Digital Sanskrit Buddhist Canon

२९.काशीसुन्दरावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
२९ काशीसुन्दरावदानम्।

जयति स सत्त्वविशेषः सत्त्ववताम् सर्वसत्त्वसुखहेतुः।
देहदलनेऽपि शमयति कोपाग्निं शान्तिमुच्चैर्यः॥ १॥

धर्मोपदेशे भगवान् कौण्डिन्यस्याग्रवर्तिनः।
भिक्षोः कथाप्रसङ्गेन पृष्ट्प् भिक्षुभिरभ्यधात्॥ २॥

ब्रह्मदत्तस्य तनयो वाराणस्यां महीपतेः।
काशिसुन्दरनामा व कालभूश्च बभुवतुः॥ ३॥

यौवराज्यभरैकर्हः कुमारः काशिसुन्दरः।
धर्माधर्ममयं राज्यं विचार्याचिन्तयच्चिरम्॥ ४॥

क्षणक्षयिणि तारुण्ये जीविते वीचिचञ्चले।
राज्ये स्वप्नविवाहेऽस्मिन् मोहमूले न मे मतिः॥ ५॥

रागप्रलापबहुले मायाम्फमहे मुहुः।
वेश्यारोदननिःसारे संसारे नास्ति सत्यता॥ ६॥

प्रव्रज्यामनघस्तस्मादगारादनगारिकम्।
निस्त्रिंशवृत्तिसंसक्ताभिरागः किं विभूतिभिः॥ ७॥

राजसूनुर्विचिन्त्येति विवेकविमलाशयः।
उवाचाभ्येत्य भूपालमरण्यगमनोत्सुकः॥८॥

मम संभोगवर्गोऽयं राजन्नैवोपयुज्यते।
यौवराज्याभिषेकार्हः समारम्भो निवार्यताम्॥ ९॥

क्रोधाग्नितप्ताः सुतरामेतास्तात न मे मताः।
बद्धबन्धभयायासजनन्यो राजसंपदः॥ १०॥

व्याप्ताः क्रूरतराचारैर्ज्वलिताः पार्थिवश्रियः।
कुर्वन्ति कस्य नोद्वेगं श्मशानाग्निशिखा इव॥ ११॥

छत्रसंछादिता लोकाश्चामरानिललोलिताः।
पतन्ति पातकश्वभ्रे मदक्षीबाः क्षितीश्वराः॥ १२॥

मृदुभोगांशुकाभ्याससुकुमारे महीभुजाम्।
काये पतति पर्यन्ते क्लेशः कुलिशदारुणः॥ १३॥

चिन्तासंततसंतापतीव्रतृष्णाप्रलापिनाम्।
राज्यज्वरजुषां नैषां मोहमूर्च्छा निवर्तते॥ १४॥

वक्राणां रत्नदीप्तानां पदे पदे।
छिद्रसंदर्शिनां राज्ञां व्यापारः परमारणम्॥१५॥

नृपवंशशतोच्छिष्टां मन्यते मामनन्यगाम्।
इतीव श्रीः क्षीतीशानां हारचामरहासिनी॥ १६॥

व्यञ्जितव्यजनोच्छ्वसा लक्ष्मीर्मुक्ताश्रुसंततिः।
राज्ञां मोहाभृतातीतभूपतिस्मरणादिव॥ १७॥

तस्माद्व्रजामि प्रव्रज्याविवर्जितजनस्थितिः।
संतोषशीतलच्छायं संतापशमनं वनम्॥ १८॥

अविश्रान्तस्य संसारपथपान्थस्य दुर्वहः।
कायोऽस्य यत्सदापायः किं पुनः पृथिवीभरः॥ १९॥

इति पुत्रवचः श्रुत्वा भूप्तिर्भृशमप्रियम्।
प्रव्रज्याशब्दचकितः सोद्वेगस्तमभाषतः॥ २०॥

अस्य वंशस्य महतः साम्राज्यस्य वृद्धये।
आशानिबद्धवृद्धेन त्वयि पुत्र मया परम्॥ २१॥

वत्स संकल्पभन्गं मे न काले क्र्तुमर्हसि।
इदं तव महच्छायं यौवनं न वनोचितम्॥ २२॥

समन्त्राभ्यासयुक्तानाम् शक्तानां साधुदर्शने।
जितेन्द्रियाणां सरव्त्र नृपाणामवनं तपः॥ २३॥

