Digital Sanskrit Buddhist Canon

१०.सुन्दरीनन्दावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
१० सुन्दरीनन्दावदानम्।

ते केऽपि सत्त्वहितसंनिहितानुकम्पा
भव्या बह्वन्ति भुवने बह्वभीतिभाजाम्।
वात्सल्यपेशलधियः कुशलाय पुंसां
कुर्वन्ति ये वरमनुग्रहमाग्रहेण॥ १॥

न्यग्रोधारामनिरतं द्रुष्टुं कपिलवस्तुनि।
भगवन्तं ययौ नन्दः शाक्यराजसुतः पुरा॥ २॥

नैष्कम्यदेशनामन्त्रकथान्तेस पुरःस्थितम्।
उवाच भगवान् प्रीत्या प्रव्रज्या गृह्यतामिति॥ ३॥

प्रसाद्याभिनिवेद्यास्य तं नन्दः प्रत्यभाषतः।
भगवन् पुण्यलाभापि प्रव्रज्याभिमता न मे॥४॥

सर्वोपस्थायको भूत्वा भिक्षुसंघं यथेप्सितैः।
सर्वोपकरणैस्तावत् भिक्ष्यं परिचराम्यहम्॥ ५॥

इत्युक्त्वा रत्नमुकुटैः स्पृष्टतत्पादपङ्कजः।
राजपुत्रः स्वभवनं ययौ जायासमुत्सुकः॥ ६॥

स सुन्दरी समासाद्य दयिताम् रतिसुन्दरीम्।
विजहार वरोद्यानं मुहूर्तविरहासहः॥ ७॥

ततः कदाचिद् भगवान् प्रकृत्यैव गुणिप्रियः।
स्वयं नन्दस्य भवनं भिक्षुसंघैः सहाययौ॥ ८॥

सानन्दवदनः कृत्वा नन्दस्तत्पादवन्दनां।
तं महाहर्सनासीनं पूजयित्वा व्यजिज्ञपत्॥ ९॥

केषां पुण्यप्ररोहाणां परिपाकोऽयमीदृशः।
कृतोऽयं यद्भगवता दर्शनानुग्रहः स्वयम्॥ १०॥

स्मरणं श्रवणं वापि दर्शनं वा महात्मनाम्।
सेयं कुशलवल्लीनां महती फलसंततिः॥ ११॥

अस्य मैत्रस्य महतस्तदालोकस्य दर्शनात्।
हृदयस्य विकासश्रीः कस्य नाम न जायते॥ १२॥

दानादपि प्रियतरं पुण्यादपि महाफलम्।
सदाचारादपि श्र्लाघ्यं महतां किलं दर्शनम्॥१३॥

इति तस्य ब्रुवाणस्य भक्तिप्रणयपेशलम्।
अभिनन्द्य पुरः पूजां भगवान् गन्तुमुद्ययौ॥१४॥

अनुवव्राज तं नन्दः स्वच्छे कनकभाजने।
वरोपचारमादाय मधुरं स्वमिवाशयम्॥ १५॥

पह्चाद्व्रजन्तमालोक्य भक्त्या भगवतः पथि।
निरैक्षत कटाक्षेण सुन्दरी विरहासहा॥१६॥

गुरूणामग्रे सा सरलतरलां लोचनगत्रिं
विहायैव त्रासाञ्चितमुकुतिताक्षी प्रियतमा।
निरीक्ष्यालक्ष्यं यत् क्षणमवनताभूत्तदधिकं
न गन्तव्यं नाथेत्यवददिवं मनादवचनम्॥ १७॥

नन्दः प्रणयिणीं दृष्ट्वा सोच्छ्वासं चलिताननाम्।
अयमागत एवाहमचिरादित्यभाषत॥ १८॥

ततः स्वमाश्रमं प्राप्तं भगवन्तं कृताञ्जलिः।
व्रजामि स्वगृहं तावदित्याह विरहासहः॥ १९॥

