Digital Sanskrit Buddhist Canon

३७.मूकपङ्ग्ववदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
३७ मूकपङ्ग्ववदानम्।

आकिंचन्यसुखाय निःस्पृहतया वैराग्यलक्ष्मीजुषः
सर्वं यान्ति विहाय कायसचिवाः सन्तः प्रशान्त्यै वनम्।
तत्रापि व्रतडम्बरे परिकरारम्भाय चेत् संचय -
स्तत्कः कोशपरिच्छदोपकरणैर्गेहेऽपराधः कृतः॥ १॥

जिने जेतवनारामविहाराभिरते पुरा।
शाक्यराजकुमाराणां प्रव्रज्यासंजुषां पुरः॥ २॥

चित्रचीवरसत्पात्रयोगपट्टादिसंचयम्।
प्रभूततरमालोक्य भगवान् समचिन्तयत्॥ ३॥

अहो बतैषां नाद्यापि बन्धहेतुर्निवर्तते।
अभिमानमयः काये प्रियः परिकरग्रहः॥ ४॥

काये कायपरिष्कारस्तस्योपकरणावली।
तस्याः परिकरादानमहो नु बन्धशृन्खला॥ ५॥

इति संचिन्त्य भगवान् नैकान्तविहितस्थितिः।
कारुण्यादुपसन्नानां कुशलाय समुद्यतः॥ ६॥

मासत्रयमुपस्थानं कर्तव्यं येन केनचित्।
अदर्शनाय भिक्षूणामकरोदिति संविदम्॥ ७॥

प्रवृत्ते नियमे तस्मिन् भिक्षुरारण्यकव्रतः।
आययावुपसेनाख्यः कार्यार्थं तनुचीवरः॥ ८॥

प्रवारितः स संप्राप्य धन्यः सुगतदर्शनम्।
कृतकृत्यः क्षस्णं स्थित्वा प्रतस्थे प्रणिपत्य तम्॥ ९॥

व्रजन्तमेत्य पप्रच्छुर्भिक्षवः परिवार्य तम्।
तवार्य दर्शनमहो दत्तं भगवता कथम्॥ १०॥

मासत्रयं दर्शनेऽस्य नियमः शासनेन यः।
स कथं भवता भग्नः संघस्योन्मार्गगामिना॥ ११॥

श्रुत्वा तद्वचनं तेषामुपसेनः स्मितोत्तरम्।
तानुचे न् अमया कश्चित् कृतः समयविप्लवः॥ १२॥

अहमुक्तो भगवता दर्शनावसरे स्वयम्।
आरण्यकस्य मे भिक्षोर्निषेधो नास्ति दर्शने॥ १३॥

परिच्छदोपकरणत्यागनिर्मुक्तबन्धनाः।
अवार्यदर्शना वृक्षमूलिकाः पांशुकूलिकाः॥ १४॥

इदमद्य परं प्रातरिति ये संचये रताः।
पात्रवीचरवर्गेषु तेषां नास्तीह दर्शनम्॥ १५॥

पाथोभिः प्रसरत्तुषारशिशिरैस्तृष्णातुरास्ते परं
ते नित्यं च निधानधाम्नि विवृतेऽप्यन्यादलं दुर्गताः।
तेषां चन्दनपादपादुपनतः संतापकः पावको
यैरेष प्रशमव्रतोपकरणे बद्धोऽभिमानग्रहः॥ १६॥

इत्युक्तमुपसेनेन श्रुत्वा ते शाक्यभिक्षवः।
वैलक्ष्यक्षयितोत्साहाः सहसैव व्यचिन्तयन्॥ १७॥

एतद्भगवतादिष्टमस्मानुद्धिश्य नापरान्।
विचित्रचीवरचयप्रावारा वयमेव यत्॥ १८॥

विरतेच्छाः प्रियाह् शास्तुर्महेच्छा वयमप्रियाः।
तस्मादिच्छां परित्यज्य भवामस्तस्य संमताः॥ १९॥

