ववद्येषु भयदर्शी भवति। प्रागेवाधि मात्रेष्वसमादाय च शिक्षते शिक्षापदेषु तस्मात्तद्धेतुस्तत्प्रत्ययं कायस्य भेदात् सुगतावुपपद्यते। भव्यो वा भवत्यप्राप्तस्य प्राप्तस्य प्राप्तये पूर्व्व[व] दनेन कारणेना ध्यात्माधिपतेयो (अ)यं शीलसम्वरस्य गुणानुशंस इत्युच्यते॥

अपरः पुनः पर्यायः [।] समासतो भगवता समादत्तशीलता परिदीपिता, नैर्याणिकशीलता च, शीलभावना च [।] तत्र यत्तावदाह। शीलवान्विहरतीत्यनेन समादत्तशीलता [ऽऽ] ख्याता। यत् पुनराह। प्रातिमोक्षसम्वरसंवृत इत्यनेन नैर्याणिकशीलता आख्याता[।] तथा हि प्रातिमोक्षसम्वरसंगृहीतं शीलमधिशीलं शिक्षेत्युच्यते। अधिशीलं च शिक्षां निश्रित्य, अधिचित्तं च, अधिप्रज्ञं च शिक्षां भावयत्येवमसौ सर्व्वदुःखक्षयाय। निर्यातो भवति। यदुताधिशीलं प्रतिष्ठाय पूव्वंगमं कृत्वा तस्मात् प्रातिमोक्षसंवरो नैर्याणिकं शीलमित्युच्यते। यत्पुनराह। आचारगोचरसम्पन्नः अणुमात्रेष्ववद्येषु भयदर्शी समादाय शिक्षते शिक्षापदेष्वनेन शीलभावना आख्याता। एभिराकारैस्तत्प्रातिमोक्षसम्वरशीलम्भावयितव्यं। एवं च भावितं सुभावितं भवतीति स एष एकः शीलसम्वरः षडाकारदेशनाप्रत्युपस्थानो वेदितव्यः॥

स चैष शीलसम्वरो दशभिराकारैर्विपन्नो वेदितव्यः। विपर्ययाद्दशभिश्चैव कारणैः सम्पन्नः।

कतमैर्दशभिः कारणैर्विपन्नो भवति। आदित एव दुर्गृहीतो भवत्यतिलीनो भवत्यनिसृतो भवति, प्रमादकौसीद्यपरिगृहीतो भवति। मिथ्या प्रणिहितो भवति। आचारविपत्त्या परिगृहीतो भवत्याजीवविपत्त्या परिगृहीतो भवत्यन्तद्वयपतितो भवति॥ अनैर्याणिको भवति। समादानपरिभ्रष्टश्च भवति॥

तत्र कथमादितो दुर्गृहीतं शीलं भवति। यथापी हैकत्यो राजाभिनिर्ण्णीतो वा, प्रव्रजितश्चौराभिनिर्ण्णीतो वा, ऋणार्त्तोवा, भयार्त्तो वा, वा, अ(आ) जीविकाभयभीतो वा, न श्रामण्याय, न ब्राह्मण्याय, नात्मशमाय, नात्मदमाय, नात्मपरिनिर्व्वाणायैवमादित [ः।] दुःगृहीतो (दुर्गृहीतं) भवति।

कथमतिलीनो (नं) भवति। यथापीहैकत्यः अलज्जी भवति मन्दकौकृत्यः। शैथिलिकः शिथिलकारी शिक्षोपदिष्टे [अ] यमतिलीनो (नं) भवति॥

कथमतिसृतो (तं) भवति। यथापीहैकत्यो दुर्गृहीतग्राही भवत्यस्थानकौकृत्यः। सौकृत्यकरणीयेषु स्थानेषु कौकृत्यायमानः [।] अस्थाने परेषामन्तिके परिभवचित्तं वा आख्यातं वोत्पादयति। प्रवेदयत्येवमतिसृतं (भवति)।

कथं प्रमादकौसीद्यपरिगृहीतं भवति। यथापीहैकत्यो [अ] तीतमध्वानमुपादायापत्तिमापन्नः [।] सा चानेन स्मृतिसंप्रमोषादेकत्या न यथाधर्मं प्रतिकृता भवति। यथा अतीतमध्वानमुपादाय एवमनागतं वर्तमानमध्वानमुपादाय यामापत्तिमापन्नो भवति। सा चानेन स्मृतिसंप्रमोषादेकत्या न यथाधर्मप्रतिकृता भवति। न च पूर्व्वमेवापत्तेरायत्यामनध्यापत्तये तीव्रमौत्सुक्यमापद्यते। यन्न्वहं तथा तथा चरेयं, यथा यथा चरन् विहरंश्चापत्तिं नाध्यापद्येय, तथा च, तथा चरति, विहरति। यथापत्तिमध्यापद्यते। सो [अ]नेन पूर्व्वान्तसहगतेनापरान्तसहगतेन, मध्यान्तसहगतेन, पूर्वकालकरणीयेन सहानुचरेण प्रमादेन समन्वागतो निद्रासुखं, शयनसुखं, पार्श्वसुखं च स्वीकरोति। अदक्षश्च भवत्यलसः, अनुत्थानसंपन्नः, न कर्ता भवति विज्ञानां सब्रह्मचारिणां कायेन वैयापृत्यमेवं (व्यापृत्यैवं) प्रमादकौसीद्यपरिगृहीतं भवति॥

कथं मिथ्याप्रणिहितं भवति। यथापीहैकत्यः प्रणिधाय ब्रह्मचर्यं चरति। अनेनाहं शीलेन वा, ब्रतेन वा, तपसा वा, ब्रह्मचर्यवासेन वा, देवो वा स्यां, देवान्यतमो वा, लाभ सत्कारकामो भवति। परतः लाभसत्कारं प्रार्थयते। लाभसत्कारस्य स्पृहयति। एवं मिथ्याप्रणिहितं भवति।

कथमाचारविपत्त्या परिगृहीतं भवति। यथापीहैकत्य ईर्यापथं वाधिष्ठाय इतिकरणीयम्बा कुशलपक्षप्रयोगं वा लोकोत्क्रान्तश्च भवति। विनयोत्क्रान्तश्च पूर्व्ववदेवमाचारविपत्त्या परिगृहीतं भवति।

कथमाजीवविपत्त्या परिगृहीतं भवति। यथापीहैकत्यो महेच्छो भवत्यसंतुष्टः, दुर्म्मोषो, दुर्घरजातीयः [।] स चाधर्मेण चीवरं पर्येषते। न धर्मेणा [अऽ] धर्मेण पिण्डपातं, शयनासनं, ग्लानप्रत्ययभैषज्यपरिष्कारम्पर्येषते। न धर्मेण[।]स च चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारहेतोः आत्मनो गुणसंभावनानिमित्तमप्राकृतं तिठपित मीर्यापथं कल्पयत्यनुद्धतेन्द्रियतामचपलेन्द्रियतां, शान्तेन्द्रियताञ्च परेषामुपदर्शयति। येनास्य परे गुणसंभावना जाता दातव्यं कर्तव्यं मन्यन्ते। यदुत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान्। ध्वाङ्क्षश्च भवति, मुखरः। प्रगल्भः, केलायिता, नामगोत्रोद्गृहीता, बहुश्रुतो भवति। धर्मधरो, ला[।]भकारणादेव च परेषां धर्मं संलपति, श्रावकभाषितं वा, आत्मनो वा गुणान्, भूतान्वा कि[ञ्चिद्वा] पुनः समारोप्य स्वयमेव वक्ता भवति। लापयति वा परैरनुत्तरेण वा उपदर्शयिता, चीवरार्थी वा, अन्यतमान्यतमेन वा श्रामणकेन परिष्कारेणार्थी, प्रभूतेन वा, अग्रतरेण वा, अविहन्यमानो[ऽ]पि प्राकृतस्य चीवरस्योपदर्शयिता भवति। अस्येच्छन् श्राद्धा ब्राह्मणगृहपतयः चीवरेण विघातं संलक्षयित्वा (संलक्ष्य) प्रभूतं प्रणीतं चीवरं दातव्यं कर्तव्यं मंस्यते(न्ते)। यथा चीवरमेवमन्यतमान्यतमं श्रामणकं जीवितपरिष्कारं श्राद्धानाञ्च ब्राह्मणगृहपतीनामन्तिकाद्यथाकामं वा अलभमानः, असत्सु वा [अ]संविद्यमानेषु भोगेष्वलभमान एवंचोपरोधेन याचते। निष्पिष्य निष्पियामि (पि)चैनां परुषयत्यपि हीनम्वा पुनर्लब्ध्वा तथा संविद्यमानेषु भोगेषु तं लाभं मन्स (मंस) यत्यवसादयति। संमुखं च दातारं दानपतिं, एवं चाह [।] हं भोः, कुलपुत्र, सन्त्येके कुलपुत्राः कुलदुहितरश्च ये तवान्तिका नीचकुलीनतराश्च [दरिद्रतराश्च] ते पुनरेवं चैवञ्च प्रणीतदायिनो मन आपदायिनश्च। कस्मात्त्वं तेषामन्तिकादुच्चकुलीनतराश्चान्यतरश्च समान एव समनाप (मन आप)दायी, नाप्रणीतपरीत्तदायी चेति। य एभिराकौरः कुहनाम्बा निश्रित्य, लपनाम्वा, नैमित्तिकताम्वा, नैष्पेषिकताम्वा, लाभेन लाभं निश्चिकीर्षतां, चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान् परतः पर्येषते। सो[अ]धर्मेण[।] यः पुनरधर्म्मेण सो [अ]स्य भवति मिथ्याजीवः। एवं तच्छीलमाजीवविपत्त्या परिगृहीतं भवति।

कथमन्तद्वयपतितं भवति। यथापीहैकत्यः कामसुखल्लिकानुयुक्तो भवत्यध्यवसिततांपरः। प्रतिलब्धान्धर्मेण वा अधर्मेण वा चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान् परिभुङ्क्ते। आदीनवादर्शी निःसरणमप्रजानन्नयमुच्यते एको[अ]न्तः। पुनरपरमिहैकत्य आत्मक्लमथानुयुक्तो भवत्यनेकपर्यायेणात्मानमातापयति, सन्तापयति। कष्टव्रतसमादायी च भवति। तद्यथा कण्टकापाश्रयो वा भवति। भस्मादायी मुसलापाश्रयः। फलकापाश्रयो भवति। उत्कुहकस्थितो भवत्युत्कुहकप्रहाणयोगमनुयुक्तः [।] अग्निपरिचारको भवति। यावत् त्रिरप्यग्निं परिच[रति] उदकमध्याहारो भवति। यावत् त्रिरप्युदकमध्यावै(व)हति। एकपादकः स्थित्वा यतः सूर्यस्ततः परिवर्तते। इति यो वा पुनरप्येवंभागीय आत्मकक्लमथानुयोगः अयमुच्यते द्वितीयो[अ]न्तः। ए[वमन्त]द्वयपतितं भवति।

कथमनैर्याणिकं भवति। यथापीहै कत्यः शीलं वा व्रतम्वा दृष्ट्या परामृशति। अनेनैव शीलेन वा व्रतेन वा शुद्धिर्भविष्यति। मुक्तिर्निर्याणं भविष्यतीति। सर्वं च शीलमितो बाह्यानां सुरक्ष(क्षि)तमपि सुविशुद्धमपि तदुपमया विशुद्ध्या अनैर्याणिकमित्युच्यते। एवमनैर्याणिकं भवति।

कथं समादानपरिभ्रष्टं भवति। यथापीहैकत्यः सर्व्वेण सर्व्वमलज्जी भ भवति निरपेक्षः। श्रामण्ये स च भवति। दुःशीलः पापधर्मा अन्तः पूतिरवस्रुतः कशम्बोदकजातः। शंखस्वरसमाचारः। अश्रमण[ः] श्रमणप्रतिज्ञः अब्रह्मचारी ब्रह्मचारिप्रतिज्ञ एवं समादानपरिभ्रष्टं भवति।

एभिर्दशभिः कारणैर्विपन्न (न्नं)शीलं शीलविपत्तिरित्युक्ता भगवता [।]

अपिच शीलाभ्यसनमप्युक्तं भगवता [।]द(त)च्च एभ्यः कारणेभ्यो द्वाभ्यां कारणाभ्यां वेदितव्यम्। या चानैर्याणिकता, यश्च समादानभ्रंशः तदन्यैश्च कारणैः शीलविपत्तिरेव वेदितव्या। एषामेव च कृष्णपक्षव्यवस्थितानां कारणानां विपर्ययेण शुक्लपक्ष्यः कारणैः शीलसम्पत्तिर्वेदितव्या। शीलविशुद्धिश्च[।] क्वचित् पुनर्भगवताशीलं मूलार्थेनोक्तं। यथोक्तं—

सुप्रतिष्ठितमूल [ः] स्याच्चित्तस्योपशमे रतः।
संयुक्ता च विसंयुक्ता दृष्‍ह्यादृष्‍ह्यार्यपापयेति गाथा॥

क्वचिदलंकार शब्देनोक्तं। यथोक्तं शीलालंकारसम्पन्नो भिक्षुर्व्वा भिक्षुणी वा अकुशलं प्रजहाति कुशलं भावयति। क्वचिदनुलेपनशब्देनोक्तं। यत्राह। शीलानुलेपनसम्पन्नो भिक्षुर्व्वा भिक्षुणीवेति पूर्व्ववत्। क्वचिद्गन्धशब्देनोक्तं। अस्ति तद्दानं यद्गन्धजातं यस्यानुवातमपि गन्धो वाति प्रतिवाम(त)मप्यनुवातमपि गन्धो वाति। क्वचित् सुचरितशब्देनोक्तं। यत्राह। कायसुचरितस्येष्टो विपाको दृष्टे धर्मे अभिसंपराये च एवं वाक्सुचरितस्य [।] क्वचित्सम्वरशब्देनोक्तम्। यत्राह। दाता दानपतिः शीलवान् भवति। सम्वरस्थायी आगमदृष्टिः फलदर्शी। अपिचोक्तं। शीलवान् विहरति। प्रातिमोक्षसम्वरसंवृत इति विस्तरः।

केन कारणेन भगवता शीलं मूलशब्देनोक्तम्। प्रतिष्ठार्थं आधारार्थो मूलार्थः। तच्चैतच्छीलं सर्व्वेषामेव लौकिकलोकोत्तराणां [शुद्धाना] मनवद्यानामग्र्‍याणां प्रवराणां सुखाहाराणां, प्रतिष्ठास्थानीयं चोत्पत्तये, प्रतिलंभाय तस्मान्मूलशब्देनोच्यते। तद्यथा पृथिवी प्रतिष्ठा भवत्याधार[स्तृणगु] ल्मौषधिवनस्पतीनामुत्पत्तये एवमेव शीलम्बिस्तरेण पूर्व्ववद्वाच्यम्।

केन कारणेन शीलमलंकारशब्देनाख्यातं। आह। यानि तदन्यानि भूषणानि तद्यया हर्षम्वा, कटाहा वा, केयूरा वा, मुद्रिका वा, जातरूपरजतमाला वा तानि यावदयं दह्रो भवति। शिशु[ः] कृष्णकेशः प्रत्यग्रयौवनसमन्वागतः तावदस्य विभूषणानि प्रावृतानि शोभामात्रां जनयन्ति। न त्वेवं पुनर्जीर्ण्णस्य, वृद्धस्य, महल्लस्याशीतिकस्य वा, नावतिकस्य वा, शण्डदन्तस्य, पलितशिरसो, नान्यत्र तैर्विभूषणैः प्रावृतैः स विडम्वित इव ख्याति। आरोग्यव्यसने वा, भोगव्यसने वा, ज्ञातिव्यसने वा प्रत्युपस्थिते न शोभते। शीलं पुनः सर्व्वेषां सर्व्वकालञ्च शोभाकारं भवति। तस्मादलंकारशब्देनोच्यते॥

केन कारणेनशीलमनुलेपनशब्देनोक्तम्। तत्र बहुकुशलमनवद्यं शीलसमादानं सर्व्वदौःशील्यसमादानहेतुकं कायपरिदाहं चित्तपरिदाहं अपनयति। घर्माभितप्तस्य उत्तमग्रीष्मपरिदाहे काले प्रत्युपस्थिते चन्दनानुलेपनं वा कर्पूरानुलेपनं वा अनेन कारणेन शीलमनुलेपनशब्देनोच्यते॥

केन कारणेन शीलं गन्धजातशब्देनोच्यते। शीलवतः खलु पुरुषपुद्गलस्य दिग्विदिक्षु कल्याणः (णं) कीर्त्तियशः शब्दश्लोको निश्चरति। विविधानाम्वा मूलगन्धजातानां, सारगन्धजातानाम्वा, पुष्पगन्धानाम्वातेरितानां दिग्विदिक्षु मन आपो गन्धो निश्चरति। अनेन कारणेन शीलं गन्धजातशब्देनोच्यते॥

केन कारणेन शीलं सुचरितशब्देनोच्यते। सुखगामिनी एषा चर्या स्वर्गगामिनी सुगतिगामिनी एषा चर्या। तस्मात् सुचरिंतमित्युच्यते॥

केन कारणेन शीलं सम्वरशब्देनोच्यते। निवृत्तिस्वभाव एष धर्मो निवृत्तिलक्षणो विरतिस्वभावः। तस्मात् सम्वरशब्देनोच्यते। अस्य खलु शीलसम्वरस्य त्रिविधा प्रत्यवेक्षा परिशुद्धिनिमित्तं [।] कतमा त्रिविधा [।] यदुत कायकर्मप्रत्यवेक्षा, वाक्कर्मप्रत्यवेक्षा, मनःकर्मप्रत्यवेक्षा।

[तत्र च पुनरेतानि] कर्माणि प्रत्यवेक्षमाण[ः]शीलसम्वरं परिशोधयति। यत्कर्म कायेन प्रणिहितं भवति कर्त्तुं तदेव प्रत्यवेक्षते। किन्नु व्याबाधिकं मे एतत् कार्य कर्म आत्मना अन्तरायः

परेषा [मकु] शलं दुःखोदयं दुःखविपाकमाहोस्विदव्याबाधिकं मे एतत् कायकर्मात्मनः परेषां कुशलं सुखोदयं सुखविपाकं स चेत्स एवं प्रत्यवेक्षमाणो जानाति व्याबाधिकं मे एतत्कायकर्मात्मनो वा, परस्य वा अकुशलं [रागोदयं, रागविपाकं, स चेत्स एवं प्रत्यवेक्षमाणो न च] रति। तत्कर्म न करोति। नानुप्रयच्छति। स चेत्पुनर्जानात्यव्याबाधिकं मे एतत् कायकर्म कुशलं पूर्व्ववत स करोति। तत् कायेन कर्म न प्रतिसंहरति, अनुप्रयच्छति। यदप्यनेनातीतमध्वानमुपादाय कायेन कर्म कृतं भवति। तदप्यभीक्ष्णं प्रत्यवेक्षते। किन्तु व्याबाधिकं मे एतत् पूर्व्ववत्। स विज्ञानां सब्रह्मचारिणां सचेत् स ए[वं] प्रत्यवेक्षमाणो [जानाति व्याबाधिकं] मे एतत् कर्म्म पूर्व्ववत्। सविज्ञानां सब्रह्मचारिणामन्तिके प्रतिसंहरति। अनुप्रयच्छति। यदप्यनेनातीतमध्वानमुपादाय कायेन कर्म कृतं भवति। तदप्यभीक्ष्णं प्रत्यवेक्षते [।] किन्नु व्याबाधिकं मे एतत् पूर्व्ववत्। सविज्ञानां सब्रह्मचारिणा[मन्तिके] सचेत् स एवं प्रत्यवेक्षमाणो जानाति व्याबाधिकं मे एतत् कर्म पूर्व्ववत् [।] स विज्ञानां सब्रह्मचारिणामन्तिके प्रतिदेशयति, यथाधर्म प्रतिकरोति। स चेत् पुनरेवं प्रत्यवेक्षमाणो जानात्यव्याबाधिकं मे एतत् कायकर्म पूर्व्ववत् [।] स तेनैव प्रीतिप्रामोद्येनाहोरात्रानुशिक्षी बहुलम्विहरत्येवमस्य तत्कायकर्म सुप्रत्यवेक्षितं च भवति। सुविशोधितं च। यदुतातीतानागतप्रत्युत्पन्नेष्वध्वसु[।] यथा कायकर्म एवं वाक्कर्म वेदितव्यं। अतीतान् संस्कारान् प्रतीत्योत्पद्यते मनः। अनागतान्, प्रत्युत्पन्नान् संस्कारान् प्रतीत्योत्पद्यते मनः। तन्मनो[अ]भीक्ष्णं प्रत्यवेक्षते [।] किन्नु व्याबाधिकं मे एतन्मनः पूर्व्ववत्। यावन्नोत्पादयति। प्रतिसंहरति, नानुप्रयच्छति। तन्मनस्कर्म [।] शुक्लपक्षेण पुनरुत्पादयति, न प्रतिसंहरति, अनुप्रयच्छतितन्मनस्कर्म। एवमनेन तन्मनः कर्म प्रत्यवेक्षितं भवति। सुपरिशोधितं। यदुतातीतानागतप्रत्युपन्नेष्वध्वसु [।] तत्कस्य हेतोरतीते [अ]प्यध्वनि अनागते[अ]पिप्रत्युत्पन्ने [अ]पि ये केचिच्छ्रमणा वा, ब्राह्मणा वा, कायकर्म, वाक्ककर्म, मनस्कर्म प्रत्यवेक्ष्य परिशोध्य, परिशोध्य, बहुलं व्याहार्षुः, सर्व्वे ते एवं प्रत्यवेक्ष्य, परिशोध्य च [।] यथोक्तं भगवता आयुष्मन्तं राहुलमारभ्य।

कायकर्माथ वाक्कर्म मनस्कर्म च राहुल।
अभीक्ष्णं प्रत्यवेक्षस्व स्मरन् बुद्धानुशासनम्॥

एतच्छ्रामणकं कर्म अत्र शिक्षस्व राहुल।
अत्र ते शिक्षमाणस्य श्रेय एव न पापकम्॥

तत्र यदेवं विचिनोति तत् कायकर्म, वाक्ककर्म, मनस्कर्म किं व्याबाधिकं मे इति विस्तरेण पूर्व्ववदियं प्रत्यवे [क्षणा] [।] यत्पुनरेकत्यं प्रतिसंहरति प्रतिदेशयत्येकत्यमनुप्रयच्छति। तेनैव प्रीतिप्रामोद्‍येनाहोरात्रानुशिक्षी बहुलं विहरतीयमुच्यते परिशोधना [।]

तत्रैवं परिशुद्धस्य शीलसम्वरस्य दशानुशन्सा(शंसा) वेदितव्या [ः।] कतमे दश। इह शीलवां (वान्) विहरति पुरुषपुद्गलः शीलविशुद्धिमात्मनः प्रत्यवेक्षमाणः अविप्रति [सारं प्र] तिलभते। अविप्रतिसारिणः प्रामोद्यं प्रमुदितचित्तस्य प्रीतिर्जायते। प्रीतमनसः कायःप्रश्रभ्यते। प्रश्रब्धकायः सुखं वेदयते। सुखितस्य चित्तं समाधीयते। समाहितचित्तो यथाभूतं प्रजानाति। यथाभूतं पश्यति। यथाभूतं जानन् पश्यन्निर्विद्यते [।]निर्व्विण्णो विरज्यते, विरक्तो विमुच्यते, विमुक्तस्य विमुक्ति [ः] स्मृतिर्ज्ञा(विमुक्तिज्ञा)नदर्शनं भवति। यावन्निरुपधिशेषे निर्व्वाणधातौ परिनिर्व्वाति। यच्छीलवान् पुरुषपुद्गलः शीलविशुद्धय्‍धियतेयमविप्रतिसारं प्रतिलभते। अनुपूर्व्वेण यावन्निर्वाणगमनायायं प्रथमः शीलानुशन्सः (शंसः)। पुनरपरं शीलवां (वान्) पुरुषपुद्गलः मरण कालसमये प्रत्युपस्थिते, कृतं एतन्मे सूक्तं त [......] (सुचरितं) कायेन वाचा मनसा न कृतं एतन्मे दुश्चरितं कायेन पूर्व्ववत्। इति या गतिः। कृतपुण्यानां कृतकुशलानां कृतभयभीरूप्राणानां तां गतिं प्रेत्य गमिष्यामीति द्वितीयमविप्रतिसारं प्रतिलभते (।) सुगतिगमनाय, अविप्रतिसारिणो हि पुरुषपुद्गलस्य भद्रकं मरणं भवति। भद्रिका कालक्रिया भद्रको[अ]भिसम्परायः। अयं द्वितीयः शीलानुशन्सः (शंसः)॥