ततस्तमासनासीनः प्रणतं भगवान् पुरः।
उवाच सस्मितं केयं गमने संप्रति त्वरा॥ २०॥

विषयास्वादसौहार्दसंमोहार्दितवेतसाम्।
अहो गृहसुखेष्वेव निर्वेदविमुखा मतिः॥ २१॥

गुणाभरणमेवायुर्विवेकाभरणो गुणः।
प्रशमाबह्रणश्चासौ वैराग्याभरणः शमः॥ २२॥

तज्जाड्यं तदसह्यशल्यशलकं न्यस्तं सुहृच्चेतसि
प्राज्ञिस्तद्गणितं विराचसमयैर्वैफल्यमेवायुषः।
यद्वैराग्यविवेकशून्यमनसामेते पशूनां यथा
यान्त्यायान्ति च चक्रनेमिचलनैर्निर्लक्षणानां क्षणाः॥ २३॥

पुण्यं सत्त्ववताम् श्रुतं मतिमताम् शीलं च विद्यावताम्
सर्वं भाग्यवताम् सुखं शमवतां नैव क्कचित् दुर्लभम्।
दुष्प्रापस्तु समस्तवस्तुवसतेः स्वल्पांशकोऽप्यायुषः
तद्यस्य क्षयमेति निष्फलतया शोच्याय तस्मै नमः॥ २४॥

वामावर्ते विषयजलधौ पूर्णलावण्यसारे
दर्पोत्सर्पद्विषममकराङ्कोद्भवक्षोभ्यमाणे।
नित्यासन्नप्रबलविरजप्रज्ज्वलद्वाडवाग्नौ
पुंसां सेतुस्तरणशरणे तीव्रवैराग्यमेव॥ २५॥

तस्माद्गृहाण प्रव्रज्यां राजपुत्र जितेन्द्रियः।
एताः स्त्रिय इव क्षिप्रं समगमसुखाः श्रियः॥ २६॥

क्रियताम् कुशलायैव ब्रह्मचर्यपरिग्रहः।
त्यज्यतामेष निःसारगृहसंसारदुर्ग्रहः॥ २७॥

इति श्रुत्वा भगवतः करुणाबह्रणं वचः।
प्रत्यभाषत तं नन्दः पूर्वप्रणययन्त्रितः॥ २८॥

सदा भवदुपायैव प्रव्रज्या भगवन् मम।
भिक्षुसंघोपकारार्थे गृह एवादरः परम्॥ २९॥

इत्युक्त्वा भगवद्वाक्यमतिक्रान्तुमनीश्वरः।
कृष्यमाणः प्रियाप्रेम्णा सोऽभूद्दोलाकुलाशयः॥ ३०॥

पुनः पुनश्चकारास्य भगवान् व्रतदेशनाम्।
उपकारोद्यताः सन्तश्चिन्तयन्ति न योग्यताम्॥ ३१॥

यदा नेच्छति नन्दस्ताम् प्रव्रज्यामजितेन्द्रियः।
तदास्य बह्गवद्वाक्यमपतद्वपुषि स्वयम्॥ ३२॥

नन्दः काषायावरणः पात्रपाणिः स तत्क्षणम्।
बभौ चाभीकररुचिर्महापुरुषलक्षणैः॥ ३३॥

स शासनाज्जिनस्याभूदारण्यपिण्डपात्रिकह्।
आकारादनगारताम् प्रयातः पांशुकूलिकः॥ ३४॥

प्रियामुवाह सततं श्यामां प्रव्रजितोऽपि सः।
शशाङ्क इव संव्यक्तां हृदये लाञ्छनच्छविम्॥ ३५॥

मनसः स्फटिकस्येव न विद्मः केन वर्त्मना।
रागः कोऽपि विशत्यन्तर्नापैति क्षालितोऽपि यः॥ ३६॥

विरहापाण्डुररुचिः संसक्तारुणचीवरः।
स संध्याभ्रकलङ्कस्य जहार शशिनः श्रियम्॥ ३७॥

विचरन् विरहाक्षमः स विस्मॄतधृतिर्वने।
जन्मविद्यामनङ्गस्य न विसस्मार सुन्दरीम्॥ ३८॥

