Digital Sanskrit Buddhist Canon

१० मेण्ढकावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
१० मेण्ढकावदानम्।



भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छ्रुः-किं भदन्त मेण्ढकेन मेण्ढकपत्न्या मेण्ढकपुत्रेण मेण्ढकस्नुषया मेण्ढकदासेन मेण्ढकदास्या कर्म कृतं येन षडभिज्ञाता महापुण्याः संवृत्ताः, भगवतोऽन्तिके सत्यानि दृष्टानि, भगवांश्चैभिरारागिनो न विरागित इति ? भगवानाह-एभिरेव भिक्षवः कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत्प्रत्युपस्थितान्यवश्यंभावीनि। एभिः कर्माणि कृतान्युपचितानि। कोऽन्यः प्रत्यनुभविष्यति ? न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्यशुभानि च॥



न प्रणश्यन्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्॥१॥



भूतपूर्वं भिक्षवोऽतीतेऽध्वनि वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरतस्करोगापगतं शालीक्षुगोमहिषीसंपन्नमखिलमकण्टकम्। एकपुत्रमिव राज्यं पालयति। तेन खलु समयेन वाराणस्यां नैमित्तिकैर्द्वादशवर्षिका अनावृष्टिर्व्याकृता। त्रिविधं दुर्भिक्षं भविष्यति-चञ्चु श्वेतास्थि शलाकावृत्ति च। तत्र चञ्चु उच्यते-समुद्गके तस्मिन् मनुष्या बीजानि प्रक्षिप्य अनागते सत्त्वापेक्षया स्थापयन्ति। मृता नाम अनेन ते बीजकायं करिष्यन्तीति। इदं समुद्गकं बुद्ध्वा चञ्चु उच्यते। श्वेतास्थि नाम दुर्भिक्षम्-तस्मिन् काले मनुष्या अस्थीन्युपसंहृत्य तावत् क्काथयन्ति, यावत् तान्यस्थीनि श्वेतानि संवृत्तानीति। ततस्तत्क्काथं पिबन्ति। इदं श्वेतास्थि दुर्भिक्षमित्युच्यते। शलाकावृत्तिर्नाम-तस्मिन् काले मनुष्याः खलु बिलेभ्यो धान्यगुडकानि शलाकया आकृष्य बहूदकस्थाल्यां क्काथयित्वा पिबन्ति। इयं शलाकासंबद्धत्वाच्छलाकावृत्तिरित्युच्यते। ततो राज्ञा ब्रह्मदत्तेन वाराणस्यां घण्टावघोषणं कारितम्-शृण्वन्तु भवन्तो वाराणसीनिवासिनः पौराः। नैमित्तिकैर्द्वादशवर्षिका अनावृष्टिर्व्याकृता शलाकावृत्ति दुर्भिक्षं चञ्चु श्वेतास्थि च। येषां वो द्वादशवार्षिकं भक्तमस्ति, तैः स्थातव्यम्। तेषां नास्ति, ते यथेष्टं गच्छन्तु। विगतदुर्भिक्षभयाः सुभिक्षे पुनरप्युपागमिष्यन्ति। तस्मिंश्च समये वाराणस्यामन्यतमो गृहपतिराढ्यो महाधनो महाभोगो विस्तीर्णपरिवारः। तेन कोष्ठागारिक आहूय उक्तः-भोः पुरुष, भविष्यति मे सपरिवाराणां द्वादश वर्षाणि भक्तमिति ? स कथयति- आर्य भविष्यतीति। स तत्रैवावस्थितः। समनन्तरानुबद्धं चैतत् दुर्भिक्षम्। तस्य कोशकोष्ठागाराः परिक्षीणाः। सर्वश्च परिजनः कालगतः। आत्मना षष्ठो व्यवस्थितः। ततस्तेन गृहपतिना कोशकोष्ठागाराणि शोधयित्वा धान्यप्रस्थ उपसंहृतः। सोऽस्य पत्न्या स्थाल्यां प्रक्षिप्य साधितः। असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनभक्ता एकदक्षिणीया लोकस्य। यावदन्यतमः प्रत्येकबुद्धो जनपदचारिकां चरन् वाराणसीमनुप्राप्तः। स पूर्वाह्णे निवास्य पात्रचीवरमादाय वाराणसीं पिण्डाय प्रविष्टः। स च गृहपतिरात्मना षष्ठोऽवस्थितो भोक्तुम्। स च प्रत्येकबुद्धोऽनुपूर्वेण