Digital Sanskrit Buddhist Canon

प्रथमः परिच्छेदः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Prathamaḥ paricchedaḥ

प्रमाणवार्तिकम्

प्रथमः परिच्छेदः

प्रमाणसिद्धिः



विधूतकल्पनाजालगम्भीरोदारमूर्तये।

नमः समन्तभद्राय समन्तस्फरणत्विषे॥१॥

प्रायः प्राकृतसक्तिरप्रतिबलप्रज्ञो जनः केवलम्‌

नानर्थ्येव सुभाषितैः परिगतो विद्वेष्ट्यपीर्ष्यामलैः।

तेनायं न परोपकार इति नश्चिन्तापि चेतश्चिरम्‌

सूक्ताभ्यासविवर्धितव्यसनमित्यत्रानुबद्धस्पृहम्‌॥२॥

प्रमाणमविसंवादि ज्ञानमर्थक्रियास्थितिः।

अविसंवादनं शाब्देऽप्यभिप्रायनिवेदनात्‌॥३॥

वक्तृव्यापारविषयो योऽर्थो बुद्धौ प्रकाशते।

प्रामाण्यं तत्र शब्दस्य नाथतत्त्वनिबन्धनम्‌॥४॥

गृहीतग्रहणान्नेष्टं सांवृतम्‌ धीप्रमाणता।

प्रवृत्तेस्तत्प्रधानत्वात्‌ हेयोपादेयवस्तुनि॥५॥

विषयाकारभेदाच्च धियोऽधिगमभेदतः।

भावादेवास्य तद्भावे स्वरूपस्य स्वतो गतिः॥६॥

प्रामाण्यं व्यवहारेण शास्त्रं मोहनिर्वतनम्‌।

अज्ञातार्थप्रकाशो वा स्वरूपाधिगतेः परम्‌॥७॥

प्राप्तं सामान्यविज्ञानमविज्ञाते स्वलक्षणे।

यज्ज्ञानमित्यभिप्रायात्‌ स्वलक्षणविचारतः॥८॥

तद्वत्‌ प्रमाणं भगवानभूतविनिवृत्तये।

भूतोक्तिः साधनापेक्षा ततो युक्ता प्रमाणता॥९॥

नित्यं प्रमाणं नैवास्ति प्रामाण्याद्वस्तुसद्‌गतेः।

ज्ञेयानित्यतया तस्या अध्रौव्यात्क्रमजन्मनाम्‌॥१०॥

नित्यादुत्पत्तिविश्लेषादपेक्षाया अयोगतः।

कथञ्चिन्नोपर्कायत्वात्‌ अनित्येऽप्यप्रमाणता॥११॥

स्थित्वाप्रवृत्तिः संस्थानविशेषार्थक्रियादिषु।

इष्टसिद्धिरसिद्धिर्वा दृष्टान्ते संशयोऽथवा॥१२॥

सिद्धं यादृगधिष्ठातृभावाभावानुवृत्तिमत्‌।

सन्निवेशादि तद्युक्तं तस्माद्‌ यदनुमीयते॥१३॥

वस्तुभेदे प्रसिद्धस्य शब्दसाम्यादभेदिनः।

न युक्तानुमितिः पाण्डुद्रव्यादिव हुताशने॥१४॥

अन्यथा कुम्भकारेण मृद्विकारस्य कस्यचित्‌।

घटादेः करणात्‌ सिध्येद्‌ वल्मीकस्यापि तत्कृतिः॥१५॥

साध्येनानुगमात्‌ कार्ये सामान्येनापि साधने।

सम्बन्धिभेदाद्‌ भेदोक्तिदोषः कार्यसमो मतः॥१६॥

जात्यन्तरे प्रसिद्धस्य शब्दसामान्यदर्शनात्‌।

न युक्तं साधनं गोत्वाद्‌ वागादीनां विषाणवत्‌॥१७॥

विवक्षापरतन्त्रत्वान्न शब्दाः सन्ति कुत्र वा।

तद्भावादर्थसिद्धौ तु सर्व सर्वस्य सिध्यति॥१८॥

एतेन कापिलादीनाम्‌ अचैतन्यादि चिन्तितम्‌।

अनित्यादेश्च चैतन्यं मरणात्‌ त्वगपोहतः॥१९॥

वस्तुस्वरूपे सिद्धेऽयं न्यायः सिद्धे विशेषणम्‌।

अबाधकमसिद्धावप्याकाशाश्रयवद्‌ ध्वनेः॥२०॥

असिद्धावपि शब्दस्य शिद्धे वस्तुनि सिध्यति।

औलूक्यस्य यथा बौद्धेनोक्तं मूर्त्यादिसाधनम्‌॥२१॥

तस्यैव व्यभिचारादौ शब्देऽप्यव्यभिचारिण।

दोषवत्‌ साधनं ज्ञेयं वस्तुनो वस्तुसिद्धितः॥२२॥

यथा तत्कारणं वस्तु तथैव तदकारणम्‌।

यदा तत्कारणं केन मतं नेष्टमकारणम्‌॥२३॥

शस्त्रौषधाभिसम्बन्धाच्चैत्रस्य व्रणरोहणे।

असम्बद्धस्य किं स्थाणोः कारणत्वं न कल्प्यते॥२४॥

स्वभावभेदेन विना व्यापारोऽपि न युज्यते।

नित्यस्याव्यतिरेकित्वात् सामर्थ्य च दुरन्वयम्॥२५॥

येषु सत्सु भवत्येव यत्तेभ्योऽन्यस्य कल्पने।

तद्धेतुत्वेन सर्वत्र हेतुनामनवस्थितिः॥२६॥

स्वभावपरिणामेन हेतुरङ्कुरजन्मनि।

भूम्यादिस्तस्य संस्कारे तद्विशेषस्य दर्शनात्‌॥२७॥

यथा विशेषेण विना विषयेन्द्रियसंहतिः।

बुद्धेर्हेतुस्तथेदं चेन्न तत्रापि विशेषतः॥२८॥

पृथक्‌ पृथगशक्तानां स्वभावातिशयेऽसति।

संहतावप्यसामर्थ्य स्यात्‌ सिद्धोऽतिशयस्ततः॥२९॥

तस्मात्‌ पृथगशक्तेषु येषु सम्भाव्यते गुणः।

संहतौ हेतुता तेषां नेश्वरादेरभेदतः॥३०॥

प्रामाण्यञ्च परोक्षार्थज्ञानं यत्साधनस्य च।

अभावान्‌ नास्त्यनुष्ठानमिति केचित्‌ प्रचक्षते॥३१॥

ज्ञानवान्‌ मृग्यते कश्चित्‌ तदुक्तप्रतिपत्तये।

अज्ञोपदेशकरणे विप्रलम्भनशङ्किभिः॥३२॥

तस्मादनुष्ठेयगतं ज्ञानमस्य विचार्यताम्‌।

कीटसंख्यापरिज्ञानं तस्य नः क्वोपयुज्यते॥३३॥

हेयोपादेयतत्त्वस्य साभ्युपायस्य वेदकः।

यः प्रमाणमसाविष्टो न तु सवस्य वेदकः॥३४॥

