Digital Sanskrit Buddhist Canon

८ सुप्रियावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
८ सुप्रियावदानम्।



बुद्धो भगवान् श्रावस्त्यां विहरति जेतवने अनाथपिण्डदस्यारामे सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैर्ब्राह्मणैर्गृहपतिभिः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः। तत्र खलु वर्षावासं भगवानुपगतो जेतवने अनाथपिण्डदस्यारामे। अथ तदैव प्रवारणायां प्रत्युपस्थितायां संबहुलाः श्रावस्तीनिवासिनो वणिजो येन भगवांस्तेनोपसंक्रान्ताः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः। एकान्तनिषण्णान् संबहुलान् श्रावस्तीनिवासिनो वणिजो भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति। अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्। अथ संबहुलाः श्रावस्तीनिवासिनो वणिजो भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात् प्रक्रान्ताः, येनायुष्मानानन्दस्तेनोपसंक्रान्ताः। उपसंक्रम्यायुष्मत आनन्दस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः। संबहुलान् श्रावस्तीनिवासिनो वणिज आयुष्मानानन्दो धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति। अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्। अथ ते वणिज उत्थायासनेभ्यः एकांसमुत्तरासङ्गं कृत्वा येनायुष्मानानन्दस्तेनाञ्जलिं प्रणम्य आयुष्मन्तमानन्दमिदमवोचन् -किंचित्ते आर्यानन्द श्रुतं वर्षोषितो भगवान् कतमेषु जनपदेषु चारिकां चरिष्यतीति, यद्वयं तद्यात्रिकं भाण्डं समुदानीमहे ? धर्मता चैषा षण्महानगरनिवासिनो वणिजो यस्यां दिशि बुद्धा भगवन्तो गन्तुकामा भवन्ति, तद्यात्रिकभाण्डं समुदानयन्ति। स कथयति- बुद्धं भगवन्तं किं न पृच्छथ ? दुरासदा हि बुद्धा भगवन्तो दुष्प्रसहाः। न शक्नुमो वयं भगवन्तं प्रष्टुम्। ममापि भवन्तो दुरासदा हि बुद्धा भगवन्तो दुष्प्रसहाः। अहमपि न शक्नोमि भगवन्तं प्रष्टुम्। यदि भदन्तानन्दस्यापि दुरासदा बुद्धा भगवन्तो दुष्प्रसहाः, कथं भदन्तानन्दो जानीतेऽमुकां दिशं भगवान् गमिष्यतीति ? निमित्तेन वा भवन्तः परिकथया वा। कथं निमित्तेन ? यां दिशं भगवान् गन्तुकामस्ततोऽभिमुस्वो निषीदति, एवं निमित्तेन। कथं परिकथया ? तेषां जनपदानां वर्णं भाषते, एवं परिकथया। कुतोमुखो भदन्तानन्द भगवान् निषीदति, कतमेषां च जनपदानां वर्णं भाषते ? मगधाभिमुखो भवन्तो भगवान् निषीदति, मागधकानां जनपदानां वर्षं भाषते। अपि तु भवन्तोऽष्टादशानुशंसा बुद्धचारिकायाम्। कतमेऽष्टादश ? नाग्निभयं नोदकभयं न सिंहभयं न व्याघ्रभयं न द्वीपितरक्षुपरचक्रभयं न चौरभयं न गुल्मतरपण्यातियात्राभयं न मनुष्यामनुष्यभयम्। कालेन च कालं दिव्यानि रूपाणि दृश्यन्ते, दिव्याः शब्दाः श्रूयन्ते, उदाराश्चावभासाः प्रज्ञायन्ते, आत्मव्याकरणानि च श्रूयन्ते, धर्मसंभोग आमिषसंभोगोऽल्पाबाधा च बुद्धचन्द्रिका॥



अथ संबहुलाः श्रावस्तीनिवासिनो वणिजः आयुष्मतः आनन्दस्य भाषितमभिनन्द्यानुमोद्य आयुष्मत आनन्दस्य पादौ शिरसा वन्दित्वा उत्थायासनात् प्रक्रान्ताः। धर्मता खलु बुद्धा भगवन्तो जीवन्तो ध्रियन्तो यापयन्तो महाकरुणया संचोद्यमानाः परानुग्रहप्रवृत्ताः कालेन कालमरण्यचारिकां चरन्ति, नदीचारिकां पर्वतचारिकां श्मशानचारिकां जनपदचारिकां चरन्ति। अस्मिंस्त्वर्थे बुद्धो भगवान् मगधेषु जनपदचारिकां चर्तुकामस्तदेव प्रवारणां प्रवारयित्वा आयुष्मन्तमानन्दमामन्त्रयतेस्म - गच्छ आनन्द, भिक्षूणामारोचय-इतः सप्तमे दिवसे तथागतो मगधेषु जनपदेषु चारिकां चरिष्यति। यो युष्माकमुत्सहते तथागतेन सार्धं जनपदचारिकां चर्तुम्, स चीवरकर्म करोतु। एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य भिक्षूणामारोचयति-भगवानायुष्यन्त इतः सप्तमे दिवसे मगधेषु जनपदेषु चारिकां चरिष्यति। यो युष्माकमुत्सहते भगवता सार्धं मगधेषु जनपदेषु चारिकां चर्तुम्, स चीवरकर्म करोतु। अथ भगवान् भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतः संबहुलैश्च श्रावस्तीनिवासिभिर्वणिग्ब्राह्मणगृहपतिभिः सार्धं मगधेषु जनपदेषु चारिकां प्रक्रान्तः॥



अथ संबहुलाश्च श्रावस्तीनिवासिनो वणिजो येन भगवांस्तेनोपसंक्रान्ताः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तमिदमवोचन् -अधिवासयत्वस्माकं भगवान् यावच्च श्रावस्ती यावच्च राजगृहम्, अत्रान्तरा चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसंघेन। अधिवासयति भगवान् संबहुलानां श्रावस्तीनिवासिनां वणिजां तूष्णीभावेन। अथ संबहुलाः श्रावस्तीनिवासिनो वणिजो भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतोऽन्तिकात् प्रक्रान्ताः॥



अथ संप्रस्थिते बुद्धे भगवति अन्तरा च श्रावस्तीमन्तरा च राजगृहम्, अत्रान्तरान्महाटव्यां चौरसहस्रं प्रतिवसति। अद्राक्षीत्तच्चौरसहस्रं भगवन्तं सार्थपरिवृतं भिक्षुसंघपुरस्कृतम्। दृष्ट्वा च पुनः परस्परं कथयन्ति -गच्छतु भगवान् सश्रावकसंघः। शेषं सार्थं मुषिष्यामः। इत्यनुविचिन्त्य सर्वे जवेन प्रसृता येन सार्थः। भगवता अभिहितः-किमेतद्भवन्तः समारब्धम्? चौराः कथयन्ति-वयं स्मो भदन्त चौरा अटवीचराः। नास्माकं कृषिर्न वाणिज्या न गौरक्ष्यम्। अनेनोपक्रमेण जीविकां कल्पयामः। गच्छतु भगवान् सश्रावकसंघः। शेषं सार्थं मुषिष्यामः। भगवानाह-ममैष सार्थः संनिश्रितः। अपि तु सकलस्य सार्थस्य परिगणय्य सुवर्णं गृह्णीध्वम्। तथा भवत्विति चौरसहस्रेण प्रतिज्ञातम्। अस्मिन् सार्थे ये उपासका वणिजस्तैः कृत्स्नस्य सार्थस्य मूल्यं गणय्य चौराणां निवेदितम्-इयन्ति शतानि सहस्राणि चेति। ततस्तेषां चौराणां सार्थनिष्क्रयार्थं भगवता निधानं दर्शितम्। ततस्तेन चौरसहस्रेण सार्थमूल्यप्रमाणं सुवर्णं गृहीतम्, अवशिष्टं तत्रैवान्तर्हितम्। एवं भगवता सार्थश्चौरसहस्रात् प्रतिमोक्षितः॥



अनुपूर्वेण भगवान् राजगृहमनुप्राप्तः। पुनरपि भगवान् सार्थपरिवृतो भिक्षुसंघपुरस्कृतो राजगृहात् श्रावस्तीं संप्रस्थितः। तथैव चौरसहस्रसकाशात् सार्थो निष्क्रीतः। एवं द्वित्रिचतुष्पञ्चषड्वारांश्च चौरसहस्रसकाशादागमनगमनेन सार्थः परित्रातो मूल्यं चानुप्रदत्तम्। सप्तमं तु वारं भगवान् सार्थरहितो भिक्षुसंघपुरस्कृतः श्रावस्त्या राजगृहं संप्रस्थितः। अद्राक्षीच्चौरसहस्रं बुद्धं भगवन्तं सार्थविरहितं भिक्षुसंघपरिवृतम्। दृष्ट्वा च पुनः परस्परं संलपन्ति-भगवान् गच्छतु, भिक्षुसंघं मुषिष्यामः। तत्कस्य हेतोः ? एषो हि भगवान् सुवर्णप्रदः। इत्युक्त्वा सर्वजवेन प्रधाविता भिक्षून् मुषितुमारब्धाः। भगवता चाभिहिताः - वत्साः, मम एते श्रावकाः। चौराः कथयन्ति -जानास्येव भगवान् -वयं चौरा अटवीचराः। नास्माकं कुषिर्न वाणिज्या न गौरक्ष्यम्। अनेन वयं जीविकां कल्पयामः। ततो भगवता चौराणां महानिधानं दर्शितम्, एवं चोक्ताः -वत्साः, यावदाप्तं धनं गृह्णीथेति। ततस्तेन चौरसहस्रेण तस्मान्महानिधानाद्यावदाप्तं सुवर्णमादत्तम् , अवशिष्टं तत्रैवान्तर्हितम्। अथ भगवांस्तच्चौरसहस्रं यावदाप्तं धनेन संतर्पयित्वा ततोऽनुपूर्वेण राजगृहमनुप्राप्तः। ततस्तेषां चौराणां बुद्धिरुत्पन्ना- या काचिदस्माकं श्रीसौभाग्यसंपत्, सर्वासौ बुद्धं भगवन्तमागम्य। यन्नु वयं भगवन्तं सश्रावकसंघमस्मिन् प्रदेशे भोजयेम इति। अत्रान्तरे नास्ति किंचिद्बुद्धानां भगवतां महाकारुणिकानामेकारक्षाणामेकवीराणामद्वयवादिनां शमथविपश्यनाविहारिणां त्रिविधदमथवस्तुकुशलानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुरोधोत्तीर्णानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां दशबलबलिनां चतुर्वैशारद्यविशारदानामुदारार्षभसम्यक्सिंहनादनादिनां पञ्चाङ्गविप्रहीणानां पञ्चस्कन्धविमोचकानां पञ्चगतिसमतिक्रान्तानां षडायतनभेदकानां संघातविहारिणां षट्पारमितापरिपूर्णयशसां सप्तबोध्यङ्गकुसुमाढ्यानां सप्तसमाधिपरिष्कारदायकानामार्याष्टाङ्गमार्गदेशिकानामार्यमार्गपुद्गलनायकानां नवानुपूर्वसमापत्तिकुशलानां नवसंयोजनविसंयोजनकानां दशदिक्परिपूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्रीरात्रेस्त्रिर्दिवसस्य षट्कृत्वो रात्रिंदिवसेन बुद्धचक्षुषा लोकं व्यवलोकयन्ति - कस्यानवरोपितानि कुशलमूलान्यवरोपयामि, कस्यावरोपितानि विवर्धयामि, कः कृच्छ्रप्राप्तः, कः संकटप्राप्तः, कः संबाधप्राप्तः, कः कृच्छ्रसंकटसंबाधप्राप्तः, कं कृच्छ्रसंकटसंबाधात् परिमोचयामि, कोऽपायनिम्नः, कोऽपायप्रवणः, कोऽपायप्राग्भारः, कमहमपायाद् व्युत्थाप्य स्वर्गे मोक्षफले च प्रतिष्ठापयामि, कस्य कामपङ्कनिमग्नस्य हस्तोद्धारमनुप्रयच्छामि, कस्य बुद्धोत्पादविभूषितं लोकं सफलीकरोमि, कमार्यधनविरहितमार्यधनैश्वर्याधिपत्ये प्रतिष्ठापयेयम्, को हीयते को वर्धते।



