Digital Sanskrit Buddhist Canon

१३.प्रतिहार्यावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
१३ प्रतिहार्यावदानम्॥

यः संकल्पपथा सदैव चरति प्र्प्ज्जृम्भमाणाद्भुतं
स्वप्नैर्यस्य न संगतिः परिचयो यस्मिन्नपूर्वक्रमः।
वाणी मौनवती च यत्र हि नृणां यः श्रोत्रनेत्रातिथि-
स्तं निर्व्याजजनप्रभावविभवं मनौरमेयं नुमः॥ १॥

पुरे राजगृहाभिख्ये बिम्बिरासेण भूभुजा।
पूज्यमानं जिन दृष्ट्वा स्थितं वेणुवनाश्रमे॥२॥

मात्सर्यविषसंतप्ता मूर्खाः सर्वग़्यमानिनः।
न सेहिरे तदुत्कर्षं प्रकाशमिव कौशिकाः॥ ३॥

मलिनैः स्वविनाशाय परभागोदितैः सदा।
क्रियते वासरस्पर्धा शार्वरैस्तिमिरोत्करैः॥ ४॥

मस्करी संजयी वैरैरजितः ककुदस्तथा।
पूरणज्ञातिपुत्राद्या मूर्खाः क्षपणकाः परे॥ ५॥

ऊचुर्नृपतिमभ्येत्य मारमायाविमोहिताः।
संघर्षद्वेषदोषेण धूमेनेवान्धकारिताः॥६॥

एष सर्वज्ञतामानी वने यः श्रमणः स्थितः।
ऋद्धिप्रभावो भवता तस्यास्माकं च दृश्यताम्॥७॥

ऋद्धिप्रभावाद्यत्किंचित् जनव्यावर्जनोर्जितम्।
द्र्श्यते महदाश्चर्यं प्रातिहार्यं तदुच्यते॥ ८॥

शक्तिः संसदि यस्यास्ति प्रतिहार्यस्य दर्शने।
अस्माकं तस्य वा राजन् पूजाः सन्तु जगत्र्त्रये॥ ९॥

इति तेषाम् वचः श्रुत्वा तद्दर्पविमुखो नृपः।
उवाच वाञ्छा केयं वः पङ्गूनां गिरिलङ्घने॥१०॥

असमञ्जसमेवैतत् का स्पर्धाग्नेः पतङ्गकैः।
नैतद्वाच्यं पुनर्वादी मया निष्कास्यते पुरात्॥११॥

इति राज्ञा गुणज्ञेन प्रत्याख्यातोद्यमाः खलाः।
प्रययुस्ते निरालम्बे लम्बमाना इवाम्बरे॥ १२॥

बिम्बिसारो नरपतिर्मूर्खतापक्षपातवान्।
अन्यं व्रजामो भूपालमिति ते समचिन्तयन्॥ १३॥

अत्राण्तरे भगवति श्रावस्तीमभितः पुरीम्।
प्राप्ते तेजवनारामं दिगन्तानेव ते ययुः॥ १४॥

ते प्रसेनजितं तत्र प्राप्य कोसलभूपतिम्।
प्रातिहार्यकृतस्पर्धां तामेवास्मै न्यवेदयन्॥ १५॥

गुणान्तरज्ञो नृपतिस्तेषाम् दर्पक्षयेच्छया।
ऋद्धिसंदर्शनोत्साहाद्ययौ भगवतोऽन्तिकम्॥ १६॥

स समभ्येत्य विनयात् प्रणिपत्य तमब्रवीत्।
भगवन् दर्पबलनं तीर्थ्यानां कर्तुमर्हसि॥ १७॥

ऋद्धिस्पर्धानुबन्धेन त्वत्प्रभावदिदृक्षया।
स्वगुणश्लाघयास्माकं तैः कर्णौ बधिरीकृतौ॥ १८॥

प्रकाशय निजं तेजः सज्जनावर्जनम् विभो।
त्ख़्र्थ्याभिधानामखिलं प्रयातु प्रलयं तमः॥ १९॥

इति राजवचः श्रुत्वा निर्विकारो महाशयः।
भगवान् विरतामर्षः सहर्षस्तमभाषतः॥ २०॥

राजन्नान्योपमर्दाय विवादाय मदाय वा।
विवेकाभरणार्होऽयं क्रियते गुणसंग्रहः॥ २१॥

मात्सर्यमलिनैः किं तैर्विचारविगुणैर्गुणैः।
ये हरन्ति परोत्कर्षं स्पर्धाबन्धप्रसारिताः॥ २२॥

