Digital Sanskrit Buddhist Canon

३ तत्त्वरत्नावली

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

3 tattvaratnāvalī


 



३ तत्त्वरत्नावली



 



नमः श्रीवज्रसत्त्वाय।



 



प्रणम्य वज्रसत्त्वस्य चरणाम्भोरुहद्वयम्।



तत्त्वरत्नावलीं ब्रूमः सह्रच्चन्द्रामलद्युतेः॥



सदाम्नायपरिभ्रष्ट (भत्स)तमोवृतदृशामियम्।



तत्त्वरत्नावली सम्यक् पुंसां तत्त्वप्रकाशिनी॥



 



तत्र त्रीनि यानानि,श्रावकयानं प्रत्येकयानं महायानं चेति। स्थितयश्चतस्त्रः,वैभाषिक-सौत्रान्तिक-योगाचार-मध्यमकभेदेन। तत्र वैभाषिकस्थित्या श्रावकयानं प्रत्येकयानं च व्याख्यायते। महायानं च द्विविधम्,पारमितानयो मन्त्रनयश्चेति। तत्र यः पारमितानयः सौत्रान्तिक-योगाचार-मध्यमकस्थित्या व्याख्यायते। मन्त्रनयस्तु योगाचार-मध्यमकस्थित्या व्याख्यानयते। योगाचारश्च द्विविधः,साकार-निराकारभेदेन। एवं मध्यमिकोऽपि मायोपमाद्वयवादि-सर्व्वधर्म्माप्रतिष्ठानवादि-भेदात् द्विविधः। तत्र श्राव[कः]त्रिविधः,मृदुमध्याधिमात्रभेदेन। अत्र च मृदुमध्यौ पश्चात्यवैभाषिकौ,अधिमात्रस्तु काश्मीरवैभाषिकः।



 



तत्र मृदुश्रावकस्य विचारः। नीलपीतादिवाह्यार्थाङ्गीकारपूर्व्वकं पुद्गलस्य नित्यानित्यत्ववियुक्तिमा हेति विवृतिः। तदुक्तम् -



 



अस्ति खल्विति नीलादि --------------------- -----परा।



भावग्रहग्रहावेशगम्भीरापायभीरवे॥



 



अस्ति पुद्गलो -"भारवाहो ण णिच्चं भणामि णाणिच्चं भणामी"ति पुद्गलश्च रागवान् संसरतीति समप्रहाणायाशुद्धं मतमाध्यायन्। अशुभा भावना तु शरीरस्य बिन्मूत्रशुक्रशोणि[त]श्लेष्मान्तान्त्र[सिंहानक]चिक्किणक्लमथप्लीहायकृत्प्रभृतिसमुदाय(द)रूपता निरूपयेत्।



 



तदुक्तम् -



इमं चर्म्मपुटं तावत् स्वबुद्धौ च पृथक् कुरु।



अस्थिपञ्जरतो मांसं प्रज्ञाशस्त्रेण मोचय॥



अस्थीन्यपि पृथक् कृत्वा पश्य मज्जानमन्ततः।



किमत्र सारमस्तीति स्वयमेव विचारय॥



 



इति। पुद्गलस्य नित्यत्वदर्शनपूर्व्वारोपः समाधिमलम्।



यावज्जीवं बुद्धं धर्म्मं सङ्घं शरणं गच्छामि,---वन्द्यौ सुगतौथ वृद्धः(?),यावत्कुशलमूलं तमेकमात्मानं दमयिष्याम्येकमात्मानं समयी स्यामेकमात्मानं परिनिर्व्वापयिष्यामीति दृष्टिः।



 



मध्यमस्य दृष्टिविवृतिः पूर्व्ववत्। किञ्चित्परार्थरुचिरसौ आनापानसमाधिना नित्यानित्यत्ववियुक्तपुद्गलदर्शनम् ध्यानम्। कुम्भकेन निश्चेष्टीभावः समाधिमलं जार्ड्यावाहकत्वात्।



 



