Digital Sanskrit Buddhist Canon

१४.देवावतारवदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
१४ देवावतारवदानम्।

जयति महतां प्रभावः पश्चादग्रे च वर्तमानो यः।
जनकुशलकर्मसरणिः प्रकाशरत्नदीपो वः॥१॥

पुरा सुरपुरे पाण्डुकम्बलाख्ये शिलातले।
समीपे पारिजातस्य कोविदारस्य सुप्रभे॥ २॥

कृत्वा त्रिदशसंघानां भगवान् धर्मदेशनाम्।
अनुग्रहाय मर्त्यानां जम्बूद्वीपमवातरत्॥३॥

अमरैरनुयातस्य तस्यावतरतो भुवम्।
विमानकाननाकीर्णं बभूव भुवनाङ्गणम्॥ ४॥

तस्य दन्तांशुसंतानैरुपदेशमिवाचितम्।
जग्राह चन्द्ररुचिरम् चामरं चतुराननः॥ ५॥

छत्रं शतशलाकाङ्कमनङ्कं रङ्कुपाण्डुरम्।
प्रसादमिव साकारमाददेऽस्य पुरंदरः॥ ६॥

संकाश्यनगरोपान्ते काननोदुम्बरान्तिके।
अवतीर्णं सुकृतिनः सानन्दास्तं ववन्दिरे॥ ७॥

तस्मिन्नुत्पलवर्णाख्या भिक्षुकी जनसंगमे।
अलब्धावसरा द्रष्टुं नृपरूपमुपाददे॥ ८॥

प्रदीप्तरत्नमुकुटं गण्डताण्डविकुण्डलम्।
दृष्ट्वैवास्य नवं रूपं जहासोष्णीषपल्लवः॥ ९॥

सा चिन्तयन्ती को वायं जनैर्निर्विवरः पुरः।
अन्तरं नृपरूपं मे दृष्ट्वा दास्यति सादरः॥ १०॥

अत्प्ऽन्यथा तु भगवत्प्रणतिर्मम दुर्लभा।
न गुणं गौरवस्थानमैश्वर्यप्रणयी जनः॥ ११॥

अहो तृणतृलालोलैर्निःसारविरसैर्धनैः।
ह्रियते वासनाभ्यासान्निर्विचारतया जनः॥ १२॥

दत्तान्तरा सा सहसा जनेन नृपगौरवात्।
लोलहारं भगवतः प्रणाममकारोत् पुरः॥ १३॥

अस्मिन्नवसरे भिक्षुरुदयी नाम संसदि।
तां विलोक्य तथारूपामवदत् सस्मिताननः॥१४॥

इयमुत्पलवर्णाख्या भिक्षुकी नृपरूपिणी।
ऋद्ध्या भगवतः पादौ वन्दते जनवन्दिता॥१५॥

उत्पलामोदवर्णाभुआं विज्ञातेयं मया पुरा।
इत्युक्त्वा विरते तस्मिन् भगवानप्यभाषत॥ १६॥

अयुक्तमेव भिक्षुक्या दर्पदृद्धिप्रकाशनम्।
करोति प्रशमग्लानिमभिमानेन च ज्वरः॥ १७॥

इत्युक्त्वा भगवान् कृत्वा तां तां शुभ्रोपदेशनाम्।
विसृज्य देवान् प्रययौ स्वपदं सह भिक्षुभिः॥ १८॥

तत्रोपविष्टः पृष्टस्तैः प्रणतैर्भिक्षुकीकथाम्।
प्राग्जन्मकर्मसंबद्धां सर्वज्ञस्तानभाषत॥१९॥