इति संचिन्त्य ते सर्वे चारुचीवरसंचयम्।
प्रावृत्याभ्यधिकं त्यक्त्वा ययुर्भगवतोऽन्तिकम्॥ २०॥

इच्छाविरामे भगवान् व्यधात्तेषामनुग्रहम्।
ज्ञानवज्रेण सत्कायदृष्टिशैलं बिभेद यः॥ २१॥

शाक्यराजकुमाराणां श्रोतःप्राप्तिफलस्पृशाम्।
भिक्षुभिः पूर्ववृत्तान्तं पृष्टः प्राह तथागतः॥ २२॥

वाराणस्यामभूत्पूर्वं ब्रह्मदत्तो महीपतिः।
दानार्द्रहस्तो यद्बाहुः क्ष्मामधाद्दिग्द्विपोपमः॥ २३॥

तस्य ब्रह्मावती मुक्तालतेव गुणशालिनी।
कीर्तिः सत्पुरुषस्येव विश्रुता वनिताभवत्॥ २४॥

प्रतिबिम्बोपमं पत्युः सा सुतं विमलाशया।
जलक्रीडागता काले सुषुवे दिव्यलक्षणम्॥ २५॥

उदकाख्यः स बालोऽभूत् संजातः सलिलान्तरे।
वर्धमानः पितुस्तुल्यं यौवराज्यानोरथैः॥ २६॥

शतानि पञ्चामात्यानां तस्य जन्मदिनं समम्।
अवापुस्तुल्यरूपाणां पुत्राणाम् शतपञ्चकम्॥ २७॥

निजं जातिस्मरः स्मृत्वा प्राग्वृत्तं स शिशुः शनैः।
अचिन्तयत् प्राप्तकालं हितं सुकृतमात्मनः॥२८॥

षष्टिवर्षाणि कृत्वा तु यौवराज्यमहं पुरा।
अभवं कृच्छ्रसंतप्तश्चिरं नरकसंकटे॥ २९॥

जन्मन्यस्मिन्नपि पुनर्यौवराज्यमुपस्थितम्।
सर्वथा प्रार्थ्यमानोऽपि न करिष्यामि पातकम्॥ ३०॥

इति संचिन्त्य स चिरं राजभोगपराङ्मुखः।
पितुरुद्वेगजननीमग्रहीत् पङ्गुमूकताम्॥ ३१॥

सर्वलक्षणयुक्तोऽपि राजवृत्तेरभाजनम्।
स मूकपङ्गुर्नामाभूद् बन्धूनां दुःखवर्धनः॥ ३२॥

प्राप्तेषु मन्त्रिपुत्रेषु शस्त्रशास्त्रबलोदयम्।
राजपुत्रः प्रवृद्धोऽपि नोदतिष्ठन्न चावदत्॥ ३३॥

पृष्टस्ततः क्षितीशेन वैद्यास्तद्दोषभेषजम्।
अवदन् वैकल्यं राजन् राजसूनोर्न दृश्यते॥ ३४॥

अभ्यासाद्यदि जातोऽस्य दोषोऽपि सुखसेविनः।
तदेष भयसंवेगादुत्तिष्ठति च वक्ति च॥ ३५॥

इति वैद्यैरभिहितं तथेत्युक्त्वा क्षितीश्वरः।
मिथ्यैव वध्यवसुधां भयाय व्यसृजत्सुतम्॥ ३६॥

स भर्त्स्यमानह् पुरुषैस्तमुवाच रथस्थितम्।
अपि कश्चिद्वसत्यस्यां वाराणस्यां न वा जनः॥ ३७॥

इति तद्वचनं श्रुत्वा तैर्नीतः स नृपान्तिकम्।
तत्र पित्रार्थ्यमानोऽपि मूक एवाभवत् पुनः॥ ३८॥

