Digital Sanskrit Buddhist Canon

३० सुधनकुमारावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
३० सुधनकुमारावदानम्।



पुनरपि महाराज यन्मया अनुत्तरसम्यक्संबोधिप्राप्तये दानानि दत्तानि, पुण्यानि कृतानि, वीर्यपारमिता च परिरिपूता, अनुत्तरा सम्यक्संबोधिर्नाराधिता, तच्छ्रूयताम्॥



भूतपूर्वं महाराज पाञ्चालविषये राजानौ बभूवतुः, उत्तरपाञ्चालो दक्षिणपाञ्चालश्च। तत्रोत्तरपाञ्चालो महाधनो नाम्ना हस्तिनापुरे राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च शान्तकलिकलहडिम्बडमरतस्करदुर्भिक्षरोगापगतं शालीक्षुगोमुहिषीसंपन्नम् धार्मिको धर्मराजो धर्मेण राज्यं कारयति। तस्मिंश्च नगरे महाह्रद उत्पलकुमुदपुण्डरीकसंपन्नो हंसकारण्डवचक्रवाकोपशोभितो रमणीयः। तत्र च ह्रदे जन्मचित्रको नाम नागपोतः प्रतिवसति। स कालेन कालं सम्यग्वारिधारामनुप्रयच्छति। अतीव शस्यसंपत्तिर्भवति। शस्यवती वसुमती। सुभिक्षान्नपानो देशः। दानमानसत्कारवांश्च लोकः श्रमणब्राह्मणकृपणवनीपकोपभोज्यः। दक्षिणपाञ्चलस्तु राजा अधर्मभूयिष्ठश्चण्डो रभसः कर्कशोऽधर्मेण राज्यं कारयति, नित्यं दण्डेन घातनधारणबन्धनहडीनिगडोपरोधेन राष्ट्रनिवासिनां त्रासयति। अधर्मभूयिष्ठतया चास्य देवो न कालेन कालं सम्यग्वारिधारामुत्सृजति। ततोऽसौ महाजनकायः संत्रस्तः स्वजीवितापेक्षया राष्ट्रपरित्यागं कृत्वा उत्तरपाञ्चालस्यैव राज्ञो विषयं गत्वा प्रतिवसति। यावदपरेण समयेन दक्षिणपाञ्चालो राजा मृगयाव्यपदेशेन जनपदान् व्यवलोकनाय निर्गतः। यावत् पश्यति ग्रामनगराणि शून्यानि, उद्यानदेवकुलानि भिन्नप्रभग्नानि। स जनकायः क्क गत इति कथयति। अमात्याः कथयन्ति-देव, उत्तरपाञ्चालस्य राज्ञो विषयं गतः। किमर्थम् ? देव, अभयं प्रयच्छ, कथयामः। दत्तं भवतु। ततस्ते कथयन्ति-देव, उत्तरपाञ्चालो राजा धर्मेण राज्यं कारयति। तस्य जनपदा ऋद्धाश्च स्फीताश्च क्षेमाश्च सुभिक्षाश्च आकीर्णबहुजनमनुष्याश्च प्रशान्तकलिकलहडिम्बडमरतस्करदुर्भिक्षरोगापगताः शालीक्षुगोमहिषीसंपन्नाः। दानमानसत्कारवांश्च लोकः श्रमणब्राह्मणवनीपकोपभोज्यः। देवस्तु चण्डो रभसः कर्कशो नित्यं ताडनघातनधारणबन्धननिगडोपरोधे(न) राष्ट्रं त्रासयति। यतोऽसौ जनकायः संत्रस्तः संवेगमापन्न उत्तरपाञ्चलस्य राज्ञो विषयं गतः। दक्षिणपाञ्चालो राजा कथयति- भवन्तः, कोऽसावुपायः स्याद्येनासौ जनकायः पुनरागत्य एषु ग्रामनगरेषु प्रतिवसेत् ? अमात्या आहिः-यदि देव उत्तरपाञ्चालवद्धर्मेण राज्यं कारयसि, मैत्रचित्तोऽनुकम्पाचित्तश्च राष्ट्रं पालयसि, नचिरादसौ जनकायः पुनरागत्य एषु ग्रामनगरेषु प्रतिवसेत्। दक्षिणपाञ्चालो राजा कथयति- भवन्तः, यद्येवम्, अहमप्युत्तरपाञ्चालवद्धर्मेण राज्यं कारयामि, मैत्रचित्तो हितचित्तोऽमुकम्पाचित्तश्च राष्ट्रं पालयामि। यूयं तथा कुरुत, यथा असौ जनकायः पुनरागत्य एषु ग्रामनगरेषु प्रतिवसतीति। अमात्या आहुः-देव, अपरोऽपि तत्रानुशंसोऽस्ति। तस्मिन् नगरे महाह्रद उत्पलकुमुदपुण्डरीकसंछन्नो हंसकारण्डवचक्रवाकोपशोभितः। तत्र जन्मचित्रको नाम नागपोतकः प्रतिवसति। स कालेन कालं सम्यग्वारिधारामनुप्रयच्छति। अतीव शस्यसंपत्तिर्भवति। तेन तस्य शस्यवती वसुमती, सुभिक्षान्नपानश्च देशः। राजा आह- कोऽसौ उपायः स्याद्येनासौ नागपोत इहानीयेत ? अमात्या आहुः-देव, विद्यामन्त्रधारिणः, तानानयेति। ते समन्विष्यन्ताम्। ततो राज्ञा सुवर्णपिटकं ध्वजाग्रे बद्ध्वा स्वविजिते घण्टावघोषणं कारितम्-य उत्तरपाञ्चालराजविषयाज्जन्मचित्रकं नाम नागपोतकमानयति, तस्येमं सुवर्णपिटकं दास्यामि, महता च सत्कारेण सत्करिष्यामीति। यावदन्यतमोऽहितुण्डिकोऽमात्यानां सकाशं गत्वा कथयति-ममेदं सुवर्णपिटकमनुप्रयच्छत। अहं जन्मचित्रं नाम नागपोतकमपहृत्यानयामीति। अमात्याः कथयन्ति-एष गृहाण। स कथयति-यो युष्माकं श्रद्धयितः प्रत्ययितश्च, तस्य हस्ते तिष्ठतु। आनीते जन्मचित्रे नागपोतके ग्रहीष्यामीति। एवं कुरुष्वेति। ततोऽस्रौ अहितुण्डिकः प्रत्ययितस्य पुरुषस्य हस्ते सुवर्णपिटकं स्थापयित्वा हस्तिनापुरं गतः। तेनासौ ह्रदः समन्ततो व्यवलोकितः। निमित्तीकृतः-असौ जन्मचित्रो नागपोतक एतस्मिन् प्रदेशे तिष्ठतीति। ततो बल्युपहारनिमित्तं पुनः प्रत्यागतः। अमात्यानां कथयति- बल्युपहारमेनं प्रयच्छत। सप्तमे दिवसे तं नागपोतकमपहृत्य आनयामीति। स चाहितुण्डिकस्तेन संलक्षितः- ममासावपहरणायागतः। सप्तमे दिवसे मामपहरिष्यति। मातापितृवियोगजं मे दुःखं भविष्यतीति। किं करोमि, किं शरणं प्रपद्येयमिति। तस्य ह्रदस्य नातिदूरे द्वौ लुब्धकौ प्रतिवसतः, सारको हलकः। तौ ह्रदमाश्रित्य जीविकां कल्पयतः। ये स्थलगताः प्राणिनो मृगशरभसूकरादयस्तं ह्रदमुपसर्पन्ति, तान् प्रघातयतः, येऽपि जलगता मत्स्यकच्छापमण्डूकादयः। तत्र सारकः कालगतः, हलको जीवति। जन्मचित्रो नागपोतः संलक्षयति-कोऽन्योऽस्ति मम शरणमृते हलकात् लुब्धकात् ? ततो मनुष्यवेषमास्थाय हलकस्य लुब्धकस्य सकाशं गतः। गत्वा कथयति-भोः पुरुष, किं त्वं जानीषे कस्यानुभावाद्धनस्य राज्ञो जनपदा ऋद्धाश्च स्फीताश्च सुभिक्षाकीर्णबहुजनमनुष्याश्च प्रशान्तकलिकलहडिम्बडमरतस्करदुर्भिक्षरोगापगताः शालीक्षुगोमहिषीसंपन्ना इति ? स कथयति-जाने स राजा धार्मिको धर्मेण राज्यं कारयति, मैत्रचित्तो हितचित्तोऽनुकम्पाचित्तश्च राष्ट्रं पालयतीति। स कथयति-किमेतदेव, अथास्त्यन्यदपि ? लुब्धकः कथयति-अस्त्यन्योऽप्यनुशंसः। अस्मिन् प्रदेशे जन्मचित्रको नाम नागपोतकः प्रतिवसति। स कालेन कालं सम्यग्वारिधारामनुप्रच्छति। अतीव शस्यसंपत्तिर्भवति। शस्यवती वसुमती, सुभिक्षान्नपानश्च देश इति। जन्मचित्रः कथयति-तं नागपोतकमितो विषयादपहरेत्, तस्य नागपोतकस्य किं स्यात् ? न शोभनं स्यात्, मातापितृवियोगजं दुःखं स्याद्राज्ञो राष्ट्रस्य च। योऽपहरति, तस्य किं त्वं कुर्याः ? स आह-जीविताद्व्यपरोपयेयम्। जानीषे त्वं कतरोऽसौ नागपोतक इति ? न जाने। अहमेवासौ नागः। दक्षिणपाञ्चालवैषयिकेनाहितुण्डिकेनापहृत्य नीयेत्। स बल्युपहारविधानार्थं गतः। सप्तमे दिवसे आगमिष्यति। आगत्य अस्य ह्रदस्य चतसृषु दिक्षु खदिरशलाकान्निखन्य नानारङ्गैः सूत्रैर्वेष्टयित्वा मन्त्रानावर्तयिष्यति। तत्र त्वया प्रच्छन्ने संनिकृष्टे स्थातव्यम्। यदा तेनायमेवंरूपः प्रयोगः कृतो भवति, तदा ह्रदमध्यात् क्कथमानं पानीयमुत्थास्यति अहं चोत्थास्यामि। तदा त्वयासौ अहितुण्डिकः शरेण मर्मणि ताडयितव्यः, आशु चोपसंक्रम्य वक्तव्यः-मन्त्रानुपसंहर। मा ते उत्कृत्तमूलं शिरः कृत्वा पृथिव्यां निपातयिष्यमीति। यद्यसौ मन्त्राननुपसंहृत्य प्राणैर्वियोक्ष्यते, मृतं तेऽहं यावज्जीवं मन्त्रपाशबद्धः स्यामिति। लुब्धकः प्राह-यदि तवैकस्यैव गुणः स्यात्, तथाप्यहमेवं कुर्याम्, प्रागेव सराजकस्य राष्ट्रस्य। गच्छ, अहं ते त्रातेति। ततस्तेन नागपोतकेन तस्यैकपार्श्वे गुप्तस्थानमुपदर्शितम्। यावदसौ लुब्धकः सप्तमे दिवसे प्रतिगुप्तो प्रदेशे आत्मानं गोपयित्वा अवस्थितः। स चाहितुण्डिक आगत्य बल्युपहारं कर्तुमारब्धः। तेन चतसृषु दिक्षु चत्वारः खदिरकीलका निखाताः। नानारङ्गैः सूत्रैर्वेष्टयित्वा मन्त्रा आवर्तिताः। अतस्तस्मात् पानीयं क्कथितुमारब्धम्। लुब्धकेन च शरेण मर्मणि ताडितः। निष्कोशं चासिं कृत्वा अभिहितः- त्वमस्मद्विषयनिवासिनं नागपोतमपहरसि। मा ते उत्कृत्तमूलं शिरः कृत्वा पृथिव्यां निपातयामीति। ततोऽहितुण्डिकेन दुःखवेदनाभिभूतेन मरणभयभीतेन मन्त्रा व्यावर्तिताः। तत्समनन्तरं च लुब्धकेन जीविताद् व्यपरोपितः। ततो नागो मन्त्रपाशविनिर्मुक्तो ह्रदादभ्युद्गम्य लुब्धकं परिष्वक्तवान्, एवं चाह-त्वं मे माता, त्वं मे पिता, यन्मया त्वामागम्य मातापितृवियोगजं दुःखं नोत्पन्नम्। आगच्छ, भवनं गच्छामः। तेनासौ भवनं नीतः, नानाविधेन चान्नपानेन संतर्पितः, रत्नानि चोपदर्शितानि, मातापित्रोश्च निवेदितः। अम्ब तात-एष मे सुहृच्छरणम् बान्धवः। अस्यानुभावाद्युष्माभिः सह वियोगो न जात इति। ताभ्यामसौ वरेण प्रवारितो विविधानि च रत्नानि दत्तानि। स तान्यादाय तस्माद् ह्रदाद् व्युत्थितः। तस्य च ह्रदस्य नातिदूरे पुष्पफलसलिलसंपन्ने नानाशकुनिकूजिते ऋषेरग्रमाश्रमपदम्। तत्र च नागपोतकेन सार्धं वृत्तकं तत्सर्वं विस्तरेण समाख्यातम्। तत ऋषिः कथयति- किं रत्नैः किं वा ते सुवर्णेन ? तस्य भवनेऽमोघो नाम पाशस्तिष्ठति, तं याचस्व। ततो लुब्धकोऽमोघपाशे संजाततृष्णः ऋषिवचनमुपश्रुत्य पुनरपि नागभवनं गतः। यावत्पश्यति भवनद्वारे तममोघपाशम्। तस्यैतदभवत्-एष स पाशो यो मया प्रार्थनीयः। इति विदित्वा नागभवनं प्रविष्टः। ततो जन्मचित्रेण नागपोतकेन अन्यैश्च नागैः ससंभ्रमैः प्रतिसंमोदितो रत्नैश्च प्रवारितः। स कथयति-अलं मम रत्नैः। किं तु एतममोघपाशं प्रयच्छथेति। स नाग आह-तवानेन किं प्रयोजनम् ? यदा गरुरुत्मतोपद्रुता भवामः, तदा अनेनात्मानं रक्षामः। लुब्धक आह- युष्माकमेष कदाचित् कर्हिचित् गुरुत्मतोपद्रुतानामुपयोगं गच्छति। मम तु अनेन सततमेव प्रयोजनम्।यद्यस्ति कृतमुपकृतं च, अनुप्रयच्छेति। जन्मचित्रस्य नागपोतकस्यै तदभवत्-ममानेन बहूपकृतम्। मातापितरौ अवलोक्य ददामीति। तेन मातापितरौ अवलोक्य स पाशो दत्तः। ततोऽसौ लुब्धकः पृथिवीलब्धप्रख्येन सुखसौमनस्येनाप्यायितमना अमोघपाशमादाय नागभवनादभ्युद्गम्य स्वगृहं गतः॥