दूरं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु।

प्रमाणं दूरदर्शी चेदेत गृध्रानुपास्महे॥३५॥

साधनं करुणाऽभ्यासात्‌ सा बुद्धेर्देहसंश्रयात्‌।

असिद्धिऽभ्यास इति चेन्नाश्रयप्रतिषेधतः॥३६॥

प्राणापानेन्द्रियधियां देहादेव न केवलात्‌।

सजातिनिरपेक्षाणां जन्म जन्मपरिग्रहे॥३७॥

अतिप्रसङ्गात्‌य द्‌दृष्टं प्रतिसन्धानशक्तिमत्‌।

किमासीत्‌ तस्य यन्नास्ति पश्याद्‌ येन न सन्धिमत्‌॥३८॥

न स कश्चित्‌ पृथिव्यादेरंशो यत्र न जन्तवः।

संस्वेदजाद्या जायन्ते सर्व बीजात्मकं ततः॥३९॥

तत्‌ सजात्यनपेक्षाणामक्षादीनां समुद्भवे।

परिणमो यथैकस्य स्यात्‌ सर्वस्याविशेषतः॥४०॥

प्रत्येकमुपघातेऽपि नेन्द्रियाणां मनोमतेः।

उपघातोऽस्ति भङ्गेऽस्यास्तेषां भङ्गश्च दृश्यते॥४१॥

तस्मात्‌ स्थित्याश्रयो बुद्धेर्बुद्धिमेव समाश्रितः।

कश्चिन्निमित्तमक्षाणां तस्मादक्षाणि बुद्धितः॥४२॥

यादृश्याक्षेपिका साऽसीत्‌ पश्चादप्यस्तु तादृशी।

तज्ज्ञानैरुपकार्यत्वादुक्तं कायाश्रितं मनः॥४३॥

यद्यप्यक्षैर्विना बुद्धिर्न तान्यपि तया विना।

तथाप्यन्योऽन्यहेतुत्वं ततोऽप्यन्योऽन्यहेतुके॥४४।

नाक्रमात्‌ क्रमिणो भावो नाप्यपेक्ष्याऽविशेषिणः।

क्रमाद्‌ भवन्ती धीः कायात्‌ क्रमं तस्यापि शंसति॥४५॥

प्रतिक्षणमपूर्वस्य पूर्वः पूर्वः क्षणो भवेत्‌।

तस्य हेतुरतो हेतुर्दृष्ट एवास्तु सर्वदा॥४६॥

चित्तान्तरस्य सन्धाने को विरोधोऽन्त्यचेतसः।

तद्वदप्यर्हतश्चित्तसन्धानं कुतो मतम्‌॥४७॥

असिद्धार्थः प्रमाणेन किं सिद्धान्तोऽनुगम्यते।

हेतोर्वैकल्यतस्तच्चेत्‌ किं तदेवाऽत्र नोदितम्‌॥४८॥

तद्धीवद्‌ ग्रहणप्राप्तेर्मनोज्ञानं न सेन्द्रियात्‌।

ज्ञानोत्पादनसामर्थ्यभेदान्न सकलादपि॥४९॥

अचेतनत्वान्नान्यस्माद्‌ हेत्वभेदात्‌ सहस्थितिः।

अक्षवद्‌ रूपरसवद्‌ अर्थद्वारेण विक्रिया॥५०॥

सत्तोपकारिणी यस्य नित्यं तदनुबन्धतः।

स हेतुः सप्तमी तस्मादुत्पादादिति चोच्यते॥५१॥

अस्तूपकारको वापि कदाचिच्चित्तसन्ततेः।

वह्नयादिवद्‌ घटादिनां विनिवृत्तिर्न तावता॥५२॥

अनिवृत्तिप्रसङ्श्च देहे तिष्ठति चेतसः।

तद्भावभावाद्‌ वश्यत्वात्‌ प्राणापानौ ततो न तत्‌॥५३॥

प्रेरणाकर्षणे वायोः प्रयत्नेन विना कुतः।

निर्ह्रासातिशयापत्तिर्निर्ह्रासातिशयात्‌ तयोः॥५४॥

तुल्यः प्रसङ्गोऽपि तयोः न तुल्यं चित्तकारणे।

स्थित्यावेधकमन्यच्च यतः कारणमिष्यते॥५५॥

न दोषैर्विगुणो देहो हेतुर्वर्त्यादिवद्‌ यदि।

मृते शमीकृते दोषे पुनरुज्जीवनं भवेत्‌॥५६॥

निवृत्तेऽप्यनले काष्ठविकाराविनिवृत्तिवत्‌।

तस्यानिवृत्तिरिति चेन्न चिकित्साप्रयोगतः॥५७॥

अपुनर्भावतः किञ्चद्‌ विकारजननं क्वचित्‌।

चिञ्चिद्‌ विपर्ययादग्निर्यथा काष्ठसुवर्णयोः॥५८॥

आद्यस्याल्पोऽप्यसंहार्यः प्रत्यानेयस्तु यत्कृतः।

विकारः स्यात्‌ पुनर्भावः तस्य हेम्नि खरत्ववत्‌॥५९॥

दुर्लभत्वात्‌ समाधातुरसाध्यं किञ्चिदीरितम्‌।

आयुःक्षयाद्‌ वा दोषे तु केवले नास्त्यसाध्यता॥६०॥

मृते विषादिसंहारात्‌ तंद्दशच्छेदतोऽपि वा।

विकारहेतोर्विगमे स नोच्छवसिति स नोच्छ्वसिति किं पुनः॥६१॥

उपादानाविकारेण नोपादेयस्य विक्रिया।

कर्तु शक्याऽविकारेण मृदः कुण्डादिके यथा॥६२॥

अविकृत्य हि यद्‌ वस्तु यः पदार्थो विकार्यते।

उपादानं न तत्‌ तस्य युक्तं गोगवयादिवत्‌॥६३॥

चेतःशरीरयोरेवम्‌ तद्धेतोः कार्यजन्मनः।

सहकारात्‌ सहस्थानमग्निताम्रद्रवत्ववत्‌॥६४॥

अनाश्रयात्‌ सदसतोर्नाश्रयः स्थितिकारणम्‌।

सतश्चेदाश्रयो नास्याः स्थातुरव्यतिरेकतः॥६५॥

व्यतिरेकेऽपि तद्धेतुस्तेन भावस्य किं कृतम्‌।

अबिनाशप्रसङ्गः स नाशहेतोर्मतो यदि॥६६॥

तुल्यः प्रसङ्गस्तत्रापि किं पुनः स्थितिहेतुना।

आ नाशकागमात्‌ स्थानं ततश्चेद्‌ वस्तुधर्मता॥६७॥

नाशस्य सत्यबाधोऽसाविति कि स्थितिहेतुना।

यथा जलादेराधार इति चेत्‌ तुल्यमत्र च॥६८॥

प्रतिक्षणविनाशे हि भवानां भावसन्ततेः।

तथोत्पत्तेः सहेतुत्वादाश्रयोऽयुक्तमन्यथा॥६९॥

स्यादाधारो जलादीनां गमनप्रतिबन्धतः।

अगतीनां किमाधारैर्गुणसामान्यकर्मणाम्‌॥७०॥

