Digital Sanskrit Buddhist Canon

वसन्ततिलका (Vasantatilakā)

Technical Details
  • Text Version:
    Roman
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2025
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

p.1


वसन्ततिलकायां

प्रथमो निर्देशः


ओं नमः श्रीवज्रसत्त्वाय।


समविषममहासुखसप्तत्रिंशन्महाबोधि पक्षस्थ धर्मस्वभाव स्थितं स्वाङ्गनाडी चतुश्चक्रमुख्यं सपञ्चस्वरद्वादश मात्राश्च(च)तुस्त्रिंशदाभूषितव्यञ्जनं कायवाक्चित्त भेदस्थितानां च पीठादिकानां दशानां भुवामीश्वरं सर्वगं सर्वजन्तु स्वहृन्मध्यगं व्योमरूपं परं शान्तम्॥१॥

रहस्यदीपिकाटीका

ओं नमः श्रीवज्रडाकाय

षट्त्रिंशत्संविदाऽभिन्न स्वभावं हेरुकं प्रभुम्।

प्रणम्य विवरिष्यामि वसन्ततिलकां क्रमात्॥

चतुर्थमहामुद्रासिद्धिप्राप्तः स्वपरार्थसम्पादनबद्धकक्षो विचित्राद्भुतयोगिनीतन्त्रोपदिष्ट - विशिष्टचरित्र संदर्शनावर्जितविनेयलौकिकलोकोत्तरचमत्कारविकसत्स्व-


p.2


शेमुषीप्रतिभासमानविविधोपदेशो द्वितीयश्रीहेरुक इव प्रत्यक्षद्दश्यः स्वयं प्रतिभासमानमाम्नायविशेषं तदर्थिभ्यः प्रकाशनाशयेन कृतोत्साहः श्रीकृष्णपादनाममहाचार्य इमामध्यात्मक्रमेण भगवतः श्रीहेरुकस्य साधनोपायिकां वसन्ततिलकाभिधानामारिप्सुः स्वरूपानुस्मृतये स्वरूपानुस्मृतये स्वरूपाव्यतिरिक्तं तमेव स्वाभायुक्तं नमस्कर्तुं समविषमेत्यादिना साधनोपायिकायां(याः) पीठिकां रचितवान्।

तत्रादौ तावदभिधाना दीन्युच्यन्ते। वसन्ततिलकेत्यभिधानम्, निष्पन्नक्रमोऽभिधेयः, वाच्यवाचकल्लक्षणः सम्बन्धः शब्दार्थयोः, सामान्यलक्षणतः सुखावबोधः प्रयोजनम्। सम्यग्ज्ञानपूर्विका महामुद्रासिद्धिपुरस्सरसकलजगदर्थसम्पत्तिस्तत्प्रयोजनमिति संक्षेपः।

तं श्रीहेरुकाभिधानं प्रणम्य वसन्ततिलकां वक्ष्य इति सम्बन्धः कीदृशम् ? समविषमेत्यादि। समा उपायस्वभावाः, विषमाः प्रज्ञास्वभावाः, महासौख्यास्तदद्वयरूपिणो य एते सप्तत्रिंशद्बोधिपक्षाः पञ्चमार्ग संगृहीता [ः] कायानुस्मृत्युपस्थानादारभ्य सम्यक्समाधिपर्यन्ताः स्वभावा यस्य, तेनैव रूपेण यः स्थितः, तम्। तत्र समा द्वाविंशतिधर्माः, लौकिकमार्गसंगृहीतत्वात्। विषमाः पञ्चदशधर्माः, लोकोत्तरमार्ग-संगृहीतत्वात्। अथवा समाः सव्यनाडीप्रभवाः संविदः, विषमा वामनाडीप्रभवाः। चक्षुरादि[षड्] विज्ञानानां प्रत्येकमा [त्येकं चतुरा] नन्दादिभेदाश्च(च्च)तुविंशतिरानन्दाः, चक्रचतुष्टये प्रवेशादित्रय [प्रवेश-स्थिति-उत्थापन]क्रमेणानन्दादित्रयभेदाद् द्वादशानन्दाः, सर्वाङ्गलयादेकः। एवं सप्तत्रिंशद्बोधिपक्षधर्मस्वभावस्थितो भगवान् सहजैकमूर्तिः। बहिरपि तावतीभिर्डाकिनीभिरु(र्यु)क्तः।

तदेव चक्रेश्वरत्वं प्रतिपादयितुमाह- स्वाङ्गनाडीत्यादि। स्वेष्वङ्गेष्वष्टसु कायद्वारेषु या एता माड्यो दर्शन-श्रवण-मोदनास्वादन-स्पर्शनव्यापाराः काकास्यादिरूपाः, तथा चत्वारि चक्राणि निर्माणादीनि नाभिहृत्कण्ठमूर्द्धस्थानि यथाक्रमं निर्माणधर्मसंभोग-स्वभावकायस्वभावानि, तेषु ज्ञानचित्तवाक्कायचक्रात्मकेषु मुख्यं संवृतिपरमार्थाभिन्न-बोधिरूपहृदयरूपतया स्वामिभूतम्।

मन्त्रमूर्तित्वेनापि तत्स्वभावमाह - सपञ्चस्वरद्वादशमात्राचतुस्त्रिंशदाभूषितव्यञ्जनम्। पञ्चस्वरपदस्यैकशेषाद् दश संपद्यन्ते। तत्र धर्मचक्र मध्ये दिग्दलेषु चतुर्षु च यथा[क्रमं] हूँ ओं आः ह्रीं खँ इति स्वरोपलक्षितानां तथागतबीजानां न्यासात् 


p.3


स्कन्धविशुद्धिः, संभोगचक्रेऽपि औँ आ ई ऊ ऐ बीजानां पञ्चानां न्यासात् पञ्चधातुविशुद्धिः, तथा द्वादशमात्रा नपुंसकचतुष्टयवर्जिता वामायामधोमुखास्ता एव दक्षिणस्यामूर्द्ध(र्ध)मुखाश्चतुर्विशत्या ककारादिभिरूर्ध्वाधोमुखैर्मकारस्वभावानुस्वार-रञ्जितैः परिवृताः। तथा ता एव नपुंसकसहिताः षोडशद्विगुणीभूता महासुखचक्रे ऊर्ध्वाधोऽक्षरवर्जिताः। कादयश्च द्वात्रिंशद्द्विगुणीभूता न्नि निर्माणचक्रे। चतुविंशतिनाडीन्यासपक्षे य र ल वा धर्मचक्रकोणेषु ऊष्माणस्तद्बहि[ः] भाजनरूपाः स्थिताः। चतुर्णामपि चक्राणां मध्ये स्वराद्य-मेघनाद-ब्रह्म-अनाहतना(हता)क्षराणि। रेफो जालन्धरे क्षकारोऽधोद्वाराग्र इति। एतैर्भूषितं मन्त्रोलिरूपम्।

दशभूमीश्वरत्वमस्य प्रतिपादयितुमाह - कायवाक्चित्तभेदस्थितानां च पीठादिकानां दशानां भुवामीश्वरम्। अन्यच्च कीदृशं प्रणम्य वसन्ततिलकां वक्ष्ये- प्रमुदितादि स्वभावा या एता दश बोधिसत्त्वभूमयः पीठाद्या कायादिचक्रेषु विलोमेन भेदेन स्थिताः, शिर‍आदिस्थानेष्वभेद्यादिरूपा नाड्यस्तासामीश्वरः प्रभुः, तम्। इह बोधिसत्त्वभूमयो दश, यासु बोधिसत्त्वः क्लेशज्ञेयावरणं प्रदहित्वा सत्यं पश्यति। अविकल्पधातुसाक्षात्कारात् त्रिकल्पा संख्येय प्राप्यसंबोधिश्च भवति,

चित्तोत्पादा(दो धिमोक्षोऽसौ शुद्धाध्या शयिकोऽपरः।

वैपाक्यो भूमिषु मतस्तथाव रणवर्जितः॥

इति वचनात्। इह तु पुल्लीरादिसंकेतितदशभूमिसंचारसाध्यलयादि स्वभावकायत्रया धिगमप्रधानस्वसंवेद्यश्रीमहासुखापरपर्यायसम्यक्संबोधिरूपश्रीहेरुकत्वसाक्षात्कार आशुतरं च निष्पद्यत इहैव जन्मनीति प्रज्ञापारमितादर्शनाद् विशेषः। अतः पीठादिभीमीनां धर्मकायादिरूपेण सहजस्यैवाधिपत्याद् दशभूमीश्वरत्वं भगवतः प्रतिपादितं भवति। पीठादीनां भीमीनां च निरुक्ति सामानाधिकरण्यं च उत्तरत्र व्याख्यास्यते।


p.4


श्रीहेरुकं परमनिर्वृतितत्त्वरूपं

प्रोद्यद्वसन्ततिलका स्फरणोज्ज्वलाभम्।

अन्यच्च कीदृशम् - सर्वगम्। स्कन्धादयः सर्वे, तत्र धर्मतया स्थितत्वात् सर्वगं धर्मधातुम्।

सर्वजन्तुस्वहृन्मध्यगमिति। पशुपक्षिसरीसृपमनुजादयः सर्वजन्तवः, तेषां स्वहृन्मध्यग (गं) हृत्पद्मसंपुट सन्निविष्टकर्णिकान्तरस्थितपृथितपृथिव्यादिचतुर्धास्तुस्वभावो-र्ध्वाधः सूर्येन्दुमण्डलमध्यग वालाग्रशतसहस्रभागप्रमाणसूक्ष्मातिसुक्ष्मधर्मधातुस्वभाव सर्वचक्रडाकिनीवीराद्य(ति?)भिन्नरूपेण स्थितम्। उक्तं च -

हृदये वर्तते नित्यं बिन्दुरेको ह्यनक्षरः।

तं च भावयतां पुंसां ज्ञानमुत्पद्यते परम्॥ इति,

संपुटं संपुटीभावे बिन्दुरेकः प्रकाशते।

असंपुटपुटो भूत्वा बिन्दुर्निर्बिन्दुतां ब्रजेत्॥ इति वचनात्।

अन्यच्च कीदृशम् - व्योमरूपं धर्मकायत्वात्। पञ्चव्योमरूपं वा त्रिवृतादिनाडीस्पर्शगम्यत्वात्। उक्तं च -

भगमध्ये यदाकाशं पञ्चव्योमैरलञ्कृतम्।

कर्णिकाकेशरैर्युक्तं दलाष्टकविभूषितम्॥ इत्यादि।

परं शान्तमित्यादि। पारमार्थिकबोधिचित्तरूपत्वात् परम्, निष्प्रपञ्चत्वात् शान्तम्॥१॥

श्रीहेरुकमित्यादिना विवृतिसंवृतिरूप बोधिचित्तस्वरूपतां सम्यक् प्रतिपादयितुमाह - श्रीहेरुकम्। तन्त्रोक्तचतुर्विमोक्षात्मकम्। परमनिर्वृतितत्त्वं सहजैकधर्मकाय, तद्रूपं(पः) तन्मयस्तम्। तथा प्रोद्यन्ती निर्माणादुत्तिष्ठन्ती येयं वाराहीस्वभावा भाविना वसन्तेनाभिज्ञादिकुसुमोद्भवयोगेन हेरुकेण संयोज्यमाना तिलकेव तिलका प्रकाशमयी ज्ञानाग्निज्वाला स्कन्धधात्वायतनेन्धनदाहिका, तस्या यदेतत् स्फरणं मध्यमार्गेणोर्ध्वं त्रिचक्रप्रवृत्तिः, तेनोज्ज्वला तच्छायास्फुरिता भा प्रभा 


p.5


कायत्रयप्रसरसंचितेनादिचक्र -

नाथं प्रणम्य जगतः स्वपरार्थसौख्यम्॥२॥

यस्य तम्। तथा कायवाक्चित्तकुलत्रयरूपस्य रसनादि नाडीत्रयस्य योऽसौ प्रसरः पुल्लीरादिस्थानेषु निर्माणादिषु प्रसरः, तस्य योऽसौ संचयश्चतुर्विंशति-विंशत्यधिकशत-एकविंशतिसहस्र-द्वासप्ततिसहस्रसंख्या, तेन संख्यातं यदेतान्नाडीचक्रमनन्तवीर (रि)णीस्वभावम्, तत्र नाथं संवृतिबोधिचित्तरूपेण प्रभुम्। उक्तं च -

पाद-गुह्य-गुद-हृत्-शिरोधातुमण्डलगमेरुपृष्ठगम्।

नाडिकासमयवज्रपद्मगं त्वां नमाम्युभयचित्तहेरुकम्॥

गुह्यकोकनदकर्णिकान्तरव्योमपञ्चकमहानभःस्थितम्।

धर्मधातुतिलकाद्वयाद्वयं त्वां नमामि सहजात्महेरुकम्॥

कालमेघपटलान्तरोच्छलद्विद्युदुग्रपटलाधिकत्विषम्।

सत्त्वभाजनयुगप्रदाहिकां त्वां नमामि जगदम्ब हेरुकीम्॥

नाभिचक्रकुह राम्बुराशितो वज्रवारिज समाजसंभवाम्।

सौधसाररस पानलम्पटां त्वां नमामि वडवानलत्विषम्॥ इत्यादि।

धर्मकायस्वरूपं प्रणम्येतराभ्यामपि नमस्कर्तुमाह जगतः स्वपरार्थसौख्यमिति। जगतस्त्रैधातुकस्य स्वसंवेद्यं सौख्यं स्वसौख्यम्, कुलिशमुखादस्फ रणावस्थायां संभोगकायस्वरूपम्। तदन्यस्यां परार्थसौख्यं निर्माणकायस्वभावम्। योऽयं जगदुत्पादः स एव तथागतोत्पादः, तद्रूपत्वाज्जगतः। उक्तं च संपुटतिलके -


p.6


वसन्ततिलकां वक्ष्ये योगपीठविनिर्गताम्।

सबाह्याध्यात्मरूपेण श्रीचक्रसंवरक्रमात्॥३॥

सर्वडाकिनीमयो(यं) रक्तं सर्ववज्रसमुद्भवम्।

पद्मनर्तेश्वरः ख्यातः पद्मप्रकाशयोगतः।

वज्रसूर्यः परं ख्यातः स्फुरदूर्द्ध(र्ध्व)प्रभास्वरम्(रः)॥

श्रीवज्रडाकेऽपि -

रोचते दीप्यते यत्तन्महावैरोचनो मुनिः।

विरमान्त परमाश्वे (श्वो)ऽसौ वायूनां विश्वसंभवात्॥

अत एव वाराह्या समालिङ्गितविग्रहम्, पूर्वोक्तेनैव न्यायेनेति वाक्यशेषः॥२॥

[ श्रीहेरुकाभिधानमिति। अनामानमपि भगवन्तं संवृत्या श्रीहेरुक इत्यभिधानेन प्रतिपाद्यम्। हूँकारेण प्रतिरवसदृशेन नादेन रम्यं मनोहरम्। यतो या वसन्ततिलका स एव नादः, तेन ध्वनिनोद्घाटितो बिन्दुर्भगवानत एव नादबिन्दुसंघट्ट एव तयोः समापत्ति रुत्पत्ति[ः], क्रमातीतत्वादुत्पन्न क्रमस्वभावं प्रणम्येति पूर्वेण सम्बन्धः॥२॥ ]

कीदृशीं वसन्ततिलकां वक्ष्ये-योगपीठविनिर्गताम्। चत्वारि योगपीठानि आत्म-पर-मन्त्र-तत्त्वपीठाख्यानि यथाक्रमं नाभिहृत्कण्ठशिरांसि, तेभ्यो विनिर्गतां गमनागमनयोगेन प्रवृत्ताम्। तद्वाचिका साधनोपायिकाऽपि वसन्ततिलकेत्युच्यते, सीताहरणकाव्यवत्। कुत इयं समुद्दृतेत्याह-श्रीचक्रसंवरं नाम तन्त्रम्, तत्र यो बाह्याध्यात्मलक्षणस्तद्वदुत्पन्ना नुत्पन्नाख्यः क्रमो मार्गस्तत्त्व(त्स्व)रूपेण वक्ष्ये, इति पूर्वेण सम्बन्धः। तथाह्युत्पत्तिक्रमे सप्तत्रिंशदात्मकं मण्डलचक्रम्, निष्पन्नक्रमे तु महासुखे तत्संख्यं नाडीचक्रम्, एवमन्यदप्यूह्यम्॥३॥


p.7


श्रीवज्रडाकिनी सिद्धा स्वदेहे संव्यवस्थिता।

अतिस्वल्परुचीनां तु स्पष्टावगमहेतुना॥४॥

कृत्रिमं मण्डलं त्यक्त्वा कृत्रिमं होमकर्मं च।

कृत्रिमां भावनां चापि कृत्रिमं जपमेव च॥५॥

कृत्रिमं सर्वमित्यादि स्वभावयोगरूपतः।

कृत्रिमा प्रक्रिया बाह्या स्वरूपप्रतिपत्तये।

प्रयोजनमाह - श्रीवज्रडाकिनीत्यादि। येयं भगवती वज्रडाकिनी, वज्रं संवरमनाहताक्षरद्वारस्थमनाहतं खगमुखैकरसं स्रवत्सुधं दुग्धाब्धि तरङ्गभङ्गान् मुञ्चन्तम्, डयति गच्छतीति वज्रडाकिनी विद्युच्छटासहस्रवद् दीपिताङ्गी भगवती ज्ञानाग्निप्रभा वाराही, सा सिद्धा धर्मतारूपत्वात् प्रकृत्यैव निष्पन्ना, सर्वैरेव वेद्यत्वात्। किं बहिः स्थिता ? नेत्याह - स्वदेहे स्कन्धादिमये काये, व्यवस्थिता तिष्ठति, प्रागुक्तेन क्रमेण तत एव तस्या उपलब्धेः। ततश्च विस्तरतन्त्रमवगाहितुमस(श)क्तानामतिस्वल्परुचीनां पुद्गलानां स्पष्टावगमस्तदवबोधो यथा स्यादित्यतो हेतोर्वक्ष्ये, स्वल्पग्रन्थेन परिपूर्णनिष्पन्नक्रमावबोधायेत्यर्थः॥४॥

