Digital Sanskrit Buddhist Canon

२५.मारविद्रावणावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
२५ मारविद्रावणावदानम्।

जयन्ति ते जन्मभयप्रमुक्ता
भवप्रभावाभिभवाभियुक्ताः।
यैः सुन्दरीलोचनचक्रवर्ती
मारः कृतः शासनदेशवर्ती॥ १॥

ततस्तपोवने चास्मिन् बोधिसत्त्वे तपोजुषि।
तदुपस्थापकाः पञ्च वाराणस्यां प्रवव्रजुः॥ २॥

स्पृहणीयो मुनीन्द्राणामथ शाक्यमुनिः शनैः।
स्वयं सेनायनीग्रामं जनचारिकया ययौ॥ ३॥

तत्र सेनाभिधानस्य कन्ये गृहपतेः सुते।
नन्दा नन्दबलाख्या च चारुवृत्ते बभूवतुः॥ ४॥

शुद्धोदनस्य भूभर्तुस्ते श्रुत्वा विश्रुतं सुतम्।
चक्राते तद्विवाहार्थं व्रतं द्वादशवार्षिकम्॥ ५॥

आमोदिनीनां हृदये सदा सूत्रवदास्थितः।
मालानामिव बालानामभिलाषः स्वभावजः॥ ६॥

धेनूनां पीतदुग्धानां दुग्धं ताभ्यां पुनः पुनः।
गृहीट्वा स्फटिकस्थाल्या व्रतान्ते पायसं शुभम्॥ ७॥

विधिवत्पायसे सिद्धे विप्ररूपः सुरेश्वरः।
तं समभ्याययौ देशं देवश्च कमलासनः॥ ८॥

हर्षादतिथिभागेऽथ कन्यकाभ्याम् समुद्धृते।
शक्रोऽवदत्सर्वगुणोदयायाग्रे प्रदीयताम्॥ ९॥

मत्तोऽयमधिकस्तावद्ब्रह्मणः प्रथमोऽपि च।
इत्युक्ते सुरराजेन प्रोवाच चतुराननः॥ १०॥

मत्तोऽधिको देव आस्ते शुद्धावासनिकायिकः।
इत्युक्ते ब्रह्मणा तेऽपि जगदुर्गगनस्थिताः॥ ११॥

सर्वप्रतिविशिष्टोऽसौ बोधिसत्त्वस्तपःकृशः।
नद्यां निराजनाख्यायां विगाह्य सलिले स्थितः॥ १२॥

एतदाकर्ण्य कन्याभ्यामाहूय मणिभाजने।
अवतीर्यार्पितं भक्त्या तदस्मै मधुपायसम्॥ १३॥

बोधिसत्त्वस्तदादाय रत्नपात्रीं ददौ तयोः।
दत्तेयं न पुनर्ग्राह्येत्युक्त्वा जगृहतुर्न ते॥ १४॥

सा तेन नद्यां निक्षिप्ता नागैर्नीता प्रभावती।
विक्षोभ्याप्याहृता तेभ्यस्तार्क्ष्यरूपेण वज्रिणा॥ १५॥

प्रसादी बोधिसत्त्वोऽथ कन्यायुगलमभ्यधात्।
दानस्य प्रणिधानेन भवत्योः किं समीहितम्॥ १६॥

ते तमूचतुरानन्दनिधिः शुद्धोदनात्मजः।
सर्वार्थसिद्धोऽभिमतः कुमारः पतिरावयोः॥ १७॥

उद्यमं मारलीलायाः सरसं तद्वचस्तयोः।
न लिलिम्प मनस्तस्य पाद्मं दलमिवोदके॥ १८॥

स जगाद कुमारोऽसौ न किं प्रव्रजितः श्रुतः।
न तस्य लोलनयनाः प्रियाह् श्रिय इव स्त्रियः॥ १९॥

इत्यनीप्सितमाकर्ण्य दीर्घं निश्वस्य कन्यके।
ऊचतुर्दानधर्मोऽयं सिद्धौ तस्यैव जायताम्॥ २०॥

अदृष्टस्नेहसंश्लिष्टः प्रविष्टोऽन्तः पराङ्भुखः।
न नाम सुचिराभ्यस्तः पक्षपातो निवर्तते॥ २१॥

इति तद्वचनं श्रुत्वा बोधिसत्त्वः प्रसन्नधीः।
प्रयातस्ते समामन्त्र्य विश्रान्त्यै काननान्तरम्॥२२॥