एतेन समवायश्च समवायि च कारणम्‌।

व्यवस्थितत्वं जात्यादेर्निरस्तमनपाश्रयात्‌॥७१॥

परतो भावानाशश्चेत् तस्य किं स्थितिहेतुना।

स विनश्येद्‌ विनाऽप्यन्यैरशक्ताः स्थितिहेतवः॥७२॥

स्थितिमान्‌ नाश्रयः सर्वः सर्वोत्पत्तै च साश्रयः।

तस्मात्‌ सर्वस्य भावस्य न विनाशः कदाचन॥७३॥

स्वयं विनश्वरात्मा चेत्‌ तस्य कः स्थापकः परः।

स्वयं न नश्वरात्मा चेत्‌ तस्य कः स्थापकः परः॥७४॥

बुद्धिव्यापारभेदेन निर्ह्रासातिशयावपि।

प्रज्ञादेर्भवतो देहनिर्ह्रासतिशयौ विना॥७५॥

इदं दीपप्रभादीनामाश्रितानां न विद्यते।

स्यात्‌ ततोऽपि विशेषोऽस्य न चित्तेऽनुपकारिण॥७६॥

रागादिवृद्धिः पुष्ट्‌यादेः कदाचित्‌ सुखदुःखजा।

तयोश्च धातुसाम्यादेरन्तरर्थस्य सन्निधेः॥७७॥

एतेन सन्निपातादेः स्मृतिभ्रंशादयो गताः।

विकारयति धीरेव ह्यन्तरर्थविशेषजा॥७८॥

शार्दू लशोणितादीनां सन्तानातिशये क्वचित्‌।

मोहादयः सम्भवन्ति श्रवणेक्षणतो यथा॥७९॥

तस्मात्‌ स्वस्यैव संस्कारं नियमेनानुवर्तते।

तन्नान्तरीयकं चित्तमतश्चित्तसमाश्रितम्‌॥८०॥

यथा श्रुतादिसंस्कारः कृतश्चेतसि चेतसि।

कालेन व्यज्यतेऽभेदात्‌ स्याद्‌ देहेऽपि ततो गुणः॥८१॥

अनन्यसत्त्वनेयस्य हीनस्थानपरिग्रहः।

आत्मस्नेहवतो दुःखसुखत्यागाप्तिवाञ्छया॥८२॥

दुःखे विपर्यासमतिः तृष्णा चाऽऽबन्धकारणम्।।

जन्मिनो यस्य ते न स्तो न स जन्माधिगच्छति॥८३॥

गत्यागती न दृष्टे चेदिन्द्रियाणामपाटवात्‌।

अदृष्टिर्मन्दनेत्रस्य तनुधूमागतिर्यथा॥८४॥

तनुत्वान्मूर्तमपि तु किञ्चित्‌ क्वचिदशक्तिमत्‌।

जलवत्‌ सूतवद्धेम्नि नादृष्टेनासदेव वा॥८५॥

पाण्यादिकम्पे सर्वस्य कम्पप्राप्तेर्विरोधिनः।

एकस्मिन्‌ कर्मणोऽयोगात्‌ स्यात्‌ पृथक्‌ सिद्धिरन्यथा॥८६॥

एकस्य चावृतौ सर्वस्यावृतिः स्यादनावृतौ।

दृश्येत रक्ते चैकस्मिन्‌ रागोऽरक्तस्य वाऽगतिः॥८७॥

नास्त्येकसमुदायोऽस्मादनेकत्वेऽपि पूर्ववत्‌।

अविशेषादणुत्वाच्च न गतिश्चेन्न सिध्यति॥८८॥

अविशेषो विशिष्टानामैन्द्रियत्वमतोऽनणुः।

एतेनावरणादीनामभावश्च निराकृतः॥८९॥

कथं वा सूतहेमादिमिश्रं तप्तोपलादि वा।

दृश्यं पृथगशक्तानामक्षादीनां गतिः कथम्‌॥९०॥

संयोगाच्चेत्‌ समानोऽत्र प्रसङ्गो हेमसूतयोः।

दृश्यः संयोग इति चेत्‌ कुतोऽदृश्याश्रये गतिः॥९१॥

रसरूपादियोगश्च संयोग उपचारतः।

इष्टश्चेद् बुद्धिभेदोऽस्तु पंक्तिर्दिर्घेति वा कथम्‌॥९२॥

संख्यासंयोगकर्मादेरपि तद्वत्‌ स्वरूपतः।

अभिलापाच्च भेदेन रूपं बुद्धौ न भासते॥९३॥

शब्दज्ञाने विकल्पेन वस्तुभेदानुसारिणा।

गुणादिष्विव कल्प्यार्थे नष्टाजातेषु वा यथा॥९४॥

मतो यद्युपचारोऽत्र स इष्टो यन्निबन्धनः।

स एव सर्वभावेषु हेतुः कि नेष्यते तयोः॥९५॥

उपचारो न सर्वत्र यदि भिन्नविशेषणम्‌।

मुख्यमित्येव च कुतोऽभिन्ने भिन्नार्थतेति चेत्‌॥९६॥

अनर्थान्तरहेतुत्वेऽप्यपर्यायः सितादिषु।

संख्यादियोगिनः शब्दास्तत्राप्यर्थान्तरं यदि॥९७॥

गुणद्रव्याविशेषः स्याद्‌ भिन्नो व्यावृत्तिभेदतः।

स्यादनर्थान्तरार्थत्वेऽप्यकर्माद्रव्यशब्दवत्‌॥९८॥

व्यतिरेकीव यच्चापि सूच्यते भाववाचिभिः।

संख्यादितद्वतः शब्दैस्तद्धर्मान्तरभेदकम्‌॥९९॥

श्रुतिस्तन्मात्रजिज्ञासोरनाक्षिप्ताखिलापरा।

भिन्नं धर्ममिवाचष्टे योगोऽङ्गुल्या इति क्वचित्‌॥१००॥

युक्ताङ् गुलीति सर्वेषामाक्षेपाद्‌ धर्मिवाचिनी।

ख्यातैकार्थाभिधानेऽपि तथा बिहितसंस्थितिः॥१०१॥

रूपादिशक्तिभेदानामनाक्षेपेण वर्तते।

तत्समानफ़लाऽहेतुव्यवच्छेदे घटश्रुतिः॥१०२॥

अतो न रूपं घट इत्येकाधिकररण श्रुतिः।

भेदोऽयमीदृशो जातिसमुदायाभिधायिनोः॥१०३॥

रूपादयो घटस्येति तत्सामान्योपसर्जनाः।

तच्छक्तिभेदाः ख्याप्यन्ते वाच्योऽन्योऽपि दिशानया॥१०४॥

हेतुत्वे च समस्तानामेकाङ्गविकलेऽपि न।

प्रत्येकमपि सामर्थ्ये युगपद्‌ बहुसम्भवः॥१०५॥

नानेकत्वस्य तुल्यत्वात्‌ प्राणापानौ नियामकौ।

एकत्वेऽपि बहुव्यक्तिस्तद्धेतोर्नित्यसन्निधेः॥१०६॥

नानेकहेतुरिति चेन्नाविशेषात्‌ क्रमादपि।

नैकप्राणेऽप्यनेकार्थग्रहणन्नियमस्ततः॥१०७॥