स्वपदेऽपि सरोजस्य निःसङ्गसलिलस्थितिः।
दृष्ट्वा वनेऽप्यशोकस्य ललनाचरणाहतिः॥ २४॥

स्वगेहसुलभैर्भोगैर्यावद्दृष्टिविसूचिका।
तावदेते परित्युक्तं शक्यन्ते विषयाः क्षणम्॥ २५॥

सुखमन्तः परित्यज्य स्वजनं गृहनिर्गतः।
अभ्यस्तभोगचिरहक्लेशं न सहते जनः॥ २६॥

श्रूयते स्मर्यते धर्मः क्रियते च सुखाद् गृहे।
वने शुष्यन्ति शुष्काणां श्रवणास्मरणक्रियाः॥ २७॥

क्षरत्क्षतजपादस्य दर्भसंदर्भसूचिभिः।
ततः किं दुःखमपरं परलोले भविष्यति॥ २८॥

भुञ्जानं जनमीक्षन्ते याताश्चर्मास्थिशेषताम्।
परदतं सदाश्नन्ति प्रेता इव तपस्विनः॥ २९॥

वने निवसनं पुत्र पांशुप्रावरणं समम्।
पालनं ब्रह्मचर्यस्य मकराकरशोषणम्॥ ३०॥

दावाग्निधूमविकटभ्रुकुटिमुखेषु
गोनासवासघनघूकगुहागृहेषु।
सिंहाहतद्विरदलोहितलोहितेषु
त्यक्त्वा गृहं भवति कस्य ध्ऱ्इतिर्वनेषु॥ ३१॥

कामी संयममिच्छति स्मरति च श्यामारतेः संयमी
तृप्तस्तीव्रतरव्रतेषु रमते भक्ष्यं क्षुधा काङ्क्ष्ःअति।
एकाकी जनमीहते जनवनोद्वेगी वनं वाञ्छति
त्यक्त्वान्वेषणतत्पराः पुनरपि प्राप्यावमानं जनाः॥ ३२

न मां पुत्र परित्यज्य गहनं गन्तुमर्हसि।
भवन्तु तव शत्रूणां वनवासमनोरथाः॥३३॥

व्यक्तमौक्तिकहासिन्यः करवाललता इव।
त्यक्ता न पुनरायान्ति मानिन्यो नृपसंपदः॥ ३४॥

इत्युक्रोऽप्यसकृत् पित्रा निश्चयान्न चचाल सः।
वज्ररत्नशिखाकल्पः संकल्पो हि महात्मनाम्॥ ३५॥

जननीभिरमात्यैश्च बन्धुपौरमहत्तमैः।
स प्रार्थितोऽप्यभून्मौनी निराहारो दिनत्रयम्॥ ३६॥

राजभोगी तपस्वी वा जीवत्वेष निजेच्छया।
कामानुवर्ती लोलोऽयमित्यूचिः सचिवा नृपम्॥ ३७॥

स कथंचिदनुज्ञातः साश्रुनेत्रेण भूभुजा
ययौ पौरजनाक्रन्दमौनी मुनितपोवनम्॥ ३८॥

वैराग्यपरिपाकेण तत्र मैत्रीपवित्रिताम्।
भेजे स सर्वसत्त्वेषु विवेकदयितां दयाम्॥ ३९॥

बभूवुस्तत्प्रभावेण तत्र सर्ववनौकसां।
जातिवैराजलत्यागशीतलाश्चित्तवृत्तयः॥ ४०॥

त्यक्ते प्राणवधे प्रसक्तहरिणीवृन्दैः पुलिन्दैः परं
सिंहैर्वारणदारणन्युपरमे सर्वाङ्गसङ्गीकृते।
मायूरावरणैर्दरिद्रजघना मुक्ताकलापोज्झिता-
स्तत्रोच्छ्वासविरागशुष्यदधरा जाताः किराताङ्गनाः॥ ४१॥

क्षमां त्यक्त्वाब्धिवसनां सरव्भूतक्षमाश्रितः।
सोऽभवत् क्षान्तिवादीति विशुतः काशिसुन्दरः॥ ४२॥