अप्येवातिक्रमेद्वेलां सागरो मकरालयः।

न तु वैनेयवत्सानां बुद्धो वेलामतिक्रमेत्॥ १॥



यथा हि माता प्रियमेकपुत्रकं

ह्यवेक्षते रक्षति चास्य जीवितम्।

तथैव वैनेयजनं तथागतो

ह्यवेक्षते रक्षति चास्य संततिम्॥२॥



सर्वज्ञसंताननिवासिनी हि

कारुण्यधेनुर्मृगयत्यखिन्ना।

वैनेयवत्सान् भवदुःखनष्टान्

वत्सान् प्रणष्टानिव वत्सला गौः॥३॥



ततो भगवांस्तेषां चौराणां वैनेयकालमपेक्ष्य राजगृहादनुपूर्वेण भिक्षुगणपरिवृतो भिक्षुगणपुरस्कृतो दान्तो दान्तपरिवारः शान्तः शान्तपरिवारश्चन्दनश्चन्दनपरिवारो मुक्तो मुक्तपरिवार आश्वस्त आश्वस्तपरिवारः पूर्ववत् यावन्महाकरुणया समन्वागतः तां सालाटवीमनुप्राप्तः। अद्राक्षीत्तच्चौरसहस्रं बुद्धं भगवन्तं सश्रावकसंघं दूरादेवागच्छन्तम्। दृष्ट्वा च पुनश्चित्तान्यभिप्रसाद्य येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादयोर्निपत्य भगवन्तमिदमवोचन्-अधिवासयतु अस्माकं भगवान् श्वोऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेन। अधिवासयति भगवांस्तस्य चौरसहस्रस्य तूष्णीभावेन। अथ चौरसहस्रं भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतोऽन्तिकान् प्रक्रान्तम्॥



अथ तच्चौरसहस्रं तामेव रात्रिं शुचि प्रणीतं खादनीयभोजनीयं समुदानीय काल्यमेवोत्थाय आसनानि प्रज्ञप्य उदकमणीन् प्रतिष्ठाप्य, भगवतो दूतेन कालमारोचयति -समयो भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यसे। अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन तस्य चौरसहस्रस्य भक्ताभिसारस्तेनोपसंक्रान्तः। अथ तच्चौरसहस्रं बुद्धप्रमुखस्य भिक्षुसंघस्य चन्दनोदकेन पादौ प्रक्षालयामास। अथ भगवान् प्रक्षालितपाणिपादः पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। निषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तममनीतपात्रं नीचतराण्यासनानि गृहीत्वा भगवतः पुरस्तान्निषण्णा धर्मश्रवणाय। अथ भगवता तेषामाशयानुशयं विदित्वा धातुं प्रकृतिं च ज्ञात्वा तादृशी धर्मदेशना कृता, यां श्रुत्वा तेन चौरसहस्रेण तस्मिन्नेवासने निषण्णेन विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्। दृष्टसत्याश्च कथयन्ति- इदमस्माकं भदन्त न मात्रा कृतं न पित्रा कृतं न राज्ञा न देवताभिर्न पूर्वप्रेतैर्न श्रमणब्राह्मणैर्नेष्टैर्न स्वजनबन्धुवर्गेण यदस्माभिर्भगवन्तं कल्याणमित्रमागम्य। उद्धृतो नरकतिर्यक्प्रेतेभ्यः पादः, प्रतिष्ठापिता देवमनुष्येषु, पर्यन्तीकृतः संसारः, उच्छोषिता रुधिराश्रुसमुद्राः, उत्तीर्णा अश्रुसागराः, लङ्घिता अस्थिपर्वताः। लभेम वयं भदन्त स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम्। चरेम वयं भगवतोऽन्तिके ब्रह्मचर्यम्। ततो भगवता ब्राह्मेण स्वरेणाभिहिताः - एत वत्साः, चरत ब्रह्मचर्यम्। वाचावसाने भगवतो मुण्डाः संवृत्तास्त्रैधातुकवीतरागाः समलोष्टकाञ्चना आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखाः। सेन्द्रोपेन्द्राणां देवानां पूज्या मान्या अभिवाद्याश्च संवृत्ताः॥



भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः-पश्य भदन्त भगवता इदं चौरसहस्रं सप्तवारं धनेन संतर्पयित्वा अत्यन्तनिष्ठेऽनुत्तरे योगक्षेमे निर्वाणे प्रतिष्ठापितम्। भगवानाह-न भिक्षव एतर्हि, यथा अतीतेऽप्यध्वनि मया अस्यैव चौरसहस्रस्य सकाशादनेकभाण्डसहस्रः सार्थो निष्क्रीतः, न च शकिताः संतर्पयितुम्। ततो मया अनेकैर्दुष्करशतसहस्रैर्देवमनुष्यदुष्प्राप्यां शक्रब्रह्माद्यैरपि दुरधिगमां बदरद्वीपयात्रां वर्षशतेन साधयित्वा एतदेव चौरसहस्रमारभ्य कृत्स्नो जाम्बुद्वीपः सुवर्णरजतवैडूर्यस्फटिकाद्यै रत्नविशेषैर्मनोरथेप्सितैश्चोपकरणविशेषैः संतर्पयित्वा दशभिः कुशलैः कर्मपथैः प्रतिष्ठापितः। तच्छ्रुणुत -



भूतपूर्वं भिक्षवोऽतीतेऽध्वनि अस्मिन्नेव जम्बुद्वीपे वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति स्म ऋद्धं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरतस्करदुर्भिक्षरोगापगतम्। प्रियमिवैकपुत्रकमिव राज्यं कारयति। तेन खलु समयेन वाराणस्यां प्रियसेनो नाम सार्थवाहः प्रतिवसति आढ्यो महाधनो महाभोगो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात् कुलात् कलत्रमानीतम्। स तया सार्धं क्रीडते रमते परिचारयति। अथ अन्यतम उदारपुण्यमहेशाख्यः सत्त्वोऽन्यतमस्मात् प्रणीताद्देवनिकायाच्च्युत्वा तस्याः प्रजापत्याः कुक्षिमवक्रान्तः। पञ्चावेणीया धर्मा इहैकत्ये पण्डितजातीये मातृग्रामे। कतमे पञ्च ? रक्तं पुरुषं जानाति, कालं जानाति ऋतुं जानाति, गर्भमवक्रान्तं जानाति, यस्याः सकाशाद्गर्भोऽवक्रामति तं जानाति, दारकं जानाति दारिकां जानाति। संचेद्दारको भवति, दक्षिणं कुक्षिं निश्रित्य तिष्ठति। सचेद्दारिका भवति, वामं कुक्षिं निश्रित्य तिष्ठति। सा आत्तमनाः स्वामिन आरोचयति- दिष्ट्या आर्यपुत्र वर्धस्व, आपन्नसत्त्वास्मि संवृत्ता। यथा च मे दक्षिणं कुक्षिं निश्रित्य तिष्ठति, नियतं दारको भविष्यति। सोऽप्यात्तमनात्तमना उदानमुदानयति- अप्येवाहं चिरकालाभिलषितं पुत्रमुखं पश्येयम्। जातो मे स्यान्नावजातः। कृत्यानि मे कुर्यात्। भृतः प्रतिभरेत्। दायाद्यं प्रतिपद्येत। कुलवंशो मे चिरष्ठितिकः स्यात्। अस्माकं चाप्यतीतकालगतानामुद्दिश्य दानानि दत्वा पुण्यानि कृत्वा नाम्ना दक्षिणामादिशेत्-इदं तयोर्यत्रतत्रोपपन्नयोर्गच्छतोरनुगच्छत्विति। आपन्नसत्त्वां चैनां विदित्वा उपरिप्रासादतलगतामयन्त्रितां धारयति-उष्ण उष्णोपकरणैः शीते शीतोपकरणैर्वैद्यप्रज्ञप्तैराहारैर्नातिशीतैर्नात्युष्णैर्नातितिक्तैर्नात्यम्लैर्नातिलवणैर्नातिमधुरैर्नातिकटुकैर्नातिकषायैस्तिक्ताम्ललवण-मधुरकटुककषायविवर्जितैराहारैः। हारार्धहारविभूषितगात्रीमप्सरसमिव नन्दनवनचारिणीं मञ्चान्मञ्चं पीठात्पीठमनवतरन्तीमधरिमां भूमिम्। न चास्याकिंचिदमनोज्ञशब्दश्रवणं यावदेव गर्भस्य परिपाकाय। सा अष्टानां वा नवानां वा मासानामत्ययात् प्रसूता। दारको जातोऽभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश्छत्राकारशिराः प्रलम्बबाहुर्विस्तीर्णललाटः संगतभ्रूस्तुङ्गनासो दृढकठिनशरीरो महानग्नबलः। तस्य ज्ञातयः संगम्य समागम्य त्रीणि सप्तकान्येकविंशतिरात्रिंदिवसानि तस्य जातस्य जातः महं कृत्वा नामधेयं व्यवस्थापयन्ति-किं भवतु दारकस्य नाम ? अयं दारकः प्रियसेनस्य सार्थवाहस्य पुत्रः। तद्भवतु दारकस्य नाम सुप्रिय इति। सुप्रियो दारकोऽष्टाभ्यो धात्रीभ्य उपन्यस्तो द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। सोऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेन अन्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैः। आशु वर्धते ह्रदस्थमिव पङ्कजम्॥



यदा महान् संवृत्तस्तदा लिप्यामुपन्यस्तः। संख्यायां गणनायां मुद्रायामुद्धारे न्यासे निक्षेपे हस्तिपरीक्षायामश्वपरीक्षायां रत्नपरीक्षायां दारुपरीक्षायां वस्त्रपरीक्षायां पुरुषपरीक्षायां स्त्रीपरीक्षायाम्। नानापण्यपरीक्षासु पर्यवदातः सर्वशास्त्रज्ञः सर्वकलाभिज्ञः सर्वशिल्पज्ञः सर्वभूतरुतज्ञः सर्वगतिगतिज्ञः उद्धट्टको वाचकः पण्डितः पटुप्रचारः परमतीक्ष्णनिशितबुद्धिः संवृत्तोऽग्निकल्प इव ज्ञानेन। स यानि तानि राज्ञां क्षत्रियाणां मूर्ध्नाभिषिक्तानां जनपदैश्वर्यस्थामवीर्यमनुप्राप्तानां महान्तं पृथिवीमण्डलमभिनिर्जित्याध्यावसतां पृथग्भवन्ति शिल्पस्थानकर्मस्थानानि, तद्यथा-हस्तिग्रीवायां अश्वपृष्ठे रथे त्सरुधनुःषु उपयाने निर्याणेऽङ्कुशग्रहे तोमरग्रहे छेद्ये भेद्ये मुष्टिबन्धे पदबन्धे दूरवेधे शब्दवेधेऽक्षुण्णवेधे मर्मवेधे दृढप्रहारितायाम्। पञ्चसु स्थानेषु कृतावी संवृत्तः। धर्मता चैषा- न तावत् पुत्रस्य नाम निर्गच्छति यावत् पिता ध्रियते। अथापरेण समयेन प्रियसेनः सार्थवाहो ग्लानीभूतः। स मूलगण्डपत्रपुष्पफलभैषज्यैरूपस्थीयमानो हीयत एव॥



सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः।

संयोगा विप्रयोगान्ता मरणान्तं च जीवितम्॥४॥



इति स कालधर्मेण संयुक्तः। कालगते प्रियसेने सार्थवाहे ब्रह्मदत्तेन काशिराज्ञा सुप्रियो महासार्थवाहत्वेऽभिषिक्तः। तेन सार्थवाहभूतेन इयमेवंरूपा महाप्रतिज्ञा कृता-सर्वसत्त्वा मया धनेन संतर्पयितव्याः। अल्पं च देयं बहवश्च याचकाः। ततोऽल्पैरहोभिस्तद्धनं परिक्षयं पर्यादानं गतम्। अथ सुप्रियो महासार्थवाहः संलक्षयति- अल्पं च देयं बहवश्च याचकाः। ततोऽल्पैरहोभिस्तद्धनं परिक्षयं पर्यादानं गतम्। यन्न्वहं सामुद्रं यानपात्रं समुदानीय महासमुद्रमवतरेयं धनहारिकः। ततः सुप्रियो महासार्थवाहः सामुद्रयानपात्रं समुदानीय पञ्चमात्रैर्वणिक्शतैः सार्धं महासमुद्रमवतीर्णः। ततोऽनुपूर्वेण रत्नद्वीपं गत्वा रत्नसंग्रहं कृत्वा स्वस्तिक्षेमाभ्यां महासमुद्रादुत्तीर्य स्थलजैर्वहित्रैर्भाण्डमारोप्य वाराणस्यभिमुखः संप्रस्थितः। अटवीकान्तारमध्यगतश्चौरसहस्रेणासादितः। ततस्ते चौरा मुषितुकामाः सर्वजवेन प्रसृताः। सुप्रियेण च सार्थवाहेनावलोक्याभिहिताः - किमेतद्भवन्तः समारब्धम् ? चौराः कथयन्ति-सार्थवाह, त्वमेकः स्वस्तिक्षेमाभ्यां गच्छ, अवशिष्टं सार्थं मुषिष्यामः। सार्थवाहः कथयति-ममैष भवन्तः सार्थः संनिश्रितः। नार्हन्ति भवन्तो मुषितुम्। एवमुक्ताश्चौराः कथयन्ति-वयं स्मः सार्थवाहचौरा अटवीचराः। नास्माकं कृषिर्न वाणिज्या न गौरक्ष्यम्। अनेन वयं जीविकां कल्पयामः। तेषां सुप्रियः सार्थवाहः कथयति-सार्थस्य मूल्यं भवन्तो गण्यताम्। अहमेषामर्थे मूल्यं दास्यामीति। ततस्ते वणिजः परस्परं मूल्यं गणयित्वा चौराणां निवेदयन्ति -इयन्ति शतानि सहस्राणि चेति। ततः सुप्रियेण सार्थवाहेन भाण्डनिष्क्रयार्थे स्वं द्रव्यमनुप्रदत्तम्। चौरसकाशात् सार्थः परित्रातः। एवं द्विस्त्रिश्चतुःपञ्चषड्वारान् तस्यैव चौरसहस्रस्य सकाशात् सुप्रियेण सार्थवाहेन सार्थः परित्रातो मूल्यं चानुप्रदत्तम्। यावत् सप्तमं तु वारं सुप्रियः सार्थवाहो महासमुद्रमवतीर्णः। ततः संसिद्धयानपात्रोऽभ्यागतोऽटवीकान्तारमध्यगतस्तेनैव चौरसहस्रेणासादितः। ततस्ते चौरा मुषितुकामाः सर्वजवेन प्रसृताः। सुप्रियेण च सार्थवाहेनावलोक्याभिहिताः-सुप्रियोऽहं भवन्तः सार्थवाहः। चौराः कथयन्ति-जानास्येव महासार्थवाह वयं चौरा अटवीचराः। नास्माकं कृषिर्न वाणिज्यं न गौरक्ष्यम्। अनेन वयं जीविकां कल्पयामः। ततः सुप्रियेण सार्थवाहेन पूर्विकां प्रतिज्ञामनुस्मृत्य दृढप्रतिज्ञेन तस्य चौरसहस्रस्य भाण्डमनुप्रदत्तम्। सुप्रियो महासार्थवाहः संलक्षयति - इमे चौरा लब्धं लब्धमर्थजातसंनिचयं कुर्वन्ति। मया च महती प्रतिज्ञा कृता सर्वसत्त्वा धनेन मया संतर्पयितव्या इति। सोऽहमिमं चौरसहस्रं न शक्नोमि धनेन संतर्पयितुम्। कथं पुनः सर्वसत्त्वान् धनेन संतर्पयिष्यामीति चिन्तापरो मिद्धमवक्रान्तः॥