एकयाऽनेकविज्ञाने बुद्ध्याऽस्तु सकृदेव तत्‌।

अविरोधात्‌ क्रमेणापि माभूत्‌ तदविशेषतः॥१०८॥

बहवः क्षणिकाः प्राणा अस्वजातीयकालिकाः।

तादृशामेव चित्तानां कल्प्यन्ते यदि कारणम्‌॥१०९॥

क्रमवन्तः कथं ते स्युः क्रमवद्धेतुना विना।

पूर्वस्वजातिहेतुत्वे न स्यादाद्यस्य सम्भवः॥११०॥

तद्धेतुस्तादृशो नास्ति सति वाऽनेकता ध्रुवम्‌।

प्राणानां भिन्नदेशत्वात्‌ सकृज्जन्म धियामतः॥१११॥

यद्येककालिकोऽनेकोऽप्येकचैतन्यकारणम्‌।

एकस्यापि व वैकल्ये स्यान्मन्दश्वसितादिषु॥११२॥

अथ हेतुर्यथाभावं ज्ञानेऽपि स्याद्‌ विशिष्टता।

न हि तत्‌ तस्य कार्य यद्‌ यस्य भेदान्न्न भिद्यते॥११३॥

विज्ञानं शक्तिनियमादेकमेकस्य कारणम्‌।

अन्यार्थासक्तिविगुणे ज्ञाने चार्थान्तराग्रहात्‌॥११४॥

शरीरात्‌ सकृदुत्पन्ना धीः स्वजात्या नियम्यते।

परतश्चेत्‌ समर्थस्य देहस्य विरतिः कुतः॥११५॥

अनाश्रयान्निवृत्ते स्याच्छरीरे चेतसः स्थितिः।

केवलस्येति चेच्चित्तसन्तानस्थितिकारणम्‌॥११६॥

तद्धेतुवृत्तिलाभाय नाङ्गतां यदि गच्छति।

हेतुर्देहान्तरोत्पत्तौ पञ्चायतनमैहिकम्‌॥११७॥

तदङ्गभावहेतुत्वनिषेधेऽनुपलम्भनम्‌।

अनिश्चयकरं प्रोक्तं इन्द्रियाद्यपि शेषवत्‌॥११८॥

दृष्टा च सक्तिः पूर्वेषामिन्द्रियाणां स्वजातिषु।

विकारदर्शनात्‌ सिद्धमपरापरजन्म च॥११९॥

शरीराद्‌ यदि तज्जन्म प्रसङ्गः पूर्ववद्‌ भवेत्‌।

चित्ताच्चेत्‌ तत एवास्तु जन्म देहान्तरस्य च॥१२०॥

तस्मान्न हेतुवैकल्यात्‌ सर्वेषामन्त्यचेतसाम्‌।

असन्धिरीदृशं तेन शेषवत्‌ साधनं मतम्‌॥१२१॥

अभ्यासेन विशेषेऽपि लङ्घनोदकतापवत्‌।

स्वभावातिक्रमो मा भूदिति चेद् आहितः स चेत्‌॥१२२॥

पुनर्यत्नमपेक्षेत यदि स्याच्चास्थिताश्रयः।

विशेषो नैव वर्धेत स्वभावश्च न तादृशः॥१२३॥

तत्रोपयुक्तशक्तीनां विशेषानुत्तरान्‌ प्रति।

साधनानामसामार्थ्यान्नित्यं चानाश्रयस्थितेः॥१२४॥

विशेषस्यास्वभावत्वाद्‌ वृद्धावप्याहितो यदा।

नापेक्षेत पुनर्यत्नं यत्नोऽन्यः स्याद्‌ विशेषकृत्‌॥१२५॥

काष्ठपारदहेमादेरग्न्यादेरिव चेत्तसः।

अभ्यासजाः प्रवर्त्तन्ते स्वरसेन कृपादयः॥१२६॥

तस्मात्‌ स तेषामुत्पन्नः स्वभावो जायते गुणः।

तदुत्तरोत्तरो यत्नो विशेषस्य विधायकः॥१२७॥

यस्माच्च तुल्यजातीयपूर्वबीजप्रवृद्धयः।

कृपादिबुद्धयस्तासां सत्यभ्यासे कुतः स्थितिः॥१२८॥

न चैवं लङ्घनादेव लङ्घनं बलयत्नयोः।

तद्धेत्वोः स्थितशक्तित्वाल्लङ् घनस्य स्थितात्मता॥१२९॥

तस्यादौ देहवैगुण्यात्‌ पश्चाद्वदविलङ्घनम्‌।

शनैर्यत्नेन वैगुण्ये निरस्ते स्वबले स्थितिः॥१३०॥

कृपा स्वबीजप्रभवा स्वबीजप्रभवैर्न चेत्‌।

विपक्षैर्बाध्यते चित्ते प्रयात्यत्यन्तसात्मताम्‌॥१३१॥

तथा हि मूलमभ्यासः पूर्वः पूर्वः परस्य तु।

कृपावैराग्यबोधादेश्चित्तधर्मस्य पाटवे॥१३२॥

कृपात्मकत्वमभ्यासाद् घृणावैराग्यरागवृत्‌।

निष्पन्नः करुणोत्कर्षः परदुःखाक्षमेरितः॥१३३॥

दयावान्‌ दुःखहानार्थमुपायेष्वभियुज्यते।

परोक्षोपेयतद्धेतोस्तदाख्यानं हि दुष्करम्‌॥१३४॥

युक्त्यागमाभ्यां विमृशन्‌ दुःखहेतु परीक्षते।

तस्यानित्यादिरूपं च दुःखस्यैव विशेषणैः॥१३५॥

यतस्तथा स्थिते हेतौ निवृत्तिर्ने ति पश्यति।

फ़लस्य हेतोर्हानार्थ तद्विपक्षं परीक्षते॥१३६॥

साध्यते तद्विपक्षोऽपो हेतो रूपावबोधतः।

आत्मात्मीयग्रहकृतः स्नेहः संस्कारगोचरः॥१३७॥

हेतुर्विरोधि नैरात्म्दर्शनं तस्य बाधकम्‌।

बहुशो बहुधोपायं कालेन बहुनास्य च॥१३८॥

गच्छन्त्यभ्यस्यतस्तत्र गुणदोषाः प्रकाशताम्‌।

बुद्धेश्च पाटवाद्धेतोर्वासनाऽतः प्रहीयते॥१३९॥

परार्थवृत्तैः खड्गादेर्विशेषोऽयं महामुनेः।

उपायाभ्यास एवायं तादर्थ्याच्छासनं मतम्‌॥१४०॥

निष्पत्तेः प्रथमं भावाद्धेतुरुक्तमिदं द्वयम्‌।

हेतोः प्रहाणं त्रिगुणं सुगतत्वमनिःश्रयात्‌॥१४९॥

दुःखस्य शस्तं नैरात्म्यदृष्टेश्च युक्तितोऽपि वा।

पुनरावृत्तिरित्युक्तौ जन्मदोषसमुद्भवौ॥१४२॥

आत्मदर्शनबीजस्य हानादपुनरागमः।

तद् भूतभिन्नात्मतया शेषमक्लेशनिर्ज्वरम्‌॥१४३॥

कायवाग्बुद्धिवैगुण्यं मार्गोक्त्यपटुतापि वा।