इह निष्पन्नक्रमारूढो योगीन्द्रो मण्डलहोमभावनाजापान् किं कुर्यात् ? नेत्याह - कृत्रिमे(ममि)त्यादि। य एते बहिरुत्पत्तिक्रमे वा प्रतिमादयः, सर्वे ते कल्पितत्वाद् बाह्योपकरणसाध्यत्वाच्च कृत्रिमाः कृतकाः, सामग्रीविनाशाद् विनाशधर्मिणो घटादिवत्। ततश्च किं तैर्वृथा विक्षेपकारिभिः कृतैर्भावितैर्वेति भावः। यद्येवं किमिति


p.8


स्वरूपप्रतिपत्तौ तु प्रक्रिया नैव कारणम्।

यथा पारार्थिभिः कैश्चित् कोलो वा सुप्रयुज्यते।

त्यज्यते पारमागम्य प्रक्रियापि तथैव सा॥७॥

भगवता तदादिष्टमित्याशङ्कयाह - कृत्रिमा प्रक्रियेत्यादि। प्रागुक्ता मण्डलादिप्रक्रिया कृत्रिमापि सती सा स्वरूपस्य स्वभावसिद्धस्य मण्डलादेः प्रतिपत्तयेऽवगतये देशिता, न सैव फलरूपा। अत एव स्वभावरूपं सहजसिद्धं मण्डलादि वक्ष्यमाणं तद्योगमाश्रित्य सर्वं बाह्यं कृत्रिममेव। तेन मण्डलं काये भावनीयं चेत्याभिप्रायः।

मण्डलाद्यधिमुक्ताः प्रवर्तन्तां तावत्तत्कारणभावनायां पश्चात्तद्द्वारेणैव ते स्वभावसिद्धानोति तानि सन्ति स्वभावसिद्धानि तानीति बाह्याभिनिवेशं त्याजयित्वाऽध्यात्मे-ष्ववतार्यन्त इति तद्देशनाऽपि प्रयोजनवती॥५-६॥

दृष्टान्तमाह - यथा पारार्थिभिरित्यादिना। यथा समुद्रादेः पारे प्राप्त्यर्थिनो नौकायानं तरण्डमादौ प्रयत्नत आश्रयन्ते, पारं प्राप्य तृणवत् त्यजन्ति, तथैव बाह्यमण्डलमासाद्याध्यात्मिकं यदाप्नुवन्ति, तत्प्राप्य बाह्यं त्यजन्तीत्यर्थः, "उपेये सति ये हेयास्तानुपायान् प्रचक्षते" इति वचनात्।

ये रत्नपुद्गलाः पूर्वाभ्यस्ता(स्त)कृत्रिममण्डलादयस्ते झटित्येवाकृत्रिममण्डलाधिमुक्तिका अकृत्रिममासादयन्त्येवेति विशेषः। तादृग्गोत्रमतिदुर्लभम्। निष्पन्नक्रमे दुरभि ग्रहद्वारश्चन्दनाद्यैर्निमित्तविशेषैश्च तद्गोत्रको ज्ञायते,

धूमेन ज्ञायते वह्निः सलिलं तु बलाकया।

निमित्तैर्ज्ञायते गोत्रं बोधिसत्त्वस्य धीमतः॥

इति वचनात्॥७॥


p.9


यन्मण्डलादिकर्माणि कुर्वन्ति कृत्रिमाशयाः।

सर्वं साधु न चासाधु तत्प्रयुक्तमपि स्फुटम्॥८॥

सकर्मप्रसरस्तन्त्रः सद्वस्तुसंविदे जिनैः।

शब्दज्ञानाय तच्छास्त्र मृषिभिः क्रियते यथा॥९॥

इह तावत् स्वरूपपरिज्ञानमेव बोधिः। भाव्यमा[न]मसत्यमपि स्फुटीभवतीति स्फुटास्फुटेन बोधिहेतू भवत इत्याशङ्कयाह- यन्मण्डलादीत्यादि। कृत्रिमाशयाः कल्पितयोगिनो यन्मण्डलादिकं प्रागुक्तं लिखनेन मनसा वा कुर्वन्ति, तत्सर्वं साध्वसाधु वा भवतु , तद्भाव्यमानं स्फुटं तावद्भवति, तत् तत्त्वमिति वाक्यशेषः।

"मण्डूकोऽपि जटाभारभासुरो भस्मधूसरः।

शुक्लयज्ञोपवीतश्च स्कन्धापि(र्पि)तकमण्डलुः॥

भाव्यते यद्यदेवेह पौनःपुन्येन बालिशैः।

तत्तदेव पुरः ख्याति"

इति वचनात्॥८॥

मण्डलादिवत् कर्मंप्रसरोऽपि न तत्त्वं स्यादित्याशङ्क्याह - सकर्मप्रसर इत्यादि। यदपि भगवता नानाप्रयाससाध्यं कर्मप्रसरयुक्तं तन्त्रं देशितम्, न तत् तत्त्वाभिप्रायेणापि तु सद्वस्तुन सहजस्य संविदेऽनुभूतये, यतः कर्मप्रसरसाधनार्थं ते भावनायां प्रवर्तमानास्तन्मुखेनैव तत्संस्कारतिरस्कारात् स्वभावसिद्धधर्मतात्मकपरमाकाशरूपे सहजे प्रवेश्यन्त इत्याभिप्रायिकी तद्वत् तत्तन्त्रदेशना, न तु तदनर्थकत्वमिति। दृष्टान्तमाह - शब्दज्ञानायेति। यथा ऋषिभिर्बाह्यैः शब्दमात्रपरिज्ञानाय तच्छास्त्रं तच्छब्दशास्त्रं क्रियते, न तु तत्करणे काचित् तत्त्वावगतिः, तथैव कर्मानुसारेण तदनुरूपवर्णसंस्थानानुगुणे प्रक्रियां नटगायनवद् विदधति गोत्रमित्रप्राक्पुण्योपचय -


p.10


तथा कर्मानुसारेण कुर्वन्ति प्रक्रियां नराः।

यत्नेन क्लेशमुत्थाप्य स्वचेतो विद्रवन्ति हि॥१०॥

तस्मात् सर्वप्रकारेण मण्डलादिविधिक्रियाः।

विमोक्षावाहिका नैव परमायासकारणम्॥११॥

सम्यक् प्रणिधानाभावान्न निष्प्रपञ्चलाभिनो भवन्ति, ये तु गोत्रादिमन्तस्ते तत्साक्षात्कारिण एव स्युः। यदुक्तम् -

उदारधर्मश्रवणाद् भद्रमित्रोपसेवनात्।

गोत्रतश्चाधिकारोऽत्र भवेत् प्राक्पुण्यकारिणाम्॥ इति।

न केवलं तत्त्वं न लभन्ते, यावत् कायक्लमथयोगात् स्वचेतोविक्षेपे भाव्यमानं कृत्रिमं तदपि नासादयन्तीत्युभयभ्रष्टत्वात् प्रतिपत्तिमूढा व्यामोहमापद्यन्ते, "सुखितस्य चित्तं समाधीयते। समाहितचित्तो तथाभूतं प्रजानाति" इति वचनात्। श्रीगुह्यसमाजेऽपि -

मन्त्रमूर्तिप्रयोगेण न बोधिर्न च भावना॥

विचार्योक्तं समासेन कायवाक्चित्तलक्षणम्।

भावयेद् बोधिसंयोगं समाधिं मन्त्रकल्पितम्॥

इत्यादि, इत्याशङ्कयाह - यत्नेन क्लेशमुत्थाप्येत्यादि। सुगमम्॥


p.11


निर्विकल्पान्न बुद्धत्वं सविकल्पाच्च नो तथा।

सुविशुद्धपरिज्ञानाद् भवेदेव नमीषिणाम्॥१२॥

केचिदाहुः - निर्विकल्पं समाधिमागम्य बुद्धत्वमधिगम्यते, शून्यताभावनावत्। तस्यां हि सांक्लेशिकवैयवदानिकविकल्पाभावात्। बुद्धत्वं च तन्मयमेव। उच्यते - निर्विकल्पान्न बुद्धत्वमिति। शून्यता हि तादृशी प्रतिभासमयरूपोच्छेदपक्षे। उभयपक्षोज्झितं च बुद्धत्वमिति विरोधः। अथ चन्द्रवज्रादिक्रमोत्पन्नदेवतामूर्तिस्तथागताहङ्कारेण विशिष्टविकल्पसहितबुद्धत्वप्राप्तिहेतुर्भविष्यतीति तन्निराकरणार्थमाह - सविकल्पाच्च नो भवेत्। एवंविधादाकारविशेषाद् भावितादपि न बुद्धत्वम्, विशिष्टाविशिष्टयोर्विकल्पयोर्भेदाभावे संसारहेतुत्वात्। उक्तं च -

को हि भेदो विकल्पस्य शुभे वाऽप्यशुभेऽपि वा।

नाधारभेदाद् भेदोऽस्ति वह्नेर्दाहकतां प्रति॥

इत्यादि। कुतस्तर्हि तत् स्यादित्याह - सुविशुद्धेत्यादि। स्कन्धादेः स्वभावपरिज्ञानात् तद् भवति। यतोऽमी स्कन्धादयः स्वभावत एव महासुखपर्यायसहजविशुद्धाः, तत एषां न केनचिद्धर्मेण वियोगः संयोगो वा कर्तुं पार्यते। आकाशस्यै(स्ये)व कव्यादिभिः। स्वभावपरिज्ञानमात्रमेव च मुख्यं तत्कारणम्, न त्वन्यदिति तत् कथितं भवति। तच्च निर्देष्टृगुर्वधीनम्। समयमात्रमन्यत्॥१२॥

ननु परिज्ञानं परिज्ञातारं विना न संभवतीत्युभयस्मिन् कथमद्वयं तत्त्वं स्यादिति क्रियाकारकभावं निराकर्तुमाह - स्वरूपतः क्रिया नास्तीत्यादि। भावानां 


p.12


स्वरूपतः क्रिया नास्ति कारकं च स्वरूपतः।

क्रियाकारकभावेन त्यक्तं वस्तु स्वरूपतः॥१३॥

गमनागमनादिलक्षणा क्रिया कारकाद् गन्तुरभिन्ना भिन्ना वेति पक्षद्वयम्। आद्ये कर्तैव, क्रिया न प्राप्नोति। द्वितीयस्मिन् कर्तुः किम् ? क्रियाऽभिन्नत्वात्। तयोः सम्बन्धस्तस्मिन् सति चेत्, तस्मिन् तादात्म्ये भेदाभावात् प्रागुक्तो दोषः। तदुत्पत्तौ कार्योत्पादे करणविनाशात् कस्य क्रिया। सकर्तृका च क्रियेष्यते। क्षणिकेषु भावेषु कस्य केन सम्बन्धः ? सन्तानकृतश्च सम्बन्धः कल्पितो न वास्तवः, तस्यातीतादिष्वसत्त्वात्,

ज्ञेयात्पूर्व यदि ज्ञानं किमालम्ब्यास्य संभवः।

ज्ञानात्पूर्व यदि ज्ञेयं किमालम्ब्यास्य संभवः॥

ज्ञेयेन सह चेज्ज्ञानं किमालम्ब्यास्य संभवः॥

इति वचनात्। कार्यकारणभावकृतोऽपि सम्बन्धो नोपपद्यते, हेतुफलयोरसिद्धेः सापेक्षत्वादिति क्रियाकारकभावोज्झितं सर्वमिदं वस्तु। ततश्च परिज्ञातृपरिज्ञानाभावादद्वयमेव तत्त्वं सिद्धम्। एतच्चोद्भावना संवृत्या प्रतिपाद्यते, स्वरूपप्रकाशपरिज्ञानस्यापि तत्रैवास्तमयात्। तैलभृर्ति सुमुत्सृष्टमुकुरक इव श्वासवातस्य। दाह्याभावादग्नेरिव ज्वालापुञ्जस्य प्रयोगः। यो यस्मादभिन्नः स तदात्मा, गुडमाधुर्यवत्। क्रिया च कर्तु रनुरक्तः॥१३॥


p.13


स्वरूपं सर्वभेदाना मकारे संव्यवस्थितम्

अनवराग्ररूपेण रत्नानामिव सागरः॥१४॥

व्यवहारः सदा लोके तद्विरुद्धं त्वलौकिके।

अस्ति वा नास्ति वा चैव स्वरूपं नैव बुद्द्यते॥१५॥

अनेनैव हि बुद्धत्व मित्यनेनैव मुच्यते।

स्वभावमार्गमाश्रित्य सर्वं कुर्वन् विमुच्यते॥१६॥


इति श्री वसन्ततिलकायां कृत्रिममण्डलहोम यागजपभावनादि-

विधिक्रियाग्राह्यग्राहक भावव्यवच्छेदा लिङ्गणपूर्वक-

स्वरूपाख्याननिर्देशः प्रथमः॥१॥


p.14


द्वितीयो निर्देशः


अथान्य दुद्देशनिर्देश रूपादितन्त्रात्मकस्य स्कन्धधात्वायतनस्वरूपस्य देहिनां देहस्य यथा स्वदेवतारूपं कथयिष्यामि॥१॥

रूपं वैरोचनो बुद्धो वज्रसूर्यस्तु वेदना।

पद्मनर्तेश्वरः संज्ञा संस्कारो वज्रराट् तथा॥२॥

य एते कुशलादयः संस्कारा व्यक्तिद्वया प्रेरणजनितविचित्र सत्त्वनिर्माणः (णाः), स (त) एव वज्रेषु तथागतेषु मध्ये राजनाद् वज्रराट्। विरमान्ते परमाश्वः कृत्यानुष्ठानज्ञानस्वभावो न तु श्यामः॥१-२॥


p.15


विज्ञानं वज्रसत्त्वस्तु स्र्वरूपस्तु हेरुकः।

नेत्रं(त्रे) तु मोहवज्राख्यं(ख्ये) द्वेषवज्राभिधा श्रुतिः॥३॥

यदेतद् विज्ञानं वस्तु परिच्छेदकं स एव वज्रवदभेद्यं सत्त्वं यस्य स वज्रसत्त्वः सत्त्वरजोव्यक्तिद्वयसमरसीकरणलक्षणोऽक्षोभ्यश्चित्तवज्रः सुविशुद्धधर्मधातुज्ञानस्वभावो न तु नीलच्छविर्वाह्यः। तथा प्रागुक्तानां पञ्चानां सर्वेषां रूपं सहजात्मकस्यास्तीति सर्वरूपी व्यापको यः स श्रीहेरुको भगवान् षष्ठो महावज्रधरः, धर्मतास्वभावो विज्ञेय इति शेषः। उक्तं श्रीगुह्यसमाजे -

पञ्चस्कन्धाः समासेन पञ्चबुद्धाः प्रकीर्तिताः।

सन्ध्याव्याकरणेऽपि -

स्कन्धा एव हि सम्बुद्धा बोध्यर्थं प्रत्ययोद्भवाः।

ते वै तथागताः ख्यातास्तथताद्वययोगतः॥ इति।

गुह्येन्दुतिलकेऽपि -

पंचबुद्धात्मकु सर्वजगोऽयं पश्यतु चित्रकु नाटकु दिव्यम्।

यत्र हि एकु महासुखनामा नृत्यति एकु अनेकरसेन॥ इति।

डाकिनीवज्रपञ्जरेऽपि -

अक्षोभ्य एव नाम्योती सर्व रागविवर्जितः।

सा(शा)श्वतेनायुतं प्रोक्तं कोर्टि(टिः) वज्राङ्क वज्रिणे(णा)॥

अमितममितायुनाख्यातं यावदाकाश सप्तिराड्॥ इत्यादि।

तथा संपुटेऽपि -

मातृजास्त्रयमात्राणि पितृजास्त्रयमेव च।

एतत् ष(षा)ट्कौशिकं पिण्डं षट्तथागतरूपकम्॥ इत्यादि।


p.16


ईर्ष्यावज्रस्तथा घ्राणं रागवज्रो मुखं स्मृतम्।

कायो मात्सर्यवज्रस्तु पञ्चैते स्थूलदेवताः॥४॥

सर्वायतनधातुस्तु हेरुकः परमेश्वरः।

पातनी पृथिवीधातुरब्धातुर्मारणी स्मृता॥५॥

आयतनानि वीरैर्नियोजयितुमाह - नेत्रे तु मोहवज्राख्ये इत्यादि। नेत्रद्वयं मोहवज्रो रूपविषयं प्रत्यलम्पटत्वेन तदाहरणेन विषयान्तरकरः प्रवृत्तेर्मोहः प्रभास्वरस्तत्र वज्रोऽभेद्यः कायचक्रान्महाबलः। श्रुतिः श्रोत्रेन्द्रियं द्वेषवज्रश्चित्तचक्रात् खण्डकपालिः, शब्दग्रहणे सामरस्याद् विकल्पान्तरविद्वेषात्॥३॥