यावदपरेण समयेन धनो राजा देव्या सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतो न पुत्रो न दुहिता। स करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितः-अनेकधनसमुदितं मे गृहम्। न मे पुत्रो न दुहिता। ममात्ययात्स्वकुलवंशच्छेदे राष्ट्रपहारः सर्वसन्तस्वापतेयमपुत्रमिति कृत्वा अन्यराजविधेयो भविष्यतीति। स श्रमणब्राह्मणसुहृत्संबन्धिबान्धवैरुच्यते-देव, किमसि चिन्तापरः ? स एतत्प्रकरणं विस्तरेणारोचयति। ते कथयन्ति- देवताराधनं कुरु, पुत्रस्ते भविष्यतीति। सोऽपुत्रः पुत्राभिनन्दी शिववरुणकुवेरवासवादीनन्यांश्च देवताविशेषानायाचते, तद्यथा-आरामदेवता वनदेवता चत्वरदेवता शृङ्गाटकदेवता बलिप्रतिग्राहिकाः। सहजाः सहधर्मिका नित्यानुबद्धा अपि देवता आयाचते। अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायन्ते दुहितरश्चेति। तच्चनैवम्। यद्येवमभविष्यत्, एकैकस्य पुत्रसहस्रमभविष्यत्, तद्यथा राज्ञश्चक्रवर्तिनः। अपि तु त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायन्ते दुहितरश्च। कतमेषां त्रयाणाम् ? मातापितरौ रक्तौ भवतः संनिपतितौ। माता चास्य कल्या भवति ऋतुमती च। गन्धर्वः प्रत्युपस्थितो भवति। एषां त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायन्ते ऋतुमती च। गन्धर्वः प्रत्युपस्थितो भवति। एषां त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायन्ते दुहितरश्च। स चैवमायाचनपरस्तिष्ठति। अन्यतमश्च भद्रकल्पिको बोधिसत्त्वस्तस्याग्रमहिष्या अवक्रान्तः। पञ्चावेणीया धर्मा एकत्ये पण्डितजातीये मातृग्रामे। कतमे पञ्च ? रक्तं पुरुषं जानाति विरक्तं जानाति। कालं जानाति क्रतुं जानाति। गर्भमवक्रान्तं जानाति। यस्य सकाशाद्गर्भमवक्रामति तमपि जानाति। दारकं जानाति, दारिकां जानाति। सचेद्दारको भवति, दक्षिणं कुक्षिं निश्रित्य तिष्ठति। सचेद्दारिका भवति, वामं कुक्षिं निश्रित्य तिष्ठति। सा आत्तमनाः स्वामिन आरोचयति-दिष्ट्या वर्धस्व आर्यपुत्र। आपन्नसत्त्वास्मि संवृत्ता। यथा च मे दक्षिणं कुक्षिं निश्रित्य तिष्ठति, नियतं दारको भविष्यतीति। सोऽप्यात्तमनात्तमनाः पूर्वं कायमुन्नमय्य दक्ष्ःइणं वाहुमभिप्रसार्य उदानमुदानयति- अप्येवाहं चिरकालाभिलषितं पुत्रमुखं पश्येयम्। जातो मे स्यान्नावजातः। कृत्यानि मे कुर्वीत। प्रतिभरेत्। दायाद्यं मे प्रतिपद्येत। कुलवंशो मे चिरस्थितिकः स्यात्। अस्माकं चाप्यतीतकालगतानामल्पं वा प्रभूतं वा दानानि दत्वा पुण्यानि कृत्वा अस्माकं नाम्ना दक्षिणामादेक्ष्यति-इदं तयोर्यत्रतत्रोपपन्नयोर्गच्छतोरनुगच्छतु इति। आपन्नसत्त्वां विदित्वा उपरिप्रासादतलगतामयन्त्रितां धारयति तिक्ताम्ललवणमधुरकटुकषायविवर्जितैराहारैः। हारार्धहाराविभूषितगात्रीमप्सरसमिव नन्दनवनचारिणीं मञ्चान्मञ्चं पीठात्पीठमनवतरन्तीमधरिमां भूमिम्। न चास्याः किंचिदमनोज्ञशब्दश्रवणं यावदेव गर्भस्य परिपाकाय। सा अष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारको जातोऽभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश्छत्राकारशिराः प्रलम्बबाहुर्विस्तीर्णललाट उच्चघोणः संगतभ्रूस्तुङ्गनासः सर्वाङ्गप्रत्यङ्गोपेतः। तस्य जातौ आनन्दभेर्यस्ताडिताः। श्रुत्वा राजा कथयति-किमेतदिति। अन्तःपुरिकाभी राज्ञे निवेदितम्-देव, दिष्ट्या वर्धस्व। पुत्रस्ते जात इति। ततो राज्ञा तं सर्वं नगरमपगतपाषाणसर्करकठल्लं व्यवस्थितम्, चन्दनवारिसिक्तमुच्छ्रितध्वजपताकं सुरभिधूपघटिकोपनिबद्धं नानापुष्पाभिकीर्णरमणीयम्। आज्ञा च दत्ता-श्रमणब्राह्मणकृपणवनीपकेभ्यो दानं प्रयच्छतः, सर्वबन्धनमोक्षं च कुरुतेति। तस्यैवं त्रीणि सप्तकान्येकविंशतिदिवसान् विस्तरेण जातकर्म करोति। तस्य जातिमहं कृत्वा नामधेयं व्यवस्थापितुमारब्धम्-किं भवतु दारकस्य नामेति ? अमात्याः कथयन्ति-अयं दारको धनस्य राज्ञः पुत्रः, भवतु दारकस्य सुधनो नामेति। तस्य सुधन इति नामधेयं व्यवस्थापितम्। सुधनो दारकोऽष्टाभ्यो धात्रीभ्योऽनुदत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। सोऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दघ्ना नवनीतेन सर्पिषा सर्पिमण्डैर्वा अन्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैः। आशु वर्धते ह्रदस्थमिव पङ्कजम्॥