श्रावक-अधिमात्रस्य वाह्यार्था [न]ङ्गीकारिणः शरीरस्य नैरात्म्यताव्यवस्थापनं विवृतिः। चतुरार्य्यसत्यपरिज्ञाने पुद्गलस्य शून्यतादर्शनं ध्यानम्। अत्र च दुःखं पञ्चस्कन्धस्वरूपं ज्ञातव्यम्। समुदयो विकल्पः प्रहातव्यः,निरोध्ये विपश्यना साक्षात् कर्त्तव्यः,मार्गः शून्यतायाः सदाशिवरूपताऽध्यारोपो ध्यानमलम्। दृष्टौ पुनरस्य परार्थकारिताविशेषः। अत्र च मृदुश्रावको नियतगोत्रत्वादकारुणिकत्वात् शाक्यबुद्ध एवेत्येके।



 



अन्ये तु -



सर्व्वबुद्धा भविष्यन्ति नाभव्यो भूवि विद्यते।



न कर्त्तव्योऽवसादोऽस्मात् सम्यक्सम्बोधिसाधने॥



 



इति। सत्त्वानां मृदुश्रावकोऽपि सम्यक्सम्बुद्धो भविष्यतीति। नियतगोत्रं तु कञ्चित् बुद्धमपेक्ष[त इ]ति मन्यन्ते। मध्यस्तु भाविप्रत्येकबुद्धः,अधिमात्रस्तु चतुःकल्पासंख्येयाभिनिर्वर्त्त्यबुद्ध इति,प्रत्येकस्य विवृतिरधिमात्रश्रावकस्यैव। अयं च प्रतिपन्नपुद्गलशून्याचिन्त्यतालक्षाणमाचार्य्यस्वयम्भूज्ञानविपश्यनासमर्थः। तत्र इन्द्रियान्निरोधो विपश्यना  पुद्गलस्यानुपलब्धिः कायवाक्चेतसां संयमसमर्थः। इदमस्य ध्यानम्। अत्रासन्ननिद्रस्य चेतसः सुखावस्थाध्यानम्,चेतसः सुषुप्तावस्थाध्यानं च समाधिमलम्। तत्र पूर्व्वस्मिन् भास्करमतानुप्रवेशः।



 



तदुक्तम् -



अनागतायां निद्रायां प्रनष्टे बाह्यगोचरे।



या भवेन्मनसोऽवस्था भावयेत् तां प्रयत्नतः॥



इति। अपरस्मिन् तु वैशेषिकमतानुप्रवेशः। तदाहुः नागार्ज्जुनपादाः -



अजानानं हि प्रज्ञानम् निद्रादृष्टान्तसाधितम्।



इन्द्रियोपरतं यद्वज् ज्ञानं वैशेषिकं मतम्॥



 



भगवतः प्रवचनमपि -



 



वरं जेतवने रम्ये शृगालत्वं व्रजाम्यहम्।



न तु वैशेषिकं मोक्षं गोतमागन्तुमर्हति॥



 



इति। दृष्टिरपि पूर्व्ववत्। अयमपि चतुःकल्पासंख्येयाभिनिर्वर्त्त्यबुद्धभावः,करुणा चानयोः श्रावकप्रत्येकयोः सत्त्वावलम्बना,दुःखदुःखताविपरिणामदुःखताभ्यामहन्यहनि सत्त्वानालम्ब्य या करुणोत्पद्यते सा सत्त्वावलम्बना। श्रावकस्य देशना वाचकी प्रत्येकस्य तु कायिकी। तदुक्तम् -



सम्बुद्धानामनुत्पादे श्रावकानां परिक्षये।



ज्ञानं प्रत्येकबुद्धस्य संसर्गात् [च]प्रजायते॥



 



इदानीं पारमितानययोगिन उच्यन्ते। तत्र मृदुसौत्रान्तिकः - अस्य खलु परमाणुसञ्चयरूपोऽर्थः साकारज्ञानजनकः। तस्य चेयमेव प्रत्य(वेत्य)वेक्षता यदुत साकारज्ञानजन[क]त्वं नाम। तदाहुः -



 



भिन्नकालं कथं ग्राह्यमिति चेद् ग्राह्यतां विदुः।



हेतुत्वमेव युक्तिज्ञा ज्ञानाकारार्पणक्षयम्॥



 