पुनरपरं शीलवतः पुरुषपुद्गलस्य कल्याणो वर्ण्णः कीर्तिर्यशः [ः] शब्दश्लोको निश्चरति। अयं तृतीयः शीलानुशन्सः (शंसः)॥

पुनरपरं शीलवान् पुरुषपुद्गलः सुखं स्वपिति सुखं प्रतियुज्यते। निष्परिदाहेन कायेन चित्तेन चायं चतुर्थः शीलानुशन्सः (शंसः)।

पुनरपरं शीलवां (वान्) पुरुषपुद्गलः सुप्तो [अ]पि देवानां रक्ष्यो भवति। अयं पञ्चमः शीलानुशन्सः (शंसः)॥

पुनरपरं शीलवान् पुरुषपुद्गलः न शंकी भवति। परतः पापस्य, न भीतेश्च संत्रस्तमानसः [।] अयं षष्ठः शीलानुशन्सः (शंसः)॥

पुनरपरं शीलवां(वान्) पुरुषपुद्गलः बधकानां प्रत्यर्थिकानामपि प्र--त्राणां छिद्रप्राप्तो[अ]पि रक्ष्यो भवति। सर्वदायं पुरुषपुद्गल इति विदित्वा मित्रताम्वा[ऽऽ]पद्यन्ते (ते)मध्यमस्थताम्वा [।]अयं सप्तमः शीलानुशन्सः॥

पुनरपरं पूर्व्वबह्वास्थानानां यक्षाणां निवासिकानाममनुष्याणां छिद्रप्राप्तो[अ]पि रक्ष्यो भवति। यदुत तदेव शीलमधिपतिं कृत्वा [।] अयमष्टमः शीलानुशन्सः (शंसः)॥

पुनरपरं शीलवान् पुरुषपुद्गलः धर्मेणाल्पकृच्छ्रेण परतो लाभं लभन्ते (लभते)। यदुत चीवरपिण्डपातशय नासनग्लानप्रत्ययभैषज्यपरिष्कारान्यदुत शीलाधिका (क) रणहेतोः सत्कृतश्च भवति। गुरुकृतो राज्ञां राजामात्राणां नैगमजानपदानां धनिनां श्रेष्ठिनां सार्थवाहानां [।] अयं नवमः शीलानुशन्सः (शंसः)॥

पुनरपरं पूर्व्ववत्सर्व्वप्रणिधानानि समृध्यन्ति। स चेदाकांक्षते कामधातौ क्षत्रियमहासालकुलानां, ब्राह्मणमहासालकुलानाम्वा, गृहपतिमहासालकुलानां वा चातुर्महाराजकाणि कानाम्वा (चातुर्महाराजिकाणां वा) देवानां, त्रा (त्र) यस्त्रिंशानाम्वा, यामानां, तुषितानां, निर्माणरतीनां, परनिर्मितवशवर्त्तिनां देवानां सभागतोयोपपहो (सभागतायामुपपन्नो) यथापि तद्विशुद्धत्वाच्छीलानां समदानां अत्यर्थजातं ध्यानानि च समापद्य दृष्टे धर्मे सुखं विहरेयं। रूपोपमानां च देवानां सभागतायोपपद्येय (यामुपसम्पद्येय) विहरे [य एत]द्यश एतच्च शीलवतो वीतरागस्य प्रणिधानं समृध्यति। स चेदाकांक्षते। .......... विमोक्षा............ स्याद्वोपसम्पद्य विहरेयं। आरूप्योपगतानाम्वा देवा [नां स] भागतायो (यामु)पपद्येय पूर्व्ववत्॥ स चेदाकांक्षते अत्यन्तनिष्ठनिर्व्वाणमधिगच्छेयमित्यधिगच्छति॥ (तद्गति) शुद्धत्वाच्छीलानां सर्व्वत्र च वीतरागस्य [।] अयं दशमः शीलानुशंसो वेदितव्यः॥

निर्दिष्टः शीलस्कन्धो विभागशः, निर्दिष्टा विपत्तिसम्पत्तिः। निर्दिष्टानि पर्यायनामानि। निर्दिष्टा परिशुद्धिप्रत्यवेक्षा, निर्दिष्टो[अ]नुशंसः॥

स एष सर्व्वाकारपरिपूर्ण्णः शीलसम्वरः संभारपरिगृहीत आख्यातः कथिमो (तो) विवृतः प्रकाशितो यत्रात्मकामैः श्रामण्यब्राह्मण्यकामैः कुलपुत्रैः शिक्षितव्यं॥

॥उद्दानं॥

विभंगस्त्रिविधो ज्ञेयः सम्पद् दशविधा भवेत्।
पर्यायश्च षडाकारो विशुद्धिस्त्रिविधा मता।
अनुशन्सो (शंसो) दशविधः एषो[ऽ]सौ शीलसम्वरः॥

इन्द्रियसम्वरः कतमः। यथापीहैकत्यः इन्द्रियैर्गुप्तद्वारो विहरत्यारक्षितस्मृतिर्निपकस्मृतिरित्ति विस्तरः। तत्र कथमिन्द्रियैर्गुप्तद्वारो विहरत्यारक्षितस्मृतिर्भवति। निपकस्मृतिरिति विस्तरेण यावद्ररक्षति मन इन्द्रियं मन इन्द्रियेण [।] स एवं समापद्यते। एवमिन्द्रियैर्गुप्तद्वारो विहरति।

तत्र कथमारक्षितस्मृतिर्भवति। यथापीहैकत्येनेन्द्रियगुप्तद्वारतामेवाधिपतिं कृत्वा श्रुतमुद्गृहीतं भवति। चिन्तितम्वा पुनर्भावितम्वा। तेन च श्रुतचिन्ताभावनाधिपतेया स्मृतिः प्रतिलब्धा भवति। स तस्या एव स्मृतेः प्रतिलब्धायाः असंप्रमोषार्थमधिगमार्थमविनाशार्थं कालेन कालं तस्मिन्नेव श्रुते योगं करोत्यभ्यासं करोति, चिन्तायांभावनायां योगमभ्यासं करोति। न भवति स स्त प्रयोगा यि-कृत प्रयोग एवमनेन तस्या [ः]श्रुतसमुदागमता(गता) याश्चिन्ता-समुदागतायाः स्मृतेः कालेन कालं श्रुतचिन्ताभावनायोगक्रियाया आरक्षा कृता भवति। एवमारक्षितस्मृतिर्भवति।

कथं निपकस्मृतिर्भवति। स तस्यामेव स्मृतौ नित्यकारी च भवति। [निर्याणकारी च भवति]। तत्र या नित्यकारिता इयमुच्यते सातत्यकारिता। तत्र या निर्याणकारिता इयमुच्यते सत्कृत्यकारिता। स एवं सातत्यकारी सत्कृत्यकारी निपकस्मृतिरित्युच्यते। स तथारक्षितस्मृतिर्भवति। तथा तां स्मृतिं न संप्रमोषयति। स तथानिपकस्मृतिर्भवति। तथा तस्यामेवाप्रमुषितायां स्मृतौ बलाधानप्राप्तो भवति। येन शक्तो भवति प्रतिबलश्च रूपाणामभिभवाय शब्दानां, गन्धानां, रसानां, स्प्रष्टव्यानां, धर्माणामभिभवाय।

कथं स्मृत्या [ऽऽ] रक्षितमानसो भवति। चक्षुः प्रतीत्य रूपाणि चोत्पद्यते। चक्षुर्वि [ज्ञानं, च]-क्षुर्विज्ञानानन्तरमुत्पद्यते। विकल्पकं मनोविज्ञानं येन विकल्पकेन मनोविज्ञानेन प्रियरूपेषु रूपेषु संरज्यते। अप्रियरूपेषु रूपेषु व्यापद्यते [।] स भा (ता) मेवाधिपतिं कृत्वा तस्मादयोनिशो विकल्पात् संक्लेशसमुत्थापकात्तस्मात् संरक्षति। यथा संक्लेशो नोत्पद्यते। एवं श्रोत्रं घ्राणं जिह्वां कायं मनः प्रतीत्य धर्माश्चोत्पद्यते मनोविज्ञानं। तच्च मनोविज्ञानमस्यायोनिशेविकल्पसहगतं संक्लेशसमुत्थापकं। येन प्रियरूपेषु धर्मेषु संरज्यते। अप्रियरूपेषु धर्मेषु व्यापद्यते। स तस्मादयोनिशोविकल्पात् संक्लेशसमुत्थापकात्तन्मानसं रक्षत्येवमस्य संक्लेशो नोत्पद्यते। एवं स्मृत्यारक्षितमानसोभवति।

कथं समावस्थावचारको भवति। समावस्थोच्यते। उपेक्षा कुशला वा, अव्याकृता वा [।] स तस्मादयोनिशो विकल्पात् संक्लेशसमुत्थापकात् तन्मानसं रक्षित्वा कुशलायाम्वा उपेक्षायामव्याकृतायाम्वा अवचारयति। तेनोच्यते समावस्थावचारकः। एवं समावस्थावचारको भवति।

कथं पुनस्तस्मादयोनिशो विकल्पसंक्लेशसमुत्थापकान् मानसं रक्षति। न निमित्तग्राही भवति। तेषु रूपेषु, शब्देषु, गन्धेषु, रसेषु, स्प्रष्टव्येषु, धर्मेषु नानुव्यंजनग्राही भवति यतो [अ]धिकरणमस्य पापका अकुशला धर्माश्चित्तमनुस्रवेयुः। स चेत् पुनः स्मृतिसंप्रमोषात् क्लेशप्रचुरतया वा विवर्जयतो [अ]पि निमित्तग्राहम (होऽ) नुव्यंजनग्राह [ःस] मुत्पद्यते एव। पापका अकुशलातो दुःगृहीतो (पापकादकुशलतो दुर्गृहीतो) भवति के (ये) धर्मा अनुसरन्त्येव। चित्तं तेषां सम्वराय प्रतिपद्यते। आभ्यां द्वाभ्यामाकाराभ्यां तस्मात् संक्लेशसमुत्थापकादयोनिशोविकल्पात्तन्मानसं रक्षितं भवति॥

कथं च पुनस्तन्मानसमाभ्यामाकाराभ्यां सरंक्ष्य कुशलायाम्वा उपेक्षायामवधारयत्यव्या कृतायाम्वा [।] द्वाभ्यामेवाकाराभ्यां [।] कतमाभ्यां द्वाभ्यां [।] यथाह रक्षति चक्षुरिन्द्रियं चक्षुरिन्द्रियेण सम्वरमापद्यते। यथा चक्षुरिन्द्रियं चक्षुरिन्द्रियेण सम्वरमापद्यते। मे (ए)वं श्रोत्रघ्राणजिह्वाकायां (यान्), रक्षति मन इन्द्रियं मन इन्द्रियेण सम्वरमापद्यते। आभ्यां द्वाभ्योमाकाराभ्यां कुशलायाम्वा, अव्याकृतायाम्वा उपेक्षायां तन्मानसमेव चारयति॥

कथं चक्षुर्विज्ञेयेषु रूपेषु न निमित्तग्राही भवति। निमित्तग्राह उच्यते। यच्चक्षुर्विज्ञानगोचरो रूपे तस्य गोचरस्य ग्राही भवति। चक्षुर्विज्ञानेन [।] एवं निमित्तग्राही भवति। यदुत चक्षुर्विज्ञेयेषु रूपेषु श्रोत्रघ्राणजिह् वाकायमनोविज्ञेयेषु रूपेषु अपरा जाति[र्] निमित्तं। स चेत् पुनस्तं गोचरं परिवर्जयति। चक्षुर्विज्ञानस्यैवं न (च) न निमित्तग्राही [भ] वति। चक्षुर्विज्ञेयेषु रूपेष्वेवं श्रोत्र घ्राणजिह्‍वाकायमनोविज्ञेयेषु धर्मेषु [।]

कथं नानुव्यंजनग्राहीभवति। चक्षुर्विज्ञेयेषु रूपेषु[।] अनुव्यंजनग्राह उच्यते। यस्तेष्वेवचक्षुर्विज्ञेयेषु रूपेषु चक्षुर्विज्ञानस्यैव समनन्तरसहोत्पन्नस्य विकल्पकस्य मनोविज्ञानस्य यो गोचरः संरागाय वा, संद्वेषाय, वा संमोहाय वा तं गोचरं परिवर्जयति। नोत्पादयति तदालम्बनं। तन्मनोविज्ञानमेवं नानुव्यंजनग्राही भवति। यदुत चक्षुर्विज्ञेयेषु रूपेषु [।] एवं श्रोत्रघ्राणजिह् वाकायमनोविज्ञेयेषु धर्मेषु अपरा जातिर्निमित्तग्राहस्यानुव्यंजनग्राहस्य च। तत्र निमित्तग्राहो यच्चक्षुषा रुपाण्याभासगतानि तज्जं मनस्कारं संमुखीकृत्य पश्यति [।] तत्रानुव्यंजनग्राहः। तान्येव रूपाणि चक्षुषा आभासगतानि तज्जं मनसिकारं संमुखीकृत्य पश्यति। अपितु परतो[अ]नुस्रवपूर्व्वकं श्रृणोति। सन्त्येवं रूपाण्येवं रूपाणि चक्षुर्विज्ञेयानि रूपाणीति यानि तानि तदनुगतानि नामानि पदानि व्यंजनानि [यान्य] धिपतिं कृत्वा, यानि निश्रित्य प्रतिष्ठायायं पुरुषपुद्गलः यथाश्रुतानि चक्षुर्विज्ञेयानि रूपाणि विकल्पयत्ययमुच्यते। अनुव्यंजनग्राहः [।] यथा चक्षुर्विज्ञेयेषु रूपेषु, एवं श्रोत्रघ्राणजिह् वाकायमनोविज्ञेयेषु धर्मेषु वेदितव्यः। स पुनरयं निमित्तग्राहो [अ]नुव्यंजनग्राहश्च अस्ति यन्निदानमस्य यदधिकरणं यदधिपतेयं अस्य पापका अकुशला धर्माश्चित्तमनुस्रवन्ति। अस्ति यच्च तन्निदानं च तदधिकरणं च तदधिपतेयं पापका अकुशला धर्मा श्चित्तमनुस्रवन्ति। तत्र यो[अ]यं निमित्तग्राहो [अ]नुव्यंजनग्राहो अयोनिशोग्राहः यन्निदानं यदधिकरणं यदधिपतेयमस्य पापका अकुशला धर्माश्चित्तमनुस्रवन्ति। तद्रूपमसौ निमित्तग्राहमनुव्यंजनग्राहं च परिवर्जयति।

पापका अकुशला धर्माः कतमे [।] रागः, रागसमुत्थापितं कायदुश्चरितं, वाग्दुश्चरितं, मनोदुश्चरितं। द्वेषो, मोहः [।], मोहसमुत्थापितं च कायदुश्चरितं, वाग्दुश्चरितं, मनोदुश्चरितमिम उच्यन्ते पापका अकुशला धर्माः।

कथमेते चित्तमनुस्रवन्ति। यदालम्बनं चित्तमनोविज्ञानमुत्पद्यते। गच्छति प्रतिसरति। तदालम्बनास्तदालम्बनास्तेन चित्तमनोविज्ञानेन संप्रयुक्ताः [ः] कायवाङ्मनोदुश्चरितसमुत्थापका [स्] ते रागद्वेषमोहा उत्पद्यन्ते, गच्छन्ति प्रतिसरन्ति। तेनोच्यन्ते (ते) चित्तमनुप्रवन्ति॥

एवं तावन्निमित्तग्राहेणानुव्यंजनग्राहेण च य उत्पद्यते, संक्लेशश्चक्षुर्विज्ञेयेषु रूपेषु यावन्मनोविज्ञेयेषु धर्मेषु सो[अ]स्य नोत्पद्यते निमित्तग्राहमनुव्यंजनग्राहं च परिवर्जयतः [।] स चेत् पुनः स्मृतिसंप्रमोषाद्वा, क्लेशप्रचुरतया वा, एकाकिनो [अ]पि विहरतः पूर्वदृष्टानि चक्षुर्विज्ञेयानि रूपाण्यधिपतिं कृत्वा पूर्व्वानुभूतां (तान्) श्रोत्रघ्राणजिह्‍वाकायमनोविज्ञेयान् धर्मानधिपतिं कृत्वोत्पद्यन्ते पापका अकुशला धर्मा[स्] तानुत्पन्नानधिवासयति, प्रजहाति, विशोधयति, व्यन्तीकरोति। तेनोच्यते तेषां सम्वराय प्रतिपद्यते।

स येषु रूपेषु चक्षुः प्रेरयितव्यं भवति। येषु श्रोत्रघ्राणजिह् वाकायमनोविज्ञेयेषु धर्मेषु मनः प्रेरयितव्यं भवति। तेषु तथा प्रेरयति। यथा न संक्लिश्यते। एवमनेन तस्मात् संक्लेशान्मन [इन्द्रियं] रक्षितं भवति। तेनोच्यते रक्षति मन इन्द्रियं। येषु पुनश्चक्षुर्विज्ञेयेषु रूपेषु चक्शुरिन्द्रियं न प्रेरयितव्यं भवति। येषु श्रोत्रघ्राणजिह् वाकायमनोविज्ञेयेषु ध[र्मेषु] मन इन्द्रियं न प्रेरयितव्यं भवति। तेषु सर्व्वेण सर्व्वं सर्व्वथा न प्रेरयति। तेनोच्यतेचक्षुरिन्द्रियेण सम्वरमापद्यते। तेनोच्यते यावन्मन इन्द्रियेण सम्वरमापद्यते। अयं तावद्विभंगो विस्तरेणेन्द्रियसम्वरस्य विज्ञेय [ः]।

समासार्थः। येन च संवृणोति, यतश्च संवृणोति, यथा च संवृणोति, या चासौ संवृतिः। तत्सर्व्वमेकत्यमभिसंक्षिप्येन्द्रियसम्वर इत्युच्यते।

तत्र केन संवृणोति [।]या आरक्षिता च स्मृतिस्तया संवृणोति [।]

किं संवृणोति [।] चक्षुरिन्द्रियं संवृणोति। श्रोत्रघ्राणजिह् वाकायमन‍इन्द्रियं संवृणोति। इदं संवृणोति।

कुतः संवृणोति। प्रियरूपा [ऽ] प्रियरूपेभ्यो रूपेभ्यः शब्देभ्यो यावद्धर्मेभ्यो[अ]तः संवृणोति (संवृणोति)।

कथं संवृणोति। न निमित्तग्राही भवति नानुव्यंजनग्राही यतो[अ]धिकरणमेव पापका अकुशला धर्माश्चित्तमनुस्रवन्ति। तेषां सम्वराय प्रतिपद्यते। रक्षतीन्द्रियमिन्द्रियेण। सम्वरमापद्यते। इत्येवं संवृणोति।

का पुनः संवृतिः। यतः स्मृत्या [ऽऽ] रक्षितमानसो भवति। समावस्थावचारकः। इयमुच्यते संवृतिः।

पुनरपरः समासार्थः [।] यश्चसम्वरोपायः। यच्च सम्वरणीयम्वस्तु, या च संवृतिः। तदेकत्यमभिसंक्षिप्येन्द्रियसम्वर इत्युच्यते।

तत्र कतमः सम्वरोवा (संवरोपायः) [।] यदाह आरक्षितस्मृतिर्भवति, निपकस्मृतिरिति चक्षुषा रूपाणि दृष्ट्वा न निमित्तग्राही भवति, नानुव्यंजनग्राही, यावन्मनसा धर्मान् विज्ञाय न निमित्तग्राही भवति, नानुव्यंजनग्राही। यतो[अ]धिकरणमेव पापका अकुशला धर्माश्चित्तमनुस्रवन्ति। तेषां सम्वराय प्रतिपद्यते। रक्षतीन्द्रियमिन्द्रियेण सम्वरमापद्यते। अयमुच्यते सम्वरोपायः।

सम्वरणीयं वस्तु कतमत् [।] चक्षूरूपं चैवं यावन्मनोधर्माश्चेदमुच्यते सम्वरणीयं वस्तु।

तत्र संवृतिः कतमा [।] यदाह। स्मृत्यारक्षितमानसो भवति। समावस्थावचारक इतीयमुच्यते संवृतिः।

स खल्वयमिन्द्रियसम्वरः समासतो द्विविधः। प्रतिसंख्यानबलसंगृही[तो भावनाबलंसंगृही] तश्च।

तत्र प्रतिसंख्यानबल संगृहीतो येन विष्येष्वादीनवं पश्यति। नो तु तमादीनवं व्यपकर्षति। प्रजहाति। तत्र [भा] वनाबलसंगृहीतो येन विष्येष्वादीनवं पश्यति, तं च पुनरादीनवं व्यपकर्षति। प्रजहाति। तत्र प्रतिसंख्यानबलसंगृहीतेनेन्द्रियसम्वरेण विषयालम्बनं क्लेशपर्यवस्थानं नोत्पादयति, न संमुखीकरोति। न चैवाश (श्र) यसन्निविष्टमनुशयं प्र[जहा]ति, समुद्घातयति। तत्र भावनाबलसंगृहीते[ने]न्द्रियसम्वरेण विषयालम्बनं च क्लेशपर्यवस्थानं नोत्पादयति, न सम्मुखीकरोति। सर्व्वदा सर्वकालमाश्रयसन्निविष्टं चानुशयं प्रजहाति। समुद्घातयति। अयम्विशेषः, अयमभिप्रायः। इद[म] नाकरणं प्रतिसंख्यानबलसंगृहीतस्य भावनाबलसंगृहीतस्य चेन्द्रियसम्वरस्य। तत्र यो [अ]यं प्रतिसंख्यानबलसंगृहीत इन्द्रियसम्वरो [अ]यं संभारमार्गसंगृहीतः [।] यः पुनर्भावनाबलसंगृहीत इन्द्रियसम्वरः। स वैराग्यभूमिपतितो वेदितव्यः॥

भोजने मात्रज्ञता कतमा। यथापीहैकत्यः प्रतिसंख्यायाहारमाहरति। न द्रवार्थं, न मण्डनार्थं, न विभूषणार्थमिति विस्तरेण पूर्व्ववत्।

कथं प्रतिसंख्यायाहारमाहरति। प्रतिसंख्योच्यते यया प्रज्ञया कबडंकारस्याहारस्यादीनवं समनुपश्यत्यादीनवदर्शनेन विदूषयित्वा (विदूष्या) भ्यवहरति॥

तत्पुनरादीनवदर्शनं कतमत्। यदुत यस्यैव कबडंकारस्य परिभोगान्वयो वा, विपरिणामान्वयो वा, पर्येषणान्वयो वा।

परिभोगान्वय आदीनवः (कतमः) [।] यथापीहैकत्यो यस्मिन् समये आहारमाहरति वर्ण्णसम्पन्नमपि, गन्धसम्पन्नमपि, रससम्पन्नमपि, सुप्रणीतमपि [।] तस्य कबडंकार आहारः समनन्तरक्षिप्त एव आस्ये यदा दन्तयन्त्रचूर्ण्णितश्च, लालाविसरविक्लिन्नश्च भवति। लालापरिवेष्टितश्च भवति। स तस्मिन् समये कण्ठनालीप्रलुठितश्च भवति। स यासौ पूर्व्विका, पुराणा मनापता (न आपता) तां सर्व्वेण सर्व्वं विजहाति। परां च विकृतिमापद्यते। यस्यां च विकृतौ वर्तमानश्छन्दितकोपमः ख्याति। तदवस्थं चैनं स चेदयं भोक्ता पुरुषपुद्गलः स चेदाकारतो मनसि कुर्यात् समनुस्मरेन्नास्य सर्व्वेण सर्व्वमन्यत्रापि तावदविपरिणते, प्रणीते भोजने भोगकामता सन्तिष्ठेत। कः पुनर्व्वादस्तत्र तदवस्थ इति य एभिराकौररनेकविधैरनया [ऽऽ]नुपूर्व्या भोजनपरिभोगमधिपतिं कृत्वा या [ऽ]सौ शुभा वर्ण्णनिभा अन्तरीयते, आदीनवश्च प्रादुर्भवति अशू(शु)चिसंगृहीतः [।] अयमुच्यते परिभोगान्वयः। आदीनवः। यदुत आहारे।