स यदा महान् स्ंवृत्तस्तदा लिप्यामुपन्यस्तः स्ंख्यायां गणनायां मुद्रायामुद्धारे न्यासे निक्षेपे वस्तुपरीक्षायां कुमारपरीक्षायां कुमारिकापरीक्षायां दारुपरीक्षायां रत्नपरीक्षायां वस्त्रपरीक्षायाम्। सोऽष्टासु परीक्षासु घटको वाचकः पण्डितः पटुप्रचारः संवृत्तः। स यानि तानि भवन्ति राज्ञां क्षत्रियाणां मूर्धाभिषिक्तानां जनपदैश्वर्यमनुप्राप्तानां महान्तं पृथिवीमण्डलमभिनिर्जित्याध्यावसतां पृथग्भवन्ति शिल्पस्थानकर्मस्थानानि, तद्यथा-हस्तिग्रीवायामश्वपृष्ठे रथे त्सरौ धनुषि अपयाने निर्याणेऽङ्कुशग्रहे पाशग्रहे छेद्ये भेद्ये मुष्टिबन्धे शिखाबन्धे पदबन्धे दूरवेधे शन्दवेधे मर्मवेधेऽक्षुण्णवेधे दृढप्रहारितायाम्। पञ्चस्थानेषु कृतावी संवृत्तः। तस्य पित्रा त्रीण्यन्तःपुराणि व्यवस्थापितानि ज्येष्ठं मध्यं कनीयसम्। त्रीणि वासगृहाणि मापितानि, हैमन्तिकं ग्रैष्मिकं वार्षिकम्। त्रीण्युद्यानानि मापितानि, हैमन्तिकं ग्रैष्मिकं वार्षिकम्। ततः सुधनकुमार उपरिप्रासादतलगतो निष्पुरुषेण तूर्येण क्रीडति रमते परिचारयति॥



यावदपरेण समयेन हलको लुब्धको मृगयामन्वेसमाणस्तेन तेनानुविचरन्नन्यतमं पर्वतमनुप्राप्तः। तस्य च पर्वतस्याधस्तादृषेराश्रमपदं पश्यति पुष्पफलसंपन्नं नानापक्षिगणःविचरितम्। महान्तं च ह्रदमुत्पलकुमुदपुण्डरीकसंछन्नं हंसकारण्डवचक्रवाकोपशोभितम्। स तमाश्रमपदं परिभ्रमितुमारब्धः। यावत्तं ऋषिं पश्यति दीर्घकेशश्मश्रुनखरोमाणं वातातपकर्षितशरीरं चीवरवल्कलधारिणमन्यतमवृक्षमूलाश्रयतृणकुटिकाकृतनिलयम्। दृष्ट्वा च पुनः पादाभिवन्दनं कृत्वा कृताञ्जलिपुटः पप्रच्छ-भगवन्, कियच्चिरमस्मिन् प्रदेशे तव प्रतिवसतः ? चत्वारिंशद्वर्षाणि। अस्ति इयता कालेनास्मिन् प्रदेशे कश्चिदाश्चर्याद्भुतधर्मो दृष्टः श्रुतो वा ? प्रशान्तात्मा ऋषिर्मन्दं मन्दमुवाच- भद्रमुख, दृष्टस्तेऽयं ह्रदः ? दृष्टो भगवन्। एषा ब्रह्मसभा नाम पुष्किरिणी उत्पलपद्मकुमुदपुण्डरीकसंछन्ना नानापक्षिगणनिषेविता हिमरजततुषारगौराम्बुसंपूर्णा सुरभिकुसुमपूर्णतोया। अस्यां पुष्किरिण्यां पञ्चदशम्यां मनोहरा नाम द्रुमस्य किन्नरराजस्य दुहिता पञ्चकिन्नरीशतपरिवारा नानाविधस्नानोद्वर्तनैरागत्य स्नाति। स्नानकाले चास्या मधुरगीतवादितशब्देन मृगपक्षिणोऽवह्रियन्ते। अहमपि तं शब्दं श्रुत्वा महता प्रीतिसौमनस्येन सप्ताहमतिनामयामि। एतदाश्चर्यं भद्रमुख मया दृष्टमिति। अथ हलकस्य लुब्धकस्यैतदभवत्-शोभनोऽयं मया अमोघः पाशो नागाल्लब्धो मनोहरायाः किन्नर्याः क्षेप्स्यामीति। सोऽपरेण समयेन पूर्णपञ्चदश्याममोघं पाशमादाय हदतीरसमीपे पुष्पफलविटपगहनमाश्रित्य अवधानतत्परोऽवस्थितः। यावन्मनोहरा किन्नरी पञ्चशतपरिवारिता तादृश्यैव विभूत्या ब्रह्मसभां पुष्किरिणीमवतीर्णा स्नातुम्। तत्समनन्तरं च हलकेन लुब्धकेन अमोघः पाशः क्षिप्तः, येन मनोहरा किन्नरी बद्धा। तया अमोघपाशश्रितया ह्रदे महाहतनादः कृतो भीषणश्च शब्दो निश्चारितः, यं श्रुत्वा परिशिष्टः किन्नरिगण इतश्चामुतश्च संभ्रान्तो मनोहरां निरीक्षितुमारब्धः। पश्यन्ति बद्धाम्। दृष्ट्वा च पुनर्भीता निष्पलायिताः। अद्राक्षीत्स लुब्धकस्तां परमरूपदर्शनीयाम्। दृष्ट्वा च पुनरुपश्लिष्टो ग्रहीष्यामीति। सा आह- हा हतास्मि, हा मन्दभाग्या, ममेदृशीमवस्थामाप्ताम्।



मा नैषीस्त्वं हि मा स्प्राक्षीर्नैतत्तव सुचेष्टितम्।

राजभोग्या सुरूपाहं न साधु ग्रहणं तव॥१॥ इति॥



लुब्धकः प्राह-यदि त्वां न गृह्णामि, निष्पलायसे। सा कथयति-नाहं निष्पलाये। यदि न श्रद्दधासि, इमं चूडामणिं गृहाण। अस्यानुभावेनाहमुपरिविहायसा गच्छामीति। लुब्धकः कथयति - कथं जाने ? तया शिरस्थश्चूडामणिर्दत्त उक्तश्च-एष चूडामणिर्यस्य हस्ते, तस्याहं वशा भवामि। ततो लुब्धकेनासौ चूडामणिर्गृहीतः, पाशबद्धां चैनां संप्रस्थितः॥