घ्राणेन्द्रियमीर्ष्यावज्रो वाक्चक्राद् बिरूपाक्षः। अहमेव सर्वात्मना सर्वगन्धोपभोक्ता, नान्यः कश्चिदस्ति, व्यापकत्वात्। मुखं मुखस्थं जिह्वेन्द्रियं रागवज्रो वाक्चक्रादाद्योऽङ्कुरिकः। स्पर्श इति कायेन्द्रियं मात्सर्यवज्रः कायचक्रान्ताद् वज्रसत्त्वो वीरो व्यापकत्वात्। सर्वमुद्रापद्मस्पर्शसुखं मयैवानुभूतं नान्येनेति मात्सर्यम्॥४॥

सर्वायतनं मन इन्द्रियम्। हेरुकश्चित्तचक्रान्ताद् वज्रदेहः सर्वेन्द्रियव्यापको ज्ञेयः। षट् चक्रवर्तिन इत्येके -

क्षितिगर्भ-वज्रपाणि-खगर्भ-लोकेश्वरोऽथ विष्कम्भी।

श्रीमत्समन्तभद्रश्चेत्येतांश्चक्षुरादिसंज्ञातान्॥


p.17


आकर्षण्यग्नि धातुस्तु वायुर्नर्तेश्वरी मता।

आंकाशध्तु रुक्तस्तु पद्मज्वालिन्यनाकुला॥६॥

इति वचनात्। मुख्यतस्तु महासुखानुविद्धत्वादेतानि वीरव्यपदेशं लभन्ते, न तु वज्रवज्रघण्टाधराः, कल्पितत्वात्। श्रीसमाजेऽपि -

वज्र-आयतनान्येव बोधिसत्त्वाग्रमण्डलम्॥

इति वचनात्।

धातुतत्त्वमाह - पातनीत्यादि। योऽयं पृथिवीधातुरस्थिमांसादिनिर्माणचक्रं वा समापत्तौ काठिन्यस्पर्शो वा, सा पातनी डाकिनी तदभिनिवेशविकल्पनिर्दलनी शून्यता-आनन्द-मैत्री-उपायस्वभावा ज्ञेया। योऽयमब्धातु र्जलासृगादि धर्मचक्रं वा समापत्तौ द्रवस्पर्शो वा, सा मारणी लामा तदभिनिवेशक्षयकरी अनिमित्त-परमकरुणा-प्रणिधिस्वभावा ज्ञेया। योऽयं तेजोधातुर्गात्रेषूष्मा संभोगचक्रं वा समापत्तावहिमस्पर्शो वा ज्ञानाग्निज्वाला वा साऽऽकर्षणी तदभिनिवेशविध्वंसिका खण्डरोहा अप्रणिहित-विरममुदिताबलस्वभावा ज्ञेया। तथा योऽयं वायुधातुर्गमनागमनाकुञ्चनप्रसारणलक्षणो महासुखचक्रं वा समापत्तौ स्फरणं वा प्रवेशनिर्गमो(मौ) वा प्रवेशोस्थिति व्युत्थानं वा दिवानिशं द्वययुतषोडशशतस्वा(श्वा)ससंचारो वा सा नर्तेश्वरी नृत्यस्य सर्वाङ्गसाध्यस्य कर्मण ईश्वरी रूपिणी अभिसंस्कार सहजानन्दा-उपेक्षा-ज्ञानस्वभावा विज्ञेया।

एता एव कर्म-धर्म-समय-महामुद्रा एव मया संकेतिताश्च द्रष्टव्याः। उक्तं च -

पृथिवी लोचनाख्याता अब्धातुर्मारणी स्मृता।

तेजः पाण्डरवासिन्या वायुस्तारा प्रकीर्तिता॥ 

इति।

गुह्यतत्त्वप्रकाशेऽपि -

"एकारः पृथिवी ज्ञेया कर्ममुद्रा तु लोचना" इत्यादि।

तथा -

बोलकक्कोलयोगेन"पृथिवी तत्र जायते"


p.18


इत्येवं देहिनां देहः स्कन्धादिदेवतात्मकः।

सुखं दुःखं तथा कर्म क्लेशादिकमुपेत्य वैव्।

उत्पत्तिभङ्गमाश्रित्य भवनिर्वाणमाप्नुयात्॥७॥

इति श्रीवसन्ततिलकायां स्कन्धधात्वायतनस्वरूपतथागतकाय -

यथास्थितवैरोचनादिदेवतारूपाख्याननिर्देशो द्वितीयः॥


इत्यादि श्रीहेवज्रवचनात्।

तथा योऽयमाकाशधातुः सर्वनाडीसौशीर्यमिन्द्रियद्वारसौशीर्य वा रोमकूपव्योम वा सा पद्मज्वालिनी नाम वाराही पद्मान्तर्नाडीजालस्य स्वामिनी तदुपरागपङ्कैरलिप्ता ग्राह्यग्राहकविकल्पोत्तीर्णप्रागुक्तधातुचतुष्टयव्यापिनी विज्ञेयेति। उक्तं च -

"आकाश धातुरूपस्था सैव खेचरीति स्मृता" इति।

वज्रपञ्जरेऽपि - "सर्वधात्वन्तरालयेन" इति वचनात्।

"आकाशैकस्वभावेऽस्मिन् विजहार महामुनिः"

इति सन्ध्याव्याकरणवचनात्॥५-६॥

उपसंहारमाह - इत्येवमित्यादि। अनेन न्यायेन सर्वदेहिनां त्रैधातुकस्थितानां देहः स्कन्धाग्रयो देवतात्मको विज्ञेयः, न बाह्यो मुखभुजादियुक्तः। तस्माद् य एते स्कन्धकरण्डकान्तर्गताः सुखदुःखक्लेशकर्मोत्पादभङ्गादयः, सर्वे ते तदभेदाद् देवतात्मका एव। अत एव यः संसारः स एव निर्वाणम्, न तयोः कश्चिद् भेद इति॥७॥

इति वसन्ततिलकायां निष्पन्नक्रमसाधनोपायिकायां रहस्यदीपिकायां

द्वितीयनिर्देशस्य विस्तरव्याख्या॥२॥


p.19


तृतीयो निर्देशः


अथान्यतमस्य तथागतकायस्य कायवाक्चित्त गताधममध्यमोत्तम प्रभेदेन द्वारभेद कथयिष्यामि॥१॥

एकस्तम्भं नवद्वारं स्थूलं पञ्चाधिदैवतम्।

नवस्रोतोगतं द्वारं नवद्वारं प्रकीर्तितम्॥२॥

सर्वदेहितां देहस्तावत् तथागतात्मक इति द्वितीयपटलेन प्रतिपाद्य तेषां यैः प्रवेशनिर्गमौ भवतस्तान्यधममध्यमोत्तमभेदेन द्वाराणि प्रतिपादयितुमथेत्यादिनाऽवतार्य स्ता(ता)न्युद्दिष्टवान्। तदर्थस्तु सुगमः॥१॥

निर्देशमाह - एकस्तम्भमित्यादिना। यदेतत् सर्वदैवतं शरीरं तदेकस्तम्भं कङ्कालशब्दवाच्यं पृष्ठाभागे कटिकूर्परमध्यादारभ्य तद्यावदर्बुदतलं व्याप्य स्थितं स्थूणाप्रायं यस्य, वामदक्षिणपार्श्वयोश्चतुविंशतिवीरप्रायाः पार्श्वस्थितकर्णिकावीर-योगिनीस्वभावास्त्रिचक्रसंगृहीता विद्यन्ते यस्मिंश्च, तेषां मध्ये वर्तमानस्तदाधारो दण्डो भूर्भुवःस्वराधारः श्रीहेरुकरूपेण महाकङ्कालव्यपदेशभाक्। तादृगेकः स्तम्भो यस्य। संपुटेऽप्युक्तम्  -

द्वादशद्विगुणीभूय पार्श्वतन्तु(स्तु) द्विपक्षयोः।

वीरयोगिनीवृन्देन समन्तात् परिवारितः॥

कङ्कालो दण्डरूपोऽसौ हेरुकः परमाश्रयः।

स्कन्धधात्वादिबुद्धानां स्तूप इत्यभिधीयते॥ इति।


p.20


अधमं कायिकं द्वारं स्थूलं दैवतनिर्मितम्।

अपरं चतुर्विधं द्वारं वाचिकं मध्यमं स्मृतम्॥३॥

श्रीवज्रडाकेऽपि -

यथा स्तम्भेन महता ध्रियते लीलया गृहम्।

नवद्वारस्तथा कायः कङ्कालैरेव धार्यते॥ इति।

अथवा - एकस्तम्भ इव स्तम्भोऽवधूती, सर्वस्य नाडीचक्रस्य धारणे, एतद्युक्त -त्वादेकस्तम्भम्।

नाभिमध्ये महाचक्रं षोडशैस्तन्तु सूत्रितम्।

अकारेण समायुक्तं संपुटीकारयोगतः॥

सर्वाधारस्वरूपेण तत्र मध्ये व्यवस्थिता।

स्तम्भभूता महाराज्ञी साऽधूतीति कीर्तिता॥इति।

नवद्वारमित्याद्युद्देशः। निर्देशमाह - अन्यच्च कीदृशं नवश्रो(स्रो)त इत्यादि। नव श्रो(स्रो)तांसि चक्षुर्द्वय-श्रोत्रद्वय-घ्राणद्वय-वक्त्र-गुह्य-गुदाख्यानि यस्मिन् तत्तथा। एकैकं च द्वारं नवधा परिकीर्तितम्। तथाहि- चक्षुरिन्द्रियस्य पृथिव्यप्तेजोवाय्वाकाश-

विज्ञानकुशलाकुशलोभयचैतसिकधर्मयुक्तत्वान्नव प्रभेदाः। एवमन्यत्राप्यूह्यम्। ते च पञ्चबुद्धचतुर्योगिनीस्वभावाः। एवं द्वारं द्वारं नवात्मकमण्डलचक्रमु (यु)क्तमिति ज्ञातव्यम्। एवं च नवनवे(नव)तिद्वारमपि शरीरमेकाशीतिद्वारं जायते। यत् (ये) तेभ्यो निष्पन्दास्तेऽपि तथागता एवेति बोद्धव्यम्॥२॥

तदर्थमाह - अधमं कायिकं द्वारं स्थूलं दैवतनिर्मितमिति। यदेतत् कायिकं द्वारं नवधा सपरिच्छदं तदेव प्रतिभावप्रतिभासमानरूपत्वादधर्म (मम्), बहीरूपेण प्रकाशनाद्(त्। अ)धर्म(म)श्च स्वनिष्पन्दवहनान्न पुनर्हीनत्वात्। अत 


p.21


आग्नेयं चैव वायव्यं माहेन्द्रं वारुणं तथा।

चक्रे चित्तस्य संचारादूर्ध्व पार्श्वर्ज्वधः स्थितः(तम्)॥४॥

एव स्थूलमितरद्वारापेक्षया रूपवत्। प्रागुक्ततथागतदेवीनवकस्वरूपत्वाद् दैवतनिर्मितम्।

वाग्द्वारमाह - अपरम्, इत्याद्युद्देशः। कायचित्तयोर्मध्ये वर्तमानत्वाद् मध्यं वाग्द्वारं चतुर्विधं ज्ञेयम्॥३॥

निर्देशमाह - आग्नेयमित्यादि। इह चत्वार्यग्निवायुमाहेन्द्रवारुणाख्यानि यथाक्रमं कण्ठनाभिगुह्यहृदयस्थानि पद्मनर्तेशपरमाश्वरत्नसंभवाक्षोभ्यरूपाणि, खण्डरोहारूपिनीलामाडाकिनीस्वभावानि दक्षिणवामोभय स्तच्च(तश्च) मन्दप्रचाराणि रक्तहरितपीतशुक्लवर्णानि प्रधानगुणभेदेन परस्परं तु चतुर्थसंख्यानि दिवानिशं चतुर्विशतिसञ्चारप्रवेशादिना षोडशशताधिकद्वययुतश्वासवाहीनि सर्वदेहिस्वसंवेद्यानि नाडीचक्राणि विद्यन्ते। येषु वायुवाहनस्य विज्ञानस्य प्रतिक्षणं संचारः प्रवृत्तिर्गमनागमनयोगेनानुभूयते। तान्येव वाचिकद्वाराणि। तेभ्य एव वामदक्षिणमध्यनाडीरन्ध्रयुक्तेभ्यो भगवती वर्णमातृकोदेति। हेतुफलयोरभेदान्मुखां तस्या व्यक्तिस्थानमेव। ते च प्रवेशादयो वह्नयादीनाम्। कथमित्याह - ऊर्देत्यादि। यथाक्रममूर्ध्वेऽग्निमण्डलं प्रवर्तते, हविर्भुजामूर्ध्वतो ज्वलनात्। वायुमण्डलद्वारं पार्श्वाभ्यां वहति, वायोः कुटिलगमनात्। माहेन्द्रमृजु स्पष्टं वहति, तस्य समत्वात्। वारुणमधो वहति, अपामध एव प्रयाणम्। उक्तं च -

दक्षिणान्निर्गतो रश्मिर्हुतभुङ्मण्डलं च तत्।

रक्तवर्णमिदं व्यक्तं पद्मानाथोऽत्र देवता॥


p.22


तृतीयं मानसं द्वारं चन्द्रसूर्यप्रभेदतः।

प्रवेशा न्निर्गमा च्चैव द्वारं चैवोत्तमं भवेत्॥५॥

प्रधानमुत्तमं द्वारमध ऊर्ध्व प्रकीर्तितम्।

अघोद्वारेण विज्ञानमूर्ध्वद्वारेण धातवः॥६॥

स्तब्धो मन्द प्रचारश्च सितकुन्देन्दुसन्निभः।

मण्डलं वारुणं ह्येतद् वज्रनाथोऽत्र देवता॥ इति।

तथालिचतुष्टयेऽपि -

"चतस्रो गतय ऊर्ध्व(र्ध्वं) पार्श्वमृजुरधश्च" इति।

सम्पुटेऽपि -

आग्नेये चैव वायव्ये माहेन्द्रे वारुणे तथा।

चक्रे चित्तस्य संचारादूर्ध्वपार्श्वर्ज्वधोगतिः॥ इति।

सम्ध्याव्याकरणेऽपि -

आग्नेये चैव वायव्ये माहेन्द्रे वारुणे तथा।

चक्रे चित्तस्य संचारादूर्ध्वपार्श्वर्ज्वधोगतिः॥

तासां मध्ये स्वदैवत्यं तुर्ययोगः परस्परम्॥ इति॥४॥

चित्तद्वारमाह - तृतीयं कायवाग्द्वारापेक्षया। मानसमिति मनोमात्रगम्यम्। कथम् ? चन्द्रसूर्यप्रभेदत इति। चन्द्रसूयौ वामदक्षिणाभ्यां नाडीभ्यां द्वाभ्यां भेदाभ्यां वहतः। ऊर्ध्वं वायुक्रमेणाधो द्रव्यक्रमेण प्राणा पानं(न)-शुक्र रक्तवहनात्। अतः सूक्ष्मयोगगम्यत्वादेवोत्तमं द्वारम्। तथा चाह-प्रवेशान्निर्गमाच्चेति। ऊर्ध्व प्राणापानयोः, अध इति द्रव्ययोः प्रवेशनिर्गमाभ्याम्। अथवा अध इति प्रवेशात्, ऊर्ध्वं निर्गमात्। एतदुत्तमं द्वारम्। केन द्वारेण कस्य प्रवृत्तिरित्याह - अधोद्वारेणेत्यादि। 


p.23


वैरोचनादयो बुद्धा ऊर्ध्वद्वारे चलाः स्थिताः।

अधो व्यवस्थितिस्तेषामूर्ध्वेन तु विसर्जनम्॥७॥

अधोद्वारेण ललल्नामार्गेण विशिष्टं ज्ञानं विज्ञानं महासुखाख्यं प्रवर्तते, व्यक्तिद्वयस्याधः प्रवृत्तौ सहजोदयाद् वसन्तकालप्रादुर्भावात्। ऊर्ध्वद्वारेण रसनाख्येन धातवः पृथिव्यादिस्वभावाश्चक्षुरादिमलाः प्रादुर्भवन्ति, क्लिन्नगन्धादिश्मशानरूपत्वात्। अथवा अधोद्वारेण विज्ञानादिस्कन्धपञ्चकं देहिनां देहे प्रादुर्भवति, स्कन्धपञ्चकस्यान्तर्मुखत्वात्। ऊर्ध्वद्वारेण धातवः पृथिव्यादयः पञ्चमहाभूतानि जायन्ते, बहिर्मुखत्वात्।॥५-६॥

तथा य एते चक्षुरादिषट्प्रवृत्तिविज्ञानकाया वैरोचनादिबुद्धस्वभावा रूपादिविषयषटकग्रहणायोर्ध्वद्वारेण चलाः प्रवर्तमानास्तेषां विषयदेवता निर्विश्याघ्रोद्वारेण परिपूर्णेच्छानां स्थितिः प्रवेशो ऽनुभूयते। अन्तःप्रविष्टानां तेषां पुनरूर्ध्वद्वारेण विसृज्यन्ते, स्वदेवतोपभोगार्थमिति शेषः। अथवा महासुखचक्राद्विज्ञानं विशिष्टज्ञानं समन्वागतः(तम्)। अधोद्वारेण ललनादिमार्गेण पद्मकोशं प्राप्नोति योगबलात्तदेवोर्ध्वमार्गेणाकृष्टं धातवश्चतुर्विंशतिधात्वतिपुष्टिकरं चतुर्ष्वादिपीठेषु जायते। उक्तं च -

