Digital Sanskrit Buddhist Canon

५.चन्द्रप्रभावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
५ चन्द्रप्रभावदानम्।

दुग्धाब्धिर्विबुधार्थनातिविधुरः क्षुब्धश्चकम्पे चिरं
कम्पन्ते च निसर्गतः किल फलोत्सर्गेषु कल्पद्रुमाः।
एकः कोऽपि स जायते तनुशतैरभ्यस्तदानस्थिति-
र्निष्कम्पः पुललोत्करं वहति यः कायं प्रदानेष्वति॥ १॥

अस्ति कौलासहासिन्यामुत्तरस्यामनुत्तरा।
दिशि भद्रशिला नाम भुवनाभरणं पुरी॥ २॥

यस्यां सितयशःपुष्पाः सफलाः सर्वसंपदः।
दानोद्यानलताः प्रीत्यै बभूवुः पुरवासिनाम्॥ ३॥

यत्र त्रिपुरजिन्नेत्रशिखित्रस्तो मनोभवः।
अबलाभिश्चलक्रीडभ्रूभङ्गैरेव रक्ष्यते॥ ४॥

मुक्ताजालोज्ज्वला यत्र् अभाति हेमगृहावली।
मेरोः शिखरमालेव विस्फुतत्स्फीततारका॥ ५॥

तस्यां चन्द्रप्रभः श्रीमानभूद् भूमिभृतां वरः।
कौलास इव यः कान्त्या चकार दिनचन्द्रिकाम्॥ ६॥

यस्य देहप्रभापूरैः पूर्णिन्दुद्युतिहारिभिः।
निशासु दीपकाभासु नाभूतु स्नेहगुणक्षयः॥ ७॥

स्मरज्वरं भजन्तेऽस्य दर्शनेनैव तारकाः।
इति च्छत्रछलादस्य छादितं खमिवेन्दुना॥ ८॥

प्रदिशत्येष सततं श्रियं सत्कोशसंश्रयाम्।
इति तद्दर्शनेनैव संकोचं प्राप पद्मिनी॥ ९॥

सेनाहंकारमुत्सृज्य त्यागशुभ्रश्रिया श्रियः।
निर्दिष्टाश्छत्रमुकुटप्रकटाः पुरव्षिनाम्॥ १०॥

शुशुभे विभवस्तस्य पुण्यालंकारणोन्नतेः।
आरोहति पराम् कोटीं नम्रस्य धनुषो गुणः॥ ११॥

चत्वारिंशत्सहस्राणि वत्सराणां शताणि च।
बभूव देहिनामायुस्तस्य काले कलिद्विषः॥ १२॥

तस्य षष्टिसहस्राणि पुरीणां पूर्णसंपदाम्।
बभूवुर्लोकपालस्य लोकपालाध्काश्रियः॥ १३॥

यज्वानः कीर्तितिलकास्तस्य पुण्यविभूषणाः।
यज्ञधूमलताभङ्गैर्बभुर्लोलालकाः श्रियः॥ १४॥

तस्य संपत्कुमुदिनीविकासेन सदोदितः।
अभून्मन्त्री महाचन्द्रश्चद्रलोक इवोज्ज्वलः॥ १५॥

येन निश्चललक्ष्येण प्रभोः प्रज्ञापताकया।
राज्याब्धिकर्णधारेण पारमुत्तरितं यशः॥ १६॥

महीधराभिधश्चासौ बभूवामात्यकुञ्जरः।
भूमिभारसहस्तस्य दिङ्गाग इव पञ्चमह्॥ १७॥

मन्त्रणाभिन्नमन्त्रस्य यस्य नीतिबृहस्पतेः।
त्याजिताः प्रतिसामन्ताः शौर्यं विषमिवाहयः॥ १८॥

तेनामात्येन स नृपः स च राज्ञा विभूषितः।
गुणः सत्पुरुषेणेव गुणेनेव च सज्जनः॥ १९॥

कृतज्ञः सरलः स्वामी सद्भृत्यो भक्तिनिर्भरः।
सुकृतप्रभवेणैव भाग्ययोगेन लभ्यते॥ २०॥

इयमेव चिरभ्रान्तिविश्रान्तिः सर्वसंपदाम्।
यद्गुणज्ञतया वेत्ति स्वामिसत्पुरुषान्तरम्॥ २१॥

तौ कदचिद्ददृशतुः स्वप्नमन्ये च मन्त्रिणह्।
क्षयो यस्य फलं दानव्यसनेन महीपतेः॥ २२॥

तौ दृष्ट्वा दुर्निमित्तानि प्रादुर्भूतानि शङ्कितौ।
व्यग्र बभूवतुर्नित्यं शान्तिस्वस्तिककर्मसु॥ २३॥

निमित्तदर्शनोद्विग्नास्तपिवनगता अपि।
विश्वामित्रप्रभृतयः स्वामीत्यूचुर्महर्षयः॥ २४॥

अत्राण्तरे ब्रह्मबन्धुः प्राग्जन्मब्रह्मराक्षसः।
रौद्राक्षो नाम मात्सर्यक्रौर्यदौर्जन्यदुःसहः॥ २५॥