गुणाच्छादनमन्यस्य स्वगुणेन करोति यः।
धर्मस्तेनाप्रशस्तेन स्वयमेव निघातितः॥२३॥

सद्गुणानां परिक्षैव परवैलक्ष्यकारिणी।
उचिता न हि शुद्धानां तुलारोहविडम्बना॥ २४॥

गुणवानपि नायाति यः परेषु प्रसन्नताम्।
स दीपहस्तस्तत्पात्रच्छायया मलिनीकृतः॥ २५॥

लोक त एव सर्वज्ञा विद्मः किमधिकं वयम्।
पराभिमानाभिभवप्रागल्भ्यं स्वपराभवः॥२६॥

इति श्रुत्वा भगवतः प्रशमाभिमतं वचः।
भृशमभ्यर्थनां राजा चकाराश्चर्यदर्शने॥ २७॥

ततः दृच्छ्राद्भगवता कृताभ्युपगमो नृपः।
राजधानीं ययौ हृष्टः सप्ताहावधिसंविदा॥ २८॥

अस्मिन्नवसरे भ्राता भूमिभर्तुरसोदरः।
चचारान्तःपुरोपान्ते प्रासादतलवर्त्मना॥ २९॥

सलीलं व्रजतस्तस्य कर्मवातैरिवेरिता।
कुसुमस्रक् पपातांसे राजपत्नीकराच्च्युता॥ ३०॥

तस्य विज्ञातदोषस्य दोषं संभाव्य साक्षिभिः।
पिशुनाः किंवदन्तीं ताम् चक्रिरे राजगामिनीम्॥३१॥

छिद्रमल्पमपि प्राप्य क्षुद्राः सर्वापकारिणः।
द्विजिह्वाः प्रविशन्त्याशु प्रभूनां शून्यमाशयम्॥ ३२॥

पिशुनप्रेतिरो राजा भ्रातुरीर्ष्याविषोल्बणः।
छेदमस्यादिदेशाशु पाणिपादस्य मूर्च्छितः॥ ३३॥

निकृत्तपाणिचरणः कुमारः कर्मविप्लवात्।
स वध्यवसुधाशायी विवेश विषमापदम्॥ ३४॥

तीव्रव्यथापरिवृतं शोचद्भिर्मातृबन्धुभिः।
ददृशुस्तं क्षपणकाः क्षणं नयनचालने॥ ३५॥

तान् समभ्येत्य शोकार्तास्ते राजसुतबान्धवाः।
जगदुस्तत्परित्राणसंलिप्ताः सर्वप्राणिनह्॥ ३६॥

दोषं निगृहीतोऽयं कालनामा नृपात्मजम्।
सर्वग़्यवादिनो यूयं प्रसादोऽस्य विधीयताम्॥ ३७॥

इति तै प्रसरद्बाष्पैरर्थ्यमानाह् प्रलापिभिः।
ते मौनिनो निष्प्रतिभा वैलक्ष्यादन्यतो ययुः॥ ३८॥

अथ तेन यथायातो भिक्षुः सुगतशासनात्।
आनन्दो विदधेऽङ्गानि तस्य सत्योपयाचनात्॥ ३९॥

राजपुत्रस्तु संजातपाणिपादः प्रसन्नधीः।
जिनं शरणमभ्येत्य तदुपस्थायकोऽभवत्॥ ४०॥

सप्तरत्रे व्यतीतेऽथ श्रान्तिहार्यं गृहं महत्।
ऋद्धिं भगवतो द्रष्टुं महीपतिरकारयत्॥ ४१॥

उपविष्टे नृपे तत्र सह क्षपणकादिभिः।
कल्पवृक्षीकृता भूमिरभवत् सुगतेच्छया॥४२॥

ततः प्राप्तेषु देवेषु द्रष्टुं भगवतः प्रभाम्।
रत्नप्रदीपं भगवान् भेजे सिंहासनम् महत्॥ ४३॥

तेजोधातुं प्रपन्नस्य तस्य गण्डसमुद्गतैः।
व्याप्तं पावकसंघातैरभूद्भुवनमण्डलम्॥ ४४॥

शान्ते शनैः कमलकाननसंनिकाशे
वह्नौ समस्तभुवनस्थितिभङ्गभीत्या।
देहात्ततो भगवतः करुणाम्बुराशेः
पूर्णामृतोर्मिविमला रुचयः प्रसस्रुः॥ ४५॥

लावण्यसारमतिचन्द्रसहस्रकान्तिं
तेजः प्रतानविफलीकृतसूर्यचक्रम्।
तं नागनायकनिकायविलोचनानि
प्रीत्या पपुः सुकृतलब्धमपूर्वहर्षम्॥ ४६॥