संपूर्णचन्द्रवदनावदनध्याननिश्चलः।
अचिन्त्यच्चिरं तत्तदुपविष्य शिलातले॥ ३९॥

अहो भगवताप्येष कृतो यत्नादनुग्रहः।
नायाति मम वैमल्यं रागाधिष्ठितचेतसः॥ ४०॥

श्रुतं संसारचरितं निःसङ्गव्रतमास्थितम्।
तथापि मृगसावाक्षीं न विस्मरति मे मनः॥ ४१॥

कान्ताकुङ्कुमलग्नरागसुभगे गात्रे कृतं चीवरं।
तत्पीनस्तनमण्डलप्रणयिना पात्रं धृतं पाणिना।
रागोऽयं मम वर्धतेऽस्य यदि वान्यस्येव वृद्धिः परं
यद्बोधिव्यवधानभूतमनिशं ध्यानं तदालम्बनम्॥ ४२॥

क्षणेन मां प्राप्तमवेहि मुग्धे
तामेवमुक्त्वा गमने पुरस्तात्।
अहो मया दर्शनविघ्नभूतं
पश्चात् कृतघ्नव्रतमेतदात्तम्॥ ४३॥

नो गन्तव्यमिति प्रकम्पतरला वाक्यं यदूचे न सा
संत्यज्य व्यजनं स्थिते गुरुजने जग्राह पाण्यञ्चलम्।
यत्पादेन लिखन्त्यपि क्षितितलं मामौक्षतालक्षिता
तेनात्यन्तनिषेधमुग्धविधिना बद्धं तया मे मनः॥ ४४॥

मद्वियुक्ता न सा नूनं शेते शोकप्रलापिनी।
पुलिने चक्रवाकीव हर्म्ये हरिण्यलोचना॥ ४५॥

हा प्रिये तक्तसक्तेन कितवेनेव केवलम्।
श्रितं तच्चित्तचौरेण मिथ्याव्रतमिदं मया॥ ४६॥

त्यक्त्वा व्रतमिदं तावद् गच्छाम् इदयितान्तिकम्।
अनुरागाग्नितप्तानां तपस्तापो हि दुःसहः॥ ४७॥

राजपुत्री चिरायातं नृशंसमवलोक्य माम्।
मन्युना नवलग्नेन न जाने किं करिष्यति॥ ४८॥

न सर्वत्र विकाराय निकारः प्रेमदुःसहः।
दुर्निवारो भवत्येव स्नेहलीनो रजःकणः॥ ४९॥

यस्मिन् क्षणे भगवता पश्यामि रहितं वनम्।
मया तदैव गन्तव्यं गॄहमित्येष निश्चयः॥ ५०॥

अस्मिन्नेव शिलापट्टे रुचिरैर्गिरिधातुभिः।
लिखामि ताम् शशिमुखीं संर्पाप्यालम्बनं धृतेः॥ ५१॥

अथवा कथमालेख्यविषयं याति सा प्रिया।
सौन्दर्यबिद्नको यस्याः सुधाकुवलयेन्दवः॥ ५२॥

दृष्टिर्मुग्धकुरन्गसंचलदलिव्याप्तोत्पलोद्वातनी
लावण्योदधिकूलविद्रुमवनं बिम्बाधराग्रत्विषः।
निर्दोषामृतरश्मिसार्थसरणिः सा कापि वक्त्रद्युतिः
सान्दर्यं कथमति चित्रपदवी श्चर्यसारं वपुः॥ ५३॥

इति संचिन्त्य स शनैरालिलेख शिलातले।
सुन्दरीं मुखमुक्ताश्रुस्नातकम्पाकुलाङ्गुलिः॥ ५४॥

स संकल्पसमुद्गीर्णं प्रतिबिम्बमिवाश्रिताम्।
कृत्वा पुरः प्रियतमामूचेऽदर्बाष्पगद्गदः॥ ५५॥

