Digital Sanskrit Buddhist Canon

मैत्रकन्यक इति ३६

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
मैत्रकन्यक इति ३६।



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। तत्र भगवान्भिक्षूनामन्त्रयते स्म। सब्रह्मकाणि भिक्षवस्तानि कुलानि येषु कुलेषु मातापितरौ सम्यङ्मान्येते सम्यक्पूज्येते सम्यक्सुखेन परिह्रियेते। तत्कस्य हेतोः। ब्रह्मभूतौ हि कुलपुत्रस्य मातापितरौ सह धर्मेण। साचार्यकाणि तानि कुलानि येषु कुलेषु मातापितरौ सम्यङ्मान्येते सम्यक्पूज्येते सम्यक्सुखेन परिह्रियेते। तत्कस्य हेतोः। आचार्यभूतौ हि कुलपुत्रस्य मातापितरौ सह धर्मेण। आहवनीयानि तानि कुलानि येषु कुलेषु मातापितरौ सम्यङ्मान्येते सम्यक् पूज्येते सम्यक्सुखेन परिह्रियेते। तत्कस्य हेतोः आहवनीयौ हि कुलपुत्रस्य मातापितरौ सह धर्मेण। साग्निकानि तानि कुलानि येषु कुलेषु मातापितरौ सम्यङ्मान्येते सम्यक्पूज्येते सम्यक्सुखेन परिह्रियेते। तत्कस्य हेतोः। अग्निभूतौ हि कुलपुत्रस्य मातापितरौ सह धर्मेण। सदेवकानि तानि कुलानि येषु कुलेषु मातापितरौ सम्यक् मान्येते सम्यक् पूज्येते सम्यक्सुखेन परिह्रियेते। तत्कस्य हेतोः। देवभूतौ हि कुलपुत्रस्य मातापितरौ सह धर्मेण॥ इदमवोचद्भगवानिदमुक्त्वा सुगतो ह्यथापरमेतदुवाच शास्ता।



ब्रह्मा हि मातापितरौ पूर्वाचार्यौ तथैव च।

आहवनीयौ पुत्रस्य अग्निः स्याद्दैवतानि च॥

तस्मादेतौ नमस्येत सत्कुर्याच्चैव पण्डितः।

उद्वर्तनेन स्नानेन पादानां धावनेन च।

अथवा अन्नपानेन वस्त्रशय्यासनेन च॥

तया स परिचर्यया मातापितृषु पण्डितः।

इह चानिन्दितो भवति प्रेत्य स्वर्गे च मोदते॥



यदा भगवता एतत्सूत्रं भाषितं तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। आश्चर्यं भदत्त यद्भगवान्मातापितृगुरुशुश्रूषावर्णवादीति॥ भगवानाह। किमत्र भिक्षव आश्चर्यं यदिदानीं तथागतो विगतरागो विगतद्वेषो विगतमोहः परिमुक्तो जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सर्वज्ञः सर्वाकारज्ञः सर्वज्ञानज्ञेयवशिप्राप्तो मातापितृगुरुशुश्रूषाया वर्णवादी। यत्तु मयातीते ऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैर्मातुः स्वल्पमपकारं कृत्वा महद्दुःखमनुभूतं तच्छृणुत साधु च सुष्ठु च मनसि कुरुत भाषिज्ये॥



भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां मित्रो नाम सार्थवाहो बभूव आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रा जा<यत्ते म्रि>यत्ते च॥ स करे कपोलं दत्त्वा चित्तापरो व्यवस्थितः। अनेकधनसमुदितं मे गृहं न मे पुत्रो न दुहिता। ममात्यपात्सर्वस्वापतेयमपुत्रकमिति कृत्वा राज्ञो विधेयं भविष्यतीति। तस्य वयस्यकेनोपदिष्टं यदि ते पुत्रो जायते तस्य दारिकानाम स्थापयितव्यमेवमसौ चिरजीवी भविष्यतीति॥ सो ऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मादीनन्यांश्च देवताविशेषानायाचते। तद्यथारामदेवता वनदेवताश्चत्वरदेवताः शृङ्गाटकदेवता बलिप्रतिग्राहिका देवताः सहजाः सहधार्मिका नित्यानुबद्धा अपि देवता आयाचते। अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायत्ते दुहितरश्चेति। तच्च नैवम्। यद्येवमभविष्यदेकैकस्य पुत्रसहस्रमभविष्यत्तद्यथा राज्ञश्चक्रवर्तिनः। अपि तु त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायत्ते दुहितरश्चेति। कतमेषां त्रयाणां स्थानानाम्। मातापितरौ रक्तौ भवतः संनिपतितौ माता कल्या भवति ऋतुमती गन्धर्वश्च प्रत्युपस्थितो भवत्येषां त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायत्ते दुहितरश्च॥ स चायाचनपरस्तिष्ठति अन्यतमश्च सत्त्वो ऽन्यतमस्मात्सत्त्वनिकायाच्च्युतस्तस्य प्रजापत्याः कुक्षिमवक्रात्तः। पञ्चावेणिका धर्मा एकत्ये पण्डितजातीये मातृग्रामे। कतमे पञ्च। रक्तं पुरुषं जानाति विरक्तं जानाति। कालं जानाति ऋतुं जानाति। गर्भभवक्रात्तं जानाति। यस्य सकाशाद्रर्भो ऽवक्रामति तं जानाति। दारकं जानाति दारिकां जानाति। सचेद्दारको भवति दक्षिणं कुक्षिं निश्रित्य तिष्ठति सचेद्दारिका भवति वामं कुक्षिं निश्रित्य तिष्ठति। सात्तमनात्तमनाः स्वामिन आरोचयति। दिष्ट्यार्यपुत्र वर्धसे आपन्नसत्त्वास्मि संवृत्ता यथा च मे दक्षिणं कुक्षिं निश्रित्य तिष्ठति नियतं दारको भविष्यतीति। सो ऽप्यात्तमनात्तमनाः पूर्वकायमत्युन्नमय्यदक्षिणं बाहुमभिप्रसार्य उदानमुदानयत्यप्येवाहं चिरकालाभिलषितं पुत्रमुखं पश्येयं जातो मे स्यान्नावजातः कृत्यानि मे कुर्वीत भृतः प्रतिबिभृयाद्दायाद्यं प्रतिपद्येत कुलवंशो मे चिरस्थितिकः स्यादस्माकं चाप्यतीतकालगतानामल्पं वा प्रभूतं वा दानानि दत्त्वा पुण्यानि कृत्वास्माकं नाम्ना दक्षिणामादेक्ष्यते। इदं तयोर्यत्रतत्रोपपन्नयोर्गच्छतोरनुगच्छत्विति। आपन्नसत्त्वां चैनां विदित्वोपरिप्रासादतलगतामयत्त्रितां धारयति शीते शीतोपकरणैः उष्णे उष्णोपकरणैर्वैद्यप्रज्ञप्तैराहारैर्नातितिक्तैर्ना<त्य>म्लैर्नातिलवणैर्नातिमधुरैर्नातिकटुकैर्नातिकषायैस्तिक्ताम्ललवणमधुर-कटुककषायविवर्जितैराहारैर्हारार्धहारविभूषितगात्रीमप्सरसमिव नन्दनवनविचारिणीं मञ्चान्मञ्चं पीठात्पीठमनवतरत्तीमधरां भूमिम्। न चास्याः किञ्चिदमनोज्ञशब्दश्रवणं यावदेव गर्भस्य परिपाकाय॥ साष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारको जातो ऽभिनूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश्छत्राकारशिराः प्रलम्बबाहुर्विस्तीर्णललाट उच्चघोषः संगतभ्रूस्तुङ्गनासः सर्वाङ्गप्रत्यङ्गोपेतः। तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारकस्य नामेति। ज्ञातय ऊचुः। अयं दारको मित्रस्य पुत्रः कन्या च तस्माद्भवतु दारकस्य मैत्रकन्यको नामेति॥





मैत्रकन्यको दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। सो ऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्। पिता चास्य महासमुद्रमवतीर्णस्तत्रैव च निधनमुपयातः॥ यदा मैत्रकन्यको महान्संवृत्तस्तदा मातरमुवाच। अम्ब पितास्माकं किंकर्मफलोपजीवो आसीत्ततः पश्चादहं पि तथा करिष्यामीति॥ माता कथयति। पुत्रक पिता ते ओक्करिक आसीदाकाङ्क्षमाणस्त्वमोक्करिकत्वं कुरु। सा चित्तयति। यद्यहमस्मै वक्ष्यामि महासमुद्रवणिगासीदित्येषो ऽपि कदाचिन्महासमुद्रमवतीर्णस्तत्रैव निधनमुपगच्छेदिति॥