वाराणस्यामभूत्पूर्वंसार्थवाहो महाधनः।
पत्नी धनवती नाम तस्य प्राणसमाभवत्॥ २०॥

पाणिपल्लविनी तन्वीयवनोद्यानमञ्जरी।
फलपुष्पवती काले सा तस्माद्गर्भमादधे॥ २१॥

अत्रान्तरे जलनिधिद्वीपानुगमनोद्यतम्।
प्रत्यासन्नवियोगार्ता सा वल्लभमभाषत॥२२॥

कियती धनसंपत्तिर्वृद्धिमद्यापि नीयते।
यत्कृते घ्प्रगम्भीरस्तीर्यते मकराकरः॥ २३॥

बह्वपायं धनादानं निरपाया गुणार्जनम्।
स्वदेशात् परदेशं हि गच्छन्ति द्रविणार्थिनह्॥ २४॥

केचिद्दुःखान्निवर्तन्ते दूरं गत्वापि निष्फलाः।
निश्चला धनिनश्चान्ये कर्मणामेष निश्चयः॥ २५॥

इति प्रियावचः श्रुत्वा सार्थवाहस्ततोऽभ्यधात्।
मुग्धे संभावनापात्रो भवत्येवं धनोद्यतः॥२६॥

धनार्जनविहीनानां पुङ्गुवन्मूलभक्षणात्।
अद्य श्वो वा सुखस्थानां भोगैः सह परिक्षयः॥ २७॥

स्वगृहेऽपि दरिद्राणां जनह् क्रकचनिष्ठुरः।
धनिनां परलोकोऽपि प्रेमस्निग्धजनं भुवः॥ २८॥

क्षीणमप्युद्यतं वृद्ध्यै न वेणुं बन्धते जनः।
न तु स पूर्णतां याति प्रत्यासन्नपरिक्षयः॥ २९॥

मूर्खोऽपि विदुषां वन्द्यः स्त्रीणां वृद्धोऽपि वल्लभः।
क्लिबोऽपि सेव्यः शूराणामासन्नाभ्युदयो जनः॥ ३०॥

केनान्यकरणं भुक्त्वा पीत्वा काव्यामृतानि वा।
क्षणं विचक्षणेनापि क्षुप्तिपासे विवर्जिते॥ ३१॥

यस्यार्थः स गुणोन्नतैः कृतनुतिः कं वा न धत्ते गुणं
दारिद्य्रोदयदोषदूषितरुचां निर्माल्यतुल्या गुणाः।
वित्तेनैव गुणा गुणी न तु धनी धन्यो धनी नो गुणी
कायाद्दुष्कृतसंनिपातशमनादायुर्गुणानां धनम्॥ ३२॥

इति प्राणाधिकार्थस्य पत्युराकर्ण्य सा वचः।
साञ्जनाश्रुकणोत्कीर्णा लतेवाभृतषट्पदा॥३३॥

अथ प्रवहणं भेजे सार्थनाथस्तया सह।
तीव्रतृष्णागृहीतानां हस्तपात्रं महोदधिः॥ ३४॥

तस्य जायासखस्यासौ कर्मवातानुवर्तिनः।
अभज्यत प्रवहणं समनोरथजीवितम्॥ ३५॥

ततः फलकमासाद्य भागशेषाच्च कर्मणः।
कशेरुद्वीपमासाद्य तत्पतिर्विपदं गतः॥ ३६॥

अनाथाम् तत्र शोचन्तीं विहङ्गः पुरुषाकृतिः।
तामाप पाददीर्णाशां सुवर्णकुलसंभवः॥ ३७॥

स कान्तां सुमुखो नाम तामुवाच रुचाकृतः।
समाश्वसिहि लोलाक्षि निर्भयोऽयं तवाश्रयः॥ ३८॥

दिव्येयं सुभगा भूमिर्वयं त्वत्प्रणयैषणः।
पुण्यायातासि कल्याणि घोरोऽयं मकराकरः॥ ३९॥

इत्युक्त्वा तेन शनकैर्नीता रत्नालयं गृहम्।
संपूर्णगर्भा तनयं चारुरूपमसूत सा॥ ४०॥

वर्धमाने शिशौ तस्मिन् सा शनैः प्रियवादिना।
मुग्धा तेन विदग्धेन संभोगाभिमुखीकृता॥ ४१॥