रविविकस्वरभास्वरसुन्दरी प्रबलकेशरसंवरकर्णिकात्।

उदयमस्तकशृङ्गसमुल्लसन्नवसुपूर्णशशाङ्ककराङ्किताम्॥

विविधपुष्परसासववेद्यपि द्रुतविलम्बितमध्यनदद्ध्वनिः।

अलिरुपेत्य निशार्धमहोत्सवे धयति तद्गतधीरिति विस्मयः॥

उदयतेऽस्तमुपैत्ति निशाकरः पुनरतो ऽप्युदयाचलमौलिताम्।

उभयकोटि कलापिनिरीक्षणे न च शशी न विभाति दिवाकरः॥

रविरुदेति सरोजदलान्तरे शिखरतोऽपि विधुः प्रविलीयते।

व्रजति चोर्ध्वमसौ प्रलयानलो गिलति राहुरधः शशिभास्करौ॥


p.24


आवाहनादिरूपेण गत्यागतिप्रवर्तनैः।

त्रैयध्विकास्तु संबुद्धा डाकिन्यो योगमातरः॥८॥

प्रवृत्तौ च निवृत्तौ च गुणदोषस्वभावतः।

सुखदुःखस्वरूपास्तु सिद्धाः सहजरूपतः॥९॥

इति श्रीवसन्ततिलकायां स्कन्धधात्वायतनात्मकतथागत-काय द्वारभेदाख्याननिर्देशस्तृतीयः॥३॥


कमलिनीकमला सनलोचनप्रकटगोचरगोचर मीलनम्।

प्रथममङ्गमिदं कुलिशाम्बुजद्वयनिमीलनमत्र ततोऽपरम्॥

सपदि साधकबीजनिघर्षणात् त्रितय मम्बरमेति चतुर्थकम्।

सहजमक्षयधामकलावलीकलितकालविलापन लेलिहम्॥

यदि सुशिक्षितवज्रविलासिनीगुरुमुखाधिगमोऽधिगतो भवेत्।

भवति यस्य तदोत्तममध्यमाधमविनिश्चयमेति स तत्त्ववित्॥ इति॥७॥

अत एवाह - आवाहनेत्यादि। अनेनोर्ध्वाधोद्वारभेदेन ये गत्यागतिरूपे विसर्जनाह्वाने तेन रूपेण त्रैयध्विकाः सर्वबुद्धास्त्रिचक्रस्था धातुरूपाश्चतुर्विंशतिर्वीराः श्रीहेरुकः पञ्चविंशतितमः, तथा डाकिन्योऽष्टाविंशतिर्ज्ञानचित्तवाक्कायचक्रस्था अभेद्यादिनाडी मध्ये योगमातरश्चक्षुरादिद्वारेण नाडीस्वभावाः। सिद्धा वीराः 


p.25


सहजयोगिन्यः स्थिताः। अथवा सहजसिद्धाः स्वभावसिद्धा एवैता व्यवस्थिताः, न तु कल्पिता इति भेदं दर्शयति। कथम् ? प्रवृत्तिनिवृत्ती उत्पादभङ्गौ व्युत्थानप्रवेशौ समाधानसमाधाने च, गुणदोषौ शुभाशुभौ संक्लेशव्यवदानौ च सुखं दुःखं च सातासातादिरूपं संस्कारात्मकम्, तत्सर्वं द्वारत्रयेन(ण) [प्र]वर्तमानं सहजसिद्धं वीरयोगिनीस्वभावं विज्ञेयम्॥८-९॥


इति वसन्ततिलकायां निष्पन्नक्रमसाधनोपायिकायां टीकायां

रहस्यदीपिकायां तृतीयनिर्देशे विस्तरव्याख्या॥३॥


p.26


चतुर्थो निर्देशः


अथान्यतमस्य तथागतकायस्य दशपीठादिभूमिं दर्शयिष्यामि॥१॥

नवस्रोतोगता नाडयो नवद्वारेषु संस्थिताः।

दशमी भगमध्ये तु तासां श्रेष्ठतरा ऽपरा॥२॥

ललाटस्थानमारभ्य हंकारचक्रनिर्णयम्।

स्रवन्त्यो बोधिचित्तानि द्वात्रिंशदप्यहर्निशम्॥३॥

द्वारत्रयस्थं देवताचक्रं प्रतिपाद्य तस्य पीठादिदशभूमिक्रमेण स्थितिं दर्शयितुमाह - अथेत्यादिना। द्वारनिर्देशानन्तरमित्यर्थ उक्तः। अन्यतमस्येति यस्य कस्यचित् तथागतकायस्य सर्वसत्त्वसाधारणस्य, न मदीयस्यैव। पीठादिस्थानं दर्शयिष्यामीति सम्बन्धः॥१॥

तदाह - नवश्रो(स्रो)तोगतमि(ता इ)त्यादि। प्रागुक्तानि यानि कायद्वाराणि नव श्रो(स्रो)तांसु, तेषु स्थिता या नाड्यः सार्वदैवता नव, तथा शिरस आरभ्य भगमध्यगाऽवधूतीदशमास्ता एव दशबुद्धबोधिसत्त्वभूमय उच्यन्ते। सत्यदर्शनाद्य(द)ध्यात्मनि तदनुभवो दृष्टस्तदा किं बहुप्रयत्नसाध्येन दृङ्मार्गादिनेति भावः॥२॥

भूमीरुक्त्वा भूमिस्था[ना]न्याह - ललाटेत्यादि। इहास्मिन् काये ललाटस्थानं महासुखचक्रमारभ्य नाडीचक्रस्य निर्णयो निश्चयो ज्ञातव्यः। तथा तद्गता[ः]


p.27


स्मृताः (एताः) पीठादिरूपेण सबाह्याभ्यन्तर स्थिताः।

खेचर्याद्यष्टौ योगिन्यो भूचर्योऽपि तथापराः॥४॥

याश्च पातालवासिन्यः सर्वास्तास्तासु संस्थिताः।

कायवाक्चित्तचक्रेषु स्थाना न्तरप्रभेदतः॥५॥

चतुर्विंशतिभेदेन पीठादिदशभूमयः।

यथास्थानस्वरूपेण भिद्यन्ते सहजस्थिताः॥६॥

द्वात्रिंशदेव संभोगादौ प्रसृताः, कायवृक्षस्य उष्णीषचक्रमूल(क)त्वात्। अत एवाधः - शाखः कायवृक्षः। अपि च, हस्तापादचतुष्टयं निंशतिरधोमुखाः। पार्श्वपृष्ठेषु तिस्रः। हृदि चक्रे च षत्। शृङ्खलाबन्धनाड्यस्तिस्रश्चतुश्चक्रस्तूपस्य। एवं ललाटादावेव नाडीचक्रस्य निर्णयः। द्वात्रिंशत् ता योगिन्यः, यद्बोधिचित्तानि तत्तुल्यानि वहन्ति। त एव वीराः खण्डकपालादयः, वज्रचण्डादयो महावीराः, वज्रमण्डलः श्रीहेरुकश्च। तदर्थमाह - श्र(स्र)वन्त्य इत्यादि॥३॥

एता बाह्येषु कायद्वारेषु पूतिगन्धादिपर्यायेषु चन्दोग्रादिष्व(अ)भ्यान्तरेषु च श्र‍आदिचतुर्विंशतिपीठेषु स्थितानां देशानां जालन्धरादीनाम्। तद्विभागमाह - खेचर्य इत्यादि। पुल्लीरादारभ्य मालवान्तं या नाड्यस्ताः खेचर्यः, कामरूपादारभ्य हिमालयान्तं भूचर्यः, प्रेतपुरीमारभ्य कुलतान्तं पातालवासिन्यः। कायस्योर्ध्वमध्यपर्यन्तभेदाद् एताश्चतुर्विंशतिः खेचर्यादयो दशभूमिप्रतिष्ठिताः। तदवयवेषु द्वारेषु च काकास्यादिस्वभावा नाड्यो व्यवस्थिताः॥४-४१२॥


p.28


एता एव समाख्याता मुदिताद्यास्तु भूमयः।

आलयो बोधिसत्त्वानामिन्द्रियादि स्वरूपिणाम्॥७॥

आलयः सर्वबुद्धानां स्कन्धादीनां विशेषतः।

बुद्धानां बोधिसत्त्वानां बुद्धत्वावाहिकाः पराः॥८॥

एतदाह - कायवाक्चित्तेत्यादि। स्थानान्तरप्रभेदः शिर‍आदिप्रभेदस्तमाश्रित्य, स्थिता इति वाक्यशेषः। अत एव य एते पीठादयश्चतुविंशतिराधेयरूपनाड्यो डाकिन्यस्तथा तदाधारभूता दशनाड्यो भूमिरूपास्ताः। यथास्थानस्वरूपेणेति। स्थानमनतिक्रम्य यथास्थानम्, यस्या यस्या योगिन्या यद्यत् स्थानं तस्यास्तस्यास्तत्र तत्र स्थाने सहजस्थितिर्भवति, न कल्पिता॥५-६॥

एता एव प्रमुदितादिदशभूमयो मया प्रोक्ता इति। तत्र शिरःशिखादक्षिणकर्ण पृष्ठानि पीठं बोधिचित्तास्पदं सैव प्रमुदिता, लयादिक्रमेणानन्दत्रयजननात्। वामकर्ण भ्रूमध्यचक्षुर्बाहुमूलमुपपीठम्, पीठसमीपम्। सैव विमला, ज्ञानाग्निना विकल्पमलदाहात्। कक्षस्तनौ क्षेत्रम्, स्वदक्षीरव्याजेन बोधिचित्तप्रसेचनात्। सैव प्रभाकरी, तदवलोकनान्मन आनन्दप्रभोत्पत्तेः। नाभिनासाग्रे उपक्षेत्रम्, बिन्दुसिङ्घानवाहित्वात्। सैवार्चिष्मती, ज्ञानाग्निप्रकाशकत्वात्। मुखकण्ठौ छन्दोहौ हः), रसोपभोगे छन्दवृत्तेः। सैव सुदुर्जया, रसान्निवर्तयितुमशक्यत्वात्। हृदयमेढ्रे उपछन्दिहः, अर्थावगतौ भोज्यपाके तद्वैमुख्यात्। सैवाभिमुखी, तदवधौ पाके चाभिमुख्यात्। गुह्यगुदौ मेलापकम्, प्रज्ञोपाययोः समापत्तौ तन्मीलनान्नाड्यैक्याच्च। सैव दूरङ्गमा, तन्नाडीसौशीर्यस्त दूरत्वात्। ऊरूजङ्घे उपमेलापकम्, पूर्वोक्तयोरपि मीलनात्। सैवाचला, तद्योगस्यानिवार्यत्वात् अङ्गुलीपादपृष्ठेश्मशानम्, सर्वपीठात्म-त्वादविकल्पपदानुभूतेश्च। सैव साधुमती, साधुनो नैरात्म्यस्य तत्र विद्यमानत्वात्।


p.29


द्वात्रिंशब्दोधिचित्तानि यदा यान्तीह पूर्णताम्।

तदा ससुतबुद्धानां बुद्धत्वं निकटं भवेत्॥९॥

स्वदेहे चैव बुद्धत्वं स्थितं नान्यत्र कुत्रचित्।

देहादन्यत्र बुद्धत्व मज्ञानेनावृतैर्मतम्॥१०॥

अङ्गुष्ठजानुनी उपश्मशानम्, पूर्ववत्। सैव धर्ममेघा, धर्मस्याधारणे स्थिरस्य मज्जोत्तरस्योर्ध्वश्रो(स्रो)तसा मेघवद्वर्षणे नीरुजो वा वृष्टियोगान्त[ः]। इति दशभूमिसंगृहीतानि चतुर्विंशतिपीठानि। तान्येव दशभूमयो लयादिक्रमेण ज्ञानस्योत्तरोत्तरक्रमेण वृद्धौ।

कस्य ता दशभूमय इत्याह - आलय इत्यादि। य एते चक्षुरादिषडिन्द्रियस्वभावा बोधिसत्त्वाः, तथा ये रूपादिस्कन्धरूपिणो बुद्धाः प्राक् प्रतिपादिताः, तेषां ता भूमयो भवन्ति, स्वभावेन वर्तन्ते बुद्धबोधिसत्त्वा आस्विति भूमयः। अत एव न केवलमार्याणां बुद्धत्वावाहिका यावत् पृथग्जनानामपि ये स्कन्धेन्द्रियस्वभावा बुद्धबोधिसत्त्वास्तेषामपि बुद्धत्वावाहिका भवन्ति, तत्त्वतस्तथागतपृथग्जनयोरभेदात्॥७-८॥

ननु त्रिकल्पासंख्येयं(य)प्राप्य[अ] बोधिस्तत्कथं स्कन्धादयोऽभिसंबुध्यन्ते, इत्याशङ्कयाह - द्वात्रिंशदित्यादि। द्वात्रिंशतो बोधिचित्तानां यदा दम्भोलिमुखे पयोजक्रोडे वा पूर्णत्वमनुभूयते, तदा बुद्धत्वं तेषां निकटे समीपे वर्तते। न कालापेक्षयेति विशेषः॥९॥

ननु च मनुष्यभावे वर्तमाना वयम्, बुद्धास्तु बुद्धक्षेत्रेष्वभिरत्यादिषु ज्ञानमण्डलरूपेण तिष्ठन्तीति कुतो बोधिर्निकटेत्याशङ्कां निराकर्तुमाह - स्वदेह एवेत्यादि। स्वरूपावबोधाद् बुद्धस्तस्य भावो बुद्धत्वम्, तत् स्वदेह एव स्थितं व्यवस्थितम्। अत एव तदेव बुद्धक्षेत्रम्, अत्रैव प्रकृतिसिद्धस्य सहजबुद्धस्यावस्थानात्। नान्यत्रै(त्रे)त्यभिरत्यादौ। तस्माद्देहादन्यत्र बाह्येषु स्थानेषु बुद्धत्वं प्राकृतैः, प्रकृत्यां भवाः प्राकृता


p.30


पीठं चैवोपपीठं च क्षेत्रोपक्षेत्रमेव च।

छन्दोहस्तु तथा चान्यदुपच्छन्दोहमित्यपि॥११॥

मेलापकस्तथा चैव उपमेलापकस्तथा।

श्मशानोपश्मशानं च पीठादिदशभूमयः॥१२॥

इति श्रीवसन्ततिलकायां तथागत कायगतनवस्रोतोभगमध्यगत-नाडीदश पीठादिभूमि स्वरूपाख्याननिर्देशश्चतुर्थः॥४॥

यथैव जातास्तथैव स्थिता न तु व्युत्पन्नमतयस्तैः, मतमिष्टम्। निष्पन्नक्रमाधिगम-विद्भिस्तु बुद्धत्वं स्वभावसिद्धत्वेनेष्यते, "पंञ्चबुद्धात्मकु सर्वजगोऽयम्" इति वचनात्। "भवति तथागतः परंमरणात्" इत्यव्याकृतवितर्की(र्का)श्च प्रत्याख्याता भवन्ति, "अबुद्धो नास्ति सत्त्वैकः संबुद्धोऽस्त्वस्य स्वस्य च" (२४७३) इति हेवज्रवचनात्। आचार्यवज्रपाणिरपि - "नरा वज्रधराकारा योषितो वज्रयोषितः" इत्याह। तथागतगुह्यसूत्रेऽपि - "सर्वसत्त्वानां कायवाक्चित्तव्यवहारा स्त्रिकुलगुह्यम्" इति। ज्ञानपादैरपि - "एवंविधैश्च चेतसि यत्किञ्चित्कायवाङ्मनस्कर्ममुद्रा-मन्त्राकारं गदितं सर्वबुद्धैः" इत्युक्तम्॥१०॥

प्रागुक्तानां दशभूमीनां नामान्याह - पीठोपपीठेत्यादि। एषां निरुक्तिः प्रागुक्ता॥११ १२॥

इति वसन्ततिलकायां निष्पन्नक्रमसाधनोपायिकायां टीकायां रहस्यदीपिकायां चतुर्थनिर्देशे विस्तरव्याख्या॥४॥


p.31


पञ्चमो निर्देशः


अथान्यतमस्य तथागतकायस्य नवस्रोतोभगमध्य गता(त)नाडीस्वरूपपीठादिदश भूमिपारमिताकायवाक्चित्तचक्रगत स्थानान्तरभेदेन देशभेदं कथयिष्यामि॥१॥

शिरो मलयदेशस्तु शिखा जालन्धर स्तथा।

ओडियानस्तथा चैष दक्षिणकर्ण उच्यते॥२॥

अथान्यतमस्येत्यादिना प्रागुक्तचतुर्विंशतिपीठानां शिर‍आदिदिससा)मानाधिकरण्येन नामानि तत्र स्थितनाडीनां खेचर्यादिस्वभावतामुद्देश निर्देशक्रमेणाह - अथेत्यादि। कथयिष्यामीत्यन्तमुद्देशः सुगमः॥१॥

