Digital Sanskrit Buddhist Canon

२६ पांशुप्रदानावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
२६ पांशुप्रदानावदानम्।



योऽसौ स्वमांसतनुभिर्यजनानि कृत्वा

तावच्चिरं करुणया जगतो हिताय।

तस्य श्रमस्य सफलीकरणाय सन्तः

संमार्जितं शृणुत सांप्रतभाष्यमाणम्॥१॥



एवं मया श्रुतम्। एकस्मिन् समये भगवान श्रावस्त्यां विहरतीति सूत्रं वक्तव्यम्। अत्र तावद्भगवत्तथागतवदनाम्भोधरविवरप्रत्युद्गतवचनसरत्सलिलधारासंपातापनीतरागद्वेषमोहमदमानमायाशाठ्यपङ्कपटलानां शब्दन्यायादितर्कशास्त्रार्थावलोकनोत्पन्नप्रज्ञाप्रदीपप्रोत्सारितकुशास्त्रदर्शनान्धकाराणां संसारतृष्णाछेदिप्रवरसद्धर्मपयःपानशौण्डानां गुरूणां संनिधौ सर्वाववादकं श्रेष्ठं शक्रब्रह्मेशानयमवरुणकुबेरवाससोमादित्यादिभिरप्यप्रतिहतशासनं कन्दर्पदर्पापमर्दनशूरं महात्मानमतिमहर्द्धिकं स्थविरोपगुप्तमारभ्य कांचिदेव विबुद्धजनमनः-प्रसादकरीं धर्म्यां कथां समनुस्मरिष्यामः। तत्र तावद्गुरुभिरवहितश्रोत्रैर्भवितव्यम्॥



एवमनुश्रूयते - यदा भगवान् परिनिर्वाणकालसमये पलालनागं विनीयं कुम्भकारीं चण्डालीं गोपालीं च, तेषां मथुरामनुप्राप्तः, तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते स्म-अस्यामानन्द मथुरायां मम वर्षशतपरिनिर्वृतस्य गुप्तो नाम गान्धिको भविष्यति। तस्य पुत्रो भविष्यत्युपगुप्तो नाम अलक्षणको बुद्धो यो मम वर्षशतपरिनिर्वृतस्य बुद्धकार्यं भवि(करि)ष्यति। तस्याववादेन बहवो भिक्षवः सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यन्ति। तेऽष्टादशहस्तामायामेन द्वादशहस्तां विस्तारेण चतुरङ्गलमात्राभिः शणकाभिः पूजयिष्यन्ति। एषोऽग्रो मे आनन्द श्रावकाणां भविष्यत्यववादकानां यदुत उपगुप्तो भिक्षुः। पश्यसि त्वमानन्द दूरत एव नीलनीलाम्बरराजिम् ? एवं भदन्त। एष आनन्द रुरुमुण्डो नाम पर्वतः। अत्र वर्षशतपरिनिर्वृतस्य तथागतस्य शाणकवासी नाम भिक्षुर्भविष्यति। सोऽत्र रुरुमुण्डपर्वते विहारं प्रतिष्ठापयिष्यति, उपगुप्तं च प्रव्राजयिष्यति। मथुरायामानन्द नटो भटश्च द्वौ भ्रातरौ श्रेष्ठिनौ भविष्यतः। तौ रुरुमुण्डपर्वते विहारं प्रतिष्ठापयिष्यतः। तस्य नटभटिकेति संज्ञा भविष्यति। एतदग्रं मे आनन्द भविष्यति शमथानुकूलानां शय्यासनानां यदिदं नटभटिकारण्यायतनम्। अथायुष्मानानन्दो भगवन्तमिदमवोचत्-आश्चर्यं भदन्त यदीदृशमायुष्मानुपगुप्तो बहुजनहितं करिष्यति। भगवानाह-न आनन्द एतर्हि, यथा अतीतेऽप्यध्वनि तेन विनिपतितशरीरेणाप्यत्रैव उरुमुण्डपर्वते त्रयः पार्श्वाः। एकत्र प्रदेशे पञ्च पर्त्येकबुद्धशतानि प्रतिवसन्ति। द्वितीये पञ्चऋषिशतानि। तृतीये पञ्चमर्कटशतानि। तत्र योऽसौ पञ्चानां मर्कटशतानां यूथपतिः, स तं यूथमपहाय तत्र पार्श्वे पञ्च प्रत्येकबुद्धशतानि प्रतिवसन्ति, तत्र गतः। तस्य तान् प्रत्येकबुद्धान् दृष्ट्वा प्रसादो जातः। स तेषां प्रत्येकबुद्धानां शीर्णपर्णानि मूलफलानि चोपनामयति। यदा च ते पर्यङ्केनोपविष्टा भवन्ति, स वृद्धान्ते प्रणामं कृत्वा यावन्नवान्तं गत्वा पर्यङ्केनोपविशति, यावत् ते प्रत्येकबुद्धाः परिनिर्वृताः। स तेषां शीर्णपर्णानि मूलफलानि चोपनामयति, ते न प्रतिगृह्णन्ति। स तेषां चीवरकर्णिकान्याकर्षयति, पादौ गृह्णाति। यावत् स मर्कटश्चिन्तयति-नियतमेते कालगता भविष्यन्ति। ततः स मर्कटः शोचित्वा परिदेवित्वा च द्वितीयं पार्श्वं गतो यत्र पञ्च ऋषिशतानि प्रतिवसन्ति। ते च ऋषयः केचित् कण्टकापाश्रयाः केचिद्भस्मापाश्रयाः, केचिदूर्ध्वहस्ताः, केचित् पञ्चातपावस्थिताः। स तेषां तेषामीर्यापथान् विकोपयितुमारब्धः। ये कण्टकापाश्रयास्तेषां कण्टकानुद्धरति। भस्मापाश्रयाणां भस्म विधुनोति। ऊर्ध्वहस्तानामधो हस्तं पातयति। पञ्चातपावस्थितानामग्निमवकिरति। यदा च तैरीर्यापथो विकोपितो भवति, तदा स तेषामग्रतः पर्यङ्कं बघ्नाति। यावत् तैरृषिभिराचार्याय निवेदितम्। तेनापि चोक्तम् - पर्यङ्केन तावन्नीषीदथ, यावत् तानि पञ्च ऋषिशतानि पर्यङ्केनोपविष्टाणि। तेऽनाचार्यका अनुपदेशकाः सप्तत्रिंशद्बोधिपक्षान् धर्मानामुखीकृत्य प्रत्येकां बोधिं साक्षात्कृतवन्तः। अथ तेषां प्रत्येकबुद्धानामेतदभवत् - यत् किंचिदस्याभिः श्रेयोऽवाप्तम्, तत्सर्वमिमं मर्कटमागम्य। तैर्यावत् स मर्कटः फलमूलैः परिपालितः, कालगतस्य च तच्छरीरं गन्धकाष्ठैर्ध्मापितम्॥



तत्किं मन्यसे आनन्द ? योऽसौ पञ्चानां मर्कटशतानां यूथपतिः, स एष उपगुप्तः। तदापि तेन विनिपतितशरीरेणाप्यत्रैवोरुमुण्डे पर्वते बहुजनहितं कृतम्। अनागतेऽप्यध्वनि वर्षशतपरिनिर्वृतस्य मम अत्रैवोरुमुण्डे पर्वते बहुजनहितं करिष्यति। तच्च यथैवं तथोपदर्शयिष्यामः-यदा स्थविरेण शाणकवासिना उरुमुण्डे पर्वते विहारः प्रतिष्ठापितः, समन्वाहरतिकिमसौ गान्धिक उत्पन्नः, अथाद्यापि नोत्पद्यते इति ? पश्यत्युत्पन्नम्। स यावत् समन्वाहरति-योऽसौ तस्य पुत्र उपगुप्तो नाम्ना अलक्षणको बुद्धो निर्दिष्टः, यो मम वर्षशतपरिनिर्वृतस्य बुद्धकार्यं करिष्यतीति, किमसौ उत्पन्नोऽद्यापि नोत्पद्यते ? तेन यावदुपायेन गुप्तो गन्धिको भगवच्छासनेऽभिप्रसादितः। स यदा अभिप्रसन्नस्तदा स्थविरः संबहुलैर्भिक्षुभिः सार्धमेकदिवसं तस्य गृहं प्रविष्टः। अपरस्मिन्नहन्यात्मद्वितीयः। अन्यस्मिन्नहन्येकाकी। यावद्गुप्तो गन्धिकः स्थविरं शाणकवासिनमेकाकिनं दृष्ट्वा कथयति-न खलु आर्यस्य कश्चित् पश्चाच्छ्रमणः ? स्थविर उवाच-जराधर्माणां कुतोऽस्माकं पश्चाच्छ्रमणो भवति ? यदि केचित् श्रद्धापुरोगेन प्रव्रजन्ति, तेऽस्माकं पश्चाच्छ्रमणा भवन्ति। गुप्तो गान्धिक उवाच-आर्य, अहं तावद्गृहवासे परिगृद्धो विषयाभिरतश्च। न मया शक्यं प्रव्रजितुम्। अपि तु योऽस्माकं पुत्रो भवति, तं वयमार्यस्य पश्चाच्छ्रमणं दास्यामः। स्थविर उवाच-वत्स, एवमस्तु। अपि तु दृढप्रतिज्ञां स्मरेथास्त्वमिति। यावद्गुप्तस्य गान्धिकस्य पुत्रो जातः। तस्याश्वगुप्त इति नामधेयं कृतम्। स यदा महान् संवृत्तस्तदा स्थविरः शाणकवासी गुप्तं गान्धिकमधिगम्योवाचवत्स, त्वया प्रतिज्ञातम्-योऽस्माकं पुत्रो भविष्यति, तं वयमार्यस्य पश्चाच्छ्रमणं दास्यामः। अनुजानीहि, प्रव्राजयिष्यामीति। गान्धिक उवाच-आर्य, अयमस्माकमेकपुत्रः। मर्षय नः। योऽस्माकं द्वितीयः पुत्रो भविष्यति, तं वयमार्यस्य पश्चाच्छ्रमणं दास्यामः। यावत् स्थविरः शाणकवासी समन्वाहरति-किमयं स उपगुप्तः ? पश्यति नेति। तेन स्थविरेणाभिहितः-एवमस्तु इति। तस्य यावद्द्वितीयः पुत्रो जातः। तस्य धनगुप्त इति नाम कृतम्। सोऽपि यदा महान् संवृत्तः, तदा स्थविरः शाणकवासी गुप्तं गान्धिकमुवाच-वत्स, त्वया प्रतिज्ञातम्-योऽस्माकं पुत्रो भविष्यति, तं वयमार्यस्य पश्चाच्छ्रमणं दास्यामः। अयं च ते पुत्रो जातः। अनुजानीहि, प्रव्राजयिष्यामीति। गान्धिक उवाच-आर्य मर्षय, एकोऽस्माकं बहिर्धा द्रव्यं संशयिष्यति, द्वितीयोऽन्तर्गृहे परिपालनं कतिष्यतीति। अपि तु योऽस्माकं तृतीयः पुत्रो भविष्यति, स आर्यस्य दत्तः। यावत् स्थविरः शाणकवासी समन्वाहरति-किमयं सं उपगुप्तः ? पश्यति नेति। ततः स्थविर उवाच-एवमस्तु इति। यावद्गुप्तस्य गान्धिकस्य तृतीयः पुत्रो जातोऽभिरूपो दर्शनीयः प्रासादिकोऽतिक्रान्तो मानुषवर्णमसंप्राप्तश्च दिव्यवर्णम्। तस्य विस्तरेण जातौ जातिमहं कृत्वा उपगुप्त इति नाम कृतम्। सोऽपि यदा महान् संवृत्तः, यावत् स्थविरशाणकवासी गुप्तं गान्धिकमभिगम्योवाच-वत्स, त्वया प्रतीज्ञातम्-योऽस्माकं तृतीयः पुत्रो भविष्यति, वयमार्यस्य दास्यामः पश्चाच्छ्रमणार्थे। अयं ते तृतीयः पुत्र उत्पन्नः। अनुजानीहि, प्रव्राजयिष्यामीति। गुप्तो गान्धिक उवाच-आर्य, समयतः। यदा लाभोऽनुच्छेदो भविष्यतीति, तदा अनुज्ञास्यामि। यदा तेन समयः कृतः, तदा मारेण सर्वावती मथुरा गन्धाविष्टा। ते सर्वे उपगुप्तसकाशाग्दन्घान् क्रीणन्ति। स प्रभूतानि दास्यति। यावत् स्थविरशाणकवासी उपगुप्तसकाशं गतः। उपगुप्तश्च गन्धापणे स्थितः। स धर्मेण व्यवहारं करोति, गन्धान् विक्रीणीते। स स्थविरेण शाणकवासिना अभिहितः-वत्स, कीदृशास्ते चित्तचेतसिकाः प्रवर्तन्ते क्लिष्टा वा अक्लिष्टा वेति ? उपगुप्त उवाच-आर्य, नैव जानामि कीदृशाः क्लिष्टाश्चित्तचेतसिकाः, कीदृशा अक्लिष्टा इति। स्थविरः शाणकवासी उवाच-वत्स, यदि केवलं चित्तं परिज्ञातुं न शक्यसि, प्रतिपक्षं मोचयितुम्। तेन तस्य कृष्णीकपट्टिका दत्ता पाण्डुरिका च। यदि क्लिष्टं चित्तमुत्पद्यते, कृष्णिकां पट्टिकां स्थापय। अथाक्लिष्टं चित्तमुत्पद्यते, पाण्डुरां पट्टिकां स्थापय। शुभां मनसि कुरु, बुद्धानुस्मृतिं च भावयस्वेति तेनास्य व्यपदिष्टम्। तस्य यावदारब्धा अक्लिष्टाश्चित्तचेतसिकाः प्रवर्तितुम्, स द्वौ भागौ कृष्णिकानां स्थापयति, एकं पाण्डुरिकाणाम्। यावदर्धं कृष्णिकानां स्थापयति अर्धं पाण्डुरिकाणाम्। यावत् द्वौ भागौ पाण्डुरिकाणां स्थापयति, एकं कृष्णिकानाम्। यावदनुपूर्वेण सर्वाण्येव शुक्लानि चित्तान्युत्पद्यन्ते, स पाण्डुरिकाणामेव पट्टिकां स्थापयति। धर्मेण व्यवहारं करोति॥