सरलत्वान्मृदुत्वाच्च समीपप्रणयी जनः।
स्वयमालिङ्ग्यते स्त्रीभिर्लताभिरिव पादपः॥ ४२॥

दिव्योद्यानेषु सा तेन रममाणां घनस्तनी।
कुमारं रुचिराकारं सुषुवे सदृशं पितुः॥ ४३॥

तस्मिन् पद्ममुखाभिख्ये यौवनालंकृताकृतौ।
सुमुखः पक्षिणां राजा काले लोकान्तरं ययौ॥ ४४॥

ततः पद्ममुखः श्रीमानाससाद पदं पितुः।
गुणिनामविवादेन स्वाधीनाः कुलसंपदः॥ ४५॥

प्राप्तैश्वर्यं तमवदद्विजने जननी सुतम्।
तत्प्रभावस्य संभाव्य सर्वत्र प्रभविष्णुताम्॥ ४६॥

पुत्र प्राप्ता त्वया लक्ष्मीरियं निजकुलोचिता।
अयं तु सार्थवाहान्मे जातः पुत्रो निरंशकः॥ ४७॥

वाराणस्यामयं राजा शशक्त्या क्रियतां त्वया।
प्रीतीसंवादसास्वादः स्वदेशे सेव संपदः॥ ४८॥

इति मातुर्गिरा पक्षी पक्षपातेन भूयसा।
स्कन्धे भ्रातरमारोप्य व्योम्ना वाराणसीं ययौ॥ ४९॥

तत्र सिंहासनासीनं ब्रह्मदत्तं महीपतिम्।
संजघानैकदैनं स वज्रग्रनखरैः खरैः॥५०॥

अभिषिच्याग्रजं पूर्णं तस्मिन्नेव नृपासने।
अमात्यान् सोऽवदद्भीतान् समग्रानग्रविक्रमः॥५१॥

यस्य राज्ञोऽभिषिक्तस्य मया यः प्रचलीकरः (?)।
सोऽप्यतीतः प्रभो भक्त्या तमेवानुगमिष्यति॥५२॥

इत्युक्त्वा प्रवरामात्यान् स्वैरं विहगपुण्गवः।
ययौ भ्रातरमामन्त्र्य पुनर्देशनसंविदा॥५३॥

स एव ब्रह्मदत्तोऽयमिति मन्त्रित मन्त्रिणाम् (?)।
स नृपः ख्यातिमायातः स्वजनेषु परेषु च॥५४॥

अत्रान्तरे समानीता सगर्भा हस्तिनी वनात्।
न मुमोचार्धनिर्यातगर्भं रुद्धमिवान्तरे॥५५॥

साध्वीकराग्रसंस्पर्शादियं गर्भं विमुञ्चति।
इति मौहूर्तिकादिष्टं राज्ञे मन्त्री न्यवेदयत्॥ ५६॥

शासनादथ भूभर्तुः स्पृष्ट्वा हस्तेन हस्तिनीम्।
अन्तः पुराङ्गनाश्चक्रुस्तत्र सत्योपयावनम्॥५७॥

तासां सत्यगिरा गर्भं नात्यजत् करिणी यदा।
तदा विलक्ष्यः सर्वोऽभूत् भूपस्यान्तःपुरे जनः॥ ५८॥

अथ गोपाङ्गनाभ्येत्य शीलसत्योपयाचनम्।
कृत्वा निजजायानां ज्ञात्वा शीलदरिद्रताम्।
मेने गोपां मनःस्वेव तां जगत्र्त्रितये सतीम्॥६०॥

स सतीजातिलोभेन सोशुम्बां नाम तत्सुताम्।
परिणीयानिनायाग्रे देवीशब्दस्य पात्रताम्॥ ६१॥

तस्याः संचिन्त्य लावण्यं चपलत्वं च योषिताम्।
स सर्वगामीनीं निद्रामपि तत्याज शङ्कितः॥६२॥

