Digital Sanskrit Buddhist Canon

९ मेण्ढकगृहपतिविभूतिपरिच्छेदः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 9 meṇḍhakagṛhapativibhūtiparicchedaḥ
९ मेण्ढकगृहपतिविभूतिपरिच्छेदः।



श्रावस्त्यां निदानम्। तेन खलु समयेन भद्रंकरे नगरे षड् जना महापुण्याः प्रतिवसन्ति-मेण्ढको गृहपतिः मेण्ढकपत्नी मेण्ढकपुत्रो मेण्ढकस्नुषा मेण्ढकदासो मेण्ढकदासी। कथं मेण्ढको गृहपतिर्ज्ञातो महापुण्यः ? स यदि रिक्तकानि कोशकोष्ठागाराणि पश्यति, सहदर्शनादेव पूर्यन्ते। एवं मेण्ढको गृहपतिर्ज्ञातो महापुण्यः। कथं मेण्ढकपत्नी ? सा एकस्यार्थाय स्थालिकां साधयति, शतानि सहस्राणि च भुञ्जते। एवं मेण्ढकपत्नी। कथं मेण्ढकपुत्रः ? तस्य पञ्चशतिको नकुलको कट्यां बद्धस्तिष्ठति। स यदि शतं सहस्रं वा परित्यजति, तदा पूर्ण एव तिष्ठति, न परिक्षीयते। एवं मेण्ढकपुत्रः। कथं मेण्ढकस्नुषा ? सा एकस्यार्थाय गन्धं संपादयति, शतसहस्रस्य पर्याप्तिर्भवति। एवं मेण्ढकस्नुषा। कथं मेण्ढकदासः ? स यदैकं हलसीरं कृषति, तदा सप्त सीराः कृष्टा भवन्ति। एवं मेण्ढकदासः। कथं मेण्ढकदासी महापुण्या ? सा यदैकं वस्तु रक्षति, तत्सप्तगुणं स्यात्। यदा एकमात्रं प्रतिजागर्ति, तदा सप्त मात्राः संपद्यन्ते। एवं मेण्ढकदासी महापुण्या॥



धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानामेकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग़्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रतिहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानामष्टाङ्गमार्गदेशिकानां नवानुपूर्वसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस्त्रिर्दिवसस्य षट्कृत्वो रात्रिंदिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते-को हीयते, को वर्धते, कः कृच्छ्रप्राप्तः, कः संकटप्राप्तः, कः संबाधप्राप्तः, कः कृच्छ्रसंकटसंबाधप्राप्तः, कोऽपायनिम्नः, कोऽपायप्रवणः,कोऽपायप्राग्भारः, कमहमपायमार्गाद्वयुत्थाप्य स्वर्गफले मोक्षे च प्रतिष्ठापयेयम्, कस्य कामपङ्कनिमग्नस्य हस्तोद्धारमनुप्रदद्याम्, कमार्यधनविरहितमार्यधनैश्वर्याधिपत्ये प्रतिष्ठापयामि, कस्यानवरोपितानि कुशलमूलान्यवरोपयेयम्, कस्यावरोपितानि परिपाचयेयम्, कस्य पक्कानि विमोचयेयम्, कस्याज्ञानतिमिरपटलपर्यवनद्धनेत्रस्य ज्ञानाञ्जनशलाकया चक्षुर्विशोधयेयम्॥