मथुरायां वासवदत्ता नाम गणिका। तस्या दासी उपगुप्तसकाशं गत्वा गन्धान् क्रीणाति। सो वासवदत्तया चोच्यते-दारिके, मुष्यते स गान्धिकस्त्वया। बहून् गन्धानानयसीति। दारिकोवाच-आर्यदुहिते, उपगुप्तो गान्धिकदारको रूपसंपन्नश्चातुर्यमाधुर्यसंपन्नश्च धर्मेण व्यवहारं करोति। श्रुत्वा च वासवदत्ताया उपगुप्तसकाशे सानुरागं चित्तमुत्पन्नम्। तया यावद्दासी उपगुप्तसकाशं प्रेषिता-त्वत्सकाशमागमिष्याति। इच्छामि त्वया सार्धं रतिमनुभवितुम्। यावद्दास्या उपगुप्तस्य निवेदितम्। उपगुप्त उवाच-अकालस्ते भगिनि मद्दर्शनायेति। वासवदत्ता पञ्चाभिः पुराणशतैः परिचारयते। तस्या बुद्धिरुत्पन्ना-नियतं पञ्च पुराणशतानि नोत्सहते दातुम्। तया यावद्दासी उपगुप्तसकाशं प्रेषिता - न ममार्यपुत्रसकाशात् कार्षापणेनापि प्रयोजनम्। केवलमार्यपुत्रेण सह रतिमनुभवेयम्। दास्या तथा निवेदितम्। उपगुप्त उवाच-अकालस्ते भगिनि मद्दर्शनायेति। यावदन्यतरः श्रेष्ठिपुत्रो वासवदत्तायाः सकाशं प्रविष्टः। अन्यतरश्च सार्थवाह उत्तरापथात् पञ्चशतमश्वपण्यं गृहीत्वा मथुरामनुप्राप्तः। तेनाभिहितम्-कतरा वेश्या सर्वप्रधाना ? तेन श्रुतम्-वासवदत्तेति। स पञ्च पुराणशतानि गृहीत्वा बहूंश्च प्राभृतान् वासवदत्तायाः सकाशमभिगतः। ततो वासवदत्तया लोभाकृष्टेन तं श्रेष्ठिपुत्रं प्रघातयित्वाऽवस्करे प्रक्षिप्य सार्थवाहेन सह रतिमनुभूता। यावत् स श्रेष्ठिपुत्रो बन्धुभिरवस्करादुद्धृत्य (तः)। राज्ञो निवेदितम्। ततो राज्ञा अभिहितम्-गच्छन्तु भवन्तः, वासवदत्तां हस्तपादौ कर्णनासं च छित्त्वा श्मशाने छोरयन्तु। यावत् तैर्वासवदत्ता हस्तपादौ कर्णनासं च छित्वा श्मशाने छोरिता। आवदुपगुप्तेन श्रुतम्-वासवदता हस्तपादौ कर्णनासं च छित्त्वा श्मशाने छोरिता। तस्य बुद्धिरुत्पन्ना-पूर्वं तया मम विषयनिमित्तं दर्शनमाकाङ्क्षितम्। इदानीं तु तस्या हस्तपादौ कर्णनासं च विकर्तितौ, इदानीं तु तस्या दर्शनकाल इति। आह च -



यदा प्रशस्ताम्बरसंवृताङ्गी

अभूद्विचित्राभरणौर्विभूषिता।

मोक्षार्थिनां जन्मपराङ्मुखानां

श्रेयस्तदास्यास्तु न दर्शनं स्यात्॥२॥



इदानीं तु तस्याः कालोऽयं द्रष्टुं गतमानरागहर्षायाः।

निशितासिविक्षतायाः स्वभावनियतस्य रूपस्य॥३॥



यावदेकेन दारकेनोपस्थायकेन छत्रमादाय प्रशान्तेनेर्यापथेन श्मशानमनुप्राप्तः। तस्याश्च प्रेषिका पूर्वगुणानुरागात् समीपेऽवस्थिता काकादीन् निवारयति। तया च वासवदत्ताया निवेदितम् - आर्यदुहितः, यस्य त्वया अहं सकाशं पुनः पुनरनुप्रेषिता, अयं स उपगुप्तोऽभ्यागतः। नियतमेष कामरागार्त आगतो भविष्यत्। श्रुत्वा च वासवदत्ता कथयति-



प्रनष्टशोभां दुःखार्तां भूमौ रुधिरपिञ्चराम्।

मां दृष्ट्वा कथमेतस्य कामरागो भविष्यति॥४॥



ततः प्रेषिकामुवाच-यौ हस्तपादौ कर्णनासं च मच्छरीराद्विकर्तितौ, तौ श्लेषयेति। तया यावत् श्लेषयित्वा पट्टकेन प्रच्छादिता। उपगुप्तश्चागत्य वासवदत्ताया अग्रतः स्थितः। ततो वासवदत्ता उपगुप्तमग्रतः स्थितं दृष्ट्वा कथयति- आर्यपुत्र, यदा मच्छरीरं स्वस्थभूतं विषयरत्यनुकूलम्, तदा मया आर्यपुत्रस्य पुनः पुनर्दूती विसर्जिता। आर्यपुत्रेणाभिहितम्- अकालस्ते भगिनि मम दर्शनायेति। इदानीं मम हस्तपादौ कर्णनासौ च विकर्तितौ, स्वरुधिरकर्दम एवावस्थिता। इदानीं किमागतोऽसि ? आह च -



इदं यदा पङ्कजगर्भकोमलं

महार्हवस्त्राभरणैर्विभूषितम्।

बभूव गात्रं मम दर्शनक्षमं

तदा न दृष्टोऽसि मयाल्पभाज्ञया॥५॥



एतर्हि किं द्रष्टुमिहागतोऽसि

यदा शरीरं मम दर्शनाक्षमम्।

निवृत्तलीलारतिहर्षविस्मयं

भयावहं शोणितपङ्कलेपनम्॥६॥



उपगुप्त उवाच-

नाहं भगिनि कामार्तः संनिधावागतस्तव।

कामानामशुभानां तु स्वभावं द्रष्टुमागतः॥७॥



प्रच्छादिता वस्त्रविभूषणाद्यै-

र्बाह्यैर्विचित्रैर्मदनानुकूलैः।

निरीक्ष्यमाणा अपि यत्नवद्भि-

र्नाप्यत्र दृष्टासि भवेद्यथावत्॥८॥



इदं तु रूपं तव दृश्यमेतत्

स्थितं स्वभावे रचनाद्वियुक्तम्।

तेऽपण्डितास्ते च विगर्हणीया

ये प्राकृतेऽस्मिन् कुणपे रमन्ते॥९॥



र्वचावनद्धे रुधिरावसक्ते

चर्मावृते मांसघनावलिप्ते।

शिरासहस्रैश्च वृते समन्तात्

को नाम रज्येत इतः शरीरे॥१०॥



अपि च भगिनि।

बहिर्भद्राणि रूपाणि दृष्ट्वा बालोऽभिरज्यते।

अभ्यन्तरविदुष्टानि ज्ञात्वा धीरो विरज्यते॥११॥



अवकृष्टावकृष्टस्य कुणपस्य ह्यमेध्यता।

मेध्याः कामोपसंहाराः कामिनः शुभसंज्ञिनः॥१२॥



इह हि -

दौर्गन्ध्यं प्रतिवार्यते बहुविधैर्गन्धैरमेध्याकरै-

र्वैकृत्यं बहिराध्रियेत विविधैर्वस्त्रादिभिर्भूषणैः।

स्वेदक्लेदमलादयोऽप्यशुचयस्तान्निर्हरत्यम्भसा

येनामेध्यकरङ्कमेतदशुभं कामात्मभिः सेव्यते॥१३॥



संबुद्धस्य तु ये वचः सुवचसः शृण्वन्ति कुर्वन्त्यपि

ते कामान् श्रमशोकदुःखजननान् सद्भिः सदा गर्हितान्।

त्यक्त्वा कामनिमित्तमुक्तमनसः शान्ते वने निर्गताः

पारं यान्ति भवार्णवस्य महतः संश्रित्य मार्गप्लवम्॥१४॥



श्रुत्वा वासवदत्ता संसारादुद्विग्ना। बुद्धगुणानुस्मरणाच्चावर्जितहृदयोवाच-

एवमेतत्तथा सर्वं यथा वदसि पण्डित।

मे त्वां साधुं समासाद्य बुद्धस्य वचनं श्रुतम्॥ १५॥



यावदुपगुप्तेन वासवदत्ताया अनुपूर्विकां कथां कृत्वा सत्यानि संप्रकाशितानि। उपगुप्तश्च वासवदत्तायाः शरीरस्वभावमवगम्य कामधातुवैराग्यं गतः। तेनात्मीयया धर्मदेशनया सहसत्याभिसमयादनागामिफलं वासवदत्तया च स्रोतापत्तिफलं प्राप्तम्। ततो वासवदत्ता दृष्टसत्या उपगुप्तं संरागयन्त्युवाच-



तवानुभावात्पिहितः सुघोरो

ह्यपायमार्गो बहुदोषयुक्तः।

अपावृता स्वर्गगतिः सुपुण्या

निर्वाणमार्गश्च मयोपलब्धः॥ १६॥



अपि च। एषाहं तं भगवन्तं तथागतमर्हन्तं सम्यक्संबुद्धं शरणं गच्छामि धर्मं च भिक्षुसंघं चेत्याह-



एषा व्रजामि शरणं विबुद्धनवकमलविमलधवलनेत्रम्।

तममरबुधजनमहितं जिनं विरागं च संघं च॥१७॥ इति॥



यावदुपगुप्तो बासवदत्तां धर्म्यया कथया संदर्श्य प्रक्रान्तः। अचिरप्रक्रान्ते चोपगुप्ते वासवदत्ता कालगता देवेषूपपन्ना। देवतैश्च मथुरायामारोचितम्-वासवदत्तया उपगुप्तसकाशाद्धर्मदेशनां श्रुत्वा आर्यसत्यानि दृष्टानि, देवेषूपपन्नेति। श्रुत्वा च मथुरावास्तव्येन जनकायेन वासवदत्तायाः शरीरे पूजा कृता॥