शिरो मलयदेश इत्यादिना निर्देशमाह। तत्र मलय इति महासुखस्वभावं संवृतिपरमार्थाभिन्नबोधिचित्तं लियते यत्र स मलयः, तथाभूतो देशो मलयदेशः शिरः, तत्रैव तस्य भावात्। नाडीजालस्य मूलं तद्वा(द्वा)रणे जालन्धरं शिखा। सव्यकर्णमार्गेण चण्डाल्या ओडयाख्ये खेचरवृत्त्या यानं बहिर्निर्गमनं तत्र उड्डियानं च दक्षिणकर्णः। आभ्यां स्वरव्यञ्जनदूतीभ्यां मुद्रात्रयसमापत्त्या कर्ममारुतेश्वरदण्डभेदादविकल्पसुखानुभव (वो) बुध्यत इत्यर्बुद[ः] पृष्ठं शिरसः, पृषोदरादित्वाद्धस्य दः।


p.32


अर्बुदः पृष्ठदेशस्तु चत्वारः पीठसंज्ञकाः।

गोदावरी तथा ज्ञेया वामकर्णस्वरूपिका॥३॥

रामेश्वर स्तथा ख्यातो भ्रूमध्ये त्वथ चक्षुषी।

देवीकोट्ट स्तथा चान्यो बाहुमूलं तु मालवः॥४॥

इत्येवमुपपीठास्तु चित्तचक्रे व्यवस्थिताः।

खेचरीणां समाख्याताः स्थानविशेषरूपिणः॥५॥

एते पूर्वोक्तेन न्यायेन चत्वारः पीठसंज्ञका ज्ञेयाः, तत्रत्यानां च नाडीनां चतसृणां खेचरीणां प्रचण्डादिनामधेयानां गोचरा विषया आधारस्वभावा ऊष्मादिसाधर्मे(र्म्ये)ण चतुष्प्रकारा विकल्पसुखानुभवेन विशिष्टमोदानुभवा मुदिता भूरपीति॥२-२१२॥

गां भुवभूव(भुवं भू)स्वभावं निर्माणचक्रं वरत इति गोदाऽवधूती, तया व्रियते च्छाद्यत इति गोदावरी वामकर्णः, तया तस्य व्याप्तेः। रामा च रामा च ते रामे ललनारसनास्वभावे भ्रुवौ, तयोर्मध्ये ईश्वरत्वं यस्य ज्ञानार्चिषस्तद् भ्रूमध्यमित्यूर्णाकोषम्। देव्यास्तस्या एव कोट्ट इह(व) कोट्टो देवीकोट्टः, तदाश्रये नेत्रद्वयम्(ये) तत्प्राप्तेः। तथा बाह्वोरन्तर्भुजयोर्यदेतन्मूलद्वयं स्कन्धद्वयं तत्रैव मालवम्। मालानां विजातीयविकल्पानां लवनात् छेदनाद् मालव इत्युच्यते, तथानुभवात्। एते उपपीठास्तत्रत्यानां नाडीनां वीरमती-खर्वरी-लङ्केश्वरी-द्रुमच्छाया-स्वरूपाणां खेचरीणां गोचरा विषया ज्ञातव्याः। इति चित्तचक्रम्॥३-५॥


p.33


कामरूपो मतः कक्षौ स्तनावोद्र[ः] प्रकीर्तितः।

एते क्षेत्रे समुद्दिष्टे नाभिस्त्रिशकुनिर्मतः॥६॥

कोशलो नासिकाग्रं तु तदुपक्षेत्रमुच्यते।

कलिङ्गस्तु मुखं प्रोक्तं लम्पाकः कण्ठमध्यके॥७॥

छन्दोह इति विख्यातो हृदयं काञ्चिरुच्यते।

मेढ्रे हिमालयं चैव उपच्छन्दोह इत्यपि॥८॥

कक्षद्वयं स्तनद्वयं यथाक्रमम्, कामं रूपमभिलषणीयं दर्शनं यस्य स कामरूपः कक्षद्वयम्, ओडयोर्ध्वगमनेन राति स्वीकरोति चण्डालीति ओड्रं स्तनद्वयम्, एतद् द्वयं पूर्वोक्तेन न्यायेन क्षेत्रम्। नाभिर्नासिकाग्रं च द्वे त्रिशकुनिकोशलौ। त्रयः शकुनयः पक्षिसदृशाः खगमुखाकाराः कायवाक्चित्तनाड्यो यत्र तत् त्रिशकुनिर्नाभिस्थानम्, वज्रग्रन्थिरूपत्वात्। तथा कोशलं सिङ्घानं स(श)लति वहति यस्मात् तत्कोशलं नासिकाग्रम्। एते पूर्वोक्तक्रमेणोपक्षेत्रे विज्ञेये॥६-६१२॥

मुखकण्ठे कलिङ्गलम्पाकौ। कं सुखं लिङ्गयति गमयतीति कलिङ्गम्, सेवाकाले तद्दर्शनादेवानन्दोत्पत्तेः। तथा लम्बिकाऽधराऽमृतास्वादनलम्पटा रसना, तद्योगात् लम्पाकः कण्ठः। तौ पूर्वोक्तव्याख्यया च्छन्दोह इत्युच्येते। हृदयं मेढ्रश्च 


p.34


इत्येवं सर्वदेशास्तु वाक्चक्रे संव्यवस्थिताः।

भूचरीणां समाख्याताः स्थानविशेषरूपिणाम्॥९॥

प्रेताधिवासिनी लिङ्गे गुदं तु गृहदेवता।

एतौ मेलापकः प्रोक्तावूरू सौराष्ट्र उच्यते॥१०॥

काञ्चीहिमालयौ। तथा हि - कं सुखमञ्चति गच्छति धावति, कदलीपुष्पसंकाशं(श) लम्बमानाधोमुखीस्रवदमृतबिन्दूहूँकाराकारमारदारिकानालिकासम न्वागतत्वात्। हिमवर्णं बोधिचित्तम्, तस्यास्पदत्वाद् हिमालयो मेढ्र इत्युच्यते। उपछन्दोहः पूर्ववत्। इत्येवमित्यादिना तत्रत्यानां नाडोनाम् ऐरावती-महाभैरवा-वायुवेगा-सुराभक्षी-श्यामा-देवो-सुभद्रा-हयकर्णा-खगाननानां भूचरीणामेतानि स्थानानि ज्ञेयानीति। भूचर्यः, कायस्य मध्ये स्थितत्वात्॥ ७-९॥

तथा लिङ्गं द्विधा - स्त्रीलिङ्गं पुल्लिङ्गं च। गुदेऽपि तथैव। तौ यथाक्रमं प्रेत-पुरी-गृहदेवते ज्ञेये। तथाहि - प्रेतानां पञ्चानामाकाशानां पुरी इव पुरी प्रेतपुरी सा ध्वजयुगली। गृहस्य शरीरस्य देवता वैरोचनो गृहदेवता विड्धातुः, तदाधारत्वाद् गृहदेवता गुदद्वारम्। ते यथाक्रमं मेलापकसंज्ञके ज्ञेये, ध्वजद्वयस्यापानमार्गस्य च समापत्तिकाले समायोगात्।

तथा ऊरुद्वयं जङ्घाद्वयं च सौराष्ट्रं सुवर्णद्वीपं च विज्ञेयम्। तथाहि - सौख्यस्य राष्ट्रम्, विशिष्टकालदर्शने च ऊरुद्वयमेवान्योन्यम्। तथा सुवर्णस्य सुसितत्विषश्चित्तस्य द्वीपमिव द्वीपं जङ्घाद्वयमेवैतत् पूर्ववदुपमेलापकं विज्ञेयम्।

तथा पादाङ्गुल्योऽष्टौ पादपृष्ठं च नगरं सिन्धुश्च ज्ञातव्यौ। न गच्छन्तीति नगा अङ्गुल्यः, अतः परमप्रसरणान्नगरम्। पादपृष्ठादङ्गुष्ठे बोधिचित्तस्य स्पन्दनात् सिन्धुः पादपृष्ठम्। एतद् द्वयं पूर्वोक्तेन न्यायेन श्मशानम्।


p.35


जघाद्वयं तु विख्यातं सुवर्णद्वीपसंज्ञकम्।

उपमेलापक श्चैव अङ्गुल्यां नगर[ः] स्मृतः॥११॥

सिन्धुस्तु पादपृष्ठं वै श्मशानं समुदाहृतम्।

अङ्गुष्ठस्तु मरुः प्रोक्तः कुलुता जानुरुच्यते॥१२॥

उपश्मशानमेतत्तु पीठादिदशभूमयः।

एताः स्वदेहजाः सर्वा भिद्यन्ते स्थानभेदतः॥१३॥

सबाह्याभ्यन्तरस्थास्तु बुद्धानां दशभूमयः।

कायवाक्चित्तचक्रेषु चतुर्विंशतिभेदतः॥१४॥

पादाङ्गुष्ठे जानुनी च मरुकुलते विज्ञेये। मस्य महासुखस्य रवनाद् नदनाद् मरुः। कुविकल्पानां लवनात् कुलता। ते द्वे यथाक्रमं पूर्ववदुपश्मशाने इत्युच्येते। एता दशभूमयः पीठाद्या इति पीठादिसंकेतिताः॥१०-१२१२॥

स्वदहेजा इति दशमासक्रमजाः स्वदेहेन सह जाताः, न तु दृङ्मार्गक्रमेण प्राप्या इति। ताः पुनः स्थानभेदेनोक्तप्रायेण भिद्यन्ते। अत एव बाह्यद्वारैः सह नवभिराभ्यन्तर्या चैकया संकलय्य दशभूमय उच्यन्ते। कस्य ता भूमयः ? बुद्धानामिति रूपस्कन्धादिरूपिणां ज्ञानैकात्मनाम्। अथवा बुद्धाश्चतुर्विंशतिधातुरूपा वीराः। बुद्धाश्चाभेद्यादयश्चतुर्विंशतिनाड्यः। एकशेषे सति वीरयोगिनीनां सहजा एता दश भूमयः, न तु कल्पिताः साध्या वेति भावः॥ १३ -१३ १/२॥

नैतां आर्याणामेव भूमयः, अपि तु पृथग्जनानामपीति दर्शयितुमाह - चित्तवाक्कायचक्रेष्वित्यादि। प्रागुक्तक्रमैश्च देहस्थितचित्तादिचक्रेषु चतुर्विंशतिस्थानभेद -


p.36


स्थानानि सर्वनाडीनां समाख्यातानि सर्वतः।

एषु स्थानेषु डाकिन्यो नाडीरूपेण संस्थिताः॥१५॥

इति श्रीवसन्ततिलकायां पीठादिदशभूमि देश-

भेद निर्देशः पञ्चमः॥५॥


भिन्नेषु सर्वदेहिनामपदद्विपदचतुष्पदबहुपदानामपि नाडीरूपेणैता भूमयो दश स्थिता इति, तत्त्वतः सर्वेषामेव सत्त्वानां भूमीश्वरत्वात्॥१४-१५॥


इति वसन्ततिलकायां निष्पन्नक्रमसाधनोपायिकायां रहस्यदीपिकायां

तीकायां पञ्चमनिर्देशविस्तरव्याख्या॥५॥


p.37


षष्ठो निर्देशः


अथान्यतमस्य तथागतकायस्ये यथास्थानगतनाड्चक्रं पिण्डतः सूचयिष्यामि॥१॥

स्वहृन्मध्यगतं पद्ममष्टपत्रं सकर्णिकम्।

तस्य मध्यगता नाडी ज्वलद्वह्निस्वरूपिका॥२॥

कदलीपुष्पसंकाशा लम्बमाना त्वधोमुखी।

तस्य मध्ये स्थितो वीरः सर्षपस्थूलमात्रकः॥३॥

इदानीं स्वदेहस्थितनाडीचक्रमेव सर्वचक्रस्थितडाकिनीस्वभावं तदधिपतेश्च स्वभावसिद्धमन्त्रात्मतां प्रतिपादयितुं षष्ठनिर्देशमवतारयितुमथेत्याद्याह। अन्यतमस्येति सर्वसत्त्वधातुगतस्य। तथागतकायस्येति पूर्ववत्। स्कन्धादिस्वभावाद् वा नवतिदेवातामयस्य। यथास्थानं स्थानमनतिक्रम्य। नाडीचक्रमेव योगिनीगणम्। सूचयिष्यामः कथयिष्याम इत्युद्देशः॥१॥

तत्राधिपतेर्मन्त्र रूपेण स्थितिमाह - हृन्मध्यगतमित्यादि। इह सर्वदेहिनां हृदये धर्मचक्रकर्णिकाकेशरान्विताष्टदलं नाडीचक्रं प्रहराष्टकविशुद्धिस्वभावं विद्यते। तस्य मध्ये तैलवह्निस्वरूपिण्यधोमुखी कदलीपुष्पसदृशी त्रिवृतानाम्नी या, तन्मध्ये रविकिरणनिकरविगलित प्राभातिकावश्यायकण सदृशबिन्दून् पुञ्चन् सूक्ष्मसर्षपप्रमाणो हूँकार उच्चारयितुमशक्यत्वादनाहतः सर्वविकल्पभयेभ्यो निर्गतत्वाद्वीरः, स एव 


p.38


हूँकारोऽनाहतं बीजं स्रवत्तुषारसन्निभम्।

वसन्त इति विख्यातो देहिनां हृदिनन्दनः॥४॥

वडवानलरूपा तु वाराही तिलका स्मृता।

कर्ममातुतनिर्धूता ज्वलन्ती नाभिमण्डले॥५॥

वसन्तं प्राप्य सन्तुष्टा समापत्त्या व्यवस्थिता।

एष श्रीहेरुको वीरो वसन्ततिलका स्मृता॥६॥

सर्वदेहिनां हृदयानन्दजनकत्वाद् वसन्त इव वसन्तो भगवान् श्रीहेरुक इति ज्ञातव्यः। न तु चतुर्वक्त्रो द्वादशभुजः॥२-४॥

येयं वाडवाग्निसदृशी ज्ञानाग्निर्मन्थ मन्थनसंयोगलक्षणकर्ममारुतोद्बोधिता नाभिदेशाज्ज्वलन्ती ऊर्ध्वमार्गण गत्वा तं वीरं हृदयस्थं तदमृतनिर्झरधारासारेण तथैव द्रावितेन स्पृष्टा, अत एवाद्वययोगात् समापत्त्याऽवस्थिता वसन्ततिलकेत्युच्यते॥ ५-५ १/२॥

अत एवाह- एष श्रीत्यादि। योऽयं हूँकारः प्रागुक्तलक्षण उक्तः, स एव श्रीहेरुकः। ज्ञज्वाला तु वज्रवाराही तिलकेत्युच्यते। सैव सचराचरे स्थावरजङ्मात्मके जगति प्रागुक्तं योगिनीरूपं रक्तवर्णमादाय स्थिता। तथा सैव भगचती कायादिभेदभिन्नाऽधममध्यमोत्तमद्वारत्रयेणाभिद्य पञ्चदशभेदेन गमनागमनस्थितीः करोति। न च सैवापि तु सर्वदेहे व्यवस्थितेत्यर्थः॥६-७ १/२॥

मण्डलाधिमतेश्चतुश्चक्रव्याप्तिं दर्शयितुमाह - नाभावित्यारभ्य क्रीडतीह यथासुखमित्यन्तेन। तत्र निर्माणचक्र(क्रे) नाभौ स एव वसन्तो अकारो ह्रस्वरूपः। हृदि धर्मचक्रे नादबिन्दुयुक्तहूँकाराकारः। संभोगचक्रे कण्ठे स एव त्रिमात्रः प्लुतः


p.39


योगिनीरूपमाघाय संस्थिता सचराचरे।

कायवाक्चित्तभेदेन त्रिविधो द्वारनिर्गमः॥७॥

गत्यागती करोत्येष सर्वदेहे व्यवस्थितः।

नाभावकाररूपेण ह्रस्वस्तु परिकीर्तितः॥८॥

हृदयेऽपि हि हूँकारो दीर्घमात्राद्वयस्मृतः।

कण्ठे ओंकाररूपेण त्रिमात्रः प्लुत उच्यते॥९॥

प्रणवरूपः। नाडीकौटिल्यात्तस्य त्रिपरिवर्तश्चाण्डाल्याः प्रवेशान्निर्गमा च्चेति कृत्वा। ललाटे महासुखचक्रे विन्दुनादभूषितोऽनाहताक्षरो हंकारः। तदेव विलोमेन शिरः- कण्ठहृदयनाभिरूपः श्रीहेरुको मन्त्रमूर्तिः। तदाधारमाह - पृथिव्यादिस्वभावानि यानि चत्वारि चक्राणि तानि तस्य बुद्धक्षेत्रम्। अहोरात्रे चतस्रः सन्ध्या मध्याह्न-प्रदिषार्धरात्रप्रत्यूषलक्षणा श्चक्रवाहिन्यश्चतुःपञ्चाशच्छतश्वाससंख्याः, त एव तस्य प्रज्ञासनाथस्य चत्वारो मुखाः। य एते विचित्रादयश्चत्वार आनन्दोपलक्षणभूताः


p.40


ललाटे तु हंकारोऽसौ नादो बिन्दुरनाहतः।

पृथिव्यादिमहाभूते चतुश्चक्रप्रभेदतः॥१०॥

चतुःसन्ध्या मधिष्ठाय चतुःक्षणसमुद्भवः।

चतुरानन्दरूपस्तु चतुर्योगपरायणः॥११॥

परमान्दरूपेण क्रियाकारकभावतः।

श्रीवज्रसत्त्वरूपेण क्रीडतीह यथासुखम्॥१२॥

दलानां चतुष्टयेऽपि चतुर्दिक्षु व्यवस्थिताः।

चतस्रो भूतनाडयस्तु चित्तवज्रपदे स्थिताः॥१३॥

क्षणा आनन्दादयश्च चत्वारस्त्वरितबाष्पविबन्धकविश्वस्तकाश्चत्वारो योगाः प्रत्याख्यातास्त एव तस्य द्वादशभुजास्त एव चोर्ध्वप्रवृत्ता द्वादश नेत्राणि त एव मध्यवर्तिनो द्वादशायुधानि। अत एव क्रियाकारकयोर्दाहिकाऽऽप्या यिकयोर्भावेन सामरस्येन श्रीस्तिलका, वज्रसत्त्वो वसन्तस्तयो रूपम्, तेन यथासुखं चतुरानन्दरूपत्वमाश्रित्य क्रीडति, सर्वदेहिनां देहे रमत इत्यर्थः॥८-१२॥

