Digital Sanskrit Buddhist Canon

क्षेमेति ७९

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
क्षेमेति ७९।



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। तेन खलु समयेन राजा प्रसेनजित्कौशलो राजा च ब्रह्मदत्त उभावप्येतौ परस्परविरुद्धौ॥ यावद्राजा प्रसेनजित्कौशलः स्वविषयपर्यत्तं गत्वा काष्ठवाटं बद्ध्वावस्थितो राजा ब्रह्मदत्तश्च <च>तुरङ्गबलकायं संनाह्य हस्तिकायमश्वकायं रथकायं पत्तिकायं नद्याः कूले काष्ठवाटं बद्ध्वावस्थितः॥ यावद्राज्ञा प्रसेनजित्कौशलेन तत्रैवाग्रमहीषी नीता। स तया सार्ध क्रीडति रमते परिचारयति। ब्रह्मदत्तो ऽपि देव्या सह क्रीडति रमते परिचारयति। येनैकदिवस एव राज्ञः प्रसेनजित्कौशलस्य दुहिता जाता ब्रह्मदत्तस्य पुत्रः॥ यावदुभयोरपि राज्ञोः स्कन्धावारे* * * * * * * * * * * * * * * * * * * * * <ब्रह्मदत्तस्य स्कन्धावारे> प्रवर्तते येनायमेवंविध उत्सव इति। तैराख्यातं राज्ञो ब्रह्मदत्तस्य पुत्रो जात इति। ब्रह्मदत्तेनापि तथैव पृष्टम्। कथयत्ति राज्ञः प्रसेनजितो दुहिता जातेति॥ ततो राज्ञां ब्रह्मदत्तेन राज्ञः प्रसेनजितो दूतसंप्रेषणं कृतम्। श्रुतं मया यथा तव दुहिता जातेति दिष्ट्या वर्धसे अस्माकमपि पुत्रो जातः किं तु दीयतामेषा दारिका मम पुत्राय एवं कृते सांबन्धिके यावज्जीवं वैरोत्सर्गः कृतो भविष्यतीति। राज्ञा प्रसेनजिता प्रतिज्ञातमेवं भवत्विति॥ ततस्ताभ्यां परस्परं प्रीतौ कृतायां क्षेमे जाते राज्ञा ब्रह्मदत्तेन दारकस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थापितं क्षेमंकर इति राज्ञा प्रसेनजिता कौशलेन दारिकाया जाताया जातिमहं कृत्वा क्षेमेति नामधेयं कृतम्। तावुभावप्युन्नीतौ वर्धितौ। यावत्क्रमेण महात्तौ <संवृत्तौ>॥



अथ स दारको दारिकाया हारार्धहारमालांवध्नन् कण्ठेमणीन्प्रेषयति यदासौ दारिका महती संवृत्ता। तया ते पृष्टाः कुत एतानि प्राभृतान्यागच्छत्ति। प्रेष्यैर्विस्तरेण स वृत्तात्त आवेदितः। श्रुत्वा च पितरं विज्ञापयामास। तात नाहं कामैरर्थिनी भगवच्छासने प्रव्रजिष्यामि अनुजानीहि मां तातेति॥ राजा कथयति। नैतद्दारिके शक्यं मया कर्तुं यस्मात्तव जन्मनि मम क्षेमं जातमिति॥ ततो राज्ञा प्रसेनजिता कौशलेन राज्ञो ब्रह्मदत्तस्य दूतसंप्रेषणं कृतम्। एषा मे दारिका प्रव्रजितुमिच्छति आगत्यैनां गृहाणेति। यावद्राज्ञा ब्रह्मदत्तेन दिवसः प्रतिगृहीतः सप्तमे ऽहनि आगच्छामीति यत्ते कृत्यं वा करणीयं वा तत्कुरुष्वेति॥ एष वृत्तात्तः क्षेमया दारिकया श्रुतः सप्तमे दिवसे विवाहो भविष्यतीति। ततः क्षेमा भीता त्रस्ता संविग्रा आहृष्टरोमकूपा शरणपृष्ठमभिरुह्य जेतवनाभिमुखी बुद्धं भगवत्तमायाचितुं प्रवृत्ता। आह च।





कृपकरुणविहारो ध्यायमानो महर्षिः

प्रशमदमविधिज्ञः पापहः शात्तचित्तः।

मम विधिवदपायान्मोचय त्वं हि नाथः

शरणमुपगताहं लोकनाथं ह्यनाथा॥



अत्रात्तरे नास्ति किञ्चिद्बुद्धानां भगवतामज्ञातमदृष्टमविदितमविज्ञातम्। धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानामेकारक्षाणामेकवीराणामद्वितीयानामद्वयवादिनां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोधोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रात्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाद्यानामष्टाङ्गमार्गदेशिकानां नवानुपूर्वसमापत्तिकुशलानां दशदिक्समापूर्णयशसां दशशतवशवर्तिविशिष्टानां त्रीरात्रेस्त्रिर्दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते। को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः कमहमपायादुद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयं कस्यानवरोपितानि कुशलमूलान्यवरोपयेयं कस्यावरोपितानि परिपाचयेयं कस्य परिपक्कानि विमोचयेयम्। आह च।