अस्मिन्नवसरे द्रुष्टुं भ्रातरं विहगाधियः।
ययौ पद्ममुखस्तत्र स्नेहादतिशयोत्सुखः॥६३॥

भूपालोऽपि तमालिङ्ग्य प्रीत्या विहितसत्कृतिः।
विजने स्वकथामस्मै निवेद्य पुनरब्रवीत्॥६४॥

शीलसत्यतुलारोहात् दृष्टदोषेण योषिताम्।
ममान्तःपुरवैमुख्यात् विवाहोऽभिनवः कृतः॥ ६५॥

रूपयौवनगामिन्म्याम् तस्यामपि न मे धृतिः।
एकत्र दृष्टदोषाणां सर्वत्राशङ्कते मनः॥ ६६॥

तस्मात्तव पुरे भ्रातर्विमानुष्ये निधीयताम्।
शीलशन्कां परित्यज्य भवामि विगतज्वरः॥ ६७॥

तस्मात् प्रतिनिशं पक्षी शासनात् तव मद्गृहम्।
प्रापयिष्यति तां स्वैरमित्ययं मे मनोरथः॥ ६८॥

इति भ्रातुर्वचः श्रुत्वा तमुवाच विहङ्गमः।
ईर्ष्याशङ्काकलङ्केन राजन् मिथ्यैव मा कृथाः॥ ६९॥

न नाम रमते रम्ये नास्वादं वेत्ति भोजने।
न पश्यति न निद्राति विद्वान् धनी नम्रः प्रभुः क्षमी।
अर्थी मान्यः खलः स्निग्धः स्त्री सतीति कथैव का॥७१॥

सरलत्वेऽपि कुटिलाः स्थायिन्योऽप्यतिचञ्चलाः।
कुलीना अपु पार्श्वस्थमालिङ्गन्त्यबला लताः॥७२॥

दृष्टिर्लोलाधरो रागी भ्रूर्वाक्रा कठिनौ स्तनौ।
दृश्यते नैव निर्दोषः स्त्रीणामवयवेष्वपि॥७३॥

भुज्यन्ते कुशलैः श्यामा भ्रमद्भ्रमरविभ्रमैः।
मूलान्वेषी सरोजिन्याः पङ्केनैवावलिप्यत॥७४॥

नैकस्मिन् विस्मयभुवां सस्मितानां नियन्त्रिते।
शुचिशीलविरामाणां रामाणां रमणे मतिः॥ ७५॥

तथापि मत्पुरोद्याने निर्जने सा निधीयताम्॥ ७६॥

इत्युक्तः पक्षिणा भ्राता नृपतिर्विससर्ज ताम्।
कान्तां कशेरुकद्वीपे तं च सत्कृत्य सादरः॥ ७७॥

सापि प्रतिनिशं व्योम्नः खगारूढा समाययौ।
दिव्यगन्धमयीं मालामादाय द्वीपसंभवाम्॥ ७८॥

पारिजातान्वयतरोस्तानि पुष्पाण्यवाप सा।
ख्यातानि तिमिराणीव भ्रमद्भृङ्गान्धकारतः॥७९॥

अथ वाराणसीवासी कदाचिन्मानवाभुधः।
प्रययौ समिधाहारी द्विजन्मा काननं युवा॥ ८०॥

तत्र किन्नरकामिन्या स दृष्टः स्पष्टमन्मथः।
यस्य संदर्शनेनैव साभवद्विस्मृतस्मृतिः॥८१॥

असौ नवाभिलाषेण जनकेनेव सार्पिता।
कान्ता कान्तिमयी नाम विजहार गुहागृहे॥८२॥

तत्राभरणरत्नाशुः प्रतीततिमिरोत्करे।
रममाणा चिरं तेन काले पुत्रमवाप सा॥ ८३॥

बलवान् मरुदुद्भवः स बाल्येऽपि यदा शिशुः।
तदा माता तस्य संज्ञां शीघ्रग इत्यसाधयत्॥८४॥

