Digital Sanskrit Buddhist Canon

२१.जेतवनप्रतिग्रहावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
२१ जेतवनप्रतिग्रहावदानम्।

दृष्टं मुष्टिनिविष्टपारदकणाकारं नराणां धनं
धन्योऽसौ यशसा सहाक्षयपदं यद्यस्य विद्योतते।
दीनानाथगणार्पणोपकरणीभूतप्रभूतश्रियः
पुण्यारामविहारचैत्यभगवद्बिम्बप्रतिष्ठादिभिः॥१॥

श्रीमान् बभूव श्रावस्त्यां दत्तो नाम गृहाभिपः।
सुतस्तस्य सुदत्तोऽभूदाकरः पुण्यसंपदाम्॥२॥

स बाल्य एवालंकारं याचकेभ्यः सदा ददौ।
प्राग्जन्मवासनाभ्यासः कस्य केन निर्वायते॥ ३॥

नित्यमाभरणत्यागात्परं पित्रा निवारितः।
नदीसमुद्धृतान्यस्मै सदैवान्यान्यदर्शयत्॥ ४॥

निधिदर्शी स सर्वत्र पितरि त्रिदिवं गते।
दीनानाथप्रदानेन बभूवानाथपिण्डदः॥ ५॥

कृतदानह् स कालेन पुत्रवान् पुत्रव्त्सलः।
अभूत् पुत्रविवाहार्थी कन्यान्वेषणयत्नवान्॥६॥

कन्यकां याचितुं कांचित् पुरं राजगृहं ततः।
मधुस्कन्धाभिधं दक्षं ब्राह्मणं विसर्सर्ज सः॥ ७॥

आसाद्य मगधान् राजगृहं नगरमेत्य सः।
महाधनं गॄहपतिं ययाचे कन्यकाम् द्विजः॥ ८॥

अनाथपिण्डदो नाम श्रावस्त्यामस्ति विश्रुतः।
तत्पुत्राय सुजाताय कन्यायाम् देहीत्युवाच सः॥ ९॥

सोऽब्रवीदेश संबन्धः परमोऽस्मत्कुलोचितः।
वंशेऽस्माकं तु कन्यानाम् शुक्लमादीयते महत्॥ १०॥

शतं शतं रथाग्र्याणां गजाश्वाश्वतरस्य च।
दाशीनिचयनिष्कानां दीयतां यदि शक्यते॥ ११॥

इत्युक्ते तेन तं विप्रं सस्मितः प्रत्यभाषत।
अनाथपिण्डदगृहे दास्ये शुल्कं तदल्पकम्॥ १२॥

ब्राह्मणेनाखिले तस्मिन् कन्याशुल्के प्रतिश्रुते।
तमादराद्गृहपतिर्भोजनाय न्यमन्त्रयत्॥ १३॥

स भुक्त्वा विविधं तत्र भक्ष्यभोज्यमयन्त्रितः।
रात्रौ विसूचिकाक्रान्तश्चुक्रोश विपुलव्यथः॥१४॥

येऽन्नमश्नन्ति लौल्येन निशि निद्रासुखापहम्।
जन्मकर्म कथं कुर्युः परलोकसुखाय ते॥ १५॥

तत्याजाशुचिभीत्या तं गृहात्परिजनो बहिः।
आस्पदं नैरपेक्ष्यस्य जात्या दासजनः शठः॥ १६॥

शुभेन कर्मणा तस्य संप्राप्तस्तेन वर्त्मना।
समौद्गल्यायनः शारिपुत्रः कारुण्यपेशलः॥ १७॥

तं वंशस्य दलाग्रेण निर्लिख्यापि तथा मृदा।
प्रक्षाल्य धर्ममादिश्य तौ तस्य ययतुः शनैः॥ १८॥

सोऽपि चित्तं तयोरग्रे प्रसाद्य त्यक्तविग्रहः।
चतुर्महाराजिकेषु देवेषु समाजायत॥ १९॥

तत्र विश्रवणादेशान्मर्त्यलोके निकेतने।
स चक्रे शिबिरद्वारे पूजाधिष्ष्ठानसंनिधिम्॥ २०॥