यावत् स्थविरः शाणकवासी गुप्तं गान्धिकमभिगम्योवाच-अनुजानीहि उपगुप्तं प्रव्राजयिष्यामीति। गुप्तो गान्धिक उवाच-आर्य, एष समयः। यदा न लाभो न च्छेदो भविष्यति, तदा अनुज्ञास्यामीति। यावत् स्थविरशाणकवासिना ऋद्ध्या तथा अधिष्ठितं यथा न लाभो न च्छेदः। ततो गुप्तो गान्धिको गणयति, तुलयति, मापयति, पश्यति-न लाभो न च्छेदः। ततः स्थविरः शाणकवासी गुप्तं गान्धिकमुवाच- अयं हि भगवता बुद्धेन निर्दिष्टः मम वर्षशतपरिनिर्वृतस्य बुद्धकार्यं करिष्यतीति। अनुजानीहि, प्रव्राजयिष्यामीति। यावद्गुप्तेन गान्धिकेनाभ्यनुज्ञातः। ततः स्थविरेण शाणकवासिना उपगुप्तो नटभटीकारण्यायतनं नीतः, उपसंपादितश्च। ज्ञप्तिचर्तुर्थं च कर्म व्यवसितम्। उपगुप्तेन च सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। ततः स्थविरेण शाणकवासिनाभिहितम्-वत्स उपगुप्त, त्वं भगवता निर्दिष्टो वर्षशतपरिनिर्वृतस्य ममोपगुप्तो नाम भिक्षुर्भिविष्यत्यलक्षणको बुद्धः, यो मम वर्षशतपरिनिर्वृतस्य बुद्धकार्यं करिष्यतीति। एषोऽग्रो मे आनन्द श्रावकाणामववादकानां यदुत उपगुप्तो भिक्षुः। इदानीं वत्स शासनहितं कुरुष्वेति। उपगुप्त उवाच-एवमस्तु इति। ततः स धर्मश्रवणेऽधीष्टः। मथुरायां च शब्दो विसृतः- उपगुप्तो नामालक्षणको बुद्धोऽद्य धर्मं देशयिष्यतीति। श्रुत्वा चानेकानि प्राणिशतसहस्राणि निर्गतानि। यावत् स्थविरोपगुप्तः समापद्यावलोकयति-कथं तथागतस्य परिषन्निषण्णा ? पश्यति चार्धचन्द्राकारेण पर्षदबस्थिता। यावदवलोकयति-कथं तथागतेन धर्मदेशना कृता ? पश्यति पूर्वकालकरणीयां कथां कृत्वा सत्यसंप्रकाशना कृता। सोऽपि पूर्वकालकरणीयां कथां कृत्वा सत्यसंप्रकाशनां कर्तुमारब्धः। मारेण च तस्यां पर्षदि मुक्ताहारवर्षमुत्सृष्टम्, वैनेयानां मनांसि व्याकुलीकृतानि, एकेनापि सत्यदर्शनं न कृतम्। यावत् स्थविरोपगुप्तो व्यवलोकयति-केनायं व्याक्षेयः कृतः ? पश्यति मारेण। यावद्द्वितीये दिवसे बहुतरको जनकायो निर्गतः। उपगुप्तो धर्मं देशयति, मुक्ताहारं च वर्षोपवर्षितमिति। यावत् द्वितीयेऽपि दिवसे स्थविरोपगुप्तेन पूर्वकालकरणीयां कथां कृत्वा सत्यसंप्रकाशनायामारब्धायां मारेण चास्यां पर्षदि सुवर्णवर्षमुत्सृष्टम्, वैनेयानां मनांसि संक्षोभितानि, एकेनापि सत्यदर्शनं न कृतम्। यावत् स्थविरोपगुप्तो व्यवलोकयति-केनायं व्याक्षेपः कृतः ? पश्यति मारेण पापीयसेति। यावत् तृतीये दिवसे बहुरतको जनकायो निर्गतः। उपगुप्तो धर्मं देशयति, मुक्तावर्षं सुवर्णवर्षं च पततीति। यावत् तृतीयेऽपि दिवसे स्थविरोपगुप्तः पूर्वकालकरणीयां कथां कृत्वा सत्या न्यारब्धः संप्रकाशयितुम्। मारेण च नातिदूरे नाटकमारब्धम्। दिव्यानि च वाद्यानि संप्रवादितानि, दिव्याश्वाप्सरसो नाटयितुं प्रवृत्ताः। यावद्वीतरागो जनकायो दिव्यानि रूपाणि दृष्ट्वा दिव्यांश्च शब्दान् श्रुत्वा मारेणाकृष्टः। अतो मारेणोपगुप्तस्य पर्षदाकृष्टा। प्रीतिमनसा मारेण स्थविरोपगुप्तस्य शिरसि माला बद्धा। यावत् स्थविरोपगुप्तः समन्वाहरितुमारब्धः-कोऽयम् ? पश्यति मारः। तस्य बुद्धिरुत्पन्ना-अयं मारो भगवच्छासने महान्तं व्याक्षेपं करोति। किमर्थमयं भगवता न विनीतः ? पश्यति ममायं विनेयः। तस्य च विनयात् सत्त्वानुग्रहादहं भगवता अलक्षणको बुद्धो निर्दिष्टः। यावत् स्थविरोपगुप्तः समन्वाहरतिकिमस्य विनयकाल उपस्थित आहोस्विन्नेति ? पश्यति-विनयकाल उपस्थितः। ततः स्थविरोपगुप्तेन त्रयः कुणपा गृहीताः -अहिकुणपं कुर्कुरकुणपं मनुष्यकुणपं च। ऋद्ध्या च पुष्पमालामभिनिर्माय मारसकाशमभिगतः। दृष्ट्वा च मारस्य प्रीतिरुत्पन्ना-उपगुप्तोऽपि मया आकृष्ट इति। ततो मारेण स्वशरीरमुपनामितम्। स्थविरोपगुप्तः स्वयमेव बध्नाति। ततः स्थविरोपगुप्तेनाहिकुणपं मारस्य शिरसि बद्धम्, कुर्कुरकुणपं ग्रीवायाम्, कर्णावसक्तं मनुष्यकुणपं च। ततः समालभ्योवाच-



भिक्षुजनप्रतिकूला माला बद्धा यथैव मे भवता।

कामिजनप्रतिकूलं तव कुणपमिदं मया बद्धम्॥१८॥



यत्ते बलं भवति तत्प्रतिदर्शयस्व

बुद्धात्मजेन हि सहाद्य समागतोऽसि।

उद्वृत्तमप्यनिलभिन्नतरंगवक्रं

व्यावर्तने मलयकुक्षिषु सागराम्भः॥१९॥



अथ मारस्तं कुणपमपनेतुमारब्धः। परमपि च स्वयमनुप्रविश्य पिपीलिक इवाद्रिराजमपनयितुं न शशाक। असमर्थो वैहायसमुत्पत्योवाच-

यदि मोक्तुं न शक्यामि कण्ठात् श्वकुणपं स्वयम्।

अन्ये देवापि मोक्ष्यन्ते मत्तोऽभ्यधिकतेजसः॥२०॥



स्थविर उवाच-

ब्रह्माणं शरणं शतक्रतुं वा

दीप्तं वा प्रविश हुताशमर्णवं वा।

न क्लेदं न च परिशोषणं न भेदं

कण्ठस्थं कुणपमिदं तु यास्यतीह॥२१॥



समहेन्द्ररुद्रोपेन्द्रद्रविणेश्वरयमवरुणकुबेरवासवादीनां देवानामभिगम्य अकृतार्थ एव ब्रह्माणमभिगतः। तेन चोक्तः- मर्षय वत्स,



शिष्येण दशबलस्य स्वयमृद्ध्या कृतान्तमर्यादा।

कस्तां भेत्तुं शक्तो वेलां वरूणालयस्येव॥२२॥



अपि पद्मनालसूत्रैर्बद्ध्वा हिमवन्तमुद्धरेत् कश्चित्।

न तु तव कण्ठासक्तं श्वकुणपमिदमुद्धरेयमहम्॥२३॥



कामं ममापि महदस्ति बलं तथापि

नाहं तथागतसुतस्य बलेन तुल्यः।

तेजस्विनां न खलु न ज्वलनेऽस्ति किं तु

नासौ द्युतिर्हुतवहे रविमण्डले या॥२४॥



मारोऽब्रवीत्-किमिदानीमाज्ञापसयि ? कं शरणं व्रजामीति ? ब्रह्माब्रवीत्-



श्रीघ्रं तमेव शरणं व्रजं यं समेत्य

भ्रष्टस्त्वं ऋद्धिविभवाद्यशसः सुखाच्च।

भ्रष्टो हि यः क्षितितले भवतीह जन्तु-

रुत्तिष्ठति क्षितिमआववलम्ब्य भूयः॥ २५॥



अथ मारस्तथागतशिष्यसामर्थ्यमुपलभ्य चिन्तयामास-

ब्रह्मणा पूज्यते यस्य शिष्याणामपि शासनम्।

तस्य बुद्धस्य सामर्थ्यं प्रमातुं को नु शक्नुयात्॥२६॥



कर्तुकामोऽभविष्यत्कां शिष्टिं स मम सुव्रतः।

यां नाकरिष्यत्क्षान्त्या तु तेनाहमनुरक्षितः॥२७॥



किं बहुना ?

अद्यावैमि मुनेर्महाकरुणतां तस्यातिमैत्र्यात्मनः

सर्वोपद्रवविप्रमुक्तमनसश्चामीकराद्रिद्युतेः।

मोहान्धेन हि तत्र तत्र स मया तैस्तैर्नयैः खेदित-

स्तेनाहं च तथापि नाम बलिना नैवाप्रियं श्रावितः॥२८॥



अथ कामधात्वधिपतिर्मारः नास्त्यन्या गतिरन्यत्रोपगुप्तकादेवेति ज्ञात्वा सर्वमुत्सृज्य स्थविरोपगुप्तसमीपमुपेत्य पादयोर्निपत्योवाच-भदन्त, किमविदितमेतद्भादन्तस्य यथा बोधिमूलमुपादाय मया भगवतो विप्रियशतानि कृतानि ? कुतः ?



शालायां ब्राह्मणग्रामे मामासाद्य स गौतमः।

भक्तच्छेदमपि प्राप्य नाकार्षीन्मम विप्रियम्॥२९॥



गौर्भूत्वा सर्पवत् स्थित्वा कृत्वा शाकटिकाकृतिम्।

स मयायासितो नाथो न चाहं तेन हिंसितः॥३०॥



त्वया पुनरहं वीर त्यक्त्वा (तु) सहजां दयाम्।

सदेवासुरमध्येषु लोकेष्वद्य विडम्बितः॥३१॥



स्थविरोऽब्रवीत्-पापीयन्, कथमपरीक्ष्यैव तथागतमाहात्म्येषु श्रावकमुपसंहरसि-

किं सर्षपेण समतां नयसीहं मेरुं

खद्योतकेन रविं मण्डलिना समुद्रम्।

अन्या हि सा दशबलस्य कृपा प्रजासु

न श्रावकस्य हि महाकरुणास्ति सौम्य॥३२॥



अपि च-



यदर्थेन भगवता सापराधोऽपि मर्षितः।

इदं तत् कारणं साक्षादस्माभिरुपलक्षितम्॥३३॥



मार उवाच-

ब्रूहि ब्रूहि श्रीमतस्तस्य भावं

सङ्गं छेत्तुं क्षान्तिगुप्तव्रतस्य।

योऽसौ मोहान्नित्यमायासितो मे

तेनाहं च प्रेक्षितो मैत्र्येणैव॥३४॥



स्थविर उवाच-शृणु सौम्य, त्वं हि भगवत्यसकृदसकृदवस्खलितः। न च बुद्धावरोपितानामकुशलानां धर्माणामन्यत् प्रक्षालनमन्यत्र तथागतप्रसादादेव।