पुनर्वध्यभुवं नीतः शवं दृष्ट्वा जगाद् सः।
अस्त्येष जीवति शवः किं वा सर्वात्मना मृतः॥ ३९॥

श्रुत्वैतत् तैः पितुः पार्श्वे न्यस्तो मौनं व्यधात्पुनः।
पुनर्वधभयाच्चैव नीतः प्रोवाच तान् पथि॥ ४०॥

राशिर्य एष धान्यस्य स हि भुक्तोऽनुभुज्यते।
इत्युक्तवाक्योऽपि पुनर्नोचे किंचित् पितु परः॥ ४१॥

ततः ख्यातप्रतिक्षेपे तस्यादिष्टे महीभुजा।
सोऽवदद्वरदानेन वच्मि प्रद्भ्यां व्रजामि च॥ ४२॥

अथास्य राज्ञा हृष्टेन वरदाने प्रतिश्रुते।
स पद्भ्यां स्वयमभ्येत्य स्पष्टं पितरमब्रवीत्॥ ४३॥

नाहं पङ्गुर्न मूकोऽहं नैव चाहं जडाशयः।
किंतु जन्मान्तरक्लेशं स्मृत्वा वैह्वल्यमाश्रितः॥ ४४॥

यौवराज्यसुखं भुक्त्वा षष्टिवर्षाण्यहं पुरा।
षष्टिवर्षसहस्राणि न्यवसं नरकोदरे॥ ४५॥

राजभीत्या मया तस्मात् कृतेयं मूकपङ्गुता।
प्रव्रज्यया ब्रह्मचर्यं चराम्येष वरो मम॥ ४६॥

इति तेनोक्तमाकर्ण्य तमुवाच महीपतिः।
अमूक इत्याप्तधृतिर्विरक्त इति दुःखितः॥ ४७॥

धर्ममूलमिदं राज्यं पुत्र न त्यक्तुमर्हसि।
यज्ञदानप्रजात्राणैः पुण्यपूर्णा नॄपश्रियः॥ ४८॥

एकपुत्रस्त्वया पुत्र परित्यागरसादहम्।
निद्रादरिद्रताम् नीतः शोकशय्यासमाश्रयः॥ ४९॥

संपूर्णचन्द्ररुचिरां व्यक्तमौक्तिकहासिनीम्।
कथं संपदमुत्सृज्य प्रव्रज्याभिमता तव॥ ५०॥

कथं शय्याः परित्यज्य प्राज्यराज्यसुखोचिताः।
वनान्तवासव्यसनी सेवसे पांशुलाः स्थलीः॥ ५१॥

कान्तालीलामुकुरमणिमन्मन्दिरीं राजधानी-
मेतां त्यक्त्वाननु वनभुवः संपतद्व्याघ्रघोराः।
सर्वप्रीत्यै जरदजगराश्वासविप्लुष्टपत्राः
क्लिष्टच्छायाह् प्रविरललतास्ताः कथं ते भवन्ति॥ ५२॥

पितुः श्रुत्वेति वचनं राजपुत्रस्तमब्रवीत्।
दन्तकान्ताधररुचिं वैराग्यं ग्राहयन्निव॥ ५३॥

शीतला निर्मलजलाह् संतोषशशिशीतलाः।
वने वैराग्यसुभगा भुवः कस्य न वल्लभाः॥ ५४॥

परदारा इव क्षिप्रसुखावर्जितदुर्जनाः।
नरकप्रत्ययायामे सापाया न प्रियाः प्रियाः॥ ५५॥

ध्यानं मन्त्रः परिज्ञानमिन्द्रियाणां चनिर्जयः।
राज्ञां हिंसाप्रयत्नेन योगोऽयं नरकप्रदः॥ ५६॥

हसन्त्यः संसारं कुसुमकलिलाः काननभुवः
स्वभावेन प्रीतिं विदधति बुधानां शममयीम्।
दृढं चिन्ताश्राण्ता व्यजनपवनोच्छ्वासबहुला
विभूतिर्भूपानां शिरःसक्तामनित्यताम्॥ ५७॥