लेखविज्ञातसंबन्धविश्चयोऽथ यथोदितम्।
अनाथपिण्डदः शुल्कमादाय स्वयमाययौ॥२१॥

स संबन्धिगृहं प्राप्य ददर्शाश्चर्यकारिणीम्।
शिखराकारराजार्हभक्ष्यसंभारसंपदम्॥ २२॥

स विस्मयाद्गृहपतिं पप्रच्छ स्वच्छमानसः।
भूरिभक्ष्य्प्त्सवः कोऽयमपि राजा निमन्त्रितः॥ २३॥

स तं बभाषे भगवान् बुद्धः संघपरिग्रहः।
मया निमन्त्रितः संघे सोऽयम् मम महोत्सवः॥ २४॥

इति बुद्धाभिधानेन जातरोमाज़्न्चकण्टकः।
इन्दुस्यन्दिरिवाल्किन्नः सहसैव बभूव सः॥ २५॥

अविदितपरमार्थे कस्यचिन्नाममात्रे
स्फुरति सहजभावः कोऽपि जन्मानुबन्धः।
अभिनवघननादे व्यक्तहर्षभिलाषः
स्पृशति ललितनृत्योद्वृत्तवृत्तिं मयूरः॥२६॥

सोऽवदद्वदनाम्भोजसंजाताभिनवद्युतिः।
क एष भगवान् बुद्धः कश्च संघोऽभिधीयते॥ २७॥

इति पृष्टो गृहपतिस्तेन प्रोवाच सस्मितः।
अहो बत न जानीषे शास्तारं भुवनत्रये॥ २८॥

संसारपाशभीतानां शरण्यं शरणैषिणाम्।
जिन यस्तं न जानाति स लोके वञ्चितः परम्॥ २९॥

किं तेन मोहलीनेन विफलीकृतजन्मना।
अज्ञानतरणोपायं वयो येन व्ययीकृतम्॥ ३०॥

गोतमो भगवान् बुद्धः शाक्यराजकुलद्भिवः।
संबुध्यानुत्तरं सम्यक्संबोधिमनगारिकः॥ ३१॥

पश्चात् प्रव्रजितानाम् च तस्यैवानुग्रहात्परम्।
भिक्षूणां गतरागाणाम् समूहः संघ उच्यते॥ ३२॥

स एष बुद्धप्रमुखः संघः स्वकुशलैषिणाः।
मया पुण्यपणं प्राप्यं प्रणयेन निमन्त्रितः॥ ३३॥

इति तद्वचनं श्रुत्वा तत्स्मृत्वानाथपिण्डदः।
बुद्धालम्बनभावेन निशि निद्रां समाययौ॥ ३४॥

रजन्यां यामशेषायां समाकृष्ट इवेत्सुकः।
प्रभातमिति स ज्ञात्वा पुरद्वारेण निर्ययौ॥ ३५॥

शिबिकाद्वारमासाद्य संप्राप्त इव देवताम्।
मधुस्कन्धेन निर्दिष्टं श्रेयःपन्थानमाप्तवान्॥ ३६॥

भगवांस्तं ततः प्राप्य स तृष्णार्त इवामृतम्।
बभूवानुपमास्वादं प्रमोदामोदनिर्वृतः॥ ३७॥

तं दृष्ट्वा सादरं दूरात् छायातरुमिवाध्वगः।
अवाप गतसंतापः श्रान्तिं विश्रान्तिशीतलाम्॥ ३८॥

तस्य तद्दर्शनेव विमलाभिगतः मनः।
शरत्समागमेनेव घनध्वान्तोज्झितं नभः॥ ३९॥

स कोऽपि पुण्यशीलानामनुभावः प्रसादिनाम्।
भवन्ति यत्प्रसादेन निर्विघ्नाश्चित्तवृत्तयः॥ ४०॥

सोऽचिन्तयदहो मोहविहीनस्य हि मे तथा।
अनुच्छेदविकारोऽयं जातः प्रशमसंपदः॥ ४१॥

वञ्चितोऽस्मि न यत्पूर्वं दृष्तोऽयं भगवान् मया।
नाधन्यानामियं याति मूर्तिर्लोचनगोचरम्॥ ४२॥