पिण्डपातमटन् तस्य गृहपतेर्निवेशनमनुप्राप्तः। स तेन गृहपतिना दृष्टश्चित्तप्रासादिकः कायप्रासादिकश्च। दृष्ट्वा च पुनः संलक्षयति-एतदप्यहं परित्यज्य नियतं प्राणैर्वियोक्ष्ये। यन्न्वहं स्वप्रत्यंशमस्मै प्रव्रजिताय दद्यामिति। तेन भार्या अभिहिता-भद्रे, यो मम प्रत्यंशस्तमहमस्मै प्रव्रजितायानुप्रयच्छामीति। सा संलक्षयति- मम स्वामी न परिभूङ्क्ते, कथमहं परिभोक्ष्य इति। सा कथयति-आर्यपुत्र, अहमपि प्रत्यंशमस्मै प्रयच्छामि। एवं पुत्रेण स्नुषया दासेन दास्या च विचार्य स्वस्वप्रत्यंशाः परित्यक्ताः। ततस्तैः सर्वैः संभूय प्रत्येकबुद्धः पिण्डकेन प्रतिपादितः। कायिकी तेषां महात्मनां धर्मदेशना, न वाचिकी। स विततपक्ष इव हंसराज उपरि विहायसमुद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कर्तुमारब्धः। आशु पृथग्जनावर्जनकरी ऋद्धिः। ते मूलनिकृत्ता इव द्रुमाः पादयोर्निपत्य प्रणिधानं कर्तुमारब्धाः।गृहपतिः प्रणिधानं कर्तुमारब्धः-यन्मया एवंविधे सद्भूतदक्षिणीये कारः कृतः, अनेनाहं कुशलमूलेन यदि रिक्तकानि कोशकोष्ठागाराणि सहदर्शनान्मे पूर्णानि स्युः-एवंविधानां च धर्माणां लाभी स्याम्, प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति। पत्नी प्रणिधानं कर्तुमारब्धा-यन्मया एवंविधे सद्भूतदक्षिणीये कारः कृतः, अनेनाहं कुशलमूलेन यद्येकस्यार्थाय स्थालीं पचेयम्, सा शतेनापि परिभुज्येत, सहस्रेणापि, न परिक्षयं गच्छेत्, यावन्मया प्रयोगोऽप्रतिप्रश्रब्धः, इत्येवंविधानां च धर्माणां लाभिनी स्याम्, प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति। पुत्रः प्रणिधानं कर्तुमारब्धः -यन्मया एवंविधे सद्भूतदक्षिणीये कारः कृतः, अनेनाहं कुशलमूलेन पञ्चशतिको नकुलकः कट्यामुपरिबद्धस्तिष्ठेत्, यदि च शतं वा सहस्रं वा ततो व्ययं कुर्यात्, पूर्ण एव तिष्ठेत्, मा परिक्षयं गच्छेत्-एवंविधानां च धर्माणां लाभी स्याम्, प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति। स्नुषा प्रणिधानं कर्तुमारब्धा-यन्मया एवंविधे सद्भूतदक्षिणीये कारः कृतः, अनेनाहं कुशलमूलेन यद्येकस्य गन्धं योजयेयम्, शतं वा सहस्रं वा गन्धं घ्रास्यति, तं न च परिक्षयं गच्छेयुर्यावन्मया अप्रतिप्रश्रब्धम्-एवंविधानां धर्माणां लाभिनी स्याम्, प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति। दासः प्रणिधानं कर्तुमारब्धः-यन्मया एवंविधे सद्भूतदक्षिणीये कारः कृतः, अनेनाहं कुशलमूलेन यद्येकहलसीरं कृषेयम्, सप्त सीराः कृष्टाः स्युः-एवंविधानां धर्माणां च लाभी स्याम्, प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति। दासी प्रणिधानं कर्तुमारब्धा-एवंविधे सद्भूतदक्षिणीये कारः कृतः, अनेनाहं कुशलमूलेन यद्येकां मात्रामारभेयम्, सप्त मात्राः संपद्येरन्-एवंविधानां धर्माणां च लाभिनी स्याम्, प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति। तैश्चैवं प्रणिधानं कृतम्। स च महात्मा प्रत्येकबुद्धस्तेषामनुकम्पया ऋद्ध्या उपरि विहायसा राजकुलस्योपरिष्टात् संप्रस्थितः॥



