Digital Sanskrit Buddhist Canon

११ अशोकवर्णावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 11 aśokavarṇāvadānam
११ अशोकवर्णावदानम्।



एवं मया श्रुतम्। एकस्मिन् समये भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैरसुरैर्यक्षैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो वैशाल्यां विहरति स्म मर्कटह्रदतीरे कूटागारशालायाम्। तेन खलु समयेन वैशालिका लिच्छवय इदमेवंरूपं क्रियाकारमकार्षुः-पञ्चदश्यां भवन्तः पक्षस्य अष्टम्यां चतुर्दश्यां च प्राणिनो हन्तव्याः यत्कारणमेयुर्मनुष्या मांसमन्वेषन्त इति। तेन खलु समयेन अन्यतमो गोघातको महान्तं वृषभमादाय नगरान्निष्क्रमति प्रघातयितुम्। तमेनं महाजनकायः पृष्ठतः पृष्ठतः समनुबद्धो मांसार्थी कथयति- शीघ्रमेनं वृषं घातय, वयं मांसेनार्थिन इति। स कथयति - एवं करिष्यामि, किं तु मुहूर्तमुदीक्षध्वमिति। ततो वृष ईदृशमनार्यं वचो दुरुक्तं श्रुत्वा भीतस्त्रस्तः संविग्न आहृष्टरोमकूप इतश्चामुतश्च संभ्रान्तो निरीक्षते, चिन्तयति च-को मां कृच्छ्रसंकटसंबाधप्राप्तमत्राणमशरणमिष्टेन जीवितेनाच्छादयेदिति। स चैवं विह्वलवदनस्त्राणान्वेषी तिष्ठति। भगवांश्च पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो वैशालीं पिण्डाय प्राविशत्। अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतमशीत्यानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं महापुरुषलक्षणैः समलंकृतमशीत्यानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समन्ततो भद्रकम्। सहदर्शनैश्चास्य भगवतोऽन्तिके चित्तमभिप्रसन्नम्। प्रसन्नचित्तश्च संलक्षयति-प्रासादिकोऽयं सत्त्वविशेषः। शक्ष्यत्येषो मम प्राणपरित्राणं कर्तुम्। यन्न्वहमेनमुपसंक्रमेयमिति। अथ स वृषो भगवत्यवेक्षावान् प्रतिबद्धचित्तः एषो मे शरणमिति सहस्रैव तानि दृढानि वरत्रकाणि बन्धनानि छित्त्वा प्रधावन् येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्योभाभ्यां जानुभ्यां भगवतः पादयोर्निपत्य पादौ जिह्वया निलेढुमारब्धः। स चास्य रौद्रकर्मा गोघातकः पृष्ठतः पृष्ठतः समनुबद्ध एव शस्त्रव्यग्रहस्तः। ततो भगवांस्तं रौद्रकर्माणं गोघातकमिदमवोचत् -कुरुष्व त्वं भोः पुरुष अनेन गोवृषभेण सार्धं सात्म्यम्। जीवितेनाच्छादयेति। स कथयति- नाहं भदन्त प्रभवाम्येनं जीवितेनाच्छादयितुम्। तत्कस्य हेतोः ? मया एष बहुना मूल्येन क्रीतः। पुत्रदारं च मे बहु पोषितव्यमिति। भगवानाह-यदि मूल्यं दीयते, प्रतिमुञ्चसीति ?। स कथयति-प्रतिमोक्ष्यामि भगवन्निति। अथ भगवांल्लौकिकचित्तमुत्पादयति-अहो बत शक्रो देवेन्द्रस्त्रीणि कार्षापणसहस्राण्यादायागच्छेदिति। सहचित्तोत्पादाद्भगवतः शक्रो देवेन्द्रः कार्षापणसहस्रत्रयमादाय भगवतः पुरस्तादस्थात्। अथ भगवान् शक्रं देवेन्द्रमिदमवोचत्-अनुप्रयच्छ कौशिक अस्य गोघातकस्य त्रिगुणं मूल्यम्। अदाच्छक्रो देवेन्द्रस्तस्य गोघातकस्य कार्षापणत्रयसरस्रं वृषमूल्यम्। अथ गोघातकः कार्षापणसहस्रत्रयं वृषमूल्यं गृहीत्वा हृष्टस्तुष्टः प्रमुदितो भगवतः पादौ शिरसा वन्दित्वा तं गोवृषं बन्धनान्मुक्त्वा प्रक्रान्तः। शक्रो देवेन्द्रो भगवतः पादौ शिरसा वन्दित्वा तत्रैवान्तर्हितः॥