अथ तस्य महात्मन उदारपुण्यमहेशाख्यस्योदारचेतसोपपन्नस्य सर्वसत्त्वमनोरथपरिपूरकस्य लोकहितार्थमभ्युद्गतस्य अन्यतरा महेशाख्या देवता उपसंक्रम्य समाश्वासयति-मा त्वं सार्थवाह खेदमापद्यस्व। ऋद्धिष्यति ते प्रणिधिरिति। अस्ति खलु महासार्थवाह अस्मिन्नेव जम्बुद्वीपे बदरद्वीपो नाम महापत्तनोऽमनुष्यावचरितो महेशाख्यमनुष्याधिष्ठितः। सन्ति तस्मिन् बदरद्वीपे प्रधानानि रत्नानि सर्वसत्त्वविचित्रमनोरथपरिपूरकाणि। यदि महासार्थवाहो बदरद्वीपयात्रां साधयेत्, एवमिमां महतीं प्रतिज्ञां प्रतिनिस्तरेत। इयं हि महाप्रतिज्ञा शक्रब्रह्मादीनामपि दुस्तरा, प्रागेव मनुष्यभूतस्य। इत्युक्त्वा सा देवता तत्रैवान्तर्हिता। न च शकिता सुप्रियेण महासार्थवाहेन सा देवता प्रष्टुम्-कतरस्यां दिशि बदरद्वीपः, कथं वा तत्र गम्यत इति। अथ सुप्रियस्य सार्थवाहस्य सुप्तप्रतिबुद्धस्य एतदभवत्-अहो बत मे सा देवता पुनरपि दर्शयेत्, दिशं चोपायं च व्यपदिशेद् बदरद्वीपमहापत्तनस्य गमनायेति चिन्तापरो मिद्धमवक्रान्तः। अथ सा देवता तस्य महात्मन उदारपुण्यमहेशाख्यस्य दृढोदारप्रतिज्ञस्योदारवीर्यपराक्रमनामनिक्षिप्तोत्साहतां विदित्वा उपसंक्रम्य एवमाह- मा त्वं सार्थवाह खेदमापद्यस्व। अस्ति खलु महासार्थवाह पश्चिमे दिग्भागे पञ्चान्तरद्वीपशतानि समतिक्रम्य सप्त महापर्वताः, उच्चैश्च प्रगृहीताश्च सप्त च महानद्यः। तान् वीर्यबलेन लङ्घयित्वा अन्तरोद्दानमनुलोमप्रतिलोमद्वयमावर्तः शङ्खनाभः शङ्खनाभी च नीलोदस्तारकाक्षश्च पर्वतौ नीलग्रीव एव च वैरंभा ताम्राटवी वेणुगुल्मः सप्त पर्वताः सकण्टकाः क्षारनदी त्रिशङ्कुः अयस्किलमष्टादशवक्रो नदीश्लक्ष्ण एव च धूमनेत्रमुदकं सप्ताशीविषपर्वता नदी भवति पश्चिमा। अनुलोमो प्रतिलोमो नाम महासमुद्रः। अनुलोमप्रतिलोमे महासमुद्रे मनुष्यानवचरिते अनुलोमप्रतिलोमा वायवो वान्ति। तत्र योऽसौ पुरुषो भवति महेशाख्यो महेशाख्यदेवतापरिगृहीतः, स महता पुण्यबलेन वीर्यबलेन चित्तबलेन महान्तं प्लवमास्थाय अनुलोमप्रतिलोममहासमुद्रमवतरति। स यन्मासेन गच्छति, तदेकेन दिवसेन प्रत्याह्रियते। एवं द्विः त्रिः। ह्रियमाणश्च प्रत्याह्रियमाणश्च यदि मध्यमामुदकधारां प्रतिपद्यते, एवमसौ मैत्रीबलपरिगृहीतो लोकहितार्थमभ्युद्गम्योत्तरति, निस्तरति, अभिनिष्क्रमति। अनुलोमप्रतिलोमं महासमुद्रं समतिक्रम्य अनुलोमप्रतिलोमो नाम पर्वतः। अनुलोमप्रतिलोमे महापर्वतेऽमनुष्यावचरितेऽनुलोमप्रतिलोमा नाम वायवो वान्ति, यैः पुरुषस्तिमिरीकृतनेत्रो नष्टसंज्ञः संतिष्ठते। स वीर्यबलेनात्मानं संधार्य तस्मादेव महापर्वतादमोघां नामौषधीं समन्विष्य गृहीत्वा नेत्रे अञ्जयित्वा शिरसि बद्ध्वा समालभ्य अनुलोमप्रतिलोमं नाम महापर्वतमभिनिष्क्रमितव्यम्। सचेदेतं विधिमनुतिष्ठते, नास्य संमोहो भवति, स्वस्तिक्षेमेणातिक्रमत्यनुलोमप्रतिलोमं महापर्वतम्। सचेदेवं विधिं वा नानुतिष्ठति औषधीं वा न लभते, लब्ध्वा वा न गृह्णाति, स षण्मासान् मुह्यति, उन्मादमपि प्राप्नोति, उच्छ्रित्य वा कालं करोति। अनुलोमप्रतिलोमं महापर्वतं समतिक्रम्य आवर्तो नाम महासमुद्रः। तत्र वैरम्भका वायवो वान्ति यैस्तदुदकं भ्राम्यते। तत्र योऽसौ पुरुषो भवत्युदारपुण्यविपाकमहेशाख्यो देवतापरिगृहीतः, स महता पुण्यबलेन वीर्यबलेन चित्तबलेन कायबलेन महान्तं प्लबमास्थाय आवर्तं महासमुद्रमवरति। स एकस्मिन्नावर्ते सप्तकृत्वो भ्रामयित्वा निरुध्यते। योजनं गत्वा द्वितीये आवर्ते उन्मज्जते। स तस्मिन्नप्यावर्ते सप्तकृत्वो भ्रामयित्वा निरुध्यते। एवं द्वितीये तृतीये चतुर्थे पञ्चमे षष्ठे आवर्ते सप्तकृत्वो भ्रामयित्वा निरुध्यते, योजनं गत्वा उन्मज्जते। एवमसौ मैत्रीबलपरिगृहीतो लोकहितार्थमभ्युद्गत उत्तरति निस्तरत्यभिनिष्क्रामति। आवर्तं महासमुद्रमभिनिष्क्रम्य आवर्तो नाम पर्वतोऽमनुष्यावचरितः। तत्र शङ्खो नाम राक्षसः प्रतिवसति रौद्रः परप्राणहरो महाबलो महाकायः। तस्योपरिष्टाद्योजनमात्रे शङ्खनाभी नामौषधी दिवा धूमायते रात्रौ प्रज्वलति। सा नागपरिगृहीता तिष्ठति। स खलु नागो दिवा स्वपिति रात्रौ चरति। तत्र तेन पुरुषेण दिवा सुखसुप्तस्य नागस्य आत्मानं समनुरक्षता नागशरीरमविहेठयता औषधिबलेन मन्त्रबलेन पुण्यबलेन शङ्खनाभी औषधी ग्रहीतव्या। गृहीत्वा नेत्रे अञ्जयित्वा शरसि बद्ध्वा समालभ्य आवर्तः पर्वतोऽधिरोढव्यः। सचेदेतां विधिमनुतिष्ठति, स्वस्तिक्षेमेणातिक्रामति आवर्तं पर्वतमविहेठितः शङ्खनाभेन राक्षसेन। सचेदेतां विधिं नानुतिष्ठति, औषधीं वा न लभते, लब्धां वा न गृह्णाति, तमेनं शङ्खनाभो राक्षसः पञ्चत्वमापादयति। आवर्तं पर्वतमतिक्रम्य नीलोदो नाम महासमुद्रः। गम्भीरोऽयं गम्भीरावभासः। नीलोदे महासमुद्रे ताराक्षो नाम राक्षसः प्रतिवसति रक्तनेत्रः प्रदीप्तशिरोरुहो विकृतचरणदशननयनः पर्वतायतकुक्षिः। सचेत् स्वपिति, विवृतान्यस्य नेत्राणि भवन्ति, तद्यथा अचिरोदितो भास्करः। औदारिकाश्चास्य आश्वासप्रश्वासा गुरुगुरुकाः प्रवर्तन्ते यथा मेघस्य गर्जतोऽशन्यां च स्फूर्जत्यां शब्दः। यदा जागर्ति, निमीलितान्यस्य भवन्ति नेत्राणि। तत्र तेन पुरुषेण तस्मादेव समुद्रकूलान्महामकरिनामौषधीं समन्विष्य गृह्य नेत्रे अञ्जयित्वा शिरसि बद्ध्वा समालभ्य महान्तं प्लवमास्थाय सुप्तं ताराक्षं दकराक्षसं विदित्वा पूर्वबुद्धभाषितामेरण्डां नाम महाविद्यामुच्चारयता मन्त्रपदां दकराक्षससमीपेन गन्तव्यम्। सचेदेतां विधिं नानुतिष्ठति, औषधीं वा न लभते, लब्धां वा न गृह्णाति, तमेनं ताराक्षो दकराक्षस ओजं वा घट्टयति, चित्तं वा क्षिपति, सर्वेण वा सर्वं जीविताद्व्यपरोपयति। नीलोदं महासमुद्रं समतिक्रम्य नीलोदो नाम महापर्वतः। तत्र नीलग्रीवो नाम राक्षसः प्रतिवसति पञ्चशतपरिवार उग्रतेजा रौद्रः परप्राणहरः। नीलोदो महापर्वत एकनीलोऽखण्डोऽच्छिद्रोऽसुषिरः संवृत एकघनः। अपीदानीमनिमिषं पश्यतो नेत्राणि व्याबाधयते, मूर्च्छां च संजनयति। तस्योपरिष्टाद्योजनमात्रेऽमोघा नामौषधी विचित्ररूपा। सा नागपरिगृहीता तिष्ठति। स खलु नागो दृष्टिविषोऽपि श्वासविषोऽपि स्पर्शविषोऽपि दंष्ट्राविषोऽपि। यदा स्वपिति, तदा धूमायते। यः खलु तेन धूमेन मृगो वा पक्षी वा स्पृश्यते, स पञ्चत्वमापद्यते। तत्र तेन पुरुषेण शिरःस्नातेनोपोषितेन मैत्रायता करुणायता अव्यापन्नेन चित्तेनात्मानं समनुरक्षता नागशरीरमविहेठयता औषधी ग्रहीतव्या। गृहीत्वा नेत्रे अञ्जयित्वा शिरसि बद्ध्वा समालभ्य अनेन विधिना जानतानुष्ठितेन नीलोदः पर्वतोऽभिरोढव्यः। तिमिरं न भविष्यति, मूर्च्छा च न भविष्यति। न चास्य गुह्यकाः शरीरे प्रहरिष्यन्ति। सचेदेतां विधिं नानुतिष्ठति, औषधीं वा न लभते, लब्धां वा न गृह्णाति, तमेनं नीलग्रीवो राक्षसः पञ्चत्वमापादयिष्यति। नीलोदं पर्वतं समतिक्रम्य वैरम्भो नाम महासमुद्रः। वैरम्भे महासमुद्रे वैरम्भा नाम वायवो वान्ति यैस्तदुदकं क्षोभ्यते, यत्रागतिर्मकरकच्छपवल्लकशिशुमारादीनां प्रेतपिशाचकुम्भाण्डकटपूतनादीनां कः पुनर्वादो मनुष्याणाम्। तमुत्सृज्य उत्तरेण वैरम्भस्य महासमुद्रस्य महती ताम्राटवी अनेकयोजनायामविस्तारा। तस्यास्ताम्राटव्या मध्ये महत् सालवनं महच्चोदपानम्। तत्र ताम्राक्षो नाम अजगरः प्रतिवासति रौद्रः परप्राणहरः परमदुर्गन्धः पञ्चयोजनायामः। स षण्मासान् स्वपिति। यदा स्वपिति, तदा अस्य योजनं सामन्तकेन लालास्य स्फरित्वा तिष्ठति, यदा जागर्ति, अल्पास्य लाला भवति। तस्योपरिष्टान्महान् वेणुगुल्मः। तस्मिन् वेणुगुल्मे महत्यश्मशिला। तां वीर्यबलेन उत्पाट्य गुहा। तस्यां गुहायां संमोहनी नामाषैधी। सा रात्रिंदिवसं प्रज्वलति। तां गृहीत्वा नेत्रे अञ्जयित्वा शिरसि बद्ध्वा समालभ्य सुप्तं ताम्राक्षमजगरं विदित्वा औषधीबलेन मन्त्रबलेन वा अजगरभवनसमीपेन गन्तव्यम्। सचेदेतां विधिमनुतिष्ठति, स्वस्तिक्षेमाभ्यामतिक्रम्य अविहेठितस्ताम्राक्षेणाजगरेण ततः पश्चान्मूलफलानि भक्षयता गन्तव्यम्। महतीं ताम्राटवीमतिक्रम्य सप्त पर्वताः कण्टकवेणुप्रतिच्छन्नाः। तत्र तेन पुरुषेण ताम्रपट्टैः पादौ बद्ध्वा तान् पर्वतान् वीर्यबलेन लङ्घयित्वा सप्त क्षारनद्यः। तासां तीरे महाशाल्मलीवनम्। ततः शाल्मलीफलकैः प्लवं बद्ध्वा अभिरुह्यातिक्रमितव्या अस्पृशता पानीयम्। सचेत् स्पृशेत्, तदङ्गं शीर्यते। सप्त क्षारनदीः समतिक्रम्य त्रिशङ्कुर्नाम पर्वतः। त्रिशङ्कौ पर्वते त्रिशङ्कवो नाम कण्टकास्तीक्ष्णाः सुतीक्ष्णाः। ततस्तेन पुरुषेण ताम्रपट्टैर्वेत्रपाशैः पादौ बद्ध्वा अतिक्रमितव्यम्। त्रिशङ्कुपर्वतमतिक्रम्य त्रिशङ्कुर्नाम नदी। त्रिशङ्कुवो नाम कण्टकास्तीक्ष्णा अष्टादशाङ्गुला उदकेऽन्तर्गतास्तिष्ठन्ति। तत्र तेन पुरुषेण शाल्मलीफलकैः प्लवं बद्ध्वा अतिक्रमितव्यमस्पृशता पानीयम्। सचेत् पतति, तत्रैवानयेन व्यसनमापद्यते। यथा त्रिशङ्कुः पर्वतः, एवं त्रिशङ्कुका नाम नदी। एवमयस्किलः पर्वतोऽयस्किला नाम नदी। अयस्किलानदीमतिक्रम्य अष्टादशवक्रो नाम पर्वतः। उच्छ्रितश्च सर्वतः संवृतोऽद्वारकश्च। अस्य न किंचित् निस्तरणमन्यत्र वृक्षाग्राद् वृक्षमधिरुह्य गन्तव्यम्। अष्टादशवक्रं पर्वतमतिक्रम्य अष्टादशवक्रिका नाम नदी ग्राहमकराकुला संवृता च। तत्र वेत्रपाशं बद्ध्वा अतिक्रमितव्यम्। सचेत् पतति, अनयेन व्यसनमापद्यते। अष्टादशवक्रिकां नदीमतिक्रम्य श्लक्ष्णो नाम पर्वतः। श्लक्ष्णः पर्वतो मृदुरुच्छ्रितोऽद्वारकश्च। न चास्य किंचिन्निस्तरणम्। तत्रायस्कीलानां कोट्यातिक्रमितव्यम्। श्लक्ष्णं पर्वतमतिक्रम्य श्लक्ष्णा नाम नदी ग्राहमकराकुला। संवृता च सा नदी। तत्र वेत्रपाशान् बद्ध्वा अतिक्रमितव्यम्। सचेत् पतति, अनयेन व्यसनमापद्यते। श्लक्ष्णां नदीमतिक्रम्य धूमनेत्रो नाम पर्वतो धूमायते संधूमायते। येन खलु तेन धूमेन मृगा वा पक्षिणो वा स्पृश्यन्ते, पञ्चत्वमापद्यन्ते। धूमनेत्रः पर्वत उच्छ्रितो महाप्रपातोऽद्वारकश्च। तत्र तेन पुरुषेण गुहा पर्येषितव्या। गुहां समन्विष्य तेनात्र गुहाद्वारमौषधिबलेन मन्त्रबलेन च मोक्तव्यम्। सा च खलु गुहा आशीविषपरिपूर्णा तिष्ठति। ते खलु आशीविषा दृष्टिविषा अपि, स्पर्शविषा अपि। धूमनेत्रस्य पर्वतस्योपरिष्टान्महदुदकपल्वलम्। तस्मिन्नुदकपल्वले महत्यश्मशिला। तां वीर्यबलेनोत्पाट्य गुहा। तस्यां गुहायां संजीवनी नामौषधी ज्योतीरसश्च मणिर्दीपप्रभासः। तामौषधीं गृहीत्वा सशीर्षपादं समालभ्य तां चौषधीं गृहीत्वा गुहा प्रवेष्टव्या। औषधीबलेन मन्त्रबलेन औषधीप्रभावाच्चाशीविषाः काये न क्रमिष्यन्ति। एवं हि तस्मात् पर्वतान्निस्तरणं भविष्यति। धूमनेत्रपर्वतमतिक्रम्य सप्ताशीविषपर्वताः। औषधीबलेन मन्त्रबलेन च सप्ताशीविषपर्वता अतिक्रमितव्याः। सप्ताशीविषपर्वतानतिक्रम्य सप्ताशीविषनद्यः। तीक्ष्णगन्धा नाम तत्राशीविषाः। तत्र तेन पुरुषेण मांसपेश्यन्वेषितव्या। तासामाशीविषनदीनां तीरे शाल्मलीवनम्। ततः शाल्मलीफलकैः प्लवं बद्ध्वा मांसपेश्या आत्मानमाच्छाद्य अधिरोढव्यम्। ततस्ता आशीविषा मांसगन्धेन पारात् पारं गमिष्यन्ति। सप्ताशीविषमतिक्रम्य महान् सुधावदातः पर्वतः, उच्चश्च प्रगृहीतश्च। सोऽधिरोढव्यः। तत्र द्रक्ष्यसि महान्तं सौवर्णभूमिं पृथिवीप्रदेशं पुष्पफलच्छायावृक्षोपशोभितम्। रोहितकान् जनपदान् ऋद्धांश्च क्षेमांश्च सुभिक्षांश्च आकीर्णबहुजनमनुष्यांश्च। रोहितकं च महानगरं द्वादशयोजनायामं सप्तयोजनविस्तृतं सप्तप्राकारपरिक्षिप्तं द्वाषष्टिद्वारोपशोभितं भवनशतसहस्रविराजितं सुविविक्तरथ्यावीथिचत्वरशृङ्गाटकान्तरापणम्। वीणा वल्लिका महती सुघोषकैः श्रोत्राभिरामैश्च गीतध्वनिभिरनुपरतप्रयोगं नानापण्यसंवृद्धं नित्यप्रमुदितजनौघसंकुलं त्रिदशेन्द्रोपेन्द्रसदृशोद्यानसभापुष्करिणीसंपन्नं कादम्बहंसकारण्डवचक्रवाकोपशोभिततडागं रोहितकं महाराजाध्युषितं महापुरुषवणिग्निसेवितम्। यत्र मघः सार्थवाहः प्रतिवसति अभिरूपो दर्शनीयः प्रासादिकः पण्डितो व्यक्तो मेधावी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी द्वीपान्तरद्वीपगमनविधिज्ञो महासमुद्रयानपात्रयायी। स ते बदरद्वीपमहापत्तनस्य प्रवृत्तिमाख्यास्यति, निमित्तानि च दर्शयिष्यति। यथोक्तं च विधिमनुष्ठास्यसि, न च खेदमापत्स्यसे। एवं महासार्थवाह परमदुष्करकारक इमां सुमेरुमलयमन्दरसदृशीं दृढां प्रतिज्ञां निस्तरिष्यसि। इयं च महाप्रतिज्ञा शक्रब्रह्मादीनामपि दुष्करा, प्रागेव मनुष्यभूतानाम्॥



