Digital Sanskrit Buddhist Canon

चतुर्थः सर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Caturthaḥ sargaḥ
चतुर्थः सर्गः



भार्या-याचितक



मुनौ ब्रुवाणेऽपि तु तत्र धर्मं धर्मं प्रति ज्ञातिषु चादृतेषु।

प्रासादसंस्थो मदनैककार्यः प्रियासहायो विजहार नन्दः॥१॥



स चक्रवाक्येव हि चक्रवाकस्तया समेतः प्रियया प्रियार्हः।

नाचिन्तयद् वैश्रमणं न शक्रं तत्स्थानहेतोः कुत एव धर्मम्॥२॥



लक्ष्म्या च रूपेण च सुन्दरीति स्तम्भेन गर्वेण च मानिनीति।

दीप्त्या च मानेन च भामिनीति यातो बभाषे त्रिविधेन नाम्ना॥३॥



सा हासहंसा नयनद्विरेफा पीनस्तनात्युन्नतपद्मकोशा।

भूयो बभासे स्वकुलोदितेन स्त्रीपद्मिनी नन्ददिवाकरेण॥४॥



रूपेण चात्यन्तमनोहरेण रूपानुरूपेण च चेष्टितेन।

मनुष्यलोके हि तदा बभूव सा सुन्दरी स्त्रीषु नरेषु नन्दः॥५॥



सा देवता नन्दनचारिणीव कुलस्य नन्दीजननश्च नन्दः।

अतीत्य मर्त्याननुपेत्य देवान् सृष्टावभूतामिव भूतधात्रा॥६॥



तां सुन्दरी चेन्न लभेत नन्दः सा वा निषेवेत न तं नतभ्रूः।

द्वन्द्वं ध्रुवं तद्विकलं न शोभेतान्योन्यहीनाविव रात्रिचन्द्रौ॥७॥



कन्दर्परत्योरिव लक्ष्यभूतं प्रमोदनान्द्योरिव नीडभूतम्।

प्रहर्षतुष्ट्योरिव पात्रभूतं द्वन्द्वं सहारंस्त मदान्धभूतम्॥८॥



परस्परोद्वीक्षणतत्पराक्षं परस्परव्याहृतसक्तचित्तम्।

परस्पराश्लेषहृताङ्गरागं परस्परं तन्मिथुनं जहार॥९॥



भावानुरक्तौ गिरिनिर्झरस्थौ तौ किन्नरीकिंपुरुषाविवोभौ।

चिक्रीडतुश्चाभिविरेजतुश्च रूपश्रियान्योन्यमिवाक्षिपन्तौ॥१०॥



अन्योन्यसंरागविवर्धनेन तद्द्वन्द्वमन्योन्यमरीरमच्च।

क्लमान्तरेऽन्योन्यविनोदनेन सलीलमन्योन्यममीमदच्च॥११॥



विभूषयामास ततः प्रियां स सिषेविषुस्तां न मृजावहार्थम्।

स्वेनैव रूपेण विभूषिता हि विभूषणानामपि भूषणं सा॥१२॥



दत्त्वाथ सा दर्पणमस्य हस्ते ममाग्रतो धारय तावदेनम्।

विशेषकं यावदहं करोमीत्युवाच कान्तं स च तं बभार॥१३॥



भर्तुस्ततः श्मश्रु निरीक्षमाणा विशेषकं सापि चकार तादृक्।

निश्वासवातेन च दर्पणस्य चिकित्सयित्वा निजघान नन्दः॥१४॥



सा तेन चेष्टाललितेन भर्तुः शाठ्येन चान्तर्मनसा जहास।

भवेच्च रुष्टा किल नाम तस्मै ललाटजिह्मां भृकुटिं चकार॥१५॥



चिक्षेप कर्णोत्पलमस्य चांसे करेण सव्येन मदालसेन।

पत्राङ्गुलिं चार्धनिमीलिताक्षे वक्त्रेऽस्य तामेव विनिर्दुधाव॥१६॥



ततश्चलन्नूपुरयोक्त्रिताभ्यां नखप्रभोद्भासितराङ्गुलिभ्याम्।

पद्‍भ्यां प्रियाया नलिनोपभाभ्यां मूर्ध्ना भयान्नाम ननाम नन्दः॥१७॥



स मुक्तपुष्पोन्मिषितेन मूर्ध्ना ततः प्रियायाः प्रियकृद् बभासे।

सुवर्णवेद्यामनिलावभग्नः पुष्पातिभारादिव नागवृक्षः॥१८॥



सा तं स्तनोद्वर्तितहारयष्टिरुत्थापयामास निपीड्य दोर्भ्याम्।

कथं कृतोऽसीति जहास चोच्चैर्मुखेन साचीकृतकुण्डलेन॥१९॥



पत्युस्ततो दर्पणसक्तपाणेर्मुहुर्मुहुर्वक्त्रमवेक्षमाणा।

तमालपत्रार्द्रतले कपोले समापयामास विशेषकं तत्॥२०॥



तस्या मुखं तत् सतमालपत्रं ताम्राधरौष्ठं चिकुरायताक्षम्।

रक्ताधिकाग्रं पतितद्विरेफं सशैवलं पद्ममिवाबभासे॥२१॥



नन्दस्ततो दर्पणमादरेण बिभ्रत्तदामण्डनसाक्षिभूतम्।

विशेषकावेक्षणकेकराक्षो लडत् प्रियाया वदनं ददर्श॥२२॥



तत्कुण्डलादष्टविशेषकान्तं कारण्डवक्लिष्टमिवारविन्दम्।

नन्दः प्रियाया मुखमीक्षमाणो भूयः प्रियानन्दकरो बभूव॥२३॥