तेन खलु समयेन सुधनराजकुमारो मृगयानिर्गतः। अद्राक्षीत्स लुब्धकः सुधनं राजकुमारमभिरूपं दर्शनीयं प्रासादिकम्। दृष्ट्वा च पुनरस्यैतदभवत्-अयं च राजकुमारः, इयं च परमदर्शनीया। यद्येनां द्रक्ष्यति, बलाद्ग्रहीष्यति। यन्न्वहमेनां प्राभृतन्यायेन स्वयमेवोपनयेयम्। ततस्तां पाशबद्धामादाय येन राजकुमारस्तेनोपसंक्रान्तः। उपसंक्रम्य पादयोर्निपत्य कथयति-इदं मम देवस्य स्त्रीरत्नं प्राभृतमानीतम्, प्रतिगृह्यतामिति। अद्राक्षीत्सुधनकुमारो मनोहरां किन्नरीमभिरूपां दर्शनीयां प्रासादिकां परमशुभवर्णपुष्कलतया समन्वागतां सर्वगुणसमुदितामष्टादशभिः स्त्रीलक्षणैः समलंकृतां जनपदकल्याणां काञ्चनकलशकूर्मपीनोन्नतकठिनसहितसुजातवृत्तप्रगल्भमानस्तनीमभिनीलरक्तांशुकविसृतायतनवकमलसदृशनयनां सुभ्रुवमायततुङ्गनासां विद्रुममणीरत्नबिम्बफलसंस्थानसदृशाधरोष्ठीं सुदृढपरिपूर्णगण्डपार्श्वामत्यर्थरतिकरकपोलतिलकानुपूर्वचरितां संगतभ्रुवारविन्दविकचसदृशपरिपूर्णविमलशशिवपुषं प्रलम्बबाहुं गम्भीरत्रिवलिकसंततमध्यां स्तनभारावनाम्यमानपूर्वार्धां रथाङ्गसंस्थितसुजातजघनां कदलीगर्भसदृशकरानुपूर्वावस्थितसुजातकरभोरुं सुनिगूढसुरचितसर्वाङ्गसुन्दरशिरां सहितमणिपीडासंरक्तकरतलप्रहर्षनूपुरवलयां हारार्धहारनिर्घोषविमलशितगतिमायतनीलसूक्ष्मकेशीं सचीवरप्रभ्रष्टकाञ्चीगुणां नूपुरावच्छादितपादां क्षामोदरीम्। तां प्रतिकीर्णहारामुत्तप्तजाम्बूनदचारुपूर्णां दृष्ट्वा कुमारः सहसा पपात विद्धो दृढरागशरेण। तत्र स रागवराहदवदहनपतङ्गसदृशेन जलचन्द्रचञ्चलविमलोज्ज्वलस्वभावेन दुर्ग्राह्यतरेण नदीतरङ्गझषमकरसुरभिगमनेन गरुडपवनजवसमगतिना तूलपरिवर्तनलघुतरेण वानरावस्थितचपलोद्भ्रान्ततरेण सतताभ्यासक्लेशनिषेवणरागसुखास्वादलोभेन सर्वक्लेशविषमदुर्गप्रपातनिःसङ्गेन परमसलीलेन चित्तेन तद्भूतानुगतया आयोनिशोमनस्कारधनुर्विसृतैः संयोगाभिलषितपरमरहस्यशब्देन कामशरेण हृदये विद्धः। आह च-



दृष्ट्वा च तां सुधन इन्दुसमानवक्रां

प्रावृड्घनान्तरविनिश्चरितेव विद्युत्।

तत्स्नेहमन्मथविलाससमुद्भवेन

सद्यः स चेतसि नु रागशरेण विद्धः॥२॥



स तामतिमनोहरां गृहीत्वा हस्तिनापुरं गतः। स च लुब्धः पञ्चग्रामवरेणाच्छादितः। ततः सुधनो राजकुमारो मनोहरया रूपयौवनगुणेन सुधनः कुमारोऽनेकैश्चोपचारशतैस्तथा अपहृतो यथा मुहूर्तमपि तां न जहाति। यावदपरेण समयेन जेतवनाद्वौ ब्राह्मणौ अभ्यागतौ। तत्रैको राजानं संश्रितः, द्वितीयः सुधनं कुमारम्। यो राजानं संश्रितः, स राज्ञा पुरोहितः स्थापितो भोगैश्च संविभक्तः। यस्तु सुधनं कुमारम्, स भोगमात्रेण संविभक्तः। स कथयदि- कुमार, यदा त्वं पितुरत्ययाद्राष्ट्रे प्रतिष्ठास्यसि, तदा मे किं करिष्यसीति ?। सुधनः कथयति-यथा तव सहायो ब्राह्मणो मम पित्रा पौरिहित्येऽवस्थापितः, एवमहं त्वामपि पौरोहित्ये स्थापयामीति। एष च वृत्तान्तस्तेन ब्राह्मणेन कर्णपरंपरया श्रुतः। तस्यैतदभवत्- अहं तथा करिष्ये, यथा कुमारो राज्यमेव नासादयिष्यति, कुतस्तं पुरोहितं स्थापयिष्यतीति ? यावदपरेण समयेन तस्य राज्ञो विजितेऽन्यतमः कार्वटिकः प्रतिविरुद्धः, तस्य समुच्छित्तये एको दण्डः प्रेषितः। स हतविहतविध्वस्तः प्रत्यागतः। एवं यावत्सप्त, ये दण्डाः प्रेषिताः, तेऽपि हस्तविध्वस्ताः प्रत्यागताः। अमात्यै राजा विज्ञापितः-देव, किमर्थं स्वबलं हार्यते, परं वर्ध्यते ? यावन्नैकः कश्चिद्देवस्य विजिते शस्त्रबलोपजीवी सर्वोऽसौ आहूयतामिति। ब्राह्मणः पुरोहितः संलक्षयति - अयं स कुमारस्य वधोपायकाल इति। तेन राजा विज्ञप्तः-देव, नैवमसौ शक्यः संनामयितुम्। राजा कथयति-किं मया स्वयं गन्तव्यम् ? पुरोहितः कथयति-किमर्थं देवः स्वयं गच्छति ? अयं सुधनः कुमारो युवा बलदर्पयुक्तः। एष दण्डसहायः प्रेष्यतामिति। राजा कथयति-एवमस्त्विति। ततो राजा कुमारमाहूय कथयति- गच्छ कुमार, दण्डसहायः कार्वटिकं संनामय। एवं देवेति सुधनः कुमारो राज्ञः प्रतिश्रुत्य अन्तःपुरं प्रविष्टः। मनोहरादर्शनाच्चास्य सर्वं विस्मृतम्। पुनरपि राज्ञा अभिहितः-पुनरपि तद्दर्शनात्सर्वं बिस्मृतम्। पुरोहितेन चाभिहितः- देव, सुधनः कुमारो मनोहरया अतीव सक्तो न शक्यते प्रेषयितुम्। राजा कथयति- साधनं सज्जं क्रियताम्। निर्गतः कुमारोऽन्तःपुरात् प्रेषयितव्यो यथा मनोहरायाः सकाशं न प्रतिवसतीति। एवं देवेति अमात्यै राज्ञः प्रतिश्रुत्य बलौघो हस्त्यश्वरथपदातिसंपन्नोऽनेकप्रहरणोपकरणयुक्तः सज्जीकृतः। ततः कुमारो निर्गतः उक्तः-गच्छ कुमार, सज्जो बलौघ इति। स कथयति-देव, गमिष्यामि मनोहरां दृष्ट्वा। राजा कथयति-कुमार न द्रष्टव्या, कालोऽतिवर्तते। स कथयति-तावद्यदि एवम्, मातरं दृष्ट्वा गच्छामि। गच्छ कुमार अवलोक्य जननीम्। स मनोहरासन्तकं चूडामणिमादाय मातुःसकाशमुपसंक्रान्तः। पादयोर्निपत्य कथयति-अम्ब, अहम् कार्वटिकं संनामनाथ गच्छामि।



दुहिता शक्रकल्पस्य किन्नरेन्द्रस्य मानिनी।

पाल्या विरहशोकार्ता मद्वात्सल्यधिया त्वया॥३॥



अयं चूडामणिः सुगुप्तं स्थापयितव्यः। न कदाचिन्मनोहराया दातब्योऽन्यत्र प्राणवियोगादिति। स एवं मातरं पितरं संदिश्य अभिवाद्य च नानायोधबलौघतूर्यनिर्नादितैः संप्रस्थितः। अनुपूर्वेण जनपदानतिक्रम्य तस्य कार्वटिकस्य नातिदूरेऽन्यतमं वृक्षमूलं निश्रित्य वासमुपगतः। तेन खलु समयेन वैश्रवणो महाराजोऽनेकयक्षपरिवारोऽनेकयक्षशतसहस्रपरिवारः। तेन यक्षाणां यक्षसमितिं संप्रस्थितः। तस्य तेन पथा गच्छतः खगपथेन यानमवस्थितम्। तस्यैतदभवत्-बहुशोऽहमनेन पथा समतिक्रान्तः। न च मे कदाचिद्यानं प्रतिहतम्। कोऽत्र हेतुर्येनेदानीं प्रतिहत इति ? पश्यति सुधनं कुमारम्। तस्यैतदभवत्- अयं भद्रकल्पिको बोधिसत्त्वः खेदमपत्स्यति युद्धायाभिप्रस्थितः। साहाय्यमस्य करणीयम्। कार्वटिकः संनामयितव्यः। न च कस्यचित्प्राणिनः पीडा करणीयेति विदित्वा पाञ्चिकं महायक्षसेनापतिमामन्त्रयते- एहि त्वं पाञ्चिक, सुधनस्य कुमारस्य कार्वटिकमयुद्धेन संनामय। न च ते कस्यचित्प्राणिनः पीडा कर्तव्येति। तथेति पाञ्चिकेन यक्षसेनापतिना वैश्रवणस्य महाराजस्य प्रतिश्रुत्य दिव्यश्चतुरङ्गो बलकायो निर्मितः-तालमात्रप्रमाणाः पुरुषाः, पर्वतप्रमाणा हस्तिनः, हस्तिप्रमाणा अश्वाः। ततो नानाविधखङ्गमुशलतोमरपाशचक्रशरपरश्वधादिशस्त्रविशेषेण नानावादित्रसंक्षोभेण च महाभयमुपदर्शयन् महता बलौघेन पाञ्चिकोऽनुप्राप्तः।



हस्त्यश्वरथनिर्घोषान्नानावादित्रनिस्वनात्।

यक्षाणां स्वप्रभावाच्च प्राकारः प्रपपातः वै॥४॥



ततस्ते कर्वकनिवासिनस्तं बलौघं दृष्ट्वा तच्च प्राकारपतनं परं विषादमापन्नाः पप्रच्छुः-कुत एष बलौघ आगच्छतीति ? ते कथयन्ति- शीघ्रं शीघ्र द्वाराणि मुञ्चत। एष पृष्ठतः कुमार आगच्छति। तस्य च बलौघो यदि चिरं विधारयिष्यथ, सर्वथा न भविष्यथेति। ते कथयन्ति-