अशेषहानमभ्यासाद् उक्त्यादेर्दोषसंक्षयः॥१४४॥

नेत्येके व्यतिरेकोऽस्य सन्दिग्धो व्यभिचार्यतः।

अक्षयित्वं च दोषाणां नित्यत्वादनुपायतः॥१४५॥

उपायस्यापरिज्ञानादपि वा परिकल्पयेत्‌।

हेतुमत्त्वाद् विरुद्धस्य हेतोरभ्यासतः क्षयात्‌॥१४६॥

हेतुस्वभावज्ञानेन तज्ज्ञानमपि साध्यते।

तायः स्वदृष्टमार्गोक्तिः वैफ़ल्याद् वक्ति नानृतम्‌॥१४७॥

दयालुत्वात्‌ परार्थञ्च सर्वारम्भाभियोगतः।

तस्मात्‌ प्रमाणम्‌ तायो वा चतुःसत्यप्रकाशनम्‌॥१४८॥

दुःखं संसारिणः स्कन्धाः रागादेः पाटवेक्षणात्‌।

अभ्यासान्न यदृच्छातोऽहेतोर्जन्मविरोधतः॥१४९॥

व्यभिचारान्न वातादिधिर्मः प्रकृतिसङ्करात्‌।

अदोषश्चेत्तदन्योऽपि धर्मः किं तस्य नेक्ष्यते॥१५०॥

न सर्वधर्मः सर्वेषां समरागप्रसङ्गता।

रूपादिवददोषश्चेत्‌ तुल्यं तत्रापि चोदनम्‌॥१५१॥

आधिपत्यं विशिष्टानां यदि तत्र न कर्मणाम्‌।

विशेषेऽपि च दोषाणामविशेषाद् असिद्धता॥१५२॥

न विकाराद् विकारेण सर्वेषाम्‌ न च सर्वजाः।

कारणे वर्धमाने च कार्यहानिर्न युज्यते॥१५३॥

तापादिष्विव रागादेर्विकारोऽपो सुखादिजः।

वैषम्यजेन दुःखेन रागस्यानुद्भवो यदि॥१५४॥

वाच्यं केनोद्भवः साम्यान्मदवृद्धिः स्मरस्ततः।

रागी विषमदोषोऽपि दृष्टः साम्येऽपि नापरः॥१५५॥

क्षयादसृक्स्रु तोऽप्यन्ये नैकस्त्रीनियतो मदः।

तेनैकस्यां न तीव्रः स्याद् अङ्ग रूपाद्यपीति चेत्‌॥१५६॥

न सर्वेषामनेकान्तान्न चाप्यनियतो भवेत्‌।

अगुणग्राहिणोऽपि स्यात्‌ अङ्गं सोऽपि गुणग्रहः॥१५७॥

यदि सर्वो गुणग्राही स्याद् हेतोरविशेषतः।

यदवस्थो मतो रागी न द्वेषी स्याच्च तादृशः॥१५८॥

तयोरसमरूपत्वान्नियमश्चात्र नेक्ष्यते।

सजातिवासनाभेदप्रतिबद्धप्रवृत्तयः॥१५९॥

यस्य रागादयस्तस्य नैते दोषाः प्रसङ्गिनः।

एतेन भूतधर्मत्वं निषिद्धम्‌ निःश्रयस्य च॥१६०॥

निषेधान्न पृथिव्यादिनिःश्रिता धवलादयः।

तदुपादायशब्दश्च हेत्वर्थः स्वाश्रयेण च॥१६१॥

अविनिर्भागवर्तित्वाद् रूपादेराश्रयोऽपि वा।

मदादिशक्तेरिव चेद् विनिर्भागः न वस्तुनः॥१६२॥

शक्तिरर्थान्तरं वस्तु नश्येन्नाश्रितामाश्रये।

तिष्ठत्यविकले याति तत्तुल्यं चेन्न भेदतः॥१६३॥

भूतचेतनयोः भिन्नप्रतिभासावबोधतः।

आविकारञ्च कायस्य तुल्यरूपं भवेन्मनः॥१६४॥

रूपादिवत्‌ विकल्पस्य कैवार्थपरतन्त्रता।

अनपेक्ष्य यदा कायं वासनाबोधकारणम्‌॥१६५॥

ज्ञानं स्यात्‌ कस्यचित्‌ किञ्चित्‌ कुतश्चित्‌ तेन किञ्चिन।

अविज्ञानस्य विज्ञानानुपादानाच्च सिध्यति॥१६६॥

विज्ञानशक्तिसम्बन्धादिष्टं चेत्‌ सर्ववस्तुनः।

एतत्‌ सांख्यपशोः कोऽन्यः सलज्जो वक्तुमीहते १६७॥

अदृष्टपूर्वमस्तीति तृणाग्रे करिणां शतम्‌।

यद् रूपं दृश्यतां यातं तद् रूपं प्राङ् न दृश्यते॥१६८॥

शतधा विप्रकीर्णेऽपि हेतौ तद् विद्यते कथम्‌।

रागाद्यनियमोऽपूर्वप्रादुर्भावे प्रसज्यते॥१६९॥

भूतात्मताऽनतिक्रान्तः सर्वो रागादिमान्‌ यदि।

सर्वः समानरागः स्याद् भूतातिशयतो न चेत्‌॥१७०॥

भूतानां प्राणताऽभेदेऽप्ययं भेदो यदाश्रयः।

तन्निर्ह्रासातिशयवत्‌ तद्भावात्‌ तानि हापयेत्‌॥१७१॥

न चेद् भेदेऽपि रागादिहेतुतुल्यात्मताक्षयः।

सर्वत्र रागः सदृशः स्याद्धेतोस्सदृशात्मनः॥१७२॥

न हि गोप्रत्ययस्यास्ति समानात्मभुवः क्वचित्‌।

तारतभ्यं पृथिव्यादौ प्राणितादेरिहापि वा॥१७३॥

औष्ण्यस्य तारतम्येऽपि नानुष्णोऽग्निः कदाचन।

तथेहापीति चेन्नाग्नेरौष्ण्याद् भेदनिषेधतः॥१७४॥

तारतम्यानुभविनो यस्यान्यस्य सतो गुणाः।

ते क्वचित्‌ प्रतिहन्यन्ते तद्भेदे धवलादिवत्‌॥१७५॥

रूपादिवन्न नियमस्तेषां भूताविभागतः।

तत्‌ तुल्यं चेन्न रागादेः सहोत्पत्तिप्रसङ्ग़तः॥१७६॥

विकल्प्यविषयत्वाच्च विषया न नियामकाः।

सभागहेतुविरहाद् रागादेर्नियमो न वा॥१७७॥

सर्वदा सर्वबुद्धीनां जन्म वा हेतुसन्निधेः।

कदाचिदुपलम्भात्‌ तदध्रु वं दोषनिःश्रयात्‌॥१७८॥

दुःखं हेतुवशत्वाच्च न चात्मा नाप्यधिष्ठितम्‌।

नाकारणमधिष्ठाता नित्यं वा कारणं कथम्‌॥१७९॥

तस्मादनेकमेकस्मादू भिन्नकालं न जायते।