सापि निवाघ्नसंभोगा सुखातृप्ता गुहान्तरे।
प्रियं धॄत्वा सदा याति पिधाय शिलया गृहम्॥८५॥

कदाचिदथ वृत्तान्तं निजपित्रा निवेदितम्।
आकर्ण्य शीघ्रगश्चिन्ताविस्मयाकुलितोऽवदत्॥ ८६॥

शिलानिबद्धद्वारेऽस्मिन्नन्धस्यैव गॄहान्तरे।
अहो स्नेहोऽप्ययं तात तव बन्धनतां गतः॥८७॥

एहि वाराणसीमेव गच्छावस्ते निजास्पदम्।
विलामप्ययत्नेन शिलामुत्सारयाम्यहम्॥८८॥

स्वदेशविरहक्लेशं द्य्ःशं सहसे कथम्।
त्यक्तुं न शक्यते कौश्चिद्देशो देह इव स्वकः॥८९॥

भारं द्रविणसंभारं वेत्ति ग्रन्थिगुणागुणः।
भोगं निरुपभोगं च स्वदेशविरही जनः॥ ९०॥

इत्युक्त्वा स गुहागोहादुत्पाट्य विपुलां शिलाम्।
कृताभ्युपगमेनाशु जनकेन ययौ सह॥ ९१॥

प्रयातयोस्ततस्तूर्णं समभ्येत्याथ किन्नरी।
शून्यं दृष्ट्वा गुहागेहं निर्वेदादित्यविन्तयत्॥ ९२॥

अहो मे विस्मृतस्नेहः स गतः क्कापि दुर्जनः।
द्विजिह्वानां भुजंगानां कौटिल्यं वा किमद्भुतम्॥९३॥

न रमन्ते पलायन्ते पर्यन्ते सुखरागिणः।
चिरस्था अपि निःस्नेहाः शुका इव द्विजातयः॥ ९४॥

इति संचिन्त्य सा पत्युर्निकारात्प्रीतिमत्यजत्।
पुष्पोपमानि प्रेमाणि न सहन्ते कदर्थनाम्॥ ९५॥

विद्यागुणेन केनासौ पुत्रो मे भुवि जावति।
इति ध्यात्वा सखीहस्ते तस्मै वीणां दिदेश सा॥ ९६॥

संभोगसुखपण्यैव प्रीतिः पतिषु योषिताम्।
अपर्युषितवात्सल्या पुत्रप्रीतिस्तु निश्चला॥ ९७॥

जवेन व्रजतोस्तूर्णं तयोर्दौर्जन्यलज्जया।
शीग्रगाय ददौ वीणां तत्सखी वेगगामिनी॥ ९८॥

आद्या तन्त्रिरियं नास्याः स्प्रष्टव्या विघ्नकारिणी।
इत्याभाष्य तया दत्तां वीणां प्राप्य जगाम सः॥ ९९॥

ततः स्वदेशे जनकं स्वगृहे विनिवेश्य सः।
वीणाप्रवीणः सर्वत्र लाभपूजामवाप्तवान्॥ १००॥

ततः कदाविद्वाणिजा अम्बुधिद्वीपगामिना।
आरोपितः प्रवहणं दिव्यवीणानुरागिणा॥ १०१॥

वीणामूर्च्छनया तस्य श्रोत्रपीयूषधारया।
क्षणे क्षणे समुद्रोऽपि निस्तरङ्ग इवाभवत्॥ १०२॥

अथाद्यतन्त्रिसंस्पर्शादुत्पन्नोपप्लवोप्लुते।
भग्ने प्रवहणे सर्ववणिजामभवत् क्षयः॥ १०३॥

ततो बलाहकावाप्त्या पवनप्रेतितः क्षणात्।
कशेरुद्वीपमासेदे कर्मशेषेण शीघ्रगः॥ १०४॥

तत्राब्धिकूलसंलीनं दिव्योद्यानं प्रविश्य सः।
श्यामां ददर्श सोशुम्बां मूर्धन्यस्तबकस्तनाम्।१०५॥