अप्येवातिक्रमेद्वेलां सागरो मकरालयः।

न तु वैनेयवत्सानां बुद्धो वेलामतिक्रमेत्॥१॥



सर्वज्ञसंताननिवासिनी हि

कारुण्यधेनुर्मृगयत्यखिन्ना।

वैनेयवत्सान् भवदुर्गनष्टान्

वत्सान् प्रणष्टानिव वत्सला गौः॥२॥



भगवान् संलक्षयति -अयं मेण्ढको गृहपतिः सपरिवारो भद्रंकरे नगरे प्रतिवसति। तस्य वैनेयकालं पक्कमिव गण्डं शस्त्राभिनिपातमवेक्षते। यन्न्वहं भद्रंकरेषु जनपदेषु चारिकां चरेयम्। तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते - गच्छ त्वमानन्द, भिक्षूणामारोचय-तथागतो भिक्षवो भद्रंकरेषु जनपदेषु चारिकां चरिष्यति। यो युष्माकमुत्सहते तथागतेन सार्धं भद्रंकरेषु जनपदेषु चारिकां चर्तुम्, स चीवरकाणि प्रतिगृह्णातु इति। एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य भिक्षूणामारोचयति- तथागत आयुष्मन्तो भद्रंकरेषु जनपदेषु चारिकां चरिष्यति। यो युष्माकमुत्सहते तथागतेन सार्धं भद्रंकरेषु जनपदेषु चारिकां चरितुम्, स चीवरकाणि प्रतिगृह्णातु इति। एवमायुष्मन्निति ते भिक्षव आयुष्मत आनन्दस्य प्रतिश्रुत्य पृष्ठतः पृष्ठतः समनुबद्धा गच्छन्ति॥



