Digital Sanskrit Buddhist Canon

मौद्गल्यायन इति ४५

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
मौद्गल्यायन इति ४५।



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो राजगृहमुपनिश्रित्य विहरति स्म वेणुवने कलन्दकनिवापे। तेन खलु पुनः समयेनात्तरा च राजगृहमत्तरा च वेणुवनमत्रात्तरे पञ्च प्रेतशतानि दग्धस्थूणाकृतीनि नग्रानि स्वकेशसंछन्नानि पर्वतोपमकुक्षीणि सूचीछिद्रोपममुखानि आदीप्तानि प्रदीप्तानि संप्रज्वलितान्येकज्वालीभूतान्यार्तस्वरं प्रलपमानानि दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयमानानि वायुमण्डलवदाकाशे परिभ्रमत्ति न क्कचित्प्रतिष्ठां लभत्ते॥ अथायुष्मान्मौद्गल्यायनः पूर्वाह्ने निवास्य पात्रचीवरमादाय राजगृहं पिण्डाय प्राविक्षत्। तेन ते प्रेता दृष्टाः तैरपि प्रेतैरायुष्मान्महामौद्गल्यायनः॥ ततस्ते एकसमूहेनायुष्मत्तं महामौद्गल्यायनमुपसंक्रात्ताः। उपसंक्रम्य करुणदीनविलम्बितैरक्षरैरेकरवेणोचुः। वयं स्मो भदत्त महामौद्गल्यायन राजगृहे पञ्च श्रेष्ठिशतान्यभूवन्। ते वयं मत्सरिणः कुटुकुञ्चका आगृहीतपरिष्काराः। स्वयं तावदस्माभिर्दानप्रदानानि न दत्तानि परेषामपि दानप्रदानेषु दीयमानेषु विध्नाः कृता दक्षिणीयाश्च बहवः प्रेतवादेन परिभाषिताः प्रेतोपपन्ना इव यूयं नित्यं परगृहेभ्यो भैक्षमठथ। एते वयं कालं कृत्वा एवंविधेषु प्रेतेषूपपन्ना इति भदत्त महामौद्गल्यायन ये ऽस्माकं ज्ञातयो राजगृहे प्रतिवसत्ति तेषामस्माकीनां कर्मप्लोतिं निवेद्य छन्दकभिक्षणं कृत्वा बुद्धप्रमुखं भिक्षुसङ्घं भोजयित्वास्माकं नाम्ना दक्षिणादेशनां कारयित्वा चास्माकं प्रेतयोनेर्मोक्षः स्यादिति॥ अधिवासयत्यायुष्मान्महामौद्गल्यायनः प्रेतानां तूष्णीभावेन॥ तत आयुष्मता महामौद्गल्यायनेन तेषां ज्ञातिगृहेभ्यश्छन्दकभिक्षणं कृत्वा बुद्धप्रमुखो भिक्षुसङ्घः श्चो भक्तेनोपनिमन्त्रितः प्रेतानां च निवेदितं श्वो भगवान्सभिक्षुसङ्घो भक्तेनोपनिमन्त्रितः तत्र युष्माभिरागत्तव्यमिति। ज्ञातीनामप्यारोचितं भवद्भिरागत्तव्यं तत्र ज्ञातिभोजने तान्प्रेतान्द्रक्ष्यामः॥ अथायुष्मान्महामौद्गल्यायनः स्वयमेवोद्युक्तो भोजनं प्रतिजागरितुम्॥



अथ प्रभातायां रजन्यामाहारे सज्जीकृते गण्डीदेशकाले संप्राप्ते तान्प्रेतान्न पश्यति। तत आयुष्मान्महामौद्गल्यायनो दिव्येन चक्षुषा तान्प्रेतान्समन्वाहर्तुं प्रवृत्तः। सर्वस्मिन्नेव मगधमण्डले नाद्राक्षीत्। यावत्क्रमेण चातुर्द्वीपिकं व्यवलोकयितुं प्रवृत्तः। तत्रापि नाद्राक्षीत्। ततो यावदस्य ज्ञानदर्शनं प्रवर्तते ततो व्यवलोकयितुं प्रवृत्तः। तत्रापि नाद्राक्षीत्॥ तत आयुष्मान्महामौद्गल्यायनः संविग्नो भगवते निवेदयामास भगवन्न मे दानपतयो दृश्यत्त इति॥ भगवानाह। अयं मौद्गल्यायन मा खेदमापद्यस्व। सर्वश्रावकप्रत्येकबुद्धविषयमतिक्रम्यापरिमाणा लोकधातवः सत्ति। <तत्र> ते कर्मवायुना क्षिप्ताः। अपि मौद्गल्यायनाद्य तथागतबलं पश्य सर्वज्ञज्ञानदर्शनं व्यक्तीकरिष्यामि तथागतविकुर्वितं दर्शयिष्यामि। आकोट्यतां गण्डीति॥ ततो गण्ड्यमाकोटितायां सर्वो भिक्षुसङ्घः संनिपतितः प्रेतज्ञातयो ऽन्ये च कौतूहल्याभ्यागताः सत्त्वाः प्रेतदर्शनोत्सुकाः संनिपतिताः॥ ततो भगवता ऋद्या तथा दर्शितं यथा प्रेता बुद्धं भगवत्तं सश्रावकसङ्घं भुञ्जानं पश्यत्ति स्मृतिं च प्रतिलभत्ते ज्ञातयो ऽस्मदर्थे बुद्धप्रमुखं भिक्षुसङ्घं भोजयत्तीति॥ ततो भगवान्पञ्चाङ्गोपे<ते>न स्वरेण दक्षिणामादिशति।