कार्यानुत्पादतोऽन्येषु सङ्गतेष्वपि हेतुषु॥१८०॥

हेत्वन्तरानुमानं स्यान्नैतन्‌ नित्येषु विद्यते।

कादाचित्कतया सिद्धा दुःखस्यास्य सहेतुता॥१८१॥

नित्यं सत्त्वमसत्त्वं वा हेतोर्बाह्यानपेक्षणात्‌।

तैक्ष्ण्यादीनां यथा नास्ति कारणं कण्टकादिषु॥१८२॥

तथा कारणमेतत्‌ स्याद् इति केचित्‌ प्रचक्षते।

सत्येव यस्मिन् यज्जन्म विकारे वापि विक्रिया॥१८३॥

तत्‌ तस्य कारणं प्राहुस्तत्‌ तेषामपि विद्यते।

स्पर्शस्य रूपहेतुत्वाद्‌ दर्शनेऽस्ति निमित्तता॥१८४॥

नित्यानां प्रतिषेधेन नेश्वरादेश्च सम्भवः।

असामर्थ्यादतो हेतुर्भववाञ्छापरिग्रहः॥१८५॥

यस्माद् देशविशेषस्य तत्प्राप्त्याशाकृतो नृणाम्‌।

सा भवेच्छाप्त्यनाप्तीच्छोः प्रवृत्तिः सुखदुःखयोः॥१८६॥

यतोऽपि प्राणिनः कामविभवेच्छे च त मते।

सर्वत्र चात्मस्नेहस्य हेतुत्वात्‌ सम्प्रवर्तते॥१८७॥

असुखे सुखसंज्ञस्य तस्मात्‌ तृष्णा भवाश्रयः।

विरक्तजन्मादृष्टेरित्याचार्याः सम्प्रचक्षते॥१८८॥

अदेहरागादृष्टेश्च देहाद् रागसमुद्भवः।

निमित्तोपगमादिष्टमुपादानं तु वार्यते॥१८९॥

इमां तु युक्तिमन्विच्छन्‌ वाधते स्वमतं स्वयम्‌।

जन्मना सहभावश्चेत्‌ जातानां रागदर्शनात्‌॥१९०॥

सभागजातेः प्राक् सिद्धिः कारणत्वेऽपि नोदितम्‌।

अज्ञानम्‌ उक्ता तृष्णैव सन्तानप्रेरणाद्‌ भवे॥१९१॥

आनन्तर्याच्च कर्मापि सति तस्मिन्नसम्भवात्‌।

तदनात्यन्तिकं हेतोः प्रतिबन्धादिसम्भवात्‌॥१९२॥

संसारित्वादनिर्मोक्षो नेष्टत्वादप्रसिद्धितः।

यावच्चात्मनि न प्रेम्णो हानिः स परितस्यति॥१९३॥

तावद् दुःखितमारोप्य न च स्वस्थोऽवतिष्ठते।

मिथ्याध्यारोपहानार्थ यत्नोऽसत्यपि मोक्तरि॥१९४॥

अवस्था वीतारागाणां दयया कर्मणाऽपि वा।

आक्षिप्तेऽविनिवृत्तीष्टेः सहकारिक्षयादलम्॥१९५॥

नाक्षेप्तुमपरं कर्म भवतृष्णाविलङ्घिनाम्‌।

दुःखज्ञानेऽविरुद्धस्य पूर्वसंस्कारवाहिनी॥१९६॥

वस्तुधर्मो दयोत्पत्तिर्न सा सत्वानुरोधिनी।

आत्मान्तरसमारोपद् रागो धर्मेऽतदात्मके॥१९७॥

दुःखसन्तानसंस्पर्शमात्रेणैवं दयोदयः।

मोहश्च मूलं दोषाणां स च सत्त्वग्रहो विना॥१९८॥

तनाद्यहेतौ न द्वेषो न दोषोऽतः कृपा मता।

नामुक्तिः पूर्वसंस्कारक्षयेऽन्याप्रतिसन्धितः॥१९९॥

अक्षीणशक्तिः संस्कारो येषां तिष्ठन्ति तेऽनघाः।

मन्दत्वात् करुणायाश्च न यत्नः स्थापने महान्॥२००॥

तिष्ठन्त्येव पराधीना येषां तु महती कृपा।

सत्कायदृष्टेर्विगमादाद्य एवाभवो भवेत्॥२०१॥

मार्गे चेत् सहजाहानेर्न हानौ वा भवः कुतः।

सुखी भवेयं दुःखी वा मा भूवमिति तृष्यतः॥२०२॥

यैवाऽहमिति धीः सैव सहजं सत्त्वदर्शनम्।

न ह्यपश्यन्नहमिति कश्चिदात्मनि स्निह्यति॥२०३॥

न चात्मनि विना प्रेम्णा सुखकामोऽभिधावति।

दुःखस्योत्पादहेतुत्वं बन्धो नित्यस्य तत्‌ कुतः॥२०४॥

अदुःखोत्पादहेतुत्वं मोक्षो नित्यस्य तत् कुतः।

अनित्यत्वेन योऽवाच्यः स हेतुर्न हि कस्यचित्॥२०५॥

बन्धमोक्षावप्यवाच्ये न युज्येते कथञ्चन।

नित्यं तमाहुर्विद्वांसो यः स्वभावो न नश्यति॥२०६॥

त्यक्त्वेमां ह्रेपणीं दृष्टमतोऽनित्यः स उच्यताम्।

उक्तो मार्गः तदभ्यासादाश्रयः परिवर्तते॥२०७॥

सात्म्येऽपि दोषभावश्चेन्मार्गवत् नाविभुत्वतः।

विषयग्रहणं धर्मो विज्ञानस्य यथास्ति सः॥२०८॥

गृह्यते सोऽस्य जनको विद्यमानात्मनेति च।

एषा प्रकृतिरस्यास्तन्निमित्तान्तरतः स्खलत्‌॥२०९॥

व्यावृत्तौ प्रत्ययापेक्षमदृढं सर्पबुद्धिवत्।

प्रभास्वरमिदं चित्तं प्रकृत्यागन्तवो मलाः॥२१०॥

तत्प्रागप्यसमर्थानां पश्चाच्छक्तिः क्व तन्मये।

नालं प्ररोढुमत्यन्तं स्यन्दिन्यामग्निवद् भुवि॥२११॥

बाधकोत्पत्तिसामर्थ्यगर्भे शक्तोऽपि वस्तुनि।

निरुपद्रवभूतार्थस्वभावस्य विपर्ययैः॥२१२॥

न बाधा यत्नवत्त्वेऽपि बुद्धेस्तत्पक्षपाततः।

आत्मग्रहैकयोनित्वात् कार्यकारणभावतः॥२१३॥

रागप्रतिघयिर्बाधा भेदेऽपि न परस्परम्।

मोहाविरोधान्मैत्र्यादेर्नात्यन्तं दोषनिग्रहः॥२१४॥

तन्मूलाश्च मलाः सर्वे स च सत्कायदर्शनम्।

विद्यायाः प्रतिपक्षत्वाच्चैत्तत्वेनोपलब्धितः॥२१५॥

मिथ्योपलब्धिरज्ञानं युक्तेश्चान्यदयुक्तिमत्।