पोलब्धदिव्यबलोदयः।
प्रच्छायतरुसुच्छायमारुरोह महीधरम्॥ २३॥

पर्यङ्कबन्धमाधाय तत्र तस्मिन् सुखं स्थिते।
अहंकार इवात्युच्चशिराह् सोऽद्रिर्व्यगीर्यत॥ २४॥

विशीर्णभूधरे तस्मिन् स प्रदध्यौ विषण्णधीः।
सपक्षालानि कर्माणि मया कानि कृतान्यहो॥ २५॥

इति चिन्ताशतोच्छ्वासं तमूचुर्व्योमदेवताः।
न त्वया विहितं साधो कर्म किंचिदसांप्रतम्॥ २६॥

अच्छिन्नोत्तप्तकुशलं धर्तुं न क्षमते क्षितिः।
स त्वमुत्तप्तकुशलः प्रोच्चशैलशताग्द्गुरुः॥ २७॥

निरञ्जनीं समुत्तीर्य सरितं व्रज निश्चलम्।
सिद्धिदं बोधिसत्त्वानाम् देशं वज्रास्नाभिधम्॥ २८॥

देवतादिष्टमार्गेण प्रस्थितस्यास्य भूतले।
पादन्यासैरभूत्तस्य हेमपद्मपरंपरा॥ २९॥

पृथिवी व्रजतस्तस्य प्रोल्लसत्सलिलाकुला।
रणन्ती कांस्यपात्रीव प्रोन्ननाम ननाम च॥ ३०॥

तानि तानि निमित्तानि प्रवृत्तानि ददर्श सः।
येषामनुत्तरज्ञाननिधानसाधनं फलम्॥ ३१॥

निरञ्जनाय भुवने नागोऽन्धः कालिकाभिधः।
बुद्धोत्पादितदृरभूमेः शब्दमाकर्ण्य निर्ययौ॥ ३२॥

सर्वलक्षणसंपन्नं दीप्तजाम्बूनदद्युतिम्।
स बोधिसत्त्वमालोक्य प्रोवाच रचिताज़्न्जलिः॥ ३३॥

नलिननयन कान्तस्त्वं वने यौवनेऽस्मिन्
विहरसि विरहार्तिं संपदामर्पयित्वा।
अशमशमविशेषोन्मेषसंतोषहेतु-
र्भवसि भवसमुद्रे देहिनां सत्यसेतुः॥ ३४॥

अथामुञ्चन्त्येते भयतरलतामत्र हरिणाः
यथा लीलाचक्रं विहरति समीपे खगगणः।
ससत्त्वासत्त्वाना किमपि हृदयाश्वाससदनं
तथा मन्ये बौद्धं वपुरिदमनायाससुखदम्॥ ३५॥

करिकलभकह् पद्मप्रीत्या करोति हरे करं
सुखयति शिखी स्निग्धालापं कलापशिखानिलै।
भवति हरिणी लोलापाङ्गा पुरः प्रणयोन्मुखी
प्रशमसमयस्येयं पुण्यप्रसादमयी स्थितिः॥ ३६॥

अद्यिव बुद्धत्वमवाप्य शुद्धं
कुमुद्वती पूर्ण इवामृतांशुः॥ ३७॥

अन्योन्यं दिननाथदीप्तमहसः सद्यस्तवालोकना-
ल्लोकानां कनलप्रबोधकलया दिव्यप्रकाशस्पृशाम्।
निर्याती हॄदयान्निबद्धमधुपश्रेणिव संबन्धन-
त्रस्तान्तर्न पुनः करिष्यति पदं मोहान्दकारावलिः॥ ३८॥

इति ब्रुवाणां विनयान्नागराजः प्रसन्नधीः।
बोधिसत्त्वं समाभास्य समुत्तीर्य नदीं ययौ॥ ३९॥

वज्रासनपदं प्राप्य बोधिमूलमनाकुलम्।
दक्षिणाग्रैः कुशैश्चक्रे शक्तदत्तैः स संस्तरम्॥ ४०॥

तत्रोपविश्य पर्यङ्कबद्धो निश्चलनिश्चयः।
मन्थावसानविश्रान्तः स दुग्धाब्धिरिवाबभौ॥४१॥