तत्र कतमो विपरिणामान्वय आदीनव आहारे। तस्य तमाहारमाहृतवतस्तु[ष्टव] तः यदा विपरिणमति रात्र्या मध्यमे वा यामे, पश्चिमे वा यामे, तदा स रुधिरमान्स(मांस) स्नाय्वस्थित्वगादीन्यनेकविधानि बहुनानाप्रकाराणि। अस्मिन् काये अशुचिन्द्रव्याणि विवर्धयति संजनयति।

अर्थतश्च। अतिपरिणतश्चाधोभागी भवति। यदस्य दिवसे शोचयितव्यं च भवति। तेन च यः स्पृष्टो भवति। हस्तो (तौ) वा पादो (दौ) वा, अन्यतमा न्यतमज्वा (मंवा) अंगप्रत्यंगं, बहिर्धा गुप्यनीयं (गोपनीयं) भवत्यात्मनः परेषां च (।) तन्निदानाश्चास्योत्पद्यन्ते। काये बहवः कायिका आबाधाः। तद्यथा गण्डः, पिटकः, दद्रू, विचर्चिका, कण्डू[ः], कुष्ठः, किटिभः, किवासो (किलासो), ज्वरः कासः शोथः, शोषापस्मार (शोषोऽपस्मार), आटक्करं, पाण्डुरोगः, रुधिरं, पित्तभगन्दर इतीमे चान्ये भैरंभगंया ([अ]प्येवंभागीयाः) काये कायिका आबाधा उत्पद्यन्ते। भुक्तम्वा[अ]स्य विपद्यते। येनास्य काये विषूचिका सन्तिष्ठते। अयमुच्यते विपरिणामाच्च य आदीनवो यदुत आहारे।

तत्र कतमः पर्येषणान्न (न्व)य‍आदीनव आहारे। पर्येषणान्वय आदीनवो[अ]नेकविध[ः]-समुदाननाकृतः। आरक्षाकृतः। स्नेहपरिभ्रंशकृतः। अतृप्तिकृतः। अस्वातन्त्र्यकृतः दुश्चरितकृतश्च।

तत्र कतम आदीनव आहारे [।] समुदानना कृतः [।] यथापीहैकत्यः आहारहेतोराहारनिदानं शीते शीतेन हन्यमानः, उष्णे उष्णेन हन्यमानः, उत्सहते, घटते, व्यायच्छते। कृषिणा वा, गोरक्ष्येण वा, वाणिज्येन वा, लिपिगणनाव्यसनसंख्यामुद्रया[अ]नेकविधेन शिल्पस्थानकर्मस्थानेनाप्रतिलब्धस्य वा[ऽऽ]हारस्य प्रतिलम्भाय, उपचयाय वा[।] यथा आहारस्ये (स्यै) वमाहारनिदानस्य [।] तस्यैवमुत्सहतो, घटत(तो), व्यायच्छत (ः), स चेत्ते कर्मान्ता विपद्यन्ते। स तं निदानं (तन्निदानं) शोचति क्लाम्यति, परिदेवते। उरस्ताडयति। क्रन्दति-संगो वा[मा] मापद्यते। मोहो बत मे स्वायासो[अ]तिफल इति। अयमु (यं समु) दानना सहगतः आदीनवो यदुत आहारे [।]

स चेत्संपद्यते स तस्यारक्षाधिकरणहेतोस्तीव्रमौत्सुक्यमापद्ययते। कच्चिन्मे भोगा राज्ञा वा अपह्रियेरंश्चौरैर्व्वा, अग्निना वा दह्येरन्नुदकेन वा उह्येयुः। कुनिह(हि)ता वा निधयः प्रणश्येयुः कुप्रयुक्ता वा कर्मान्ताः प्रलुज्येरन्, अप्रियो(या)वा दायादा अधिगच्छेयुः। कुलेवा कुलांगार उत्पद्येत। यस्तान्भोगाननयेन व्यसनमापादये[द]यमारक्षासहगत आदीनवो यदुत आहारे।

कतम आदीनव[ः] स्नेहपरिभ्रंशकृतः। यथापि तदाहारनिदानमाहाराधिकरणहेतोर्माता पुत्रस्यावर्ण्णम्भाषते। पुत्रो मात्यः (मातुः), पिता पुत्रस्य, पुत्रो (त्रः) पितुः, भ्राता भगिन्या, भगिनी भ्रातुः। सहायकः। सहायकस्य। प्रागेव जनो जनस्य [।] ते (।) चान्यो [ऽ]न्यं विगृहीता भवन्ति, विवादमापन्नास्तथा‍उदारा ब्राह्मणक्षत्रियगृहपतिमहासाला आहाराधिकरणहेतोरेवं विगृहीताविवादमापन्नाः अन्यो[ऽ]न्यं पाणिना प्रहरन्ति। लोष्ठेनापि, दण्डेनापि, शस्त्रेणापि प्रहरन्त्ययमुच्यते स्नेहपरिभंशकृत आदीनवः।

तत्र कतमः। अतृप्तिकृत आदीनवः। यथापि तद्राजानः कृतिया (क्षत्रिया) मूर्द्धाभिषिक्ताः, स्वेषु ग्रामनिगमराष्ट्रराजधानीषु असंतुष्टा विहरन्त उभयतो[अ]भ्यूहकानि संग्रामानीकानि प्रतिसरन्ति। शंखै(ः) कम्प (म्प्य) मानैः, पटाहैर्वाद्यमानैः, इषुभिः क्षिप्यमाणैर्विविधैस्ते तत्र भ्रान्तेनाश्वेन सार्धं समागच्छन्ति॥ भ्रान्तेन हस्तिना, स्थेन, पत्तिना सार्धं समागच्छन्ति। इषुभिः शक्तिभिर्व्वा अपकृत्तगात्रा मरणम्वा नि (वि)गच्छन्ति। मरणमात्रं वा दुःखमयमुच्यते। अतृप्तिकृत आदीनव इति यो वा पुनरप्येवंभागीयः॥

तत्र कतमः। अस्वातन्त्र्यकृत आदीनवः। यथापि तद्राज्ञः पौरुषेया आवरोधिकानि नगराण्यनुप्रस्कन्दतः (न्ते)। तप्तेनापि ति (तै) लेनावसिच्यन्ते। तप्तया वसया, तप्तया गोमयलो (लौ)हिकया, तप्तेन ताम्रेण, तप्तेनायसा, इषुभिः सन्तिभि (शक्तिभि)श्चापकृत्तगात्रा मरणं वा नि (वि) गच्छन्ति। मरणमात्रकं वा दुःखं। अयमुच्यते अस्वातन्त्रयकृत आदीनव इति यो वा पुनरप्येवंभागीयः।

तत्र [कतमो] दुश्चरितकृत आदीनवः [।] यथापि तदेकत्येनाहारनिदानं प्रभूतं कायेन दुश्चरितं कृतं भवत्युपचितं, यथा कायेनैवम्वाचा, मनसा[।] स च य (था का)य आबाधिको भवति, दुःखितो, बाढग्लानः, तस्य तत्पूर्व्वकं कायदुश्चरितं वाङ्मनोदुश्चरित(तं), पर्व्वतानां वा पर्व्वतकूटानाम्वा, सायाह्ने[या]च्छया(च्छाया) अवलम्बते। अव्या(ध्य)वलम्बते। अभिप्रलम्बते। [तस्यै]वं भवति। कृतं बत मे पापं, न कृतं बत मे पुण्यं, कायेन वाचा, मनसा, सो [अ]हं या गति [ः] कृतपापानां[तां] गतिं प्रेत्य गमिष्यामीति। विप्रतिसारी कालं करोति। अकालञ्च कृत्वाऽपायेषूपपद्यते। यदुत नरकेषु, तिर्यक्प्रेतेषु[।] अयमुच्यते दुश्चरित कृत आदीनवः।

तस्यैवम्भवति। इत्ययमाहार[ः] पर्येष(ष्य)माणो[अ]पि सादीनवः। परिभुज्यमानो [अ]पि सादीनवः। परिभुक्तो [अ]पि परिणाम आदीनवः। एवमस्ति पुनरस्याहारस्य काचिदनुशन्स (शंस) मात्रा सा पुनः कतमा। आहारस्थितिको [अ]य(यं) [काय] आहारं निश्रित्य तिष्ठति। ना[ऽ]नाहार इयमस्यानुशन्स(शंस)मात्रा [।]

एवमाहारस्थितिको[अ]यं कायं(ः) सुचिरमपि तिष्ठन् वर्षशतम्वा तिष्ठति। किंचिद्वा पुनर्भूयः सम्यक् परिह्रियमाणः। अस्ति चास्यार्वागुपरतिः। तत्र यः(ये)कायस्थितिमात्रे प्रतिपन्नाः न ते सुप्रतिपन्ना[ः] काये कायस्थितिमात्रकेन (ण) संतुष्टा न (न) ते असंतुष्टा, न च पुनस्ते आहारकृतं परिपूर्णमनवद्यमनुशन्सं (शंसं) प्रत्यनुभवन्ति। ये पुनर्नकायस्थितिमात्रकेण (न) संतुष्टा[ः] कायस्थितिमात्रके प्रतिपन्ना, न ते सुप्रतिपन्ना, अपि तु तामेव कायस्थितिं निश्चिं[त्य] (निश्रित्य) ब्रह्मचर्यं (र्य)समुदागमाय प्रतिपन्नाः, सुप्रतिपन्नाः, त एव च पुनः परिपूर्ण्णमनवद्यमनुशन्सं (शंसं) प्रत्यनुभवन्ति। तन्मे प्रतिमं स्याद् यद(द्)वा प्रत्यवरेण आहारानुशन्स (शंस) मात्रकेण संतुष्टो विहरेयं। न मे प्रतिरूपं स्याद्यदहं बालसभागतां बालसहधार्मिकतामध्यापद्येयमेवमाहारे सर्व्वाकारं परिपूर्ण्णमादीनवं ज्ञात्वा स इतः प्रतिसंख्याया [ऽऽ]दीनव दर्शी, निःसरणान्वेषी चाहारनिःसरणार्थमेव पुत्रमां(मान्) सो धर्ममाहारमाहरति।

तस्यैवं भवति। एवमेते दायकदानपतयः कृच्छ्रेण भोगान् समुदानीय, महान्तं पर्येषणाकृतमादीनवं प्रत्यनुभवन्तः, प्रपीड्य, प्रपीड्य, त्वङ्मान्स (मांस)शोणितमस्माकमनुप्रयच्छन्ति। य [एते] [अ]नुकम्पामुपादाय विशेषफलार्थिनः तस्यास्माकं तथा प्रतिलब्धस्य पिण्डपातस्यायमेवं रूपो[अ]नुरूपः परिभोगः स्याद्यदहं तथा परिभूतमात्मानं (।) स्थापयित्वा परिभुंजीय, यथा तेषां काराः कृता अत्यर्थं महाफला [ः] स्युर्महानुशंसा, महाद्युभ(त)यो, महाविस्ताराः, चन्द्रोपमश्च कुलान्युपसंक्रमेयं व्यवकृष्य कायं, व्यवकृष्य चित्तं, ह्नीमानप्रगल्भः, अनात्मोत्कर्षी अपरपन्सी, यथास्वेन लाभेन चित्त (सुचित्तः) स्यां, सुमनाः, एवं परस्यापि लाभेन चित्त (सुचित्तः) स्यां सुमना, एवं चित्तश्च पुनः कुलान्युसंक्रमेयं। तत्कुत एतल्लभ्यं प्रव्रजितेन परकुलेषु यद्वदत्र परे मे मान (नं) ददतु। सत्कृत्य, मा असत्कृत्य, प्रभूतं मा स्तोकं, प्रणीतं मा लूहं, त्वरित [ं] मा गत्वं (बद्धम्)। एवं चरितस्य मे कुलान्युसंक्रमतः स चेत् परे न दद्युस्तेनाहं न तेषामन्तिके आघातचित्ततया प्रतिघचित्ततया व्यवदीयेयं। न च पुनस्तन्निदानं कायस्य भेदादपायोपपत्त्या विघातमापद्येय (यं)। यदुत तामेवाघातचित्तता (तां) [प्रतिघचित्ता] मधिपतिं कृत्वा स चेदसत्कृत्य न सत्कृत्य, स चेत्स्तोकं न प्रभूतं। स चेल्लूहं न प्रणीतं, स चेद्वद्धं न त्वरितं दद्युः। द (त)याहमाघातचित्ततया, प्रतिघचित्ततया च व्यवदीयेयमिति विस्तरेण पूर्व्ववत्। इमं चाहं कबडीकारमाहारं निश्रित्य तथा तथा प्रतिपद्येय(यं), ताञ्च मात्रां प्रतिवेध्येयं। येन मे जीवितेन्द्रियनिरोधश्च न स्यान्नच पिण्डकेन क्लाम्येयं। ब्रह्मचर्यानुग्रहश्च मे स्यादेवं च मे श्रव(म)णभावे, प्रव्रजितभावे स्थितस्यायं पिण्ड पातपरिभोगरूपश्च। परिशुद्धश्चानवद्यश्च स्यादेभि[राका]रैः स प्रतिसंख्यायाहारमाहरति।

आहारः पुनः कतमः [।] चत्वार आहाराः [।] कबडंकारः, स्पर्शो, मनःसंचेतना, विज्ञानं चास्मिंस्त्वर्थे कबडंकार आहारोऽभिप्रेतः। स पुनः कतमस्तद्यथा मन्था वा [ऽपूपा] वा ओदनकुल्माषम्वा, सर्पिस्तैलं, फणितं, मांसं, मत्स्या, वल्लूरा, लवणं, क्षीरं, दधि, नवनीतमितीमानि चान्यानि चैवं रूपाण्युपकरणानि यानि कवडानि कृत्वा [अ]भ्यवह्रियन्ते। तस्मात् कबडंकार इत्युच्यते।

आहरतीति भुंक्ते। प्रतिनिषेवत्यभ्यवहरति, खादति, भक्षयति। स्वादयति, पिबति, चूषतीति पर्यायाः[।]

न द्रवार्थमिति। यश्चैते (ये चैते) कामोपभोगिन इत्यर्थः। याहरन्ति (य आहरन्ति) यद्वयमाहारेण प्रीणितगात्राः संतर्पितगात्राः प्रत्युपस्थिते सायाह्नकाले समये, अतिक्रान्तायां रजन्यां, मौलीबद्धिकाभिः सार्द्धंमलाबु-रोमशबाहुभिः कन्दुकस्तनिभिर्नारीभिः (कन्दुकस्तनीभिर्नारीभिः) क्रीडतो (न्तो), रममाणाः, परिचारयन् (न्त), औद्धत्यं द्रवं प्राविष्करिष्याम इति[।] द्रव एष आर्ये धर्मविनये यदुतकामरागोपसंहिता, मैथुनोपसंहिता [ः] पापका अकुशला धर्मा, वितर्का, यैरयं खाद्यमानो, बाध्यमान, उद्धतेन्द्रियो भवत्यनुद्धतेन्द्रियश्च, द्रुतमानसः, प्लुतमानसः, अस्थितमानसो [अ]व्युपशान्तमानसः, तें पुनरत्यन्तमाहारमाहरन्तो द्रवार्थमाहरन्तीत्युच्यते।

श्रुतवांस्त्वार्यश्रावक[ः] प्रतिसंख्यानबलिक आदीनवदर्शी निःसरणं प्रजानं (नन्) परिभुंक्ते। न तथा यथा ते कामोपभोगिनो भुंजन्ते। तेनाह-न द्रवार्थं न मदार्थं, न मण्डनार्थं न विभूषणार्थमिति। यथापि त एव कामोपभोगिन इत्यर्थ माहारमाहरन्ति। अद्य वयमाहारमाहृतवन्तो यदुत प्रभूतञ्च तृप्तितो यथाशक्त्याबलं। स्निग्धं च, वृष्यञ्च, बृंहणीयञ्च, वर्ण्णसंपन्नं, गन्धसम्पन्नं, रससम्पन्नं। एन्धाभूते (ऐन्धीभूते), निर्गतायां रजन्यां शक्ता भविष्यामः। प्रतिबला, व्यायामकरणो (णा), यदुत अतर्त्काया (आततीक्रियया) वा, निर्घातेन, व्यायामशिलया वा, उल्लोठनेने (न) वा, पृथिवीखातेन वा, बाहुव्यायामेन वा, पादावष्टम्भनेन वा, प्लवनेन वा, (अ) लंघनेन वा [।] तत्र व्यायामेन बाह(हु)ञ्च पुनर्व्यायामं निश्रित्य बलवन्तोभविष्यामः। (अ)व्यायतगात्रा, दीर्घं चारोगाः, चिरकालं चास्माकं यौवनमनुवर्तकं भविष्यति, नो तु त्वरितं (।) विरूपकरणी जरा देहमभिभविष्यन्ती (ती) ति। चिरतरं च जीविष्याम इति। प्रभूतभक्षणे च प्रतिबला भविष्यामः। भुक्तं च (भुक्तं) सम्यक्परिणमिष्यति। दोषाणां चापच (क्ष)यः कृतो भविष्यति। इत्यारोग्यमदार्थं, [यौवन] मदार्थं, जीवितमदार्थं परिभुंजते।

तेषां पुनरेवं भवति। कृतव्यायामा वयं स्नात्रसंविधानं करिष्यामो, यदुत-शुचिना तोयेन गात्राणि प्रक्षालिष्यामः। प्रक्षालितगात्राश्च केशानि च (केशांश्च) प्रसाधयिष्यामः। विविधेन चानुलेपनेन कायमनुपलिप्य (-मनुलिप्य) विविधैर्वस्त्रैर्विविधैर्माल्यैर्विविधैरलं [कारैः] कायं भूषयिष्यामः। तत्र यत् स्नानप्रसाधनानुलेपनमिदमुच्यते। तेषां मण्डनं।

तथा मण्डनजातानां यद्वस्त्रमाल्याभरणधारणमिदमुच्यते। विभूषणमिति। मण्डनार्थं विभूषणार्थं परिभुंज[तो[ऽ]त] एवं (परिभुंजन्तोऽत एवं) मदमत्ता मण्डनजातिविभूषितगात्राः। मध्याह्नसमये, सायाह्न समये वा, भक्तसमये तृषिता बुभुक्षिताश्च, परेण हर्षेण, परया नन्द्या, परेणामोदेन। आदीनवदर्शिनो निःसरणमप्रजानन्त (न्तो)यथोपपन्नमाहारमाहरन्ति। यावदेव पुनः पुनर्द्रवार्थं, मण्डनार्थं, विभूषणार्थ च[।]

श्रुतवांस्त्वार्यश्रावकः। प्रतिसंख्यानबलिक आदीनवदर्शी निःसरणंप्रजानन् परिभुंक्ते। न तु तथा यथा ते कामोपभोगिनः परिभुंजते। नान्यत्रेममसंनिवेषणाप्रहातव्यमाहारं प्रतिनिषेवमाण एव प्रहास्यामीति। यावदेवास्य कायस्य स्थितये इति भुक्त्वा ना[ऽ] भुक्त्वा यश्च जीवितस्य कायस्थितिरित्युच्यते। सो[अ]हमिममाहारमाहृत्य जीविष्यामि, न मरिष्यामीति आहारति। तेनाहं (ह) यावदेवास्य कायस्य स्थितये।

कथं यापनायै आहरति। द्विविधा यात्रा-अस्ति कृच्छ्रेण अस्त्यकृच्छ्रेण[।] कृच्छ्रेण यात्रा कतमा[।] यद्रूपमाहारतो जिघत्सा दौर्बल्यं वा भवति। दुःखितो वा बाढग्लानः। अधर्मेण वा पिण्डपातं पर्येषते, न धर्मेण। रक्तः परिभुंक्ते, सक्तः, गृद्धो, ग्रथितो, मूर्छितो[ऽ]ध्यवसितो [अ]ध्यवसायमापन्नः। गुरुको वास्य कायो भवत्यकर्मण्यः, अप्रहाणक्षमः, येनास्य धन्धं चित्तं समाधियते (धीयेत)। कृच्छ्रेण वा आश्वास-प्रश्वासाः प्रवर्तन्ते। स्त्यानमिद्धं वा चित्तं पर्यवहीय (पर्यवनह्यतीय) मुच्यते कृच्छ्रेण यात्रा।

अकृच्छ्रेण यात्रा कतमा [।] यथापि तद्रूपमाहारमाहरतो यथा जिघत्सा दौर्ब्बल्यं वा न भवति। नाभ्यधिको भवति। दुःखितो वा बाढग्लानः। धर्मेण वा पिण्डपातं पर्येषते, न वा [अ]धर्मेण। सुरक्तो वा परिभुंक्तेसक्तः (परिभुङ्कतेऽसक्तः), अगृध्रः, अग्रथितः, अनध्यवसितो [अ]नध्यवसायमापन्नः, न चास्य कायो गुरुको भवति। कर्मण्यो भवति। प्रहाणक्षमः। येनास्य त्वरितं चित्तं समाधीयते। अल्पकृच्छ्रेणाश्वासप्रश्वासाः प्रवर्त्तन्ते। स्त्यानमिद्धं चित्तं न पर्यवन(ह्य)तीयमुच्यते अल्पकृच्छ्रेण यात्रा।

तत्र या कृच्छ्रेण यात्रा तया जीवितस्थितिर्भवति। कायस्य सावद्या ससंक्लिष्टा[।] तत्र येयमल्पकृच्छ्रेण यात्रा तया जीवितस्थितिर्भवति (।) कायस्य [।] सा च पुनरनवद्या। असंक्लिष्टा [।] तत्र श्रुतवानार्यश्रावकः। सावद्यां संक्लिष्टां यात्राम्परिवर्जयति। अनवद्यामसंक्लिष्टां यात्रां गच्छति। प्रतिषेवते। तेनाह यापनायै।

सा पुनरनवद्या असंक्लिष्टा यात्रा या पूर्व्वमुक्ता। तां कथं यापयति। आह। यद्ययं जिघत्सोपरतये, ब्रह्मचर्यानुग्रहाय इति, पौराणां च वेदनां प्रहास्यामि नवाञ्च नोत्पादयिष्यामि। यात्रा च मे भविष्यति। बलं च, सुखं चानवद्यता च, स्पर्शवि [हार]ता चेति। एवं प्रतिषेवमाणः अनवद्यामसंक्लिष्टां यात्रां कल्पयति।

कथं च पुनर्जिघत्सोपरतये आहरति [।] प्रत्युपस्थिते भक्तसमये, उत्पन्नायां क्षुधायां, यदा परिभुंक्ते तस्यैव क्षुत्पर्यवस्थानस्य जिघत्सादौर्बल्यस्य च प्रतिविगमाय ताञ्च मात्रां परिभुंक्ते। यथास्य भुक्तवतः अकाले पुनर्जिघत्सादौर्बल्यन्न बाधते। सायाह्नसमये वा, अभि(ति?) क्रान्तायाम्वा रजन्यां, श्वोभूते, प्रत्युपस्थिते भक्तसमये[।] एवं जिघत्सोपरतये आहरति।

कथं ब्रह्मचर्यानुग्रहायारति। तां मात्रां परिभुंक्ते तद्रूपमाहारमाहरति। येनास्य कुशलपक्षे प्रयुक्तस्य दृष्ट एव धर्मे भुक्तसमनन्तरं तस्मिन्नेव वा दिवसे अगुरुकः कायो भवति। कर्मण्यश्च भवति, प्रहाणक्षमश्च, येनास्य त्वरितत्वरितं चित्तं समाधीयते। अल्पकृच्छ्रेणाश्वासप्रश्वासाः प्रवर्तन्ते। स्त्यानमिद्धं चित्तं न पर्यवनह(ह्य)ति। येनायं भव्यो भवति। प्रतिबलश्च। क्षिप्रमेवाप्राप्तस्य प्राप्तये, अनधिगतस्याधिगमाय, असाक्षात्कृतस्य साक्षात्क्रियायै। एवं ब्रह्मचर्यानुग्रहायाहरति॥