अमृतमधिरोदारा दृष्टिर्द्युतिः शशिपेशला
तरुणकरुणायत्ता वृत्तिः प्रसादमयी मतिः।
अयमतिशयं प्रत्यासन्नः करोति विरागतां
विगतरजसां निःसंसारः प्रियोऽपि परिग्रहः॥ ४३॥

इति चित्तप्रसादेन चिन्तयन्नुपसृत्य सः।
विदधे तस्य सानन्दः पादपद्माभिवन्दनम्॥ ४४॥

भगवानपि तत्प्राप्तिप्रसादानन्दलक्षणम्।
उवाह वदनच्छायं पूर्णकारुण्यपूरितम्॥४५॥

दृष्टिमाश्वासजननीं कामंकामपि तस्य सः।
विससर्जोज्ज्वलां जन्मरजःशुद्ध्यै सुधानदीम्॥ ४६॥

अथास्य भगवान् भ्रद्रां विदधे धर्मदेशनाम्।
चतुर्णामार्यसत्यानां प्रतिभावविधायिनीम्॥ ४७॥

स शासनाद्धि संव्यस्तसमस्तक्लेशसंततिः।
निजं जन्म निवेद्यास्मै प्रणतस्तमभाषतः॥ ४८॥

अतिक्रान्तोऽस्मि भगवन् भवन्तं शरणं गतः।
विपन्नवासनाभ्यासः संसारे न रमे परम्॥ ४९॥

करोत्यकुशलं दूरे शुभमाशु प्रयच्छति।
सूचयत्युचिताचारं महतमवलोकनम्॥ ५०॥

सुखार्हं त्वद्विहाराय विहारं परमादरात्।
रत्नसारपुरोदारं स्वपुरं कारयाम्यहम्॥ ५१॥

करोतु तत्र भगवान् सततं स्थित्यनुग्रहम्।
धनैरासेवितोऽस्माभिः सपर्यापरिचर्यया॥ ५२॥

इत्यर्थनां तथेत्यस्य भगवान् प्रत्यपद्यत।
प्रणयुप्रार्थनाभङ्गप्रगल्भा न हि साधवः॥ ५३॥

भगवन्तमथामन्त्र्य श्रावस्तीं स पुरीं ययौ।
तदादिष्टेन सहितः शारिपुत्रेण भिक्षुणा॥ ५४॥

तत्र जेतकुमारेण हिरण्यार्घोण भूयसा।
दत्तं काञ्चनमादाय विहारं तमसूत्रयत्॥ ५५॥

भक्त्युत्साहादथारम्भकृतसाहाय्यकह् सुरैः।
विहारं त्रिदिवाकारं चकारानाथपिण्डदः॥ ५६॥

तत्र जेतकुमारोऽपि भक्त्या भगवतः परम्।
यशःपुण्यप्रतिष्ठायै विदधे द्वारकोष्ठकम्॥ ५७॥

अथ् अतीर्थ्यास्तमालोक्य विहारारम्भमद्भुतम्।
सापवादविवादेन चक्रुर्द्वेषाकुलाः कलिम्॥ ५८॥

रक्ताक्षप्रमुखस्तेषाम् मात्सर्यात्क्षुद्रप्रण्डितः।
सपक्ष इव कृष्णाहिश्चकितः पुरतः सदा॥ ५९॥

रुद्धे विहारसंभारे तेन वादजयावधि।
अनाथपिण्डदगिरा शारिपुत्रः समाययौ॥ ६०॥

रक्ताक्षोऽथ तमाहूय प्रभावोत्कर्षदर्शने।
इन्द्रजालबलोत्फुल्लं सहकारमदर्शयत्॥ ६१॥

शारिपुत्रप्रभावोत्थैर्विपुलैस्तन्मुखानिलैः।
उन्मूलितः शकलतां तीर्थ्योत्साह इवाप सः॥ ६२॥

रक्ताक्षविहितां फुल्लकमलां पद्मिनीं ततः।
पङ्कशेषां द्विपश्चक्रे शारिपुत्रविनिर्मितः॥ ६३॥

रत्काक्षवक्षोनिक्षिप्तः सप्तशीर्षमहोरगः।
शारिपुत्रेण निक्षिप्तस्तार्क्ष्यपक्षाग्रमारुतैः॥६४॥

तदाहूतोऽथ वेतालः शारिपुत्रेण कीलितः।
प्रेरितो मन्त्रविर्त्येण रक्ताक्षं हन्तुमुद्ययौ॥ ६५॥

