Digital Sanskrit Buddhist Canon

४७.सर्वार्थसिद्धावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
४७ सर्वार्थसिद्धावदानम्।

स्वार्थप्रवृत्तौ विगतस्पृहाणां
परोपकारे सततोद्यतानाम्।
क्लेशेष्वभीता व्यसनैरनीता
विघ्नैरपीडाकरमेति सिद्धिः॥१॥

श्रावस्त्यां भगवान् पूर्वं जिनो जेतवनस्थितः।
धर्माख्यानप्रसङ्गेन भिक्षुसंघमभाषत॥२॥

आसीदखिलभूपालमौलिलालितशासनह्।
सिद्धार्थो नाम सुकृती सार्वभौमो महीपतिः॥३॥

सागराख्यस्य नागस्य सूनुर्जलधिवासिनह्।
सर्वार्थसिद्धः पुत्रत्वं प्रययौ तस्य भूपतेः॥४॥

स भाद्रकल्पिको बोधिसत्त्वः सत्त्वोज्ज्वलप्रभः।
जातमात्रः क्षितितलं चक्रे पूर्णं स्वऋद्धिभिः॥५॥

तस्य प्रवर्धमानस्य धर्मस्येव समुद्ययौ।
समस्तभुवनव्यापि विबुधाभ्यर्चितं यशः॥६॥

स कदाचिद्वरोद्याने स्यन्दनेन युवा व्रजन्।
ददर्श वृद्धपुरुषं देवतानिर्मितं पुरः॥७॥

तं विलोक्य जराजीर्णं जातवैराग्यवासनह्।
संसारमिव निःसारं स शरीवममन्यत॥८॥

उद्यानयात्राविरतः शनैः प्रतिनिवृत्य सः।
दारिद्य्रविद्रुतच्छायानद्राक्षीत् कृपणान् पथि॥९॥

दृष्ट्वा तानसुखक्लेष्टान् करुणाकृष्टमानसः।
अचिन्तयदहो दुःखं सहन्ते भुवि दुर्गताः॥१०॥

अदानप्रभवं दुःखं वदन्तीति विसंगताः।
पृथिव्यां रत्नपूर्णायां परपिण्डोपजीविनः॥११॥

इदमेवाविसंवादि चिह्नं कलुषकर्मणाम्।
दीनां यदेते याचन्ते पुरुषं पुरुषाः परम्॥१२॥

अहो दुष्कृतमेतेषामवधूताः पदे पदे।
यदेते मार्गणोद्विग्ना भिक्षित्वापि बुभुक्षिताः॥१३॥

इति संचिन्त्य सुचिरं विश्चक्लेशक्षयोद्यतः।
यदरिद्रं जगत्कर्तुं रत्नार्थी जलधिं ययौ॥१४॥

कथचिदिव संसक्तः स पित्रा दृढनिश्चयः।
स्मारुह्य प्रवहणं रत्नद्वीपमवाप्तवान्॥ १५॥

तत्र प्रवहणारूढान् वणिजः सहयायिनः।
सोऽब्रवीत्क्रियताम् कामं युष्माभिर्मणिसंग्रहं॥१६॥

एतैः सामान्यरत्नैस्तु मम नास्ति प्रयोजनम्।
कोशे महान्ति भास्वन्ति सन्ति रत्नोत्तमानि नः॥१७॥

किं तु चिन्तामणिप्राप्त्यै विपुलोऽयं ममोद्यमः।
तेन विद्रुतदारिद्य्रां कर्तुमिच्छामि मोदेनीम्॥१८॥

श्रुतं मया नागराजः सागराख्यो महोदधौ।
वसत्यस्ति गृहे तस्य चिन्तितार्थप्रदो मणिः॥१९॥

विलङ्घ्य विषमं मार्गं तमादातुं व्रजाम्यहम्।
नास्ति धैर्यसहायानाम् दुर्गमं व्यवसायिनाम्॥२०॥

न च मद्विरहे किंचिद् व्यसनं वो भविष्यति।
सत्यमेव परार्थोऽयं यदि मे सुकृतोद्यमः॥२१॥