इति विवृतिः। विषयेभ्यः परावृत्तेन्द्रियग्रामस्याचिन्त्यता ध्यानम्। तदुक्तमभ्यासस्यायं कलना यत् कालः सांख्यां क्रियायाः। तस्मात् परिचयः कर्त्तव्यः। परिचयश्च -



चित्तं निश्चित्य बोधेन अभ्यासं कुरुते यदा।



तदा चित्तं न पश्यामि क्व गत क्व स्थितं भवेत्॥



भावयेद् गृहिभू ...............षिलब्धाक्षणम्।



वज्जपर्य्यङ्कमाधाय नासाग्रे चञ्चलं मनः॥



 



मलमस्य समाधेः पूर्व्ववत्। त्रितयानुपलब्ध्या प्रज्ञापारमितास्वभावेन पञ्चपारमिताऽऽचरणं फलवैमुख्ये न सत्त्वार्थपरिणामना तद्दृष्टेरिति।



 



मध्यो योगाचारः। तत्र साकारज्ञानवादी षट्केन युगपद् योगाचारे [पर]माणोः षडङ्गतेत्यादिना  न्यायेन परमाणूना[म]प्यनुपपत्तेः। चित्तमात्रमेवेदं चित्ताकारधारि ग्राह्यग्राहकभावविनिर्मुक्तं प्रकाशं प्रकाशत इति प्रतिपन्नवान्। तदुक्तं चित्तमात्रं भो जिनपुत्रा !यदुत त्रैधातुकं इति। तथाचाहुः कीर्त्तिपादाः -



धियो नीलादिरूपत्वे बाह्योऽर्थः किंनिबन्धनः।



धियोऽनीलादिरुपत्वे बाह्योऽर्थः किंनिबन्धनः॥



इति। अन्यत्राप्युक्तम् -



न चित्तेषु बहिर्भूता इन्द्रियार्थाः स्वभावतः।



रूपादिप्रतिभासेन चित्तमेव हि भासते॥



 



तस्मात् चित्तमेव चित्राकारं परं निरपेक्षप्रकाश्यं  प्रकाशत इति साकारविज्ञानवादियोगाचारस्य विवृतिः।



निराकारवादियोगाचारस्तु चित्तमेव इदमनाकारस्वसम्बेदनरूपं इति मन्यते। तदुक्तम् -



 



बाह्ये न विद्यते ह्यर्थो यथा बालैर्विकल्प्यते।



वासनालुठितं चित्तमर्थाभासं प्रवर्त्तते॥



यावदाभासते यच्च तन्मायैव च भासते।



तत्त्वतो हि निराभास शुद्धानन्तनभोनिभः॥



निष्प्रपञ्चो निराभासो धर्म्मकायो महामुनेः।



रूपकायौ तदुद्भूतौ पृष्ठे मायैव तिष्ठते॥



 



इति विवृतिः। विधूतसकलवि[क]ल्पसच्चित्राद्वैतसाक्षात्करणं ध्यानं साकारवादिनः। तदुक्तम् -



यत्र यत्र मनो याति ज्ञेयं तत्रैव योजयेत्।



चलित्वा यास्यते कुत्र सर्व्वमेव हि तन्मयम्॥



इति। साताद्वयाचिन्त्यनिष्पपञ्चनिराभासचित्तसाक्षात्करणं ध्यानं निराकारवादिनः। तथा च -



 



रूपमस्य मतं स्वच्छं निरा[का]रं निरञ्जनम्।



शक्यं तेन न हि ज्ञातुमबुद्धेन कदाचन॥



विज्ञानमात्रमेवेदमित्ययं ह्युपलम्भतः।



स्थापयेन्न स किञ्चित् [तु]तन्मात्रेणावतिष्ठते॥



यदा त्वलम्बनं ज्ञानं नैवोपलभ्यते तदा।



स्थितो विज्ञप्तिमात्रत्वे ग्राह्यभावे तदग्रहात्॥



 



परमार्थसन्नित्यसाकारविज्ञानसमाधौ भगवतः संस्थितवेदान्तवादिमतानुप्रवेशः। स हि परमार्थसन्नित्यं स्वचिद्रूपब्रह्माभिन्नपरिणामरूपं जगदिच्छति। तथा चोक्तम् -