प्रियामालिख्याहं निखिलसुखवृष्टिं नयनयो-
र्न पश्याम्युद्बाष्पः क्षणमपि शरच्चन्द्रवदनाम्।
अयं नूनं तन्वीविरहनिरपेक्षव्रतवतः
स्फुरत्तापः शापः किमपि मम पापादुपनतः॥ ५६॥

फुल्लाम्भोजवनत्विषा स्पृहावशासक्ताश्रुतोयं वपु-
स्तत्कालोपगतान्तरायजनितः कोपः समुत्सृज्यताम्।
हंहो सुन्दरि देहि मे प्रतिवचः किं मौनमालम्बसे
सत्यं त्वन्मयरागवीचरमिदं चित्तव्रतं मे व्रतम्॥ ५७॥

इति ब्रुवाणं तं दृष्ट्वा दूरादालिखितं च तत्।
सासूया भिक्षवोऽभ्येत्य भगवन्तं बभाषिरे॥ ५८॥

भगवन् दुर्विनीतस्य वात्सल्यादेव केवलम्।
शुनः कुसुममालेव प्रव्रज्येयं त्वयार्पिता॥ ५९॥

आखिल्य सुन्दरीमुखं नन्दः स्वैरं शिलातले।
तत्प्रलापजपासक्तो ध्यानालम्बनतां गतः॥ ६०॥

एतदाकर्ण्य भगवान् नन्दमाह्वाय्य कननात्।
किमेतदिति पप्रच्छ प्रियाविरहमोहितम्॥ ६१॥

सोऽब्रवीद् भगवन् सत्यं कान्तासक्तस्य मे परम्।
भिक्षूणां संमतेऽप्यस्मिन् वने न रमते मतिः॥ ६२॥

इति दन्दवचः श्रुत्वा तमूचे भगवान् जिनह्।
मीलयन्नेव वक्त्रेन्दुकान्त्या रागसरोरुहम्॥ ६३॥

साधो तावन्न युक्ता ते संरागानुगता मतिः।
विघ्नैर्नाकृष्यते चेतः कल्याणाभिनिवेशिनाम्॥ ६४॥

क्कायं योगस्तनुतृणतुलात्यक्तभोगाभियोगः
क्कायं निन्द्यः क्षणसुखलवास्वादसंवाद एषः।
जात्यैवायं हरति कुशलं दुस्तरो मारमार्गः
प्रेमान्धानाम् भवति सहसा दुःसहो योक्त्रजातः॥ ६५॥

इत्यस्य भगवान् कृत्वा चिरं वैराग्यदेशनाम्।
संस्थातव्यमिहेत्युक्त्वा स्वकृत्याय स्वयं ययौ॥ ६६॥

तमेवावसरं नन्दः संचिन्त्य गमनोचितम्।
प्रतस्थे स्वगृहं हृष्टः सुन्दरीदर्शनोत्सुकः। ६७॥

व्रजन् द्वारि पिधानाप्तैर्विहारैर्बहुभिश्चिरात्।
नगराभिमुखं मार्गं स कथंचिदवाप्तवान्॥ ६८॥

अथ विज्ञाय सर्वज्ञस्तं रागाद् गन्तुमुद्यतम्।
उवाचाभ्येत्य भगवान् नन्द तूर्णं क्क गम्यते॥ ६९॥

स जगाद वने तावत् भगवन् नास्ति मे रतिः।
न ह्यविश्रान्तचित्तानां क्रिया काचित् प्रसीदति॥ ७०॥

सा श्रीश्चामरहासिनी मणिमयी सा रम्यहर्म्यावली
सा बालानिललोलचारुलतिका कान्ता नवोद्यानभूः।
सा तन्वी कुसुमेषुकार्मुकलता क्षामोदरी सुन्दरी
नो जन्मान्तरवासना इव मनः सक्तं विमुञ्चन्ति मे॥ ७१॥