अनुजानीहि मां तात व्रजाम्येष तपोवनम्।
जानीहि सर्वभावानां शिरःसक्तामनित्यताम्॥ ५८॥

इति पुत्रवचः श्रुत्वा तत्तथेति विचिन्तयन्।
उवाचोपचिताश्चर्यस्तं मनीषी महीपतिः॥ ५९॥

विवेकविमलं पुत्र त्वमिच्छासि स चेद्वनम्।
हित्वामे संशयं तावत् पश्चाद्युक्तिं करिष्यसि॥ ६०॥

व्रजता बध्यवशुधां तिर्यगुक्तं त्वया वचः।
प्रचुरं तदभिप्रायं वक्तुमर्हसि तत्त्वतः॥ ६१॥

इति क्षितिभुजा पृष्टः सोऽब्रवीत्तन्मयोदितम्।
वसत्यत्र न कश्चित् त्वा मद्वधाद्यो निवर्तयेत्॥ ६२॥

सुकृती जीवति शवः स पापस्तु मृतोऽमृतः।
प्राक् पुण्यं भक्ष्यते मूलात् सधनैर्धान्यराशिवत्॥ ६३॥

इत्याशयान्मया तात तदुक्तं वचनं प्रियम्।
------------- - - - -- - - -- - - - - - - - - - - -- - - -- - - -- - - -॥ ६४॥

इति श्रुत्वा क्षितिपतिस्तं परिष्वज्य सादरः।
उचितं क्रियताम् पुत्र कुशलायेत्यभाषतः॥ ६५॥

ततः स पित्रानुज्ञातः साश्रुनेत्रेण काननम्।
प्रययौ मन्त्रिपुत्राणां सहितः पञ्चभिः शतैः॥ ६६॥

महर्षेरन्तिके तत्र प्रव्रज्यां प्राप्य सानुगह्।
तेषां कालेन सोऽपश्यत् कुण्डवल्कलसंचयम्॥ ६७॥

ततःस संचयद्वेषी तददर्शनसंविदा।
एकाकी विजने तस्थौ कंचित् कालंमहामतिः॥ ६८॥

दर्शनाभाषणे बद्धनियमोऽपि यदृच्छया।
प्राप्तं स्वागतमित्युक्त्वा पप्रच्छ कुशलं मृगम्॥ ६९॥

पुनश्च पूजितं दृष्ट्वा मुनिं तेन मृगव्रतम्।
अमात्यतनयाः सर्वे विलक्षाः समचिन्तयन्॥ ७०॥

मृगो मृगव्रतश्चायं पूजितौ निष्परिग्रहौ।
एतावनजिनौ दण्डसंब्ःआराडम्बरोज्झितौ॥ ७१॥

एतदर्थमनेनास्मद्दर्शने नियमः कृतः।
व्रतोपकरणव्यग्रान्नूनमस्यापि वारयेत्॥ ७२॥

इति संचिन्त्य सर्वं ते व्रतोपचारसंचयम्।
नद्यां प्रक्षिप्य वारायां ययुः शुद्धास्तदन्तिकम्॥ ७३॥

त्यक्त्वा गृहभूवं तेषामाशयानुशयोचिताम्।
स धातुं प्रकृतिं ज्ञात्वा विदधे धर्मदेशनाम्॥ ७४॥

राजपुत्रः स एवाहं शाक्यास्ते मन्त्रिसूनवः।
पुनस्त्यागोपदेशोऽयमद्याप्येषां मया कृतः॥ ७५॥

इति शाख़्यकुमारवृत्तमेतत्
कथितं भिक्षुगणः स्वयं जिनेन।
अवधार्य परामपूजयत् तां
करुणामाश्रितवत्सलस्य तस्य॥ ७६॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां
मूकपङ्ग्ववदानं नाम सप्तत्रिंशः पल्लवः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project