व्युत्पन्ना न वयं राज्ञो न कुमारस्य धीमतः।

नृपपौरुषकेभ्यो स्म भीताः संत्रासमागताः॥५॥



तैर्द्वाराणि मुक्तानि। तत उच्छ्रितध्वजपताकापूर्णकलशा नानाविधतूर्यनिर्नादितैः सुधनं कुमारं प्रत्युद्गताः। तेन च समाश्वासिताः, तदभिप्रायश्च राजभटः स्थापितः। निपकाश्च निगृहीताः। करप्रत्यायाश्च निबद्धाः। ततस्तं कर्वटकं स्फीतीकृत्य सुधनकुमारः प्रतिनिवृत्तः। धनेन च राज्ञा तामेव रात्रिं स्वप्नो दृष्टः- गृध्रेणागत्य राज्ञ उदरं स्फोटयित्वा अन्त्राण्याकृष्य सर्वं तन्नगरमन्त्रैर्वेष्टितम् , सप्त रत्नानि गृहं प्रवेश्यमानानि दृष्टानि। ततो राजा भीतस्त्रस्तः संविग्न आहृष्टरोमकूपो पघुलघ्वेवोत्थाय महाशयने निषद्य करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितः-मा हैव मे अतोनिदानं राज्याच्च्युतिर्भविष्यति, जीवितस्य वा अन्तराय इति। स प्रभातायां रजन्यां स्वप्नं ब्राह्मणाय पुरोहिताय निवेदयामास। स संलक्षयति-यादृशो देवेन स्वप्नो दृष्टः, नियतं कुमारेण कर्वटको निर्जितः। वितथनिर्देशः करणीयः। इति कृत्वा कथयति-देव, न शोभनः स्वप्नः। नियतमतोनिदानं राज्याच्च्युतिर्भविष्यति, जीवितस्यान्तराय इति। केवलं तु अत्रास्ति प्रतिकारः, स च ब्राह्मणकमन्त्रेषु दृष्टः। कोऽसौ प्रतिकारः ? देव, उद्याने पुष्करिणी पुरुषप्रमाणिका कर्तव्या। ततः सुधया प्रलेप्तव्या। सुसंमृष्टां कृत्वा क्षुद्रमृगाणां रुधिरेण पूरयितव्या। ततो देवेन स्नानप्रयतेन तां पुष्करिणीमेकेन सोपानेनावतरितव्यम्, एकेनावतीर्य द्वितीयेनोत्तरितव्यम्, द्वितीयेनात्तीर्य तृतीयेनावतरितव्यम्, तृतीयेनावतीर्य चतुर्थेनोत्तरितव्यम्। ततश्चतुर्भिर्ब्राह्मणैर्वेदवेदाङ्गपारगैर्देवस्य पादयोर्जिह्वया निर्लेढव्यम्, किन्नरवसया च धूपो देयः। एवं देवो विधूतपापश्चिरं राज्यं पालयिष्यतीति। राजा कथयति- सर्वमेतच्छक्यं यदिदं किन्नरमेदमतीव दुर्लभम्। पुरोहितः कथयति- देव, यदेव दुर्लभं तदेव सुलभम्। राजा कथयति- यथा कथम् ? पुरोहितः कथयति- देव, नन्वियं मनोहरा किन्नरी। राजा कथयति- पुरोहित, मा मैवं वद। कुमारस्यात्र प्राणाः प्रतिष्ठिताः। स कथयति- ननु देवेन श्रुतम्-



त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्।

ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्॥६॥



दृढेनाद्ध्यात्मना (?) राज्यं कुमारस्यास्य धीमतः।

शक्ष्यसि ह्यपरां कर्तुं घातयैनां मनोहराम्॥७॥ इति।



आत्माभिनन्दिनो न किंचिन्न प्रतिपद्यन्त इति तेनाधिवासितम्। ततो यथोपदिष्टं पुरोहितेन कारयितुमारब्धम्। पुष्करिणी खाता सुधयोपलिप्ता संमृष्टा क्षुद्रमृगरुधिरमुपावर्तयितुमारब्धम्। स च प्रयोगः। सुधनस्यान्तःपुरजनेनोपलब्धः। ताः प्रीतिमनसः संवृत्ताः - वयं रूपयौवनसंपन्नाः। इदानीमस्माकं सुधनः कुमारः परिचारयिष्यतीति। ताः प्रमुदिता दृष्ट्वा मनोहरा पृच्छति-किं यूयमतीव प्रहर्षिता इव ? यावदपरया स वृत्तान्तो विस्तरेण मनोहराया निवेदितः। ततो मनोहरा संजातदुःखदौर्मनस्या येन सुधनस्य कुमारस्य जननी तेनोपसंक्रान्ता। उपसंक्रम्य पादयोर्निपत्य करुणदीनविलम्बितैरक्षरैरेतमर्थं निवेदयामास। सा कथयति- यद्येवं स्वागतमिदं कुरु विचारयिष्यामीति। मनोहरया आगम्य पुनरपि समाख्यातम्। तया अपि विचारितम्। पश्यति भूतम्। ततस्तया स चूडामणिर्वस्त्राणि च मनोहरायै दत्तानि, उक्ता च-पुत्रिके, प्राप्ते काले आगन्तव्यम्। एवं ममोपालम्भे न भवतीति। ततो राजा यथादिष्टेन क्रमेण स्नानप्रयतो रुधिरपूर्णां पुष्किरिणीमवतीर्योत्तीर्णः। ततोऽस्य ब्राह्मणैर्जिह्वया पादौ निलीढौ, अवस्थितः- आनीयतां किन्नरीति च समादिष्टम्। तत्समनन्तरमेव मनोहरा गगनतलमुत्प्लुत्य गाथां भाषते-



स्पर्शसंगमनं मह्यं हसितं रमितं च मे।

नागीव बन्धनान्मुक्ता एषा गच्छामि सांप्रतम्॥८॥ इति।



राज्ञा दृष्ट्वा वायुपथेन गच्छन्ती। स भीतः पुरोहितमामन्त्रयते-यदर्थं कृतो यत्नः, स न संपन्नः, मनोहरा किन्नरी निष्पलायितेति। पुरोहितः कथयति-देव, सिद्धार्थोऽपगतपापो देवः सांप्रतमिति। ततो मनोहरायाः खगपथेन गच्छन्त्या एतदभवत्-यदहमेतामवस्थां प्राप्ता, तत्तस्य ऋषेर्व्यपदेशात्। यदि तेन नाख्यातमभविष्यत्, नाहं ग्रहणं गता अभविष्यत्। तेन हि यास्यामि तावदस्यैव ऋषेः सकाशमिति। सा तस्याश्रमपदं गता। पादाभिवन्दनं कृत्वा तं ऋषिमुवाच- महर्षे, तव व्यपदेशादहं ग्रहणं गता, मनुष्यस्य संस्पर्शश्च संप्राप्तः। जीवितान्तरायश्चैतत्संवृत्तः। तद्विज्ञापयामि-यदि यदा कदाचित्सुधनः कुमार आगच्छति मां समन्वेषमाणः, तस्येमामङ्गुलिमुद्रां दातुमर्हसि। एवं च वक्तव्यम्- कुमार, विषमाः पन्थानो दुर्गमाः, खेदमापत्स्यसे, निवर्तस्वेति। यदि निवार्यमाणो न तिष्ठेत्, तस्य मार्गं व्यपदेष्टुमर्हसि-कुमार, मनोहरया समाख्यातम्-उत्तरे दिग्भागे त्रयः कालपर्वताः, तानतिक्रम्य अपरे त्रयः, तानप्यतिक्रम्य अपरे त्रयः, तानतिक्रम्य हिमवान् पर्वतराजः, तस्योत्तरेणोत्किलकपर्वतः, तर उत्कूलको जलपथ एकधारको वज्रकः कामरूपी। उत्कीलक ऐरावतोऽधोबाणः प्रमोक्षणः एते पर्वताः समतिक्रमणीयाः। तत्र खदिरके पर्वते गुहा, प्रवेश एकधारके तु कीलकाः, वज्रके पक्षिराजेन प्रवेशः। एभिरुपायैस्ते पर्वता अतिक्रमणीयाः, यन्त्राणि च भङ्क्तव्यानि। अजवक्त्रमेण्ढकः पुरुषो राक्षसरूपी पिङ्गलागुहायां लालास्रोतसा महानजगरो वेगेन प्रधावति। स ते विक्रमेण हन्तव्यः। अरान्तरगतां नाभीं यत्र पश्येत्तत्र किटिभकश्च।