अथ भगवान् दान्तो दान्तपरिवारः शान्तः शान्तपरिवारो मुक्तो मुक्तपरिवार आश्वस्त आश्वस्तपरिवारो विनीतो विनीतपरिवारोऽर्हन्नर्हत्परिवारो वीतरागो वीतरागपरिवारः प्रासादिकः प्रासादिकपरिवारः, वृषभ इव गोगणपरिवृतः, सिंह इव दंष्ट्रगणपरिवारः, हंसराज इव हंसगणपरिवृतः, सुपर्ण इव पक्षिगणपरिवृतः, विप्र इव शिष्यगणपरिवृतः, सुवैद्य इवातुरगणपरिवृतः, शूर इव योधगणपरिवृतः, देशिक इवाध्वगणपरिवृतः, सार्थवाह इव वणिग्गणपरिवृतः, श्रेष्ठीव पौरजनपरिवृतः, कोट्टराज इव मन्त्रिगणपरिवृतः, चक्रवर्तीव पुत्रसहस्रपरिवृतः, चन्द्र इव नक्षत्रगणपरिवृतः, सूर्य इव रश्मिसहस्रपरिवृतः, धृतराष्ट्र इव गन्धर्वगणपरिवृतः, विरूढक इव कुम्भाण्डगणपरिवृतः विरूपाक्ष इव नागगणपरिवृतः, धनद इव यक्षगणपरिवृतः, वेमचित्तिरिवासुरगणपरिवृतः, शक्र इव त्रिदशगणपरिवृतः, ब्रह्मेव ब्रह्मकायिकपरिवृतः, स्तिमित इव जलनिधिः, सजल इव जलनिधिः, विमद इव गजपतिः, सुदान्तैरिन्द्रियैरसंक्षोभितेर्यापथप्रचारो द्वात्रिंशता महापुरुषलक्षणैरशीत्यानुव्यञ्जनैर्विराजितगात्रो दशभिर्बलैश्चतुर्भिर्वैशारद्यैस्त्रिभिः स्मृत्युपस्थानैर्महाकरुणया च। एवमनेकगुणगणसमन्वागतो बुद्धो भगवान् जनपदचारिकया भद्रंकरं नगरं संप्रस्थितः। यदा भगवता श्रावस्त्यां महाप्रातिहार्यं विदर्शितम्, निर्भर्त्सिता आनन्दिता देवमनुष्याः, तोषितानि सज्जनहृदयानि, तदा भग्नप्रभावास्तीर्थ्याः प्रत्यन्तान् संश्रिताः। ततः केचिद्भद्रंकरं नगरं गत्वा अवस्थिताः। तैः श्रुतं श्रमण गौतम आगच्छतीति। श्रुत्वा च पुनर्व्यथितास्ते परस्परं कथयन्ति-पूर्वं तावद्वयं श्रमणेन गौतमेन मध्यदेशान्निर्वासिताः। स यदीहागमिष्यति, नियतमितोऽपि निर्वासयिष्यति। तदुपायसंविधानं कर्तव्यमिति। ते कुलोपकरणशाला उपसंक्रम्य कथयन्ति-धर्मलाभो धर्मलाभः। ते कथयन्ति-किमिदम् ? अवलोकिता गमिष्यामः। कस्यार्थाय ? दृष्ट्वा अस्माभिर्युष्माकं संपत्तिः, यावद्विपत्तिं न पश्यामः। आर्यकाः, अस्माकं विपत्तिर्भविष्यति। भवन्तः, श्रमणो गौतमः क्षुराशनिं पातयन्ननेका अपुत्रिका अपतिकाश्च कुर्वन्नागच्छति। आर्याः, यद्येवम्, यस्मिन्नेव काले स्थातव्यं तस्मिन्नेव कालेऽस्माकं परित्यागः क्रियते। तिष्ठत, न गन्तव्यम्। ते कथयन्ति - किं वयं न तिष्ठामः ? न यूयमस्माकं श्रोष्यथ। आर्याः कथयत, श्रोष्यामः। ते कथयन्ति-भद्रंकरसामन्तकेन सर्वजनकायमुद्वास्य भद्रंकरं नगरं प्रवासयत। शाद्वलानि कृषत। स्थण्डिलानि पातयत। पुष्पफलवृक्षं छेदयत। पानीयानि विषेण दूषयत। ते कथयन्ति-आर्याः, तिष्ठत, सर्वमनुतिष्ठाम इति। तेऽवस्थिताः। ततस्तैर्भद्रंकरनगरसामन्तकेन सर्वो जनकाय उद्वास्य भद्रंकरं नगरं प्रवासितः, शाद्वलानि कृष्टानि, स्थण्डिलानि पातितानि, पुष्पफलवृक्षाश्छिन्नाः, पानीयानि विषदूषितानि। ततः शक्रो देवेन्द्रः संलक्षयति-न मम प्रतिरूपं यदहं भगवतोऽसत्कारमध्युपेक्षेयम्। येन नाम भगवता त्रिभिः कल्पासंख्येयैरनेकैः दुष्करशतसहस्रैः षट् पारमिताः परिपूर्यानुत्तरज्ञानमधिगतम्, स नाम भगवान् सर्वलोकप्रतिविशिष्टः सर्ववादविजयी शून्ये जनपदे चारिकां चरिष्यति। यन्न्वहं भगवतः सश्रावकसंघस्य सुखस्पर्शार्थाय औत्सुक्यमापद्येयमिति। तेन वातबलाहकानां देवपुत्राणामाज्ञा दत्ता-गच्छत भद्रंकरनगरसामन्तकेन, विषपानीयानि शोषयत इति। वर्षबलाहकानां देवपुत्राणामाज्ञा दत्ता-अष्टाङ्गोपेतस्य पानीयस्यापूर्यतेति। चातुर्महाराजिका देवा उक्ताः -यूयं भद्रंकराणां जनपदानां वासयतेति। ततो वातबलाहकैर्देवपुत्रैर्विषदूषितानि पानीयानि (शोषितानि), वर्षबलाहकैस्तान्येव कूपोदपानवापीसरस्तडागान्यष्टाङ्गोपेतस्य पानीयस्य पूरितानि। चातुर्महाराजिकैर्देवैर्भद्रंकरनगरसामन्तकं सर्वमावासितम्। जनपदा ऋद्धाः स्फीताः संवृत्ताः। तीर्थ्यैर्नगरजनकायसमेतैरवचरकाः प्रेषिताः-गत्वा पश्यत कीदृशा जनपदा इति। ते गताः पश्यन्त्यतिशयेन जनपदान् ऋद्धान् स्फीतान्। तत आगत्य कथयन्ति-भवन्तः, न कदाचिदस्माभिरेवंरूपा जनपदा ऋद्धाः स्फीता दृष्टपूर्वा इति। तीर्थ्याः कथयन्ति-भवन्तः, वो यस्तावदचेतनान् भावानन्वावर्तयति, स युष्मान्नान्वावर्तयिष्यतीति ? कुत एतत् ? सर्वथा अवलोकिता भवन्तः, अपश्चिमं वो दर्शनम्, गच्छाम इति। ते कथयन्ति-आर्याः, तिष्ठत, किं युष्माकं श्रमणो गौतमः करोति ? सोऽपि प्रव्रजितः, यूयमपि प्रव्रजिता भिक्षाचराः। किमसौ युष्माकं भिक्षां चरिष्यतीति ? तीर्थ्याः कथयन्ति- समयेन तिष्ठामो यदि यूयं क्रियाकारं कुरुत - न केनचिच्छ्रमणं गौतमं दर्शनायोपसंक्रमितव्यम्। य उपसंक्रामति, स षष्टिकार्षापणो दण्ड्य इति। तैः प्रतिज्ञातं क्रियाकारश्च कृतः॥



