Digital Sanskrit Buddhist Canon

६ इन्द्रनामब्राह्मणावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
६ इन्द्रनामब्राह्मणावदानम्।



भगवान् श्रुघ्नामनुप्राप्तः। श्रुघ्नायामिन्द्रो नाम ब्राह्मणः प्रतिवसति। स च रूपयौवनश्रुतमनुप्राप्तो न ममास्ति कश्चित् तुल्य इत्यतीव विकत्थते। भगवांश्चान्यतमस्मिन् प्रदेशे पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णो धर्मं देशयति। अश्रौषीदिन्द्रो नाम ब्राह्मणः-श्रमणो गौतमः श्रुघ्नामनुप्राप्त इति। तस्यैतदभवत्-श्रमणो गौतमः श्रूयतेऽभिरूपो दर्शनीयः प्रासादिक इति। गच्छामि पश्यामि किं ममान्तिकादभिरूपतर आहोस्विन्नेति। स निर्गतो यावत् पश्यति भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समन्ततो भद्रकम्। दृष्ट्वा च पुनरस्यैतदभवत् - किं चापि श्रमणो गौतमो ममान्तिकादभिरूपतरः, नोच्चतर इति। स भगवतो मूर्धानमवलोकयितुमारब्धो यावन्न पश्यति। स ऊर्ध्वतरं प्रदेशमारूढः। तत्र भगवानिन्द्रं ब्राह्मणमामन्त्रयते- अलं ब्राह्मण, खेदमापत्स्यसे। यदि सुमेरुमूर्धानमपि अभिरूह्य तथागतस्य मूर्धानमवलोकयसि, तथा सुतरां खेदमापत्स्यसे, न च द्रक्ष्यसि। अपि तु न त्वया श्रुतं ससुरासुरजगदनवलोकितमूर्धानो बुद्धा भगवन्त इति ? अपि तु यदीप्ससि तथागतस्य शरीरप्रमाणं द्रष्टुम्, तव गृहेऽग्निहोत्रकुण्डं तस्याधस्ताद्गोशीर्षचन्दनमयी यष्टिरुपतिष्ठते, तामुद्धृत्य मापय। तत्तथागतमातापैतृकस्याश्रयस्य प्रमाणमिति। इन्द्रो ब्राह्मणः संलक्षयति- एतदस्याश्चर्यं न कदाचिन्मया श्रुतम्, गच्छामि पश्यामीति। त्वरितत्वरितगतोऽग्निहोत्रकुण्डकस्याधस्तात् खनितुमारब्धः। सर्वं तथैव। सोऽभिप्रसन्नः। स संलक्षयतिनूनं श्रमणो गौतमः सर्वज्ञः। गच्छामि पर्युपासितुमिति। स प्रसादजातो येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवता सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्य एकान्ते निषण्णः। ततो भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यथेन्द्रेण ब्राह्मणेन विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतआपत्तिफलं साक्षात्कृतम्। स दृष्टसत्यः कथयति- अतिक्रान्तोऽहं भदन्त, अतिक्रान्तः। एषोऽहं भगवन्तं शरणं गच्छामि धर्मं च भिक्षुसंघं च। उपासकं च मां धारय अद्याग्रेण यावज्जीवं प्राणोपेतं शरणं गतम्। अभिप्रसन्नोऽथेन्द्रो ब्राह्मण उत्थायासनात् एकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत् -यदि भगवाननुजानीयात्, अहं गोशीर्षचन्दनमय्या यष्ट्या महं प्रज्ञापयेयमिति। भगवानाह- गच्छ ब्राह्मण अनुज्ञातं प्रज्ञपयसि। ततस्तेन विविक्तावकाशे महता सत्कारेणासौ यष्टिरुच्छ्रापिता, महश्च प्रज्ञपितः। अन्यैरपि ब्राह्मणगृहपतिभिः कुशलमधिष्ठानाय भवत्विति विदित्वा कुला बद्धा (?)। इन्द्रेण ब्राह्मणेन यष्ट्या महः प्रज्ञपित इति इन्द्रमह इन्द्रमह इति संज्ञा संवृत्ता॥