 



यद् यद् यद् दृश्यते किञ्चित् तत् तत् ब्रह्मेति कल्पयेत्। ततो नान्यगतं चित्तं ब्रह्मणैवावतिष्ठते॥



 



इति समाधिमलं साकारवादिनः। एवं निराकारवादिनाऽपि नित्यनिराभासनिष्प्रपञ्चस्वसम्वेदनविज्ञानभावनायां भास्करमतस्थितवेदान्तवादिमतानुप्रवेशप्रसङ्गः। सोऽपि व्यपगतः सकलनामरूपप्रपञ्चोपप्लवविशुद्धप्रकाशानन्दघननित्य ब्रह्माभ्युपगच्छति।



बोधाम्भो (म्बो)धौ मयि स्वच्छं तच्छायं विश्वबुद्धयः।



उदितो वा प्रलीनो वा न विकल्पाय कल्पते॥



इति निराकारवादिनः समाधिमलम्। दृष्टिरनयोः पूर्व्ववत्।



अधिमात्रो माध्यमिकः। तत्र मायोपमाद्वयवादिनः विवृतिः -



न सन् नासन् न सदसन् न चाप्यनुभयात्मकम्।



चतुष्कोटिविर्निमुक्तं तत्त्वं माध्यमिका विदुः॥



 



अस्य चायं अर्थः। न सद् बाधायोगात्,असदपि न चाभासनवशात्,तथा दोषाद् द्वन्द्वात् उभयमपि [न],नाप्यनुभयं तथा बोधाभावादिति। अपि च पुर्व्वेतरपरामर्शात् -



 



मूर्त्तिश्चित्रे यथावस्तुशक्ति .........स्कवासङ्गः।



स हि मायोपमाद्वयेति विवृतिः। अस्यैव च मायोपमाद्वयस्य भावना ध्यानम्। यस्तत्रोच्छेदाभिनिवेशस्तद् ध्यानमलम्। मायोपमाद्वयाधिमोक्षतः षट्पारमितापरिपूरिदृष्टिः।



सर्वधर्म्माप्रतिष्ठानवादिनां त्वयं विचारः -



न मतं शाश्वतं विश्वं न चोच्छेदि समीहितम्।



शाश्वतोच्छेदिनो युग्म्यं नानुभयं विनोभयम्॥



सर्व्वस्मिन् प्रतिष्ठाने [च]वस्तुतत्त्वं विदुर्बुधाः।



अथैषा कल्पना नैव यच्चिद् वेत्ति न चित्तताम्॥



यावत् सर्व्वसमारोपः स सर्व्वः सर्व्वथा न हि।



मध्यमार्थे निरारोपस्तत्रारोहविधी कुतः॥



अनाभोगे हि यद् ज्ञानं तच्चाचिन्त्यं प्रचक्षते।



सञ्चिन्त्य यदचिन्त्यं वै तद्[चि]न्त्यं भवेन्नहि॥



येनाजातं जगद्बुद्धं बुद्धिः शुद्धैव बोधतः।



निजं तस्य जगत् सत्यमनाभोगेन धीमतः॥



तदुक्तम् -



सर्व्वारोपविनिर्मुक्ते स्वतस्तत्त्वे चकासति।



शून्यताद्यभिधानैस्तु तत्रारोपनिराक्रिया॥



 



अस्य च विचाराय आयातस्य अर्थस्य अनारोपरूपस्य अनभिनिवेशविहारेण साक्षात्क्रिया ध्यानं सर्व्वार्थोच्छेदो जडीभावः समाधिमलम्।



अनारोपेण षट्पारमितापरिपूरणं दृष्टिः। अत्र मृदुमध्ययोर्धर्म्मावलम्बना करुणा। धर्म्मावलम्बना चानित्यता व्यसनसम्पातिनः सर्व्वधर्म्मानालम्ब्य उत्पद्यते या सा बोध्यव्या। अधिमात्रस्य च आलम्बनानिःस्वभावा मनस्कारधर्म्माधिगममानालम्बना करुणा। कायत्रयव्यवस्था चास्य मैत्रेयनाथैरुक्ता। तथा च -