कथं पौराणां वेदनां प्रहास्यामीत्याहरति।
तथापि तदतीतमध्वानमुपादाय। अमात्रया वा परिभुक्तम्भवत्यपश्यम्वा (पथ्यं वा), अपरिणते (तं) वा, येनास्य विविधः कायिक आबाधः समुत्पन्नो भवति। तद्यथा कण्डू[ः], कुष्ट[ः], किटिभ[ः] किलास इति विस्तरेण पूर्व्ववत्। तस्य चाबाधनिदाना उत्पद्यन्ते शारीरिका वेदना दुःखास्तीव्राः, खराः, कटुका, अमनापा (अमन आपा) [ः।] तस्याबाधस्योपशमाय तासां च तन्निदानानां दुःखानां वेदनानामुपशमाय हितं पश्यमनु (पथ्यमनु) कूलमानुलोमिकं वैद्योपदिष्टेन विधिना भैषज्यं प्रतिषेवते [।] सांप्रेयं चाहारमाहरति। येनास्योत्पन्नस्याबाधस्य तन्निदानानां च दुःखानां वेदनानां प्रहाणं भवत्येवं पौराणाम्वेदनां प्रहास्यामीत्याहारमाहरति। स वर्त्तमानमध्वानमुपादाय सुखी, अरोगो, बलवान्नामात्रया वा परिभुंक्ते। अपथ्य ता अपरिणते, काये नास्यागतमध्वानमुपादाय (चास्यानागतमध्वानमुपादाय) श्वो वा, उत्तरश्वो वा, विषूचिका वा काये संतिष्ठेत। अन्यतमान्यतमो वा काये कायिक आबाधस्समुत्पद्येत। तद्यथा कण्डू[ः], कुष्ट[ः], किटिभ[ः], किलास इति विस्तरेण पूर्व्ववत्। यन्निदाना उत्पद्येरन्छा (ञ्छा) रीरिका वेदना[ः] पूर्व्ववत्। एवं च नवां वेदनां नोत्पादयिष्यामीत्याहरति।

कथं यात्रा मे भविष्यति। वर्णं च सुखं चानवद्यतां(ता) च। स्पर्शविहारता चेत्याहरति। यत्तावद् भुक्तो जीवतीत्येवं यात्रा भवति। यत्पुनर्जिघत्सादौर्बल्यमु(म)पनयति। एवमस्य वर्ण्णं भवति। यत्पुनः पौराणां वेदनां प्रजहाति। नवां चो (च नो) त्पादयत्येवमस्य सुखं भवति। यत् पुनर्धर्मेण पिण्डपातं पर्येष्ट्यारक्तः (पर्येष्या[ऽ]रक्तः), असक्तः इति विस्तरेण पूर्व्ववदेवमनवद्यता भवति। यत्पुनर्भुक्तवतो न गुरुकः कायो भवति, कर्मण्यश्च भवति, प्रहाणक्षमो विस्तरेण पूर्व्ववदेवमस्य स्पर्शविहारता भवति। तेनाह प्रतिसंख्यायाहारमाहरति। न द्रवार्थं, न मदार्थं, न मण्डनार्थमिति। विस्तरेण पूर्व्ववदयं तावद् भोजने मात्रज्ञताया विस्तरविभागः।

समासार्थः पुनः कतम[ः] आह[।] यश्च (यञ्च) परिभुङक्ते। यथा च परिभुंक्ते। यदुत कबडंकारमाहारं, मन्था वा, [अ]पूपा वा, ओदनकुल्माषं वा विस्तरेण पूर्व्ववत्।

कथं परिभुंक्ते। प्रतिसंख्याय परिभुंक्ते। न द्रवार्थं, न मदार्थं न मण्डनार्थमिति विस्तरेण पूर्व्ववत्।

पुनरपरं (ः) समासार्थः [।] प्रतिपक्षपरिगृहीतं च परिभुंक्ते। कामसुखल्लिकान्त (वि) वर्जितञ्च। आत्मक्लमथान्तविवर्जितञ्च बह्मचर्यानुग्रहाय। यदाह। प्रतिसंख्यायाहारमाहरति।

कथं कामसुखल्लिकान्तविवर्जितं। यदाह। न द्रवार्थं, न मदार्थं, न मण्डनार्थ, न विभूषणार्थमिति।

कथमात्मक्लमथान्तविवर्जितं। यदाह [।] जिघत्सोपरतये, पौराणां च वेदनां प्रहास्यामि। नवाञ्च नोत्पादयिष्यामि। यात्रा च मे भविष्यति। बलं च सुखं चेति।

कथं बह्मचर्यानुग्रहाय परिभुंक्ते। यदाह। ब्रह्मचर्यानुग्रहाय। अनवद्यता च। स्पर्शविहारता च मे भविष्यतीति।

पुनरपरः समासार्थः [।] द्वयमिदं भोजनं, चाभोजनं च। तत्राभोजनं यत् सर्व्वेण सर्व्वं सर्व्वथा किंचिन्न परिभुंक्ते। अभुंजानश्च म्रियते। तत्र भोजनं द्विविधं। समभोजनं, विषमभोजनं च। तत्र समभोजनं। यन्नात्यल्पं नातिप्रभूतं, नापथ्यं, नापरिणतेन संक्लिष्टं। तत्र विषमभोजनं। यद्य(द) त्यल्पमतिप्रभूतं च। अपरिणते (तं) वा, अपथ्यं वा, संक्लिष्टं वा परिभुंक्ते। तत्र समभोजने नात्यल्पभोजने जिघत्सादौर्बल्यमनुत्पन्नं (।) नोत्पादयति। उत्पन्नं प्रजहाति। तत्र नातिप्रभूतभोजने (न) [सम]विषमभोजनेन गुरुकः कायो भवत्यकर्मण्यः अप्रहाणक्षमो विस्तरेण पूर्व्ववत्। तत्र परिणतभोजनेन, समभोजनेन पौराणां च वेदनां प्रजहाति। नवाञ्च नोत्पादयिष्यत्येवमस्य यात्रा भवति। बलं च, सुखं च, असंक्लिष्टभोजनेन। समभोजनेन अनवद्यता च भवति। स्पर्शविहारता च।

तत्रात्यल्पभोजनं येन जीवति। अतिप्रभूतभोजनं। येनास्य गुरुभाराध्याक्रान्तश्च कायो भवति। न च कालेन भ(भु)क्तम्परिणमति। तत्रापरिणतभोजनेन विषूचिका काये संतिष्ठते। अन्यतमान्यतमो वा काये कायिक आबाधः (।) समुत्पद्यते। यथा अपरिणतभोजनेनैवमपथ्यभोजनेन [।] तत्रायमपथ्यभोजने विशेषः [।] दोषः प्रचयं गच्छति। खरं वा[ऽऽ]बाधं स्पृशति। तत्र संक्लिष्टभोजनेन अधर्मेण पिण्डपातं पर्येष्य रक्तः परिभुंक्ते। सक्तो, गृद्धो, ग्रथित इति विस्तरेण पूर्व्ववत्। इति यः समभोजनं च परिभुंक्ते। विषमभोजनं च परिवर्जयति। तस्माद् भोजने समकारीत्युच्यते। भोजने समकारितैषा एभिराकौरराख्याता, उत्ताना, विवृता, संप्रकाशिता। यदुत प्रतिसंख्यायाहारमाहरति। न द्रवार्थं, न मदार्थं, न मण्डनार्थं, न विभूषणार्थमिति विस्तरेण पूर्व्ववत्।

तत्र यस्ता(यत्ता)वदाह। प्रतिसंख्यायाहारमाहरति। न द्रवार्थं, न मदार्थं, न मण्डनार्थं, न विदू(भू)षणार्थं(।), यावदेवास्य कायस्य स्थितये, यापनायै, अनेन तावदभोजनं न (च)प्रतिक्षिपति। यत्पुनराह। जिघत्सोपरतये, ब्रह्मचर्यानुग्रहाय विस्तरेण यावत् स्पर्शविहारतायै, अनेन विषमभोजनं प्रतिक्षिपति।

कथं च पुनर्व्विषमभोजनं (पुनरतिप्रभूतभोजनं) प्रतिक्षिपति। यत्तावदाह ब्रह्मचर्यानुग्रहायानेनातिप्रभूतभोजनं प्रतिक्षिपति। यदाह[।]पौराणां च वेदनां प्रहास्यामि (।), नवां च नोत्पादयिष्यामीत्यनेना[ऽ] परिणत-भोजनत मे (ताम) पथ्यभोजनतां च प्रतिक्षिपति। यदाह। यात्रा च मे भविष्यति, बलं चानेनात्यल्पभोजनतां प्र(तामप्र)भूतभोजनतां च दर्शयति (प्रतिक्षिपति)। यदाह। सुखं च मे भविष्यतीत्यनेन परिणतभोजनतां च दर्शयति [।] यदाह (।) सुखं च मे भविष्यतीति पथ्यभोजनतां च दर्शयति। यदाह। अनवद्यता च मे भविष्यति, स्पर्शविहारता चेत्यनेनासंक्लिष्टभोजनतां दर्शयति। योसावधर्मेण पिण्डपातं पर्येष्य रक्तः परिभुंक्ते। सक्तो विस्तरेण पूर्व्ववत्। स संक्लिष्टश्च परिभुंक्ते, सावद्यता चास्य भवति। तस्यैव च कुशलपक्षप्रयुक्तस्य प्रतिसंलयने, योगे, मनसिकारे, स्वाध्याये, अर्थचिन्तायां त एव पापका अकुशला वितर्काश्चित्तमनुवस्रवन्ति ये[अ]स्य तं नित्यां (तन्नित्यां), तत्प्रवणां, तत्प्राभोरां (तत्प्राभारां) चित्तसन्ततिं प्रवर्त्तयन्ति। येनास्य स्पर्शविहारेण (स्पर्शविहारो न) भवति। सा चेयं द्विविधा स्पर्शविहारता अतिप्रभूतभोजनपरिवर्जनाच्च येनास्य न गुरुकः कायो भवत्यकर्मण्यः, अप्रहाणक्षम इति विस्तरेण पूर्व्ववत्। अपरेना (णा) स्वादाकरणाद् येनास्य वितर्कसंक्षोभकृतां (ता) अस्पर्शविहारता न भवति। तदेवं सति सर्व्वैरेभिः पदैर्भोजने समकारिता व्याख्याता भवति। इयमुच्यते भोजने मात्रज्ञता॥ विस्तरतः संक्षेपतश्च॥

पूर्व्वरात्रापररात्रं जागरिकानुयुक्तता कतमा। तत्र कतमः पूर्व्वरात्रः (-मत् पूर्वरात्रम्)। कतमो-(मद) पररात्रः (त्रम्)। कतमोजागरिकायोगः। कतमा जागरिकायोगस्यानुयुक्तता। तत्राय (यं)-(त्रेदं) सायाह्नं अर्धरात्रः (त्रं), सायाह्नं सूर्यास्तंगमनमुपादाय यो रात्र्याः पूर्व्वभागः, सोतिरेकं प्रहारं (साऽतिरेकः प्रहरः)। तत्रायं जागा(ग)रिकायोगः। यदाह। दिवा चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति। परिशोध्य, बहि[र्]विहारस्य पादौ प्रक्षाल्य विहारं प्रविश्य दक्षिणेन पार्श्वेन शय्यां कल्पयति। पादे पादमाधाय आलोकसंज्ञी स्मृतः। संप्रजान (न्) उत्थानसंज्ञामेव मनसि कुर्व्वन्, स रात्र्याः पश्चिमे यामेलघु लघ्वेव प्रतिविबुध्य चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति। तत्रेयं जागरिकानुयोगस्यानुयुक्तता। यथापि तद्बुद्धस्य भगवतः श्रावकजागरिकायोगस्य श्रोता। तत्र शिक्षितुकामो भवति। यथाभूतस्यास्य यज्जागरिकायोगमारभ्य बुद्धानुज्ञातं जागरिकानुयोगं सम्पादयिष्यामीति यश्छन्दो, वीयं (वीर्यं), व्यायामो, निष्क्रमः। पराक्रमस्थानप्रारम्भः। उत्साह उत्सूढिरप्रतिवाणिश्चेतसः। संग्रहः सावद्यं (द्यः)।

तत्र कथं चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति। दिवा उच्यते। सूय(र्य) स्याभ्युद्गमनसमयमुपादाय यावदस्तगमनसमया [च्], चंक्रम उच्यते। आयतानि (आयतनानि) (।) विपुलमापिते पृथिवीप्रदेशे गमनप्रत्यागमनप्र[योग] युक्तं। सत्कायकर्मनिषद्या उच्यते। यथापीहैकत्यो मंचेवा, पीठे वा, तृणसंस्तरे वा निषीदति। पर्यङ्कमाभुज्य। ऋजुं कायं प्रणिधायाभिमुखीं स्मृतिमुपस्थाप्य [।] आवरणान्युच्यन्ते पञ्च निवरणानि। आवरणीया धर्मा ये निवरणस्थानीया धर्मा निवरणापरकास्ते पुनः कतमे। कामछन्दो (कामच्छन्दो), व्यापाद [ः], स्त्यान (नं), मिद्धौद्धत्यं, कौकृत्यं, विचिकित्सा, [अ]शुभता, प्रतिघनिमित्तमन्धकारः, ज्ञातिजनपदामरवितर्कपौराणस्य च हसितक्रीडितरसितपरिवारितस्यानुस्मृतिः, त्रयश्चाध्वानः। त्र्यध्वगता चायोनिशो धर्मचिन्ता [।]

एभ्यः कथं चंक्रमणचित्तं परिशोधयति। कतिभ्यश्च परिशोधयति [।] स्त्यानमिद्धात्स्यानमिद्धाहारकाच्चावरणात् परिशोधयति। आलोकनिमित्तमनेन साधु च, सुष्ठु च, सुगृहीतं भवति। सुमनसिकृतं, सुज (जु)ष्टं। सुप्रतिविद्धं। स आलोकसहगतेन, सुप्रभाससहगतेन चित्तेन छन्ने वा, अभ्यवकाशे वा, चंक्रमे चंक्रम्यमाणः (चंक्रममाणः), अन्यतमान्यतमेन प्रसदनीयेनालम्बनेन चित्तं संदर्शयति। समुत्तेजयति। संप्रहर्षयति। यदुत बुद्धानुस्मृत्या वा, धर्मसंघशीलत्यागदेवतानुस्मृत्या वा, (।) काये वा पुनरनेन स्त्यानमिद्धादीनवप्रतिसंयुक्ता धर्माः श्रुता भवन्त्यद्गृहीता, धृताः। तद्यथा सूत्रं, गू(गे)यं, व्याकरणं, गाथोदाननिदानावदानेतिवृत्तकजातकवैपुल्याद्भुतधर्मोपदेशा, येषु स्त्यानमिद्धममनेकपर्यायेण विगर्हितं, विजुगुप्सितं [।] स्त्यानमिद्धप्रहाणं पुनः (।)स्तुतं, वर्ण्णितं, प्रशस्तं [।] तान् तेषां विस्तरेण स्वरेण स्वाध्यायं करोति। परेषाम्वा प्रकाशयत्यर्थम्वा चिन्तयति। तुलयत्युपपरीक्षते, दिशो वा व्यवलोकयति। चतुर्नक्षत्रग्रहतारासु वा दृष्टिं धारयत्युदकेन मुखमाक्लेदयति। एवमस्य तत्स्त्यानमिद्धपर्यवस्थानं अनुत्पन्नं च नोत्पद्यते, उत्पन्नं च प्रतिविगच्छत्येवमनेन तस्मादावरणीया[द्] धर्माच्चित्तं परिशोधितं भवति।

तत्र निषद्यया कतमेभ्य आवरणीयेभ्यो धर्मेभ्यः [चित्तं] परिशोधयति। कामच्छन्दाद्, व्यापादादौद्धत्यकौकृत्याद्विचिकित्साया स्तदाहारकेभ्यश्च धर्मेभ्यः [।] स उत्पन्ने वा कामच्छन्दपर्यवस्थाने प्रतिविनोदनायानुत्पन्ने वा दूरीकरणाय, निषद्य, पर्यङ्कमाभुज्य, ऋजुं कायं प्रणिधाय, प्रतिमुखां (खीं) स्मृतिमुपस्थाप्य, विनीलकं वा, विपूयकम्वा, विम(भ)द्राम (त्म) कम्वा, व्याध्मातकम्वा, वि [खादि]तकम्वा, विलोहितकम्वा, अस्थिं (अस्थि) वा, शंकलिकां वा, अन्यतमान्यतमं वा भद्रकं समाधिनिमित्तं मनसि करोति। ये वा धर्माः कामरागप्रहाणमेवारभ्य कामरागप्रहाणायोद्गृहीता भवन्ति। धृता, वचसा परिजिता, मनसा अन्वीक्षिता [ः], दृष्ट्या सुप्रतिविद्धा [ः], तद्यथा सूत्रं, गेयं, व्याकरणमिति विस्तरेण पूर्व्ववत्। ये अनेकपर्यायेण कामरागं, कामच्छन्दं, कामालयं, कामनियन्तिं, कामाध्यवसानं विगर्हन्ति, विवर्ण्णयन्ति। विजुगुप्सयन्ति। कामरागप्रहाणमनेकपर्यायेण स्तुवन्ति। वर्ण्णयन्ति, प्रशन्स(शंस)यन्ति। तां (तान्) धर्मांस्तथा निषण्णो[अ]योनिशो मनसि करोत्येवमस्यानुत्पन्नं च कामच्छन्दपर्यवस्थानं नोत्पद्यते। उत्पन्नं च कामच्छन्दपर्यवस्थानं प्रतिविगच्छति।

तत्र व्यापादे अयम्विशेषः। तथा निषण्णो मैत्रीसहगतेन चित्तेनावैरेणासंपथेनाव्याबाधेन, विपुलेन, महद्गतेनाप्रमाणेन सुभावितेनैकां दिशमधिमुच्य स्मारित्वोप (स्मृत्वोप-)सम्पद्य विहरति। तथा द्वितीयां, तथा तृतीयां, तथा चतुर्थीमित्यूर्ध्वमधस्तिर्यक्सर्व्वमनन्तं लोकं स्मारित्वा (स्मृत्वा)उपसम्पद्य विहरति। शेषं पूर्व्ववत्।

तत्रौद्धत्यकौकृत्ये विशेषः। तद्यथा निषण्णे अध्यात्ममेव चित्तं स्थापयति। संस्थापयति। सम्विषोदयति (संविशोधयति)। एकोतीकरोति। समाधत्ते। शेषं पूर्व्ववत्।

तत्र विचिकित्सानिवरणे विशेषः। तथा सन्निषण्णः। अतीतमध्वानं नायोनिशो मनसिकरोति। अनागतं प्रत्युत्पन्नमध्वानं नायोनिशो मनसिकरोति। किं न्वहमभूवमतीते[अ]ध्वनि कोन्वहमभूवं। आहोस्विन्नाहमतीते[अ]ध्वनि को न्वहमभूवं। कथं न्वहमभूवमदी (ती)ते [ऽ]ध्वनि [।] को न्वहं भविष्यामि। अनागते[अ]ध्वनि, कथं भविष्याम्यनागते [अ]ध्वनि, के सन्तः के भविष्यामः। अयं सत्व(सत्त्वः) कुत आगतः। इतश्च्युतः कुत्रगामी भविष्यति। स इत्येवं रूपमयोनिशोमनसिकारं वर्जयित्वा योनिशो मनसि करोति। अतीतमध्वानमनाती(ग)तं प्र[त्युत्पन्न]मप्यध्वानं [।] स धर्ममात्रं पश्यति। वस्तुमात्रं। सच्च सतः, असच्चासतः। हेतुमात्रं, फलमात्रं, नासद्भूतं समारोपं करोति। न सद्‍वस्तु नाशयत्यपच(व)दति। भूतं भूततो जानाति। यदुतानित्यतो वा, [दुःखतो] वा, शून्यतो वा, [अनात्मतो वा], अनित्येषु, दुःखेषु, शून्येषु, अनात्मसु धर्मेषु स एवं योनिशो मनसि कुर्व्वन्, बुद्धे[अ]पि निष्काङ्क्षो भवति, निर्विचिकित्सः। धर्मे, संघे, दुःखे, समुदये, निरोधे, मार्गे, हेतौ, हेतुसमुत्पन्नेषु धर्मेषु निष्काङ्क्षो भवति। निर्विचिकित्सः। शेषं पूर्व्ववत्।

तत्र व्यापादे वक्तव्यं। यो[अ]नेन प्रतिघं प्रतिघनिमित्तं चारभ्य, तस्य च प्रहाणाय, धर्मा उद्गृहीता इति विस्तरः [ः।]

औद्धत्यकौकृत्ये वक्तव्यं। अनेनौद्धत्यकौकृत्यमारभ्य तस्य च प्रहाणाय धर्मा उद्गृहीता इति विस्तरेण पूर्व्ववत्।

विचिकित्सायाम्वक्तव्यं। ये अनेन विचिकित्सामारभ्य तस्याश्च प्रहाणाय धर्मा उद्गृहीता इति विस्तरेण पूर्व्ववदित्यनेन कामछ(च्छ)न्दनिवरणाद् व्यापादस्त्यानमिद्धौद्धत्यकौकृत्यविचिकित्सानिवरणा[च्] चित्तं विशोधितं भवति। तदाहारकेभ्यश्च धर्मेभ्य आवरणीयेभ्यस्तेनाह चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति।

या चैषा धर्माधिपतेया आवरणीयेभ्यो धर्मेभ्यश्चित्तस्य परिशोधना [।] अस्ति पुनरात्माधिपतेया, लोकाधिपतेया चावरणीयेभ्यो धर्मेभ्यश्चित्त परिशोधना [।]

आत्माधिपतेया कतमा। यथापि तदुत्पन्ने अन्यतमान्यतमस्मिन्निवरणे आत्मत एव प्रतिरूपताम्विदित्वा, उत्पन्नं निवरणं नाधिवासयते (ति)। प्रजहाति, विनोदयति, व्यन्तीकरोति। तेन निवरणेनात्मानं न ज्ञायमानः, चेतस उपक्लेशकरेण, प्रज्ञादौर्बल्यकरेण, विघातपक्ष्येणैवमसावात्मानमेवाधिपतिं कृत्वा आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति।

कथं लोकमधिपतिं कृत्वा आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति। इहास्या (स्य) निवरणे समुत्पन्ने, उत्पत्तिकाले वा प्रत्युपस्थिते। एवं भवत्यहं चेदनुत्पन्नं निवरणमुत्पादयेयं, शास्ता मे अपवदेद्, देवता अपि, विज्ञा अपि, सब्रह्मचारिणो[अ]धर्मतया विगर्हयेयुरिति। स लोकमेवाधिपतिं कृत्वा आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति। इहास्य निवरणे समुत्पन्ने, उत्पत्तिकाले वा प्रत्युपस्थिते, एवं भवत्यहं चेदनुत्पन्नं निवरणमुत्पादयेयं। शास्ता मे अपवदेद्, देवता अपि। विज्ञा अपि, सब्रह्मचारिणो[अ]धर्म्मतया विगर्हयेयुरिति। स लोकमेवाधिपतिं कृत्वा, अनुत्पन्नं च निवरणं नोत्पादयति, उत्पन्नं च प्रजहाति। एवं लोकमधिपतिं कृत्वा आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति। शयनासनप्रतिगुप्त्यर्थं पुनर्लोकाचारञ्चानुवृत्तो भविष्यतीति यावद्रात्र्याः प्रथमे यामे चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति। आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोध्य बहिर्विहारस्य पादौ प्रक्षालयति। प्रक्षाल्य, विहारं प्रविश्य, शय्यां कल्पयति। यावदेव स्वस्यो (यौ)पचयिकानाम्महाभूतानां उपचयाय[।]उपचितो[अ]यं कायः कर्मण्यतरश्च भविष्यति। अनुकूलतरश्च सातत्येनै[क]पक्ष्ये कुशलपक्षप्रयोगे।

केनकारणेन पार्श्वेन शय्यां कल्पयति। सिंहस्य प्राणिनः साधर्म्येण [।]किं पुनरत्र साधर्म्यं [।]सिंहः प्राणं (प्राणी)सर्व्वेषां तिर्यग्योनिगतानां प्राणिनां विक्रान्त, उत्साही, दृढपराक्रमः। भिक्षुरपि जागरिकानुयुक्त आरब्धवीर्यो विहरति। विक्रान्त, उत्साही, दृढपराक्रमः। अतस्तस्य सिंहोपमैव शय्या प्रतिरूपा भवदि(ति), नो तु प्रेतशय्या, देवशय्या, न का[म] भोगशय्या। तथा हि ते सर्व्व एव कुसीदा, हीनवीर्या, च(म)न्दबलपराक्रमाः। अपि तु धर्म्मतैषा यद्‍दक्षिणेन पार्श्वेन सिंहोपमां शय्यां कल्पयतो न तथा गात्राणां विक्षेपो भवति। न च शयानस्य स्मृतिसंप्रमोषो भवति। न च गाढं स्वपिति। पापकांश्च स्वप्नां (प्नान्) न पश्यति। अन्यथा तु शय्यां कल्पयतो विपर्ययेण सर्व्वे दोषा वेदितव्याः। तेनाह दक्षिणेन पार्श्वेन शय्यां कल्पयति।