तत्र भगवानायुष्मन्तमानन्दमामन्रयते- आगमय आनन्द येन तोयिका। एवं भदन्तेति आयुष्मानानन्दो भगवतः प्रत्यश्रौषीत्। अथ भगवांस्तोयिकामनुप्राप्तः। तस्मिंश्च प्रदेशे ब्राह्मणो लाङ्गलं वाहयति। अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समन्ततो भद्रकम्। दृष्ट्वा संलक्षयति- यदि भगवन्तं गौतममुपेत्याभिवादयिष्यामि, कर्मपरिहाणिर्मे भविष्यतीति। अथ नोपेत्याभिवादयिष्यामि, पुण्यपरिहाणिर्भविष्यति। तत् कोऽसौ उपायः स्यात् येन मे कर्मपरिहाणिर्न स्यान्नापि पुण्यपरिहाणिरिति। तस्य बुद्धिरुत्पन्ना - अत्रस्थ एवाभिवादनं करोमि। एवं न कर्मपरिहाणिर्न पुण्यपरिहाणिरिति। तेन यथागृहीतयैव प्रतोदयष्ट्या तत्रस्थेनैवाभिवादनं कृतम्-अभिवादये बुद्धं भगवन्तमिति।तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते -भवक्षयकरः क्षणः। एष ब्राह्मणः। सचेदस्यैवं सम्यक्प्रत्ययज्ञानदर्शनं प्रवर्तते, एतस्मिन् प्रदेशे काश्यपस्य सम्यक्संबुद्धस्याविकोपितोऽस्थिसंघातस्तिष्ठतीति अहमनेनोपक्रमेण वन्दितो भवेयम्, एवमनेन द्वाभ्यां सम्यक्संबुद्धाभ्यां वन्दना कृता भवेत्। तत्कस्य हेतोः ? अस्मिन्नानन्द प्रदेशे काश्यपस्य सम्यक्संबुद्धस्याविकोपितोऽस्थिसंघातस्तिष्ठति। अथायुष्मानानन्दो लघुलध्वेव चतुर्गुणमुत्तरासङ्गं प्रज्ञप्य भगवन्तमिदमवोचत्-निषीदतु भगवान् प्रज्ञप्त एवासने। एवमयं पृथिवीप्रदेशो द्वाभ्यां सम्यक्संबुद्धाभ्यां परिभुक्तो भविष्यति, यच्च काश्यपेन सम्यक्संबुद्धेन, यच्चैतर्हि भगवता इति। निषण्णो भगवान् प्रज्ञप्त एवासने। निषद्य भिक्षूनामन्त्रयते स्म - इच्छथ यूयं भिक्षवः काश्यपस्य सम्यक्संबुद्धस्य शरीरसंघातमविकोपितं द्रष्टुम् ? एतस्य भगवन् कालः, एतस्य सुगत समयः, यं भगवान् भिक्षूणां काश्यपस्य सम्यक्संबुद्धस्याविकोपितं शरीरसंघातमुपदर्शयेत्। दृष्ट्वा भिक्षवश्चित्तमभिप्रसादयिष्यन्ति। ततो भगवता लौकिकं चित्तमुत्पादितम्। धर्मता खलु यस्मिन् समये बुद्धा भगवन्तो लौकिकं चित्तमुत्पादयन्ति, तस्मिन् समये कुन्तपिपीलिका अपि प्राणिनो भगवतश्चेतसा चित्तमाजानन्ति। नागाः संलक्षयन्ति- किं कारणं भगवता लौकिकचित्तमुत्पादितमिति ? पश्यन्ति- काश्यपस्य सम्यक्संबुद्धस्य शरीरसंघातमविकोपितं द्रष्टुकाम इति। ततस्तैः काश्यपस्य सम्यक्संबुद्धस्याविकोपितशरीरसंघात उच्छ्रापितः। तत्र भगवान् भिक्षूनामन्त्रयते स्म- उद्गृह्णीत भिक्षवो निमित्तम्। अन्तर्धास्यति। अन्तर्हितः॥