व्याख्येयोऽत्र विरोधो यः तद्विरोधाच्च तन्मयैः॥२१६॥

विरोधः शून्यतादृष्टेः सत्वदोषैः प्रसिध्यति।

नाक्षयः प्राणिधर्मत्वाद्‌ रूपादिवदसिद्धितः॥२१७॥

सम्बन्धे प्रतिपक्षस्य त्यागस्यादर्शनादपि।

न काठिन्यवदुत्पत्तिः पुनर्दोषविरोधिनः।

सात्मत्वेनानपायत्वात् अनेकान्ताच्च भस्मवत्‌॥२१८॥

यः पश्यत्यात्मानं तत्रास्याहमिति शाश्वतः स्नेहः।

स्नेहात्‌ सुखेषु तृष्यति तृष्णा दोषांस्तिरस्कुरुते॥२१९॥

गुणदर्शी परितृष्यन् ममेति तत्साधनान्युपादत्ते।

तेनात्माभिनिवेशो यावत् तावत् स संसारे॥२२०॥

आत्मनि सति परसंज्ञा स्वपरविभागात्‌ परिग्रहद्वेषौ।

अनयोः सम्प्रतिबद्धाः सर्वे दोषाः प्रजायन्ते॥२२१॥

नियमेनात्मनि स्निह्यंस्तदीये न विरज्यते॥२२२॥

न चास्त्यात्मनि निर्दोषे स्नेहापगमकारणम्‌।

स्नेहः सदोष इति चेत् ततः किं तस्य वर्जनम्॥२२३॥

अदूषितेऽस्य विषये न शक्यं तस्य वजनम्‌।

प्रहाणितिच्छद्वेषादेर्गुणदोषानुबन्धिनः॥२२४॥

तयोरदृष्टिर्विषये न तु बाह्येषु यः क्रमः।

न हि स्नेहगुणात् स्नेहः किन्त्वर्थगुणदर्शनात्॥२२५॥

कारणेऽविकले तस्मिन् कार्य केन निर्वार्यते।

का वा सदोषता दृष्टा स्नेहे दुःखसमाश्रयः॥२२६॥

तथापि न विरागोऽत्र स्वत्वदृष्टेर्यथात्मनि।

न तैर्विना दुःखहेतुरात्मा चेत् तेऽपि तादृशाः॥२२७॥

निर्दोषं द्वयमप्येवं वैराग्यान्न द्वयोस्ततः।

दुःखभावनया स्याच्चेदहिदष्टाङ्गहानिवत्‌॥२२८॥

आत्मीयबुद्धीहान्याऽत्र त्यागो न तु विपर्यये।

उपभोगाश्रयत्वेन गृहीतेष्वन्द्रियादिषु॥२२९॥

स्वत्वधीः केन वार्येत वैराग्यं तत्र तत् कुतः।

प्रत्यक्षमेव सर्वस्य केशादिषु कलेवरात्‌॥२३०॥

च्युतेषु सघृणा बुद्धिर्जायतेऽन्येषु सस्पृहा।

समवायादिसम्बन्धजनिता तत्र हि स्वधीः॥२३१॥

स तथैवेति सा दोषदृष्टावपि न हीयते।

समवायाद्यभावेऽपि सर्वत्रास्त्युपकारिता॥२३२॥

दुःखोपकारान्न भवेदंगुल्यामिव चेत् स्वधीः।

न ह् येकान्तेन तद् दुःखं भूयसा सविषान्नवत्‌॥२३३॥

विशिष्टसुखसङ्गात् स्यात् तद्विरुद्वे विरागिता।

किञ्चित् परित्यजेत् सौख्यं विशिष्टसुखतृष्णया॥२३४॥

नैरात्म्ये तु यथालाभमात्मस्नेहात् प्रवर्तते।

अलाभे मत्तकासिन्या दृष्टा तिर्यक्षु कामिता॥२३५॥

यस्यात्मा वल्लभस्तस्य स नाशं कथमिच्छिति।

निवृत्तसर्वानुभवव्यवहारगुणाश्रयम्‌॥२३६॥

इच्छेत् प्रेम कथम् प्रेम्णः प्रकृतिर्न हि तादृशी।

सर्वथात्मग्रहः स्नेहमात्मनि द्रढयत्यलम्॥२३७॥

आत्मीयस्नेहबीजं तु तदवस्थं व्यवस्थितम्।

यत्नेऽप्यात्मीयवैराग्यं गुणलेशसमाश्रयात्॥२३८॥

वृत्तिमान् प्रतिबध्नाति तद्दोषान् संवृणोति च।

आत्मन्यपि विरागश्चेदिदानीं यो विरज्यते॥२३९॥

त्यजत्यसौ यथात्मानं व्यर्थाऽतो दुःखभावना।

दुःखभावनयाऽप्येष दुःखमेव विभावयेत्॥२४०॥

प्रत्यक्षं पूर्वमपि तत् तथापि न विरागवान्।

यद्यप्येकत्र दोषेण तत्क्षणं चलिता मतिः॥२४१।

विरक्तो नैव तत्रापि कामीव वनितान्तरे।

त्याज्योपादेयभेदे हि सक्तिर्यैवैकभाविनी॥२४२॥

सा बीजं सर्वसक्तीनां पर्यायेण समुद्भवे।

निर्दोषविषयः स्नेहो निर्दोषः साधनानि च॥२४३॥

एतावदेव च जगत् क्वेदानीं स विरज्यते।

सदोषताऽपि चेत् तस्य तत्रात्मन्यपि सा समा॥२४४॥

तत्राविरक्तस्तद्दोषे क्वेदानीं स विरज्यते।

गुणदर्शनसम्भूतं स्नेहं बाधितदोषदृक्॥२४५॥

स चेन्द्रियादौ न त्वेवं बालादेरपि सम्भवात्।

दोषवत्यपि सद्भावात् अभावाद् गुणवत्यपि॥२४६॥

अन्यत्रात्मीयतायां वाऽप्यतीतादौ विहानितः।

तत एव च नात्मीयबुद्धेरपि गुणेक्षणम्॥२४७॥

कारणम् हीयते सापि तस्मान्नागुणदर्शनात्।

अपि चासद्गुणारोपः स्नेहात् तत्र हि दृश्यते॥२४८॥

तस्मात् तत्कारणाबाधी बिधिस्तं बाधते कथम्।

परापरप्रार्थनातो विनाशोत्पादबुद्धितः॥२४९॥

इन्द्रियादौ पृथग्भूतमात्मानं वेत्ययं जनः।

तस्मान्नैकत्वदृष्ट्यापि स्नेहः स्निह्यन् स आत्मनि॥२५०॥

उपलम्भान्तरङ् गेषु प्रकृत्यैवानुरज्यते।

प्रत्युत्पन्नात् तु यो दुःखान्निर्वेदो द्वेष ईदृशः॥२५१॥

न वैराग्यम् तदाप्यस्य स्नेहोऽवस्थान्तरेषणात्।