ग्रन्धन्तीं तिमिराख्यानां पुष्पाणामुज्ज्वलस्रजम्।
निबन्धनं तनुगुणैः कुर्वाणामप्यचेतसाम्॥ १०६॥

सापि तं रुचिराकारं दृष्ट्वा विस्मयमाययौ।
धीरं शैशवतारुण्यसंधिमध्यस्थतां गतम्॥ १०७॥

मारमारुतसंचालसकम्पकरपल्लवा।
सा शीर्णशीलकुसुमा लतेव प्रणनाम तम्॥ १०८॥

चिरारूढेव सहसा प्रीतिः प्रौढा तयोरभूत्।
प्राग्जन्मस्नेहसंलीनं न मुञ्चति मनो मनः॥ १०९॥

रममाणां दिवा तेन निशायां च महीभुजा।
मेने वामाचरिततां ताम् प्रियो गूढकामुकः॥ ११०॥

तेन वाराणसीं गन्तुं ज्ञात्वा वृत्तं समर्थिता।
तन्निनाय खगारूढा तद्गिरा मीलितेक्षणम्॥ १११॥

वारितोऽपि तदा व्योम्नि नयनोन्मीलने तया।
सोऽबह्वत्सहसैवान्धश्चापलाद्विवृतेक्षणः॥ ११२॥

सा तमन्तःपुरोद्याने निधाय भयकातरा।
विवेश शोकसंतप्ता शय्यावेश्म महीपतेः॥११३॥

दूयमानेन मनसा रजनीमतिवाह्य ताम्।
प्रातर्न गन्तुं न स्थातुं चिन्ताक्रान्ता शशाक सा॥ ११४॥

अत्रान्तरे समुद्भूतश्च्युतसौरभनिर्भरः।
मधुमासो विलासानां यौवनं पुष्पधन्वनः॥ ११५॥

कोकिलालिकुलैः कालः कालः कालो वियोगिनाम्।
शीर्णशोकनवाशोकदुःसहः प्रतिदृष्यते॥ ११६॥

राजाप्यविरतौत्सुक्यादुद्यानं गन्तुमुद्यतः।
दिनमेकं न तत्याज सोशुम्बां काममोहितः॥ ११७॥

स तयासह रागस्य मदस्य मदनस्य च।
संसारमिव विश्रान्तिपदपुष्पवनं ययौ॥ ११८॥

तत्र बालानिलालोललतावैलक्ष्यकारिणीम्।
पश्यन् प्रमोदमासेदे यदितामेव भूपतिः॥ ११९॥

अन्यरागविषाक्रान्ता साप्यभून्मलिनस्मृतिः।
सुखमप्यसुखं वेत्ति चिन्ताशल्याकुलं मनः॥ १२०॥

अन्तर्गतभुजंगाभिः स्त्रीभिरत्यन्तरागिणः।
कण्ठे कृताभिर्नृत्यन्ति मालाभिरिव मोहिताः॥ १२१॥

तत्रैकान्तलताकुञ्जनिकुञ्जनिहितस्थितिः।
अन्धः सौरभमाघ्राय सोशुम्बातिमिरस्रजः॥ १२२॥

सहसैव विकारेण रागाद्विस्मृतसंवृतिः।
अगायन्मदनक्षीबा गणयन्ति बह्यं कुतः॥ १२३॥

तनुपवनविलासैः कीर्यमाणः प्रियायाः
समदबदनपद्मामोदसंभारसारः।
तिमिरकुसुमगन्धः सोऽयमायाति दूरात्
भ्रमरसरणिवीणाविभ्रमारावरम्यः॥ १२४॥

श्रुत्वा हृदयसंवादगीतं तत्तस्य भूपतिः।
उद्यानविचयं कृत्वा तं ददर्श लतान्तरे॥१२५॥

गाढरोचमदक्षीबं स तं पप्रच्छ शङ्कितः।
अपि जानसि सोशुम्बां तस्य वा लक्षणं तनोः॥ १२६॥