इत्युक्त्वा सा देवता तत्रैवान्तर्हिता। अथ सुप्रियः सार्थवाहः सुप्तप्रतिबुद्धो देवतावचनं श्रुत्वा परमविस्मयमापन्नश्चिन्तयति-नूनमनया देवतया अनेकैरेवंविधैः परमदुष्करशतसहस्रैर्बदरद्वीपयात्रा साधितपूर्वा भविष्यति। यदि तावत् साधिता, दुष्करकारिका इयं देवता। अथ साध्यमाना, दृष्ट्वाः परमदुष्करकारकास्ते मनुष्याः, यैरनेकैर्दुष्करशतसहस्रैर्बदरद्वीपयात्रा साधिता। अतिदुष्करं चैतदस्माभिः करणीयम्। अथवा यद्यप्यहं लोकहितार्थे प्रतिपद्येयम्, सफलो मे परिश्रमः स्यात्। यथा अनेकैर्दुष्करशतसहस्रैर्बदरद्वीपमहापत्तनयात्रां साधयिष्यामि, परं लोकानुग्रहं करिष्यामि। तेऽपि मनुष्याः, यैरनेकैर्दुष्करशतसहस्रैर्बदरद्वीपयात्रा साधितपूर्वा। अहमपि मनुष्यः। तैः साधिता। कस्मादहं न साधयिष्यामीत्यनुविचिन्त्य सुप्रियो महासार्थवाहो दृढप्रतिज्ञो दृढवीर्यपराक्रमोऽनिक्षिप्तोत्साह उदारपुण्यविपाकमहेशाख्यो लोकहितार्थमभ्युद्गतो यथोपदिष्टोद्देशस्मृतिपरिगृहीतो दृढप्रतिज्ञां समनुस्मृत्य महता वीर्यबलेन एकाकी अद्वितीयव्यवसायो यथोपदिष्टानि पञ्चान्तरद्वीपशतानि समतिक्रामति। सप्त महापर्वतान्, सप्त महानद्यो विस्तरेण सर्वाणि संकटानि यथोक्तेन विधिना मूलकन्दफलाहारो गुणवति फलके बद्ध्वा परिपूर्णैर्द्वादशभिर्वर्षै रोहितकं महानगरमनुप्राप्तः। उद्याने स्थित्वा अन्यतमं पुरुषमामन्त्रयते-कश्चिद्भोः पुरुष अस्मिन् रोहितके महानगरे मघो नाम सार्थवाहः प्रतिवसति ? स एवमाह -अस्ति भोः पुरुष। किं तर्हि महाव्याधिना ग्रस्तः। स्थानमेतंद्विद्यते यत्तेनैवाबाधेन कालं करिष्यतीति। अथ सुप्रियस्य महासार्थवाहस्यैतदभवत् - मा हैव मघो महासार्थवाहोऽदृष्ट एव कालं कुर्यात्। को मे व्यपदेशं करिष्यति तस्य बदरद्वीपमहापत्तनस्य गमनायेति विदित्वा त्वरितत्वरितं येन मघस्य सार्थवाहस्य निवेशनं तेनोपसंक्रान्तः। स द्वारे निवार्यते, न लभते प्रवेशं महासार्थवाहदर्शनाय। धर्मता खलु कुशला बोधिसत्त्वास्तेषु तेषु शिल्पस्थानकर्मस्थानेषु। ततो वैद्यसंज्ञां घोषयित्वा प्रविष्टः। अद्राक्षीत् सुप्रियो महासार्थवाहोऽरिष्टाध्यायेषु विदितवृत्तान्तः -मघः सार्थवाहः षड्भिर्मासैः कालं करिष्यतीति विदित्वा सुप्रियो महासार्थवाहोऽधीत्य वैद्यमतानि स्वयमेव मूलगण्डपत्रपुष्पफलभैषज्यान्यनुलोमिकानि व्यपदिशति स्म व्याधिव्युपशमार्थम्। परं चैनं तोषयति चित्राक्षरव्यञ्जनपदाभिधानैः, शास्त्रबद्धाभिः कथाभिः, नानाश्रुतिमनोरथाख्यायिकाभिः संरञ्जयति। दाक्ष्यदाक्षिण्यचातुर्यमाधुर्योपेतमुपस्थानकर्मणि सत्पुत्र इव पितरं भक्त्या गौरवेण शुश्रूषते। ततो मघस्य सार्थवाहस्य क्षेमणीयतरं चाभूद्यापनीयतरं च। संज्ञा अनेन प्रतिलब्धा। अथ मघः महासार्थवाहः प्रतिलब्धसंज्ञः सुप्रियं महासार्थवाहमिदमवोचत्-कुतो भवान् ज्ञानविज्ञानसंपन्नोऽभिरूपो दर्शनीयः प्रासादिकः पण्डितो व्यक्तो मेधावी पटुप्रचारः सर्वशास्त्रज्ञः सर्वशास्त्रविशारदः सर्वकलाभिज्ञः सर्वभूतरुतज्ञ इङ्गितज्ञः ? किं जात्या भवान् ? किंगोत्रः ? केन वा कारणेन अमनुष्यावचरितं देशमभ्यागतः ? एवमुक्तः सुप्रियः सार्थवाहः कथयति-साधु साधु महासार्थवाह। कालेऽस्मि महासार्थवाहेन जातिकुलगोत्रागमनप्रयोजनं पृष्टः। अथ सुप्रियो महासार्थवाहो मघाय सार्थवाहाय जातिकुलगोत्रागमनप्रयोजनं विस्तरेणारोचयति स्म, परं चैनं विज्ञापयति-सार्थवाहानुभावादहं बदरद्वीपमहापत्तनं पश्येयम्। एवमहं स्यात् परिपूर्णमनोरथो निस्तीर्णदृढप्रतिज्ञः सर्वसत्त्वमनोरथपरिपूरकः। अथ मघो महासार्थवाहः सुप्रियस्य महासार्थवाहस्याश्रुतपूर्वां परहितार्थमभ्युद्यतां दृढप्रतिज्ञां श्रुत्वा परमविस्मयजातोऽनिमिषदृष्टिः सुचिरं निरीक्ष्य सुप्रियं महासार्थवाहमिदमवोचत्-तरुणश्च भवान् धर्मकामश्च। आश्चर्यममानुषपराक्रमं ते पश्यामि, यो नाम भवान् जम्बुद्वीपादमनुष्यावचरितं पर्वतसमुद्रनद्योत्तरणं कृत्वा इहागतः, यत्रामनुष्याः प्रलयं गच्छन्ति, प्रागेव मनुष्याः। देवं तद्भवन्तं पश्यामि देवान्यतमं वा मनुष्यवेषधारिणम्। न ते किंचिद्दुस्तरमसाध्यं वा। अपि तु अहं महाव्याधिना ग्रस्तो मुमूर्षुः। भवांश्चायातः। अपि तु को भवतोऽर्थे परहितार्थेऽभ्युद्यतस्यात्मपरिप्त्यागमपि न कुर्यात् ? तेन हि वत्स क्षिप्रं मङ्गलपोतं समुदानय, संवरं चारोपय, यदावयोर्यात्रायनं भविष्यतीति। एवं सार्थवाहेति सुप्रियो महासार्थवाहो मघाय महासार्थवाहाय प्रतिश्रुत्य मङ्गलपोतं समुदानीय संवरं चारोप्य येन मघो महासार्थवाहस्तेनोपसंक्रान्तः। उपसंक्रम्य मघं सार्थवाहमिदमवोचत् - देव समुदानीतो मङ्गलपोतः, संवरं चारोपितम्, यस्येदानीं महासार्थवाहः कालं मन्यते। अथ मघो महासार्थवाहो बदरद्वीपमहापत्तनगमनकृतबुद्धिः स्वजनबन्धुवर्गपुत्रदारमित्रामात्यज्ञातिसालोहितैः सभृत्यवर्गेण च रोहितकराज्ञा च निवार्यमाणोऽपि गुणवति फलके बद्ध्वा आशु सुप्रियसार्थवाहसहायो मङ्गलपोतमभिरुह्य महासमुद्रमवतीर्णः। अथ मघो महासार्थवाहः सुप्रियस्य महासार्थवाहस्य कथयति- अहं बाढग्लानो न शक्यामि स्थितो गन्तुम्। तदर्हसि शय्यां कल्पयितुं यत्राहमपाश्रितो गमिष्यामीति। अपि तु अस्मिन् महासमुद्रे यावदेवंविधानि निमित्तानि भवन्ति उदकस्य वर्णसंस्थानानि च मम निवेदयितव्यानि। यथा अनेकानि योजनशतानि गत्वा अद्राक्षीत् सुप्रियो महासार्थवाह एकपाण्डरं पानीयम्। दृष्ट्वा पुनर्मघाय सार्थवाहायारोचयति -यत्खलु महासार्थवाह जानीयाः, एकपाण्डरं पानीयं पश्यामि। एवमुक्ते मघः सार्थवाहः कथयति-नैतन्महासार्थवाह एकपाण्डरं पानीयम्। अपि तु पश्यसि त्वं दक्षिणकेन महत्सुधापर्वतं यदिदं तस्यैतदनुभावेन पानीयं रञ्जितम्। यत्रैकविंशतिधातुगोत्राणि, यं पक्त्वा सुवर्णरूप्यवैदूर्यान्यभिनिर्वर्तन्ते, यदेके जाम्बुद्वीपका मनुष्या रत्नान्यादाय प्रतिनिवर्तन्ते। इदं बदरद्वीपमहापत्तनस्य प्रथमनिमित्तम्। पुनरपि गच्छन् पश्यति सुप्रियो महासार्थवाहः शस्त्रवर्णं पानीयम्। दृष्ट्वा च पुनर्मघाय सार्थवाहायारोचयति -यत् खलु महासार्थवाह जानीयाः-शस्त्रवर्णं पानीयं दृश्यते। मघः सार्थवाहः कथयति-नैतच्छस्त्रवर्णं पानीयम्। पश्यसि त्वं दक्षिणकेण महच्छस्त्रपर्वतम्। तस्यैतदनुभावेन पानीयं रञ्जितम्। अत्राप्यनेकानि धातुगोत्राणि, यं पक्त्वा सुवर्णरूप्यवैदूर्यस्फटिकान्यभिनिर्वर्तन्ते, यदेके जाम्बुद्वीपका मनुष्या रत्नान्यादाय प्रतिनिवर्तन्ते। इदं बदरद्वीपमहापत्तनस्य द्वितीयं निमित्तम्। एवं लोहपर्वतास्ताम्रपर्वता रूप्यपर्वताः सुवर्णपर्वताः स्फटिकपर्वता वैदूर्यपर्वताः। अद्राक्षीत् सुप्रियो महासार्थवाहो नीलपीतलोहितावदातं पानीयम्, अन्तर्जले च दीपार्चिषः पश्यति दीप्यमानाः। दृष्ट्वा च पुनर्मघाय सार्थवाहायारोचयति- यत्खलु महासार्थवाह जानीयाः-नीलपीतलोहितावदातं पानीयं दृश्यते, अन्तर्जले च दीपार्चिषो दीप्यमानाः। एवमुक्ते मघो महासार्थवाहः कथयति- नैतन्महासार्थवाह नीलपीतलोहितावदातं पानीयम्, नाप्येते दीपा इव दीप्यन्ते। पश्यसि त्वं दक्षिणकेन चतूरत्नमयं पर्वतम्। तस्यैतदनुभावेन पानीयं रञ्जितम्। येऽप्येते दीपा इव दीप्यन्ते, एतेऽन्तर्गता औषध्यो दीप्यन्ते। अत्राप्यनेकानि धातुगोत्राणि, यं पक्त्वा सुवर्णरूप्यवैदूर्यस्फटिकान्यभिनिर्वर्तन्ते, यत्रैके जाम्बुद्वीपका मनुष्या रत्नान्यादाय प्रतिनिवर्तन्ते। इदं बदरद्वीपमहापत्तनस्य दशमं निमित्तम्। अपि तु महासार्थवाह इयन्त्येवाहं बदरद्वीपमहापत्तनस्य दश निमित्तानि जाने गमनं प्रति, अतः परेण न जाने । एवमुक्ते सुप्रियो महासार्थवाहः कथयति-कदा बदरद्वीपमहापत्तनस्य गमनायान्तो भविष्यति ? एवमुक्ते मघः सार्थवाहः कथयति- मयापि सुप्रिय बदरद्वीपमहापत्तनं कार्त्स्येन न दृष्टम्। अपि तु मया श्रुतं पौराणानां महासार्थवाहानामन्तिकाज्जीर्णानां वृद्धानां महल्लकानाम् -इतो जलमपहाय पश्चिमां दिशं स्थलेन गम्यते। तेन चैवमभिहितम्, मरणान्तिकाश्चास्य वेदनाः प्रादुर्भूताः। ततः सुप्रियाय महासार्थवाहाय कथयति- मरणान्तिका मे वेदनाः प्रादुर्भूताः। एतत्त्वं मङ्गलपोतं तीरमुपनीय वेत्रपाशं बद्ध्वा मच्छरीरे शरीरपूजां कुरुष्व। ततः सुप्रियो महासार्थवाहस्तं मङ्गलपोतं तीरमुपनीय वेत्रपाशं बघ्नाति। अत्रान्तरे मघो महासार्थवाहः कालगतः। अथ सुप्रियो महासार्थवाहो मघं सार्थवाहं कालगतं विदित्वा स्थले उत्थाप्य शरीरे शरीरपूजां कृत्वा चिन्तयति-मङ्गलपोतमारुह्य यास्यामीति। स च पोतो वायुना वेत्रपाशं छित्त्वा अपहृतः। ततः सुप्रियो महासार्थवाहश्चतूरत्नमयस्य पर्वतस्य दक्षिणेन पार्श्वेनाटव्यां स्थलेन संप्रस्थितो मूलफलानि भक्षयमाणः। अनेकानि योजनानि गत्वा अद्राक्षीत् श्लक्ष्णं पर्वतमनुपूर्वप्रवणमनुपूर्वप्राग्भारम्। न शक्यतेऽभिरोढुम्। ततः सुप्रियो महासार्थवाहो मधुना पादौ प्रलिप्याभिरूढश्च, अवतीर्णश्च, अनेकानि योजनानि गत्वा मूलफलाहारो गतः। स तत्र पश्यति महान्तं पर्वतमुच्चं च प्रगृहीतं च। निःसरणं पर्येषमाणो न लभते, न चास्य कश्चिन्निःसरणव्यपदेष्टा। ततश्चिन्तापरः शयितः। तत्र च पर्वते नीलादो नाम यक्षः प्रतिवसति। स संलक्षयति - अयं बोधिसत्त्वो लोकहितार्थमुद्यतः परिक्लिश्यते, यन्न्वहमस्य साहाय्यं कल्पयेयम्। इदमनुचिन्त्य सुप्रियं महासार्थवाहमिदमवोचत्-इतो महासार्थवाह पूर्वेण योजनं गत्वा त्रीणि पर्वतशृङ्गाण्यनुपूर्वनिम्नान्यनुपूर्वप्रवणान्यनुपूर्वप्राग्भाराणि। तत्र त्वया वेत्रशिटां (?) बद्ध्वा अतिक्रमितव्यम्। अथ सुप्रियो महासार्थवाहः सुप्तप्रबुद्धो वेत्रशिटा बद्ध्वा तानि पर्वतशृङ्गाण्यतिक्रान्तः। भूयः संप्रस्थितोऽद्राक्षीत् सुप्रियो महासार्थवाहः स्फटिकपर्वतं श्लक्ष्णं निरालम्बमगम्यं मनुष्यमात्रस्य। न चास्योपायं पश्यति तं पर्वतमभिरोहणायेति विदित्वा चिन्तापरोऽहोरात्रमवस्थितः। तस्मिंश्च पर्वते चन्द्रप्रभो नाम यक्षः प्रतिवसति। स चिन्तापरं सार्थवाहं विदित्वा लोकहितार्थमभ्युद्यतं महायानसंप्रस्थितं प्रसन्नचित्तं चोपेत्याश्वासयति- न खलु महासार्थवाहेन विषादः करणीय इति। पूर्वेण क्रोशमात्रं गत्वा महच्चन्दनवनम्। तस्मिंश्च चन्दनवने महत्यश्मशिला। तां वीर्यबलेनोत्पाट्य गुहां द्रक्ष्यसि। तस्यां गुहायां प्रभास्वरा नामौषधी पञ्चगुणोपेता। तया गृहीतया नास्य काये शस्त्रं क्रमिष्यति, अमनुष्याश्चावतारं न लप्स्यन्ते, बलं च वीर्यं च संजनयति, आलोकं च करोति। तेनालोकेन द्रक्ष्यसि चतूरत्नमयं सोपानम्। तेन सोपानेन स्फटिकपर्वतमतिक्रमितव्यम्। स्फटिकपर्वतमतिक्रान्तस्य ते प्रभास्वरा औषध्यन्तर्धास्यति। तत्र ते न शोचितव्यं न क्रन्दितव्यं न परिदेवितव्यम्। अथ चन्द्रप्रभो यक्षः सुप्रियं महासार्थवाहं समनुशास्य तत्रैवान्तर्हितः। अथ सुप्रियो महासार्थवाहश्चन्द्रप्रभेण महायक्षेण समाश्वास्य आदेशितमार्गो यथोक्तेन विधिना स्फटिकपर्वतमतिक्रान्तः। अतिक्रान्तस्य चास्य प्रभास्वरा औषध्यन्तर्हिता। भूयः संप्रस्थितोऽद्राक्षीत् सुप्रियो महासार्थवाहः सौवर्णं महानगरमारामसंपन्नं पुष्करिणीसंपन्नम्। ततः सुप्रियो महासार्थवाहो नगरद्वारं गतः। यावद्बद्धं नगरं पश्यति। दृष्ट्वा च पुनरुद्यानं गत्वा चिन्तयति-यद्यप्यहं नगरमद्राक्षम्, तदपि शून्यम्। कदा बदरद्वीपस्य महापत्तनस्यागमनायाध्वा भविष्यतीति विदित्वा शयितः। अथ सा पूर्वदेवता सुप्रियं महासार्थवाहं दुर्मनसं विदित्वा रात्र्याः प्रत्यूषसमय उपसंक्रम्य समाश्वास्य उत्कर्षयति- साधु साधु महासार्थवाह, निस्तीर्णानि ते महासमुद्रपर्वतनदीकान्ताराणि मनुष्यामनुष्यागम्यानि। संप्राप्तोऽसि बदरद्वीपमहापत्तनं मनुष्यामनुष्यानवचरितं महेशाख्यपुरुषाध्युषितम्। किं तर्हि न सांप्रतमप्रमादः करणीयः। इन्द्रियाणि च गोपयितव्यानि चक्षुरादीनि, कायगता स्मृतिर्भावयितव्या। श्वोभूते नगरद्वारं त्रिकोटयितव्यम्। ततश्चतस्रः किन्नरकन्या निर्गमिष्यन्ति अभिरूपा दर्शनीयाः प्रासादिकाश्चातुर्यमाधुर्यसंपन्नाः सर्वाङ्गप्रत्यङ्गोपेताः परमरूपाभिजाताः सर्वालंकारविभूषिता हसितरमितपरिचारितनृत्तगीतवादित्रकलास्वभिज्ञाः। तास्त्वामत्यर्थमुपलालयन्ति, एवं च वक्ष्यन्ति-एतु महासार्थवाहः। स्वागतं महासार्थवाह, अस्माकमस्वामिनीनां स्वामी भव, अपतिकानां पतिरलयनानां लयनोऽद्वीपानां द्वीपोऽत्राणानां त्राणोऽशरणानां शरणमपरायणानां परायणः। इमानि च तेऽन्नगृहाणि पानगृहाणि वस्त्रगृहाणि शयनगृहाण्यारामरमणीयानि, प्रभूतानि च जाम्बुद्वीपकानि रत्नानि, तद्यथा- मणयो मुक्ता वैदूर्यशङ्खशिलाप्रवालरजतजातरूपमश्मगर्भमुसारगल्वो लोहितिका दक्षिणावर्ताः। एतानि च ते रत्नानि। त्वं चास्माभिः सार्धं क्रीडस्व रमस्व परिचारयस्व। तत्र ते तासु मातृसंज्ञा उपस्थापयितव्या, भगिनीसंज्ञा दुहितृसंज्ञा उपस्थापयितव्या। दशाकुशलाः कर्मपथा विगर्हितव्याः, दश कुशलाः कर्मपथाः संवर्णयितव्याः। सुबह्वपि ते प्रलोभ्यमानेन रागसंज्ञा नोत्पादयितव्या। सचेदुत्पादयिष्यसि तत्रैवानयेन व्यसनमापत्स्यसे। सूपस्थितस्मृतेस्तव सफलः श्रमो भविष्यति। यद्यपि ते सुभाषितस्यार्घमणिं प्रयच्छेयुः, ततस्त्वया निपुणं प्रष्टव्याः-अस्य रत्नस्य भगिन्यः कोऽनुभाव इति। एवं द्वितीयं किन्नरनगरमनुप्राप्तस्याष्टौ किन्नरकन्या निर्गमिष्यन्ति, तासां पूर्विकानामन्तिकादभिरूपतराश्च। तत्रापि ते एषानुपूर्वीं करणीया। यावच्चतुर्थकिन्नरनगरप्राप्तस्य ते द्वात्रिंशत् किन्नरकन्या निर्गमिष्यन्ति तासां पूर्विकानामन्तिकादभिरूपतराश्च दर्शनीयतराश्च प्रासादिकतराश्चाप्सरसः-प्रतिस्पर्धिन्यः। शतसहस्रशोभिता भविष्यन्ति। तत्रापि ते एषैवानुपूर्वी करणीया। इत्युक्त्वा सा देवता तत्रैवान्तर्हिता॥