ततो ( भगवान्) जनपदचारिकां चरन् भद्रंकरं नगरमनुप्राप्तः। भद्रंकरे नगरे विहरति दक्षिणायतने। तेन खलु समयेन कपिलवस्तुनो ब्राह्मणदारिका भद्रंकरे नगरे परिणीता। तया प्राकारस्थया भगवानन्धकारे दृष्टः। सा संलक्षयति-अयं भगवान् शाक्यकुलनन्दनः शाक्यकुलाद्राज्यमपहाय प्रव्रजितः। स इदानीमन्धकारे तिष्ठति। यद्यत्र सोपानं स्यात्, अहं प्रदीपमादायावतरेयमिति। ततो भगवता तस्याश्चेतसा चित्तमाज्ञाय सोपानं निर्मितम्। ततो हृष्टतुष्टप्रमुदिता प्रदीपमादाय सोपानेनावतीर्य येन भगवांस्तेनोपसंक्रान्ता। उपसंक्रम्य भगवतः पुरस्तात् प्रदीपं स्थापयित्वा पादौ शिरसा वन्दित्वा निषण्णा धर्मश्रवणाय। ततो भगवता तस्या आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी पूर्ववद्यावच्छरणगतामभिप्रसन्नामिति। अथ भगवांस्तां दारिकामिदमवोचत्-एहि त्वं दारिके येन मेण्ढको गृहपतिस्तेनोपसंक्रम, उपसंक्रम्यैवं मद्वचनादारोग्यापय, एवं च वद- गृहपते, त्वामुद्दिश्याहमिहागतः, त्वं च द्वारं बद्ध्वा स्थितः। युक्तमेतदेवमतिथेः प्रतिपत्तुं यथा त्वं प्रतिपन्न इति ? यदि कथयति- गणेन क्रियाकारः कृत इति, वक्तव्यः-तव पुत्रस्य पञ्चशतिको नकुलकः कट्यां बद्धस्तिष्ठति। स यदि शतं वा सहस्रं वा व्ययीकरोति, पूर्यत एव, न परिक्षीयते। न शक्नोषि षष्टिकार्षापणं दत्त्वा आगन्तुमिति? एवं भदन्तेति सा दारिका भगवतः प्रतिश्रुत्य संप्रस्थिता। यथापरिज्ञातैव केनचिदेव मेण्ढकस्य गृहपतेः सकाशं गता। गत्वा च कथयति-गृहपते भगवांस्त आरोग्ययति। स कथयति-वन्दे बुद्धं भगवन्तम्। गृहपते, भगवानेवमाह-त्वामेवाहमुद्दिश्यागतः, त्वं च द्वारं बद्ध्वा अवस्थितः। युक्तमेतदेवमतिथेः प्रतिपत्तुं यथा त्वं प्रतिपन्न इति ? स कथयति-दारिके, गणेन क्रियाकारः कृतः - न केनचिच्छ्रमणं गौतमं दर्शनाय उपसंक्रमितव्यम्। य उपसंक्रामति, स गणेन षष्टिकार्षापणो दण्ड्य इति। गृहपते, भगवान् कथयति-तव पुत्रस्य पञ्चशतिको नकुलकः कट्यां बद्धस्तिष्ठति। स यदि शतं वा सहस्रं वा व्ययीकरोति, पूर्यत एव, न परिक्षीयते। न शक्नोषि त्वं षष्टिकार्षापणं दत्वा आगन्तुमिति ? स संलक्षयति- न कश्चिदेतज्जानीते। नूनं सर्वज्ञः स भगवान्। गच्छामीति। स षष्टिकार्षापणान् द्वारे स्थापयित्वा ब्राह्मणदारिकोपदिष्टेन सोपानेनावतीर्य येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा बन्दित्वा भगवताः पुरस्तान्निषण्णो धर्मश्रवणाय। ततो भगवता मेण्ढकस्य गृहपतेराशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा मेण्ढकेन गृहपतिना यावच्छ्रोतापत्तिफलं साक्षात्कृतम्। स दृष्टसत्यः कथयति-भगवन्, किमेषोऽपि भद्रंकरनगरनिवासी जनकाय एवंविधानां धर्माणां लाभीति ? भगवानाह - गृहपते, त्वामागम्य भूयसा सर्व एव जनकायो लाभीति। ततो मेण्ढको गृहपतिर्भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात् प्रक्रान्तः। स्वगृहं गत्वा नगरमध्ये कार्षापणानां राशिं व्यवस्थाप्य गाथां भाषते -