तदेतत्कारणं तेन पश्यता दीर्घदर्शिना।

त्वं नाप्रियमिह प्रोक्तः प्रियाण्येव तु लम्भितः॥३५॥



न्यायेनानेन भक्तिस्तव हृदि जनिता तेनाग्रमतिना

स्वल्पापि ह्यत्र भक्तिर्भवति मतिमतां निर्वाणफलदा।

संक्षेपाद्यत्कृतं ते वृजिनमिह मुने मोहान्धमनसा

सर्वं प्रक्षालितं तत्तव हृदयगतैः श्रद्धाम्बुविसरैः॥३६॥



अथ मारः कदम्बपुष्पवदाहृष्टरोमकूपः सर्वाङ्गेन प्रणिपत्योवाच-

स्थाने मया बहुविधं परिखेदितोऽसौ

प्राक् सिद्धितश्च भुवि सिद्धमनोरथेन।

सर्वं च मर्षितमृषिप्रवरेण तेन

पुत्रापराध इव सानुनयेन पित्रा॥३७॥



स बुद्धप्रसादाप्यायितमनाः सुचिरं बुद्धगुणाननुस्मृत्य स्थविरस्य पादयोर्निपत्योवाच-

अनुग्रहो मेऽद्य परः कृतस्त्वया

निवेशितं यन्मयि बुद्धगौरवम्।

इदं तु कण्ठव्यवलम्बि मैत्र्या

महर्षिकोपाभरणं विसर्जय॥३८॥



स्थविर उवाच-समयतो विमोक्ष्यामीति। मार उवाच- कः समय इति ? स्थविर उवाच- अद्यप्रभृति भिक्षवो नविहेठयितव्या इति। मारोऽब्रवीत्- न विहेठयिष्ये। कमपरमाज्ञापयसीति ? स्थविर उवाच-एवं तावच्छासनकार्यं प्रति ममाज्ञा। स्वकार्यं प्रति विज्ञापयिष्यामि भवन्तम्। ततो मारः ससंभ्रम उवाच-प्रसीद स्थविर, किमाज्ञापयसि ? स्थविरोऽब्रवीत्-स्वयमवगच्छसि-यदहं वर्षशतपरिनिर्वृते भगवति प्रव्रजितः, तद्धर्मकायो मया तस्य दृष्टः। त्रैलोक्यनाथस्य काञ्चनाद्रिनिभस्तस्य न दृष्टो रूपकायो मे।



तदनु त्वमनुग्रहमप्रतिम-

मिह विदर्शय बुद्धिविग्रहम्।

प्रियमधिकमतो हि नास्ति मे

दशबलरूपकुतूहलो ह्यहम्॥३९॥



मार उवच-तेन हि ममापि समयः श्रूयताम्।

सहसा तमिहोद्वीक्ष्य बुद्धमेपथ्यधारिणम्।

न प्रणामस्त्वया कार्यः सर्वज्ञगुणगौरवात्॥४०॥



बुद्धानुस्मृतिपेशलेन मनसा पूजां यदि त्वं मयि

स्वल्पामप्युपदर्शयिष्यसि विभो दग्धो भविष्याम्यहम्।

का शक्तिर्मम वीतरागविहितां सोढुं प्रणामक्रियां

हस्तन्यासमिवोद्वहन्ति न गजस्यैरण्डवृक्षाङ्कुराः॥४१॥



स्थविरोऽप्याह-एवमस्तु। न भवन्तं प्रणमिष्यामीति। मारोऽब्रवीत्-तेन हि मुहूर्तमागमय, यावदहं वनगहनमनुप्रविश्य-



शूरं वञ्चयितुं पुरा व्यवसितेनोत्तप्तहेमप्रभं

बौद्धं रूपमचिन्त्यबुद्धिविभवादासीन्मया यत्कृतम्।

कृत्वा रूपमहं तदेव नयनप्रल्हादिकं देहिना-

मेषोऽप्यर्कमयूखजालममलं भामण्डलेनाक्षिपन्॥४२॥



अथ स्थविरः एवमस्तु इत्युक्त्वा तं कुणपमपनीय तथागतरूपदर्शनोत्सुकोऽवस्थितः। मारश्च वनगहनमनुप्रविश्य बुद्धरूपं कृत्वा नट इव सुरुचिरनेपथ्यस्तस्माद्वनगहनादारब्धो निष्क्रमितुम्। वक्ष्यते हि -



ताथागतं वपुरथोत्तमलक्षणाढ्य-

मादर्शयन्नयनशान्तिकरं नराणाम्।

प्रत्यग्ररङ्गमिव चित्रपटं महार्ह-

मुद्धाटयन् वनमसौ तदलंचकार॥४३॥



अथ व्यामप्रभामण्डलमण्डितमसेचनकदर्शनं भगवतो रूपमभिनिर्माय दक्षिणे पर्श्वे स्थविरशारद्वतीपुत्रं वामपार्श्वे स्थविरमहामौद्गल्यायन पृष्ठतश्चायुष्मन्तमानन्दं बुद्धपात्रव्यग्रहस्तं स्थविरमहाकश्यपानिरुद्धसुभूतिप्रभृतीनां च महाश्रावकाणां रूपाण्यभिनिर्माय अर्धत्रयोदशभिर्भिक्षुशतैरर्धचन्द्रेणानुपरिवृतं बुद्धवेषमादर्शयित्वा मारः स्थविरोपगुप्तस्यान्तिकमाजगाम। स्थविरोपगुप्तस्य च भगवतो रूपमिदमीदृशमिति प्रामोद्यमुत्पन्नम्। स प्रमुदितमनास्त्वरितमासनादुत्थाय निरीक्षमाण उवाच -



धिगस्तु तां निष्करुणामनित्यतां

भिनत्ति रूपाणि यदिदृशान्यपि।

शरीरमीदृक्किल तन्महामुने-

रनित्यतां प्राप्य विनाशमागतम्॥४४॥



स बुद्धावलम्बनया स्मृत्या तथाप्यासक्तमनाः संवृत्तो यथा बुद्धं भगवन्तमहं पश्यामीति व्यक्तमुपागतः। स पद्ममुकुलप्रतिममञ्जलिं कृत्वोवाच-अहो रूपशोभा भगवतः। किं बहुना?



वक्रेणाभिभवत्ययं हि कमलं नीलोत्पलं चक्षुषा

कान्त्या पुष्पवनं घनं प्रियतया चन्द्रं समाप्तद्युतिम्।

गाम्भीर्येण महोदधिं स्थिरतया मेरुं रविं तेजसा

गत्या सिंहमवेक्षितेन वृषभं वर्णेन चामीकरम्॥४५॥



स भूयस्या मात्रया हर्षेणापूर्यमाणहृदयो व्यापिना स्वरेणोवाच-



अहो भावविशुद्धानां कर्मणो मधुरं फलम्।

कर्मणेदं कृतं रूपं नैश्वर्येण यदृच्छया॥४६॥



यत्तत्कल्पसहस्रकोटिनियुतैर्वाक्कायचित्तोद्भवं

दानक्षान्तिसमाधिबुद्धिनियमैस्तेनार्हता शोधितम्।

तेनेदं जननेत्रकान्तममलं रूपं समुत्थापितं

यं दृष्ट्वा रिपुरप्यभिप्रमुदितः स्यात्किं पुनर्मद्विधः॥४७॥



संबुद्धालम्बनैः संज्ञां विस्मृत्य बुद्धसंज्ञामधिष्ठाय मूलनिकृत्त इव द्रुमः सर्वशरीरेण मारस्य पादयोर्निपतितः। अथ मारः ससंभ्रमोऽब्रवीत्-एवं तं भदन्त नार्हसि समयं व्यतिक्रमितुम्। स्थविर उवाच-कः समय इति ? मार उवाच-ननु प्रतिज्ञातं भदन्ते-नाहं भवन्तं प्रणमिष्यामीति। ततः स्थविरोपगुप्तः पृथिवीतलादुत्थाय सगद्गदकण्ठोऽब्रवीत्-पापीयन्,



न खलु न विदितं मे यस्य वादिप्रधानो

जलविहत इवाद्निर्निर्वृतिं संप्रयातः।

अपि तु नयनकान्तामाकृतिं तस्य दृष्ट्वा

तमृषिमभिनतोऽहं त्वां तु नाभ्यर्चयामि॥४८॥



मार उवाच-कथमिहाहं नार्चितो भवामि, यदेवं मां प्रणमसीति। स्थविरोऽब्रवीत्- श्रूयताम् , यथा त्वं नैव मया अभ्यर्चितो भवसि, न च मया समयातिक्रमः कृत इति।



मृण्मयेषु प्रतिकृतिष्वमराणां यथा जनः।

मृतसंज्ञामनादृत्य नमत्यमरसंज्ञया॥४९॥



तथाहं त्वामिहोद्वीक्ष्य लोकनाथवपुर्धरम्।

मारसंज्ञामनादृत्य नतः सुगतसंज्ञया॥५०॥



अथ मारो बुद्धवेषमन्तर्धापयित्वा स्थविरोपगुप्तमभ्यर्च्य प्रक्रान्तः। यावच्चतुर्थे दिवसे मारः स्वयमेव मथुरायां घण्टावघोषितुमारब्धः -यो युष्माकं स्वर्गापवर्गसुखं प्रार्थयते, स स्थविरोपगुप्तसकाशाद्धर्मं शृणोतु, यैश्च युष्माभिस्तथागतो न दृष्तस्ते स्थविरोपगुप्तं पश्यन्तु इति। आह च -



उत्सृज्य दारिद्र्यमनर्थमूलं

यः स्फीतशोभां श्रियमिच्छतीह।

स्वर्गापवर्गाय च यस्य वाञ्छा

स श्रद्धया धर्ममतः शृणोतु॥५१॥



दृष्टो न यैर्वा द्विपदप्रधानः

शास्ता महाकारुणिकः स्वयंभूः।

ते शास्तृकल्पं स्थविरोपगुप्तं

पश्यन्तु भास्वत्र्त्रिभवप्रदीपम्॥५२॥



यावन्मथुरायां शब्दो विसृतः- स्थविरोपगुप्तेन मारो विनीत इति। श्रुत्वा च यद्भूयसा मथुरावास्तव्यो जनकायः स्थविरोपगुप्तसकाशं निर्गतः। ततः स्थविरोपगुप्तोऽनेकेषु ब्राह्मणशतसहस्रेषु संनिपतितेषु सिंह इव निर्भीः सिंहासनमभिरूढः। वक्ष्यति च-



मां प्रति न ते शक्यं सिंहासनमविदुषा समभिरोढुम्।

यः स सिंहासनस्थो मृग इव स हि याति संकोचम्॥५३॥



सिंह इव यस्तु निर्भीर्निनदति प्रवरारिदर्पणाशार्थम्।

सिंहासनमभिरोढुं स कथिकसिंहो भवति योज्ञः॥५४॥



यावत् स्थविरोपगुप्तेन पूर्वकालकरणीयां कथां कृत्वा सत्यानि संप्रकाशितानि। श्रुत्वा चानेकैः प्राणिशतसहस्रैर्मोक्षभागीयानि कुशलमूलान्याक्षीप्तानि। कैश्चिदनागामिफलं प्राप्तम्, कैश्चित् सकृदागामिफलम्, कैश्चित् स्रोत‍आपत्तिफलम्, यावदष्टादशसहस्राणि प्रव्रजितानि। सर्वैश्च युज्यमानैर्यावदर्हत्त्वं प्राप्तम्॥



तत्र चोरुमुण्डपर्वते गुहा अष्टादशहस्ता दैर्घ्येण द्वादशहस्ता विस्तारेण। यदा ते कृतकरणीयाः संवृत्तास्तदा स्थविरोपगुप्तेनाभिहितम्-यो मदीयेनाववादेन सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यति, तेन चतुरङ्गुलमात्रा शलाका गुहायां प्रक्षेप्तव्या। यावदेकस्मिन् दिवसे दशभिरर्हत्सहस्रैः शलाकाः प्रक्षिप्ताः। तस्य यावदासमुद्रायां (पृथिव्यां) शब्दो विसृतः मथुरायामुपगुप्तनामा अववादकानामग्रो निर्दिष्टो भगवता। तद्यथा हि विनीतकामधात्वीश्वरे द्वितीयशास्तृकल्पे महात्मनि स्थविरोपगुप्ते सुरमनुजमहोरगासुरगरुडयक्षगन्धर्वविद्याधरार्चितपादयुग्मे पूर्वबुद्धक्षेत्रावरोपितकुशलबीजसंततीनामनेकेषां सत्त्वशतसहस्राणां सद्धर्मसलिलवर्षधारानिपातेन मोक्षाङ्कुरानभिवर्धयन्नुरुमुण्डे शैले॥