अथ सुप्रियो महासार्थवाहः प्रमुदितमनाः सुखप्रतिबुद्धः काल्यमेवोत्थाय सौवर्णं किन्नरनगरमनुप्रातः। द्वारमूलमुपसंक्रम्य त्रिकोटयति। ततः सुप्रियेण महासार्थवाहेन त्रिकोटिते द्वारे चतस्रः किन्नरकन्या निर्गता अभिरूपा दर्शनीयाः प्रासादिकाश्चातुर्यमाधुर्यसंपन्नाः सर्वाङ्गप्रत्यङ्गोपेताः परमरूपाभिजाता हसितरमितपरिचारितनृत्तगीतवादित्रकलास्वभिज्ञाः। ता एवमाहुः - एतु महासार्थवाहः। स्वागतं महासार्थवाह। अस्माकमस्वामिनीनां स्वामी भव, अपतीनां पतिरलयनानां लयनोऽद्वीपानां द्वीपोऽशरणानां शरणोऽत्राणानां त्राणोऽपरायणानां परायणः। इमानि च तेऽन्नगृहाणि पानगृहाणि वस्त्रगृहाणि शयनगृहाण्यारामरमणीयानि वनरमणीयानि पुष्करिणीरमणीयानि च। जाम्बुद्वीपकानि रत्नानि, तद्यथामणयो मुक्ता वैदूर्यशङ्खशिलाप्रवालरजतजातरूपमश्मगर्भो मुसारगल्वो लोहितिका दक्षिणावर्ताः एतानि च। त्वं चास्माभिः सार्धं क्रीडस्व रमस्व परिचारयस्व। अथ सुप्रियं महासार्थवाहं सूपस्थितस्मृतिं ताः किन्नरकन्याः सर्वाङ्गैरनुपरिगृह्य सौवर्णं किन्नरनगरं प्रवेश्य प्रासादमभिरोप्य प्रज्ञप्त एवासने निषादयन्ति। निषण्णः सुप्रियो महासार्थवाहो दशाकुशलान् कर्मपथान् विगर्हति, दश कुशलान् कर्मपथान् संवर्णयति, सुबह्वपि प्रलोभ्यमानो न शक्यते स्खलयितुम्। तुष्टाश्च ताः किन्नरकन्याः कथयन्ति-आश्चर्यं यत्रेदानीं दहरश्च भवान् धर्मकामश्च। न च कामेषु सज्जसे वा बध्यसे वा। प्रभूतैश्च रत्नैश्च प्रवारयन्ति। धर्मदेशनावर्जिताश्च एकं सौभासिनिकं रत्नमनुप्रयच्छन्ति। ततः सुप्रियो महासार्थवाहस्तस्य रत्नस्य प्रभावान्वेषी कथयति-अस्य रत्नस्य भगिन्यः कोऽनुभाव इति। ताः कथयन्ति- यत्खुल सार्थवाह जानीयाः - तदेव पोषधे पञ्चदश्यां शिरःस्नात उपोषधोषित इदं मणिरत्नं ध्वजाग्रे आरोप्य योजनसहस्रं सामन्तकेन यो येनार्थी भवति हिरण्येन वा सुवर्णेन वा अन्नेन वा वस्त्रेण वा पानेन वा अलंकारविशेषेण वा द्विपादेन वा चतुष्पादेन वा यानेन वा वाहनेन वा धनेन वा धान्येन वा, स चित्तमुत्पादयतु, वाचं च निश्चारयतु। सहचित्तोत्पादाद् वाग्निश्चारणेन यथेप्सिताश्चोपकरणविशेषा आकाशादवतरिष्यन्ति। अयमस्य रत्नस्यानुभावः। अथ सुप्रियो महासार्थवाहस्ताः किन्नरकन्या धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य मातृभगिनीदुहितृवत् प्रतिसंमोद्य सौवर्णात् किन्नरनगरात् प्रतिनिष्क्रान्तः। अद्राक्षीत् सुप्रियो महासार्थवाहो रूप्यमयं किन्नरनगरमारामसंपन्नं वनसंपन्नं पुष्करिणीसंपन्नम्। तत्रापि सुप्रियेण सार्थवाहेन त्रिकोटिते द्वारेऽष्टौ किन्नरकन्या निर्गताः। ता अप्येवमाहुः-एतु महासार्थवाहः। स्वागतं महासार्थवाहाय। अस्माकमस्वामिकानां स्वामी भव, पूर्ववद्यावत्ताभिरपि धर्मदेशनावर्जिताभिस्तद्विशिष्टतरं द्विसाहस्रयोजनवर्षकं मणिरत्नमनुप्रदत्तम्। तत्रापि सुप्रियो महासार्थवाहस्ताः किन्नरकन्या धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य मातृभगिनीदुहितृवत् प्रतिसंमोद्य रूप्यमयात् किन्नरनगरात् प्रतिनिष्क्रान्तो यावत् तृतीयं वैडूर्यमयं किन्नरनगरमनुप्राप्तः। तत्रापि सुप्रियेण सार्थवाहेन त्रिकोटिते द्वारे षोडश किन्नरकन्या निर्गताः, तासां पूर्विकानामन्तिकादभिरूपतराश्च प्रासादिकतराश्च। ता अपि धर्मदेशनावर्जितास्तत एव विशिष्टतरं सौभासिनिकं त्रिसाहस्रयोजनिकं रत्नमनुप्रयच्छन्ति। ततः सुप्रियो महासार्थवाहस्तस्य रत्नस्य प्रभावान्वेषी कथयति- अस्य रत्नस्य भगिन्यः कोऽनुभाव इति ? किन्नरकन्याः कथयन्ति-पूर्ववत्। सुप्रियो महासार्थवाहस्ताः किन्नरकन्या धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य मातृभगिनीदुहितृवत् प्रतिसंमोद्य तृतीयात् किन्नरनगरात् प्रतिनिष्क्रान्तः। अद्राक्षीत् सुप्रियो महासार्थवाहश्चतुर्थं चतूरत्नमयं किन्नरनगरमारामोद्यानप्रासाददेवकुलपुष्करिणीतडागसुविभक्तरथ्यावीथीचत्वरशृङ्गाटकान्तरापणसुरचितगन्धोज्ज्वलं नानागीतवादितयुवतिमधुरस्वरवज्रवैदूर्यशातकुम्भमयप्राकारतोरणोपशोभितम्। द्वारं त्रिराकोटयति। ततः सुप्रियेण सार्थवाहेन त्रिराकोटिते द्वारे द्वात्रिंशत् किन्नरकन्या निर्गताः, तासां पूर्विकाणामन्तिकादभिरूपतराश्च दर्शनीयतराश्चाप्सरसःप्रतिस्पर्धिन्यः शतसहस्रशोभिताः। ता अप्येवमाहुः-एतु महासार्थवाहः। स्वागतं महासार्थवाहाय। अस्माकमस्वामिकानां स्वामी भव, अपतीनां पतिरलयनानां लयनोऽद्वीपानां द्वीपोऽशरणानां शरणोऽत्राणानां त्राणोऽपरायणानां परायणः। इमानि च तेऽन्नगृहाणि पानगृहाणि वस्त्रगृहाणि शयनगृहाण्यारामरमणीयानि वनरमणीयानि पुष्करिणीरमणीयानि। प्रभूतानि च जाम्बुद्वीपकानि रत्नानि, तद्यथा-मणयो मुक्ता वैडूर्यशङ्खशिलाप्रवालरजतं जातरूपमश्मगर्भो मुसारगल्वो लोहितिका दक्षिणावर्ताः। एतानि च ते वयं च। अस्माभिः सार्धं क्रीडस्व रमस्व परिचारयस्व। तत्रापि सुप्रियो महासार्थवाहः सूपस्थितस्मृतिस्ताः किन्नरकन्या विविधैर्धर्मपदव्यञ्जनैः परितोषयामास। तुष्टाश्च ताः किन्नरकन्याः सुप्रियं महासार्थवाहं सर्वाङ्गैरनुपरिगृह्य चतूरत्नमयं किन्नरनगरमनुप्रवेश्य प्रासादमभिरोप्य प्रज्ञप्त एवासने निषादयन्ति। निषण्णः सुप्रियो महासार्थवाहो दशाकुशलान् कर्मपथान् विगर्हति, दश कुशलान् कर्मपथान् संवर्णयति, सुबह्वपि प्रलोभ्यमानो न शक्यते स्खलयितुम्। तुष्टाश्च ताः किन्नरकन्याः कथयन्ति-आश्चर्यं यत्रेदानीं दहरश्च भवान् धर्मकामश्च। न च कामेषु सज्जसे वा बध्यसे वा। प्रभूतैश्च रत्नैः प्रवारयन्ति। ता अपि धर्मदेशनावर्जिताः सौभासिनिकं जाम्बुद्वीपप्रधानमनर्घ्येयमूल्यमनन्तगुणप्रभावं बदरद्वीपमहापत्तने सर्वस्वभूतं रत्नमनुप्रयच्छन्ति। एवं च कथयन्ति- इदमस्माकं महासार्थवाह मणिरत्नं बदरेण भ्रात्रा किन्नरराज्ञा अनुप्रदत्तम्, अस्मिन् बदरद्वीपमहापत्तने चिह्नभूतमालक्ष्यभूतं मण्डनभूतं च। ततः सुप्रियो महासार्थवाहः कथयति-अस्य रत्नस्य कोऽनुभाव इति ? ताः कथयन्ति- यत्खलु महासार्थवाह जानीयाः- इदं मणिरत्नं तदेव पोषधोषितो ध्वजाग्रे बद्ध्वा आरोप्य कृत्स्ने जम्बुद्वीपे घण्टावघोषणं करणीयम्-शृण्वन्तु भवन्तो जम्बुद्वीपनिवासिनः स्त्रीमनुष्याः, युष्माकं यो येनार्थी उपकरणविशेषेण हिरण्येन वा सुवर्णेन वा रत्नेन वा अन्नेन वा पानेन वा वस्त्रेण वा भोजनेन वा अलंकारविशेषेण वा द्विपदेन वा चतुष्पदेन वा वाहनेन वा यानेन वा धनेन वा धान्येन वा, स चित्तमुत्पादयतु, वचनं च निश्चारयतु। सहचित्तोत्पादाद्वाग्निश्चारणेन च यथेप्सिताश्चोपकरणविशेषा अस्य रत्नस्यानुभावादाकाशादवतरिष्यन्ति। अयं तु प्रतिविशेषः -यानि चास्य लोकस्य भवन्ति महाभयानि, तद्यथा-राजतो वा चौरतो वा अग्नितो वा उदको वा मनुष्यतो वा अमनुष्यतो वा सिंहतो वा व्याघ्रतो वा द्वीपतरक्षुतो वा यक्षराक्षसप्रेतपिशाचकुम्भाण्डपूतनकटपूतनतो वा, ईतयोपद्रवो वा, उपसर्गो वा, अनावृष्टिर्वा दुर्भिक्षभयानि वा, अस्मिन्नुच्छ्रिते रत्नविशेषे इम ईतयोपद्रवा न भविष्यन्ति। इत्युक्त्वा ताः किन्नरकन्याः सुप्रियं महासार्थवाहं संराधयामासुः -साधु साधु महासार्थवाह, निस्तीर्णानि महासमुद्रपर्वतनदीकान्ताराणि। पूरिता ते दृढसुप्रतिज्ञा। सफलीकृता ते श्रद्धा। ते गोपितानीन्द्रियाणि। साधिता बदरद्वीपमहापत्तनयात्रा। अधिगतं ते सर्वजनमनोरथसंपादकं जम्बुद्वीपप्रधानं रत्नविशेषम्। अपि तु येन त्वं पथेनागतः, अमनुष्यास्तावत् प्रलयं गच्छेयुः प्रागेव मनुष्याः। अन्यदेव वयं सन्मार्गं व्यपदेक्ष्यामः क्षिप्रं वाराणसीगमनाय। तच्छृणु, मनसि कुरु, भाषिष्यामः-इतः पश्चिमे दिग्भागे सप्त पर्वतानतिक्रम्य महापर्वत उच्चः। तस्मिन् पर्वते लोहिताक्षो नाम राक्षसः प्रतिवसति रौद्रः परप्राणहरः। स च पर्वतोऽमनुष्यावचरितः कृष्णमन्धकारं सविस्फुलिङ्गं वायुं मोक्ष्यति। तत्र ते एतदेव रत्नं ध्वजाग्रेऽवरोपयित्वा गन्तव्यम्। रत्नप्रभावाच्च ते ईतयो विलयं गमिष्यन्ति। महापर्वतमतिक्रम्य अपरपर्वतः। तस्मिन् पर्वतेऽग्निमुखो नागः प्रतिवसति। स तव गन्धमाघ्राय सप्त रात्रिंदिवसान्यशनिं पातयिष्यति। तत्र रत्नगुहां समन्विष्य प्रवेष्टव्यम्। सप्तरात्रस्य चात्ययाद्दुष्टनागः स्वपिष्यति। शयिते दुष्टनागे पर्वतमधिरोढव्यम्। तत्र द्रक्ष्यसि समं भूमिप्रदेशमकृष्टोप्तं च तण्डुलफलशालिमकणकमतुषं शुचिं निस्फुटिगन्धिकं चतुरङ्गुलपर्यवनद्धम्। यस्तमष्टम्यां पञ्चदश्यां वा बालाहोऽश्वराजः परिभुज्य सुखी अरोगो बलवान् प्रीणितेन्द्रियः पूर्वकायमभ्युन्नमय्योदानमुदानयति-कः पारगामी, कः पारगामी, कं पारं नयामि, स्वस्तिक्षेमाम्यां जम्बुद्वीपमनुप्रापयामि, स त्वयोपसंक्रम्य इदं स्याद्वचनीयम् -अहं पारगामी, मां पारं नय, मां स्वस्तिक्षेमाभ्यां वाराणसीमनुप्रापय। अथ स सुप्रियो महासार्थवाहस्ताः किन्नरकन्या धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य मातृदुहितृवत् प्रतिसंमोद्य यथोद्दिष्टेन मार्गेण यथोक्तेन विधिना अनुपूर्वेण तं भूमिप्रदेशमनुप्राप्तः। स च बालाहोऽश्वराजश्चरन्नेवमाह-कः पारगामी, कः पारगामी, कं पारं नयामि, स्वस्तिक्षेमाभ्यां जम्बुद्वीपमनुप्रापयामि? ततः सुप्रियो महासार्थवाहो येन बालाहोऽश्वराजस्तेनोपसंक्रान्तः। उपसंक्रम्य एकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन बालाहोऽश्वराजस्तेनाञ्जलिं प्रणम्य बालाहमश्वराजमिदवोचत् - अहं पारगामी, अहं पारगामी, नय माम्। स्वस्तिक्षेमाभ्यां वाराणसीमनुप्रापय। एवमुक्ते बालाहोऽश्वराजः सुप्रियं महासार्थवाहमिदमवोचत्- न ते महासार्थवाह मम पृष्ठाधिरूढेन दिशो नावलोकयितव्याः, निमीलिताक्षेण ते स्थेयम्। इत्युक्त्वा बालाहोऽश्वराजः पृष्ठमुपनामयति। अथ सुप्रियो महासार्थवाहो बालाहस्याश्वराजस्य पृष्ठमधिरुह्य यथानुशिष्टोऽल्पैश्च क्षणलवमूहूर्तैर्वाराणसीमनुप्राप्तः। स्व उद्यानेऽवतरितः। अवतीर्य सुप्रियो महासार्थवाहो बालाहाश्वराजपृष्ठाद्बालाहाश्वराजं त्रिप्रदक्षिणीकृत्य पादाभिवन्दनं करोति। ततो बालाहोऽश्वराजः सुप्रियं महासार्थवाहं संराधयामास-साधु साधु महासार्थवाह। निस्तीर्णानि ते महासमुद्रपर्वतनदीकान्ताराणि। पूरिता ते दृढप्रतिज्ञा। सफलीकृतस्तेऽध्वा। गोपितानीन्द्रियाणि। साधिता ते बदरद्वीपमहापत्तनयात्रा। अधिगतस्ते सर्वजनमनोरथसंपादको जम्बुद्वीपस्य प्रधानो रत्नविशेषः। एवं हि परहितार्थमभ्युद्यताः कुर्वन्ति सत्त्वविशेषाः। इत्युक्त्वा बालाहोऽश्वराजः प्रक्रान्तः। अथाचिरप्रक्रान्ते बालाहेऽश्वराजनि सुप्रियो महासार्थवाहः स्वगृहं प्रविष्टः। अश्रौषुर्वाराणसीनिवासिनः पौरा ब्रह्मदत्तश्च काशिराजः -सुप्रियो महासार्थवाहः पूर्णेन वर्षशतेन संसिद्धयात्रः पूर्णमनोरथः स्वगृहमनुप्राप्त इति। श्रुत्वा च पुनर्ब्रह्मदत्तः काशिराज आनन्दितः। पौरवर्गः सुप्रियं सार्थवाहं संराधयामास। अश्रौषीत् तत् पूर्वकं चौरसहस्रमन्यश्च जनो धनार्थी - सुप्रियो महासार्थवाहः संसिद्धयात्रः परिपूर्णमनोरथ आगत इति। श्रुत्वा च पुनरुपसंक्रम्य सुप्रियं महासार्थवाहमिदमवोचन्-परिक्षीणधनाः स्म इति। एवमुक्ते महासार्थवाहस्तान् सर्वान् मैत्रेण चक्षुषा व्यवलोक्य विज्ञापयति- गच्छतु भवन्तः स्वकस्वकेषु विजितेषु। यो येनार्थी उपकरणविशेषेण भवति, स तस्यार्थे चित्तमुत्पादयतु, वाचं च निश्चारयतु। श्रुत्वा च पुनः प्रक्रान्तः। अथ सुप्रियो महासार्थवाहस्तदेव पोषधे पञ्चदश्यां शिरःस्नान उपोषधोषितो यत्तत्प्रथमलब्धं मणिरत्नं ध्वजाग्रे आरोप्य वाचं च निश्चारयति, योजनसहस्रसामन्तकेन यथेप्सितानि सत्त्वानामुपकरणान्युत्पद्यन्ते, सहाभिधानच्च यो येनार्थी तस्य तद्वर्षं भवति। ततः परिपूर्णमनोरथास्ते सत्त्वाः। तच्चौरसहस्रं सुप्रियेण महासार्थवाहेन दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापितः॥



