Digital Sanskrit Buddhist Canon

एकविंशतितमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Ekaviṁśatitamaḥ
CHAPTER 21

JNANA-MANDALA-VIDHI-VISTARA

Emanation of deiteis from samadhi
अथ भगवान् पुनरपि सर्वतथागताभिषेकज्ञानसमयसंभवाधिष्ठानन्नाम समाधिं समापद्येमं स्वविद्योत्तममभाषत् ओं सर्वतथागताभिषेकज्ञानोत्तम हूं॥

अथ वज्रपाणिर्महाबोधिसत्व इमं स्वविद्योत्तममभाषत् ओं वज्रज्ञानाभिषेकसमय हूं॥
अथ वज्रगर्भो बोधिसत्वो महासत्व इमं स्वविद्योत्तममभाषत् ओं मणिरत्नाभिषेकज्ञान हूं॥
अथ वज्रनेत्रो बोधिसत्वो महासत्व इमं स्वविद्योत्तममभाषत् ओं धर्माभिषेकज्ञानं हूं॥
अथ वज्रविश्वो बोधिसत्त्वो महासत्वः इमं स्वविद्योत्तममभाषत् ओं सर्वाभिषेकज्ञान हूं॥

Delineation of the mandala
अथाकाशगर्भो बोधिसत्वो महासत्वः इदं स्वकुलज्ञानमण्डलममभाषत्।
अथातः संप्रवक्ष्यामि ज्ञानमण्डलमुत्तमं।
वज्रधातुप्रतीकाशं रत्नज्ञानमितिस्मृतं॥१॥
महामण्डलयोगेन सूत्रयेत्सर्वमण्डलं।
हृदि चिन्हास्तु संलेख्या धर्ममण्डलयोगत॥ इति॥२॥

अथात्र महामण्डले ज्ञानहृदयानि भवन्ति।

ओं सर्वार्थसिद्धिज्ञान हूं॥१॥
ओं मणिज्ञान हूं॥२॥
ओं मणिज्ञानाङ्कुश॥३॥
ओं मणिज्ञानराग॥४॥
ओं मणिज्ञानतुष्टि॥५॥
ओं ज्ञानदृष्टिमणि हूं॥६॥
ओं ज्ञानाभिषेक॥७॥
ओं मणिज्ञानसूर्य॥८॥
ओं मणिज्ञानध्वज॥९॥
ओं मणिज्ञानाट्टहास॥१०॥
ओं मणिज्ञान पद्म हूं॥११॥
ओं ज्ञानमणित्याग॥१२॥
ओं ज्ञानमणिकोश॥१३॥
ओं ज्ञानमणिचक्र॥१४॥
ओं ज्ञानमणिभाष॥१५॥
ओं ज्ञानमणिरत्नवर्ष॥१६॥
ओं मणिज्ञाननृत्यपूजासमय हूं॥१७॥
ओं मणिज्ञानरक्ष॥१८॥
ओं मणिज्ञानयक्ष॥१९॥
ओं मणिज्ञानमुष्टि॥२०॥

Initiation into the mandala
अथात्र मण्डले यथावद् विधिविस्तरं कृत्वा, शिष्यानेवं ब्रूयात्। “न त्वया अदृष्टधर्ममण्डलस्य वक्तव्यं। मा ते मरणकालः शीघ्रमेवासिद्धस्य स्याद्”, इत्युक्त्वा, मणिकुलधर्मज्ञानान्युत्पादयेत्।

वज्रगर्भ समालिख्य पटादिषु समाधिना।
भावयन् याचयेदर्थान्देहि रत्न इति ब्रूवन्॥१॥
वर्जगर्भं समालिख्य पटादिषु समाधिना।
भावयन् याचयेद्रत्नां देहीति वाग् ब्रूवन्॥२॥
वज्रगर्भं समालिख्य पटादिषु विभावयन्।
समापत्त्या तु सद्धर्भं देहि ज्ञानेति याचयन्॥३॥
वज्रगर्भं समालिख्य पटादिषु विभावयन्।
समापत्त्या तु सत्कर्म देहीति याचयेदिति॥४॥

तत्रैषां हृदयानि भवन्ति।
ओं देहि सर्वार्थान् भगवन् वज्रगर्भ॥
ओं देहि सर्वरत्नान् भगवन् वज्रगर्भ॥
ओं देहि सद्धर्म भगवन् वज्रगर्भ सत्सत्व॥
ओं देहि सत्कर्म भगवन् वज्रगर्भ॥