 



करोति येन चित्राणि हितानि जगतः समम्।



आ भवात् सोऽनुपच्छिन्नः कायो नैर्म्माणिको मुनेः॥



द्वात्रिंशल्लक्षणशीतिव्यञ्जनात्मा मुनेरयम्।



साम्भोगिको मतः कायो महायानो पभो गतः॥



सर्व्वाकारा विशुद्धिं ये धर्म्माः प्राप्ता निराश्रवाः।



स्वाभाविको मुनेः कायः तेषां प्रकृतिलक्षणः॥



 



इति। मन्त्रनयस्तु अस्मद्वि [धै]रिहातिगम्भीरत्वाद् गम्भीरनयाधिमुक्तिकपुरुषविषयत्वात् चतुर्मुद्रादिसाधनप्रकाशनविस्तरत्वाच्च न व्याक्रियते। तथा च -



 



एकार्थत्वेऽप्यसंमोहात् बहूपायाददुष्करात्।



तीक्ष्णेन्द्रियाधिकाराच्च मन्त्रशास्त्रं विशिष्यते॥



कृतश्चा [स्मा]भिरत्र सेकनिर्णयो नाम ग्रन्थः।



 



ननु यदि महायाननिर्णीत एवार्थः परमार्थोऽस्ति अस्य किमर्थं तर्हि श्रावकप्रत्येकयाने भगवान् देशितवान्?



तन्न,महायानप्राप्यप्रापनार्थं एव श्रावकप्रत्येकयानसोपानयोर्निर्म्माणात्। तदुक्तम् -



आदिकर्म्मिकसत्त्वस्य परमार्थावतारणे।



उपायस्त्वयं सम्बुद्धैः सोपानमिव निर्म्मितः॥



सद्धर्म्मपुण्डरीकेऽप्युक्तम् --



एक हि यान नयश्च एकः



एका चेयं देशन नायकानाम्।



उपायकौशल्य ममेवरूपं



यन्त्रानि यानान्युपदर्शयामि॥



 



नागार्ज्जुनपादैरप्युक्तम् -



धर्म्मधातोरसंभेदाद् ध्यानभेदोऽस्ति न प्रभो।



यानत्रितयमाख्यातं त्वया सत्त्वावतारतः॥



 



अन्यत्राप्युक्तम् -



मुक्तिस्तु शून्यतादृष्टिस्तदर्थाशेषभावना।



इति। इदं च यानत्रितयप्रकाशनं मन्यमानशून्य[ता]सैव भगवतोऽवगन्तव्यः। तथाहि -



नोदाहृतं त्वया किञ्चिदेकमप्यक्षरं विभो।



कृत्स्नश्च वै मायजनो धर्म्मवर्षनतर्षितः॥



चिन्तामणिरिवाकम्प्यः सर्व्वसङ्कल्पवायुभिः।



तथापि सर्व्वसत्त्वानामशेषाशाप्रपूरकः॥



चक्रभ्रमणयोगेन निर्व्विकल्पेऽपि तायिनः।



सम्भारो वेधसामर्थ्यात् देशना सम्प्रवर्त्तते॥



यानानां नास्ति वै निष्ठा यावच्चित्तं प्रवर्त्तते।



परावृत्ते तु वै चित्ते न यानं नापि यायिनः॥



सद्धर्म्मरत्नघटिका वाग् ह्यत्र ग्रथितामला।



हृदये क्रियतां धीरास्तत्त्वरत्नावली मुदे॥



संग्रहं तु प्रियत्वेन विस्तरद्वेषिणा मया।



भूरिर[नु]त्तमे तस्मिन् क्षन्तव्यं विस्तरप्रियाः॥



विधाय भव्यार्थनयाप्रयत्ना -



दिमं मया ग्रन्थमनुत्तरार्थम्।



आलम्भि यत्पुण्यमनेन लोक -



स्तथागतत्वं लभतामलभ्यम्॥



 



॥तत्त्वरत्नावली समाप्ता।



। कृतिरियं पण्डितावधूताद्वयवज्रपादानाम्॥


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project