अथ गोवृषो गतप्रत्यागतप्राणो भूयस्या मात्रया भगवत्यभिप्रसन्नो भगवन्तं त्रिः प्रदक्षिणीकृत्य पृष्ठतः पृष्ठतः समनुबद्धो भगवतो मुखं व्यवलोकयमानोऽस्थात्। अथ भगवान् स्मितमकार्षीत्। धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति, तस्मिन् समये नीलपीतलोहितावदाताः पुष्पपरागपद्मरागवज्रवैदूर्यमुसारगल्वार्कलोहितकादक्षिणावर्तशङ्खशिलाप्रवालजातरूपरजतवर्णा अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छन्ति, काश्चिदुपरिष्टाद्गच्छन्ति। या अधस्ताद्गच्छन्ति, ताः संजीवं कालसूत्रं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहवं हुहुवमुत्पलं पद्मं महापद्मपर्यन्तान् नरकान् गत्वा ये उष्णनरकास्तेषु शीतीभूत्वा निपतन्ति, ये शीतनरकास्तेषूष्णीभूत्वा निपतन्ति। तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते। तेषामेवं भवति- किं नु वयं भवन्त इतश्च्युताः, आहोस्विदन्यत्रोपपन्ना इति। तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति। तेषां निर्मितं दृष्ट्वा एवं भवति - न ह्येव वयं भवन्त इतश्च्युताः, नाप्यन्यत्रोपपन्ना इति। अपि त्वयमपूर्वदर्शनः सत्त्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति। ते निर्मिते चित्तमभिप्रसाद्य तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसंधिं गृह्णन्ति यत्र सत्यानां भाजनभूता भवन्ति। या उपरिष्टाद्गच्छन्ति, ताश्चातुर्महाराजकायिकान् देवांस्त्रायस्त्रिंशान् यामांस्तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान् परीत्तशुभानप्रमाणशुभान् शुभकृत्स्नाननभ्रकान् पुण्यप्रसवान् बृहत्फलानबृहानतपान् सुदृशान् सुदर्शनानकनिष्ठपर्यन्तान् देवान् गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्धोषयन्ति। गाथाद्वयं भाषन्ते-



आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने।

धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥१॥



यो ह्यस्मिन् धर्मविनये अप्रमत्तश्चरिष्यति।

प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति॥२॥ इति।



अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवन्तमेव पृष्ठतः पृष्ठतः समनुगच्छन्ति। तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतोऽन्तर्धीयन्ते। अनागतं व्याकर्तुकामो भवति, पुरस्तादन्तर्धीयन्ते। नरकोपपत्तिं व्याकर्तुकामो भवति, पादतलेऽन्तर्धीयन्ते। तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्यामन्तर्धीयन्ते। प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठेऽन्तर्धीयन्ते। मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोरन्तर्धीयन्ते। बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतलेऽन्तर्धीयन्ते। चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतलेऽन्तर्धीयन्ते। देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्यामन्तर्धीयन्ते। श्रावकबोधिं व्याकर्तुकामो भवति, आस्येऽन्तर्धीयन्ते। प्रत्येकां बोधिं व्याकर्तुकामो भवति, ऊर्णायामन्तर्धीयन्ते। अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषेऽन्तर्धीयन्ते। अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायामन्तर्हिताः॥