वेतालाभिहतस्त्रासान्नश्यन्मानमदज्वरः।
शरणं पादपतितः शारिपुत्रं जगाम सः॥ ६६॥

रक्ताक्षस्तेन भङ्गेन शरण्यं शरणं गतः।
प्रव्रज्यायाम् वीतरागः शुद्धां बोधिस्मवाप्तवान्॥ ६७॥

तीर्थ्यास्त्वन्ये परिद्वेषक्रोधपारमितांशवः।
तत्र कर्मकरव्याजात्तस्थुर्भिक्षवधोद्यताः॥ ६८॥

तेऽथ धर्मद्रुहः काले शारिपुत्रेण लक्षिताः।
तद्दृष्टिपातमात्रेण बभूवुर्मैत्रमानसाः॥ ६९॥

आशयानुशयं धातुं प्रकृतिं च विचार्य सः।
धर्मदेशनया तेषां दिदेशानुत्तरां दशाम्॥७०॥

अथ तस्य विहारस्य निर्विघ्नारम्भकर्मणि।
अनाथपिण्डदं प्राह शारिपुत्रः स्मिताननः॥ ७१॥

विहारसूत्रपातस्य तुल्य एव क्षणे महान्।
हौमो विहारः संवृत्तस्तुषिते देवसद्मनि॥ ७२॥

एतदाकर्ण्य संजातप्रसादद्विगुणान्तरः।
हेमरत्नवरागारं विहारं समकारयत्॥ ७३॥

विभवैरथ राजार्हैः पथि तेनोपकल्पितैः।
विज्ञप्तिस्त्रिदिवैः सार्धमाययौ भगवान् जिनह्॥ ७४॥

तदागमनहर्षेण प्रसन्ने भवनत्रये।
अनाथपिण्डदस्तस्मै वारिधारामपातयत्॥ ७५॥

तस्मिन् यदा न प्रदेशे वारिधारा पपात सा।
तदा भगवतो वाक्यात् त्वरितं पतितान्यतः॥ ७६॥

तं दृष्ट्वा कौतुकात् पृष्टो भिक्षुभिर्भगवान् पुनः।
उवाच श्रूयतामेतद् वारिस्तम्भस्य कारणम्॥ ७७॥

अनेन पूर्वबुद्धेभ्ये अस्मिन्नेवेदमास्पदम्।
प्रतिपादितमित्येषा वारिधारान्यतश्च्युता॥ ७८॥

अनेनैव पुरा सम्यक्संबुद्धाय विपश्यिने।
अयमेव वरारामप्रदेशः प्रतिपादितः॥ ७९॥

बुद्धाय शिखिने प्रादात् पुष्यजन्मन्ययं पुनः।
ततो ददौ विश्वभुवे जिनाय रघिजन्मनि॥ ८०॥

भवदत्ताभिधो भूत्वा ककुच्छन्दाय दत्तवान्।
ददौ बृहस्पतिर्भूट्वा कनकाख्याय तायिने॥ ८१॥

काश्यपाय पुनश्चायं प्रादादाषाढजन्मनिः।
अनेनैवाधुना मह्यं देशोऽयं प्रतिपादितः॥ ८२॥

कालेन सुधनाख्योऽयं मैत्रेयाय प्रदास्यति।
सत्त्ववान् क्षान्तिशीलत्वान्निधानान्येष पश्यति॥ ८३॥

पुनश्चायं गॄहपतिर्भूत्वा हेमप्रदाभिधः।
चक्रे प्रत्येकबुद्धस्य संस्कारं परिनिर्वृतौ॥ ८४॥

रत्नकुम्भे तदस्थीनि धृत्वा तत्प्रणिधानतः।
अधुना रत्नकोशार्हः संजातोऽयं सुवर्णभास्॥ ८५॥

श्रुत्वेति शास्तुर्वचनाभिधानं
ते भिक्षवः सारमिवामृतस्य।
कर्तुः प्रतिष्ठार्जितपूर्णपुण्य-
पुष्पाधिवासेन भृशं ननन्दुः॥ ८६॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां
जेतवनप्रतिग्रहावदानं नाम एकविंशं पल्लवः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project