अप्येवातिक्रमेद्वेलां सागरो मकरालयः।

न तु वैनेयवत्सानां बुद्धो वेलामतिक्रमेत्॥



अथ भगवान्क्षेमाया विनयकालमवेक्ष्य ऋद्या उपसंक्रात्तः। उपसंक्रम्य तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा क्षेमया अनागामिफलं प्राप्तमभिज्ञानिर्हारश्च। अथ क्षेमा अतिक्रात्तकामधातौ लब्धप्रतिष्ठा* * * *॥



यावत्सप्तमे दिवसे विवाहकाले संप्राप्ते प्रत्युपस्थिते राजकुमारे अनेकजनशतसहाये वेदीमध्यगतायां ब्राह्मणेन पुरोहितेन लाजा घृतसर्पिषानुप्रदत्ताः। ततो दारकदारिकाहस्तसंश्लेषणे क्रियमाणे क्षेमा पश्यतामनेकेषां प्राणिशतसहस्राणां विततपक्ष इव हंसराजो गगनतलमभिरुह्य विचित्राणि प्रातिहार्याणि विदर्शयितुमारब्धा॥ ततो राजा प्रसेनजित्कौशलो राजा च ब्रह्मदत्तः क्षेमङ्करश्च राजकुमारो ऽन्ये च कुतूहलाभ्यागताः सत्त्वा विस्मयमुपगताः पादयोर्निपत्य विज्ञापयितुमारब्धाः। मर्षय भगिनि य एते त्वया धर्माः साक्षात्कृता अस्थानमेतद्यत्त्वं कामान्परिभुञ्जीथा इति॥ अथ क्षेमा गगनतलादवतीर्य जनकायस्य पुरः स्थित्वा तथाविधां धर्मदेशनां कृतवती यां श्रुत्वानेकैः प्राणिशतसहस्रैस्सत्यदर्शनं कृतम्॥ ततः क्षेमा दारिका पितरमनुज्ञाप्य भगवत्सकाशमुपसंक्रात्ता भगवता च महाप्रजापत्याः संन्यस्ता। ततस्तया प्रव्राजिता उपसंपादिता च। तया युज्यमानया घटमानया व्यायच्छमानया इदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हत्ती संवृत्ता त्रैधातुकवीतरागा समलोष्टकाञ्चनाकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखा सेन्द्रोपेन्द्राणां देवानां पूज्या मान्याभिवाद्या च संवृत्ता। तत्र भगवान्भिक्षूनामन्त्रयते स्म। एषा ऽग्रा मे भिक्षवो भिक्षुणीनां मम श्राविकाणां महाप्राज्ञानां महाप्रतिभानां यदुत क्षेमा भिक्षुणी॥



भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त क्षेमया कर्माणि कृतानि येन महाप्राज्ञानां महाप्रतिभानामग्रा निर्दिष्टा॥ भगवानाह। क्षेमयैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। क्षेमया कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।





न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥



भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्यस्मिन्नेव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स वाराणसीं नगरीमुपनिश्रित्य विहरति ऋषिपतने मृगदावे। यावत्तत्रान्यतरा श्रेष्ठिदुहिता भगवतः काश्यपस्य शासने प्रव्रजिता। तया भगवतः काश्यपस्य शासने दानप्रदानानि दत्तानि द्वादश वर्षसहस्राणि च ब्रह्मचर्यवासः परिपालितो न च कश्चिद्गुणगणो ऽधिगतो यस्यास्तूपाध्यायिकायाः सकाशे प्रव्रजिता आसीत्सा भगवता काश्यपेन प्रज्ञावती<नामग्रा> निर्दिष्टा। ततस्तया प्रणिधानं कृतम्। यथैषा उपाध्यायिका प्रज्ञावतीनामग्रा निर्दिष्टा एवमहमप्यनागते ऽध्वनि यो ऽसौ भगवता काश्यपेन उत्तरो नाम माणवो व्याकृतो भविष्यसि त्वं मानववर्षशतायुषि प्रजायां शाक्यमुनिर्नाम तथागतो ऽर्हन्सम्यक्‌संबुद्ध इति तस्याहं शासने प्रव्रजित्वा प्रज्ञावतीनामग्रा भवेयमिति॥



भगवानाह। किं मन्यध्वे भिक्षवो यासौ तेन कालेन तेन समयेन श्रेष्ठिदुहिता इयं सा क्षेमा भिक्षुणी। यत्तया दानानि प्रदत्तानि तेनाढ्ये कुले प्रत्याजाता। यत्तया द्वादश वर्षसहस्राणि व्रह्मचर्यवासः परिपालितस्तेनेदानीमर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project