असाधारः क्षमाधारः स धीरसरलाकृतिः।
रुरुचे काञ्चनरुचिः परो मेरुरिवाचलः॥ ४२॥

असावक्षयपर्यन्तः पर्यङ्कोऽयं मम स्थिरः।
बबन्धेति स संकल्पं कृत्वा प्रतिमुखीं स्मृतिम्॥ ४३॥

अत्राण्तरे समभ्येत्य मारः संयममत्सरः।
लेखहारस्तत्र तूर्णं बोधिसत्त्वमभाषतः॥ ४४॥

अकामकामता केयं लोके बन्धनदा मता।
अकालकलिकाकारा मतिस्ते कास्य कामना॥ ४५॥

गृहीतं हतशङ्केन देवदत्तेन ते पुरम्।
निरुद्धन्तःपुरश्रेणीर्बद्धः शुद्धोदनो नृपः॥ ४६॥

इति श्रुत्वैव वचनं शोकामर्षविषोज्झितः।
अशिक्षितविकारेण चेतसा स व्यचिन्तयत्॥ ४७॥

अहो बतान्तरायं मे मारः कर्तुं समुद्यतः।
नर्तयत्येष दुर्वृत्तः शिस्वण्डिक्रीडयाजगत्॥ ४८॥

मार मार विरामस्ते दौर्जन्यस्य न जायते।
एकेन हिंसायज्ञेन प्राप्तेयं कम्रता त्वया॥ ४९॥

यज्ञदाणतपःश्लाघां नात्मनः कर्तुमुत्सहे।
स्वगुणोदीरणम्लानं पुण्यपुष्पं हि शीर्यति॥ ५०॥

इति निर्भत्सितस्तेन चित्तस्तेनः शरीरिणाम्।
सामर्षः प्रययौ मारः समारम्भाद् हतोद्यमः॥ ५१॥

अथादृश्यन्त ललिता लालित्याज़्न्चितलोचनाः।
भ्रमद्भृङ्गरङ्गिण्यः कान्ताश्चूतलता इव॥ ५२॥

चारुतच्चरितातृप्तास्तिस्रस्ताः कामकन्यकाः।
सरागं पादनलिनीन्यासैश्चक्रुस्तपोवनम्॥ ५३॥

विलोचनेन हरिणी करिणी गतिविभ्रमैः।
तत्र ताभिर्मुखाम्भोजैर्नलिनी मलिनीकृता॥ ५४॥

यौवनाभरणैरङ्गौरनुरागाविलेपनैः।
लावण्यवसनैस्तासां कामोऽभूदप्यचेतसाम्॥ ५५॥

वज्रासनसमाधानध्याननिश्चललोचनम्।
तं विलोक्याभवत् तासां विस्मयध्यानधारणा॥ ५६॥

ता बोधिसत्त्वसंकल्पान् मदरागमयं वयः।
परित्यज्यैव सहसा सलज्जा भेजिरे जराम्॥ ५७॥

प्रतीपगमनात्तासामथ भग्नमनोरथः।
मन्मथः प्रथितारम्भः सैन्यसंब्ःआरमाददे॥ ५८॥

सर्वप्रहरणैर्व्याप्तं नानाप्राणिमुखैर्भयैः।
षट्त्रिंशत्कोटीविपुलं बलं तस्य समुद्ययौ॥ ५९॥

स्वयमाकर्णनिष्कृष्टकोपक्रूरशरासनः।
मारः स्फारविकारेण बोधिसत्त्वं समाद्रवत्॥ ६०॥

शस्त्रवृष्टिस्तदुत्सृष्टा सह पांशुविषाश्मभिः
प्रययौ बोधिसत्त्वस्य मन्दाराम्बुजतुल्यताम्॥ ६१॥

पुनर्मारबलोत्सृष्टा शस्त्रवृष्टिर्घृतक्षमे।
चक्रिरे देवतास्तस्य वज्रप्रतिसमाश्रयम्॥ ६२॥

स्मरोऽपि नष्टसंकल्पः समाधेः श्रोत्रकण्टकम्।
घण्टापटुरटत्पत्रं निर्ममे स्फटीकद्रुमम्॥ ६३॥

तं तारमुखरं वृक्षं मारं च सबलायुधम्।
चक्रवाटे समुत्क्षिप्य चिक्षिपुर्व्योमदेवताः॥ ६४॥