तेनौक्करिकापणो व्यवस्थापितः। ततः प्रथमे दिवसे चत्वारः कार्षापणाः संपन्नाः। ते ऽपि तेन मातुर्निर्यातिता एभिरम्ब श्रमणब्राह्मणकृपणवनीपकान्प्रतिपादयस्वेति॥ यावदपरेणोच्यते पिता ते गान्धिकापणिक आसीदिति। तेनौक्करिकत्वं त्यक्त्वा गान्धिकापणो व्यवस्थापितः। अष्टौ कार्षापणाः संपन्नाः। ते ऽपि तेन मातुर्निर्यातिताः॥ यावदपरेणोच्यते पिता ते हैरण्यिक आसीदिति। तेन तमापणं त्यक्त्वा हैरण्यिकापणो व्यवस्थापितः। ततः प्रथमे दिवसे षोडश कार्षापणाः संपन्नाः। ते ऽपि तेन मातुर्निर्यातिताः। द्वितीये दिवसे द्वात्रिंशत्कार्षापणाः संपन्नाः। ते ऽपि तेन मातुर्निर्यातिताः॥ यावद्वैरण्यिकैरीर्ष्याप्रकृतैः सर्वानधिष्ठानव्यवहारान्विदित्वोक्तः। मैत्रकन्यक किं तवानया अधर्मजीविकया पिता ते महासमुद्रवणिगासीत्केन त्वं कुसंव्यवहारे नियुक्त इति॥ स हैरण्यिकवचनसंचोदितो मातुर्गत्वा कथपत्यम्ब एवमनुश्रूयते पितास्माकं महासमुद्रवणिगासीदिति तदनुजानीहि अहमपि महासमुद्रमवरिष्यामीति। माता कथयत्येवमेतत्पुत्रक किं तु त्वं बाल एकपुत्रकश्च मा मां परित्यज्य महासमुद्रमवतरिष्यसीति॥ स ईर्ष्याप्रकृतिभिरकल्याणमित्रैर्विप्रलब्धो न निवर्तते। ततस्तेन मातुर्वचनमवचनं कृत्वा वाराणस्यां नगर्यां घण्टावघोषणं कारितम्। शृण्वत्तु भवत्तो वाराणसीनिवासिनो वणिजः मैत्रकन्यकः सार्थवाहो महासमुद्रमवतरिष्यति ये युष्माकमुत्सहत्ते मैत्रकन्यकेन सार्थवाहेन सार्धमशुल्केनागुल्मेनातरपण्येन महासमुद्रमवतर्तुं ते महासमुद्रगमनीयं पण्यं समुदानयत्त्विति॥ स कृतकूतूहलमङ्गलस्वस्त्ययनः पञ्चवणिक्‌शतपरिवारः शकटैर्भारैर्मूटैः पिटकैरुष्ट्रैर्गोभिर्गर्दभैर्महासमुद्रगमनीयं पण्यं समुदानीय संप्रस्थितो माता चास्य स्नेहव्याकुलहृदया साश्रुदुर्दिनवदना पादयोर्लग्ना पुत्रक मा मां परित्यज्य महासमुद्रमवतरेति॥ अथ स एवं करुणदीनविलम्बितैरप्यक्षरैरुच्यमानः कृतव्यवसायो मातरं पादेन शिरस्यभिहत्य सार्थसहायः संप्रस्थितो मात्रा चोक्तो मा मे पुत्रकास्य कर्मणो विपाकमनुभवेथा इति॥