अत्रान्तरे महीहर्षे ब्रह्मदत्ते दिवं गते।
उद्वेग इव भूतानां भूपालः कलिभूरभूत्॥ ४३॥

अथदभ्रभ्रमद्भृङ्गभ्रूभङ्गमलिनाननः।
मुनिसंयमविद्वेषी वसन्तः प्रत्यदृश्यत॥ ४४॥

मदनोन्मादभुतस्य प्रोद्भूतस्य मृगीदृशाम्।
मानविध्वंसदूतस्य चुतस्य रुरुचे रुचिः॥ ४५॥

रक्ताशोकस्य पार्श्वस्थलतालिङ्गनशङ्कितः।
ईर्ष्यालुरिव पुष्पाणि जहार मलयानिलः॥ ४६॥

उद्यानयौवने तस्मिन् काले कोकिलसंकुले।
सान्तःपुरो नृपः प्रायाद् वनालोकनकौतुकी॥ ४७

नानावर्णपतत्पुष्पप्रकारप्रचितानि सः।
पश्यन् वनानि रम्याणि शनैः प्राप तपोवनम्॥ ४८॥

वनस्थलीषु कान्तासु तत्र कन्यासखश्चिरम्।
विहृत्य रतिविश्रान्तः क्षस्णं निद्रामवाप्तवान्॥ ४९॥

अपूर्वकुसुमस्मेराश्चिन्वानास्तत्र मञ्जरी।
अन्तःपुराङ्गनाश्चेरुः संचारिण्यो लता इव॥ ५०॥

अत्रान्तरे क्षान्तिवादी विविक्तोद्देशनिर्वृतः।
एकान्ते निश्चलस्तस्थौ शान्तिमन्तर्विचिन्तयन्॥ ५१॥

अमन्दानन्दचिष्यन्दी वन्दनीयो मनीषिणाम्।
कृशोऽप्यकृशसौन्दर्यः शशीव प्रथमोदितः॥ ५२॥

परिणाममनोज्ञेन रेखासंस्थानशोभिना।
पुराणचित्ररूपेण नैव शून्या तदाकृतिः॥ ५३॥

तं दृष्ट्वा राजललनाश्चित्तदर्पणमार्जनम्।
तत्रैव निश्चलास्तस्थुस्ताश्चित्रलिखिता इव॥ ५४॥

प्रबुद्धोऽथ नृपः क्षिप्रं नापश्यद्दयिताः पुरः।
ददर्श वनमन्विष्य परिवार्य स्थिता मुनिम्॥ ५५॥

भुजङ्गस्ता विलोक्यैव श्वसन्नीर्ष्याविषाकुलः।
विससर्ज वरोचूपहलाहलमिवोत्कटम्॥ ५६॥

कस्त्वं मुनिव्यञ्जनया चित्रकृत्रिममात्रया।
मुष्णासि मुग्धगृदया नूनं नारीप्रतारकः॥ ५७॥

परस्त्रीहरणे ध्यान जपस्तद्विघ्नवारणे।
धूर्तानां परमोपायः सरलाश्वासनं तपः॥ ५८॥

मुखमाधुर्यधूर्तस्य वृत्तिर्वल्कलिनस्तव।
अहो नु मोहजननी वने विषतरोरिव॥ ५९॥

मुनिकल्पसमाकल्पश्चरितं पुनरीदृशम्।
सिद्धिं संभावितां वापि वेत्ति कस्तत्त्वमान्तरम्॥ ६०॥

इत्युक्ते भूभुजा क्रोधादक्रोधमधुराशयः।
निर्विकारेण मनसा क्षान्तिवाद्ख़् जगाद् तम्॥ ६१॥

क्षान्तिवादी मुनिरहं न मां शन्कितुमर्हसि।
एतासु निर्विशेषो मे कान्तासु च तलासु च॥ ६२॥

इति तेनोक्तमाकर्ण्य क्षान्तं पश्यामि तेऽधुना।
इति ब्रुवाणश्चिच्छेद हस्तौ तस्यासिना नृपः॥ ६३॥

विशसेऽपि क्षमाशीलं निविकारं विलोक्य तम्।
चकर्त चरणौ तस्य प्रशमाय समत्सरः॥ ६४॥

प्रदिशन्त्यशिवं मार्गे जिह्वया दूषयन्ति च।
लुम्पन्त्यङ्गानि पर्यन्ते खलाः कौलेयका इव॥ ६५॥