राज्ञा प्रसेनजिता श्रुतं भगवता श्रावकाणां दर्शनायाविकोपितं काश्यपस्य सम्यक्संबुद्धस्य शरीरसंघातं समुच्छ्रितमिति। श्रुत्वा च पुनः कुतूहलजातः सहान्तःपुरेण कुमारैरमात्यैर्भटबलाग्रैर्नैगमजानपदैश्च द्रष्टुं संप्रस्थितः। एवं विरूढकः, अनाथपिण्डदो गृहपतिः, ऋषिदत्तः पुराणस्थपतिः, विशाखा मृगारमाता, अनेकानि च प्राणिशतसहस्राणि कुतूहलजातानि द्रष्टुं संप्रस्थितानि पूर्वकैश्च कुशलमूलैः संचोद्यमानानि। यावदसौ अन्तर्हितः। तैः श्रुतम्-अन्तर्हितोऽसौ भगवतः काश्यपस्य सम्यक्संबुद्धस्य शरीरसंघातधातुरविकोपित इति। श्रुत्वा च पुनस्तेषां दुःखदौर्मनस्यमुत्पन्नम् -वृथा अस्माकमागमनं जातमिति। अथान्यतमेन चोपासकेन स प्रदेशः प्रदक्षिणीकृतः। एवं च चेतसा चित्तमभिसंस्कृतम्-अस्मान्मे पदाविहारात् कियत् पुण्यं भविष्यतीति। अथ भगवांस्तस्य महाजनकायस्याविप्रतिसारसंजननार्थं तस्य चोपासकस्य चेतसा चित्तमाज्ञाय गाथां भाषते-



शतंसहस्राणि सुवर्णनिष्का

जाम्बूनदा नास्य समा भवन्ति।

यो बुद्धचैत्येषु प्रसन्नचित्तः

पदाविहारं प्रकरोति विद्वान्॥१॥



अन्यतमेन उपासकेन तस्मिन् प्रदेशे मृत्तिकापिण्डो दत्तः। एवं च चित्तमभिसंस्कृतम्पदाविहारस्य तावदियत् पुण्यमाख्यातं भगवता अन्यत्र। मृत्तिकापिण्डस्य कियत् पुण्यं भविष्यतीति ? अथ भगवांस्तस्यापि चेतसा चित्तमाज्ञाय गाथां भाषते -



शतंसहस्राणि सुवर्णनिष्का

जाम्बूनदा नास्य समा भवन्ति।

यो बुद्धचैत्येषु प्रसन्नचित्त

आरोपयेन्मृत्तिकपिण्डमेकम्॥२॥



ततः श्रुत्वा अनेकैः प्राणिशतसहस्रैर्मृत्तिकापिण्डसमारोपणं कृतम्। अपरैस्तत्र मुक्तपुष्पाण्यवक्षिप्तानि, एवं च चित्तमभिसंस्कृतम् - पदाविहारस्य मृत्तिकापिण्डस्य चेयत् पुण्यमुक्तं भगवता, अस्माकं तु मुक्तपुष्पाणां कियत् पुण्यं भविष्यतीति ? अथ भगवांस्तेषामपि चेतसा चित्तमाज्ञाय गाथां भाषते-



शतंसहस्राणि सुवर्णनिष्का

जाम्बूनदा नास्य समा भवन्ति।

यो बुद्धचैत्येषु प्रसन्नचित्तः

आरोपयेन्मुक्तसुपुष्पराशिम्॥ ३॥



अपरैस्तत्र मालाविहारः कृतः, चित्तं चाभिसंस्कृतम् - मुक्तपुष्पाणां भगवता इयत् पुण्यमुक्तम्। अस्माकं मालाविहारस्य कियत्पुण्यं भविष्यतीति ? अथ भगवांस्तेषामपि चेतसा चित्तमाज्ञाय गाथां भाषते -