एवं मध्यनायकं सप्रज्ञं मुखभुजवर्णसंस्थानचिह्नमध्यात्मरूपं प्रकाश्य ज्ञानचक्रडाकिनी पूजाकलशचतुष्टयं च प्रतिपादयितुमाह - दलानां तु चतुष्टयमित्यारभ्य पञ्चनाड्यो व्यवस्थिता इत्यन्तेन ग्रन्थेन। तत्र धर्मचक्रस्य पूर्वोत्तरपश्चिमदक्षिण-दिग्भागस्थिताश्चतस्र धारणस्रावण तेजनप्रेरणलक्षणास्ता एव चित्तवज्रस्य 


p.41


डाकिनी च तथा लामा खण्डरोहा च रूपिणी।

विदिक्षु व्यवस्थिता नाडयश्चतस्रस्तद्गता अपि॥१४॥

पञ्चामृतवहास्तास्तु तत्पूजारूपतां गताः।

चतुःपूजेति विख्यातास्तद्रूपा एव भावतः॥१५॥

इति देहस्य हृन्मध्ये पञ्चनाडयो व्यवस्थिताः।

कायवाक्चित्तचक्रेषु चतुर्विंशत्युदाहृताः॥१६॥

श्रीहेरुकस्य पदे ज्ञानचक्रे स्थिता यास्ता एव डाकिन्यादयो डाकिनी-लामा-खण्डरोहारूपिण्यो विज्ञेयाः। तत्र पृथिव्याकाशे डयनाद् डाकिनी। अब्धात्वाकाशे लसनात् लामा। छान्दसो वर्णव्यत्ययः। तेज‍आकाशः शे ) खण्डयति गच्छतीति खण्डम्, तद्विशुद्धया तत्रैव रोहतीति खण्डरोहा। ततः समानाधिकरणसमासः। वाय्वाकाशं रूपयति विशोधयतीति रूपिणी। दिग्डादिनीरुक्त्वा विदिक्षु पूजाकलशानाह - विदिक्षु व्यवस्थिता इति। तत्रैव ज्ञानचक्रे हृदि याः पञ्चामृतवाहिन्यः कोणस्था नाड्यस्ता एव कलशाकृतयस्तद्भूतशुषिर कपालमालास्थितसुधात्मानश्चतस्रः पूजा ज्ञातव्याः। उपसंहारमाह - इति देहस्येत्यादि। एवमुक्तेन न्यायेन शरीरमध्ये पञ्चनाड्यस्त्रिवृताद्या ज्ञानपद्मडाकिन्यश्चतुःपूजाभिः सह ज्ञेयाः। न तु बाह्याः कल्पिताः, अनुभवनादरूपत्वात्॥१३-१५१/२॥

त्रिचक्रनाडीरूपा योगिनीराह - कायवाक्चित्तेत्यादि। चित्तवाक्कायेति वक्तव्ये विलोमपाठोऽभव्येषु गोपनार्थः। ततश्च चित्तादिचक्रे शिर‍आदिचतुर्विंशतिपीठाद्यात्मके प्रचण्डाद्याश्चतुर्विंशतिनाडीरूपेणैव स्थाने स्थाने इति पीठोपपीठादिके उपश्मशानपर्यन्ते ज्ञानुद्वयान्ते स्वभावसिद्धा एव व्यवस्थिताः, मूलतन्त्रेऽपि - "योगिन्यः


p.42


पीठादिभेदमाश्रित्य स्थाने स्थाने व्यवस्थिताः।

शिरसस्तु समुद्भूता नाड्यः शिरसिजाः स्मृताः॥१७॥

रजःसत्त्वतमोरूपास्तासां मध्ये तु नायिकाः।

पुल्लीरे तु प्रचण्डाख्या नखदन्तवहा स्मृता॥१८॥

जालन्धरे तु चण्डाक्षी केशरोमवहा तथा।

ओडियाने महापीठे प्रभावती व्यवस्थिता॥१९॥

दक्षिणकर्णमाश्रित्य स्थिता त्वङ्मलधारिणी।

अर्बुदे तु महानासा डाकिनी पिशिताशिनी॥२०॥

चतस्रस्तु समाख्याता डानिन्यः पीठनायिकाः।

महोरुस्था तु या नाडी गोदावर्यां व्यवस्थिता॥२१॥

वीरमतीति विख्याता स्थिता सा दृढरूपतः।

रामेश्वरे तु या नाडी प्रसिद्धा खर्वरीति सा॥२२॥

सहजा[ः] सिद्धा[ः]" इति वचनात्। ता एवाह - शिरसस्तु समुद्भूता नाड्यः शिरसिजाः स्मृता इति। इह महासुखचक्राद् द्वात्रिंशन्नाड्यः प्रादुर्भवन्ति, हिमवत्त इव सरितः॥१६-१७॥


p.43


अस्थमालाव्यवस्था हि स्थिता कठिनभावतः।

देवीकोटे तु या नाडी मृद्वी लङ्केश्वरी मता॥२३॥

बुक्कं वहति या नित्यं सर्वदेहा धिवासिनी।

मालवे तु द्रुमच्छाया हृदयस्था जिनेश्वरी॥२४॥

उपपीठसमाख्याता डाकिन्यो लोकमातरः।

चित्तचक्रे तु खेचर्यः पीठोपपीठसंस्थिताः॥२५॥

तासां च शुक्ररक्ततदुभयसंग्रहकारिण्यो ललनारसनावधूतिकाः सकलत्रैधातु-कोत्पत्तिभूताः सत्त्वरजस्तमोमय्यः कायवाक्चित्तात्मिका बोद्धव्याः। तत्र द्वात्रिंशतो नाडीनां नामानि श्रीहेवज्रे -

अभेद्या सूक्ष्मरूपा च दिव्या वामा च वामिनी।

कूर्मजा भाविकी सेका दोषा विष्ठा च मातरी॥

स(श)र्वरी शीतदा चोष्मा ललनावधूतीरसना।

प्रवणा हृष्टवदना सामान्या हेतुदायिका॥

वियोगा प्रेमणी सिद्धा पावकी सुमनास्तथा।

त्रिवृता कामिनी गेहा चण्डिका मारदारिका॥

कात्यायनी चेति

एता द्वात्रिंशत् सन्ध्यानाडीचतुष्टयेन सह षट्त्रिंशत्। त्रिवृत्ता(ता)द्या अवधूत्याद्याश्चाष्टौ वर्जयित्वा परिशिष्टा अभेद्याद्याश्चतुर्विंशति[ः] प्रचण्डाद्या विज्ञेयाः।


p.44


चक्षुर्वहति या नाडी कामरूपे व्यवस्थिता।

ऐरावतीति विख्याता रूपदर्शनभाविता॥२६॥

ओड्रे पित्तवहा नाडी महाभैरविका स्मृता।

एते क्षेत्रसमुद्दिष्टे डाकिन्यौ योगमातरौ॥२७॥

त्रिशकुनौ समुद्भूता वायुवेगा सफुफ्फुसा।

अन्त्रमालाकुला दिव्या सुराभक्षी तु कोशले॥२८॥

आसां तु नखदन्तादयश्चतुर्विंशतिधातवः खण्डकपालादयो ज्ञातव्याः। तत्र नाडीपीठडाकिनीनां निरुक्तिः -

नखदन्तानामभेद्यानां प्रसवनादभेद्या शिरसि। केशरोम्णां सुसूक्ष्माणां वहनात् सूक्ष्मरूपा शिखायाम्। त्वङ्मलस्य बहिर्द्योतमानस्य वहनाद् दिव्या सव्यकर्णे। वामनस्यैव पूर्णस्य मांसस्य वहनाद् वामा पृष्ठे। तदुदये वा वामनाकारे सत्त्वधातूत्पादात् स्नानूनां वहनाद् वामनी, तदुदये वा भुक्तस्य वमनाद् वामकर्णे। कूर्मपृष्ठमिवाभेद्यमि-त्यस्थिमालावहनात् कूर्मजा भ्रूमध्ये। वक्कं भावयतीति स्रवतीति भाविकी चक्षुर्द्वये। सिञ्चति हृदयान् सुधारसेनेति सेका बाहुमूलद्वये। एताः पीठोपपीठेष्वष्टौ नाड्यः खेचर्यः सोपायाश्चित्तचक्रे।

दुष्यते या स्वविषयेन(ण) विक्रियत इति दोषा चक्षुर्धातुवहा कक्षयोः, कक्षदर्शनान्मनोविकृतेः, ममेयमिति द्वेषोदयाच्च। द्वेषो दोष इति पर्यायौ। पित्ताख्यं विष्ठं वहतीति विष्ठा स्तनद्वये। विड्धातुः प्रेरणे। ऊर्ध्वं फुफ्फुसवहनान्मातेव 


p.45


उपक्षेत्रसमुद्दिष्टे डाकिन्यौ योगमातरौ।

श्यामादेवी कलिङ्गे तु पार्श्वतस्तु समाश्रिता॥२९॥

उदरस्था सुभद्रा वै लम्पाके परिकीर्तिता।

छन्दोहाविति विख्यातौ(ते) डाकिन्यौ योगमातरौ॥३०॥

हयकर्णा तु काञ्चीस्था विष्ठां वहति सर्वदा।

सीमान्तमध्यगा चापि हिमालये खगानना॥३१॥

उपच्छन्दोहौ विख्यातौ(ते) डाकिन्यौ योगमातरौ।

वाक्चक्रे संस्थिता नाडयो भूचर्या दूतयः स्थिताः॥३२॥

मातरा, मातरं प्रत्यभिलाषजननाच्च जगज्जननाच्च नाभौ। अन्त्रमालासु महासुखस्य स्वापनाच्छर्वरो, रात्रिर्विकल्पजननाच्च नासाग्रे। गुणवर्तिमेदोजालिकयाऽन्त्राणि परिवर्त्य तिष्ठति, तद्वाहिनी शीतदा, तस्यां शीतस्पर्शदायित्वान्मुखे। उदरे जठराग्ने स्तद्वाहित्वादूष्मा कण्ठे। पुरीषवाहित्वात् प्रवणा, वर्णव्यत्ययात् प्रणवा, वैरोचनप्रवाहिनी हृदये। सीमन्तो वरटकमध्य [स्]तद्वाहित्वाद् हृष्टवन्दनात् कर स्पर्शात् प्रज्ञोपाययोः सानन्दनन्दनत्वान्मेढ्रे। एतत् क्षेत्रोपक्षेत्रछन्दोहोपछन्दोहाख्येष्वष्टौ नाड्यो भूचर्यो वाक्चक्रे।


p.46


प्रेताधिवासिनीसंस्था श्लेष्मला चक्रवेगिनी।

पूयं वहति सा नित्यं गृहदेवतसंस्थिता॥३३॥

खण्डरोहेति विख्याता डाकिनी परमेश्वरी।

मेलापकौ हि विख्यातौ डाकिन्यौ योगमातरौ॥३४॥

सौराष्ट्रे लोहिताख्या तु शौण्डिनी डाकिनी मता।

प्रस्वेदवाहिनी नाडी सुवर्णद्वीपसंस्थिता॥३५॥

धातुसाम्यस्य श्लेष्मणो वहनात् गुह्ये। प्रायेण मांसभक्षणाद् वियोगा विकल्पजननाद्वा गुदे। लोहितवहनाद्वसन्तपुष्पैः प्रेमोत्पादनात् प्रेमणी ऊर्वोः। स्वेदोत्पाद समापत्तौ सर्वत्र सिद्धः, तद्वाहित्वात् सिद्धा जङ्घयोः, सिद्धिनिमित्तोत्पादनं प्रति वा तदधिकारात्। गात्रपुष्टौ मेद एव हेतुस्तद्वहनाद्धेतुदायिका पादाङ्गुलीषु। अश्रुणा मुखस्य शोकस्य वा ज्वलनात् पावकी पादपृष्ठे। खेटेन योगिनां सोमनस्यजननात् सुमनाः पादपृष्ठे। सिङ्घाणकस्यात्ययनाद्यावत् कात्यायनी जानुद्वये। इति मेलापकोपमेलापकश्मशानोपश्मशानाख्येष्वष्टौ नाड्यः पातालवासिन्यः कायचक्रे।

समयचक्रनाडीनिरुक्तिं दूरमपसृत्याह - पूर्वस्मिन् वाचिके द्वार(६/४०) इति। वाग्द्वारात् पूर्वं कायद्वारम्, तस्मिंश्चक्षुरादिनाड्योऽष्टौ दक्षिणेषु चक्षुःश्रोत्रघ्राणेषु वामेषु च, वक्त्रगुदयोश्च तन्नाम्ना प्रसिद्धा एव समयचक्रस्था ज्ञातव्याः, विषयोपभोग-लक्षणसमयस्यानुष्ठानात्। इति नाडीनिरुक्तिः।

पीठनिरुक्तिः प्रागुक्ता। डाकिनीनिरुक्तिरुच्यते। इह सर्वा एव डाकिन्यो वाराहीकुलसंभवा इति बहुशः प्रतिपादितम्। तदभिन्नतयैव ता निरुच्यन्ते। तत्र प्रशान्तं चण्डत्वं यस्याः सा प्रचण्डा, महासुखस्थानमासाद्येति यावत्। चण्डे तीक्ष्णे दाहके वामेतरे नाड्यौ अस्या इति चण्डाक्षी, मध्यमया द्वयोः प्रकाशनात्। अग्निवर्ण -


p.47


समाकुला सुदीप्ताङ्गी मता सा चक्रवर्मिणी।

उपमेलापके प्रोक्ता(क्ते) डाकिन्यौ योगमातरौ॥३६॥

नगरे तु सुवीराख्या मेदवसावहा स्थिता।

सिन्धौ महाबला ख्याता सशोका चाश्रुवाहिनी॥३७॥

श्मशाने संस्थिते चैते डाकिन्यौ योगमातरौ।

खेटं वहति या शुष्का मरौ तु चक्रवर्तिनी॥३८॥

प्रभायुक्तत्वात् प्रभावती। महत्यो गुह्यहृन्मुखेषु नासिका यस्याः सा महानासा। पीठडाकिन्यो यथाऽन्वर्थाः। वीरो जनकत्वेन विद्यते यस्याः सा वीरमतो, "नाभिमध्ये स्थितो वीरः" इति वचनात्। खरा चासौ त्रिचक्रदाहाद् वरा चासौ पुनस्तदाप्यायना दिति खर्वरी। लङ्का शरीरपुरी तस्यामीश्वरी स्वामिनी लङ्केश्वरी। द्रुमच्छायेव शीललाऽऽप्यायनाद् द्रुमच्छाया। इत्युपपीठडाकिनीनामन्वर्थाः। इति चित्तचक्रस्य खेचर्यः।

ऐरावती ऐरावत इव वेगवाहिनी। तृतीयौलौ ग्रन्थिभेदान्महाभैरवा। वायुवदध ऊर्ध्वं दश दिक्षु च वेगो जवो यस्याः सा वायुवेगा, ओलिद्वयेऽपि। सुरां सुधां भक्षयतीति सुराभक्षी, ज्ञानोलौ। इति क्षेत्रोपक्षेत्रडाकिन्यः सान्वर्थाः।

प्रेमोद्गमाच्छयामा चासौ सर्वचक्रेषु क्रीडनाद्देवीति श्यामादेवी। शोभनं तर्पणं भद्रं कल्याणं यस्याः सा सुभद्रा। हयवद्दक्षिणकर्णेन निर्गच्छतीति हयकर्णा।


p.48


कुलतायां महावीर्या बालसिंहानवाहिनी।

उपश्मशानसंस्थौ (स्थे) च डाकिन्यौ योगमातरौ॥३९॥

कायचक्रे तु डाकिन्यो बाह्याः पातालवासिकाः।

पूर्वस्मिन् वाचिके द्वारे डाकिन्यश्च चतुर्विधा[ः]॥४०॥

खगमुखाकारत्वात् खगानना। इति छन्दोहोपच्छन्दोहडाकिनीनामान्वर्थाः। वाक्चक्रे भूचर्यः।

चक्रवच्चक्रेषु वेगोऽस्या गमनागमन इति चक्रवेगा। आदौ तथागतलोचनादीन् खण्डयति पुनरारोहयति जनयतीति खण्डरोहा। सुरासवक्षाबत्वात् शौण्डिनी। चक्राण्येव वर्म सन्नाहोऽस्याः सा चक्रवर्मिणी। इति मेलापकोपमेलापकडाकिन्यः सान्वर्थाः।

सुष्ठु वीरादकारात् प्रभवतीति सुवीरा। गमनागमनयोर्महद्बलं यस्याः सा महाबला। चक्रेषु वर्तितुं शीलं यस्याः सा चक्रवर्तिनी। महद्वोर्यमुत्थाने यस्याः सा महावीर्या। इति श्मशानोपश्मशानडाकिनीनामन्वर्थाः।

वीरनिरुक्तिरुच्यते। खण्डं शिरःस्थं बोधिचित्तं नखदशनरूपेण का(क)लयति प्रेरयतीति खण्डकपाली। महान्तं कं शिखास्थितं सत्त्वदेव केशरोम कालयतीति महाकङ्कालः। कर्णमूलं प्राप्य त्वङ्मलं प्रेरयतीति कङ्कालः। विकटा मांसमयी दंष्ट्रा पृष्ठे यस्य स तथा [ विकटदंष्ट्रः ]। पीठवीरनिरुक्तिः।