अत्रान्तरात् कालगते ब्रह्मदत्ते काशिराजनि पौरामात्यैः सुप्रियो महासार्थवाहो राजाभिषेकेणाभिषिक्तः। सहाभिषिक्तेन सुप्रियेण महाराज्ञा द्वितीयं मणिरत्नं ध्वजाग्रे आरोप्य पूर्वविधिना द्वियोजनसहस्रसामन्तकेन यथेप्सितानि सत्त्वानामुपकरणान्युत्पद्यन्तामिति सहाभिधानाच्च यो येनार्थी तस्य तद्वर्षति। तृतीयेन मणिरत्नेन यथोक्तेन विधिना ध्वजाग्रोच्छ्रितेन यथेप्सितोपकरणविशेषवर्षणानि संपन्नानि। एवं त्रियोजनसहस्रसामन्तकेनोपकरणैः स्त्रीमनुष्याः संतर्पिताः। ततोऽनुपूर्वेण जम्बुद्वीपैश्वर्यभूतेन सुप्रियेण महाराज्ञा तदेव पोषधे पञ्चदश्यां शिरःस्नातेनोपोषधोषितेन कृत्स्ने जम्बुद्वीपे घण्टावघोषणं कृत्वा उपकरणोत्पन्नाभिलाषिणां स्त्रीमनुष्याणां जम्बुद्वीपनिवासिनां यन्मणिरत्नं बदरद्वीपमहापत्तनसर्वस्वभूतं यथेप्सितं सर्वोपकरणवर्षिणं ध्वजाग्रे आरोपयामास। समनन्तरं ध्वजाग्रावरोपिते तस्मिन् जम्बुद्वीपप्रधानमणिरत्ने कृत्स्नो जम्बुद्वीपनिवासी महाजनकायो यथेप्सितैरुपकरणविशेषैः संतर्पितः। उपकरणसंतर्पितश्च जम्बुद्वीपनिवासी जनकायः सुप्रियेण राज्ञा दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापितः। ततो ज्येष्ठं कुमारं राज्यैश्वर्याधिपत्ये प्रतिष्ठाप्य राजर्षिर्ब्रह्मचर्यं चरित्वा चतुरो ब्राह्मान् विहारान् भावयित्वा कामेषु कामच्छन्दं प्रहाय तद्बहुलविहारी ब्रह्मलोकसभागतायां चोपपन्नो महाब्रह्मा संवृत्तः॥