आलोकनिमित्तमनेन सूद्गृहीतं भवति। सुमनसिकृतं। सुजुष्टं, सुप्रतिविद्धं। यदेव मनसि कुर्व्वन् स प्रभा सहगतेन चित्तेन शय्यां कल्पयति। सुप्तस्यापि चास्य येन न भवति चेतसः [।] अन्धकारायितत्वमेवमालोकसंज्ञीशय्यां कल्पयति।

कथं स्मृत[ः] शय्यां कल्पयति। य (ये) अनेनधर्मा[ः]श्रुता भवन्ति। चिन्तिता, भाविता वा, कुशला अर्थोपसंहितास्तदन्वया[अ]स्य स्मृतिर्यावत्स्वपनकालानुवर्त्तिनी भवति। यथास्य सुप्तस्यापि त एव धर्मा जाग्रतो वा अभिलपन्ति, तेष्वेव च धर्मेषु तच्चित्तं बहुलमनुविचरति। इति यथास्मृत्या यथास्मृतः। कुशलचित्तशय्यां कल्पयति। अव्याकृतचित्तो वा[।] एवं स्मृतः शय्यां कल्पयति।

कथं संप्रजानन्तो (जानन्) शय्यां कल्पयति। सुप्तस्यास्य तथा स्मृतस्य यस्मिन्समये[अ]न्यतमान्यतमेनोपक्लेशेन चेतसः संक्लेशो भवति। स उत्पद्यमानमेव तं संक्लेशं सम्यगेव प्रजानाति, नाधिवासयति, प्रजहाति, प्रतिविध्यति। प्रत्युदावर्त्तयति मानसं। तेनोच्यते संप्रजानं(नन्) शय्यां कल्पयति।

कथमुत्थानसंज्ञामेव मनसिकुर्व्वन् शय्यां कल्पयति। स वीर्यसंप्रगृहीतं चित्तं कृत्वा शय्यां कल्पयति। सुप्रतिबुद्धिकया सुहर्षक्त (सुहृष्टचित्त)स्तद्यथा आरण्यको मृगः। नो तु सर्व्वेण सर्व्वं विद्धमवक्रमणनिम्नं चित्तं करोति। तत्प्रवणं। न तत्प्राभो (भा)रमपि (।) चास्यैवं भवति। अहो बताहं बुद्धानुज्ञातां जागरितां (कां)सर्व्वेण सर्व्वं सर्व्वथा सम्पादयेयमिति। तस्याश्च सम्पादनार्थं त्वाशंसेन, रसेन, प्रयोगेण, छन्दगतो विहरत्यभियुक्तश्च [।] अपि चास्यैवं भवति। यथाहमद्य जागरिकार्थमारब्धवीर्यो व्यहार्षं, कुशलानाञ्च धर्माणां भावनायै, दक्षो[अ]नलस, उत्थानसम्पन्नः, श्वः प्रभाते, निर्गतायां च रजन्यां, भूयस्या मात्रया आरब्धवीर्यो विहरिष्यामि उत्थानसम्पन्न इति। तत्रैकया उत्थानसंज्ञया गाढं स्वपिति। येनाहं (यं) शक्नोति लघु लघ्वेव उत्थानकाले उत्थातुं, न कालातिक्रान्तं प्रतिबुध्यति। द्वितीययोत्थानसंज्ञया बुद्धानुज्ञातां सिं[हश]य्यां कल्पयत्यन्यूनामनधिकां। तृतीययोत्थानसंज्ञया छन्दंन स्रन्स(स्रंस)यति। सति स्मृतिसंप्रमोषे, सत्युत्तरत्रोत्तरत्र समादानाय प्रयुक्तो भवति। एवमुत्थानसंज्ञामेव मनसि कुर्व्वन् शय्यां कल्पयति।

स रात्र्याः पश्चिमे यामे लघु लघ्वेव प्रतिविबुध्यावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयतीति। पश्चिमो याम उच्चते। यो[अ]पररात्रः सातिरेकप्रहरं (रः)। स चायमालोकसंज्ञी स्मृतः। संप्रजान[न्], उत्थानसंज्ञामेव मनसि कुर्व्वन्, मध्यमं यामं सातिरेकं प्रहरं मिद्धमवक्रामयित्वा (क्राम्य), यस्मिं (स्मिन्) समये व्युत्तिष्ठते। तत्र तस्मिं (स्मिन्) समये व्युत्तिष्ठते। कर्मण्यकायो भवति। उत्थाय, नाधिमात्रेण स्त्यानमिद्धपर्यवस्थानेनाभिभूतः। येनास्योत्तिष्ठतो धन्धायितत्वं वा स्यान्मंदा यितच्च(त्व)म्वा, आलस्यकौसीद्यम्वा[।] असति वा पुनस्तस्मिन्धन्धायितत्वे, मन्दायितत्वे, आलस्यकौसीद्ये, लघु लघ्वेवोत्थानं भवत्याभोगमात्रादेव नो संग्रामं वा कृत्वा आवरणीयेभ्यो धर्मेभ्यः परिशुद्धिः पूर्व्ववद्वेदि तव्याः (व्या)। अयं तावत्पूर्व्वरात्रापरंरात्रं जागरिकानुयोगस्य विस्तरविभागः।

समासार्थाः पुनः कतमे। इह जागरिकायोगमनुयुक्तस्य पुरुषपुद्गलस्य चत्वारि सम्यक्करणीयानि भवन्ति। कतमानि चत्वारि। यावज्जाग्रति (गति) तावत्कुशलपक्षं न रिंचति। सातत्येनै[क]पक्ष्यकुशलधर्मभावनायां कालेन च शय्यां कल्पयति। नाकालेन। सुप्तश्चासंक्लिष्टचित्तो मिद्धमवक्रामयति। न संक्लिष्टचित्तः [।] कालेन च प्रतिविबुध्यते(ति)। नोत्थानकालमतिवर्तते। इतीमानि चत्वारि सम्यक्करणीयान्यारम्य भगवता श्रावकाणां जागरिकानुयोगो देशितः।

कथं च पुनर्देशितः। यत्तावदाह[।] दिवा चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति। एवं रात्र्याः प्रथमयाममि (इ)त्यनेन तावत् प्रथमं सम्यक्करणीयमाख्यातं। यदुत यावज्जाग्रति (गर्ति)तावत् कुशलपक्षं न रिंचति। सातत्येनै[क]पक्ष्यकुशलधर्म्मभावनायां। यस्मात् पुनराह। बहिर्विहारस्य पादौ प्रक्षाल्य, विहारं प्रविश्य, दक्षिणेन पार्श्वेन शय्यां कल्पयति। पादे पादमाधायेत्यनेन द्वितीयं सम्यक्करणीयमाख्यातं। यदुत कालेन शय्यां कल्पयति। नाकालेन। यत्पुनराह। आलोकसंज्ञी स्मृतः। संप्रजान[न्], उत्थानसंज्ञामेव मनसि कुर्व्वन्, शय्यां कल्पयतीत्यनेन तृतीयं सम्यक्करणीयमाख्यातं। यदुत असंक्लिष्टचित्तो मिद्धमवक्रामयति(क्रमते)। न संक्लिष्टचित्त इति। यत् पुनराह रात्र्याः पश्चिमे यामे लघु लघ्वेव प्रतिविबुध्य आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयतीत्यनेन चतुर्थं सम्यक्करणीयमाख्यातं। यदुत कालेन प्रतिविबुध्यति। नोत्थानकालमतिवर्तते। इति तत्र यदुक्तमालोकसंज्ञी स्मृतः, संप्रजानन्, व्युत्थानसंज्ञामेव मनसि[कुर्व्व]न् शय्यां कल्पयतीति। अतो द्ववाभ्यां कारणाभ्यां असंक्लिष्टचित्तो मिद्धमवक्रामयति। यदुत स्मृत्या, संप्रजन्येन, द्वाभ्यां पुनः कारणाभ्यां कालेन प्रतिविबुध्यते। नो तु कालमतिवर्तते। यदुतालोकसंज्ञया, उत्थानसंज्ञया च। कथं पुनः कृत्वा कुशलमालम्बनं परिगृह्य स्वपिति। संप्रजन्येन, तस्मात्, कुशलादा लम्बनाच्च्यवमानं, संक्लिश्यमानं चित्तं लघु लघ्वेव सम्यक्प्रजानाति। एवमस्याभ्यां द्वाभ्यां कारणाभ्यामसंक्लिष्टचित्तस्य शय्या भवति। तत्रालोकसंज्ञया, उत्थानसंज्ञया च। न गाढं स्वपिति। नास्य दूरानुगतं तन्मिद्धपर्यवस्थानं भवति। इत्याभ्यां द्वाभ्यां कारणाभ्यां कालेन [प्रति]विबुध्यते(ति)। नोत्थानकालमतिवर्तते। अयं जागरिकानुयोगस्य समासार्थो(र्थः)[।]यश्च पूर्व्वको विस्तरविभागः, यश्चायं समासार्थः। इयमुच्यते पूर्वरात्रापररात्रं जागरिकानुयुक्ता॥

संप्रजानद्विहारिता कतमा। यथापीहैकत्यः अभिक्रमप्रतिक्रमे संप्रजानद्विहारी भवति। आलोकितव्यवलोकिते, संमिंजित(साम्मिञ्जित) प्रसारिते, संघाटीचीवरपात्रधारणे। अशिते, पीते, खादिते, स्वादिते, निषण्णे, शयिते, जागृते, प्र[ल]पिते, तूष्णींभावे, निद्राक्लमविनोदने संप्रजानद्विहारी भवति।

तत्र कतमो[अ]भिक्रमः। प्रतिक्रमः कतमः। अभिक्रमप्रतिक्रमे सम्प्रजानद्विहारिता [कतमा]।

तत्राभिक्रमः[।] यथापीहैकत्यो ग्रामम्वा उपक्रामति। ग्रामान्तरम्वा, कुलम्वा, [कुलान्तरम्वा, विहारम्वा], विहारान्तरम्वा [।]

तत्र प्रतिक्रमः। यथापीहैकत्यः ग्रामान्तराम्वा (ग्रामाद्वा) प्रतिनिवर्त्तते। ग्रामान्तराद्वा, कुलाद्वा, कुलान्तराद्वा, विहाराद्वा, विहारान्तराद्वा[।]

तत्र संप्रजानद्विहारिता (याः)॥ अभिक्रम[मा]णे (णो) अभिक्रमामीति सम्यगेव प्रजानाति। अत्र मया अभिक्रमितव्यं। अत्र मया पुनर्नाभिक्रमितव्यमिति। सम्यगेव प्रजानति। अयम्वा मे अभिसंक्रमणकालः अयं नाभिसंक्रमणकाल इति। सम्यगेव प्रजानाति। इदमस्योच्यते संप्रजन्यं [।]स चेत्तेन संप्रजन्येन समन्वागतः। अभिक्रममाणः प्रजानात्यभिक्रमामीति। यत्र चानेनाभिक्रमितव्यं भवति। तत्र चाभिक्रमति। कालेन चाभिक्रमति नाकालेन। यथा चाभिक्रमितव्यं। यद्रूपया [च] य(र्य)या आचारेणाकल्पेन ईर्यापथेन तथा अभिक्रमतीयमस्योच्यते संप्रजानाद्विहारिता यदुताभिक्रमप्रतिक्रमः (मयोः)।

तत्र कतमदालोकितं, कतमद् व्यवलोकितं। कतमा आलोकितव्यवलोकित संप्रजानाद्विहारितः (ता)। तस्यास्य पूर्वपरिकी [र्त्तितेषु धमषु] अभिक्रमतः, प्रतिक्रमतश्च यदबुद्धिपूर्वकमच्छन्दपूर्वकं। अ[न्तरे]ण चक्षुषा रूपदर्शनमिदमुच्यते आलोकितं।

यत्पुनरुपसंक्रान्तस्य बुद्धिपूर्व्वकं प्रयत्नपूर्व्वकं, कृत्यपूर्व्वकं चक्षुषा रूपदर्शनं, तद्यथा राज्ञा(ज्ञां) राज्या(जा)मात्राणां, नैगमानां, जानपदानाम्वा, ब्राह्मणानाम्वा, धनिनां, श्रेष्ठिनां, सार्थवाहानां, तदन्येषाम्बाह्यकानांलयनानां, मारुतानामवरकाणां, प्र(प्रा)सादानां, हर्म्यतलानामिति। यद्वा पुनरन्येषां लोकचित्राणां दर्शनमिदमुच्यते। व्यवलोकितं।

यत्पुनरालोकितं च व्यवलोकितं च स्वलक्षणतः सम्यगेव प्रजानाति। यथा आलोकि(कयि)तव्यं, यथा व्यवलोकयितव्यं तदपिसम्यगेव प्रजानाति। इदमस्योच्यते संप्रजन्यं[।] स तेन संप्रजन्येन समन्वागतः। सचेदवलोकयमानो जानात्यवलोकयामीति। यच्चावलोकयितव्यं व्यवलोकयितव्यं तदालोकयति व्यवलोकयति। यदा आलोकयितव्यं, व्यवलोकयितव्यं। तदा आलोकयति, व्यवलोकयति[।] यथा आलोकयितव्यं व्यवलोकयितव्यं तथा आलोकयति, व्यवलोकयति। इयमस्योच्यते। संप्रजानद्विहारिता। यदुतालोकितव्यवलोकिते[।]

तत्र कतमत् संमिजि(सम्मिञ्जि)तं, कतमत् प्रसारितं, कतमा संमिजि(सम्मिञ्जि)तप्रसारिते संप्रजानद्विहारिता। स तथा आलोकयमानो, व्यवलोकयमानश्च। अभिक्रमपूर्वकं, प्रतिक्रमपूर्वकञ्च, यत्पादौ वा सम्मिंजयति, प्रसारयति। बाहू वा संमि(मिं)जयति। प्रसारयति। हस्तौ वा संमि(मिं)जयति, प्रसारयति। इत्यन्यतमान्यतमम्वा अंगप्रत्यंगं सम्मिञ्जियति। प्रसारयतीदमुच्यते। संमि(मिं)जित प्रसारितं[।]सचेत् संमि(मिं)जितप्रसारितं स्वलक्षणतः प्रजानाति संमि(मिं)जितव्यं। प्रसारितव्यञ्च। सम्यगेव प्रजानाति। यादि च संमि(मिं)जि(जयि)तव्यं, यदा प्रसारि(रयि)तव्यं तदपि सम्यगेव प्रजानाति। यथा च संमि(मिं)जि(जयि)तव्यं, यथा प्रसारि(रयि)तव्यं, तदपि सम्यगेव प्रजानाति, इदमस्योच्यते संप्रजन्यं।

स तेन संप्रजन्येन समन्वागतः। स चेत् संमिज(सम्मिञ्ज)यमानः(यन्), प्रसारयमाणः(यन्)। जानाति। संमि(मिं)जयामि। प्रसारयामीति। यच्च संमि(मिं)जयितव्यं प्रसारयितव्यं संमि(मिं)जयति, प्रसारयति। यदा च संमि(मिं)जयितव्यं, प्रसारयितव्यं तदा संमि(मिं)जयति, प्रसारयति, इयमस्योच्यते। संप्रजानद्विहारिता यदुत संमिंजि(सम्मिञ्जि)त प्रसारिते॥

तत्र कतमत् संघाटीधारणं। कतमच्चीवरधारणं, कतमत्, पात्रधारणं, कतमा(मत्)सां(सं)घाटीचीवरपात्रधारणं(णे)। संप्रजानद्विहारिता।

यत्तावदस्य ज्येष्ठं चीवरं षष्ठिखन्नम्वा (खण्डं वा) नवतिखन्नम्वा(खण्डं वा), द्विगुणसीवितम्वा, एकगुणसीवितम्वा इयमुच्यते सांघाटी (संघाटी)[।] तस्य प्रावरणं परिभोगः। सम्यगेव परिहरणं धारणमित्युच्यते।

यत्पुनरस्य मध्यम्वा, कनीयो वा, आधिष्ठानिकम्वा ची[वरं] अतिरेकचीवरं वा। आधिष्ठानिकं वा। चीवरं अतिरेकचीवरम्वा विकल्पनार्हं विकल्पयति तच्चीवरमित्युच्यते। तस्य प्रावरणं परिभोगः। सम्यगेव परिहरणं धारणमित्युच्यते। यत्पुनरस्याधिष्ठानानि कमा(र्मा)यसम्वा, मृन्मयम्वा भैक्षभोजनमिदमुच्यते। पात्रं, तस्य परिभोगः। सम्यगेव परिहरणं धारणमित्युच्यते।

स चेत्पुनरयं तां सां (सं)घाटीं, चीवरं, पात्रं, धारणम्वा स्वलक्षणतः सम्यगेव प्रजानाति। यच्च सां (सं) घाटीचीवरपात्रधारणं। कल्पिकं, अकल्पिकं वा, तदपि सम्यगेव प्रजानति। यदा च सां(सं)घाटीचीवरपात्रधारणं धारयितव्यं (कर्त्तव्यं)। तदा सम्यगेव प्रजानाति। यथा च धारयितव्यं, तदपि सम्यगेव प्रजानाति। इदमस्योच्यते। संप्रजन्यं। स तेन संप्रजन्येन समन्वागतः। सचेत् सां(सं)घाटी(टीं), चीवरं, पात्रं धारयमाणो जानाति धारयामीति। यच्च धारयितव्यं तद्धारयति। यदा च धारयितव्यं तदा धारयति। यथा च धारयितव्यं तथा धारयतीयमस्योच्यते संप्रजानद्विहारिता। यदुत सां(सं) घाटीचीवरपात्रधारणे।

तत्र कतमदशितं। कतमत्पीतं। कतमत् खादितं। कतमत्स्वादितं। कतमा अशितपीतखादितास्वादिते [षु]संप्रजानद्विहारिता। यः कश्चित् पिण्डपातपरिभोगः सर्व्वं तदशितमित्युच्यते। तस्य पुनर्द्विधा भेदः खादितं; स्वादितं च। तत्र खादितं। मन्था वा, [अ]पूपा वा, ओदनकुल्माषम्वेति यद्वा पुनरन्यतमाभिसंस्कारिकमन्नं विकृतं भोज्यं प्राणसंधारणमिदमुच्यते खादितमशितमपीतं।

स्वादितं कतमत्। तद्यथा क्षीरं, दधि, नवनीतं, सर्पिस्तैलं, मधु, शो(फा)णितं, मान्सं (मांसं), मत्स्या, वल्लूरा, लवणं, वनफलम्वा, भक्ष(क्ष्य)प्रकारं वा इदमुच्यते स्वादितमशितमपि (पी)तं॥

यत्पुनः पीयते खण्डरसं(सो)वा, शर्करारसम्वा (सो वा), कांचिकम्वा, दधिमण्डम्वा। शुक्तम्वा, तक्रम्वा, अन्ततः पानीयमपि [।] इदमुच्यते पीतं।

स चेदशितपीतखादितास्वादितं स्वलक्षणतः सम्यगेव प्रजानाति। यच्चाशितव्यं, पातव्यं, खादितव्यं, स्वादि(दयि)तव्यं तदपि सम्यगेव प्रजानाति। यदा चाशितव्यं, पातव्यं खादितव्यं, स्वादि (दयि)तव्यं तदेव (तदपि) सम्यगेव प्रजानाति। यथा चाशितव्यं, पातव्यं, खादितव्यं। स्वादि(दयि)तव्यं। तदपि सम्यगेव प्रजानाति। इदमस्योच्यते संप्रजन्यं[।]

स तेन संप्रजन्येन समन्वागतः अशमानः (अशन्), पिबमानः (पिबन्), खादमानः (खादन्), स्वादयमानः (स्वादयन्) स चेज्जानाति। अश्नामि, पिबामि, खादामीति। यच्चाशितव्यं, पातव्यं, खादितव्यं, तदश्नातियावत्स्वादयति। यदा चाशितव्यं (याव)त्स्वादयितव्यं। तदा अश्नाति, स्वादयति। यथा चाशितव्यंयावत्स्वादयितव्यं तथा [अ]श्नाति। यावत्स्वादयितव्यमि (यावत्स्वादयती)यमस्योच्यते यावत् संप्रजानद्विहारिता। यदुताशितपीतखादितास्वादिते [षु] [॥]

तत्र कतमद्गतं, कतमत् स्थितं, कतमन्निषण्णं। कतमच्छयितं। कतमज्जागृतं। कतमद्भाषितं, कतमत्तू(मस्तू)ष्णीम्भावः। कतमा निद्राक्लमप्रतिविनोदना। कतमा गते, स्थिते, निषण्णे शयिते, जागृते, भाषिते, तूष्णीम्भावे, निद्राक्लमविनोदना [यां] संप्रजानद्विहारिता। यथापीहैकत्यश्चंक्रमे चंक्रम्यते(मते), सहधर्मिकाणां चोपसंक्रामति। अध्वानं वा प्रतिपद्यते। इदमस्योच्यते गतं। यथापीहैकत्यश्चंक्रमे वा तिष्ठति, सहधार्मिकाणां वा पुरतस्तिष्ठति। आचार्याणामुपाध्यायानां गुरूणां गुरुस्थानीयानां इदमुच्यते स्थितं। यथापीहैकत्यो मंचे, वा, पीठे वा, तृणसंस्तरणे वा, सन्निविशति वा, सन्निषीदति वा। पर्यङ्कमाभुज्य, ऋजुं कायं प्रणिधाय, प्रतिमुखां (खीं) स्मृतिमुपस्थाप्येदमुच्यते। निषण्णं। यथापी हैकत्यो बहिर्विहारस्य पादौ प्रक्षाल्य, विहारं प्रविश्य, दक्षिणेन पार्श्वेन सिंहशय्यां कल्पयति। पादे पादमाधाय, मञ्चे वा, पीठे वा, तृणसंस्तरके(णे) वा, अरण्ये, वृक्षमूले वा, शून्यागारे वा [।] इदमुच्यते शयितं।

यथापीहैकत्यो दिवा चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयत्येवं रात्र्याः प्रथमे यामे, पश्चिमे यामे[।] इदमुच्यते जागृतं।

यथापीहैकत्यस्तथा जागरिकानुयुक्तः अनुद्दिष्टांश्च धर्मानुद्दिशति। पर्यवाप्नोति। तद्यथा सूत्रं, गेयं, व्याकरणमिति। विस्तरेण पूर्व्ववत्। उद्दिष्टेषु च धर्मेषु वचसा परिचयं करोति। यदुत विस्तरेण स्वाध्यायक्रियया, परेषां वा विस्तरेण संप्रकाशयति। कालेन कालमालपति। प्रतिसंमोदय[ति वि]ज्ञैः सब्रह्मचारिभिस्सार्द्धं, तदन्यैर्व्वा गृहस्थैर्यावदेवोद्योजनं परिष्कारार्थमिदमुच्यते। भाषितं।

यथापीहैकत्यो यथाश्रुतानां, यथा पर्य[वा] तप्तानान्धर्माणाम्मनसा परिजितानां, एकाकी रहोगतो [अ]र्थं चि[न्तय]ति, तुलयत्युपपरीक्षते। प्रतिसंलीनो वा पुनः भवत्यध्यात्ममेव चित्तं स्थापयति। दमयति[।]शमयति। व्युपशमयति। एकोतीकरोति। समाधत्ते[।]विपश्यनायाम्वा योगं करोत्ययमुच्यते तूष्णीम्भावः।

यथापीहैकत्यः ग्रीष्मसमये प्रत्युपस्थिते, उत्तप्तग्रीष्मपरिदाहे काले वर्तमाने, उष्णन वा बाध्यते। श्रान्तो वा भवति। क्लान्तस्योत्पद्यते। अकाले निद्राक्लमः स्वपितुकामतः (ता)। अयमुच्यते निद्राक्लमः।