सोऽब्रवीत् किं न जानामि सोशुम्बां बिम्बपाटलाम्।
उपविष्टोऽधरे यस्या रागराज्ये मनोभवः॥ १२७॥

न्यस्तं स्मरेणेव तदूरूमूले
लेखामयं स्वस्तिकमस्ति कान्तम्।
आवर्तशोभा स्तनमण्डले वा
लावण्यकल्लोलनिभास्ति तस्याः॥ १२८॥

एतदाकर्ण्य नृपतिः सद्यः संतापशोषितम्।
मुमोच रागकुसुमं निर्माल्यमिन्व चेतसः॥ १२९॥

सोऽब्रवीन्नास्ति नारीणां शीलरक्षा शतैरति।
खपुष्पमालेव सती सर्वथा नैव जायते॥ १३०॥

इत्युक्त्वान्धेन तां राजा सह श्मशानकाननम्।
गर्दभारोपितां तूर्णं तत्याज नगराद्बहिः॥ १३१॥

सा तेन सह निर्लज्जा व्रजन्ती दिनसंक्षये।
अटव्यां चौरपतिना प्राप्तैव सह संपदा॥ १३२॥

जनैरभिद्रुते तस्मिन् सहसा चौरमण्डले।
निरपराश एवान्धश्चौरभ्रान्त्या निपातितः॥ १३३॥

चौरोऽपि निशां भुक्त्वा सोशुम्बां क्षस्णसंगतः।
गृहीत्वाभरणान्यस्या जगामोत्तीर्य निम्नगाम्॥ १३४॥

कारण्डवायाह् सरितस्तस्यास्तीरे निरम्बरा।
शुशोव साञ्जनैरश्रुजालैः सा मलिनस्तनी॥ १३५॥

तस्मिन् क्षणे मुखासक्तं मांसमुत्सृज्य जम्बुके।
याते जलोत्प्लुतं मत्स्यं तज्जहारं विहङ्गमः॥ १३६॥

मत्स्ये निमग्ने सहसा खगेन पिशिते हृते।
स बभूवोभयभ्रंशाच्चिन्तानिश्चललोचनः॥ १३७॥

तस्यास्तं वीक्ष्यं दुःखेऽपि मुखे स्मितमदॄश्यत।
हासः परस्य स्खलिते दुःस्थस्याप्युपजायते॥ १३८॥

स तां वैलक्ष्यकुपितः प्रोवाचानुचितस्मिताम्।
अहो हससि मां लोके हास्यायतनताम् गताम्॥ १३९॥

नृपं त्यक्त्वागता ह्यन्धम्त्यक्तवान्धं चौरमाश्रिता।
तवाहमुभयभ्रष्टः त्रिभ्रष्टायाः स्मितास्पदम्॥ १४०॥

आस्ताम् वः परिहासोऽयं तं युक्त्याहं करोमि ते।
खलास्ते विषमस्थानाम् ये बिडम्बनपण्डिताः॥ १४१॥

इत्युक्त्वा नगरीं गत्वा स नृपाय न्यवेदयत्।
सोशुम्बा ते नदीतीरे तपोयुक्तेति मन्मतिः॥ १४२॥

अथ निनाय ताम् राजा वितीर्याभरणाम्बरम्।
दोषमाच्छादयत्येव रागद्वेषः शरीरिणाम्॥ १४३॥

सैवाद्योत्पलवर्णेयमुदायी शीघ्रगोऽप्यसौ।
प्राग्जन्मान्तरपुण्येन भिक्षुव्रतमुपागतौ॥ १४४॥

अभवदतिरसार्द्रं मानासं रागयोगे
यदु मदनविधेयं रागयुक्तं यदस्याः।
विरतशमविरारा तेन तस्मिन् मुहूत्रे
कृतनरपतिरूपानन्दिनं माम् ववन्दे॥ १४५॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां
देवावतारावदानं नाम चतुर्दशः पल्लवः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project