श्रुत्वा दानोद्भवाम् कीर्तिं राग़्यः सर्वगुणोज्ज्वलाम्।
निर्गुणः स गुणद्वेषि संतप्तः समचिन्तयत्॥ २६॥

अहो बतास्य नृपतेर्गीयते गगने यशः।
अनिशं सिद्धगन्धर्वगीर्वाणललनागणैः॥ २७॥

सदा विशन्ति मे कर्णे तद्गुणस्तुतिसूचयः।
किं करोमि प्रकृत्यैव सहे नान्यगुणोन्नतिम्॥ २८॥

तद्गत्वा दानशीलस्य तस्य दानार्जितं यशः।
करोम्येष शिरोयाच्ञाप्रतिषेधेन खण्डितम्॥ २९॥

यशस्त्याज्यते दानोत्थं शिरश्चेन्न प्रदास्यति।
अथ दास्यति विद्वेषप्रशान्तिर्मे बह्विष्यति॥ ३०॥

इति संचिन्त्य सुचिरं स कौर्यकठिनः शठः।
गन्धमादनपादाण्तवासी भद्रशिलां ययौ॥ ३१॥

इन्द्रजालप्रयोगज्ञः स कृत्वा प्रशमोचितम्।
वेषं कलुषसंकल्पः पुरीं प्राप महीपतेः॥ ३२॥

अस्मिन् भववने नित्यं गुणदोषसमाकुले।
कल्पवृक्षाः प्रजायन्ते जायन्ते च विषद्रुमाः॥ ३३॥

अशेषनाशपिशुनैर्घोरसंत्रासकारिभिः।
दुर्निमित्तैरिव खलैः खेदः कस्य न दीयते॥ ३४॥

गुणिद्वेषः प्रकृत्यैव प्रकाशपरिपन्थिनः।
दोषआश्रयस्य को भेदः खलस्य तिमिरस्य च॥ ३५॥

स्वच्छन्दघाती साधूनां विद्वेषविषदुःसहः।
दीर्घपक्षः खलव्यालकरालः केन निर्मितः॥ ३६॥

तस्मिन् प्रविष्टे नगरं रूपिणी पुरदेवता।
उवाचाभ्येत्य भूपालं संत्रासतरलेक्षणा॥ ३७॥

शिरोयाचक एष त्वां ब्रह्मबन्धुरुपागतः।
वध्योऽसौ जीवितोच्छेदी जगतो जीवितस्य ते॥ ३८॥

निरुद्धो नगरद्वारि स मया मलिनाशयः।
मम तद्दर्शनत्रस्तं धृतिं न लभते मनः॥ ३९॥

इति ब्रुवाणां भूपालः प्रोवाच पुरदेवताम्।
अर्थिसंरोधसंजातलज्जया नमिताननः॥ ४०॥

देवि याच्ञाभियातोऽसौ प्रविशत्वनिवारितः।
दिर्घोच्छ्वासं सहे नाहमाशावैफल्यमर्थिनः॥ ४१॥

याच्ञा प्रणयिनामर्थे पुण्यप्राप्तस्तनुव्ययः।
युगसंख्यामपि स्थित्वा विपद्यन्ते हि देहिनः॥ ४२॥

एतदेव सुजातानां पूज्यं जगति जीवितम्।
यदेषामग्रतो याति नार्थी भग्नमनोरथह्॥ ४३॥

क्रियतामानुकूल्यं मे भवत्या कुशलोचितम्।
आशाविघाते संतापस्तस्य तूर्णं निवारताम्॥ ४४॥

इति भूमिभृतः श्रुत्वा वचो निश्चलनिश्चयम्।
जगामादर्शनं देवी चिन्तासंतापमानसा॥ ४५॥

अथाययौ स कुटिलः खलः क्रकचचेष्टितः।
दारुणः सरलस्यैव च्छेदाय स्वयमुद्यतः॥ ४६॥

तस्मिन्नृपगृहं प्राप्ते विवृतद्वारमर्थिनाम्।
भूर्भूपतिक्षयभयाच्चकम्पे सधराधरा॥ ४७॥

नरेन्द्रचन्द्रमासाद्य स राहुरिच दुर्मुखः।
समभ्यधाद्विधाय प्रागशिवार्थामिवाशिषम्॥ ४८॥

स्वस्ति राजन् द्विजन्मा हि विजने सिद्धिसाधकः।
प्रातस्त्वामीप्सितप्राप्त्यै सर्वार्थिसुरपादपम्॥ ४९॥

दृष्टिर्वृष्टिरिवामृतस्य महती सौजन्यमित्रं मनः
क्षान्तिः क्रोधरजःप्रमार्जनदी दुःखार्तमाता मतिः।
लक्ष्मीर्दानजलाभिषेकविमला सत्योपयुज्क्तं वचः
नित्यं यस्य स एक एव हि भवान् जातो जगद्बान्धवः॥ ५०॥

सिद्धये कथितं कैश्चिच्चक्रवर्तिशिरो मम।
दीयतां त त्वदन्यो वा दातुं शक्नोति कः परह्॥ ५१॥