स चेत् पुनरयं गतं यावन्निद्राक्लमविनोदनं। तत्स्वलक्षणतः सम्यगेव प्रजानाति। यत्र च गन्तव्यं यावन्निद्राक्लमः प्रतिविनोदयितव्यः। तदपि सम्यगेव प्रजानाति। यदा च गन्तव्यं। यावद्यथा निद्राक्लमः। प्रतिविनोदयितव्यः। तदपि सम्यगेव प्रजानाति। यथा च गन्तव्यं भवति। यत्र (यथा) च यावन्निद्राक्लमः। प्रतिविनोदयितव्यः तदपि सम्यगेव प्रजानाति। इदमस्योच्यते संप्रजन्यं [।]

स तेन संप्रजन्येन समन्वागतः। गच्छन् यावन्निद्राक्लमः (मं) प्रतिविनोदयन् स चेज्जानाति। (गच्छामि) गच्छामि यावत् (न्) निद्राक्लमं प्रतिविनोदयामि। यत्र च गन्तव्यं भवति। यत्र च यावन्निद्राक्लमः प्रतिविनोदयितव्यो भवति। तदा गच्छति। तदा यावन्निद्राक्लमं प्रतिविनोदयति। यथा च गन्तव्यं भवति। यथा यावन्निद्राक्लमः। प्रतिविनोदयितव्यो भवति। तथा गच्छति। तथा यावत्। निद्राक्लमं प्रतिविनोदयतीयमस्योच्यते (।) [ ][।]

संप्रजानद्विहारिताया[ः] कतमा आनुपूर्व्वो, कतमा च स्तुतिभावना, यथापीहैकत्यो यं यमेव ग्रामं वा निगमम्वोप[नि]श्रित्य विहरति। तस्यैवं भवति। मया खल्वयं ग्रामो वा, निगमो वा पिण्डायोप[सं]क्रमितव्यः। पिण्डाय चरित्वा, पुनरेव विहारं[प्रति]निष्क्रमितव्यं[।]

सन्ति(।) पुनरत्र कुलानि ग्रामे वा, नगरे वा, यानि मया नोपसंक्रमितव्यानि। तानि पुनः कतमानि। तद्यथा। घोषं(षः), पानागारं, वेश्यं, राजकुलं, चण्डालकठिनमिति। यानि वा पुनः कुलान्येकान्तेन प्रतिहतान्यप्रत्युदावर्त्तानि[।] सन्ति च पुनः कुलानि यानि मयोपसंक्रमितव्यानि। तद्यथा क्षत्रियमहासालकुलानि वा, ब्राह्मणमहासालकुलानि वा, नैगमकुलानि वा, जानपदकुलानि वा, धनिकुलानि वा, श्रेष्ठिकुलानि वा, सार्थवाहकुलानि वा मयोपसंक्रमितव्यानि, तानि नातिसायमुपसंक्रमितव्यानि। तानिविकालं, न च कार्यव्यग्रेषु दायकदानपतिषु, न क्रीडारतिमंडनयोगमनुयुक्तेषु, न ग्राम्यधर्माय प्रवृत्तेषु, न कुपितेषु[।] तथा चोपसंक्रमितव्यानि यथोप संक्रमन्नहन्न भ्रान्तेन हस्तिना सार्धं समागच्छेयं, न भ्रान्तेन स्थेन, पुनः चण्डेनाश्वेन, न चण्डया गवा, न चण्डेन कुक्कुरेण, न गहनं, न कण्टकावाटं वा मर्देयं। न श्वभ्रे, पल्वले, प्रपाते प्रपतेयं। न स्यन्दिकायां, न गूथकठिल्लचन्द्रोपमश्च कुलान्युपसंक्रमेयं। ह्रीमानप्रगल्भः व्यवकृष्य कायं, व्यवकृष्य चित्तं, न लाभकामो न सत्कारकामः। यथा स्वेन लाभेन सुचित्तः, सुमनास्तथा परस्याविप्रलाभेन सुचित्तः, सुमनाः अनन्योत्कर्षी, अपरपंसकः। अनुकम्पाचित्तो, दयाचित्तः। एवं च पुनरुपसंक्रमितव्यानि। तत्कुत एतल्लभ्यं प्रव्रजितेन परकुलेषु यद्ददतु मे परे, मा वा ददतु, यावत्त्वरितं मा धन्धमिति विस्तरेण [।] उपसंक्रम्य च मे [मया]प्रतिग्रहे मात्रा करणीया। न च लाभहेतोः कुहना करणीया। लपना, नैमित्तिकता, नैष्पेषिकता, लाभेन लाभनिश्चिकीर्षता करणीया(ः)। स च लाभः अरक्तेन परिभोक्तव्य[ः], असक्तेनागृद्धेनाग्रथितेनामूढितेन, अनध्यवसितेनाध्यवसायमापन्नेन[।]यानि च रूपाणि तत्रोपसंक्रमता उपसंक्रान्तेन वा द्रष्टव्यानि भवन्ति। तान्येकत्यानि द्रष्टव्यानि। तत्र यानि न द्रष्टव्यानि तेषु उत्क्षिप्तचक्षुषा भवितव्यं। सुसंहृतेन्द्रियेण, यानि पुनर्द्रष्टव्यानि तेषु सूपस्थितां स्मृतिमुपस्थाप्य[।]

कथं रूपाणि [पुना] रूपाणि नावलोकयितव्यानि। तद्यथा न नर्त्तको, न हासको, न लासक इति[।] यद्वा पुनरन्यच्चावरणजातं नृत्ते वा, गीते वा, वादिते वा प्रवृत्तं [।] तथा मातृग्रामो विशेषेण पुनः शिशुरुदारवर्ण्णो र[ञ्जनी]य इति यानि च पुना रूपाणि दृष्टानि ब्रह्मचर्योपघातिभिः ब्रह्मचर्यान्तरायाय, पापकानां चाकुशलानाम्वितर्काणां समुदाचाराय सम्वर्त्तेरन्। तद्रूपाणि रूपाणि नावलोकयितव्यानि, न व्यवलोकयितव्यानि [।]

कथं रूपाणि पुना रूपाणि द्रष्टव्यानि। तद्यथा जीर्ण्णम्वा, वृद्धम्वा, महल्लकम्वा, खुरु खुरु प्रश्वासकायं, पुरतः प्राभो (भा) रकायं दण्डभवष्टभ्य, प्रवेपमानकायेन आबाधिकम्वा, दुःखितम्बाढग्लानं, आध्मातपादमाध्मातहस्तमाध्मातोदरमाध्मातमुखं, पाण्डुकविवर्ण्णं, दद्रूलम्वा, कच्छू(ण्डू) लम्वा, कुष्ठितम्वा, दुःखितहतगात्रं। पक्वगात्रमुपहतेन्द्रियं। मृतम्वा कालगतं, एकाहमृतम्वा, द्वाहमृतम्वा, सप्ताहमृतम्वा। काकैः कुररैः खाद्यमानं, गृद्धैः, श्वभिः, श्रृगालैर्व्विविधैर्व्वा तिर्यग्जातिगतैः प्राणिभिर्भक्ष्यमाणमर्ह्नियमाणम्वा, मंचे आरोप्योपरि वितानेन प्रसारितेन, पुन(र)ः पृष्ठतश्च महाजनकायेन रोदमानेन, क्रन्दमानेन, तस्मा (स्या) वकीर्ण्णप्रमुक्तकेशेन, तथा शोकजातं, दुःखजातं। परिदेवजातं। दौर्मनस्यजातं, उपायासजातं यन्मया द्रष्टव्यमित्येवं रूपाणि चान्यानि चैवंभागीयानि रूपाणि द्रष्टव्यानि। यानि ब्रह्मचर्यानुग्रहाय, कुशलानां च वितर्काणां समुदाचाराय (ं) सम्वर्त्तन्ते। न कायप्रचालकमुपसंक्रामितव्यं, न बाहुप्रचालकं, न शीर्षप्रचालकं, नोच्चग्मिकया न हस्तावलग्निकया, न सोड्ढक्किकया, नाननुज्ञातेन। ना (आ)सने निषत्तव्यं। ना[अ]प्रत्यवेक्ष्यासनं, न सर्व्वकायं समवधाय, न पादे पादमाधाय, न सक्थि सक्थिना, नाभिसंक्षिप्य पादौ, नाभिविक्षिप्य पादौ, नोद्गुण्ठिकया कृ(वृ)तेन, नोच्च(द्ध?) स्तिकया, न वितस्ति कया, न पर्यस्तिकया, परिमण्डलं चीवरं प्रावृत्य, नात्युत्कृष्टं, नात्य[पकृ]ष्टं, न हम्धी (स्ति)शुण्डकं, न तालवृन्तकं, न नागफलकं। न कुल्माषपिण्डिकं प्रावरितव्यं, नानागते खादनीये पात्रमुपनामयितव्यं, न च खादनीयभोजनीयस्योपरि कार[यितव्यं]। ना[ऽ]नास्तीर्ण्णे पृथिवीप्रदेशे प्रपाते प्राभो (भा?) रे पात्रं स्थापयितव्यं, सावदानं (ः) पिण्डपातं (तः) परिभोक्तव्यं (व्यः)। नो(न ओ)दनेन स्नापिकं प्रतिछा(च्छा)दयितव्यम्। न सूपिकेनोदेनमतित्तिनिकायोगमनुयुक्तेन (सूपिकेन, न ओदनेन, न तित्तिनिकायोगमनुयुक्तेन) परिभोक्तव्यं, नातिस्थूलं, नातिपरीत्तं परिमण्डलया [ऽऽ]लोपमालोपयितव्यं (आलोप आलोपयितव्यः)। न हस्तावलेहकं (कः), न पात्रावलेहकं (कः)। न हस्तसंथूनकं (कः), न पात्रसंथूनकं(कः)। न कबडच्छेदकं (कः)पिण्डपातं(तः) परिभोक्तव्यं(व्यः)॥ विहारगतेनापि मे (मया) तेभ्यः कुलेभ्यः प्रत्यागतेन, (प्रत्यागतेन) प्रतिनिष्क्रान्तेन, दिवा वा, रात्रौ वा, प्रातिपुद्गलिके चंक्रमे चंक्रमितव्यम्। न परक्ष्ये (परोक्षे)। अविश्वास्य, अप्रवारितेन, अनुद्दिष्टेन, श्रान्तकायेन, क्लान्तकायेन, नौद्धत्याभिनिगृहीते चित्ते कुशलपक्षप्रयुक्तेनामनसिकारानुगतेनान्तर्गतैरिन्द्रियैरबहिर्गतेन मानसेन, नातिद्रुतं, नातिचपलं, नैकान्तेन गमनप्रत्यागमनप्रतिसंयुक्तेन, कालेन कालं गच्छता, कालेन कालं तिष्ठता, तथा स्वे विहारे। स्वे परिगणे, स्वक्यां कुटिकायां, उद्देशिकायां, प्रातिपौद्गलिकायां, न परपक्ष्यायामविश्वास्यायामप्रवारितायां, तथा मंचे वा, पीठे वा, तृणसंस्तरके (णे) वा, अरण्ये वा, वृक्षमूले वा, शून्यागारे वा, निषत्तव्यं। पय(र्य)ङ्कमाभुज्य, ऋजुं कायं प्रणिधाय, प्रतिमुखां(खीं)स्मृतिमुपस्थाप्य, रात्र्या मध्समे यामे स्वपितव्यम्। दिवापूर्वकञ्च(श्च) यामं(मः)कुशलपक्षेणातिनामयितव्यं(व्यः)। एवं च पुनःस्वपितव्यं [।]।

आलोकसंज्ञिना स्मृतेन संप्रजा[ना]नेन, उत्थानसंज्ञामेव मनसि कुर्वता, रात्र्या[ः]पश्चिमे यामे लघुलध्वेव प्रतिविबुध्य, भाष्ये वा, स्वाध्यायक्रियायां वा योगः करणीयः। प्रहाणे वा, प्रतिसंलयने, धर्मचिन्तायां, लोकायताश्च मंत्रा विवर्जयितव्याः (।) चित्राक्षर[-।]श्चित्रपदव्यंजना, अनर्थोपसंहिता ये नाभिज्ञायै, न सम्बोधाय, न निर्वाणाय सम्वर्तन्ते। ये वा पुनर्धर्मास्तथागतभाषिता, गंभीरा, गंभीराभासा[ः], शून्यताप्रतिसंयुक्ता, इदंप्रत्यया(यता)प्रतीत्यसमुत्पादानुलोमास्ते सत्कृत्योद्गृ(द्ग्र)हीतव्याः। दृढञ्च, स्थिरञ्च, सूद्गृहीताश्च, न नाशयितव्याः। प्रतिपत्त्या [ः] सम्पादनार्थं, न लाभसत्कार हेतोः[।]ते च पुनर्धर्मा वचसा सुपरिजिताः कर्तव्याः। न च संगणिकया अतिनामयितव्यं, न कर्मारामतया, न भाष्यारामतया, कालेन च कालमुपस्थितया स्मृत्या विज्ञास्य(स्स)ब्रह्मचारिणः, आलपितव्याः, संलपितव्याः, प्रतिसंबोधयितव्याः, परिपृच्छन[जाती]येन च भवितव्यं, किंकुशलगवेषिणा॥ अनुपलंभचित्तेन, मितवादिना, युक्तभाणिना, प्रशान्तभाणिना च॥ परेषां धा(ध)र्म्यां कथां कथयित्वा त्वकामेन तूष्णींभावेन च ये पापका अकुशला वितर्का नातितर्कयितव्याः। न चायोनिशोधर्मचिन्तायुक्तेन।

एवं रूपा अनेन बहवो धर्मा उद्गृहीता भवन्ति। धृता, वचसा परिजिता, मनसा चान्वीक्षिता [ः]। दृष्ट्या सुप्रतिविष्टाः (विद्धाः)। एवं बहुश्रुतो भवति।

कथमधिगन्ता भवति। लाभी भवत्यनित्यसंज्ञायाः, अनित्ये दुःखसंज्ञाया, दुःखेऽनात्मसंज्ञायाः, आहारे प्रतिकूलसंज्ञाया, विलोहितकसंज्ञाया, विक्षिप्तकसंज्ञाया, अस्थिसंज्ञायाः, शून्यताप्रत्यवेक्षणसंज्ञाया[।] लाभी भवति (।) प्रथमस्य ध्यानस्य, द्वितीयस्य, तृतीयस्य, चतुर्थस्याकाशानन्त्या यतनविज्ञानानन्त्यायतना[ऽऽ]किंचन्यायतननैवसंज्ञानासंज्ञायतनस्य, मैत्र्याः, करुणाया, उपेक्षाया, मुदितायाः, स्रोत आपत्तिफलस्य, सकृदागामिफलस्यानागामिफलस्य च, द्विविषयस्य, पूर्व्वेनिवासस्य, दिव्यस्य श्रोत्रस्य, च्युत्युपपादस्य, चेतःपर्यायस्यार्हत्त्वस्याष्टविमोक्षध्यायित्वस्य[।]शक्तो भवति। प्रतिबलश्च परेषां त्रिभिः प्रातिहार्यैरववदितुं। ऋद्धिप्रातिहार्येण, आदेशनाप्रतिहार्येण, अनुशासनाप्रातिहार्येण[।] एवमधिगन्ता भवति।

कथमनुकम्पको भवति। परेषामन्तिके कारुणिको भवति। दयापन्नः, अर्थकामो भवति। हितकामः, सुखकामः, स्पर्शकामः, योगक्षेमकामः[।] एवमनुकम्पको भवति।

कथमप्रतिखिन्नमानसो भवति। व(र)तिसंदर्शको भवति। समादापकः, समुत्तेजकः संप्रहर्षकः, आज्ञासी चतसृणाम्पर्षदां, धर्मदेशनायै दक्षो भवत्यनलस, उत्थानसम्पन्नः। आरब्धवीर्य, आरब्धवीर्य जातीयः[।] एवमपरिखिन्नमानसो भवति।

कथं क्षमावान् भवति। आक्रुष्टो न प्रत्याक्रोशति। रोषितो न प्रतिरोषयति। वादितो न प्रतिवादयति। मण्डितो न प्रतिमण्डयति। [अनेन दानप्रत्यर्थादान(प्रत्यादान)समो भवति] प्रगाढेष्वपि बन्धनेषु, रोधनेषु, ताडनेषु, तर्जनेषु, छे(च्छे)दनेषु, आत्मापराधी भवति। कर्मविपाकञ्च प्रतिसरति। न परेषामन्तिके कुप्यति। नाप्यनुशयं वहति। इति विमानितो [अ]पि, विवर्ण्णितो[अ]पि, विजुगुप्सितो [अ]पि, न विकृमिमापद्यते। नान्यत्रार्थायैव चेतयते क्षमश्च भवति। शीत[स्यो]ष्णस्य, जिघत्साया, पिपासाया, दंशमशकवातातपसरीसृपसम्पन्नानां, परतो दुरुक्तानां, दुरागतानां(नां), पतनपक्षाणां, शारीरिकाणां वेदनानां, दुःखानां, तीव्राणां, खराणां, कटुकानां, अ[मन]आपानां, प्राणहारिणीनां क्षमो भवत्यधिवासनजातीयः। एवंक्षमावान् भवत्य[सा]विति॥

कथं विशारदो भवति। असंलीनचित्तः[।] पर्षदि धर्मं देशयति। अगद्गदस्वरः, असंप्रमुषितस्मृतिप्रतिभानः। न चास्य शारद्‍यहेतोः, शारद्यनिदानं भयम्वा आजपति, समाविशति, नापि कम्पाभ्यां स्वेदो मुच्यते, रोगक्लमेभ्यो वा[।] एवं विशारदो भवति।

कथं वाक्करणेनोपेतो भवति। पौर्या(र्यया)वाचा समन्वागतो भवति। वल्गून्यविस्प(वल्गुन्या, विस्प)ष्टया, विज्ञेयया, श्रवणीयया, अप्रतिकूलया, अनिश्रितया, (अ)पर्याप्तया[।] एवम्वाक्करणेनोपेतो भवति। कल्याणवादी।

स एभिरष्टाभिः कारणैः समन्वागतश्चोदको भवति। स्मारकः, अववादकः, अनुशासको, धर्म देशकः ॥]

कथं चोदको भवति। यदुताधिशीले च शीलविपत्त्या, अध्याचारे आचारविपत्त्या, दृष्टेन, श्रुतेन, परिशंकया चोदयति। भूतेन, नाभूतेन, कालेन नाकालेनार्थोपसंहितेन नाना(न)र्थोपसंहितेन, श्लक्ष्णेन, न परुषेण, मित्रवत्तया, न द्वेषान्तरेण[।] एवं चोदको भवति।

कथं स्मारको भवति। आपत्तिम्वा स्मारयति। धर्मं चा(वा)र्थम्वा[।]

कथमापत्तिं स्मारयति। यथापि तदापत्ति मध्यापद्यमानः स्मरति। तमेनं स्मारयति। आयुष्मन्नमुष्मिन्देशे, अमुष्मिन्, वस्तुनि, अमुष्मिन् काले, एवं रूपं, चैवं कालमापन्न इत्येवमापत्तिं स्मारयति।

कथं धर्मं स्मारयति। यथापि तच्छ्रुतानुद्गृहीतान् धर्मानेकाकी स्मरति। स्मर्तुमिच्छति। तद्यथा सूत्रं, गेयं, व्याकरणमिति विस्तरेण पूर्व्ववन्न स्मरति। तमेन (नं)स्मारयति। उत्स्मारणिकाम्वास्यानुप्रयच्छति। आपृच्छनपरिपृच्छनिकां वा, एवं धर्मान स्मारयति।

कथं धर्म (अर्थं) स्मारयति। यथापि नथां (चार्थान्) विस्मारयति (विस्मरति)। तमेनं स्मारयति। पुनरपि प्रतिनवीकरोति। उत्तानी करोति। देशयति, संप्रकाशयति। यच्चापि कुशलमर्थोपसंहितं, ब्रह्मचर्योपसंहितं। चिरक(कृ)तं, चिरभाषितमप्यनुस्मारयिता भवति। एवं स्मारको भवति।

कथमववादको भवति। प्राविवेक्ये प्रतिसंलयने, योगे, मनसिकार(रे), शमथविपश्यनायां कालेन कालमानुलोमिकं अववादं प्रवर्त्तयति। कालेन च कालं तत्प्रतिसंयुक्तां कथां करोति। तद्यथा चेतोविनिवरणसांप्रेयगामिनीं शीलकथाम्वा, प्रज्ञाकथाम्वा, विमुक्तिकथाम्वा, अल्पेच्छकथाम्वा, विमुक्तिज्ञानदर्शनकथाम्वा, संतुष्टिकथाम्वा, प्रहाणकथां, विरागकथां, निरोधकथां, अपचयकथां, असंसर्गकथां, इदंप्रत्यय[ता प्र]तीत्यसमुत्पादानुलोमान्(मां)कथां करोति। एवमववादको भवति।

कथमनुशासको भवति। धर्मेण, विनयेन, समनुशास्तुः शासने आचार्यो वा भवति। उपाध्यायो वा, सहधार्मिको वा, गुरुर्व्वा, गुरुस्थानीयो वा, अन्यतमान्यतमस्मिन्नधिकरणे अतिसृतं, व्यतिक्रान्तं विदित्वा। कालेन कालमवसादयति। दण्डकर्मम(र्मा)नुप्रयच्छति। प्रणामयति चैनं। पुनरपि च धर्मेण समयेप्रतिसंस्तरसामीचीसंज्ञप्तिं प्रतिगृहणाति। संरोहकश्च भवति। करणीये चाकरणीये भाव्याचारानध्याचारान् अध्याचीर्ण्णे (चरिते) अनध्याचीर्ण्णे (चरिते) च शास्त्यनुशास्त्येवमनुशासको भवति।

कथं च धर्मदेशको भवति। कालेन कालं पूर्वकालकरणीयां कथां करोति। तद्यथा दानकथां, शीलकथां, स्वर्गकथां, कामेष्वादीनव निःसरणं, व्यवदानपक्षान्धर्मान् विस्तरेण संप्रकाशयति। कालेन कालं चतुरार्यसत्यप्रतिसंयुक्तां कथां कथयति। दुःखं वा आरभ्य, समुदयम्वा, निरोधम्वा, फलम्वा, सपरिपाकाय (सत्त्वसंक्लेशाय?) वा, सत्व(त्त्व) व्यवदानाय वा, सद्धर्मस्य वा चिरस्थितये, युक्तैः पदव्यंजनैः, सहितैरानुलोमिकैरानुच्छविकैरौपायिकैः, प्रतिरूपैः, प्रदक्षिणैर्निपकस्यांगसंभारैस्तां च पुनः कथां कालेन करोति। सत्कृत्यानुसन्धिमनुपतितां। हर्षयन्, रोचयन्ननु(यन्नु)त्साहयन्ननवसादयंश्च युक्तां, सहितां, अव्यवकीर्ण्णां, यथाधार्मिकीं, यथापर्षन्मैत्रचित्तो, हितचित्तः, अनुकम्पाचित्तः। अनिश्रितो लाभसत्कारश्लोकेन चात्मानमुत्कर्षयति। न परान्पंस(पंस)यत्येवं धर्मदेशको भवति।

यश्चैभिरष्टाभि(ः) (समन्वागतो) रंगैः समन्वागतो भवति। एवं च कालेन कालं चोदको भवति, स्मारकः। अववादानुशासकस्तस्मात् कल्याणमित्र[म्]इत्युच्यते। अयं तावत् कल्याणमित्रताया विस्तरविभागः [।]

समासार्थः पुनः कतमः [।] स चेदयं मित्रसुहृदनुकम्पकः आदित एव हितकामो भवति। सुखकामश्च[।]तच्च पुनर्हितसुखं यथाभूतं प्रजानाति। अविपर्यस्तो भवत्यविपरीतदृष्टिः, प्रतिबलश्च भवत्युपायकुशलः। यदुतास्यैव हितसुखस्य समुदागमायोसंहाराय दक्षश्च भवत्यनलस, उत्थानसम्पन्न, आरब्धवीर्यजातीयः। यदुत तमेव हितसुखोपसंहारमारभ्य[।] एभिश्चतुर्भिः कारणैः सर्व्वाकारपरिपूर्ण्णः(ं)। समासतः कल्याणमित्रो (त्रं) वेदितव्यः (व्यम्)। अयं च पुनः कल्याणमित्रतायाः समासार्थः॥ यश्च पूर्व्वो विस्तरविभागः, यश्चायं समासार्थ इयमुच्यते कल्याणमित्रता॥