शतंसहस्राणि सुवर्णवाहा

जाम्बूनदा नास्य समा भवन्ति।

यो बुद्धचैत्येषु प्रसन्नचित्तो

मालाविहारं प्रकरोति विद्वान्॥४॥



अपरैस्तत्र प्रदीपमाला दत्ता, चित्तं चाभिसंस्कृतम्-मालाविहारस्य भगवता इयत् पुण्यमुक्तम्। अस्माकं प्रदीपदानस्य कियत्पुण्यं भविष्यतीति ? अथ भगवांस्तेषामपि चेतसा चित्तमाज्ञाय गाथां भाषते -



शतंसहस्राणि सुवर्णकोट्यो

जाम्बूनदा नास्य समा भवन्ति।

यो बुद्धचैत्येषु प्रसन्नचित्तः

प्रदीपदानं प्रकरोति विद्वान्॥ ५॥



अपरैस्तत्र गन्धाभिषेको दत्तः। एवं चेतसा चित्तमभिसंस्कृतम् - प्रदीपस्य भगवता इयत् पुण्यमुक्तम्। अस्माकं गन्धाभिषेकस्य कियत्पुण्यं भविष्यतीति ? अथ भगवांस्तेषामपि चेतसा चित्तमाज्ञाय गाथां भाषते-



शतंसहस्राणि सुवर्णराशयो

जाम्बूनदा नास्य समा भवन्ति।

यो बुद्धचैत्येषु प्रसन्नचित्तो

गन्धाभिषेकं प्रकरोति विद्वान्॥६॥



अपरैस्तत्र छत्रध्वजपताकारोपणं कृतम्। एवं च चेतसा चित्तमाज्ञाय गाथां भाषते-



तिष्ठन्तं पूजयेद्यच्च यच्चापि परिनिर्वृतम्।

समं चित्तं प्रसाद्येह नास्ति पुण्यविशेषता॥७॥



एवं ह्यचिन्तिया बुद्धा बुद्धधर्माऽप्यचिन्तिया।

अचिन्तिये प्रसन्नानां विपाकोऽपि अचिन्तियः॥८॥



तेषामचिन्तियानामप्रतिहतधर्मचक्रवर्तिनाम्।

सम्यक्संबुद्धानां नालं गुणपारमधिगन्तुम्॥९॥ इति॥



ततो भगवता तस्य महाजनकायस्य तथाविधा धर्मदेशना कृता, यां श्रुत्वा अनेकैः प्राणिशतसहस्रैर्महान् विशेषोऽधितगः। कैश्चिच्छ्रावकबोधौ चित्तान्युत्पादितानि, कैश्चित् प्रत्येकबोधौ, कैश्चिदनुत्तरायां सम्यक्संबोधौ, कैश्चिन्मूर्धागतानि, कैश्चिन्मूर्धानः, कैश्चिदुष्णगतान्यासादितानि, कैश्चित् सत्यानुलोमाः क्षान्तयः, कैश्चित्स्रोतआपत्तिफलं साक्षात्कृतम्, कैश्चित् सकृदागमिफलम्, कैश्चित् सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। यद्भूयसा बुद्धनिम्ना धर्मप्रवणाः संघप्राग्भारा व्यवस्थापिताः॥



अथ अनाथपिण्डदो गृहपतिर्भगवन्तमिदमवोचत्-यदि भगवाननुजानीयात्, अत्र महं प्रज्ञापयेयम्। अनुजानामि गृहपते, प्रज्ञापयितव्यम्। ततोऽनाथपिण्डदेन गृहपतिना महः प्रज्ञापितः। तोयिकामह इति संज्ञा संवृत्ता॥



इदमवोचद्भगवान्। आत्तमनसः ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥



इति श्रीदिव्यावदाने इन्द्रनामब्राह्मणावदानं षष्ठम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project