यावदसौ ग्रामनिगमराष्ट्रराजधानीपट्टनान्यवलोकयन्समुद्रतीरमनुप्राप्तः। स पञ्चभिः पुराणशतैर्वहनं भृत्वा पञ्च पौरुषेयान्गृहीत्वा ऽहारं नाविकं कैवर्त कर्णधारं च त्रिरपि घोषणावघोषणं कृत्वा महासमुद्रमवतीर्णः॥ यावद्वहनं मकरेण मत्स्यजातेनानयाद्यसनमापादितम्। ततो मैत्रकन्यकः फलकमासाद्य स्थलमनुप्राप्तः॥ ततः स्थले चञ्चूर्यमाणो न दूरान्नगरं रमणकं नाम्ना दृष्ट<वा>न्। स तदुपजगाम। यावत्ततश्चतस्त्रो ऽप्सरसो निर्गता अभिनूपा दर्शनीयाः प्रासादिकास्ताः कथयत्ति। एहि मैत्रकन्यक स्वागतं ते इदमस्माकमन्नगृहं पानगृहं वस्त्रगृहं शय्यागृहं मणिमुक्तावैडूर्यशङ्खशिलाप्रवाडविविधजातनूपरजतसंपूर्णमागच्छ रंस्यामहेति॥ स ताभिः सहानेकानि वर्षाणि रतिमनुभूतवान्यथापि तत्कृतपुण्यः सत्त्वः कृतकुशलः। दक्षिणपद्धतिगमनाच्चैनं वारयत्ति। स यतो दक्षिणायाः पद्धतेर्निवार्यते ततः सुष्ठुतरमुत्कण्ठितो गत्तुम्॥ यावत्पुनरपि दक्षिणेन यथा गच्छन्पश्यति सदामत्तं नाम नगरम्। स तत्र द्वारीभूतो यावतस्मादप्यष्टावप्सरसो निर्गता अभिनूपतरा दर्शनीयतराः प्रासादिकतरास्ताः कथयत्ति। एहि मैत्रकन्यक स्वागतं ते इदमस्माकमन्नगृहं पानगृहं वस्त्रगृहं शय्यागृहं मणिमुक्तावैडूर्यशङ्खशिलाप्रवाडविविधजातनूपरतरसंपूर्णमागच्छ रंस्यामहेति। स ताभिः सहानेकानि वर्षाणि रतिमनुभूतवान्यथापि तत्कृतपुण्यः सत्त्वः कृतकुशलः। ता अप्यस्य दक्षिणां पद्धतिं वारयत्ति। स यतो दक्षिणायाः पद्धतेर्निवार्यते ततः सुष्ठुतरमुत्कण्ठितो गत्तुम्॥ यावत्पुनरपि दक्षिणेन यथा गच्छन्पश्यति नन्दनं नाम नगरम्। स तत्र द्वारीभूतो यावत्तस्मादपि षोडशाप्सरसो निर्गता अभिनूपतरा दर्शनीयतराः प्रासादिकतरास्ताः कथयत्ति। एहि मैत्रकन्यक स्वागतं ते इदमस्माकमन्नगृहं पानगृहं वस्त्रगृहं शय्यागृहं मणिमुक्तावैडूर्यशङ्खशिलाप्रवाडविविधजातनूपरजतसंपूर्णमागच्छ रंस्यामह इति। स ताभिस्सहानेकानि वर्षाणि रतिमनुभूतवान्यथापि तत्कृतपुण्यः सत्त्वः कृतकुशलः। ता अप्यस्य दक्षिणां पद्धतिं वारयत्ति। स यतो दक्षिणायाः पद्धतेर्निवार्यते ततः सुष्ठुतरसुत्कण्ठितो गत्तुम्॥ यावत्पुनरपि दक्षिणेन यथा गच्छन्पश्यति ब्रह्मोत्तरं नाम प्रासादम्। स तत्र द्वारीभूतो यावत्तस्मादपि द्वात्रिंशदप्सरसो निर्गता अभिनूपतरा दर्शनीयतराः प्रासादिकतरास्ताः कथयत्ति। एहि मैत्रकन्यक स्वागतं ते इदमस्माकमन्नगृहं पानगृहं वस्त्रगृहं शय्यागृहं मणिमुक्तावैडूर्यशङ्खशिलाप्रवाडविविधजातनूपरजतसंपूर्णमागच्छ रंस्यामह इति। स ताभिस्सहानेकानि वर्षाणि रतिमनुभूतवान्यथापि तत्कृतपुण्यः सत्वः कृतकुशलः। ता अप्यस्य दक्षिणां पद्धतिं वारयत्ति। स यतो दक्षिणायाः पद्धतेर्निवार्यते ततः सुष्ठुतरमुत्कण्ठितो गत्तुम्॥



यथा दक्षिणां पद्धतिं गच्छति तथास्येच्छा वर्धते। यावत्पुनरपि दक्षिणेन यथा गच्छन्पश्यत्ययोमयं नगरम्। स तत्र प्रविष्टः प्रविष्टमात्रस्य चास्य द्वारं पिहितम्। ततो ऽभ्यत्तरं प्रविष्टः। तत्रास्य द्वारं पिहितम्। ततो ऽभ्यत्तरं प्रविष्टो यावत्पुरुषं पश्यति महाप्रमाणं मूर्ध्नि चास्यायोमयं चक्रं भ्रमत्यादीप्तं प्रदीप्तं संप्रज्वलितमेकज्वालीभूतं। तस्य शिरसो यत्पूयशोणितं प्रघरति सो ऽस्याहारः। ततो मैत्रकन्यकस्तं पुरुषं पृष्टवान्भो पुरुष कस्त्वमिति। स कथयत्यहं मातुरपकारीति। उदाहृतमात्रे च तेन पुरुषेण मैत्रकन्यकस्य तत्कर्माभिमुखीभूतम्। अहमपि मातुरपकारीति मन्ये तेनैवाहं कर्मणा इहाकृष्ट इति॥ अथ तस्मिन्नत्तरे आकाशाच्छब्दो निर्गतः ये बद्धास्ते मुक्ता ये मुक्तास्ते बद्धाः। इत्युक्तमात्रे तस्य पुरुषस्य मूर्ध्नि चक्रमत्तर्हितं मैत्रकन्यकस्य मूर्ध्नि प्रादुर्भूतम्॥ ततो दुःखार्तं मैत्रकन्यकमवेक्ष्य स पुरुषो गाथया प्रत्यभाषत।