कार्यानुरोधात् प्रणतसकलसामन्तचूडामणिमयूखोद्भासितपादपीठस्याशोकस्य राज्ञः पूर्वं पांशुप्रदानं समनुस्मरिष्यामः। इत्येवमनुश्रूयते -



भगवान् राजगृहे विहरति वेणुवने कलिन्दकनिवापे। अथ भगवान् पूर्वाह्णेनिवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो राजगृहं पिण्डाय प्राविक्षत्। वक्ष्यति च-



कनकाचलसंनिभाग्रदेहो

द्विरदेन्द्रप्रतिमः सलीलगामी।

परीपूर्णशशाङ्कसौम्यवक्त्रो

भगवान् भिक्षुगणैर्वृतो जगाम॥५५।



यावद्भगवता साभिसंस्कारं नगरद्वारे पादं प्रतिष्ठापितम्। धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः साभिसंस्कारं नगरद्वारमिन्द्रकीले पादौ व्यवस्थापयन्ति, तदा चित्राण्यद्भुतानि प्रादुर्भवन्ति। अन्धाश्चक्षूंषि प्रतिलभन्ते। बधिराः श्रोत्रग्रहणसमर्था भवन्ति। पङ्गवो गमनसमर्था भवन्ति। हडिनिगडचारकावबद्धानां सत्त्वानां बन्धनानि शिथिलीभवन्ति। जन्मजन्मवैरानुबद्धाः सत्त्वास्तदनन्तरं मैत्रचित्रतां लभन्ते। वत्सा दामानि च्छित्त्वा मातृभिः सार्धः समागच्छन्ति। हस्तिनः क्रोशन्ति, अश्वा हेषन्ते, ऋषभा गर्जन्ति, शुकशारिककोकिलजीवंजीवकबर्हिणो मधुरान् (शब्दान्) निकूजन्ति। पेडागता अलंकारा मधुरशब्दं निश्चारयन्ति। अपहारतानि च वादित्रभाण्डानि मधुरं शब्दं निश्चारयन्ति। उन्नतोन्नताः पृथिवीप्रदेशा अवनमन्ति। अवनताश्चोन्नमन्ति, अपगतपाषाणशर्करकपालाश्चावतिष्ठन्ते। इयं च तस्मिन् समये पृथिवी षड्‌विकारं प्रकम्पते। तद्यथा-पूर्वो दिग्भाग उन्नमति पशिमोऽवनमति, अन्तोऽवनमति मध्य उन्नमति, चलितः प्रचलितो वेधितः प्रवेधितः। इतीमे चान्ये चाद्भुतधर्माः प्रादुर्भवन्ति भगवतो नगरप्रवेशे। वक्ष्यति च-



लवणजलनिवासिनी ततो वा

नगरनिगममण्डिता सशैला।

मुनिचरणनिपीडिता च भूमी

पवनबलाभिहतेव यानपात्रम्॥५६॥



अथ बुद्धप्रवेशकालनियतैः प्रातिहार्यैरावर्जिताः स्त्रीमनुष्यास्तन्नगरमनिलबलचलितभिन्नवीचीतरङ्गक्षिभितमिव महासमुद्रं विमुक्तोच्चनादं बभूव। न हि बुद्धप्रवेशतुल्यं नाम जगत्यद्भुतमुपलभ्यते। पुरप्रवेशसमये हि भगवतश्चित्राण्यद्भुतानि दृश्यन्ते। वक्ष्यति च-

निम्ना चोन्नमते नतावनमते बुद्धानुभावान्मही

स्थाणुः सर्करकण्टकव्यपगतो निर्दोषतां याति च।

अन्धा मूकजडेन्द्रियाश्च पुरुषा व्यक्तेन्द्रियास्तत्क्षणं

संवाद्यन्त्यनिघट्टिताश्च नगरे नन्दन्ति तूर्यस्वनाः॥ ५७॥



सर्वं च तन्नगरं सूर्यसहस्रातिरेकया कनकमरीचिवर्णया बुद्धप्रभया स्फुटं बभूव। आह च -



सूर्यप्रभामवभर्त्स्य हि तस्य भाभि-

र्व्याप्तं जगत्सकलमेव सकाननस्थम्।

संप्राप्य च प्रवरधर्मकथाभिरामो

लोकं सुरासुरनरं हि समुक्तभावम्॥५८॥



यावद्भगवान् राजमार्गं प्रतिपन्नः। तत्र द्वौ बालदारकौ। एकोऽग्रकुलिकपुत्रो द्वितीयः कुलिकपुत्रश्च पांश्वागारैः क्रीडतः। एकस्य जयो नाम, द्वितीयस्य विजयः। ताभ्यां भगवान् दृष्टो द्वात्रिंशन्महापुरुषलक्षणालंकृतशरीरः असेचनकदर्शनश्च। यावज्जयेन दारकेन संक्तुं दास्यामीति पांश्वञ्जलिर्भगवतः पात्रे प्रक्षिप्तः, विजयेन च कृताञ्जलिनाभ्यनुमोदितम्। वक्ष्यति च-



दृष्ट्वा महाकारुणिकं स्वयंभुवं

व्यामप्रभोद्द्योतितसर्वगात्रम्।

धीरेण वक्त्रेण कृतप्रसादः

पांशुं ददौ जातिजरान्तकाय॥५९॥



स भगवते प्रतिपादयित्वा प्रणिधानं कर्तुमारब्धः-अनेनाहं कुशलमूलेन एकच्छत्रायां पृथिव्यां राजा स्याम्, अत्रैव च बुद्धे भगवति कारां कुर्यामिति।



ततो मुनिस्तस्य निशाम्य भावं

बालस्य सम्यक्प्रणिधिं च बुद्ध्वा।

इष्टं फलं क्षेत्रवशेन दृष्ट्वा

जग्राह पांशुं करुणायमानः॥६०॥



तेन यावद्राज्यविपाक्यं कुशलमाक्षिप्तम्। ततो भगवता स्मितं विदर्शितम्। धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं विदर्शयन्ति, तस्मिन् समये नीलपीतलोहितावदातमञ्जिष्ठस्फटिकरजतवर्णा अर्चिषो मुखान्निश्चरन्ति। केचिदूर्ध्वतो गच्छन्ति, केचिदधस्ताद्गच्छन्ति। येऽधो गच्छन्ति, ते संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिपर्यन्तेषु गत्वा ये शीतनरकास्तेषूष्णीभूत्वा निपतन्ति, ये उष्णनरकास्तेषु शीतीभूत्वा निपतन्ति। तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते। तेषामेवं भवति-किं नु भवन्तो वयमितश्च्युताः, आहोस्विदन्यत्रोपपन्ना इति, येनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धाः। तेषां भगवान् प्रसादसंजननार्थः निर्मितं विसर्जयति। तेषामेवं भवति- न वयमितश्च्युताः, नाप्यन्यत्रोपपन्नाः। अपि त्वयमपूर्वदर्शनः (सत्त्वः)। अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति। ते निर्मिते चित्तानि प्रसादयित्वा नरकवेदनीयानि कर्माणि क्षपयित्वा देवमनुष्येषु प्रतिसंघि गृह्णन्ति यत्र सत्यानां भाजनभूता भवन्ति। ये ऊर्द्ध्वतो गच्छन्ति , ते चातुर्महाराजिकान् देवांस्त्रायास्त्रिंशान् यामांस्तुषितान्निर्माणरतीन् परनिर्मितवशवर्तिनः ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मान् परीत्ताभानप्रमाणाभानाभास्वरान् परीत्तशुभानप्रमाणशुभान् शुभकृत्स्नाननभ्रकान् पुण्यप्रसवान् बृहत्फलानबृहानतपान् सुदृशान् सुदर्शनानकनिष्ठपर्यन्तेषु देवेषु गत्वा अनित्यं दुःखं शून्यमनात्मेदुद्धोषयन्ति। गाथाद्वयं च भाषन्ते -



आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने।

धुनीतः मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥६१॥



यो ह्यस्मिन् धर्मविनये अप्रमत्तश्चरिष्यति।

प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति॥६२



अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवन्तमेवानुगच्छन्ति। यदि भगवानतीतं कर्म व्याकर्तुकामो भवति, पृष्ठतोऽन्तर्धीयन्ते। अनागतं व्याकर्तुकामो भवति, पुरतोऽन्तर्धीयन्ते। नरकोपपत्तिं व्याकर्तुकामो भवति, पादतलेऽन्तर्धीयन्ते। तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्यामन्तर्धीयन्ते। प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठेऽन्तर्धीयन्ते। मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोऽन्तर्धीयन्ते। बालचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतलेऽन्तर्धीयन्ते। चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतलेऽन्तर्धीयन्ते। देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्यामन्तर्धीयन्ते। श्रावकबोधिं व्याकर्तुकामो भवति, आस्येऽन्तर्धीयन्ते। प्रत्येकां बोधिं व्याकर्तुकामो भवति, ऊर्णायामन्तर्धीयन्ते। अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषेऽन्तर्धीयन्ते। अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवतो वामे करतलेऽन्तर्हिताः। अथायुष्मानानन्दः कृताङ्गलिपुटो गाथां भाषते -



विगतोद्भवा दैन्यमदप्रहीणा

बुद्धा जगत्युत्तमहेतुभूताः।

नाकारणं शङ्खमृणालगौरं

स्मितं विदर्शयन्ति जिना जितारयः॥६३॥



तत्कालं स्वयमधिगम्य वीर बुद्ध्या

श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्।

धीराभिर्भुनिवृष वाग्भिरुत्तमाभि-

रुत्पन्नं व्यपनय संशयं शुभाभिः॥६४॥



मेघस्तनितनिर्घोष गोवृषेन्द्रनिभेक्षण।

फलं पांशुप्रदानस्य व्याकुरुष्व नरोत्तम॥६५॥



भगवानाह-एवमेतदानन्द एवमेतदानन्द। नाहेत्वप्रत्ययं तथगता अर्हन्तः सम्यक्संबुद्धाः स्मितमुपदर्शयन्ति। अपि तु सहेतु सप्रत्ययं तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितमुपदर्शयन्ति। पश्यसि त्वमानन्द दारकं येन तथागतस्य पात्रे पांश्वञ्जलिः प्रक्षिप्तः ? एवं भदन्त। अयमानन्द दारकोऽनेन कुशलमूलेन वर्षशतपरिनिर्वृतस्य तथागतस्य पाटलिपुत्रे नगरे अशोको नाम्ना राजा भविष्यति चतुर्भागचक्रवर्ती धार्मिको धर्मराजा, यो मे शरीरधातून् वैस्तारिकान् करिष्यति। चतुरशीतिं धर्मराजिकासहस्रं प्रतिष्ठापयिष्यति। बहुजनहिताय प्रतिपत्स्यत इति। आह च-



अस्तंगते मयि भविष्यति एकराजा

योऽसौ ह्यशोक इति नाम विशालकीर्तिः।

मद्धातुगर्भपरिमण्डितजम्बुखण्ड-

मेतत्करिष्यति नरामरपूजितानाम्॥६६॥



अयमस्य देयधर्मो यत्तथागतस्य पांश्चञ्जलिः पात्रे प्रक्षिप्तः। यावद्भगवता तेषां सर्व आयुष्मते आनन्दाय दत्ताः। गोमयेन मिश्रयित्वा यत्र चंक्रमे तथागतश्चंक्रम्यते, तत्र योगमकार्षी प्रयच्छति। यावदायुष्मता आनन्देन तेषां सगोमयेन मिश्रयित्वा यत्र चंक्रमति भगवान्, तत्र गोमयकार्षी दत्ता॥