अथायुष्मानानन्दः कृतकरपुटो भगवन्तं पप्रच्छ-

नानाविधो रङ्गसहस्रचित्रो

वक्त्रान्तरान्निष्कसितः कलापः।

अवभासिता येन दिशः समन्ता-

द्दिवाकरेणोदयता यथैव॥३॥



गाथां च भाषते-

विगतोद्भवा दैन्यमदप्रहीणा

बुद्धा जगत्युत्तमहेतुभूताः।

नाकारणं शङ्खमृणालगौरं

स्मितमुपदर्शयन्ति जिना जितारयः॥४॥



तत्कालं स्वयमधिगम्य धीर बुद्ध्या

श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्।

धीराभिर्मुनिवृष वाग्भिरुत्तमाभि-

रुत्पन्नं व्यपनय संशयं शुभाभिः॥५॥



नाकस्माल्लवणजलाद्रिराजधैर्याः

संबुद्धाः स्मितमुपदर्शयन्ति नाथाः।

यस्यार्थे स्मितमुपदर्शयन्ति धीरा-

स्तं श्रोतुं समभिलषन्ति ते जनौघाः॥६॥ इति॥



भगवानाह -एवमेतदानन्द, एवमेतत्। नाहेत्वप्रत्ययमानन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति। दृष्टस्ते आनन्द अयं गोवृषः ? दृष्टो भदन्त। एष आनन्द गोवृषस्तथागतस्यान्तिके प्रसन्नचित्तः सप्तमे दिवसे कालं कृत्वा चातुर्महाराजिकेषु देवेषूपपत्स्यते। वैश्रवणस्य महाराजस्य पुत्रो भविष्यति। ततश्च्युत्वा त्रायस्त्रिंशेषु देवेषूपपत्स्यते। शक्रस्य देवेन्द्रस्य पुत्रो भविष्यति। ततश्च्युत्वा यामेषु देवेषूपपत्स्यते। यामस्य देवस्य पुत्रो भविष्यति। ततश्च्युत्वा तुषितेषु देवेषूपपत्स्यते। स तुषितस्य देवस्य पुत्रो भविष्यति। ततश्च्युत्वा निर्माणरतिषु देवेषूपपत्स्यते। सुनिर्मितस्य देवपुत्रस्य पुत्रो भविष्यति। ततश्च्युत्वा परनिर्मितवशवर्तिषु देवेषूपपत्स्यते। वशवर्तिनो देवपुत्रस्य पुत्रो भविष्यति। तदनया संतत्या नवनवतिकल्पसहस्राणि विनिपातं न गमिष्यति। ततः कामावचरेषु देवेषु दिव्यं सुखमनुभूय पश्चिमे भवे पश्चिमे निकेते समुच्छ्रये पश्चिमे आत्मभावप्रतिलम्भे मनुष्यत्वं प्रतिलभ्य राजा भविष्यति अशोकवर्णो नाम चक्रवर्ती चतुरर्णवान्तविजेता धार्मिको धर्मराजः सप्तरत्नसमन्वागतः। तस्येमान्येवंरूपाणि सप्त रत्नानि भविष्यन्ति। तद्यथा-चक्ररत्नं हस्तिरत्नमश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नमेव सप्तमम्। पूर्णं चास्य भविष्यति सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणा परसैन्यप्रमर्दकानाम्। स इमामेव समुद्रपर्यन्तां महापृथिवीमखिलामकण्टकामनुत्पीडामदण्डेनाशस्त्रेण धर्म्येण समयेनाभिनिर्जित्य अध्यावत्स्यति। सोऽपरेण समयेन दानानि दत्वा चक्रवर्तिराज्यमपहाय केशश्मश्रूण्यवतार्य काषायाणि वस्त्राणि ...सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रज्य प्रत्येकां बोधिं साक्षात्करिष्यति, अशोकवर्णो नाम प्रत्येकबुद्धो भविष्यति। अथायुष्मानानन्दः कृतकरपुटो भगवन्तं पप्रच्छ-किं भदन्त अनेन गोवृषेण कर्म कृतं येन तिर्यग्योनावुपपन्नः, किं कर्म कृतं येन दिव्यमानुषसुखमनुभूय प्रत्येकां बोधिमधिगमिष्यति ? भगवानाह - अनेनैव आनन्द गोवृषेण कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत्प्रत्युपस्थितान्यवश्यंभावीनि। गोवृषेण कर्माणि कृतान्युपचितानि। कोऽन्यः प्रत्यनुभविष्यति ? न ह्यानन्द कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभाशुभानि च।