वैदूर्यनालविपुलारुणरत्नपात्र-
कान्तोल्लसत्कनककेसरकर्णिकानि।
अभ्युद्ययुः क्षितितलादथ तत्समीपे
पद्मानि सौरभभराहृतषट्पदानि॥ ४७॥

तेषूपविष्टमथ काञ्चनचारुकान्तिं
स्निग्धेक्षस्णं सुगतचक्रमदृश्यतारात्।
पीयूषपेशलशशिद्युतिशीतलेन
यस्योदयेन सहसा सुखमाप लोकः॥ ४८॥

तेषां प्रभावविभवं बह्गवान् बभार
मध्येऽधिकं कनकशैल इवाचलानाम्।
सुस्कन्धबन्धुरघनद्युतिसंनिवेशः
प्रांशुः सुरक्षितिरुहामिव पारिजातः॥ ४९॥

स्वर्गाङ्गनाकरकुशेशयकीर्यमाणै-
रम्लानमाल्यवलयैः कलितोत्तमाङ्गाः।
तस्याननाम्बुजविलोकननिर्निमेषे
मर्त्या अपि क्षणमवापुरमर्त्यभावम्॥ ५०॥

व्योमाङ्गणेषु सुरदुन्दुभिशङ्खतूर्य-
घोषावृतः कुसुमवर्षमहाट्टहासः।
गन्धर्वकिन्नरमुनीश्वरचारणानां
स्फीटश्चचार भगवत्स्तुतिवादनादः॥५१॥

तत्रारुणाधरदलाद्दशनांशुशुभ्राद्
व्याकीर्णकेशरकुलाद्दशनारविन्दात्।
सत्सौरभं भगवतः स्वरसंनिवृत्तं
धन्याः पपुर्मधुरवाङ्भधु पुण्यसूतम्॥ ५२॥

पापं विमुञ्चत निषिञ्चत पुण्यबीजं
वैरं परित्यजत साम्यसुखं भजध्वम्।
ज्ञानामृतं पिबतं मृत्युविषापहारि
नेयं तनुः कुशलकर्मसखी चिराय॥ ५३॥

लक्ष्मीश्चला तरुणता च जरानुयाता
कायोऽप्यपायनिचयस्य निवास एव।
प्राणाः शरीरककुटिषु मुहूर्तपान्था
नित्योदये कुरुत धर्ममये प्रयत्नम्॥ ५४॥

इत्यादिभिर्भगवतः प्रविभक्तदीप्त-
ज्ञानैर्विवेकविमलैः कुशलोपदेशैः।
वज्रैरिवाशु दलनं प्रययौ जनानां
सत्कायदृष्टिसमविंशतिशृङ्गशैलः॥ ५५॥

ऋद्धिप्रभां भगवतः प्रविभाव्य तीर्थ्या
मन्त्रहता विषधरा इव भग्नदर्पाः।
दीपा इवार्ककिरणप्रतिभाभिभूता-
श्चित्रार्पिता इव ययुश्चिरनिश्चलत्वम्॥ ५६॥

अत्रान्तरे भगवतः सततं विपक्षः
सर्वात्मना क्षपणको नवधर्मयक्षः।
क्षिप्तश्रवान् स वृतवर्षवरैश्चकार
विद्रव्य रन्ध्रशरणान् भुवि वज्रपाणिः॥ ५७॥

अद्दिश्य तानथ कृपार्द्रभयाशरण्यः
सर्वोपदेशविषयान् भगवान् बभाषे।
भूभृद्वनाबनिमणिर्विवरादि सर्वं
तेने भयेषु शरणं किल कातराणाम्॥ ५८॥

बुद्धिं प्रबोध मम धाम्बि निधाय बुद्धिं
धर्मं ससंघमपि ये शरणं प्रपन्नाः।
तेषा जगत्क्षयभयेष्वपि निर्भयाणां
नैवान्यतः शरणदैन्यपरिग्रहोऽस्ति॥ ५९॥

दुर्वारे परलोकतीव्रतिमिरे धर्मः प्रवृद्धोऽसुमान्
दानं दुःसहपापतापविपदामभ्युद्गमे वारिदः।
प्रज्ञा मोहमहाप्रपातविषमश्वभ्रे करालम्बनं
दैन्याक्रान्तमहीनमेव शरणं सर्वत्र पुण्यं नृणाम्॥ ६०॥

इति तिमिरवृताक्ष्णां चक्ऱ्हुरुन्मीलनार्हं
दशनमणिमरीचिव्यज्यमानप्रकाशम्।
सदसि सुगतचन्द्रः शुद्धधर्मोपदेशं
स्थिरपदमिव कृत्वा काननं स्वं जगाम॥ ६१॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां
प्रातिहार्यावदानं नाम त्रयोदशः पल्लवः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project