तेन खलु पुनः समयेन राजगृह्ये नगरे बिम्बिसारो राजा राज्यं कारयति। राज्ञो बिम्बिसारस्य अजातशत्रुः पुत्रः। अजातशत्रोरुदायी। उदायिभद्रस्य मुण्डः। मुण्डस्य काकवर्णी। काकवर्णिनः सहली। सहलिनस्तुलकुची। तुलकुचेर्महामण्डलः। महामण्डलस्य प्रसेनजित्। प्रसेनजितो नन्दः। नन्दस्य बिन्दुसारः। पाटलिपुत्रे नगरे बिन्दुसारो नाम राजा राज्यं कारयति। बिन्दुसारस्य राज्ञः पुत्रो जातः। तस्य सुसीम इति नामधेयं कृतम्। तेन च समयेन चम्पायां नगर्यामन्यतमो ब्राह्मणः। तस्य दुहिता जाता अभिरूपा दर्शनीया प्रासादिका जनपदकल्याणी। सा नैमित्तिकैर्व्याकृता-अस्या दारिकाया राजा भर्ता भविष्यति। द्वे पुत्ररत्ने जनयिष्यति, एकश्चतुर्भागचक्रवर्ती भविष्यति। द्वितीयः प्रव्रजिता सिद्धव्रतो भविष्यति। श्रुत्वा च ब्राह्मणस्य रोमहर्षो जातः। संपत्तिकामो लोकः। स तां दुहितरं ग्रहाय पाटलिपुत्रं गतः। तेन सा सर्वालंकारैर्विभूषयित्वा राज्ञो बिन्दुरासस्य भार्यार्थमनुप्रदत्ता-इयं हि देवकन्या धन्या प्रशस्ता चेति। यावद् राज्ञा बिन्दुसारेणान्तःपुरं प्रवेशिता। अन्तःपुरिकाणां बुद्धिरुत्पन्ना-इयमभिरूपा प्रासादिका जनपदकल्याणी। यदि राजा अनया सार्धं परिचारयिष्यति, अस्माकं भूयश्चक्षुःसंप्रेषणमपि न करिष्यति। ताभिः सा नापिताकर्म शिक्षापिता। सा राज्ञः केशश्मश्रुं प्रसाधयति यावत् सुशिक्षिता संवृता। यदा आरभते राज्ञः केशश्मश्रुं प्रसाधयितुम्, तदा राजा शेते। यावत् राज्ञा प्रीतेन वरेण प्रवारिता -किं त्वं वरमिच्छसीति ? तया अभिहितम्-देवेन मे सह समागमः स्यात्। राजा आह-त्वं नापिनी, अहं राजा क्षत्रियो मूर्धाभिषिक्तः। कथं मया सार्धं समागमो भविष्यति ? सा कथयति-देव नाहं नापिनी, अपि तु ब्राह्मणस्याहं दुहिता। तेन देवस्य पत्न्यर्थं दत्ता। राजा कथयति-केन त्वं नापितकर्म शिक्षापिता ? सा कथयति-अन्तःपुरिकाभिः। राजा आह- न भूयस्त्वया नापितकर्म कर्तव्यम्। यावद्राज्ञा अग्रमहिषी स्थापिता। तया सार्धं क्रीडति रमते परिचारयति। सा आपन्नसत्त्वा संवृत्ता। यावदष्टानां नवानां वा मसानामत्ययात् प्रसूता। तस्याः पुत्रो जातः। तस्य विस्तरेण जातिमहं कृत्वा किं कुमारस्य भवतु नाम ? सा कथयति-अस्य दारकस्य जातस्य अशोकास्मि संवृत्ता। तस्य अशोक इति नाम कृतम्। यावद्द्वितीयः पुत्रो जातः। विगते शोके जातः। तस्य विगतशोक इति नाम कृतम्। अशोको दुःस्पर्शगात्रः। राज्ञो बिन्दुसारस्यानभिप्रेतः। अथ राजा बिन्दुसारः कुमारं परीक्षितुकामः पिङ्गलवत्साजीवं परिव्राजकमामन्त्रयते-उपाध्याय, कुमारांस्तावत्परीक्षामः -कः शक्यते ममात्ययाद्राज्यं कारयितुम् ? पिङ्गलवत्साजीवः परिव्राजकः कथयति-तेन हि देव कुमारानादाय सुवर्णमण्डपमुद्यानं निर्गच्छ, परीक्षामः। यावद्राजा कुमारानादाय सुवर्णमण्डपमुद्यानं निर्गतः। यावदशोकः कुमारो मात्रा चिच्यते-वत्स, राजा कुमारान् परीक्षितुकामः सुवर्णमण्डपमुद्यानं गतः, त्वमपि तत्र गच्छेति। अशोकः कथयति-राज्ञोऽहमनभिप्रेतो दर्शनेनापि, किमहं तत्र गमिष्यामि ? सा कथयति-तथापिगच्छेति। अशोक उवच-आहारं प्रेषय। यावदशोकः। पाटलिपुत्रान्निर्गच्छति, राधगुप्तेन चाग्रामात्यपुत्रेणोकः-अशोक, क्क गमिष्यसीति ? अशोकः कथयति-राजा अद्य सुवर्णमण्डपे उद्याने कुमारान् परीक्षयति। तत्र राज्ञो महल्लको हस्तिनागस्तिष्ठति। यावदशोकस्तस्मिन् महल्लकेऽभिरुह्य सुवर्णमण्डपमुद्यानं गत्वा कुमाराणां मध्येऽत्र पृथिव्यां प्रस्तीर्य निषसाद। यावत् कुमाराणामाहार उपनामितः। अशोकस्यापि शाल्योदनं दधिसमिश्रं मृद्भाजने प्रेषितम्। ततो राज्ञा बिन्दुसारेण पिङ्गलवत्साजीवः परिव्राजकोऽभिहितः- उपाद्याय, परीक्ष कुमारान्-कः शक्यते ममात्ययाद्राज्यं कर्तुमिति ? पश्यति पिङ्गलवत्साजीवः परिव्राजकः, चिन्तयति च-अशोको राजा भविष्यति। अयं च राज्ञो नाभिप्रेतः। यदि कथयिष्यामि। अशोको राजा भविष्यतीति, नास्ति मे जीवितम्। स कथयति-देव अभेदेन व्याकरिष्यामि। राजा आह-अभेदेन व्याकुरुष्व। आह-यस्य यानं शोभनं स राजा भविष्यति। तेषामेकैकस्य बुद्धिरुत्पन्ना - मम यानं शोभनम्। अहं राजा भविष्यामि। अशोकश्चिन्तयति-अहं हस्तिस्कन्धेनागतः। मम यानं शोभनम् , अहं राजा भविष्यामीति। राजा आह-भूयस्तावदुपाध्याय परीक्षस्व। पिङ्गलवत्साजीवः परिव्राजकः कथयति-देव, यस्यासनमग्रम्, स राजा भविष्यति। तेषामेकैकस्य बुद्धिरुत्पन्ना-ममासनमग्रम्। अह्सोकश्चिन्तयति-मम पृथिव्यासनम्, अहं राजा भविष्यामि। एवं भाजनं भोजनं पानम्। विस्तरेण कुमारान् परीक्ष्य प्रविष्टः। यावदशोको मात्रोच्यते-को व्याकृतो राजा भविष्यतीति ? अशोकः कथयति-अभेदेन व्याकृतम्-यस्य यानमग्रमासनं पानं भाजनं भोजनं चेति, स राजा भविष्यतीति। यथा पश्यमि-अहं राजा भविष्यामि। मम हस्तिस्कन्धं यानं पृथिवी आसनं मृण्मयं भाजनं शाल्योदनं दधिव्यञ्जनं पानीयं पानमिति॥



ततः पिङ्गलवत्साजीवः परिब्राजकः अशोको राजा भविष्यतीति तस्य मातरमारब्धः सेवितुम्। यावत् तयोच्यते-उपाध्याय, कतरः कुमारो राज्ञो बिन्दुसारस्यात्ययाद्राजा भविष्यतीति ? आह-अशोकः। तयोच्यते-कदाचित् त्वां राजा निर्बन्धेन पृच्छेत्। गच्छ त्वम्। प्रत्यन्तं समाश्रय। यदा शृणोषि अशोको राजा संवृत्तः, तदा आगन्तव्यम्। यावत् स प्रत्यन्तेषु जनपदेषु संश्रितः॥



अथ राज्ञो बिन्दुसारस्य तक्षशिला नाम नगरं विरुद्धम्। तत्र राज्ञा बिन्दुसारेण अशोको विसर्जितः-गच्छ कुमार, तक्षिशिलानगरं संनाहय। रतुरङ्गं बलकायं दत्तम्, यानं प्रहरणं च प्रतिषिद्धम्। यावदशोकः कुमारः पाटलिपुत्रान्निर्गच्छन् भऋत्यैर्विज्ञप्तः-कुमार, नैवास्माकं सौन्यप्रहरणम्-केन वयं कं युध्यामः ? ततः अशोकेनाभिहितम्-यदि नाम राज्यविपाक्यं कुशलमस्ति, सैन्यं प्रहरणं च प्रादुर्भवतु। एवमुक्ते कुमारेण पृथिव्यामवकाशो दत्तः। देवताभिः सैन्यप्रहरणानि चोपनीतानि। यावत् कुमारच्छतुरङ्गेन बालकालेन तक्षशिलां गतः। श्रुत्वा तक्षशिलानिवासिनः पौरा अर्धतृतीयानि योजनानि मार्गे शोभां कृत्वा पूर्णघटमादाय प्रत्युद्गताः। प्रत्युद्गम्य च कथयन्ति-न वयं कुमारस्य विरुद्धाः, नापि राज्ञो बिन्दुसारस्य, अपि तु दुष्टामात्या अस्माकं परिभवं कुर्वन्ति। महता च सत्कारेण तक्षशिलां प्रवेशितः। एवं विस्तरेणाशिकः खशराज्यं प्रवेशितः। तस्य द्वौ महानग्नौ संश्रितौ। तेन तौ वृत्त्या संविभक्तौ तस्याग्रतः पर्वतान् संछिन्दन्तौ संप्रस्थितौ। देवतामिश्चोक्तम्-अशोकश्चतुर्भागचक्रवर्ती भविष्यति, न केनचिद्विरोधितव्यमिति। विस्तरेण यावदासमुद्रा पृथिवी आज्ञापिता॥



यावत् सुसीमः कुमार उद्यानात् पाटलिपुत्रं प्रविशति। राज्ञो बिन्दुसारस्याग्रामात्यः खल्लाटकः पाटलिपुत्रान्निर्गच्छति। तस्य सुसीमेन कुमारेण क्रीडाभिप्रायतया खटका पातिता। यावदमात्यश्चिन्तयति-इदानीं खटकां निपातयति। यदा राजा भविष्यति, तदा शस्त्रं पातयिष्यति। तथा करिष्यामि यथा राजैव न भविष्यति। तेन पञ्चामात्यशतानि भिन्नानि। अशोकश्चतुर्भागचक्रवर्ती निर्दिष्ट एव, राज्ये प्रतिष्ठापयिष्यामः। तक्षशिलाश्च विरोधिताः। यावद्राज्ञा सुसीमः कुमारस्तक्षशिलामनुप्रेषितः। न च शक्यते संनामयितुम्। बिन्दुसारश्च राजा ग्लानीभूतः। तेनाभिहितम्-सुसीमं कुमारमानयथ, राज्ये प्रतिष्ठापयिष्यामीति। अशोकं तक्षशिलां प्रवेशयथ। यावदमात्यैरशोक कुमारो हरिद्रया प्रलिप्तो लाक्षां च लोहपात्रे क्काथयित्वा क्कथितेन रसेन लोहपात्राणि म्रक्षयित्वा छोरयन्ति- अशोकः कुमारो ग्लानीभूत इति। यदा बिन्दुसारः स्वल्पावशेषप्राणः संवृत्तः, तदा अमात्यैरशोकः कुमारः सर्वालंकारैर्भूषयित्वा राज्ञो बिन्दुसारस्योपनीतः - इमं तावद्राज्ये प्रतिष्ठापय। यदा सुसीम आगतो भविष्यति, तदा तं राज्ये प्रतिष्ठापयिष्यामः। ततो राजा रुषितः। अशोकेन चाभिहितम्- यदि मम धर्मेण राज्यं भवति, देवता मम पट्टं बन्धन्तु। यावद्देवताभिः पट्टो बद्धः। तं दृष्ट्वा बिन्दुसारस्य राज्ञ उष्णं शोणितं मुखादागतं यावत्कालगतः। यदा अशोको राज्ये प्रतिष्ठितः, तस्योर्ध्व योजनं यक्षाः शृण्वन्ति, अधो योजनं नागाः। तेन राधगुप्तोऽग्रामात्यः स्थापितः। सुसीमेनापि श्रुतम्-बिन्दुसारो राजा कालगतः, अशोको राज्ये प्रतिष्ठितः। इति श्रुत्वा च रुषितोऽभ्यागतः। त्वरितं च तस्माद्देशादागतः। अशोकेनापि पाटलिपुत्रे नगरे एकस्मिन् द्वारे एको नग्नः स्थापितः, द्वितीये, तृतीये राधगुप्तः, पूर्वद्वारे स्वयमेव राजा अशोकोऽवस्थितः। राधगुप्तेन च पूर्वस्मिन् द्वारे यन्त्रमयो हस्ती स्थापितः। अशोकस्य च प्रतिमां परिखां खनयित्वा खदिराङ्गारैश्च पूरयित्वा तृणेनाच्छाद्य पांशुनाकीर्णा। सुसीमश्चाभिहितः-यदि शक्यसेऽशोकं घातयितु राजेति (?)। स यावत्पूर्वद्वारं गतः - अशोकेन सह योत्स्यामीति। अङ्गारपूर्णायां परिखायां पतितः। तत्रैव चानयेन व्यसनमापन्नः। यदा च सुसीमः प्रघातितः, तस्यापि महानग्नो भद्रायुधो नाम्ना अनेकसहस्रपरिवारः, स भगवच्छासने प्रव्रजितोऽर्हन् संवृत्तः॥