द्वेषस्य दुःखयोनित्वात् स तावन्मात्रसंस्थितिः॥२५२॥

तस्मिन् निवृत्ते प्रकृतिं स्वामेव भजते पुनः।

औदासीन्यं तु सर्वत्र त्यागोपादानहानितः॥२५३॥

वासीचन्दनकल्पानां वैराग्यं नाम कथ्यते।

संस्कारदुःखतां मत्वा कथिता दुःखभावना॥२५४॥

सा च नः प्रत्ययोत्पत्तिः सा नैरात्म्यदृगाश्रयः।

मुक्तिस्तु शून्यतादृष्टेस्तदर्थाः शेषभावनाः॥२५५॥

अनित्यात् प्राह तेनैव दुःखं दुःखान्निरात्मताम्।

अविरक्तश्च तृष्णावान् सर्वारम्भसमाश्रितः॥२५६॥

सोऽमुक्तः क्लेशकर्मभ्यां संसारी नाम तादृशः।

आत्मीयमेव यो नेच्छेद् भोक्ताप्यस्य न विद्यते॥२५७॥

आत्मापि न तदा तस्य क्रियाभोगौ हि लक्षणम्।

तस्मादनादिसन्तानतुल्यजातीयबीजिकाम्॥२५८॥

उत्खातमूलां कुरुत सत्त्वदृष्टिं मुमुक्षवः।

आगमस्य तथाभावनिबन्धनमपश्यताम्॥२५९॥

मुक्तिमागममात्रेण वदन्न परितोषकृत्।

नालं वीजादिसंसिद्धो विधिः पुंसामजन्मने॥२६०॥

तैलाभ्यङ्गाग्निदाहादेरपि मुक्तिप्रसङ्गतः।

प्राग् गुरोर्लाघवात् पश्चान्न पापहरणं कृतम्॥२६१॥

मा भूद् गौरवमेवास्य न पापं गुर्वमूर्त्तितः।

मिथ्याज्ञानतदुद्भूततर्षसञ्चेतनावशात्॥२६२॥

हीनस्थानगतिर्जन्म ततस्तच्छिन्न जायते।

तयोरेव हि सामर्थ्य जातौ तन्मात्रभावतः॥२६३॥

ते चेतने स्वयं कर्मेत्यखण्डं जन्मकारणं।

गतिप्रतीत्योः करणान्याश्रयास्तान्यदृष्टतः॥२६४॥

अदृष्टनाशादगतिः तत्संस्कारो न चेतना।

सामर्थ्य करणोत्पत्तेर्भावाभावानुवृत्तितः॥२६५॥

दृष्टं बुद्धेर्न चान्यस्य सन्ति तानि नयन्ति किम्।

धारणप्रेरणक्षोभनिरोधाश्चेतनावशाः॥२६६॥

न स्युस्तेषामसामर्थ्ये तस्य दीक्षाद्यनन्तरम्।

अथ बुद्धेस्तदाभावान्न स्युः सन्धीयते मलैः॥२६७॥

बुद्धस्तेषामसामर्थ्ये जीवतोऽपि स्युरक्षमाः।

निर्ह्रासातिशयात् पुष्टौ प्रतिपक्षस्वपक्षयोः॥२६८॥

दोषाः स्वबीजसन्ताना दीक्षितेऽप्यनिवारिताः।

नित्यस्य निरपेक्षत्वात् क्रमोत्पत्तिर्विरुध्यते॥२६९॥

क्रियायामक्रियायाञ्च क्रिययोः सदृशात्मनः।

ऐक्यञ्च हेतुफलयोर्व्यतिरेकस्ततस्तयोः॥२७०॥

कृर्तृ भोक्तृत्वहानिः स्यात् सामर्थ्य च न सिध्यति।

अन्यस्मरणभोगादिप्रसङ्गाश्च न बाधकाः॥२७१॥

अस्मृतेः कस्यचित् तेन ह्यनुभूतेः स्मृतोद्भवः।

स्थिरं सुखं ममाहं चेत्यादिसत्यचतुष्टये॥२७२॥

अभूतान् षोडशाकारान् आरोप्य परितृष्यति।

तत्रैव तद्विरुद्धार्थतत्त्वाकारानुरोधिनी॥२७३॥

हन्ति सानुचरां तृष्णां सम्यग्दृष्टिः सुभाविता।

त्रिहेतोर्नोद्भवः कर्मदेहयोः स्थितयोरपि॥२७४॥

एकाभावाद् विना बीजं नांकुरस्येव सम्भवः।

असम्भवाद् विपक्षस्य न हानिः कर्मदेहयो॥२७५॥

अशक्यत्वाच्च तृष्णायां स्थितायां पुनरुद्भवात्।

द्वयक्षयार्थ यत्ने च व्यर्थः कर्मक्षये श्रमः॥२७६॥

फ़लवैचित्र्यदृष्टेश्च शक्तिभेदोऽनुमीयते।

कर्मणां तापसंक्लेशात् नैकरूपात् ततः क्षयः॥२७७॥

फ़लं कथञ्चित् तज्जन्यमल्पं स्यान्न विजातिमत्।

अथापि तपसः शक्त्या शक्तिसङ्करसंक्षयैः॥२७८॥

क्लेशात् कुतश्चिद्धीयेताशेषमक्लेशलेशतः।

यदीष्टमपरं क्लेशात् तत् तपः क्लेश एव चेत्॥२७९॥

तत् कर्मफ़लमित्यस्मान्न शक्तेः सङ्करादिकम्।

उत्पत्सुदोषनिर्घाताद् येऽपि दोषविरोधिनः॥२८०॥

तज्जे कर्मणि शक्ताः स्युः कृतिहानिः कथं भवेत्।

दोषा न कर्मणो दुष्टः करोति न विपर्ययात्॥२८१॥

मिथ्याविकल्पेन विना नाभिलाषः सुखादपि।

तायत् तत्वस्थिराशेषविशेषज्ञाबसाधनम्॥२८२॥

बोधार्थत्वाद् गमेः बाह्यशैक्षाशैक्षाधिकस्ततः।

परार्थज्ञानघटनं तस्मात् तच्छासनं ततः॥२८३॥

दयापरार्थतन्त्रत्वम् सिद्धार्थस्याविरामतः।

दयया श्रेय आचष्टे ज्ञानात् सत्यं ससाधनम्॥२८४॥

तच्चभियोगवान् वक्तुं यतस्तस्मात् प्रमाणता।

उपदेशतथाभावस्तुतिस्तदुपदेशतः॥२८५॥

प्रमाणतत्त्वसिद्ध् यर्थम् अनुमानेऽप्यवारणात्।

प्रयोगदर्शनाद् वाऽस्य यत् किञ्चिदुदयात्मकम्॥२८६॥

निरोधधर्मकं सर्व तद् इत्यादावनेकधा।

अनुमानाश्रयो लिङ्गमविनाभावलक्षणम्॥

व्याप्तिप्रदर्शनाद्धेतोः साध्येनोक्तञ्च तत् स्फुटम्॥२८७॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project