सद्धर्मश्रवणचिन्तना कतमा। सद्धर्म उच्यते बुद्धैश्च बुद्धश्रावकैश्च सद्भिः सम्यग्गतैः सत्पुरुषैराख्यातः। देशित उत्तानो विवृतः। संप्रकाशितः। स पुनः कतमः। तद्यथा सूत्रं, गेयं, व्याकरणमिति विस्तरेण पूर्व्ववत्। द्वादशांगवचोगतं सद्धर्म इत्युच्यते।

तत्र सूत्रं कतमत्। यत्तत्र तत्र भगवता तांस्तान् (तानि तानि) विनेयाचरितानि चारभ्य स्कन्धप्रतिसंयुक्ता वा कथा कृता, धातुप्रतिसंयुक्तावा कथा कृता, धातुसंगणसंयुक्ता वा, आयतनप्रतिसंयुक्ता वा। प्रतीत्यसमुत्पादप्रतिसंयुक्ता वा, आहारसत्यस्थिति [प्रति] संयुक्ता वा, श्रावकप्रत्येकबुद्धतथागतप्रतिसंयुक्ता वा। स्मृत्युपस्थानसम्यक्प्रहाणधि(र्धि)पादेन्द्रियबलबोध्यंगमार्गांगप्रतिसंयुक्ता। अशुभा, आनापानस्मृतिशिक्षा[ऽ]वेत्यप्रसादप्रतिसंयुक्ता कथा कृता[।] सा च कथा संगीतिकारैः परिगृह्य शासनचिरस्थितये, यथा योगमनुपूर्व्वेण रचिता, अनुपूर्व्वेण समायुक्ता। प्रतिरूपैर्नामकायपदव्यंजनकायैर्यदुत तेषां तेषामर्थानां सूचनायै कुशलानामर्थोपसंहितानां बुद्धचर्योपसंहितानामिदमुच्यते सूत्रं[।]

गेयं कतमत्। यस्यान्ते पर्यवसाने गाथा अभिगीता, यच्च सूत्रं नेयार्थमिदमुच्यते [गेयं]।

व्याकरणं कतमत्। यस्मिंछ्रावके (यस्मिञ्छ्रावके)भ्यो [अ]भ्यतीतकालगतो (तौ)उपपत्तौ व्याक्रियते। यच्च सूत्रं नीतार्थमिदमुच्यते। व्याकरणं[।]

गाथा कतमा। या न गद्येन भाषिता। अपितु पादोपनिबन्धेन द्विपदा वा, त्रिपदा वा, चतुष्पदा वा, पंचपदा वा, षट्पदा वा इयमुच्यते गाथा॥

उदाना कतमा। यत्पुद्गलस्य नाम गोत्रमपरिकीर्तयित्वा (कीर्त्त्य), उद्दिश्य भाषितमायत्याम्वा सद्धर्म स्थितये, शासन स्थितये च। इयमुच्यते उदाना॥

निदानं कतमत्। यत्पुद्गलस्य नामगोत्रम्परिकीर्तयित्वा (कीर्त्त्य) उद्दिश्य भाषितम्। यच्च विनयप्रतिसंयुक्तं सोत्पत्तिकं सनिदानं प्रातिमोक्षसूत्रमिदमुच्यते [निदानं][।]

अवदानं कतमत्। यत्सदृष्टान्तकमुदाहतं। येन दृष्टान्तेन यस्य प्रकृतस्यार्थस्य व्यवदानं भवतीदमुच्यते। अवदानं।

वृत्तं कतमत्। यत्किंचित्पूर्व्वयोगप्रतिसंयुक्तमिदमुच्यते वृत्तकं॥

जातकं कतमत्। यदतीतमध्वानमुपादाय तत्र तत्र भगवतः च्युत्युपपादेषु बोधिसत्त्वचर्या दुष्करचर्या। आख्याता[।] इदमुच्यते जातकं॥

वैपुल्यं कतमत्। यत्र बोधिसत्त्वानां मार्गो देश्यते। अनुत्तरायै सम्यक् संबोधये। दशबलानावरणज्ञानसमुदागमाय[।] इदमुच्यते वैपुल्यं॥

अद्भुताधर्माः कतमे। यत्र बुद्धानाञ्च, बुद्धश्रावकाणां च, भिक्षूणाञ्च, भिक्षुणीनाञ्च, शिक्षमाणानां, श्रामणेकी (री)णामुपासिकानां, साधारणा[ऽ]साधारणाश्च तदन्यप्रतिविशिष्टाश्चा[ऽऽ]श्चर्या[ऽ]द्भुतसम्मता गुणविशेषा आख्याता इमे उच्यन्ते अद्भुता धर्माः॥

उपदेशाः कतमे[।] सर्व्वमातृका अभिधर्मः सूत्रान्तनिष्कर्षः। सूत्रान्तव्याख्यानमुपदेश इत्युच्यते।

तच्चैतद् द्वादशांगवचोगतमस्ति सूत्रमस्ति विनयः, अस्त्यभिधर्मः। तत्र यत्तावदाह। सूत्रं गेयं व्याकरणं गाथोदानावदानवृत्तकजातकवैपुल्याद्भुतधर्मा इति। इदं तावत्सूत्रं। यत्पुनराह। निदानमित्ययमुच्यते। विनयः। यत्पुनराह। उपदेशा इति। अयमुच्यते। अभिधर्मः।

तच्चैतद् द्वादशां [गंश्रु]तं पिटकत्रयसंगृहीतं। सद्भिः सम्यग्गतैर्देशितं। सद्धर्म इत्युच्यते। तस्य श्रवणं। सद्धर्मश्रवणं[।] तत्पुनः कतमत्। यथा पीहैकत्यः सूत्रधरो वा भवति। विनयधरो वा। मातृकाधरो वा, सूत्रविनयधरो वा, सूत्राभिधर्मधरो वा, विनयमातृकाधरो वा। इदमुच्यते सद्धर्मश्रवणं। तत्पुनः। श्रवणं द्विविधं। व्यंजनश्रम(व)णमर्थश्रवणं च।

चिन्तना कतमा। यथापीहैकत्यस्तानेव यथाश्रुतान्धर्मानेकाकी रहोगतः। षडचिन्त्यानि स्थानानितद्यथा, आत्मचिन्तां, सत्त्वचिन्तां, लोकचिन्तां, सत्वा(त्त्वा)नां कर्मविपाकचिन्तां, ध्यायिनां ध्यायिविषयं, बुद्धानां बुद्धविषयं वर्जयित्वा स्वलक्षणतः। सामान्यलक्षणतश्च चिन्तयति।

सा पुनः चिन्ता द्विविधा गणनाकारासह गणनायोगेन धर्मेण। तुलनाकारम(रा), युक्त्या गुणदोषपरीक्षणाकारा[च][।] स चेत्स्कन्धप्रतिसंयुक्तां देशनां चिन्तयति। स चेदन्यतमान्यतमान्यतमां पूर्व्वनिविष्टां देशनां चिन्तयत्याभ्यां चिन्तयति। यथा पुनः कथमि तिरूपमुच्यते। दश रूपीण्यायतनानीति। यच्च धर्मायतनपर्यापन्नं रूपं स च रूपस्कन्धः, तिस्रो वेदना वेदनास्कन्धः। षट् संज्ञाकायाः संज्ञास्कन्धः। षट् चेतनाकायाः चेतनास्कन्धः। षड् विज्ञानकाया विज्ञानस्कन्ध इत्येवं गणनासंख्याकारां स्कन्ध [गणनां] चिन्तयत्युत्तरोत्तरप्रभेदेन येन वा पुनरस्याः संख्यागणना कारायाश्चिन्ताया अप्रमाणः प्रवेशनयो वेदितव्यः।

कथं युक्त्युपपरीक्षाकारया चिन्तया स्कन्धदेशनां चिन्तयति। चतसृभिर्युक्तिभिरुपपरीक्षते। कतमाभिश्चतसृभिर्यदुतापेक्षायुक्त्या, कार्यकारणयुक्त्या, उपपत्तिसाधनयुक्त्या। धर्मतायुक्त्या॥

अपेक्षायुक्तिः कतमा। द्विविधा अपेक्षा उत्पत्यपेक्षा प्रज्ञप्त्यपेक्षा च। तत्रोत्पत्त्यपेक्षा यैर्हेतुप्रत्ययैः स्कन्धानां प्रादुर्भावो भवति। तस्यां स्कन्धोत्पत्तौ ते हेतवस्ते, प्रत्यया अपेक्ष्यन्ते। यैर्नामकायपदकायव्यंजनकायैः स्कन्धानां प्रज्ञप्तिर्भवति। तस्यां स्कन्धप्रज्ञप्तौ ते नामपदकायव्यंजनकाया अपेक्ष्यन्ते। इयमुच्यते स्कन्धेषूत्पत्त्यपेक्षा। प्रज्ञप्त्यपेक्षता (क्षा)च। या चोत्पत्त्यपेक्षा। या च प्रज्ञप्त्यपेक्षा सा युक्तिर्योग उपायः। स्कन्धोत्पत्तये। स्कन्धप्रज्ञप्तये तस्मादपेक्षायुक्तिरित्युच्यते।

कार्यकारणयुक्तिर्या [त]दुत्पन्नानां स्कन्धानां स्वेन हेतुना स्वेन प्रत्यर्येन तस्मिंस्तस्मिन् स्वकार्यकरणे विनियोगस्तद्यथा। चक्षुषा रूपाणि द्रष्टव्यानि। श्रोत्रेण शब्दा[ः] श्रोतव्याः। यावन्मनसा धर्मा विज्ञेया इति। रूपेण चक्षुषो गोचरे अवस्थातव्यं। शब्देन श्रोत्रस्य, एवं याद्धर्मैर्मनस इति। यद्वा पुनरन्यदप्येवंभागीयं। तत्र तत्र धर्माणामन्यो[अ]न्यं कार्यकारणे प्रतियुक्तिर्योग उपाय इयमुच्यते। कार्यकारणयुक्तिः।

उपपत्तिसाधनयुक्तिः कतमा[।] अनित्या[ः]स्कन्धा इति, प्रतीत्यसमुत्पन्ना, दुःखा[ः], शून्या, अनात्मान इति त्रिभिः प्रमाणैरुपपरीक्षते यदु(त)ताप्तागमेन, प्रत्यक्षेणानुमानेन च[।]एभिस्त्रिभिः प्रमाणैरूपपत्तियुक्तैः सतां हृदयग्राहकैर्व्यवस्थापना साधना क्रियते। यदुत स्कन्धानित्यताया वा, प्रतीत्यसमुत्पन्नताया वा, दुःखताया [ः], शून्यताया, इयमुच्यते उपपत्तिसाधनयुक्तिः।

धर्मतायुक्तिः कतमा। केन कारणेन तथाभूता एते स्कन्धा[ः], तथाभूतो लोकसन्निवेशः केन कारणेन खरलक्षणा पृथिवी, द्रवलक्षणा आपः, उष्णलक्षणं तेजः [ः], समुदीरणलक्षणो वायुः, (।) अनित्याः, स्कन्धा [ः], केन कारणेन शान्तं निर्व्वाणमिति। तथा रूपणलक्षणं रूपं। अनुभवलक्षणा वेदना, संजाननलक्षणा संज्ञा, अभिसंस्करणलक्षणाः संस्काराः, विजाननालक्षणं विज्ञानमिति। प्रकृतिरेषां धर्माणामियं स्वभाव एष ईदृशः। धर्मतैषा चैव चासौ धर्मता। सैवात्र युक्तिर्योग उपायः [।] एवं वा एतत् स्यात्। अन्यथा वा, नैव वा स्यात्, सर्व्वत्रैव च धर्मतैव प्रतिप्रसरणधर्मतैव युक्तिः। चित्तनिध्यायनाय, चित्तसंज्ञापनाय इयमुच्यते धर्मतायुक्तिः।

एवं चतसृभिर्युक्तभिः स्कन्धदेशना उपपरीक्ष्यत इति। यावत्पुनरन्या काचिद्देशना इति या एवमाभ्यां द्वाभ्यामाकाराभ्यां गणनासंख्याकारा च युक्त्युपपरीक्षणाकारा च सम्यगुपनिध्यायना तस्यास्तस्या देशनाया‍इयमुच्यते। सद्धर्मश्रवणचिन्त[ना]॥

अनन्तरायः कतमः [।] अनन्तरायो द्विविधः। अध्यात्ममुपादाय बहिर्धा च[।] तत्राध्यात्मं बहिर्धा चोपादायान्तराय(यं)वक्ष्यति। तद्विपर्ययेण[।] नन्तरायो वेदितव्यः।

अध्यात्ममुपादायान्तरायः कतमः। यथापीहैकत्यः पूर्व्वमेव कृतपुण्यो भवति। सौकृतत्वात् पुण्यानां च लाभी भवति। कालेन कालमानुलोमिकां (कानां, केषु)जीवितपरिष्काराणां (रेषु)। यदुत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां (रेषु) तीव्ररागो भवत्यायत (न)रागः। तीव्रद्वेषः आयत(न)द्वेषः। तीव्रमोह आयत(न)मोहः। पूर्व्वं वानेना [ऽऽ]बाधसंवर्त्तनीयानि कर्माणि कृतानि भवन्ति। यद्धेतोराबाधबहुलो भवति। दृष्ट एव धर्मे विषमचारी भवति। यो (ये)नास्याभीक्ष्णं वातो वा कुप्यति, पित्तम्वा, श्लेष्मम्वा, विषूचिका वा काये सन्तिष्ठते। भोजनगुरुको भवति। बह्‍वर्थो, बहुकृत्यो, गणसन्निपातबहुलो भवति। कर्मारामो वा, भाष्यारामो वा, निद्रारागः (मः), संगणिकारामः। आत्मसंप्रग्राहकश्चपलः, प्रमत्तः कुदेशवासी वा। इत्येवंभागीया अन्तराया अध्यात्ममुपादाय वेदितव्याः।

बहिर्धोपादायान्तरायाः कतमे[।] तथापि तदसत्पुरुषापाश्रयः। यतो न लभते कालेन कालमानुलोमिकीमववादानुशासनीं [।] कुदेशे वा वसति। यत्रास्य वास(सं)कल्पयतो दिवा वाग्रविलोको(वोग्रो रवेरालोको) भवति। प्रभूतः, रात्रौ वा[।] उच्चशब्दो, महाशब्दोमहाजनकायस्य निर्घोषः। तीव्रकटुकश्च वातातपसंस्पर्शो, मनुष्यादपि भयमयमेवंभागीयो बहिर्धापाया(र्धोपादाया)न्तरायो वेदितव्यः। अयं तावद्विस्तरविभागस्या(गः)॥

समासार्थः पुनः कतमः। समासतस्त्रिविधो [अ]न्तरायः। प्रयोगान्तराय[ः], प्राविवेक्यान्तराय[ः]। प्रतिसंलयना न्तरायश्च।

तत्र प्रयोगान्तरायो येनान्तरायेण समव[हितेन] संमुखीभूतेनाशक्तो भवत्यप्रतिबलः सर्व्वेण सर्व्वं कुशलपक्षप्रयोगे[।]स पुनः कतमः। यदा[ऽऽ] बाधको भवति, बाढग्लानः, अभीक्ष्णमस्य वातो वा कुप्यते, पित्तम्वा, श्लेष्मम्वा (ष्म वा), विषूचिका वास्य काये सन्तिष्ठते[।] अपि त्वस्य दशति वृश्चिको वा, शतपदी वा, मनुष्यो वैनं विहेठयत्यमनुष्यो वा[।]न च लाभी भवति चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणामयमेवंभागीयः प्रयोगान्तरायो वेदितव्यः।

प्राविवेक्यान्तरायः कतमः [।] यद्भोजनगुरुको भवति, बह्वर्थो, बहुकृत्यो, बहुकरणीयः, कर्मारामरतिं रतो भवति। तेषु तेष्वितिकरणीयेषु प्रसृतमानसः। भाष्यारामो भवति। शक्तः प्रतिबलः सन्। प्राविवेक्यप्रहाणे, प्रतिसंलयने, भावनायामुद्‍देशम्वाध्यायमात्रकेन(ण) संतुष्टो निद्रारामो भवति। स्त्यानमिद्धपर्यवस्थितः, कुसीदजातीयो निद्रासुखं, पार्श्वसुखं, शयनसुखं च स्वीकरोति। संगणिकारामो भवति सार्धं गृहस्थप्रव्रजितैः। राजकथाम्वा करोति। चोरकथां वा, अन्नकथां वा, पानकथां वा, वस्तुकथां वा, वेश्याकथां वा, वीथीकथाम्वा जनपदमहामात्राख्यानकथाम्वा, समुद्राख्यानकथाम्वा [।] इत्येवं भागीयया अनर्थोपसंहितया कथया कालमतिनामयति। तत्र चाभि र (म) तो भवत्यभीक्ष्णेण(न)गणसन्निपातबहुलो भवति। तेषु तेष्वधिकरणेषु व्याक्षिप्तमानसो भवति। व्याकुलमानसः। संसर्गारामो भवति। गृहस्थप्रव्रजितानामसमवहितानां च वियोगं गच्छति। प्रपंचारामो भवति। प्रपंचरतः अवक्रमणीयेषु पूर्व्वंगमः, प्राविवेक्येषु निक्षिप्तधुरः। इदमेवंभागीयो(इम एवं भागीया) धर्माः प्रविवेकान्तरायो वेदितव्यः। यैः समवहितैः संमुखीभूतैर्न सुकरं भवत्यरण्यवनप्रस्थानि प्रान्तानि शयनासनान्यध्यावसितुं। अरण्यानि वा वृक्षमूलानि वा शून्यागाराणि वा[।]

प्रतिसंलयनान्तरायः कतमः[।] तद्यथा प्रतिसंलयनमुच्यते शमथो विपश्यना च। तत्रास्ति शमथान्तरायः। अस्ति विपश्यनान्तरायः। तत्र शमथान्तरायः प्र[भिन्नः]अदेशवासश्च। यथास्य प्रमत्तस्य स्त्यानमिद्धं वा चित्तं पर्यवनहति। शमथमात्रम्वा आस्वादयति। लीनत्वाय वा चित्तमुपनामयति। अन्धकारायितत्वं वा चेतसो भवति। यद्रूपेण चादेशवासेन। मनुष्यकृतो वा परतः संघट्टो भवति। येनास्य चित्तम्बहिर्धा विक्षिप्यते[।] अयं शमथान्तरायः। प्रतिसंलयनान्तरायो वेदितव्यः।

विपश्यनान्तरायः कतमः। यदुतात्मसंग्राहश्चापल्यञ्च।

तत्रात्मसंग्रहो यथापि तदहमस्म्युच्चकुलः प्रव्रजितः। अलीनः। अन्ये च न तथेत्यात्मानमुत्कर्षयति। संगृह्णाति। परांश्च पन्स(पंस)यति। एवमाढ्यकुलप्रव्रजितः, अदीनः, एवमभिरूपो दर्शनीयः, प्रासादिक, एवं बहुश्रुतः, सन्निचयः। एवमहमस्मिन् कल्याणवाक्यो वाक्करणेनोपेतः, अन्ये च भिक्षवो न तथेति। आत्मानमुत्कर्षयति। संप्रगृह्णाति। परांश्च पन्स(पंस)यति। स आत्मानं संप्रगृह्णात्येते भवन्ति। भिक्षवः, स्थविरा, रतिज्ञा, अभ्यवतीर्ण्णब्रह्मचर्याः, तान्न कालेन कालं परिपृच्छति। परिप्रश्नीकरोति। ते चास्य न कालेन कालमविवृतानि च स्थानानि विवृण्वन्ति। विवृतानि च स्थानानि विवृण्वन्ति। न च गम्भीरमर्थपदं। साधु च सुष्ठु च प्रज्ञया प्रतिविध्य संप्रकाशयन्ति यावदेव ज्ञानदर्शनस्य विशुद्धये। एवमस्य स आत्मसंग्रहः।

आन्तरायिको भवति। यदुत विपश्यनायाः[।] पुनरपरमल्पमात्रकस्यावरमात्रकस्य ज्ञानदर्शनमात्रकस्य स्पर्शविहारमात्रकस्य लाभी भवति। स तेन ज्ञानमात्रकेण। दर्शनमात्रकेणात्मानमुत्कर्षयति। संप्रगृह्णाति। स आत्मानं संप्रगृह्णंस्तावता संतुष्टो भवति नोत्तरि व्यायच्छते। एवमस्यान्तरायः कृतो भवति। आत्मसंप्रग्रहेण यदुत विपश्यनायाः (नया)[।] चपलो वा पुनः अनुपशान्तेन्द्रियो भवति। उद्धतेन्द्रियः, उन्नतेन्द्रियः। स दूषितचित्ती भवति। सुभाषितभाषी, दुष्कृतकर्मकारी, न स्थिरं धर्मांश्चिन्तयति। न दृढं चिन्तयति। येन विपश्यनां न पूरयति न विशोधयत्येवमस्य चापल्यं। अन्तरायो भवति। यदुत विपश्यनाया इति।

द्वौ धर्मौ शमथान्तरायौ। यदुत प्रमादः, आदेशवासश्च[।] द्वौ धर्मौ विपश्यनान्तरायौ यदुतात्मसंप्रग्रहश्चापल्यञ्च। इति यश्च शमथान्तरायः। यश्च विपश्यनान्तरायः। अयमुच्यते प्रतिसंलयनान्तरायः।

अयं च पुनरन्तरायस्य समासार्थ इति। यश्चायं समासार्थः। यश्च पूर्व्वको विस्तरविभागः। तदेकत्यमभिसंक्षिप्यान्तराय इत्युच्यते। अस्य चान्तरायस्य विपर्ययेणा[न]न्तरायो वेदितव्य इति। य एषामन्तरा[या]णामभावो विगमः असंगतिरसमवधार (चर)[ण]मयमुच्यते [अ][न]न्तरायः॥

त्यागः कतमः। यद्दानमनवद्यं चित्तालंकारार्थं, चित्तपरिष्कारार्थं, योगसंभारार्थं, उत्तमार्थस्य प्राप्तये ददाति।

तत्र को ददाति [कस्मै ददाति कुत्र ददाति]केन च ददाति। कथं ददाति। कस्माद्‍ददाति। येनास्य दानम[न]वद्यं भवति॥ आह। दाता, दानपतिर्ददाति। अयमुच्यते दाता। यस्य स्वकं दीयते। तच्च दातुकामस्य, नादातुकामस्य, अयमुच्यते दानपतिः।

तत्र कुत्र ददाति। आह। चतुर्षु ददाति। दुःखितायोग(प)कारिणे। इष्टाय, विशिष्टाय च।

तत्र दुःखितायेति। कृपणा वा, अध्वगा वा, याचनका वा, अन्धा वा, बधिरा वा, अनाथा वा, अप्रतिसरणा वा, उपकरणविकला इति। ये वा पुनरन्ये[अ]प्येवंभागीया[ः।]

उपकारिणः कतमे तद्यथा मातापितरं (रौ)आपायकपोषकं (कौ), सम्वर्धकमि(कावि)ति। ये वा पुनरटवीकान्तारादुत्तारयन्ति, दुर्भिक्षाद्वा, परचक्रभयाद्वा, बन्धनाद्वा। आबाधकाद्वा हितोपदेशकाश्चास्य भवन्ति। सुखोपदेशका, हितसुखोपसंहारका, उत्पन्नोत्पन्नेषु चाधिकरणेषु सहायकाः, सहनन्दिनः, सहशोका, आपत्सु चैवं न परित्यजन्ति इति ये वा पुनरन्ये[अ]प्येवंभागीया इम उपकारिणः।

इष्टाः कतमे[।]ये संस्तुता[ः]। येषामस्यान्तिके भवति। प्रेम वा, गौरवम्वा, भक्तिवादो वा, आलप्तकाः, संस्तुतकाः सप्रियकाश्च भवन्ति। इति वा पुनरन्ये[अ]प्येवंभागीया इम उच्यते इष्टाः॥

विशिष्टाः कतमे[।] ते श्रव(म)णब्राह्मणा[ः] साधुरूपसम्मताः। अव्याबाध्याः अव्याबाध्यरताः, विगतरागाः, रागविनयाय प्रतिपन्नाः, विगतद्वेषा द्वेषविनयाय प्रतिपन्नाः। विगतमोहा, मोहविनयाय प्रतिपन्ना इति। ये वा पुनरन्ये [अ]प्येवं भागीया इम उच्यन्ते विशिष्टाः॥