विमानकल्पे स विमानगर्भे ततस्तथा चैव ननन्द नन्दः।

तथागतश्चागतभैक्षकालो भैक्षाय तस्य प्रविवेश वेश्म॥२४॥



अवाङमुखो निष्प्रणायश्च तस्थौ भ्रातुर्गृहेऽन्यस्य गृहे यथैव।

तस्मादथो प्रेष्यजनप्रमादाद् भिक्षामलब्ध्वैव पुनर्जगाम॥२५॥



काचित् पिपेषाङ्गविलेपनं हि वासोऽङ्गना काचिदवासयच्च।

अयोजयत् स्नानविधिं तथान्या जग्रन्थुरन्याः सुरभीः स्रजश्च॥२६॥



तस्मिन् गृहे भर्तुरतश्चरन्त्यः क्रीडानुरूपं ललितं नियोगम्।

काश्चिन्न बुद्धं ददृशुर्युवत्यो बुद्धस्य वैषा नियतं मनीषा॥२७॥



काचित् स्थिता तत्र तु हर्म्यपृष्ठे गवाक्षपक्षे प्रणिधाय चक्षुः।

विनिष्पतन्तं सुगतं ददर्श पयोदगर्भादिव दीप्तमर्कम्॥२८॥



सा गौरवं तत्र विचार्य भर्तुः स्वया च भक्त्यार्हतयार्हतश्च।

नन्दस्य तस्थौ पुरतो विवक्षुस्तदाज्ञया चेति तदाचचक्षे॥२९॥



अनुग्रहायास्य जनस्य शङ्के गुरुर्गृहं नो भगवान् प्रविष्टः।

भिक्षामलब्ध्वा गिरमासनं वा शून्यादरण्यादिव याति भूयः॥३०॥



श्रुत्वा महर्षेः स गृहप्रवेशं सत्कारहीनं च पुनः प्रयाणम्।

चचाल चित्राभरणाम्बरस्रक्कल्पद्रुमो धूत इवानिलेन॥३१॥



कृत्वाञ्जलिं मूर्धनि पद्मकल्पं ततः स कान्तां गमनं ययाचे।

कर्त्तु गमिष्यामि गुरौ प्रणामं मामभ्यनुज्ञातुमिहार्हसीति॥३२॥



सा वेपमाना परिसस्वजे तं शालं लता वातसमीरितेव।

ददर्श चाश्रुप्लुतलोलनेत्रा दीर्घे च निश्वस्य वचोऽभ्युवाच॥३३॥



नाहं यियासोर्गुरुदर्शनार्थमर्हामि कर्तुं तव धर्मपीडाम्।

गच्छार्यपुत्रैहि च शीघ्रमेव विशेषको यावदयं न शुष्कः॥३४॥



सचेद्भवेस्त्वं खलु दीर्घसूत्रो दण्डं महान्तं त्वयि पातयेयम्।

मुहुर्मुहुस्त्वां शयितं कुचाभ्यां विबोधयेयं च न चालपेयम्॥३५॥



अथाप्यनाश्यानविशेषकायां मय्येष्यसि त्वं त्वरितं ततस्त्वाम्।

निपीडयिष्यामि भुजद्वयेन निर्भूषणेनार्द्रविलेपनेन॥३६॥



इत्येवमुक्तश्च निपीडितश्च तयासवर्णस्वनया जगाद।

एवं करिष्यामि विमुञ्च चण्डि यावद् गुरुर्दूरगतो न मे सः॥३७॥



ततः स्तनोद्वर्तिततचन्दनाभ्यां मुक्तो भुजाभ्यां न तु मानसेन।

विहाय वेषं मदनानुरूपं सत्कारयोग्यं स वपुर्बभार॥३८॥



सा तं प्रयान्तं रमणं प्रदध्यौ प्रध्यानशून्यस्थितनिश्चलाक्षी।

स्थितोच्चकर्णा व्यपविद्धशष्पा भ्रान्तं मृगम् भ्रान्तमुखी मृगीव॥३९॥



दिदृक्षयाक्षिप्तमना मुनेस्तु नन्दः प्रयाणं प्रति तत्वरे च।

विवृत्तदृष्टिश्च शनैर्ययौ तां करीव पश्यन् स लडत्करेणुम्॥४०॥



छातोदरीं पीनपयोधरोरुं स सुन्दरीं रुक्मदरीमिवाद्रेः।

काक्षेण पश्यन् न ततर्प नन्दः पिबन्निवैकेन जलं करेण॥४१॥



तं गौरवं बुद्धगतं चकर्ष भार्यानुरागः पुनराचकर्ष।

सोऽनिश्चयान्नापि ययौ न तस्थौ तुरंस्तरंगेष्विव राजहंसः॥४२॥



अदर्शनं तूपगतश्च तस्या हर्म्यात्ततश्चावततार तूर्णम्।

श्रुत्वा ततो नूपुरनिस्वनं स पुनर्ललम्बे हृदये गृहीतः॥४३॥



स कामरागेण निगृह्यमाणो धर्मानुरागेण च कृष्यमाणः।

जगाम दुःखेन विवर्त्यमानः प्लवः प्रतिस्त्रोत इवापगायाः॥४४॥



ततः क्रमैर्दीर्घतमैः प्रचक्रमे कथं नु यातो न गुरुर्भवेदिति।

स्वजेय तां चैव विशेषकप्रियां कथं प्रियामार्द्रविशेषकामिति॥४५॥



अथ स पथि ददर्श मुक्तमानं पितृनगरेऽपि तथा गताभिमानम्।

दशबलमभितो विलम्बमानं ध्वजमनुयान इवैन्द्रमर्च्यमानम्॥४६॥



सौन्दरनन्द महाकाव्ये "भार्या-याचितक" नाम चतुर्थ सर्ग समाप्त।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project