सन्ति स्पष्टार्थदाश्चिन्तामणिकल्पद्रुमादयः।
दुर्लभार्थप्रदातारो विरलास्तु भवद्विधाः॥ ५२॥

इत्युक्ते तेन नृपतिर्निष्कम्पविपुलाशयः।
अर्थिसंदर्शनानन्दनिर्भरस्तमभाषत। ५३॥

धन्योऽहं यस्य मे ब्रह्मन्नर्थिनामर्थसिद्धये।
निर्विकल्पोपकरणं व्ययं याति सुजीवितम्॥ ५४॥

कदा प्राणाः परार्थे मे प्रयान्तीति मनोरथः।
किमेतानि न पुण्यानि प्रार्थ्यन्ते ते यदि त्वया॥ ५५॥

आहोपकरणसिद्ध्यै श्लाघ्यं मे गृह्यतां शिरः।
तत्तदेव स्थिरं लोके यद्यदर्थिसमर्पितम्॥ ५६॥

इत्युक्ते हर्षयुक्तेन भूभुजा सत्त्वशालिना।
तमूचतुर्महामात्यौ महाचन्द्रमहीधरौ॥ ५७॥

निजजीवितरक्षैव धर्मस्ते प्रथमः प्रभो।
त्वयि जीवति जीवन्ति सर्वे जगति जन्तवः॥ ५८॥

न दातुमर्हसि शिरः सर्वाधारं हि ते वपुः।
दीयतां ब्राह्मणायास्मै हेमरत्नमयं शिरः॥ ५९॥

सर्वार्थैरर्थिसार्थानां पूर्यन्ते यैर्मनोरथाः।
तेषां संरक्षणेनैव सर्वं भवति रक्षितम्॥ ६०॥

संकल्पोऽयं द्विजस्यास्य क्रूरः कलुषचेतसः।
मूलच्छेदोपजीव्यो हि न कल्पतरुरर्थिनाम्॥ ६१॥

हेमरत्नशिरः प्राप्य यात्वेष शिरसास्य किम्।
चिन्तामणिर्विनिष्प्रेक्ष्यो भुज्यते न बुभुक्षितैः॥ ६२॥

इत्युक्ते मन्त्रिमुख्याभ्याम् हेमरत्नमयं शिरः।
सिद्धो नैवोपयोग्यं तन्ममेति ब्राह्मणोऽब्रवीत्॥ ६३॥

अथोन्मुमोच नृपतिर्मुकुटं मौक्तिकांषुभिः।
श्रिरोविरहदुःखेन साश्रुधारमिवाभितः॥ ६४॥

मुकुटानि क्षणे तस्मिन्निपेतुः पुरवासिनाम्।
दिग्दाहोन्मुखतुल्याभिरुल्काभिः सह भूतले॥ ६५॥

राज्ञा प्रदाने शिरसः सर्वथा परिकल्पिते।
तौ चक्रतुस्तनुत्यागं मन्त्रिणौ द्रष्टुमक्षमौ॥ ६६॥

रत्नगर्भमथोद्यानं प्रविश्य पृथिवीपतिः।
उत्फुल्लचम्पकस्याधः शिरश्छेत्तुं समुद्ययौ॥ ६७॥

उद्यानदेवता दृष्ट्वा तं शिरश्छेत्तुमुद्यतम्।
मा कृथाः साहसं राजन्नित्युवाच शुचाकुला॥ ६८॥

कम्पमानाः प्रलापिन्यस्तं मत्तालुकुलस्वनैः।
न्यवारयन्नवलता लोलपल्लवपाणिभिः॥ ६९॥

सोऽपि निश्चलसंकल्पः प्रसाद्योद्यानदेवताम्।
विमलां बोधिमालम्ब्य बभूव प्रणिधानवान्॥ ७०॥

अस्मिन् रत्नमयोद्याने पुण्यराशिसमुन्नतम्।
स्तूपमस्तु प्रशास्तुस्तु सत्त्वसंतारणोचितम्॥ ७१॥

यत्किंचिदर्जितं पुण्यं संकल्पेन मयामुना।
भवन्तु तेन संसारे निःसंसाराः शरीरिणः॥ ७२॥

ध्यात्वेति चम्पकतरोः शाखायां नृपतिः शिरः।
बद्ध्वा कचकलापेन छित्त्वा प्रादाद्द्विजन्मने॥ ७३॥

अथ नरपते सत्त्वोत्साहस्फुटप्रणिधानतः
किमपि विमलैः पुण्यालोकैर्दिगन्तविसारिभिः।
विगलितमहामोहौघान्तः श्रितः परिनिर्वृतिं
प्रविरतभवाभ्यासायासः क्षणादबह्वज्जनह्॥ ७४॥

इति प्राग्जन्मवृत्तान्तकथया भगवान् जिनः।
भिक्षूणाम् विदधे शुद्धदानसद्धर्मदेशनाम्॥ ७५॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां
चन्द्रप्रभावदानं नाम पञ्चमः पल्लवः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project