सरागेणैव मनसा ब्रहचर्यं चराम्यहम्।
व्रतपञ्जरबन्धेन विहङ्ग इव यन्त्रितः॥ ७२॥

त्यक्त्वा व्रजामि प्रव्रज्यामस्तु मे नरकोऽक्षयः।
न वीतरागतामेति मञ्जिष्ठारक्तमंशुकम्॥ ७३॥

इति ब्रुवाणमसकृत् स्वपदं गन्तुमुद्यतम्।
निवार्यानुग्रहधिया तमूचे भगवान् जिनः॥ ७४॥

मा कृथा विप्लवं नन्द निन्दितं हि श्रुताश्रुतम्।
विद्वज्जनोपदिष्टेन यथा याति पृथग्जनः॥ ७५॥

विवेकव्यस्तदोषाणां विदुषां शीलशालिनाम्।
निःसारसुखलाभेन नाकार्ये धीः प्रवर्तते॥ ७६॥

गाढरागगृहीतस्य जुगुप्सायतने परम्।
जधन्यकर्मण्यासक्तिः किं लज्जाजनने न ते॥ ७७॥

योनिजयोनिसंसक्ताः स्तनपस्तनमर्दिनः।
अहो बत न लज्जन्ते जन्मन्येव लयं गताः॥ ७६॥

सदासज्जनवर्जिता जननीजघनासक्तिः।
संमोहाहतचित्तानां पशूनामेव दृश्यते॥ ७९॥

रामारमणमानोऽयं विरम्य त्यज्यतां त्वया।
भोगैः सह भुजङ्गानां दृष्टो भवबिले क्षयः॥ ८०॥

जघन्या जनयत्येव न कस्य विरतिं रतिः।
यस्यां भवति पर्यन्तेष्वपि नैव पराङ्मुखः॥ ८१॥

गृहजालविमुक्तस्त्वं किं तत्रैवाभिधावसि।
न हि निर्गस्य सारङ्गः पुनर्विशति वागुरां॥ ८२॥

इति वाक्याद् भगवतः शासनेन नियन्त्रितः।
चिन्तयन् सुन्दरीं नन्दः प्रविवेशाश्रमं पुनः॥ ८३॥

ततः कदाचिदादिश्य नन्द माश्रममार्जने।
आसनानुग्रहव्यग्रः प्रययौ भगवान् पुनह्॥ ८४॥

तच्छासनात् प्रवृत्तस्य नन्दस्याश्रमशोधने।
नो भूतलादपययौ रजो राग इवाशयत्॥ ८५॥

तस्याहर्तुं गतस्याथ सलिलंपारभागिकम्।
मुहुः पूर्णसमुत्क्षिप्तह् शून्य एवाभवद्धटः॥ ८६॥

तेन विघ्नेन गमने सुतराम् खिन्नमानसः।
त्यक्त्वा तुप्रययौ नन्दः सुन्दरीदर्शनोत्सुकः॥ ८७॥

अथ विज्ञाय सर्वग़्यस्तं यान्तं दिव्यचक्षुषा।
बभाषे सहसाभ्येत्य स्तम्भमानमनोरथह्॥ ८८॥

पात्रयोगेन तप्तस्य श्यामरक्तरुचेः परम्।
अहो स्नेहकलङ्कस्ते दीपस्येव न शाम्यति॥ ८९॥

अलं वामाभिलाषेण नीलीराग इवैष ते।
संसक्तः कोऽपि हृदये यन्नाद्यापि विरज्यसे॥ ९०॥

अन्धीकरोति प्रारम्भे रतिस्तत्कालकातरम्।
आलिङ्गति जुगुप्सेव वृत्ते मुख्याङ्गसंगमे॥ ९१॥