अयं मुक्तेन बाणेन हन्तव्यो मम कारणात्।

यत्र पश्येद्द्वौ मेषौ संघट्टन्तौ परस्परम्।

तयोः शृङ्गमेकं भङ्क्त्वा मार्गं प्रतिलप्स्यसे॥९॥



आयसौ पुरुषौ दृष्ट्वा शस्त्रपाणी महाभयौ।

तयोरेकं पादयित्वा मार्गं प्रतिलप्स्यसे॥ १०॥



संकोचयन्तीं प्रसारयन्तीं राक्षसीमायसं मुखम्।

यदा पश्येत्तत्र कीलकं ललाटे तस्या निखानयेत्॥११॥



शूलावर्तस्तदा कूपो विलङ्घ्यस्ते षष्टिहस्तकः।

हरिपिङ्गलकेशाक्षो दारुणो यत्र राक्षसः॥१२॥



कार्मुकं मण्डलं कृत्वा हन्तव्यश्च दुरासदः।

नद्यश्च बहवस्तार्या नक्त्रग्रहसमाकुलाः॥१३॥



रङ्गा पतङ्गा तपनी चित्रा रुदन्ती हसन्ती आशीविषा वेत्रनदी च।

रङ्गायां राक्षसीकोपः पतङ्गायाममनुष्यकाः।

तपन्त्यां ग्राहबहुलत्वं चित्रायां कामरूपिणः॥१४॥



रुदन्त्यां किन्नरीचेट्यो सहन्त्यां किन्नरस्नुषा।

आशीविषायां नानाविधां सर्पा वेत्रनद्यां तु शल्मलिः॥१५॥



रङ्गायां धैर्यकरणं पतङ्गायां पराक्रमः।

तपन्त्यां ग्राहमुखबन्धं चित्रायां विविधगीतम्॥१६॥



रुदन्त्यां सौमनस्ये समुत्तारम्, हसन्त्यां तूष्णीभावयोगेन, आशीविषायां सर्पविषमन्त्रयोगेन, वेत्रनद्यां तीक्ष्णशस्त्रसंपातयोगेन समुत्तारः। नदीः समतिक्रम्य पञ्च यक्षशतानि गुल्मकम्। तद्धैर्यमास्थाय विद्राव्यम्। ततो द्रुमस्य किन्नरराजस्य भवनमिति। ततो मनोहरा तं ऋषिमेवमुक्त्वा पादाभिवन्दनं कृत्वा प्रक्रान्ता॥



यावत्सुधनः कुमारस्तं कर्वटकं संनाम्य गृहीतप्राभृतो हस्तिनापुरमनुप्राप्तः। श्रुत्वा च राजा परां प्रीतिमुपगतः। ततः कुमारो मार्गश्रमं प्रतिविनोद्य पितुः सकाशं गतः। प्रणामं कृत्वा पुरस्तान्निषण्णः। राज्ञा परमया संतोषणया संभाषितः, उक्तश्च-कुमार, शिवेन त्वमागतः ? देव, तव प्रसादात्कर्वटकः संनामितः, निपका गृहीताः, चिन्तकः स्थापितः। इमे तु करप्रत्ययाः। पण्यागारश्च स्थाप्यतामिति। राजा कथयति- शोभनं प्रतिगृहीतम्। ततः पितुः प्रणामं कृत्वा संप्रस्थितः। राजा कथयति-कुमार तिष्ठ, प्राभृतं सहिता एव भोक्ष्यामः। देव गच्छामि, चिरं दृष्ट्वा मे मनोहरा। अलं कुमार अद्य गमनेन। तिष्ठ, श्वो गमिष्यसीति। सोऽनवबुध्यमान एवमाह-तात, अद्यैव मया अवश्यं गन्तव्यम्। राजा तूष्णीमवस्थितः। ततः कुमारः स्वगृहं गतः। यावत्पश्यति श्रिया वर्जितमन्तःपुरद्वारम्। स चिन्तापरः प्रविश्य मनोहरां न पश्यति। इतश्चामुतश्च संभ्रान्तः शून्यहृदयः शब्दं कर्तुमारब्ध-मनोहरे मनोहरे इति। यावदन्तःपुरं संनिपतितम्। ताः स्त्रियः क्षेपं कर्तुमारब्धाः। विद्धोऽसौ हृदयशल्येन सुतरां प्रष्टुमारब्धः। तामिर्यथाभूतं समाख्यातम्। स शोकेन संप्रमुह्यते। ताः स्त्रियः कथयन्तिदेव, अस्मिन्नन्तःपुरे तत्प्रविशिष्टतराः स्त्रियः सन्ति, किमर्थं शोकः क्रियते ? सपितुर्नैर्गुण्यमुपश्रुत्य कृतघ्नतां च, मातुः सकाशमुपसंक्रान्तः। पादयोर्निपत्य कथयति- अम्ब,



मनोहरां न पश्यामि मनोरथगुणैर्युताम्।

साधुरूपसमायुक्ता क्क गता मे मनोहरा॥१७॥



मनसा संप्रधावामि मनो मे संप्रमुह्यते।

हृदयं दह्यते चैव रहितस्य तया भृशम्॥ १८॥



मनोभिरामा च मनोहरा च

मनोनुकूला च मनोरतिश्च।

संतप्तदेहोऽस्मि मनोहरां विना

कुतो ममेदं व्यसनं समागतम्॥१९॥ इति।



सा कथयति-पुत्र, कृच्छ्रसंकटसंबाधप्राप्ता मनोहरेति मया प्रतिमुक्ता। अम्ब, यथा कथम् ? तया यथावृत्तं विस्तरेण समाख्यातम्। स पितुर्नैर्गुण्यमकृतज्ञतां च ज्ञात्वा कथयति-कुत्र गता कतरेण वा पथेति ? सा कथयति-



एषोऽसौ पर्वतशैल ऋषिसंघनिषेवितः।

उषितो धर्मराजेन यत्र याता मनोहरा॥२०॥ इति।



स मनोहरावियोगदुःखार्तः कृच्छ्रं विललाप, करुणं परिदेवते-

मनोहरां न पश्यामि मनोरथगुणैर्युताम्।

साधुरूपसमायुक्ता क्क गता मे मनोहरा॥ २१॥



मनसा संप्रधावामि मनो मे संप्रमुह्यते।

हृदयं दह्यते चैव रहितस्य तया भृशम्॥२२॥



मनोभिरामा च मनोहरा च

मनोनुकूला च मनोरतिश्च।

संतप्तदेहोऽस्मि मनोहरां विना

कुतो ममेदं व्यसनं समागतम्॥ २३॥ इति॥



ततो मात्रा अभिहितः-पुत्र, सन्त्यस्मिन्नन्तःपुरे तद्विशिष्टतराः स्त्रियः। किमर्थं शोकः क्रियत इति ? कुमारः कथयति-कुतो मे रतिरनुप्राप्यतामिति ? स तया समाश्वास्यमानोऽपि शोकसंतापसंतप्तस्तस्याः प्रवृत्तिं समन्वेषमाण इतश्चामुतश्व परिभमितुमारब्धः। तस्य बुद्धिरुत्पन्ना-यत एव लब्धस्तमेव तावत्पृच्छामि। स हलकस्य सकाशं गतः पृच्छति-मनोहरा कुतस्त्वया लब्धेति ? स कथयति- अमुष्मिन् प्रदेशे ऋषिः प्रतिवसति। तस्याश्रमपदे ब्रह्मसभा नाम पुष्किरिणी। तस्यां स्नातुमवतीर्णा ऋषिव्यपदेशेन लब्धेति। स संलक्षयति-ऋषिरिदानीमभिगन्तव्यः, तस्मात्प्रवृत्तिर्भविष्यतीति। एष च वृत्तान्तो राज्ञा श्रुतः मनोहरावियोगात्कुमारोऽतीव विक्लव इति। ततो राज्ञा अभिहितः-कुमारः, किमसि विक्लवः ? इदानीं तद्विशिष्टतरमन्तःपुरं व्यवस्थापयिष्यामीति। स कथयति- तात, न शक्यं मया तामनानीय अन्तः पुरस्थेन भवितुम्। स राज्ञा बह्वप्युच्यमानो न निवर्तते। ततो राज्ञा नगरप्राकारशृङ्गेष्वारक्षकाः पुरुषाः स्थापिताः, यथा कुमारो न निष्कासतीति। कुमारः कृत्स्नां रात्रिं जागर्तुकामः। उक्तं च - पञ्चेमे रात्र्या अल्पं स्वपन्ति बहु जागर्ति। कतमे पञ्च पुरुषाः ? स्त्रियामवेक्ष्य (पेक्षा ?) वान् प्रतिबद्धचित्तः। स्त्रीपुरुष उत्क्रोशः, ऋणी, चौरसेनापतिः, भिक्षुश्चालब्धवीर्य इति। अथ कुमारस्यैतदभवत्-यदि द्वारेण यास्यामि, आजा द्वारपालकान् रक्षकांश्च दण्डेनोत्सादयिष्यति। यन्न्वहमरक्षितेन पथा गच्छेयामिति। स रात्र्या व्युत्थाय नीलोत्पलमालाबद्धशिरा येन रक्षिणः पुरुषा न सन्ति, तेन तां माला ध्वजे बद्ध्वा अवतीर्णः। चन्द्रश्चोदितः। ततोऽसौ चन्द्रमवेक्ष्य मनोहराविरहित एवं विललाप-



भोः पूर्णचन्द्र रजनीकर तारराज

त्वं रोहिणिनयनकान्त सुसार्थवाह।

कच्चित्प्रिया मम मनोहरणैकदक्षा

दृष्टा त्वया भुवि मनोहरनामधेया॥२४॥ इति॥



अनुभूतपूर्वरतिमनुस्मरन् जगाम। ददर्श मृगीम्। तामप्युवाच-

हे त्वं कुरङ्गि तृणवारिपलाशभक्षे

स्वस्त्यस्तु ते चर सुखं न मृगारिरस्मि।

दीर्घेक्षणा मृगवधूकमनीयरूपा

दृष्टा त्वया मम मनोहरनामधेया॥२५॥



स तामतिक्रम्य अन्यतमं प्रदेशं गतो ददर्श वनं नानापुष्पफलोपशोभितं भ्रमरैरुपभुज्यमानसारम्। ततोऽन्यतमं भ्रमरमुवाच-