तत्र किं ददातीत्याह। समासतः सत्त्वसंख्यातमसत्व (त्त्व)संख्यातं च। वस्तु ददाति।

तत्र सत्त्वसंख्यातम्वस्तु कतमत्। तद्यथा पुत्रदानं दासीदासकर्मकरपौ [रुषे]यहस्त्यश्वगवेडककुक्कुटस्त्रीपुरुषदारकदारिकमिति। यद्वा पुनरन्यदप्येवं भागीयं वस्तु। अध्यात्मम्वा पुनरुपादाय करचरणशिरोमान्स(मांस)रुधिरवसादीन्यनुप्रयच्छति। इदमपि पुरुषसंख्यातं दानं यत्र बोधिसत्त्वबोधाः संदृश्यन्ते। अस्मिंत्वर्थे नेदं दानमभिप्रेतं। येषु तु सर्व्वेष्वस्यैश्वर्यं भवति। वशिता च प्रभविष्णुता च। अर्हति च तान्सत्वा (त्त्वा)न् परेषां प्रतिपादयितुं। प्रतिपादयंश्चात्मानमनवद्यं करोति। न तद्धेतोस्तत्प्रत्ययं परे मनान्सि (नां सि) प्रदूषयन्ति। ये च सत्वा (त्त्वाः) परेषु प्रतिपादिता (ः)स्तेन व्यापादिता भवन्तीदमुच्यते अनवद्‍यं सत्व(त्त्व)वस्तुदानं॥

असत्त्वसंख्यातम्वस्तु कतमत्। तद्यथा धन वस्तु, धान्यवस्तु। देश वस्तु।

तत्र धनवस्तु तद्यथा मणिमुक्तावैडूर्यशंखशिलाप्रवाडा (ला)श्मगर्त्तपुसारगण्वजातरूपरजतलोहितिकादक्षिणावर्त मिति। यद्वा पुनरन्यदप्येवं भागीयं रत्नम्वा, हिरण्यम्वा, रूप्यम्वा, वस्त्रम्वा, भाण्डोपस्करं वा, गन्धजातं वा, माल्यजातम्वा, इदमुच्यते धनं।

धान्यं कतमत्। यत्किंञ्चिद् भोज्यं वा, पेयम्वा, तद्यथा यवा वा, शालिर्वा, गोधूमा वा, कोला वा, कुलत्था वा, तिला वा, माषा वा, इक्षुरसम्वा (सो वा), मृद्वीकारसम्वा (सो वा), इति यद्वा पुनरप्येवंभागीयमिदमुच्यते धान्यं॥

देशवस्तु कतमत्। तद्यथा क्षेत्रवस्तु गृहवस्त्वापणवस्तु, पुण्यशालाविहारप्रतिष्ठापनमिति। यद्वा पुनरन्यदप्येवंभागीयमिदमुच्यते देशवस्तु।

तत्र यच्च सत्व (सत्त्व) संख्यातम्वस्तु इदं ददातीति॥

केन ददतीति। या च अलोभसहगता चेतना, चित्ताभिसंस्कारो मनस्कर्म। यच्च तत्समुत्थापितं कायकर्म। वाक्कर्म दे[श]वस्तुपरित्यागाय, स्वसंताने वा[।]अनेन ददाति।

तत्र कथं ददातीति। श्रद्धया ददाति। आगमदृष्टिः, फलदर्शी, सत्कृत्य ददाति। प्रणतचित्तः स्वहस्तं (हस्ताभ्यां) ददाति। अनपविद्ध[ः] कालेन ददाति। यदैतत्परेषामुपयोग्यं स्यात्पराननुपहत्य ददाति। धर्मेण, समयेन, असाहसेन, समुदानयित्वा (समुदानीय)शुचि ददाति। प्रणीतं कल्पिकं ददाति। येन न परे सावद्या भवन्ति। नात्मा[।] अभीक्ष्णं ददाति। विनीय सात्म[यन्मलं] सन्निधिमलं च दानं ददाति। पूर्व्वमेव दानात्सुमना ददच्चि(दंश्चि) त्तं प्रसादयति। दत्वा वा विप्रतिसारी भवति। एवं ददाति।

कस्माद्ददाति। आह। कारुण्याद्वा ददाति। यदुत दुःखितेषु कृतज्ञताया (तया) ददाति। यदुत उपकारिषु प्रेम्णा, गौरवेण, भक्त्या ददाति। यदुत इष्टेषु लौकिकलोकान्तरविशेषप्रार्थनया ददाति। यदुत विशिष्टेषु [।] तस्मात्। ददातीत्युच्यते।

एभिराकारैरतो[ऽ]स्य गृहिणो वा, प्रव्रजितस्य वा चित्तालंकारार्थं, चित्तपरिष्कारार्थं। योगसंभारार्थमुत्तमार्थस्य प्राप्तये तद्दानमनवद्यं भवति। अयमुच्यते त्यागः॥

श्रमणालंकारः कतमः [।] तद्यथैकत्यः श्राद्धो भवति। अशठः। अल्पाबाधः, आरब्ध [वीर्य] जातीयः प्राज्ञो [अ]ल्पेच्छः, संतुष्टः। सुपोषः, सुक (भ)रः, धुतगुणसमन्वागतः प्रासादिको, मात्रज्ञः। सत्पुरुषधर्मसमन्वागतः। पण्डितधर्मसमन्वागतः। पण्डितलिंगसमन्वागतः। क्षमः, सू(सु)रतः, पेशलश्च भवति॥

कथं श्राद्धो भवति। प्रसादबहुलो भवति। अर्थकल्पनाबहुलः। विमुक्तिबहुलः छन्दिकश्च कुशलेषु धर्मेषु[।] स शास्तरि प्रसीदति। न कांक्षति। न विचिकित्सति। शास्तारं सत्करोति। गुरुकरोति। मानयति। पूजयति। सत्कृत्य, गुरुकृत्य, मानयित्वा, पूजयित्वा, निश्रित्य, विहरति। यथा शास्तर्येवं धर्मे। सब्रह्मचारिषु, शिक्षायामववादानुशासन्यां, प्रतिसंस्तरे अप्रमादे, समाधावेवं श्राद्धो भवति।

कथमशठो भवति। रुजको भवति रुजकजातीयः। यथाभूतमात्मानमाविष्कर्त्ता भवति। शास्तुरन्तिके, विज्ञानाञ्च, सब्रह्मचारिणामेवमशठो भवति।

कथमल्पाबाधो भवति। अरोगजातीयः। समयासाधिन्या ग्रहण्या समन्वागतो भवति। नात्युष्णया, नातिशीतया, अव्याबाधा(ध)या, जातुसुखया ययास्याशितपीतखादितास्वादिता[नि] सम्यक्युखेन परिपाकं गच्छन्त्येवमल्पाबाधो भवति।

कथमारब्धवीर्यजातीयो भवति। स्थामवान्विहरति। वीर्यवानुत्साही दृढपराक्रमः। निक्षिप्तधुरः कुशलेषु धर्मेषु दक्षश्च भवत्यनलस उत्थानसम्पन्नः [।] कर्त्ता भवति। विज्ञानां सब्रह्मचारिणां कायेन वैयापृत्यमेवमारब्धवीर्यो भवति।

कथं प्राज्ञो भवति। द्विधा स्मृतिबुद्धिसम्पन्नो भवति। अधन्धे[न्द्रियः], अमूढेन्द्रियः, अनेडकः, प्रतिबलः, सुभाषितदुर्भाषितानां धर्माणां अर्थमाज्ञातुमिति। सहजयापि बुद्ध्या समन्वागतो भवति। प्रायोगिकयापि बुद्ध्या समन्वागतो भवति। एवं प्राज्ञो भवति।

कथमल्पेच्छो भवति। यावद्भिर्गुणैः समन्वागतो भवत्यल्पेच्छतामादिं कृत्वा तैः परतो ज्ञातुं न समन्वेषते। कश्चि(च्चि)न्मे(न्मां) परे न जानीयुः, अल्पेच्छ[ं] इति वा एवं गुणयुक्त इत्येवमल्पेछो भवति।

कथं संतुष्टो भवति। इतरेतरेषु चीवरपिण्डपातेन, शयनासनेन तुष्टो भवति, संतुष्टः, स लब्ध्वा चीवरं लूहं वा, प्रणीतम्वा नोत्कण्ठति। न परितस्यति। लब्ध्वा च पुनः अरक्तः परिभुंक्ते। असक्त इति विस्तरेण पूर्व्ववत्। यथा चीवरमेवं पिण्डपातं (तः), शयनासनमेवं तुष्टो भवति।

कथं सुपोषो भवति। आत्मा अस्यैकः पोष्यो भवति। न तु परे तद्यथा दारका वा, मनुष्या वेति। ये वा पुनरन्ये [अ]पि केचिद्येषामर्थाय या (या य)म्पर्येष्टिमापद्यते। परे चैवं दायकदानपतयो दुष्पोष्यमिति पश्ये (श्येयुः) (न्। र)एवं सुपोष्यो भवति।

कथं सुभरो भवति। अल्पेनापि यापयति। लूहे नापि यापयत्येवं सुभरो भवति।

कथं धुतगुणसमन्वागतो भवति। पिण्डपातिको भवति। सावदानपिण्डपातिकः। एकासनिकः, खलु पश्चाद्भक्तिकः। त्रैचीवरिको, नामतिकः, पान्सु (पांसु) कूलिकः। आरण्यको, वृक्ष मूलिकः आभ्यवकाशिकः। श्माशानिको, नैषद्यिकः। याथासंस्तरिकः[।] त एते पिण्डपातचीवरशयनासनमारभ्य द्वादशका[धुत] गुणा भवन्ति। त्रयोदशा (श) वा [।]

तत्र पिण्डपातिकत्वं भिद्यमानं द्विधा भवति। प्राप्तपिण्डपातिकश्च, सावदानपिण्डपातिक[त]या वेश्यानुवेश्यकुलानि भिक्षित्वा, पर्यटित्वा (पर्यट्य), यथालब्धं यथोपसम्पन्नं पिण्डपातं परिभुंक्ते, नो तु उच्चैः शुण्डां प्रणिधाय कुलानि उपसंक्रामति। अतो[अ]हं लप्स्ये, प्रणीतं खादनीयं, भोजनीयं, यावदाप्तं [।] तत्र पिण्डपातिकत्वमविशेषेणारभ्य द्वादश भवन्ति। प्रभेदं पुनः आरभ्य त्रयोदश(ः) [।]

तत्रैकासनिकत्वं कथमत्। एकस्मिन्नासने निषण्णोयावत्परिभोक्तव्यं। तावत्परिभुंक्ते। व्युत्थितश्च पुनस्तस्मादासनान्न परिभुंक्ते। इदमुच्यते। एकासनिकत्वं॥

खलु पश्चाद्भक्तिकत्वं कतमत्। भोजनार्थं निषण्ण स्तावत्(न्) न परिभुंक्ते। यावत्सर्व्वभोजनं प्रतीच्छति। यावता जानाति शक्ष्यामि यापयितुं। यतश्च पुनर्जानीते न मे अत उत्तरि भोजनेन कृत्यं भविष्यतीति। ततः सर्व्वं परिहृत्यारभते। प[रि]भोक्तुं। एवं खलु पश्चाद्भक्तिको भवति।

कथं त्रैचीवरिको भवति। त्रिभिश्च चीवरैर्यापयति, सांघाटिना वा, उत्तरासंगेन, अंतर्वासेन च। त्रयाणां चीवराणामतिरेकमुत्तरं न धारयत्येवं त्रै[चीव]रिको भवति॥

कथं नामतिको भवति॥ यत्किंचिच्चीवरं धारयति। त्रिचीवरम्वा, अतिरेकचीवरम्वा सर्व्व तदौर्ण्णिकं धारयति। न त्वन्यं (न्यत्)[।] एवं नामतिकं धारयति।

कथं पान्सु (पांसु) कूलिको भवति। यच्चीवरं परैर्मुक्तं भवति। उच्छिष्टं, रथ्यायाम्वा, वीथ्याम्वा, चत्वरे वा, श्रृंगाटके वा, पथि वा, उत्पथेवा, उच्चारसंसृष्टम्वा, प्रस्रावसंसृष्टम्वा, उच्चारप्रस्रावपूयरुधिरखेटाप्रक्षितं वा[।] ततो यदशुचि तदपीनय, सारमादाय, शोधयित्वा, सीवित्वा, विवर्ण्णीकृत्य धारयत्येवं पान्सु(पांसु) कूलिको भवति।

कथमारण्यको भवति। अरण्ये वनप्रस्थानि प्रान्तानि शयनासनानि अध्यावसति। यानि व्यवकृष्टानि ग्रामनिगमानामेवमारण्यको भवति॥

कथं वृक्षमूलिको भवति। वृक्षमूले वासं कल्पयति। [वृक्ष]मूलं निश्रित्य[।] एवं वृक्षमूलिको भवति।

कथमाभ्यवकाशिको भवति। अभ्यवकाशे वासं कल्पयति। अनवकाशे विवृते द (दे) शे [।] एवमाभ्यवकाशिको भवति।

कथं श्माशानिको भवति। श्मशाने वासं कल्पयति यत्र मृतमृतो जनकायः। अभिनिर्ह्रियत एवं श्माशानिको भवति॥

कथं नैषद्यिको भवति। मंचे वा, पीठे वा, तृणसंस्तरे वा निषद्यया कालमतिनामयति। नो तु मंचा (म चं)वा, पीठं वा, कुड्यम्वा, (वृक्षमूलं) वृक्षमूलम्वा, तृणसंस्तरम्वा,पर्ण्णसंस्तरम्वा, निश्रित्य पृष्ठ वा (पृष्ठं वा), पार्श्वम्वा ददात्येवं नैषद्यिको भवति।

कथं याथासंस्तरिको भवति। यस्मिन् तृणसंस्तरे वा, पर्णसंस्तरे वा शय्यां कल्पयति। तृणसंस्तरम्वा, पर्ण्णसंस्तरम्वा सकृत्यञ्चैव संस्कृतं भवति। तथैव शय्यां कल्पयति। नो तु पुनर्विकोपयति। अभिसंस्करोति चैवं य(या)थासंस्तरिको भवति।

केनैते धुतगुणा उच्यन्ते तद्यथा ऊर्ण्णा वा, कर्पासं वा, धुतं भवत्यसंवृत्तमिति। त [च्च त]स्मिन् समये मृदुच भवति। लघु च, कर्मण्यं च, यदुत सूत्राभिनिर्हारे वा, तूलावहदे (ते?) (तूलाभिनिर्हारे)वा [।] एवमेव इहैकत्यस्य पिण्डपातरागेण पिण्डपाते चित्तं सक्तं भवति। संसक्तं चीवररागेण शयनासनरा[गेण]शयनासने चित्तं सक्तं भवति। संसक्तं। स एभिर्धुतगुणैर्विशोधयति ऋजूकरोति। मृदुकर्मण्यमार्जवमास्रवम्विधेयं यदुत ब्रह्मचर्यवासाय तेनोच्यन्ते धुतगुणा इति॥

तत्र पिण्डपातप्रहीणभोजनरागस्य प्रहाणाय एकासनिको भवति। प्रभूतभोजनरागस्य प्रहाणाय नामतिको भवति। प्रणीतचीवररागस्य प्रहाणाय नामतिको भवति। प्रणीतचीवररागस्य प्रहाणाय त्रैचीवरिको भवति। चीवरे मृदुसंस्पर्शरागस्य प्रहाणाय पान्सु(पांसु) कूलिको भवति। शयनासनरागश्चतुर्विधः। तद्यथा संस्पर्शरागः। प्रतिश्रयरागः। पार्श्वसुखशयनसुखरागः। आस्तरणप्रत्यास्तरणोपच्छादनरागः। तत्र संसर्गरागस्य प्रहाणाय आरण्यको भवति। प्रतिश्रय रागस्य प्रहाणाय वृक्षमूलिकः आम्यवकाशिकः। श्माशानिको भवति। अपि च श्माशानिकत्वं मिद्‍धेन रागस्य प्रहाणाय भवति। पार्श्वसुखशयनासनसुखरागस्य प्रहाणाय नैषद्यिको भवति। आस्तरणप्रत्यास्तरणोपच्छाद[न]रागस्य प्रहाणाय याथासांस्तरिको भवत्येवं धुतगुण समन्वागतो भवति।

कथं प्रासादिको भवति। प्रासादिकेनाति (भि)क्रमप्रतिक्रमेण समन्वागतो भवत्यालोकितव्यलोकितेन संजिमित (सांमिंजित) प्रसारितेन सांघाटीचीवरपात्रधारणेनैवं प्रासादिको भवति।

कथं मात्रज्ञो भवति। इह श्राद्धा ब्राह्मणगृहपतयो व्यर्थं प्रचारयति। यदुत चीवर पिण्डपात शयनासनग्लानप्रत्ययभैषज्यपरिष्कारैस्तत्र प्रतिग्र[हेण] मात्रां जानाति। एवं मात्रज्ञो भवति।

कथं सत्पुरुषधर्मसमन्वागतो भवति। उच्चकुलप्रव्रजितो वा सन्नाढ्यकुलप्रव्रजितो वा, अभिरूपो वा, दर्शनीयः, प्रासादिको, बहुश्रुतोपकरणेनोपेतः। अन्यतमान्यतमस्य वा ज्ञानमात्रस्य दर्शनमात्रकस्पर्शविहार सार्थकस्य लाभी सन्नेतेनात्मानमुत्कर्षयति। परांश्च पन्स (पंस)यति। धर्मानुधर्मप्रतिपन्नो भवत्येवं सत्पुरुषधर्मसमन्वागतो भवति।

कथं पण्डितलिंगसमन्वागतो भवति। कर्मलक्षणो बालः, कर्मलक्षणः पण्डितः। यथाकथमिति बालो दुश्चिन्तितचिन्ती भवति। दुर्भाषितभाषी, दुष्कृतकर्मकारी, पण्डितः पुनः सुचिन्तितचिन्ती भवति। सुभाषितभाषी, सुकृतकर्मकारी [।] एवं पण्डितलिंगसमन्वागतो भवति।

कथं क्षमो भवति। आक्रुष्टो न प्रत्याक्रोशति। रोषितो न प्रतिरोषयति। वादितो न प्रतिवादयति। भण्डितो न प्रतिभण्डयति। स चायुष्मान् क्षमो भवति। शीतस्योष्णस्य जिघत्साया[ः], पिपासायाः, दंशकमशकवातातपसरीसृपसंस्पर्शानां(णां), परतो दुरुक्तानां, दुरागतानां, वचनपथानां। शारीरिकाणां वेदनानां, दुःखानां, तीव्राणां, खराणां, कटुकानां, अमन आपानां प्राणहारिणीनां क्षमो भवत्यधिवासनजातीयः। एवं क्षमो भवति।

कथं (सू)सुरतो भवति। यथापि तन्मैत्रेण काय कर्म्मणा समन्वागतो भवति। मैत्रेण वाक्कर्म्मणा, मैत्रेण मनस्कर्मणा, शास्तुरन्तिके विज्ञानां च, सब्रह्मचारिणां, साधारणपरिभोगी च भवत्यपरिभोगी च। भवत्यप्रतिगुप्तभोजी। लाभैर्धार्म्मिकैर्धर्म्मप्रतिलब्धैः, पात्रगतैः, पात्रपर्यापन्नैः शीलसामान्यगतश्च भवति। दृष्टिसामान्यगतश्च। स एभिः षड्भिः संरजनीयैर्धर्मैः (संरंजनीयैर्धर्मैः) समन्वागतः प्रियकरणैर्गुरुकरणैर्स्थवादकरणैः सुखसंवास्यो भवति। अविहेठनजातीयः। अभिनन्दन्ति चैनं विज्ञाः। सब्रह्मचारिणः। एकव्यवसायः। एवं सू(सु)रतो भवति।



कथं पेशलो भवति। विगतभृकुटिर्भवत्युत्तानमुखवर्ण्णः, स्मितसार्द्धंगमः।पूर्व्वाभिभाषी। प्रियवादी। संग्रहशीलः। आत्तसन्तानः [ः।] एवं पेशलो भवति।

स एभिधर्मैः समन्वागतो धर्म्मकामो भवति। गुणकामः। न लाभसत्कारकीर्तिश्लोककामः। न स मारोपिकया मिथ्यादृष्ट्या समन्वागतो भवति। नाप्यप[वादि]कया[।] असन्तं धर्मं न समारोपयति। सन्तं धर्मं नापवदति। स यत्तद्भवति। कथितं काथेयं, चिवा(ह्ना)क्षरं, चिह्नपदव्यंजनं, लोकायतप्रतिसंयुक्तं। तन्निरर्थकमिति। विदित्वा आरात्परिवर्जयति। [न ते]न दयते, न तेन प्रीयते, तेन चात्मदं [वा] न्यी(ची)वरं धारयति। गृहस्थैः सार्धं, संसर्गं परिवर्जयन्ति (यति)। क्लेशवर्द्धनं[।] आर्यैः सह[सं]सर्गं करोति। ज्ञानविशोधकं [।] न च मित्रकुलानिकरोति। प्रतिगृह्णाति। सामे ततो निदानं भविष्यत्यनेकपर्यायेण व्याक्षेपाद् व्यापारो वा, तेषाम्वा पुनर्विपरिणामादन्यथीभावादुत्पत्स्यन्ते शोकपरिदेवदुःखदौर्मनस्योपायासा इति। उत्पन्नोत्पन्नांश्च क्लेशोपक्लेशान्नाधिवासयति। प्रजहाति, विनोदयति, व्यन्तीकरोति। सा (तन्)मे अतो निदानमुत्पद्यते दृष्टधार्मिकं वा दुःखं, साम्परायिकं वेति। श्रद्धोदयं च न विनिपातयति। अच्युतशीलः। अभ्रष्टव्रतः, श्रद्धादेयं परिभुङ्क्ते। न च श्रद्धादेयं प्रतिक्षिपति। न शिक्षां प्रत्याख्याति। आत्मदोषान्तरस्खलितगवेषी वा भवति। प्रतिच्छन्नकल्याणो विवृतपापकः। परदोषान्तस्खलितेषु नाभोगः संविद्य[ते] चापत्तिर्नापद्यते। जीवितहेतोरपि। आपन्नश्च लघु लघ्वेव यथाधर्मं प्रतिकरोति। इतिकरणीयेषु च दक्षो भवत्यनलसः, स्वयंकारी, न परतः कायपरिचर्यां पर्येषते। बुद्धानां च बुद्धश्रावकाणां च, अचिन्त्यमनुभावं, गंभीरां च देशनामधिमुच्यते। न प्रतिक्षिपति। तथागता एव जनकाः पश्यका (द्रष्टारो) नाहमिति। दृष्ट्वा न च स्वयं दृष्टिपरामर्शस्थायी भवत्यसमंजसग्राही, दुःप्रतिनिःसर्गमंन्त्री[।]स एभिर्गुणैर्युक्तः, एवं विहारी, एवं शिक्षमाणः, श्रमणालंकारेणालंकृतः शोभते, तद्यथा कश्चिदेव पुरुषः युवा, मननजातीयः, कामोपभोगी, स्नातानुलिप्तः। अववादवस्तुप्रावृतः। विविधैर्भूषणैरलंकृतः शोभते। तद्यथा हर्षैर्व्वा, केयूरैर्व्वा, अंगुलिमुद्रिकया वा, जातरूपरजत मालया[वा।] एवमेव स विविधैः श्रमणालंकारैर्गुणैरलंकृतो। भासते, तपति, विरोचते। तस्माच्छ्रमणालंकार इत्युच्यते। अयमुच्यते श्रमणालंकारः॥

॥उद्दानं॥

स्यादात्मपरसम्पत्तिच्छन्दः शीलेन्द्रियस्तथा।
भोजनं चैव जागर्या संप्रजानद्विहारिता॥

चैव तथा श्रवणचिन्तना (सद्धर्मश्रवणचिन्तना)।
अनन्तरायस्त्यागश्च अलंकारेण पश्चिमः॥

श्रद्धा अशठः अल्पाबाधवीर्य प्रज्ञा अल्पेच्छता संतुष्टिः सुपोषता[॥]
सुभरता धुतप्राणादिकमात्रता क्षान्ति[ः] सौरभ्यपेशला॥

॥ योगाचारभूमौ श्रावकभूमिसंगृहीतायां
प्रथमं योगस्थानं॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project