विषयाख्वादसङ्गेन पापमित्रैरिवेन्द्रियैः।
दुःसहव्यसनावर्ते पात्यते नरके नरह्॥ ९२॥

अधिवासयति स्पर्शलेखेनापि कुसंगमः।
प्रक्लिन्नमत्स्यकुणपात् पूतिगन्ध इवोद्गतः ॥९३॥

कल्याणमित्रसंपर्कः सर्वथा कुशलावहः।
शुभामेद इव व्याप्तो यः करोति महार्हताम्॥ ९४।

इत्युक्ते तस्य भगवान् साक्षात्स् अदसतोः पथि।
घ्राणस्पर्शेन संदर्श्य चक्रे तत्सङ्गदेशनाम्॥ ९५॥

अथ नन्दं समादाय भगवान् गन्धमादने।
ययौ विरिञ्चिरमरीबालव्यजनवीजितः॥ ९६॥

तत्र दावानलप्लिष्टामनिष्टक्लिष्टविग्रहाम्।
काणां कर्मटीकामस्मै दर्शयित्वावदज्जिनः॥ ९७॥

इमां पश्यसि किं नन्द मान्द्यनिन्द्यतराकृतिम्।
कस्मैचिदुचिता चेयं रोचते प्रियदर्शना॥ ९८॥

सत्ता सदसतोर्नास्ति रागः पश्यति रम्यताम्।
स तस्य ललितो लोके यो यस्य दयितो जनः॥ ९९॥

पक्षपातं समृत्सृज्य सत्यं नन्द त्वयोच्यताम्।
अस्यास्तस्याश्च सुन्दर्या लावण्यस्य किमन्तरम्॥ १००॥

अनर्थित्वाद्वयं नैव सौन्दर्यान्तरवेदिनः।
अर्थिप्रियत्वमायाति प्रार्थितं तच्च चारुताम्॥ १०१॥

पश्याम्यहं विशेषं तु तस्या नास्याश्च कंचन।
रम्यत्वं मांसवर्मास्थियन्त्रे समयमात्रकम्॥१०२॥

इति पृष्टो बह्गवता नन्दस्तं प्रत्यभासत।
अत्यन्तानुचितः प्रश्नः कोऽपि गौरवयन्त्रितः॥ १०३॥

किमेतद् भगवान् वक्ति केयं शोके बिडम्बना।
क्कापि वा विश्वगुरवो विनेयाः प्रभविष्णवह्॥ १०४॥

रतिः साधिकसुन्दर्याः परभागेण रज्यते।
यां दृष्ट्वा जगतां जेता न रतिं स्मरति स्मरः॥ १०५॥

ज्योत्स्नयेव न तत्कान्त्या नोदते कुमुदाकरः।
गुणान्तरं न जानाति प्रसिद्धिशरणो जनः॥ १०६॥

बद्धं तया वदनसौरभसारहार -
मालोक्य पुष्यनिचयं ऱ्हिथुकेशपाशे।
मन्ये विलासगतिलोवनकान्तिचौरैः
भीत्येव हंसहरिणैर्वनमिव यातम्॥ १०७॥

अनल्पैः संकल्पैर्बहुविधविकल्पैरनुपमा
न सा सारङ्गाक्षीलिखितुमपि शक्या परिचितैः।
तुलारोहे य्स्या वदनपरभागे लघितरः
स नूनं ताराणां गगनमधिरूढः परिवृढः॥ १०८॥

पुण्यप्रह्वं ललितललितभ्रूलतालास्यलीला-
रम्यं तस्या यदि न वदनं नन्दनं लभ्यते तत्।
प्रव्रज्येयं सुकृतमधिकं किंकरी किंकरी मे
कस्मादेतं व्रतपरिकरं भारभूतं वहामि॥ १०९॥

इति नन्दवचः श्रुत्वा भगवान् रागनिर्भरम्।
उपक्षिप्य प्रभावेत त निनाय सुरालयम्॥ ११०॥

अदर्शयच्च तत्रास्य लीलोद्याने शतक्रतोः।
सुधामन्थसमुद्भूताः कान्तास्त्रिदशयोषितः॥ १११॥