तेन खलु समयेन राजा ब्रह्मदत्त उपरिप्रासादतलगतस्तिष्ठति। तस्य ऋद्ध्या गच्छतो राज्ञो ब्रह्मदत्तस्योपरि छाया निपतिता। स ऊर्ध्वमुखो निरीक्षितुमारब्धः। पश्यति तं प्रत्येकबुद्धम्। तस्यैतदभवत्-कस्याप्यनेन महात्मना ऋद्धिमहालाङ्गलैर्दारिद्र्यरमूलान्युत्पाटितानि। बलवती आशा। ततोऽसौ गृहपतिः कोशकोष्ठागाराणि प्रत्यवेक्षितुमारब्धो यावत्पूर्णानि पश्यति। स पत्नीमामन्त्रयते-मम तावत् प्रणिधानं पूर्णम्, युष्माकमपीदानीं पश्याम इति। ततो दास्या धान्यानामेकां मात्रामारब्धा परिकर्मयितुम्, सप्त मात्राः संपन्नाः। पत्न्या एकस्यार्थाय स्थाली साधिता, सर्वैस्तैः परिभुक्तम्, तथैवावस्थिता। प्रातिवेश्यैरनेकैश्च प्राणिशतसहस्रैः परिभुक्तम्, तथैवावस्थिता। तथैव पुत्रस्य स्नुषाया दासस्य प्रणिधिः सिद्धा। ततो गृहपतिना घण्टावघोषणं कारितं वाराणस्याम्-यो भवन्तोऽन्नेनार्थी, स आगच्छतु इति। वाराणस्यामुच्चशब्दो महाशब्दो जातः। राज्ञा श्रुतम्। कथयति- किमेष भवन्त उच्चशब्दो महाशब्द इति ? अमात्यैः समाख्यातम्-देव, अमुकेन गृहपतिना कोशकोष्ठागाराणि उद्धाटितानीति। राजा तमाहूय कथयति-यदा सर्व एव लोकः कालगतः, तदा त्वया कोशकोष्ठागाराण्युद्धाटितानीति। देव, कस्य कोशकोष्ठागाराण्युद्धाटितानि? अपि तु अद्यैव मे बीजमुप्तमद्यैव फलदायकमिति। राजा पृच्छति-यथा कथम्? स एतत् प्रकरणं विस्तरेणारोचयति। राजा कथयति-गृहपते, त्वया असौ महात्मा पिण्डकेन प्रतिपादितः ? देव मयैव प्रतिपादितः। सोऽभिप्रसन्नो गाथां भाषते-



अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम्।

यत्रोप्तं बीजमद्यैव अद्यैव फलदायकम्॥२॥ इति॥



किं मन्यध्वे भिक्षवो योऽसौ गृहपतिर्गृहपतिपत्नी गृहपतिपुत्रो गृहपतिस्नुषा गृहपतिदासो गृहपतिदासी, अयमेव मेण्ढको गृहपतिः मेण्ढकपत्नी मेण्ढकपुत्रो मेण्ढकस्नुषा मेण्ढकदासो मेण्ढकदासी च। यदेभिः प्रत्येकबुद्धे कारान् कृत्वा प्रणिधानं कृतम्, तस्य कर्मणो विपाकेन षड् महापुण्या जाताः, ममान्तिके दृष्टसत्यानि। अहं चैभिः प्रत्येकबुद्धकोटीशतसहस्रेभ्यः प्रतिविशिष्टः शास्ता आरागितो न विरागितः। इति हि भिक्षव एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः, एकान्तशुक्लानां कर्मणामेकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः। तस्मात्तर्हि एवं शिक्षितव्यम्, यदेकान्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्वेव कर्मस्वाभोगः करणीयः। इत्येवं वो भिक्षवः शिक्षितव्यम्॥



इदमवोचद्भगवान्। आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥



इति श्रीदिव्यावदाने मेण्ढकावदानं दशमम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project