सुराणां स्नायूनाम(म्) वैरी वामकर्णात् प्रवर्तकः सुरावैरी। भ्रूमध्ये स्थित्वाऽपर(रि)मितास्थिमालाप्रवर्तकत्वात्तन्मयोऽमिताभः। वज्ररत्नवत् प्रभा यस्य, तस्य चक्षुषि स्थित्वा वुक्कस्य प्रवर्तकत्वाद् वज्रप्रभः। वज्रवद् दृढो देहो यस्य बाहुमूलाद् हृदयप्रवर्तको वज्रदेहः। उपपीठनिरुक्तिः।


p.49


तत्कोणभागमाश्रित्य संस्थिताश्चापरास्तथा।

मूलद्वारे तु काकास्या उलूकास्या द्वितीयके॥४१॥

श्वानास्या च तृतीयेऽपि शूकरास्या चतुर्थके।

कोणेषु यमदाढी च यमदूती तथैव च॥४२॥

कक्षाभ्यां चक्षुरङ्कुरजननादङ्कुरिकः। स्तनाभ्यां वज्रजटिलरूपस्य पित्तधातोर्जननाद् वज्रजटिलः। नाभेर्वज्राणां महतामपि भयङ्करफुफ्फुसप्रवर्तकत्वान्महावीरः। नासाग्रादन्त्रद्वारप्रवर्तकत्वाद् वज्रहूँकारः। इति क्षेत्रोपक्षेत्रवीर निरुक्तिः।

सुखादाप्यायिकागुणवर्तिप्रवर्तकत्वात् सुभद्रः। कण्ठादुदरप्रवर्तकत्वाद् वज्र भद्रः, कण्ठोदराभ्यामादिमध्यान्तकल्याणवज्रमयधर्मचक्रप्रवर्तकत्वात्। हृदयात् कातरजनत्रासकपुरीषप्रवर्तकत्वाद् वज्रभैरवः। मेढ्रात् सीमान्तस्य त्रिनेत्रस्य प्रवर्तकत्वाद् विरूपाक्षः। इति छन्दोहोपछन्दोहवीरनिरुक्तिः।

गुह्याच्छरीरधारणसमर्थस्य श्लेष्मनो(णो) वहनान्महाबलः। गुह्यात् पीतवर्णस्य पूयस्य प्रवर्तनाद् रत्नवज्रः। ऊरुभ्यां बलवतो रक्तस्य प्रवर्तनाद् हयग्रीवः। जङ्घाभ्यां रोमकूपशुषिरव्यापकस्वेदप्रवर्तकत्वाद् आकाशगर्भः। इति मेलापकोपमेलापकवीरनिरुक्तिः।

पादाङ्गुलिभ्योऽभेद्यहूँकाररूपस्य मेदसः प्रवर्तकत्वात् श्रीहेरुकः। पादपृष्ठात् पद्मनर्तेश्वरस्य बोधिचित्तस्या श्रवरूपस्य प्रवर्तनात् पद्मनर्तेश्वरः। अङ्गुष्ठाभ्यां श्वेतवर्णस्य खेटस्य प्रवर्तकत्वाद्वैरोचनः। जानुभ्यां चन्द्रगौरस्य सिङ्घाणस्य प्रवर्तकत्वाद्वज्रसत्त्वः। इति श्मशानोपश्मशानवीरनिरुक्तिः।


p.50


अनन्तरं महाभीमा विख्याता यमदंष्ट्रिणी।

चतुर्थापि च विख्याता भीमा यममथनी मता॥४३॥

इत्येता वज्रयोगिन्यो नाडीरूपेण संस्थिताः।

चित्तवज्रस्य योगिन्यः सप्तत्रिंशदुदाहृताः।

प्रज्ञापारमिता ह्येताः शरीरे संव्यवस्थिताः॥४४॥


इति श्रीवसन्ततिलकायां तथागतकाय गतसप्तत्रिंशन्नाडी-

चक्रव्यवस्थाख्याननिर्देशः षष्ठः॥६॥


एषां वामदक्षिणवाहाभ्यां प्रवर्तमानानां प्राङ्निरूपितडाकिनीसहितानां यथार्थानामुपपीठस्थितानां योगिनीनां लयभोगाधिकाराद् द्वासप्ततिर्ज्ञातव्याः। अयमर्थः - "कायवाक्चित्तचक्रे त चतुर्विशत्युदाहृताः" ( ६/१६) इत्यारभ्य "प्रज्ञापारमितारूपाः स्वशरीरे व्यवस्थिताः" ( ६/४४) इत्यन्तेन ग्रन्थेन प्रतिपादिताः (तः)। एतत्पदार्थनियोजना सुगमा॥१८-४४॥


इति वसन्ततिलकायां निष्पन्नक्रमसाधनोपायिकायां रहस्यदीपिकायां टीकायां षष्ठनिर्देशे विस्तरब्याख्या॥६॥


p.51


सप्तमो निर्देशः


अथान्यतमस्य तथागतकायस्य नाडीचक्र सप्तत्रिंशद्बोधिपाक्षिक धर्मविशुद्धिं कथयिष्यामि॥१॥

कायानुस्मृत्युपस्थानं डाकिनी। वेदनानुस्मृत्युपस्थानं लामा। धर्मानुस्मृत्युपस्थानं खण्डरोहा। चित्तानुस्मृत्युपस्थानं रूपिणी॥२॥

अथेत्यादिना नाडीरूपाणां योगिनीनां बोधिपाक्षिकधर्मस्वरूपतां प्रतिपादयितुं सप्तमनिर्देशमाह - अन्यतमस्येत्यादि प्राग्वत्॥१॥

या एता हृदयादिशिर‍आदिकायद्वारेषु डाकिन्यादिस्वभावा नाडयस्ता बोधिपाक्षिकधर्मस्वभावा अपि भवन्तीति प्रतिपाद्यते - कायानुस्मृत्युपस्थानं डाकिनीत्यादिग्रन्थेन। इह बोधिसत्त्वेन महासत्त्वेनानुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन पञ्चमार्गसंगृहीतेषु सप्तत्रिंशद्बोधिपाक्षिकेषु धर्मेषु यथावच्छिक्षितव्यम्। तत्र कतमे पञ्चमार्गाः ? संभारमार्गः, प्रयोगमार्गः, दर्शनमार्गः, भावनामार्गः, अशैक्षमार्गश्चेति। तत्र संभारमार्गः कतमः ? द्वादश धर्माः। कतमे द्वादश ? चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वारि(र) ऋद्धिपादाश्चेति। तत्र कतमः प्रयोगमार्गः ? दश धर्माः। कतमे दश ? पञ्चेन्द्रियाणि पञ्चबलानि चेति। तत्र कतमो दर्शनमार्गः ? सप्त धर्माः। कतमे सप्त ? सप्तबोध्यङ्गानि। तत्र कतमो भावनामार्गः ? मार्गाङ्गानि। कति मार्गाङ्गानि ? आर्याष्टाङ्गो मार्गः। कतमोऽशैक्षमार्ग ? मार्गज्ञानानामन्त्यस्यान्त्यः क्षणः।

किमर्थमेतानि बोधिपक्षाणि? कुतो वा धर्मा ? कतमा बोधिः ? आह - बुद्धयन्त्यनया सर्वमात्म स्वरूपमिति बोधिः। सा किं प्रादेशिकी, उत व्यापिकेति ? आह -


p.52


व्यापिका प्रादेशिकी च। तथा पुद्गलनैरात्म्यलक्षणा बोधिः श्रावकबोधिः प्रादेशिकी, धर्माणां द्रव्यत्वेनाभ्युपगमात्। तथा विमुच्यमानाः श्रावकबोधौ निपतेयुः, सा बोधि [ः] स्वार्थमात्रपाधान्यादविशुद्धत्वात् प्रादेशिकीत्युच्यते। उभयनैरात्म्यलक्षणा तु बोधिः सम्यक्संबोधिर्व्यापकत्वाद् व्यापिका, धर्माणां तत्त्वभावेनावस्थानात्। तस्यावबोधेरङ्गान्युपाया बोध्यङ्गानि। अङ्गान्युपायाः पक्ष्या अभिव्यक्तिकरणानीति पर्यायाः।

धर्माश्च कुत इति ? ध्रियन्ते बोधिसत्त्वैर्मार्गस्थैश्चेतसि व्यवस्थाप्यन्त इति धर्माः कुशलपक्षसंगृहीताः, अनाश्रवत्वात्, मार्गसत्त्वस्यैकान्तकुशलत्वात्। मार्गभेदात्तु कुशलसाश्रवत्वं प्रतिपत्तुरपेक्षया। एषां पञ्चानां मार्गाणां द्वाभ्यां संग्रहो वेदितव्यः।

कतमाभ्यां द्वाभ्याम् ? लौकिकमार्गेण लोकोत्तरमार्गेण चेति। तत्र कौकिकमार्गे कति धर्माः ? द्वाविंशतिधर्माः। कतमे ? स्मृत्युपस्थान-सम्यक्प्रहाण-ऋद्धिपाद-इन्द्रियबलाख्यानि। तत्र लोकोत्तरमार्गः(र्गे) कति धर्माः ? पञ्चदश। कतमे ? सप्तबोध्यङ्गानि, आर्याष्टाङ्गमार्गश्चेति।

नुस्मृत्युपस्थानम्, चित्तानुस्मृत्युपस्थानम्, धर्मानुस्मृत्युपस्थानम्। तत्र कायानुस्मृत्युपस्थानम् - इह सर्वेण सर्वकायोऽयं स्वपरसन्तानवर्ती यावत्त्रैधातुकीयः। स प्रविचिन्त्यमान एकस्तावन्न भवति, अवयविनो ऽसिद्धत्वात्, तदसिद्धिश्च पाकापाकरागारागादिदोषदर्श-नात्, एकत्वासिद्धावनेकत्वानुपपत्तेः परमाणुशो भिद्यमानत्वात् परमाणोः संहतत्वानुप-पत्तेः, तदभ्युपगमे वा विश्वस्य परमाणुतापत्तेः। तस्मादुभयधर्मरहितत्वाच्छून्योऽयं काय इति यो या)ऽनुस्मृतिस्तस्या उप समीपे चित्तस्य स्थापनं कायानुस्मृत्युपस्थानम्। एवं च वेदनापि साताद्यात्मिका षड्विज्ञानकाया तदाश्रितत्वादष्टादशधा। सापि सातादी-नामतीतादिभेदेनासत्त्वात् शून्येति स्मृतेरुपस्थानं स्वचेतसीति वेदनानुस्मृत्युपस्थानम्। एवं ज्ञेयात् पूर्वं पश्चात् सहभावित्वासिद्धेश्चित्तं शून्यमिति यः स्मृतेरुपस्थानं चित्तानुस्मृत्युपस्थानम्। एवं कुशलाकुशल व्याकृतादिभेदभिन्नानां धर्माणां पूर्ववच्छून्यत्वाद् यःस्मृतेरुपस्थानं तद्दर्मानुस्मृत्युपस्थानं बोधिसत्त्वमार्गः, यतः पञ्चात्मकं त्रैधातुकम्। तत्र 


p.53


छन्दद्धर्युत्पाद[ः] प्रचण्डा। वीर्यद्धर्युत्पादश्चण्डाक्षी। मीमांसद्धर्युत्पादः प्रभावती। चित्तद्धर्युत्पादो महानासा॥३॥

कायानुस्मृत्युपस्थानेन रूपस्कन्ध सम्यगनुबोधेन मध्ये द्वाभ्यां वेदनाविज्ञानयोरन्त्येन संज्ञासंस्कारयोः, धर्मशब्दसामान्याद् भाजनलोकस्येति। श्रावकदर्शने तु नित्यसुखशुचि-सात्मकचतुर्विपर्यासप्रतिपक्षानित्याशुचिदुःखानात्मलक्षणानि चत्वारि स्मृत्युपस्थानानीति विशेषः। मन्त्रदर्शने तु स्वसंविद्रूपा डाकिन्यः कायादीनां धर्मतारूपा ज्ञेयाः। तदर्थमाह - कायानुस्मृत्युपस्थानं डाकिनीत्यादि॥२॥

तत्र कति ऋद्धिपादा इति किञ्चिदपसृत्याह - चत्वार ऋद्धिपादाः। छन्द-ऋद्धिपादः, वीर्य-ऋद्धिपादः, मीमांसा-ऋद्धिपादः, चित्त-ऋद्धिपादः। वीर्य-समाधिप्रहाणेयः संस्कारसमन्वित ऋद्धिपादः मीमांसासमाधिप्रहाणेयः संस्कारसमन्वित ऋद्धिपादः। चित्तसमाधिप्रहाणेयः संस्कारसमन्वित ऋद्धिपादः।

एषां सूत्राणामयमर्थः - इह सर्वस्यैव समाधेः षड्दोषा भवन्ति। तद्यथा - "कौशीद्यमालम्बनसंप्रमोषः लयस्तदौद्धत्यमयत्नाद्" इति। एषां लयो(यं) द्वाभ्यामेकीकृत्य पञ्च दोषा भवन्ति। तत्प्रहाणार्थमष्टौ प्रहाणसंस्काराः। कतमे आष्टौ ?

श्रद्धा छन्दो वीर्यं प्रस्रब्धिश्च [च]तुर्थिकी।

स्मृतिश्च संप्रजन्यं च चेतनोपेक्षिकाऽष्टमी॥ इति।

तत्र कौशीद्य स्याद्यः प्रतिपक्ष श्रद्धया कुशलकर्मप्रवृत्तिः। छन्देन तेषामाशय-सहगतत्वम्। वीर्येण कौशीद्य प्रहाणम्। प्रस्रब्ध्या प्रहाणसाक्षात्क्रिया। स एष छन्द ऋद्धिपाद उच्यते। स्मृत्याऽऽलम्बनसंप्रमोषं प्रजहाति। संप्रजन्येन लयौद्धत्यम्। एतौ वीर्यमीमाऋद्धिपादौ। चेतनोपेक्षाभ्यां यदायत्तयत्नयोः प्रहाणं स चित्तऋद्धिपाद इत्युच्यते। अत एवैतौ चत्वारि वीर्याणि भण्यन्ते। अत एवाह समाधिराजसूत्रे -


p.54


श्रद्धेन्द्रियं वीरमती। वीर्येन्द्रियं खर्वरी। स्मृतीन्द्रियं लङ्केश्वरी। समाधीन्द्रियं द्रुमच्छाया। प्रज्ञेन्द्रियमैरावती॥४॥

'विवेकनिश्रितो विरार्गानश्रितो निरोधनिश्रितो व्यवसर्गपरिणतश्च संस्कृतवस्तु विसंयोगा[द्] द्रव्यसर्गतत्प्रहाणे समन्वागत ऋद्धिपाद इति पञ्चाङ्गः। संपिण्ड्य विंशतिप्रकाराश्चत्वार ऋद्धिपादाः।" [इति]

ऋद्धिर्नाम कतमा ? अर्द्धनमृद्धिः, 'ऋधु वृद्धौ' इति धातुपारायणे पाठात्। ततश्च सर्व एव दशबलवैशारद्यादयो बुद्धागुणा यस्यां वृद्धिमुपयान्ति सिर्द्धिः सम्यक्संबोधिः, तस्याः पादा इव पादाः प्राप्तिहेतव इति ऋद्धिपादाः। साधारणेऽपि मार्गस्योपायत्वे एषामेवर्द्धिपादद्वित्वम्, समाधिदोषप्रतिपक्षस्य प्रकर्षत्वात्। एतत्स्व-भावाःः प्रचण्डा-चण्डाक्षी-प्रभावती-महानासाः पीठडाकिन्यश्चित्तचक्रे॥३॥

तत्र कतीन्द्रियाणि ? पञ्च। कतमे पञ्च ? श्रद्धावीर्यस्मृतिसमाधिप्रज्ञाश्चेति। तत्र प्रयोगमार्गे चत्वारो निर्वेधभागीया धर्माः - ऊष्मगताः मूर्धगताः, क्षान्तिगताः, लौकिकाग्रधर्माश्चेति। तत्र निराश्रवान् समाधीन् बोधिसत्त्वस्यामुखीकुर्वतो वह्निरिव पूर्वलिङ्गादूष्मा प्रादुर्भवति। चेतसो ज्ञानाग्नेरुद्भूता (तः) स उच्यते ऊष्मगतः। स एव प्रकर्षगतोऽध्यशयसहगतो मूर्धा। तदेव चित्तं सहते तादात्म्येनेति क्षान्तिः। तमेव क्षान्तेरनन्तरं(न ?) निर्गत इति लौकिकाग्रधर्मः, उपचारादयं संप्रयोगः। तत्र प्रथमयोर्निर्वेधभागीययोरर्थे श्रद्धादयस्तानि पञ्चेन्द्रियाणीत्युच्यन्ते। तत्र श्रद्धा भाविनि लोकोत्तरमार्गे सत्वत्य)रत्नत्रयादौ वा चेतस[ः] संप्रत्ययस्तच्छ्रद्धेन्द्रियम्। श्रेद्धेन्द्रियोदानितान् धर्मान् उत्साहयति तद्वीर्येन्द्रियम्। तच्च चतुष्प्रकार[म्] आरम्भवीर्यम्, [अ] परिक्रमवीर्यम्, प्रत्यवेक्षावीर्यम्, प्रतिपत्तिवीर्यं चेति। वीर्येन्द्रियोदानितान् धर्मान् येन पुनः पुनरामुखीक्रियन्ते न विस्मर्यन्ते तत् स्मृतीन्द्रियम्। स्मृतीन्द्रियोदानितान् धर्मान् यन्मना(नसि) सर्वसारान्तरपरिहारेण स्थापयति तत् समाधीन्द्रियम्। समाधीन्द्रियोदानितान् धर्मान् भूतप्रत्यवेक्षया यद्विचार यति तत्प्रज्ञे -


p.55


श्रद्धाबलं महाभैरवी। वीर्यबलं वायुवेगा। स्मृतिबलं सुराभक्षी। समाधिबलं श्यामादेवी। प्रज्ञाबलं सुभद्रा॥५॥