इतो दानाद्वि यत्पुण्यं तत्प्रेता<न>नुगच्छतु।

उत्तिष्ठत्तां क्षिप्रमेते प्रेतलोकात्सुदारुणादिति॥



यावद्भगवता तदधिष्ठाना तथाविधा धर्मदेशना कृता यां श्रुत्वानेकैः प्राणिशतसहस्रैर्मात्सर्यमलं प्रहाय सत्यदर्शनं कृतं ते च प्रेता भगवति चित्तमभिप्रसाद्य कालगताः प्रणीतेषु त्रयस्त्रिंशेषूपपन्नाः॥



धर्मता खलु देवपुत्रस्य वा देवकन्यकाया वाचिरोपपन्नस्य त्रीणि चित्तान्युत्पद्यत्ते कुतश्च्युतः कुत्रोपपन्नः केन कर्मणेति। पश्यत्ति प्रेतेभ्यश्च्युताः प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्ना भगवतो ऽत्तिके चित्तमभिप्रसाद्येति। अथ प्रेतपूर्विणां देवपुत्राणामेतदभवत्। नास्माकं प्रतिनूपं स्याद्यद्वयं पर्युषितपरिवासा भगवत्तं दर्शनायोपसंक्रामेम यन्नु वयमपर्युषितपरिवासा एव भगवत्तं दर्शनायोपसंक्रामेमे<ति। अथ> प्रेतपूर्विणो देवपुत्राश्चलविमलकुण्डलधरा हारार्धहारविराजितगात्रा मणिरत्नविचित्रमौलयः कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रास्तस्यामेव रात्रौ दिव्यानामुत्पलपद्मपुण्डरीकमन्दारकादीनां पुष्पाणामुत्सङ्गं पूरयित्वा समत्ततो वेणुवनं कलन्दकनिवापमुदारेणावभासेनावभास्य भगवत्तं पुष्पैराकीर्य भगवतः पुरस्तान्निषण्णा धर्मश्रवणाय॥ अथ भगवान्प्रेतपूर्विणां देवपुत्राणामाशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं धर्मदेशनां कृतवान्यां श्रुत्वा प्रेतपूर्वकैर्देवपुत्रैर्महान्विशेषो ऽधिगतः। ते लब्धलाभा इव वणिजो भगवत्तं त्रिः प्रदक्षिणीकृत्य तत्रैवात्तर्हिताः॥



तत्र भगवानायुष्मत्तं महामौद्गल्यायनमामन्त्रयते। साधु साधु महामौद्गल्यायन सफलं ते वैयावृत्यं संवृत्तं यत्ते* * * * प्रेता देवेषु प्रतिष्ठापिताः। ते ऽस्यां रात्रौ मत्सकाशमुपक्रात्तास्तेषां मया धर्मो देशितः ते लब्धोदया लब्धलाभाः प्रक्रात्ता इति॥



तत आयुष्मता महामौद्गल्यायनेन तेषां ज्ञातीनामारोचितम्। ते श्रुत्वा परं विस्मयमुपगता भगवतो ऽत्तिके चित्तं प्रसादयामासुर्भूयश्च सत्कारं प्रचक्रुरिति॥ तस्मात्तर्हि ते मौद्गल्यायन मात्सर्यप्रहाणाय व्यायत्तव्यम्। एते दोषा न भवत्ति ये तेषां प्रेतानामिति॥



इदमवोचद्भगवानात्तमना आयुष्मान्मौद्गल्यायनो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project