न प्रणश्यन्ति कर्माणि अपि कल्पशतैरपि।

सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्॥७॥



भूतपूर्वमानन्द अतीतेऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स बन्धुमतीं राजधानीमुपनिश्रित्य विहरति, अन्यतमस्मिन् वनषण्डे। तस्य नातिदूरे षष्टिभिक्षवः प्रतिवसन्त्यारण्यकाः पिण्डपातिकाः। सर्वे च वीतरागा विगतद्वेषा विगतमोहा यावत् पञ्चमात्राणि धूर्तकशतानि तेन तेनाहिण्ड्यमानानि तं प्रदेशमनुप्राप्तानि। तेषामेतदभवत्-एते हि प्रव्रजिता महात्मानः ईदृशेषु स्थानेष्वभिरमन्ते। यद्येषां जीवितोपच्छेदं न करिष्यामः, न भूय एतस्मिन् प्रदेशे स्वस्थैर्विहर्तव्यं भविष्यति। यद्यप्येते महात्मानः सर्वसत्त्वहितोदयप्रवृत्ता न परेषामारोचयिष्यन्ति, तथाप्येषां प्रधानपुरुषा उपसंक्रमिष्यन्ति। तेऽस्माकं राज्ञः समर्पयिष्यन्ति। तत्रास्माभिश्चारकावरुद्धैर्मर्तव्यं भविष्यति। कथमत्र प्रतिपत्तव्यमिति ? एकस्तत्रैव निर्घृणहृदयस्त्यक्तपरलोकः। स कथयति-अघातयित्वा एतान् कुतः क्षेम इति ? तैस्ते जीविताद्व्यपरोपिताः। ते चैतत्कर्म कृत्वा पापकमकुशलमेकनवतिकल्पानपायेषूपपन्नाः। यद्भूयसा तु नरकेषु तिर्यग्योनौ उपपन्नाश्च सन्तो नित्यं शस्त्रेण प्रघातिताः। तत्र योऽसौ चौरस्तेषां समादापकः, स एवायं गोवृषः। तस्य कर्मणो विपाकेन इयन्तं कालं न कदाचित् सुगतौ उपपन्नः। यत्पुनरिदानीं ममान्तिके चित्तं प्रसादितम् , तस्य कर्मणो विपाकेन दिव्यं मानुषं सुखमनुभूय प्रत्येकां बोधिमधिगमिष्यति। एवं हि आनन्द तथागतानां चित्तप्रसादोऽप्यचिन्त्यविपाकः, किं पुनः प्रणिधानम्। तस्मात्तर्हि आनन्द एवं शिक्षितव्यं यत्स्तोकस्तोकं मुहूर्तमुहूर्तमन्ततोऽच्छटासंघातमात्रमपि तथागतमाकारतः समनुस्मरिष्यामीत्येवं ते आनन्द शिक्षितव्यम्।



अथायुष्मान् आनन्दो भगवतो भाषितमभ्यानन्द्यानुमोद्य भिक्षूणां पुरस्ताद्गाथा भाषते-

अहो नाथस्य कारुण्यं सर्वज्ञस्य हितैषिणः।

सुकृतेनैव वात्सल्यं यस्येदृशमहाद्भुतम्॥ ८॥



आपन्नो हि परं कृच्छ्रं गोवृषो येन मोचितः।

व्याकृतश्च भवे दिव्ये प्रत्येकश्च जिनो ह्यसौ॥ ९॥ इति॥



इदमवोचद्भगवान्। आत्तमनसस्ते भिक्षवो भाषितमभ्यनन्दन्।

इति श्रीदिव्यावदानेऽशोकवर्णावदानमेकादशमम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project