अतिक्रम्य रमणकं सदामत्तं च <न>न्दनम्।

ब्रह्मोत्तरं च प्रासादं केन त्वमिहागतः॥

मैत्रकन्यकः प्राह।

अतिक्रम्य रमणकं सदामत्तं च नन्दनम्।

ब्रह्मोत्तरं च प्रासादमिच्छयाहमिहागतः॥

दूरं हि कर्षते कर्म दूरात्कर्म प्रवर्तते।

तत्र प्रकर्षते कर्म यत्र कर्म विपच्यते॥

तेन कर्मविपाकेन चक्रं वहति मस्तके।

आदीप्तं संप्रज्वलितं मम प्राणोपरोधकमिति॥

पुरुषः प्राह।

त्वया प्रदुष्टचित्तेन माता दुष्करकारिका।

पादेनाभ्याहता मूर्ध्नि तस्य ते कर्मणः फलमिति॥

मैत्रकन्यकः प्राह।

कति वर्षसहस्राणि चक्रं वर्त्स्यति मस्तके।

आदीप्तं संप्रज्वलितं मम प्राणोपरोधकम्॥

पुरुषः प्राह।

षष्टि वर्षसहस्राणि षष्टि वर्षशतानि च।

आदीप्तमायसं चक्रं तव मूर्ध्नि भ्रमिष्यतीति॥



मैत्रकन्यक आह। भोः पुरुष अस्ति कश्चिदन्यो ऽपीहागमिष्यतीति॥ पुरुषः प्राह। य एवंविधकर्मकारी भविष्यतीति॥



ततो मैत्रकन्यको दुःखवेदनाभिभूतः सत्त्वानामत्तिके कारुण्यं जनयित्वा तं पुरुषमाह। इच्छाम्यहं भोः पुरुष सर्वसत्त्वानामर्थे इदं चक्रमुपरि शिरसा धारयितुं मा कश्चिदन्यो ऽप्येवंविधकर्मकारी इहागच्छत्विति। इत्युक्तमात्रे मैत्रकन्यकस्य बोधिसत्त्वस्य तच्चक्रं सप्ततालमात्रं मूर्ध्नि उद्रम्याकाशे स्थितम्। स च कालं कृत्वा तुषिते देवनिकाये उपपन्नः॥



भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन मैत्रकन्यक आसीदहं सः। यन्मया संव्यवहरता माता कार्षापणैः प्रतिपादिता तस्य मे कर्मणो विपाकेन चतुर्षु महानगरेषु महत्सुखमनुभूतं यतश्च मे मातुः परीत्तो ऽपकार कृतस्तस्य मे कर्मणः फलविपाकेनैवंविधं दुःखमनुभूतम्। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यन्मातापितृषु कारान्करिष्यामो नापकारांस्तदेते दोषा न भविष्यत्ति ये मैत्रकन्यकस्य पृथग्जनस्य एष एव गुणगणो भविष्यति यस्तस्यैव देवपुत्रभूतस्येत्येवं वो भिक्षवः शिक्षितव्यम्। तत्कस्य हेतोः। दुष्करकारकौ हि भिक्षवः पुत्रस्य मातापितरावाप्यायकौ पोषकौ संवर्धकौ स्तन्यस्य दातारौ चित्रस्य जम्बूद्वीपस्य दर्शयितारौ। य एकेनांसेन पुत्रो मातरं द्वितीयेन पितरं पूर्ण वर्षशतं परिहरेघद्वा ऽस्यां महापृथिव्यां मणयो मुक्ता वैडूर्यशङ्खशिलाप्रवाडरजतजातनूपमश्मगर्भो मुसारगल्वो <लो>हितिका दक्षिणावर्त इत्येवंनूपे वा ऐश्वर्याधिपत्ये प्रतिष्ठापयेन्न इयता पुत्रेण मातापित्रोः कृतं वा स्यादुपकृतं वा। यस्त्वसावश्राद्धं मातापितरं श्रद्धासंपदि समादापयति विनयति निवेशयति प्रतिष्ठापयति दुःशीलं शीलसंपदि मत्सरिणं त्यागसंपदि दुष्प्रज्ञं प्रज्ञासंपदि समादापयति विनयति निवेशयति प्रतिष्ठापयति इयता पुत्रेण मातापित्रोः कृतं वा स्यादुपकृतं वा॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project