अरुणैः कान्तिसंतानैः पादपद्मवनोदितैः।
अनुयाता इवाम्भोधिकूलविद्रुमकाननैः॥ ११२॥

विशाललास्यसचिवैः पाणिभिर्विजिताम्बुजैः।
संसक्तैः सहजस्येव पारिजातस्य पल्लवैः॥ ११३॥

कान्तिमाधुर्यललितैर्मदनानन्दबाण्धवैः।
हेलानिमीलिताम्भोजवदनैश्चन्द्रसुन्दरैः॥ ११४॥

संमोहनैर्जीवनैश्च कृष्णसारैर्विलोकनैः।
कालकूटच्छदस्पृष्टैरमृतोघैरिवावृताः॥ ११५॥

पूर्णयौवनलावण्याः सहसैव विलोक्य ताः।
नन्दः सानन्दवदनः स्वेदस्नात इवाभवत्॥ ११६॥

पद्माननासु विपुलोत्पललोचनासु
कुन्दस्तिमातु निबिडस्तबकस्तनीषु।
नन्दस्य तासु हृदयं युगपन्निपत्य
दोलाविलासतरलालितुमवाप॥ ११७॥

ततः प्रोवाच बह्गवान् नन्दं तद्गतमानसम्।
आसां संदर्शने नन्द प्रीत्या ते रमते मतिः॥ ११८॥

आसां तस्याश्च सुन्दर्या लावण्ये कियदन्तरम्।
उत्कर्षः परभागेण स्फुटमेवाभिभाव्यते॥ ११९॥

निरस्तसुन्दरीरूपं रूपमप्सरसाम् यदि।
तदेता एव कालेन करिष्यामि त्वदाश्रयाः॥ १२०॥

आरोगेणैव मनसा ब्रह्मचर्यं प्रसन्नधीः।
चर तावत्ततस्तेऽहं दास्याम्यप्सरसाम् गणम्॥ १२१।

एवं भगवतो वाक्यान्नन्दः संजातनिश्चयः।
तथेत्युक्त्वा व्रते चेतश्चक्रे स्वर्गाङ्गनाशया॥ १२२॥

मन्दादरः स्वदारेषु सोऽभूत् तत्संगमेच्छया।
गुणप्ण्यतुलावृत्तेर्नास्ति स्नेहस्य सत्यता॥ १२३॥

अहो चिस्मृतसंवासप्रवासपरिशोषिता।
पुंसामाभ्यासिकी प्रीतिः सहसान्यत्र धावति॥ १२४॥

क्षणयौवनरम्याणि प्रेमाणि प्रणयव्ययैः।
न सत्यानि न नित्यानि न सुखानि शरीरिणाम्॥ १२५॥

ततो भगवता नन्दः क्षणानीतः स्वमाश्रमम्।
तन्निश्चयाद् ब्रह्मचर्यं चचार नियतव्रतः॥ १२६॥

स चिसस्मार सुन्दर्याः कान्तिसंपदमन्यधीः।
क्षणप्रमुषिता प्रीतिर्मलं याति गुणेष्वपि॥ १२७॥

ततः कदाचिद्विचरन् नन्दः क्कापि व्यलोकयत्।
करालनरकासक्तां धीमान् कुम्भीभृतां भुवम्॥ १२८॥

ताम् विलोक्यैव साकम्पः किमेतदिति दुःखितः।
स पप्रच्छ तदासक्तान् घोरनरककारणम्॥ १२९॥

ते तमूचुरियं भूमिस्तप्तकुम्भीशताचिता।
कल्पिता राजपुत्रस्य नन्दस्यानन्दरागिणः॥ १३०॥

मिथ्याव्रतः स नाद्यापि भजते वीतरागताम्।
ब्रहम्चर्यं चरत्येव स्वर्गस्त्रूसंगमाशया॥ १३१॥

मिथ्याव्रतानाम् लुब्धानां रागद्वेषकषायिणाम्।
एतासु नित्यतप्तासु कुम्भीष्वेवाक्षयः क्षयः॥ १३२॥