इत्युक्त्वा तान् समामन्त्र्य प्रतस्थे स्थिरनिश्चयः।
महतीं धृतिमालम्ब्य सत्त्ववान् पार्थिवात्मजः॥२२॥

गुल्फमात्रेण सप्ताहं गत्वा गङ्गमवर्त्मना।
जानुदघ्नेन सप्ताहं सप्ताहं पौरुषेण च॥२३॥

चत्वारि सप्तरात्राणि ततः पुष्करिणीजलैः।
गत्वा दृष्टिविषान् घोरान् ददर्श फणिनः पुरः॥२४॥

मैत्रीयुक्तेन मनसा कृत्वा तानथ निर्विषान्।
क्रूरकोपैर्वृतं यक्षैर्यक्षद्वीपमवाप सः॥२५॥

तत्र मैत्रेण मनसा वीतक्रोधान् विधाय तान्॥२६॥

शुश्राव तैरभिहितं विपुलोत्साहविस्मितैः॥२६॥

कुमार स्फीटसत्त्वेन तथा वीर्येणचामुना।
नागराजस्य भवनं समाहितमवाप्य तम्॥२७॥

कालेन सम्यक्संबुद्धः सर्वग़्यस्त्वं भविष्यसि।
श्रावकाश्च भविष्यामो वयं त्वदनुयायिनः॥ २८॥

प्रसन्नैरिति तैरुक्तमभिनन्द्य नृपात्मजः।
रक्षेवरावृतं प्राप राक्षसद्वीपमुत्कटम्॥ २९॥

तथैव विगतक्रूरविकारैस्तैः स पूजितः।
भूजोत्क्षेपेण निक्षिप्तः क्षणान्नागेन्द्रसद्मानि॥ ३०॥

स तत्र दीप्तविभवे दिव्योत्साससुखोचितः।
अशृणोद्दीर्घदुःखार्तिसूचकं रोदनध्वनिम्॥३१॥

स तमाकर्ण्य सोद्वेगः प्रकृत्यैव दयार्द्रधीः।
किमेतदिति पप्रच्छ दृष्ट्वाग्रे नागकन्यकाम्॥३२॥

सा तं बभाषे संसक्तशोकोष्मपिशुनैर्मुहुः।
म्लानयन्तीं स्वनिश्वासौर्बिम्बाधरदलत्विषम्॥३३॥

गुणावान् नागराजस्य पुत्रः कमललोचनः।
ज्योष्ठः सर्वार्थसिद्धाख्यः प्रियः पञ्चत्वमागतः॥३४॥

ततः प्रतिगतानन्दे विनिवृत्तसुखोत्सवे।
धनेन रोदनेनास्मिन्न भवेद्भवने स्थितिः॥३५॥

इति तस्या वचः श्रुत्वा सोऽन्तः परिचितां वहन्।
स्वदेशदर्शनप्राप्तो नागराजान्तिकं ययौ॥३६॥

नागराजस्तमायान्तं परिज्ञाय प्रियासखः।
एह्येहि पुत्रेति वदन् बभूवानन्दविह्वलः॥३७॥

मर्त्यजन्मकथाम् तेन स्वं चागमनकारणम्।
श्रुत्वा निवेदितं नागः परिष्वज्य जगाद तम्॥३८॥

चिन्तामणिरयं पुत्र मम मौलिविभूषणम्।
गृह्यताम् तव संकल्पं न वन्ध्यं कर्तुमुत्सहे॥३९॥

देयः कृतजगत्कृत्यो ममैवायं पुनस्त्वया।
इत्युक्त्वास्मै ददौ दिव्यचूडं रत्न विमुच्य सः॥४०॥

हृष्टः प्रणम्य नागेन्द्रं ययौ प्रवहणान्तिकम्॥४१॥

समुद्रदेवता तत्र तं दृष्ट्वा श्रुततत्कथा।
उवाच कीदृशः साधो प्राप्तश्चिन्तामणीस्त्वया॥४२॥

* * * * ।
* * * * ॥४३॥

* * * * ।
* * * * ॥४४॥

समुद्रे पतितं दृष्ट्वा रत्नं कृच्छ्रतरार्जितम्।
स जगाद दृढोद्योगवैफल्योद्वेगनिश्चलः॥४५॥