आकाशे वान्यदेशे वाभावयं सुसमाहितः।
आकाशगर्भं सत्सत्वं याचयेदर्थसंपदः॥१॥
आकाशे वान्यदेशे वा भावयं सुसमाहितः।
आकाशगर्भं सत्सत्वं याचयन् रत्नसंचयं॥२॥
आकाशे वान्यदेशे वा भावयं सुसमाहितः।
आकाशगर्भं सत्सत्वं याचयेद् धर्मसंपदः॥३॥
आकाशे वान्यदेशे वा भावयं सुसमाहितः।
आकाशगर्भं सत्सत्वं याचयेत्कर्मसंचयम्॥ इति॥४॥

अथैषां हृदयानि भवन्ति।
ओं ज्ञानगर्भ देहि सर्वार्थान्।
ओं ज्ञानगर्भ देहि सर्वरत्नान॥
ओं ज्ञानगर्भ देहि सर्वधर्मान्
ओं ज्ञानगर्भ देहि सर्वकर्मान्॥

वज्रगर्भ हृदि लिख्यं भावयं सुसमाहितः।
यदा तु हृदयं कंपेत् ततः सिद्धो धनं ददेत्॥१॥
वज्रगर्भं ललाटे तु समालिख्य विभावयेत्।
यदा तु कंपते शीर्षमभिषेकं स लप्स्यति॥२॥
वज्रगर्भं मुखे विध्वा भावयेत् तत्र एव हि।
यदा तु स्फुटते तत्तु तदा वागस्य सिध्यति॥३॥
वज्रगर्भं स्वमूर्धे तु प्रतिष्ठाप्य विभावयेत्।
यदा तु ज्वालते तत्तु तदैवोर्ध्वगमो भवेद्॥ इति॥४॥

तत्रैषां हृदयानि भवन्ति।
ओं हृदय गर्भ देहि धनं॥
ओं रत्नाभिषेकगर्भाभिषिञ्च॥
ओं वाग्गर्भ सिध्य।
ओं रत्नगर्भोष्णीषाकाशं गच्छ॥

वज्रगर्भमहामुद्रां भावयं सुसमाहितः।
याचयेद् देहि सिद्धिं मे इति-रत्नेति सिध्यति॥१॥
आकाशगर्भ समयीम्बध्वा तु सुसमाहितः।
याचयेदभिषेकाणि मिलि-रत्नेति लप्स्यति॥२॥
वज्रगर्भसमाधिन्तु भावयं सुसमाहितः।
याचयेद् देहि मे धर्म चिलि-रत्नेति लप्स्यति॥३॥
आकाशगर्भकर्माग्रीं बध्वा तु सुसमाहितः।
याचे [त्सर्वर]त्नानि किलि-रत्नेति लप्स्यतीति॥४॥

अथैषां हृदयानि भवन्ति।
ओं इलि॥
ओं मिलि॥
ओं चिलि॥
ओं किलि॥

Mudra
ततो मणिज्ञानरहस्यमुद्राज्ञानं[शिक्षयेत्॥]
द्वयेन्द्रियसमापत्त्या वज्रगर्भं तु भावयेत्।
आकाशे वान्यदेशे वा परां सिद्धिमवाप्नुते॥१॥
द्वयेन्द्रियसमापत्त्या वज्रगर्भं तु भावयन्।
आलेख्य चित्रलिखितं प्राप्नुयादभिषेचनं॥२॥
द्वयेन्द्रियसमापत्त्या वज्रगर्भं तु भावयन्।
तं प्रियं यस्य रमयेत्सर्वलोकं स रागयेत्॥३॥
द्वयेन्द्रियसमापत्त्या वज्रगर्भ तु भावयन्।
सर्वाकाशरजोविश्वैः सर्वसिद्धिर्भवेद्रध्रुवम्॥ इति॥४॥

तत्रासां हृदयानि भवन्ति।
आकाशगुह्यज्ञान साधय हूं॥
चित्रगुह्यज्ञानाभिषिञ्च हूं॥
प्रियानुस्मृतिज्ञानगुह्य सर्वलोकं रामय हूं॥
सर्वगुह्यज्ञान सर्वसिद्धिं मे प्रयच्छ हूं॥

ततो महामुद्रां यथावद् बध्नीयात्। तादृशा एव सिद्धिः। ततो वज्रमणिं वज्रज्ञानमण्डलयोगेन स्थापयेत्॥
अथ धर्ममुद्रा भवन्ति।

सः, राः, रा, साः, राः, तेः, केः, हाः,
धं, तीः, हे, भा, क, र, यः, सः।
कर्ममुद्रा समासेन यथा स्थानेषु संस्थयेद्॥ इति॥

सर्वतथागतकर्मसमयात् महाकल्पराजाज्ज्ञान-मण्डलविधिविस्तरः परिसमाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project