भगवानाह- किं मन्यध्वे भिक्षवो योऽसौ सुप्रियो नाम महासार्थवाहः, अहमेव तेन कालेन तेन समयेन बोधिसत्त्वचर्यायां वर्तितवान्। यत्तच्चौरसहस्रम्, एतदेव भिक्षुसहस्रम्। या सा पूर्वदेवता, काश्यपः सम्यक्संबुद्धो बोधिसत्त्वभूतः स तेन कालेन तेन समयेन। यश्चासौ मघो महासार्थवाहः, एष एव शारिपुत्रो भिक्षुः स तेन कालेन तेन समयेन। यश्चासौ नीलादो नाम महायक्षः, एष एवानन्दो भिक्षुस्तेन कालेन तेन समयेन। यश्चासौ चन्द्रप्रभो यक्षः, एष एवानिरुद्धो भिक्षुः स तेन कालेन तेन समयेन। यश्चासौ लोहिताक्षो नाम महायक्षः, स एष एव देवदत्तस्तेन कालेन तेन समयेन। यश्चासौ अग्निमुखो नाम नागः, एष एव मारः पापीयान् स तेन कालेन तेन समयेन। यश्चासौ बालाहोऽश्वराजः, मैत्रेयो बोधिसत्त्वस्तेन कालेन तेन समयेन। तदा तावन्मया भिक्षवो दृढप्रतिज्ञेन प्रतिज्ञापूरणार्थं सप्तवारांश्चौरसहस्रात् सार्थः परित्रातः। अपरितुष्टांश्च चौरान् विदित्वा दृढप्रतिज्ञा कृता। कृत्वा चानेकैर्दुष्करशतसहस्रैर्बदरद्वीपमहापत्तनस्य यात्रां साधयित्वा चौरसहस्रप्रमुखं कृत्स्नं जम्बुद्वीपं धनेन संतर्पयित्वा दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापितः। इदानीमपि मया अनेकैर्दुष्करशतसहस्रैरनुत्तरं ज्ञानमधिगम्य मैत्रायता करुणया सप्तकृत्वश्चौरसहस्रसकाशात् सार्थः परित्रातः। अपरितुष्टं च चौरसहस्रं विदित्वा यावदाप्तं धनेन संतर्पयित्वा अत्यन्तनिष्ठेऽनुत्तरे योगक्षेमे निर्वाणे प्रतिष्ठापिताः। अनेकानि च देवमनुष्यशतसहस्राणि यक्षराक्षसप्रेतपिशाचकुम्भाण्डपूतनकटपूतनकोटिशतसहस्राणि शरणगमनशिक्षापदेषु प्रतिष्ठापितानि॥



इदमवोचद्भगवान्। आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥



इति श्रीदिव्यावदाने सुप्रियावदानमष्टमम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project