नीलाञ्जनाचलसुवर्ण मधुद्विरेफ

वंशान्तराम्बुरुहमध्यकृताधिवास।

वर्णाधिमात्रसदृशायतकेशहस्ता

दृष्टा त्वया मम मनोहरनामधेया॥२६॥



तस्मादपि प्रदेशादतिक्रान्तः पश्यत्याशीविषम्। दृष्ट्वा चाह-

भोः कृष्णसर्प तनुपल्लवलोलजिह्व

वक्त्रान्तरोत्पतितधूमकलापवक्त्र।

रागाग्निना गत समो न विषाग्निरुग्रो

दृष्ट्वा त्वया मम मनोहरनामधेया॥२७॥



तमपि प्रदेशं समतिक्रान्तो ददर्शापरं कोकिलाभिनादितम्। दृष्ट्वा च पुनस्तं कोकिलमुवाच-

भोः कोकिलोत्तम वनान्तरवृक्षवासिन्

नारी मनोहर पतत्रिगणस्य राजन्।

नीलोत्पलामलसमायतचारुनेत्रा

दृष्टा त्वया मम मनोहरनामधेया॥२८॥



तमपि प्रदेशं स्मतिक्रान्तो ददर्शाशोकवृक्षं सर्वपरिफुल्लम्।

मङ्गल्यनामान्तरनामयुक्त

सर्वद्रुमाणामधिराजतुल्य।

मनोहराशोक विमूर्च्छितं मां

एषोऽञ्जलिस्ते कुरु वीतशोकम्॥२९॥



स एवं विक्लवोऽनुपूर्वेण तस्य ऋषेराश्रमपदमनुप्राप्तः। स तं ऋषिं सविनयं प्रणिपत्योवाच-



चीराजिनाम्बरधर क्षमया विशिष्ट

मूलाङ्कुरामलकबिल्वकपित्थभक्त।

वन्दे ऋषे नतशिरा वद मे लघु त्वं

दृष्टा त्वया मम मनोहरनामधेया॥ ३०॥



ततः स ऋषिः सुधनं कुमारं स्वागतवचनासनदानक्रियादिपुरःसरः प्रतिसंमोद्य उवाच-

दृष्टा सा परिपूर्णचन्द्रवदना नीलोत्पलाभास्वरा

रूपेण प्रियदर्शना सुवदना नीलाञ्चितभ्रूलता।

त्वं स्वस्थो भुवि भुज्यतां हि विविधं मूलं फलं च प्रभो

पश्चात्स्वस्ति गमिष्यसीति मनसा नात्रास्ति मे संशयः॥३१॥



इदं ह्यवोचद्वचनं च सुभ्रूः

कुमार तृष्णा त्वयि बाधते मे।

महच्च दुःखं वसतां वनेषु

यातां रमां द्रक्ष्यसि निश्चयेन॥३२॥ इति॥



इयं च तया अङ्गुलिमुद्रिका दत्ता। कथयति च-कुमार, विषमाः पन्थानो दुर्गमाः। खेदमापत्स्यसे, निवर्तस्वेति। यदि च निवार्यमाणो न तिष्ठेत्, तस्य मार्गमुपदेष्टुमर्हसि। कुमार, इदं च तया समाख्यातम्-उत्तरे दिग्भागे त्रयः कालपर्वताः, तानतिक्रम्य अपरे त्रयः, तानप्यतिक्रम्य हिमवान् पर्वतराजः। तत्प्रवेशेन वया इमानि भैषज्यानि समुदानेतव्यानि- तद्यथा सूदया नामौषधिस्तया घृतं पक्त्वा पातव्यम्। तेन च ते न तृषा न बुभुक्षा, स्मृतिबलं च वर्धयति। वानरः समुदानेतव्यः, मन्त्रमध्येतव्यम्, सशरं धनुर्ग्रहीतव्यम्, मणयोऽवभासात्मकाः अगदो विषघातकोऽयस्कीलास्त्रयो वीणा च। हिमवतः पर्वराजस्योत्तरेणोत्कीलकः पर्वतः। ततः कूलको जलपथः खदिरक एकधारको वज्रकः कामरूपी। उत्कीलक ऐरावतकोऽधोबाणः प्रमोक्षक एते पर्वताः। सर्वे ते समतिक्रमणीयाः। तत्र खदिरके पर्वते गुहा, प्रवेश एकधारके तु कीलकाः, वज्रके पक्षिराजेन प्रवेशः। एभिरुपायैस्ते सर्वे पर्वताः समतिक्रमणीयाः, यन्त्राणि च भङ्क्तव्यानि। अजवक्त्रो मेण्ढकः पुरुषो राक्षसीरूपी पिङ्गलायां गुहायां लालास्रोतसा महता अजगरो वेगेन प्रधावति। स ते विक्रमेण हन्तव्यः। अरान्तरगतां नाभीं यत्र पश्येत्तत्र किटिभकश्च।



अयं मुक्तेन बाणेन हन्तव्यो मम कारणात्।

यत्र पश्येद्द्वौ मेषौ संघट्टन्तौ परस्परम्।

तयोः शृङ्गमेकं भङ्क्त्वा मार्गं प्रतिलप्स्यसे॥३३॥



आयसौ पुरुषौ दृष्ट्वा शस्त्रपाणी महाभयौ।

तयोरेकं ताडयित्वा मार्गं प्रतिलप्स्यसे॥३४॥



संकोचयन्तीं प्रसारयन्तीं राक्षसीमायसं मुखम्।

यदा पश्येत्तदा कीलं ललाटे तस्या निखानयेत्॥३५॥



शूलावर्तस्तदा कूपो विलङ्घ्यस्ते षष्टिहस्तकः।

हरिपिङ्गलकेशाक्षो दारुणो यक्षराक्षसः॥ ३६॥



कार्मुकं मण्डलं कृत्वा हन्तव्यश्च दुरासदः।

नद्यश्च बहवस्तार्या नक्त्रग्राहसमाकुलाः॥३७॥



रङ्गा पतङ्गा तपनी चित्रा रुदन्ती हसन्ती आशीविषा वेत्रनदी च।

रङ्गायां राक्षसीकोपः पतङ्गायाममानुषाः।

तपन्त्यां ग्राहबहुत्वं चित्रायां कामरूपिणः॥३८॥



रुदन्त्यां किन्नरीचेट्यो हसन्त्यां किन्नरीस्नुषा।

आशीविषायां नानाविधाः सर्पा वेत्रनद्यां तु शाल्मलिः॥३९॥



रङ्गायां धैर्यकरणं पतङ्गायां पराक्रमः।

तपन्त्यां ग्राहमुखबन्धश्चित्रायां विविधं गीतम्॥४०॥



रुदन्त्यां सौमनस्येन समुत्तारः। हसन्त्यां तूष्णीभावेन, आशीविषायां सर्वविषमन्त्रप्रयोगेण समुत्तारः, वेतनद्यां तीक्ष्णशस्त्रसंपातयोगेन समुत्तारः। नदीमतिक्रम्य पञ्च यक्षशतानि गुल्मकस्थानम्। तद्धैर्यमास्थाय विद्राव्यम्। ततो द्रुमस्य किन्नरराजस्य भवनमिति॥



ततः सुधनः कुमारो यथोपदिष्टानौषधिमन्त्रागदप्रयोगान् समुदानीय तस्य ऋषेः पादाभिवन्दनं कृत्वा प्रक्रान्तः। ततस्तेन यथोपदिष्टाः सर्वे समुदानीताः स्थापवित्वा वानरम्। ततस्तानादाय पुनरपि तस्य ऋषेः सकाशमुपसंक्रान्तः। उक्तश्च-अलं कुमार, किमनेन व्यवसायेन ? किं मनोहरया ? त्वमेकाकी असहायः शरीरसंशयवाप्स्यसीति। कुमारः प्राहमहर्षे, अवश्यमेवाहं प्रयास्यामीति। कुतः ?