यदा अशोको राज्ये प्रतिष्ठितः स तैरमात्यैरवज्ञया दृश्यते। तेनामात्यानामभिहितम्-भवन्तः, पुष्पवृक्षान् फलवृक्षांश्च छित्त्वा कण्टकवृक्षान् परिपालयथ। अमात्या आहुः-देवेन कुत्र दृष्टम् ? अपि तु कण्टकवृक्षान् छित्त्वा पुष्पवृक्षान् फलवृक्षांश्च परिपालयितव्यम्। तैर्यावत् त्रिरपि राज्ञ आज्ञा प्रतिकूलिता, ततो राज्ञा रुषितेन असिं निष्कोशं कृत्वा पञ्चानाममात्यशतानां शिरांसि छिन्नानि। यावद्राजा अशोकोऽपरेण समयेनान्तःपुरपरिवृतो वसन्तकालसमये पुष्पिकाफलितेषु पादपेषु पूर्वनगरस्योद्यानं गतः। तत्र च परिभ्रमता अशोकवृक्षः सुपुष्पितो दृष्टः। ततो राज्ञो ममायं सहनामा इत्यनुनयो जातः। स च राजा अशोको दुःस्पर्शगात्रः। ता युवतयस्तं नेच्छन्ति स्प्रष्टुम्। यावद्राजा शयितः, तस्यान्तःपुरेण रोषेण तस्मादशोकवृक्षात् पुष्पाणि शाखाश्च छिन्नाः। यावद्राज्ञा प्रतिबुद्धेन सोऽशोकवृक्षो दृष्टः, पृष्टश्च- केन तच्छिन्नम् ? ते कथयन्ति-देव, अन्तःपुरिकाभिरिति। श्रुत्वा च राज्ञा अमर्षजातेन पञ्च स्त्रीशतानि किटिकै संवेष्ट्य दग्धानि। तस्येमान्यशुभान्यालोक्य चण्डो राजा चण्डाशोक इति व्यवस्थापितः। यावद्राधगुप्तेनाग्रामात्येनाभिहितः-देव, न सदृशं स्वयमेवेदृशमकार्यं कर्तुम्। अपि तु देवस्य वध्यघातकाः पुरुषाः स्थापयितव्याः , ये देवस्य वध्यकरणीयं शोधयिष्यन्ति। यावद्राज्ञा राजपुरुषाः प्रयुक्ताः- वध्यघातं मे मार्गध्वेति।



यावत् तत्र नातिदूरे पर्वतपादमूले कर्वटकम्। तत्र तन्त्रवायः प्रतिवसति तस्य पुत्रो जातः। गिरिक इति नामधेयं कृतम्। चण्डो दुष्टात्मा मातरं पितरं च परिभाषते, दारकदारिकाश्च ताडयति, पिपीलिकान् मक्षिकान् मूषिकान् मत्स्यांश्च जालेन बडिशेन प्रघातयति। चण्डो दारकस्तस्य चण्डगिरिक इति नामधेयं कृतम्। यावद्राजपुरुषैर्दृष्टः पापे कर्मणि प्रवृत्तः। स तैरभिहितः-शक्यसे राज्ञोऽशोकस्य वध्यकरणीयं कर्तुम् ? स आह -कृत्स्नस्य जम्बुद्वीपस्य वध्यकरणीयं साधयिष्यामीति। यावद्राज्ञो निवेदितम्। राज्ञा अभिहितम्-आनीयतामिति। स च राजपुरुषैरभिहितः-आगच्छ, राजा त्वामाह्वयतीति। तेनाभिहितम्-आगमयत, यावदहं मातापितरौ अवलोकयामीति। यावन्मातापितरौ उवाच-अम्ब तात, अनुजानीध्वम्। यास्याम्यहं राज्ञोऽशोकस्य वध्यकरणीयं साधुयितुम्। ताभ्यां च स निवारितः। तेन तौ जीविताद्व्यपरोपितौ। एवं यावद्राजपुरुषैरभिहितः -किमर्थं चिरेणाभ्यागतोऽसि ? तेन चैतत्प्रकरणं विस्तरेणारोचितम्। स तैर्यावद्राज्ञोऽशोकस्योपनामितः। तेन राज्ञोऽभिहितम्-ममार्थाय गृहं कारयस्वेति। यावद्राज्ञा गृहं कारापितं परमशोभनं द्वारमात्ररमणीयम्। तस्य रमणीयकं बन्धनमिति संज्ञा व्यवस्थापिता। स आह-देव, वरं मे प्रयच्छ, यस्तत्र प्रविशेत्तस्य न भूयो निर्गम इति। यावद्राज्ञाभिहितम्-एवमस्तु इति॥



ततः स चण्डगिरिकः कुर्कुटारामं गतः। भिक्षुश्च बालपण्डितः सूत्रं पठति। सत्त्वा नरकेषूपपन्नाः। यावन्नरकपाला गृहीत्वा अयोमय्यां भूमौ आदीप्तायां संप्रज्वलितायामेकज्वालीभूतायामुत्तानकान् प्रतिष्ठाप्य आयोमयेन विष्कम्भकेन मुखद्वारं विष्कम्भ्य आयोगुडानादीप्तान् प्रदीप्तान् संप्रज्वलितानेकज्वालीभूतानास्ये प्रक्षिपन्ति, ये तेषां सत्त्वानामोष्ठौ अपि दहन्ति, जिह्वामपि कण्टमपि कण्ठनालमपि हृदयमपि हृदयसामन्तमपि अन्त्राण्यन्त्रगुणानपि दग्ध्वा अधः प्रघरति। एवं दुःखा हि भिक्षवो नारकाः सत्त्वा नरकेषूपपन्नाः। यावन्नरकपाला गृहीत्वा अयोमय्यां भूमौ आदीप्तायां संप्रज्वलितायामेकज्वालीभूतायामुत्तानकान् प्रतिष्ठाप्य आयोमयेन विष्कम्भकेन मुखद्वारं विष्कम्भ्य क्कथितं ताम्रमास्ये प्रक्षिपन्ति,यत्तेषां सत्त्वानामोष्ठावपि दहति, जिह्वामपि ताल्वपि कण्ठमपि कन्ठनालमपि अन्त्राण्यन्त्रगुणानपि दग्ध्वा अधः प्रघरति। एवं दुःखा हि भिक्षवो नरकाः। सन्ति सत्त्वा नरकेषूपपन्ना यान्नरकपाला गृहीत्वा अयोमय्यां भूमौ आदीप्तायां संप्रज्वलितायामेकज्वालीभूतायामवाङ्मुखान् प्रतिष्ठाप्य आयोमयेन सूत्रेणादीप्तेन संप्रज्वलितेनैकज्वालीभूतेनास्फाट्य अयोमयेन कुठारेणादीप्तेन संप्रदीप्तेन संप्रज्वलितेनैकज्वालीभूतेन तक्ष्णुवन्ति संतक्ष्णुवन्ति संप्रतक्ष्णुवन्ति अष्टांशमपि षडंशमपि चतुरस्रमपि वृत्तमपि मण्डलमपि उन्नतमपि अवनमपि शान्तमपि विशान्तमपि तक्ष्णुवन्ति। एवं दुःखा हि भिक्षवो नरकाः। सन्ति सत्त्वा नरकेषूपपन्ना यान्नरकपाला गृहीत्वा अयोमय्यां भूमौ आदीप्तायां प्रदीप्तायां संप्रज्वलितायामकेज्वालीभूतायामवाङ्मुखान् प्रतिष्ठाप्य आयोमयेन सूत्रेणादीप्तेन प्रदीप्तेन संप्रज्वलितेनैकज्वालीभूते नास्फाट्य आयोमय्यां भूम्यामादीप्तायां प्रदीप्तायां संप्रज्वलितायामेकज्वलीभूतायां तक्ष्णुवन्ति संतक्ष्णुवन्ति संपरितक्ष्णुवन्ति, अष्टांशमपि षडंशमपि चतुरस्रमपि मण्डलमपि उन्नतमपि अवनतमपि शान्तमपि विशान्तमपि तक्ष्णुवन्ति। एवं दुःखा हि भिक्षवो नरकाः। सन्ति सत्त्वा नरकेषूपपन्ना यान्नरकपाला गृहीत्वा अयोमय्यां भूमावदीप्तायां प्रदीप्तायां संप्रज्वलितायामेकज्वालीभूतायामुत्तानकान् प्रतिष्ठाय पञ्चविषटबन्धनां कारणां कारयन्ति, उभयोर्हस्तयोरासौ कीलौ क्रामन्ति, उभयोः पादयोरायसे कीले क्रामन्ति, मध्ये हृदयस्यायसं कीलं क्रामन्ति। (एवं) सुदुःखा हि भिक्षवो नरकाः। एवं पञ्च वेदना इति कुरुते सदृशाश्च कारणाः सत्त्वानामारब्धाः कारयितुम्॥



यावत् श्रावस्त्यामन्यतमः सार्थवाहः पत्न्या सह महासमुद्रमवतीर्णः। तस्य सा पत्नी महासमुद्रे प्रसूता। दारको जातः। तस्य समुद्र इति नामधेयं कृतम्। यावद्विस्तरेण द्वादशभिर्वर्षैर्महासमुद्रादुत्तीर्णः। स च सार्थवाहः पञ्चभिर्धूर्तशतैर्मुषितः। सार्थवाहः स प्रघातितः। स च समुद्रः सार्थवाहपुत्रो भगवच्छासने प्रव्रजितः। स जनपदचारिकां चरन् पाटलिपुत्रमनुप्राप्तः। स पूर्वाह्णे निवास्य पात्रचीवरमादाय पाटलिपुत्रं पिण्डाय प्रविष्टः। सोऽनभिज्ञतया च रमणीयकं भवनं प्रविष्टः। तच्च द्वारमात्ररमणीयमभ्यन्तरं नरकभवनसदृशं प्रतिभयम्। दृष्ट्वा च पुनर्निर्गन्तुकामश्चण्डगिरिकेनावलोकितः। गृहीत्वा चोक्तः-इह ते निधनमुपगन्तव्यमिति। विस्तरेण कार्यम्। ततो भिक्षुः शोकार्तो बाष्पकण्ठः संवृत्तः। तेनोच्यते-किमिदं बालदारक इव रुदसीति ? स भिक्षुः प्राह-