भगवानथ संप्राप्तप्रसन्नज्ञाननिर्मलः।
सर्ववित्सर्वगः सरव्जातिस्मृतिपरोऽभवत्॥ ६५॥

स तत्रानुत्तरज्ञानसम्यक्संबोधिमापितः।
ददर्श सर्वभुताणि गतिं कर्मोर्मिनिर्मिताम्॥ ६६॥

अथ शाक्यपुरे मारः प्रवादमसृजद्दिवः।
बोधिसत्त्वः प्रयातोऽस्तं तपःक्लेशवशादिति॥ ६७॥

तत्र शुद्धोदनो राजा पुत्रस्नेहविषातुरः।
निपपात तमाकर्ण्य वज्राहत इव क्षितौ॥ ६८॥

अन्तःपुरे सहनृपे प्राणत्यागकृतक्षणे।
सुवृत्तपक्षपातिन्यस्तमूचुर्व्योमदेवताः॥ ६९॥

पुत्रस्तवामृतं पीत्वा सम्यक्संबुद्धताम् गतः।
तेनावलोकितस्यापि नास्ते भृत्युभयं कुतः॥ ७०॥

इति सान्तःपुरामात्यः श्रुत्वा नरपतिर्वचः।
अभूत्प्रत्यागतप्राणः सुधासिक्त इव क्षणात्॥ ७१॥

तस्मिन् महोत्सवानन्दे बोधिसत्त्ववधूः सुतम्।
कान्तं यशोधआसूत राहुग्रस्ते निशाकरे॥ ७२॥

राहुलाख्यः स बालोऽपि नृपतेर्जन्मशङ्किनः।
जनन्या सशिलः शुद्ध्यै निक्षिप्तोऽम्भसि पुप्लुवे॥ ७३॥

भगवानपि सप्ताहं स्थितो निश्चलविग्रहः।
वज्रपर्यङ्कबन्धेन देवानाम् विस्मयं व्यधात्॥ ७४॥

स ब्रह्मकायिकाख्याभ्याम् देवताभ्यां विरोधितः।
अवदत्परमानन्दसुधासंदोहसुन्दरः॥ ७५॥

अहो तव मया ज्ञाता पूर्वमेषा सुखस्थितिः।
यया सुरासुरैश्वर्यसुखं दुःखगणायते॥ ७६॥

लावण्याम्भःप्लाविताङ्गास्तरुण्यः
पीयूषार्द्रः स्वर्गसंभोगवर्गः।
अस्याशेषत्यागहेलासुखस्य
स्पर्धाबन्धे पांशुनिःसार एव॥ ७७॥

संतप्तोऽहं विषयविषमक्लेशसंसारपान्थः
क्लान्तः शान्त्याश्रितिमुपगतश्चन्दनच्छाययेव।
संजातेयं सकलकरणव्यापिनी निर्वृतिमे
विश्रान्तानाम् शमहिमवने किं सुखस्योपमानम्॥ ७८॥

अस्मिन्नवसरे पुण्यपरिपाकेण तद्वनम्।
वणिजौ पृथुसार्थेन प्राप्तौ त्रपुसभल्लिकौ॥ ७९॥

देवताप्रेतितौ भक्त्या भगवन्तमुपेत्य तौ।
प्रणतौ पिण्डपातोऽयं गृह्यतामित्यभाषताम्॥ ८०॥

दयाविधेयः सर्वग़्यस्तदाकर्ण्य व्यचिन्तयत्।
पूर्वैः पात्रे गृहीतोऽयं न पाणी पात्रवर्जिते॥ ८१॥

इति चिन्तयतस्तस्य महाराजाभिधाः सुराः।
दत्वा स्फटिकपात्राणि चत्वारि त्रिदिवं ययुः॥ ८२॥

कृत्वाथ भगवान् पात्रे पिण्डपातप्रतिग्रहम्।
अनुग्रहं तयोश्चक्रे शरण्यत्रयशासनात्॥ ८३॥

विततसुकृतसाक्षी पुण्यनिक्षेपदक्षः
क्षयितविपदशेषः प्रार्थनाकल्पवृक्षः।
भवति कुशलमूलैः कस्यचिद्भाग्यभाजः
शुभपरिणतिदीक्षादक्षिणः साधुसङ्गः॥ ८४॥

इति क्षेमेन्द्रविरचितायाम् बोधिसत्त्वावदानकल्पलतायां
मारचिद्रावणावदानम् नाम पञ्चविंशः पल्लवः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project