ताडनेऽपि क्षमासक्ताः स्कन्धच्छेदेऽपि मौनिनः।
शीतलास्तीव्रतापेऽपि सरलाः सरला इव॥ ६६॥

निकृत्तपाणिचरणः स संस्तभ्य पृथुव्यथाम्।
रक्षन् मन्युमनःक्षोभं क्षमया समचिन्तयत्॥ ६७॥

त्यक्तान्यकर्मणानेन च्छिन्नान्यङ्गाणि मे यथा।
संसारविषमक्लेशच्छेदं कुर्यामहं तथा॥ ६८॥

कोपमोहादवज्ञाय नृपतौ भ्रातरं मुनिम्।
पुरीं प्रयाते रजसा शोकम्लानेव भूरभूत्॥ ६९॥

ततस्तद्दुःखकुपिता राज्ञे तत्क्षान्तिदेवता।
चक्रे नगर्यां दुर्भोक्षमरकावृष्टिविप्लवम्॥ ७०॥

नैमित्तिकेभ्यो विज्ञाय राजामुनिपराभवात्।
देवताकोपजं दोषं तं प्रसादयितुं ययौ॥ ७१॥

निपत्य पादयोस्तस्य क्षमस्वेत्यभिधाय सः।
पश्चात्तापविषादेन निश्चेतन इवाभवत्॥ ७२॥

तमब्रवीत्क्षान्तिवादी राजन् मन्युर्न मेऽण्वपि।
कर्मरेखापरिच्छेदादीदृशी भवितव्यता॥ ७३॥

सर्वाणि न गणयति स्वच्छन्दा भवितव्यता।
न धैर्यं न गुणं नार्थं न तपो नापि गौरवम्॥ ७४॥

अन्त्रस्थितप्रसवबीजपरंपराणि
भिन्नानि कालपरिपाकविचित्रितानि।
जन्मस्थले विपुलमूलबलस्य जन्तु-
र्भुङ्क्ते फलानि निजकर्ममहीरुहस्य॥ ७५॥

त्वयि तस्मान्न मे कश्चिद् विकारोऽस्ति महीपते।
सत्येनानेनमे पश्य रुधिरं क्षीरतां गतम्॥ ७६

अङ्गच्छेदेऽप्यकलुषि बभूव यदि मे मनः।
सत्येनैतेन श्चिष्टानि तान्येवाङ्गानि सन्तु मे॥ ७७॥

इति शुद्धधियस्तस्य तीब्रसयोपयाचनात्।
श्लिष्टान्यङ्गानि तान्येव सहसा स्व् आस्थ्यमाययुः॥ ७८॥

मुकुटस्पृष्टचरणस्तमुवाच नृपस्ततः ।
मुने महाप्रभावोऽसि तपसा तत्किमिच्छसि॥ ७९॥

पुण्यहस्तावलम्बेन म्फान्धं करुणानिधे।
पापावसाने पतितं मां त्वमुद्धर्तुमर्हसि॥ ८०॥

इत्यर्थितः क्षितीशेन प्रत्यभाषत तं मुनिः।
संतारणाय मग्नानां बद्धानामपि मुक्तये॥ ८१॥

आश्वाशनाय भीतानां निर्वाणाय विमुह्यताम्॥ ८२॥

यदा तु सम्यक्संबोधिं तामवाप्नोष्यनुत्तराम्।
मोहच्छेदं करिष्यामि तदा ज्ञानासिना तव॥ ८३॥

प्रययौ मुनिरित्युक्त्वा तमामन्त्र्य स्वमाश्रमम्।
तमेव मनसा ध्यायन् राजधानीं नृपोऽप्यगात्॥ ८४॥

क्षान्तिवादी स एवाहं कौण्डिन्यः कालभूरयम्।
आसाद्य सम्यक्संबोधिमृद्धृतोऽयं मयाधुना॥ ८५॥

इति सुगतमुखारविन्दनिर्मित-
मधुरमधुप्रतिमं वचः प्रसन्नम्।
भ्रमरभव इवोदितप्रमोदः
किमपि बभूव निपीय भिक्षुसंघः॥ ८६॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां
काशीसुन्दरावदानं नाम ऊनत्रिंशः पल्लवः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project