चन्द्रस्य खे विचरतः क्क सहायभावो

दंष्ट्राबलेन बलिनश्च मृगाधिपस्य।

अग्नेश्च दावदहने क्क सहायभावः

अस्मद्विधस्य च सहायबलेन किं स्यात्॥ ४१॥



किं भो महार्णवजलं न विगाहितव्यं

किं सर्पदष्ट इति नैव चिकित्सनीयः॥

वीर्यं भजेत्सुमहदूर्जितसत्त्वदृष्टं

यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः॥४२॥ इति॥



ततः सुधनः कुमारो मनोहरोपदिष्टेन विधिना संप्रस्थितः। अनुपूर्वेण पर्वतनदीगुहाप्रपातादीनि भैषज्यमन्त्रागदप्रयोगेण विनिर्जित्य द्रुमस्य किन्नरराजस्य भवनसमीपं गतः। कुमारोऽपश्यन्नगरमदूरं श्रीमदुद्यानोपशोभितं नानापुष्पफलोपेतं नानाविहगसेवितं तडागदीर्धिकावापीकिन्नरैः समुपावृतम्। किन्नरीस्तत्र चापश्यत् पानीयार्थमुपगताः। ततस्ताः सुधनकुमारेणाभिहिताः-किमनेन बहुना पानीयेन क्रियत इति ? ताः कथयन्ति-अस्तिद्रुमस्य किन्नरराजस्य दुहिता मनोहरा नाम। सा मनुष्यहस्तगता बभूव। तस्याः स मनुष्यगन्धो नश्यति। सुधनः कुमारः पृच्छति-किमेते घटाः समस्ताः सर्वे तस्या उपरि निपात्यन्ते, आहोस्विदनुपूर्वेणेति ? ताः कथयन्ति-अनुपूर्व्या। स संलक्षयति-शोभनोऽयमुपायः। इमामङ्गुलिमुद्रामेकस्मिन् घटे प्रक्षिपामीति। तेनैकस्याः किन्नर्या घटेऽनालक्षितं प्रक्षिप्ता। सा च किन्नरी अभिहिता-अनेन त्वया घटेन मनोहरा तत्प्रथमतरं स्नापयितव्या। सा संलक्षयति-नूनमत्र कार्येण भवितव्यम्। ततस्तयासौ घटः प्रथमतरं मनोहराया मूर्ध्नि निपातितो यावदङ्गुलिमुद्रा उत्सङ्गे निपतिता। सा मनोहरया प्रत्यभिज्ञाया। ततः किन्नरीं पृच्छतिमा तत्र कश्चिन्मनुष्योऽभ्यागतः ? सा आह- अभ्यागतः। गच्छ, एनं प्रच्छन्नं प्रवेशय। तया प्रवेशितः, सुगुप्ते प्रदेशे स्थापितः। ततो मनोहरा पितुः पादयोर्निपत्य कथयति-तात, यद्यसौ सुधनः कुमार आगच्छेत्, येनाहं हृता, तस्य त्वं किं कुर्याः ? स कथयति- तमहं खण्डशतं कृत्वा चतसृषु दिक्षु क्षिपेयम्। मनुष्योऽसौ, किं तेनेति। मनोहरा कथयति-तात, मनुष्यभूतस्य कुत इहागमनम् ? अहमेवं ब्रवीमीति। ततो द्रुमस्य किन्नरराजस्य पर्यवस्थानो विगतः। ततो विगतपर्यवस्थानः कथयति-यद्यसौ कुमार आगच्छेत्, तस्याहं त्वां सर्वालंकारविभूषितां प्रभूतचित्रोपकरणैः किन्नरीसहस्रपरिवृतां भार्यार्थं दद्यामिति। ततो मनोहरया हृष्टतुष्टप्रमुदितया सुधनः कुमारो दिव्यालंकारविभूषितो द्रुमस्य किन्नरराजस्योपदर्शितः। ततो द्रुमः किनरराजः सुधनं कुमारं ददर्श अभिरूपं दर्शनीयं प्रासादिकं परमया शुभवर्णपुष्कलतया समन्वागतम्। दृष्ट्वा च पुनः परं विस्मयमुपगतः। ततस्तस्य जिज्ञासां कर्तुकामेन सौवर्णाः स्तम्भा उच्छ्रिताः, सप्त तालाः, सप्त भेर्यः, सप्त सूकराः। आह च-



त्वया कान्त्या जितास्तावदेते किन्नरदारकाः।

संदर्शितप्रभावस्तु दिव्यसंबन्धमर्हसि॥ ४३॥



अत्यायतं शरवणं कृत्वोद्ध्हृत्य शरं क्षणात्।

व्युप्तमन्यूनमुच्चित्य पुनर्देहि तिलाढकम्॥ ४४॥



संदर्शय धनुर्वेदे दृढलक्षादिकौशलम्।

ततः कीर्तिपताकेयं तवायत्ता मनोहरा॥ ४५॥



सुधनकुमारो बोधिसत्त्वः। कुशलाश्च भवन्ति बोधिसत्त्वास्तेषु तेषु शिल्पस्थानकर्मस्थानेषु। देवताश्चैषामौत्सुक्यमापत्स्यन्ते अविघ्नभावाय। ततो बोधिसत्त्वो नृत्तगीतवीणापणवसुघोषकवल्लरीमृदङ्गादिनानाविधेन दैवतोपसंहृतेन वादित्रविशेषेण समन्तादापूर्यमाणोऽनेकैः किन्नरसहस्रैः परिवृतः।



शतक्रतुसमादिष्टैर्यक्षैः सूकररूपिभिः।

उत्पाटिते शरवने समे व्युप्तं तिलाढकम्॥४६॥



एकीकृतं समुच्चित्य शक्रसृष्टैः पिपीलकैः।

कुमारः किन्नरेन्द्राय विस्मिताय न्यवेदयत्॥४७॥



नीलोत्पलदलाभेनासिना गृहीतेन पश्यतो द्रुमस्य किन्नरराजस्य सौवर्णस्तम्भसमीपं गत्वा तान् स्तम्भान् कदलीच्छेदेन खण्डखण्डं छेत्तुमारब्धः। ततस्तान् तिलशोऽवकीर्य सप्त तालान् सप्त भेरीः सप्त च सूकरान् बाणेन विध्य सुमेरुवदकम्प्योऽवस्थितः। ततो गगनतलस्थाभिर्देवताभिश्च किन्नरशतसहस्रैर्हाहाकारकिलिकिलाप्रक्ष्वेडोच्चैर्नादो मुक्तः, यं दृष्ट्वा च किन्नरराजः परं विस्मयमुपगतः। ततः किन्नरीसहस्रस्य मनोहरासमानरूपस्य मध्ये मनोहरां स्थापयित्वा सुधनः कुमारोऽभिहितः - एहि कुमार, प्रत्यभिजानासि मनोहरामिति ? ततः सुधनः कुमारस्तां प्रत्यभिज्ञाय गाथाभिगीतेनोक्तवान्-



यथा द्रुमस्य दुहिता ममेह त्वं मनोहरा।

शीघ्रमेतेन सत्येन पदं व्रज मनोहरे॥४८॥



ततः सा द्रुतपदमभिक्रान्ता। किन्नराः कथयन्ति- देव, अयं सुधनः कुमारो बलवीर्यपराक्रमसमन्वितो मनोहरायाः प्रतिरूपः। किमर्थं विप्रलभ्य ? दीयतामस्य मनोहरेति। ततो द्रुमः किन्नरराजः किन्नरगणेन संवर्णितः सुधनं किन्नराभिमतेन महता सत्कारेण पुरस्कृत्य मनोहरां दिव्यालंकारविभूषितां वामेन पाणिना गृहीत्वा दक्षिणेन सौवर्णभृङ्गारं सुधनं कुमारमभिहितः-कुमार, एष ते मनोहरा किन्नरीपरिवृता भार्यार्थाय दत्ता। अपरिचिता मानुषाः, यथैनां न परित्यक्षसीति। परं तातेति सुधनः कुमारो द्रुमस्य किन्नरराजस्य प्रतिश्रुत्य किन्नरभवनस्थो मनोहरया सार्धं निष्पुरुषेण तूर्येण क्रीडते रमते परिचारयति। सोऽपरेण समयेन स्वदेशमनुस्मृत्य मातापितृवियोगजेन दुःखेनात्याहतो मनोहराया निवेदयति-मातापितृवियोगजं मे दुःखं बाधत इति। ततो मनोहरया एष वृत्तान्तो विस्तरेण पितुर्निवेदितः। स कथयति- गच्छ कुमारेण सार्धम्। अपक्रान्तया ते भवितव्यम्। विप्रलम्भका मनुष्याः। ततो द्रुमेण किन्नरराजेन प्रभूतं मणिमुक्तासुवर्णादीन् दत्त्वा अनुप्रेषितः। स मनोहरया सार्धमुपरिविहायसा किन्नरखगपथेन संप्रस्थितः। अनुपूर्वेण हस्तिनापुरनगरमनुप्राप्तः। ततो हस्तिनापुरं नगरं नानामनोहरेण सुरभिना गन्धविशेषेण सर्वा दिगामेदितम्। श्रुत्वा धनेन राज्ञा आनन्दभेर्यस्ताडिताः, सर्वं च तन्नगरमपगतपाषाणशर्करकठल्लं कारितम्। चन्दनवारिषिक्तमामुक्तपट्टदामकलापसमुच्छ्रितध्वजपताकं सुरभिधूपघटिकोपनिबद्धं नानापुष्पावकीर्णरमणीयम्। ततः कुमारोऽनेकनरवरसहस्रपरिवृतो मनोहरया सार्धं हस्तिनापुरं नगरं प्रविष्टः। ततो मार्गश्रमं प्रतिविनोद्य विविधानि रत्नान्यादाय पितुः सकाशमुपसंक्रान्तः। पित्रा कण्ठे परिष्वक्तः। पाश्वे राजासने निषण्णः। किन्नरनगरगमनागमनं च विस्तरेण समाख्यातम्। ततो धनेन राज्ञा अतिबलवीर्यपराक्रम इति विदित्वा राज्याभिषेकेणाभिषिक्तः। सुधनः कुमारः संलक्षयति-यन्मम मनोहरया सार्धं समागमः संवृत्तो राज्याभिषेकश्चानुप्राप्तः, तत्पूर्वकृतहेतुविशेषात्। यन्न्वहमिदानीं दानानि दद्याम्, पुण्यानि कुर्यामिति। तेन हस्तिनापुरे नगरे द्वादश वर्षाणि निरर्गडो यज्ञ इष्टः॥



स्यात्खलु ते महाराज अन्यः स तेन कालेन समयेन सुधनः कुमारो वेति ? न खल्वेवं द्रष्टव्यम्। अपि त्वहमेव तेन कालेन तेन समयेन बोधिसत्त्वचर्यायां वर्तमानः सुधनो नाम राजा बभूव। यन्मया मनोहरानिमित्तं बलवीर्यपराक्रमो दर्शितः, द्वादश वर्षाणि निरर्गडो यज्ञ इष्टः, न तेन मया अनुत्तरा सम्यक्संबोधिरधिगता, किं तु तद्दानं तच्च वीर्यमनुत्तरायाः सम्यक्संबोधेर्हेतुमात्रकं प्रत्ययमात्रकं संभारमात्रकम्॥



इत्यवोचद्भगवान्। आत्तमनसस्ते च सर्वे लोका भगवतो भाषितमभ्यनन्दन्॥



इति सुधनकुमारावदानं समाप्तम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project