न शरीरविनाशं हि शोचामि सर्वशः।

मोक्षधर्मान्तरायं तु शोचामि भृशमात्मनः॥६७॥



दुर्लभं प्राप्यं मानुष्यं प्रव्रज्यां च सुखोदयाम्।

शाक्यसिंहं च शास्तारं पुनस्त्यक्ष्यामि दुर्मतिः॥ ६८॥



तेनोच्यते-दत्तवरोऽहं नृपतिना। धीरो भव। नास्ति ते मोक्ष इति। ततः सकरुणैर्वचनैर्स्तं भिक्षुः क्रमं याचति स्म मासं यावत्। सप्तरात्रमनुज्ञातः। स खलु मरणभयोद्विग्नहृदयः सप्तरात्रेण मे न भवितव्यमिति व्यायतमतिः संवृत्तः॥



अथ सप्तमे दिवसेऽशोकस्य राज्ञोऽन्तःपुरिकां कुमारेण सह संरक्तां निरीक्षमाणां संलपन्तीं च दृष्ट्वा सहदर्शनादेव रुषितेन राज्ञा तौ द्वावपि तं चारकमनुप्रेषितौ। तत्र मुसलैरयोद्रोण्यामस्थ्यवशेषौ कृतौ। ततो भिक्षुस्तौ दृष्ट्वा संविग्नः प्राह-



अहो कारिणिकः शास्ता सम्यगाह महामुनिः।

फेनपिण्डोपमं रूपमसारमनवस्थितम्॥६९॥



क्क तद्वदनकान्तित्वं गात्रशोभा क्क सा गता।

धिगस्त्वयं संसारो रमन्ते यत्र बालिशाः। ७०॥



इदमालम्बनं प्राप्तं चारके वसता मया।

यमाश्रित्य तरिष्यामि पारमद्य भवोदधेः॥ ७१॥



तेन तां रजनीं कृत्स्नां युज्यता बुद्धशासने।

सर्वसंयोजनं छित्त्वा प्राप्तमर्हत्त्वमुत्तमम्॥७२॥



ततस्तस्मिन् रजनीक्षये स भिक्षुश्चण्डगिरिकेनोच्यते - भिक्षो, निर्गता रात्रिः। उदित आदित्यः। कारणाकालस्तवेति। ततो भिक्षुराह-दीर्घायुः, ममापि निर्गता निर्गता रात्रिः, उदित आदित्यः। परानुग्रहकाल इति। यथेष्टं वर्ततामिति। चण्डागिरिकः प्राह-नावगच्छामि। विस्तीर्यतां वचनमेतदिति। ततो भिक्षुराह -



ममापि हृदयाद्धोरा निर्गता मोहशर्वरी।

पञ्चावरणसंछन्ना क्लेशतस्करसेविता॥७३॥



उदितो ज्ञानसूर्यश्च मनोनभसि मे शुभः।

प्रभया यस्य पश्यामि त्रैलोक्यमिह तत्त्वतः॥७४।



परानुग्रहकालो मे शास्तुर्वृत्तानुवर्तिनः।

इदं शरीरं दीर्घायुर्यथेष्टं क्रियतामिति॥ ७५॥



ततस्तेन निर्घृणेन दारुणहृदयेन परलोकनिरपेक्षेण रोषाविष्टेन बहूदकायां स्थाल्यां नररुधिरवसामूत्रपुरीषसंकुलायां महालोह्यां प्रक्षिप्तः। प्रभूतेन्धनैश्चाग्निः प्रज्वालितः। स च बहुनापीन्धनक्षयेन न संतप्यते। ततः प्रज्वालयितुं (प्रारब्धः)। यदा तदापि न प्रज्वलति, ततो विचार्य तां लोहीं, पश्यति तं भिक्षुं पद्मस्योपरि पर्यङ्केनोपविष्टम्। दृष्ट्वा च ततो राज्ञे निवेदयामास। अथ राजनि समागते प्राणिसहस्रेषु संनिपतितेषु स भिक्षुर्वैनेयकालमवेक्षमाणः -



रिद्धिं समुत्पाद्य स तन्मुहूर्तं

लोह्यन्तरस्थः सलिलार्द्रगात्रः।

निरीक्षमाणस्य जनस्य मध्ये

नभस्तलं हंस इवोत्पपात॥७६॥



विचित्राणि च प्रातिहार्याणि दर्शयितुमारब्ध। वक्ष्यति हि -



अर्धेन गात्रेण ववर्ष तोय -

मर्धेन जज्वाल हुताशनश्च।

वर्षन् ज्वलंश्चैव रराज यः खे

दीप्तौषधिप्रस्रवणेव शैलः॥ ७७॥



तमुद्गतं व्योम्नि निशाम्य राजा

कृताञ्जलिर्विस्मयफुल्लवक्त्रः।

उद्वीक्षमाणस्तमुवाच धीरं

कौतूहलात्किंचिदहं विवक्षुः॥७८॥



मनुष्यतुल्यं तव सौम्य रूपं

ऋद्धिप्रभावस्तु नरानतीत्य।

न निश्चयं तेन विमो व्रजामि

को नाम भावस्तव शुद्धभाव॥७९॥



तत्सांप्रतं ब्रूहि ममेदमर्थं

यथा प्रजानामि तव प्रभावम्।

ज्ञात्वा च ते धर्मगुणप्रभावान्।

यथाबलं शिष्यवदाचरेयम्॥८०॥



ततो भिक्षुः प्रवचनपरिग्राहकोऽयं भविष्यति, भगवद्धातुं च विस्तरीं करिष्यति, महाजनहितार्थं च प्रतिपत्स्यत इति मत्वा स्वगुणमुद्भावयंस्तमुवाच-



अहं महाकारुणिकस्य राजन्

प्रहीणसर्वाश्रवबन्धनस्य।

बुद्धस्य पुत्रो वदतां वरस्य

धर्मान्वयः सर्वभवेष्वसक्तः॥८१॥



दान्तेन दान्तः पुरुषर्षभेण

शान्तिं गतेनापि शमं प्रणीतः।

मुक्तेन संसारमहाभयेभ्यो

निर्मोक्षितोऽहं भवबन्धनेभ्यः॥ ८२॥



अपि च। महाराज, त्वं भगवता व्याकृतः-वर्षशतपरिनिर्वृतस्य मम पाटलिपुत्रे नगरेऽशोको नाम राजा भविष्यति चतुर्भागचक्रवर्ती धर्मराजः, यो मे शरीरधातून् वैस्तारिकान् करिष्यति, चतुरशीतिं धर्मराजिकासहस्रं प्रतिष्ठापयिष्यति। इदं च देवेन नरकसदृशं स्थानमेव स्थापितं यत्र प्राणिसहस्राणि निपात्यन्ते। तदर्हसि। देव सर्वसत्त्वेभ्योऽभयप्रदानं दातुम्, भगवतश्च मनोरथं परिपूरयितुम्। आह च-



तस्मान्नरेन्द्र अभयं प्रयच्छ

सत्त्वेषु कारुण्यपुरोजवेषु।

नाथस्य संपूर्य मनोरथं च

विस्तारिकान् धर्मधरान् कुरुष्व॥८३॥



अथ स राजा बुद्धे समुपजातप्रसादः कृतकरसंपुटस्तं भिक्षुं क्षमयन्नुवाच-



दशबलसुत क्षन्तुमर्हसीमं

कुकृतमिदं च तवाद्य देशयामि।

शरणमृषिमुपैमि तं च बुद्धं

गणवरमार्यनिवेदितं च धर्मम्॥८४॥



अपि च -

करोमि चैष व्यवसायमद्य तं

तद्गौरवात्तत्प्रवणप्रसादात्।

गां मण्डयिष्यामि जिनेन्द्रचैत्यै -

र्हंसांशशङ्खेन्दुबलाककल्पैः॥८५॥



यावत् स भिक्षुस्तदेव ऋद्ध्या प्रक्रान्तः। अथ राजा आरब्धो निष्क्रामितुम्। ततश्चण्डगिरिकः कृताञ्जलिरुवाच-देव, लब्धवरोऽहम्। नैकस्य विनिर्गम इति। राजा आह-मा तावन्ममापीच्छसि घातयितुम्। स उवाच-एवमेव। राजा आह-कोऽस्माकं प्रथमतरं प्रविष्टः ? चण्डगिरिक उवाच-अहम्। ततो राज्ञा अभिहितम्। कोऽत्रेति ? यावद्वध्यघातैर्गृहीतः। गृहीत्वा च यन्त्रगृहं प्रवेशितः। प्रवेशयित्वा दग्धः। तच्च रमणीयकं बन्धनमपनीतम् सर्वसत्त्वेभ्यश्चाभयप्रदानमनुप्रदत्तम्। ततो राजा भगवच्छरीरधातुं विस्तरीष्यामीति चतुरङ्गेन बलकायेन गत्वा अजातशत्रुप्रतिष्ठापितं द्रोणस्तूपमुत्पाट्य शरीरधातुं गृहीतवान्। यत्रोद्धारणं च विस्तरेण कृत्वा धातुप्रत्यशं दत्वा स्तूपं प्रतिष्ठाप्य एवं द्वितीयं स्तूपम् विस्तरेण भक्तिमतो यावत्सप्तद्रोणाद्ग्रहाय स्तूपांश्च प्रतिष्ठाप्य रामग्रामं गतः। ततो राजा नागैर्नागभवनमवतारितः, विज्ञाप्तश्च-वयमस्यात्रैव पूजां करिष्याम इति। यावद्राज्ञा अभ्यनुज्ञातम्। ततो नागराजा पुनरपि नागभवनादुत्तारितः। वक्ष्यति हि -



रामग्रामे त्वष्टमं स्तूपमद्य

नागास्तत्कालं भक्तिमन्तो ररक्षुः।

धातून्येतस्मान्नोपलेभे स राजा

श्रद्धाभू (?) राजा चिन्तयति यस्त्वेतत्कृत्वा जगाम॥८६॥



यावद्राजा चतुरशीतिकरण्डसहस्रं कारयित्वा सौवर्णरूप्यस्फटिकवैडूर्यमयानां तेषु धातवः प्रक्षिप्ताः। एवं विस्तरेण चतुरशीतिकुम्भसहस्रं पट्टसहस्रं च यक्षाणां हस्ते दत्वा विसर्जितम्-आसमुद्रायां पृथिव्यां हीनोत्कृष्टमध्यमेषु नगरेषु यत्र कोटिः परिपूर्यते, तत्र धर्मराजिकां प्रतिष्ठापयितव्यम्॥



तस्मिन् समये तक्षशिलायां षट्‌त्रिंशत्कोटयः। तैरभिहितम्-षट्‌त्रिंशत्करण्डकाननुप्रयच्छेति। राजा चिन्तयाति- न यदि वैस्तारिका धातवो भविष्यन्ति। उपायज्ञो राजा। तेनाभिहितम्- पञ्चत्रिंशत्कोटयः शोधयितव्याः। विस्तरेण यावद्राज्ञा अभिहितम्-यत्राधिकतरा भवन्ति, यत्र च न्यूनतराः, तत्र न दातव्यम्॥



यावद्राजा कुर्कुटारामं गत्वा स्थविरयशसमभिगम्योवाच-अयं मे मनोरथः-एकस्मिन् दिवसे एकस्मिन्मुहूर्ते चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापयेयमिति। स्थविरेणाभिहितम्-एवमस्तु। अहं तस्मिन् समये पाणिनां सूर्यमण्डलं प्रतिच्छादयिष्यामीति। यावत् तस्मिन् दिवसे स्थविरयशसा पाणिना सूर्यमण्डलं प्रतिच्छादितम्। एकस्मिन् दिवसे एकमुहूर्ते चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितम्। वक्ष्यति च-



ताभ्यः सप्तभ्यः पूर्विकाभ्यः कृतिभ्यो

धातुं तस्य ऋषेः स ह्युपादाय मौर्यः।

चक्रे स्तूपानां शारदाभ्रप्रभानां

लोके साशीति शासदह्ना सहस्रम्॥८७॥



यावच्च राज्ञा अशोकेन चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितम्, धार्मिको धर्मराजा संवृत्तः। तस्य धर्माशोक इति संज्ञा जाता। वक्ष्यति च -



आर्यमौर्यश्रीः स प्रजानां हितार्थं

कृत्स्नं स्तूपान् कारयामास लोकम्।

चण्डाशोकत्वं प्राप्य पूर्वं पृथिव्यां

धर्माशोकत्वं कर्मणा तेन लेभे॥८८॥



पांशुप्रदानावदानं षड्विंशतिमम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project