अहो गुणोचिताकारा प्रणयान्मृदुवादिनी।
विद्वेषकलुषं कर्म कृत्वा त्वं न विलज्जसे॥४६॥

परोत्कर्षेषु संघर्षशोकक्लेशमुपैति यः।
शीतला अपि तस्यैता ज्वालावलयिता दिशः॥ ४७॥

परित्साहः प्रियो यस्य तस्य सत्त्वमहोदधेः।
कर्पूरधवलं धत्ते त्रिलोकीतिलकं यशः॥ ४८॥

देवि प्रयच्छ मे रत्नमस्माद्विरम पातकात्।
अपवादलतां कर्म न साधोरधिरोह्हति॥४९॥

लोभात्प्रमादाद्द्वेषाद्वा रत्नं चेन्न प्रयच्छसि।
शोषयाम्येष जलधिं तदिमं ते समाश्रयम्॥५०॥

इत्युक्त्वा प्यसकृत्तेन सा रत्ने न ददौ यदा।
स तदा स्वप्रभावेण शोषायाब्धेः समुद्ययौ॥५१॥

ध्यातमात्रं सहस्राक्षवचसा विश्वकर्मणा।
निर्मितं सहसा तस्य पत्रमाविरभुत्करे॥५२॥

स तेनागस्त्यचुलुकाकारेणाम्भः पयोनिधेः।
अन्तरीक्षे समुत्क्षिप्य चिक्षेप क्षमणोद्यतः॥५३॥

कृते भूभागशेषेऽब्धौ तेनात्यद्भुतकारिणा।
सुरनिर्भर्त्सिता भीता देवतास्मै मणीं ददौ॥ ५४॥

निर्व्याजं साहसं दीप्तिं रत्नानामिव तत्त्वतः।
प्रभावं वेत्ति महतां मन्त्राणां तपसां च कः॥५५॥

स्फारस्तावदपारवारिविरसव्यापारहेलाबलात्
कल्लोलावलियन्त्रिताम्बरतया रत्नाकरः श्रूयते।
गम्भीरः पुनरप्रमेयमहिमा कोऽपि प्रभावः सतां
यस्मिन् विस्मयधाम्नि चिन्तनविधावन्ते प्लवन्ते धियः॥५६॥

ततश्चिन्तामणिं बुद्ध्वा निजसार्थेन संगतः।
राजसूनुः स्वनगरं प्राप पूर्णमनोरथः॥ ५७॥

कृतकृत्यः प्रहृष्टेनः स पित्रा तत्र पूजितः।
ध्वजाग्रे रत्नमाधाय जगाद जनसंसदि॥ ५८॥

परार्थ एव यत्नोऽयं नात्मार्थो यदि मे क्कचित्।
तेन सत्येन लोकोऽय सर्वं यात्वदरिद्रताम्॥५९॥

इत्युक्ते सत्त्वनिधिना तेन दीनदयालुना।
रत्नवृष्टिरपर्यन्ता निपपात महीतले॥६०॥

तेन रत्नसमूहेन दिक्षु सर्वासु भास्वता।
ययौ जनस्य दारिद्य्रमयं निःशेषतां तमः॥६१॥

आशापाशवतां बलाप्त्रविशतां बाह्याङ्गणं श्रीमतां
द्वाःस्थाघातवताम् मुहुर्विचलतां देहक्षयं काङ्क्षतां
दीनानां मणिराशिरश्मिशबलः श्रीसंगमः कोऽप्यभूत्॥६२॥

तच्छासनादुरगनायकमेव याते
चिन्तामणौ विगतदैन्यजने च लोके।
सर्वत्र दानरसिकस्य जनस्य चेतः
सर्वार्थिसार्थविरताकुलितं बभूव॥६३॥

सर्वार्थसिद्धः क्षितिपालसूनुः
योऽभूत्स एवाहमिहान्यदेहः।
श्रुत्वेतिवृत्तं कथितं जिनेन
ते भिक्षवस्तन्मयतामवापुः॥ ६४॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां
सर्वार्थसिद्धावदानं सत्पचत्वारिंशः पल्लवः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project