यो द्रष्टुमिच्छति जिनं जितरागदोषं

निर्बन्धमप्रतिसमं करुणावदातम्।

सोऽनिश्चरेण हृदयेन सुनिश्चितेन

क्षिप्रं प्रयातु धनमस्य मया प्रदेयम्॥३॥ इति॥



जनकायः कथयति-गृहपते, श्रेयः श्रमणस्य गौतमस्य दर्शनम्? स कथयति-श्रेयः। ते कथयन्ति - यद्येवम्, गणेनैवं क्रियाकारः कृतो गण एव उद्धाटयतु। कोऽत्र विरोधः ? ते क्रियाकारमुद्धाट्य निर्गन्तुमारब्धाः। ततः परस्परं संघट्टनेन न शक्नुवन्ति निर्गन्तुमिति वज्रपाणिना यक्षेण विनेयजनानुकम्पया वज्रः क्षिप्तः। प्राकारस्य खण्डः पतितः। अनेकानि प्राणिशतसहस्राणि निर्गतानि, कानिचित् कुतूहलजातानि, कानिचित् पूर्वकैः कुशलमूलैः संचोद्यमानानि। ते गत्वा भगवतः पादाभिवन्दनं कृत्वा पुरतो निषण्णाः। यावद्भगवतः सामन्तकेन पर्षत् संनिपतिता। अथ भगवांस्तां पर्षदमभ्यवगाह्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषद्यानेकसत्त्वसंतानकुशलमूलसमारोपिकां धर्मदेशनां कृतवान्, यां श्रुत्वा कैश्चिच्छ्रोतापत्तिफलं साक्षात्कृतम्, कैश्चिच्छरणगमनशिक्षापदानि गृहीतानि। भगवतोऽचि(तश्चि)रं धर्मं देशयतो भोजनकालोऽतिक्रान्तः। मेण्ढको गृहपतिः कथयति- भगवन् भक्तकृत्यं क्रियतामिति। भगवानाह-गृहपते, भोजनकालोऽतिक्रान्त इति। स कथयति- भगवन्, किमकाले कल्पते ? भगवानाह- घृतगुडशर्करापानकानि चेति। ततो मेण्ढकेन गृहपतिना शिल्पिन आहूय उक्ताः - भगवतोऽकालखाद्यकानि शीघ्रं सज्जीकुरुतेति। तैरकालकानि सज्जीकृतानि। ततो मेण्ढकेन गृहपतिना बुद्धप्रमुखो भिक्षुसंघोऽकालखाद्यकैरकालपानकैश्च संतर्पितः। ततो भगवान् मेण्ढकं गृहपतिं सपरिवारं सत्येषु प्रतिष्ठापितं कर्वटनिवासिनं जनकायं यथाभव्यतया विनीय प्रक्रान्तः॥



इदमवोचद्भगवान्। आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

इति श्रीदिव्यावदाने मेण्ढकगृहपतिविभूतिपरिच्छेदो नवमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project