इति नन्द समाकर्ण्य जातरोमाञ्चकञ्चुकह्।
तत्र च्युतामिव तनूं पश्चात्तापादमन्यतः॥ १३३॥

समम्येत्य त्यक्तरागसंवासवासनह् स्वयम्।
बभूवानुत्तरब्रह्मचर्यपर्याप्तांयमः॥ १३४॥

घनमोहक्षयात्तस्य विमुक्ते संशये ततः।
महः प्रसादमापेदे शरदीवेदधेः पयः॥ १३५॥

निष्कामः प्रशमं प्राप्तः परां निष्ठामुपागतः।
शुद्धधीः स समभ्येत्य भगवन्तमभाषत॥ १३६॥

नाप्सरोभिर्न सुन्दर्या भगवन् कृत्यमस्ति मे।
एताः पर्यन्तविच्छायाः सपाता विषयश्रियः॥ १३७॥

यथा यथेयं भावानां भाव्यते निःस्वभावता।
तथा तथा प्र्क़्सीदन्ति निरावरणवृत्तयः॥ १३८॥

इति दन्दस्य वदतः प्राप्तस्यार्तपदं शनैः।
भगवान् निर्वाणशुद्धामस्य सिद्धिममन्यत॥ १३९॥

केषां कुशलमूलानां नन्देनासादितं फलम्।
इति भिक्षुभिरभ्येत्य पृष्ठस्तानवदज्जिनः॥ १४०॥

जन्मान्तरार्जितैः पुण्यैः सुकृताभ्यासकारिणा।
प्राप्ताः कुशलमूलानां नन्देन फलसंपदः॥ १४१॥

विपुलविमल वंशे जन्म स्मरप्रतिमा तनुः
सुरजनसखी लक्षी वृत्तिः प्रियाः सततं सताम्।
प्रशमसलिलस्नातं चेतः स्वभावगतिर्गतिः
कुशलकुसुमस्येयं पुंसां विशालफलोद्गतिः॥ १४२॥

स्तूपे विपश्यिनः सम्यक्संबुद्धस्यादरः पुरा।
नगर्यामरुणावत्यामरुणेन महीभूहा॥ १४३॥

क्रियमाणो मणिमये मैत्रो नाम द्विजन्मजः।
महतः पुण्यभोगस्य भागी कारकताम् ययौ॥ १४४॥

तत्पुण्यप्रणिधानेन जातो गॄहपतेः कुले।
स एव भिक्षुसंघस्य जन्तुकास्नानसत्रकृत्॥ १४५॥

स पुण्यशीलः प्रत्येकबुद्धोपस्थायकह् पुरा।
स्तूपं चक्रे शोभमानं मालभिवरणोज्ज्वलम्॥ १४६॥

तत्पुण्यप्रणिधानेन कृकेः काशीपतेः सुतः।
सोऽभ्वद्द्युतिमान् नाम दिव्यलक्षणलक्षितः॥ १४७॥

काश्यपस्यार्हतः सम्यक्संबुद्दस्यान्तनिर्वृतौ।
सप्तरत्नमये स्तूपे कृते काशीमहीभुजा॥ १४८॥

तत्सूनुर्ध्युतिमान् हौमच्छत्रमारोप्य भास्वरम्।
जातस्तत्प्रणिधानेन नन्दः शाक्यमुकेऽधुना॥ १४९॥

इति सुकृतसमुत्थैः पूर्वजन्वक्रमाप्तैः
किमपि विपुलपुण्यैरेव नन्दः प्रपेदे।
कुलममलमुदारं रूममग्र्यं च भोगं
शमपरिचितमन्ते सत्पदं सौगतं च॥ १५०॥

कथयोत्वेति भगवान् नन्दकल्याणकारणम्।
चकार भिक्षुसंघस्य तां तां सुकृतदेशनाम्॥ १५१॥

इति क्षेमेन्द्रविरचितायाम् बोधिसत्त्वावदानकल्पलतायां
सुन्दरीनन्दावदानं नाम दशमः पल्लवः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project