समाधिसंबोध्यङ्गं हयकर्णा। वीर्यसंबोध्यङ्गं खगानना। प्रीतिसंबोध्यङ्गं चक्रवेगा। प्रश्रब्धिसंबोध्यङ्गं खण्डरोहा। धर्मप्रविचय संबोध्यङ्गं शौण्डिनी। स्मृतिसंबोध्यङ्गं चक्रवर्मिणी। उपेक्षासंबोध्यङ्गं सुवीरा॥६॥

न्द्रियम्। कस्मादिन्द्रियम् ? कुशलधर्मेषु प्रभवत्वादिन्द्रियम्, पञ्चस्कन्धानां संक्लेशव्यवदानयो रत्युत्पादकः (कम्)। प्रज्ञेन्द्रियं विहाय वीरमती-खर्वरी-लङ्केश्वरी-द्रुम-च्छायाश्चतस्रो डाकिन्यः श्रद्धावीर्यस्मृतिसमाधिविशुद्धयो ज्ञेयाः॥४॥

तत्र कति बलानि ? पञ्च। कतमे ? प्रागुक्ता एव श्रद्धादयः। किमिन्द्रियबलानां नानाकरणम् ? आह - विवर्तन्ते हि श्रद्धादयो यदा तदि(दे)न्द्रियव्यपदेश भाजिनो भवन्ति, यदा विपक्षेना(णा) श्रद्धाकौशीद्यविस्मृतिविक्षेपा योनिशो मनसिकारपर्यायदौष्प्रज्ञैर्न निवर्तन्ते, पञ्चबलानि भवन्तीति नानाकरणम्। प्रागुक्तप्रज्ञेन्द्रियेण वाक्चक्रे ऐरावतीमहाभैरवा-वायुवेगा-सुराभक्षी-श्यामादेवी-सुभद्रा विशुद्धानि ज्ञेयानि॥५॥

तत्र कति बोध्यङ्गानि ? सप्त। कतमे सप्त ? समाधिसंबोध्यङ्गम्, वीर्यसंबोध्यङ्गम्, प्रीतिसंबोध्यङ्गम्, प्रस्रब्धिसंबोध्यङ्गम्, धर्मप्रविचयसंबोध्यङ्गम्, स्मृतिसंबोध्यङ्गम्, उपेक्षासंबोध्यङ्गं चेति। दर्शनमार्गे एतान्यङ्गानि बोधेः। निरावरणं ज्ञानं बोधिः। येन सत्यदर्शनं चेतसि समाधीयते, तत् समाधिसंबोध्यङ्गम्। येन तत्रैवोत्साहः, तद्वीर्यसंबोध्यङ्गम्। येन तत्रैव चित्तं निःसंशयं करोति, तत् प्रीतिसंबोध्यङ्गम्। तयैव प्रीत्या कायवाक्चित्तकर्मण्यतः क्लेशोष्मप्रहाणादतिशीतला भवति, तत् प्रस्रब्धिसंबोध्यङ्गम्। सम्यग्भावस्वरूपपरिज्ञानं तद्धर्मप्रविचयसंबोध्यङ्ग -


p.56


सम्यग्दृष्टिर्महाबला। सम्यक्संकल्पश्चक्रवर्तिनी। सम्यग्वाग् महावीर्या। सम्यक्कर्मान्तः काकास्या। सम्यगाजीव उलूकास्या। सम्यग्व्यायामः श्वानास्या। सम्यक्स्मृतिः शूकरास्या। सम्यक्समाधिर्भगवान् श्रीहेरुकः॥७॥

[म्]। तत्रैव चैतस्यसंप्रमोषः स्मृतिसंबोध्यङ्गम्। समाधावासक्त्यनासक्तयो(क्त्यो)रुदासीन तोपेक्षासंबोध्यङ्गम्। एषां मध्यात् समाधिवीर्यसंबोध्यङ्गस्वभावे हयकर्णखगानने विज्ञेये। इति वाक्चक्रवीराणां विशुद्धिः शिष्टैः पञ्चभिः प्रीत्यादिभि-श्चक्रवेगा-खण्डरोहा-शौण्डिनी-चक्रवर्मिणी-सुवीरा विशुद्ध(द्धय)न्त इति॥६॥

क्लेशावरणप्रतिपक्षे दर्शनमार्गमुक्त्वा ज्ञेयावरणप्रतिपक्षं भावनामार्गमाह- स चार्याष्टाङ्गो मार्गः। कतमेऽष्टौ ? सम्यग्दृष्टिः, सम्यक्संकल्पः, सम्यग्वाक्, सम्यक्कर्मान्तः, सम्यगाजीवः, सम्यगव्यायामः, सम्यक्स्मृतिः, सम्यक्समाधिश्चेति। तत्र भावनामार्गे ज्ञेयावरण(णं) निःस्वभावमिति या धीः सा सम्यग्दृष्टिः, परलोकास्तित्वदृष्टिश्च। तद् दृष्टयलब्धोऽपि नैरात्म्यालम्बनः सम्यक्संकल्पः। स्वदृष्टार्थप्रकाशिका सत्त्वेभ्यो देशना सम्यग्वाक्। एकान्तशुभं कायकर्मान्तः उह्या(ऋद्ध्या)दिभिर्विनयनार्थं परेषां त्रासनं वा सम्यक्कर्मान्तः। ध्यानाहारित्वमात्रया चीवराद्यन्वेषणं सम्यगाजीवः। सर्वेर्यापथेषु स्वचुत्तकायवाक्चित्तव्यापारनियोजनं सम्यग्व्यायामः। उक्तं च -

यथा यथाध्यक्षविचित्रगोचरे प्रवर्तते चारगतो जिनात्मः।

तथा तथा युक्तसमानतापदैर्हिताय सत्त्वेष्वभिसंस्करोति तत्॥ इति।

भावनामार्गे आलम्बनासंप्रमोषः सम्यक्स्मृतिः। तदेकाग्र चित्तमचलितवज्रोपमसमाधिः। समन्तप्रतिभासाया भूमेर्यदन्तरं प्रादुर्भवति, तत्राद्यैस्त्रिभिर्महाबल[ला-चक्र]-वर्तिनी-महावीर्या विशुद्धयन्ते। इति कायचक्रस्य विशुद्धिः। सम्यक्कर्मान्तः काकास्या। सम्यगाजीव उलूकास्याः, सम्यग्व्यायाम श्वानास्या। सम्यक्स्मृतिः सूकरास्या।


p.57 


अनुत्पन्नानां कुशलानां धर्माणामुत्पादनं यमदाढी। उत्पन्नानां कुशलानां धर्माणां संरक्षणं यमदूती। उत्पन्नानामकुशलानां धर्माणां प्र्हाणं यददंष्ट्रिणी। अनुत्पन्नानामकुशलानां धर्माणामनुत्पादनं यममथनी चेति॥८॥

इति सप्तत्रिंशद्बोधिपाक्षिकधर्मविशुद्धाः शरीरगताः सर्वा नाडयो देवतावर्णभुजसंस्थानमाश्रित्य संस्थिताः॥९॥

इति श्रीवसन्ततिलकायां नाडीचक्रसप्तत्रिंशद्बोधिपाक्षिक-

धर्मविशुद्धा(द्धया)ख्याननिर्देशः सप्तमः॥७॥


इति द्वारपालीविशुद्धिः। सम्यक्समाधिर्भगवान् श्रीहेरुकवज्रः। ज्ञानकमलकर्णिकाविशुद्धिः॥७॥

अनुत्पन्नानां कुशलधर्मो(र्माणामु)त्पादिनी यमदाढी। उत्पन्नकुशलधर्मरक्षिका यमदूती। उत्पन्नानाम्[अ]कुशलधर्माणामुत्पादिका(णां प्रहाणं) यमदंष्ट्री। अनुत्पन्नानाम् [अ]कुशलधर्माणामु(मनु)त्पादिका यममथनी चेति समयमण्डलस्य कोणदेवीविशुद्धिः॥८॥

एते सप्तत्रिंशद्बोधिपाक्षिका धर्माः प्रभेदशः। द्रव्यतस्तु दशाग्राणि पञ्चेन्द्रियाणि पञ्चबलेषु संग्रहं गच्छन्ति। स्मृत्युपस्थानानि स्मृतिबले प्रज्ञाबले वा। ऋद्धिपादाः प्रज्ञाबले वीर्ये वा। सम्यक्प्रहाणानि वीर्ये। समाधिबलं समाधिसंबोध्यङ्गे। वीर्यबलं वीर्याङ्गे। प्रविचयसंबोध्यङ्गे प्रज्ञाबलम्। स्मृतिबलं स्मृतिसंबोध्यङ्गे। श्रद्धाबलं 


p.58


वीर्यसंबोध्यङ्गे। बोध्यङ्गानामष्टाङ्गमार्गे संग्रहः। तद्यथा - सम्यक्स्मृतिसमाध्योः(धी) स्मृतिसमाधिसंबोध्यङ्गे संग्रहमुपयातः। वीर्यसंबोध्यङ्गं सम्यग्व्यायामे। धर्मप्रविचय-संबोध्यङ्गं सम्यग्दृष्टौ। सम्यग्वाक्सम्यक्कर्मान्ताजीवा[ः] शुद्धशीलसमुदाचारास्त्रयः। तथा सम्यग्दृष्टिः, सम्यक्संकल्पः, सम्यग्व्यायामः, सम्यक्स्मृतिः सम्यक्समाधिश्चेति पञ्चबोध्यङ्गेभ्यः प्रस्त्रब्धिसंबोध्यङ्गम् उपेक्षासंबोध्यङ्गं चेति संगृह्य दशवस्तूनि भवन्ति। ते च त्रितये शीलसमाधिप्रज्ञाबल(ले) संग्रहमुपयान्ति। तत्र सम्यग्वाक्कर्मान्ताजीवा[ः] शुद्धिशीलसमुदाचारास्त्रयः सम्यग्व्यायामशुद्धिशीलसमुदाचारफलं शीलस्कन्धंः, सम्यग्दृष्टिः सम्यक्संकल्पः प्रस्रब्धिसंबोध्यङ्गमुपेक्षासंबोध्यङ्गं चत्वारः प्रज्ञास्कन्धः, सम्यक्स्मृति[ः] सम्यक्समाधिस्कन्ध इति। शीलसमाधी च प्रज्ञायामन्तर्भवतः, प्रज्ञैव बोद्ध्री धर्माणामिति न्यायात्। एवं सप्तत्रिंशतो दशभिर्दशानां त्रिभिस्त्रयाणामेकेन संग्रहो वेदितव्यः।

एतदुक्तं भवति - इह सप्तत्रिंशत् प्रागुक्तसंविद्रूपा डाकिनीरूपा नाड्यः शिर-आदिजानुपर्यन्तं स्थिता नाभिचक्रान्ताश्चतस्रो द्वाराष्टके चाष्टौ मध्येऽवधूतीरूपा कायद्वारसन्निश्रिता नवनाडीमध्यनाडीषु दशसु संग्रहं यान्ति। ता दशापि ललनादित्रये, तदपि मध्यनाडयामिति। एवं वज्रवाराहीस्वभावा(व)या मध्यनाड्याऽवधूत्या एवं सर्वोऽयं नाडीसंचयः प्रादुर्भूय तत्रैव समवशरणं गच्छति। एतेन संवृतिपरमार्थद्वयीभावः प्रकाशितो भवति। स एव च युगनद्धमार्गसंचितः। यथोक्तम् -

पयोधरा यथा नैका(के) नानासंस्थानवर्णकाः।

उद्भूता गगनाभोगात् लयं गच्छन्ति तत्र वै॥

तद्वत् प्रकृतयः सर्वा आभासत्रयहेतुकाः।

निविश्य विषयान् कृत्स्नं प्रविशन्ति प्रभास्वरम्॥ इति।

तथा "रूपमेव शून्यता, शून्यतैव रूपम्" इत्यादिवचनात्, "संवृतिव्यतिरेकेन(ण) परमार्थस्य का कथा" इति वचनात्। एतेन स(शा)न्तब्रह्मासांख्यपुरुषादिवाद(दि)परयूथ्याः, निराकारविज्ञप्तिवाद(दि)प्रभृतयश्च स्वयूथ्या[ः] प्रत्याख्याता भवन्ति, संवृतिपरमार्थयोर्भेदं प्रति साभिनिवेशत्वात्। इत्यलमतिप्रसङ्गेन।

प्रकृतमनुसरामः। एवमेता नाडीरूपा अध्यात्मनि। बाह्ये तु मुखसंस्थानायु धादिधारिण्यः सत्त्वाशयविशेषमाश्रित्य मण्डलचक्रे व्यवस्थिताः, पुल्लीरादिपीठेषु च 


p.59


क्षेत्रजारूपेणानुग्रहं कुर्वन्त्यः क्रीडन्ति रमन्ते प्रविचारयन्तीति। तथाऽऽध्यात्मन्यपि तासां मुखादि विद्यते। सर्वा एव नाडयो महासुखचक्रादुद्भूय वज्रवारिजपर्यन्ते मुखानि प्रकटयन्ति। तदङ्कुराणि प्रत्येकं बहूनि भुजा धातूपरञ्जनाद्वर्णवत्यः। तथाहि नखदन्तं शि(सि)तम्, केशरोम कृष्णम्। त्वङ्मलं कृष्णरक्तम्। मांसं रक्तवर्णम्। स्नायवः सिताः। अस्थिमाला सिता। बुक्कं कृष्णम्। हृदयं सितरक्तम्। अक्षिणी शि(सि)ताशि(सि)ते। पित्तं पीतम्। फुफ्फुसं रक्तम्। अन्त्राणि चागुणवर्तिश्वेता[नि]। उदरं श्यामम्। पुरीषं पीतम्। सीमन्तं रक्तसितम्। श्लेष्मा सितः। पूयं चन्द्रगौरम्। लोहितं लोहितमेव। प्रस्वेद आग्नेयवर्णः। मेदः शि(सि)तम्। अश्रु मुक्ताफलधवलः खेटः कृष्णशि(सि)तः। सिङ्घानकं पीतं सितमिति वर्णभेदः। संस्थानमासां कुटिलरूपतया वामदक्षिणप्रचारेण स्थितमालीढादिरूपेण स्वभावसिद्धः (द्धम्)। आयुधमासां कर्तिकपालविशुद्धया विकल्पमलभेदकसहज स्वभावं विज्ञेयम्। अत्र श्लोकाः -

विकल्पमलविच्छेदलब्धसंवेदनात्मिकाः।

ग्राह्यग्राहकनिर्मुक्तसहजानन्दनिष्ठिताः॥

स्पर्शमात्रेण लोकस्य बुद्धत्वफलदायिकाः।

डाकिन्यादि दशाख्याता श्चक्रगतास्तु कल्पनाः॥

अभेद्यादिस्वभावेन स्थिता जगति सर्वदा।

धातुरूपमहावीरचतुर्विंशतिसंयुताः॥

स्वदेहान्तर्गता नाड्यो वीराश्च यदि तत्कथम्।

मूढा भ्रमन्ति पीठानि पुल्लीरादीनि निर्विदः॥

सर्वं बाह्यं परित्यज्य भावनास्तमणं(नं) तथा।

अध्यात्मयोगयुक्तेन योगिना मोक्ष आप्यते॥९॥


इति वसन्ततिलकायां निष्पन्नक्रमसाधनोपायिकायां रहस्यदीपिकायां टीकायां सप्तमनिर्देशे विस्तरव्याख्या॥७॥


p.60


अष्टमो निर्देशः


अथान्यतमस्य तथागतकायस्य मण्डलहोमयोग जपभावनादिविधिक्रियां सबाह्याध्यात्मरूपेण संप्रवक्ष्यामि॥१॥

सप्तत्रिंशन्महाबोधिपक्षस्थधर्मलक्षणैः।

देवतैर्हेरुकाद्यैस्तु नाडीरूपैः सुसंस्थितम्॥२॥

शरीरं मण्डलं रम्यं चतुर्द्वारं यथोदितम्।

अष्टाभिः स्वाङ्गभूतैस्तु स्तम्भैस्तैर्विधृतं स्थितम्॥३॥

इदानीं बाह्यमण्डलयोगजापहोमादीनध्यात्मन्यवस्थितान् प्रकटयितुमथान्य-तमस्येत्यादिनाऽऽह। एतच्च सुबोधम्, प्रायुक्तत्वात्। तत्र शरीरमेव मण्डलं प्रतिपाद्यते। देहमण्डलमिति संबन्धः॥१॥

कीदृशम् ? सप्तत्रिंशदित्यादि। सप्तत्रिंशद्बोधिपाक्षिकधर्मविशुद्धया व्यवस्थिता या एता नाड्यस्तद्रूपेणैव ज्ञानचित्तवाक्कायसमयचक्रस्था डाकिन्यादयोऽवस्थिता इत्याधेयमण्डलविशुद्धिमाह। तत् कस्य हेतोः ? इह निर्विकल्पनिरालम्बनिरावरणस्वभावा डाकिन्य इत्युच्यन्ते, 

डे डै) वैहायसि गग(म)ने बुद्धो धातुः प्रकल्पितः।

सर्वाकाशचराः(रा) सिद्धा डाकिनीति निगद्यते॥

इति वचनात्। पञ्चज्ञानमहानभसि चरन्त्यश्च नाड्यस्तस्मात्ता एव डाकिन्य इत्युच्यन्ते, तत्स्पर्शादुभयोरविकल्पतत्त्वोदयात्॥२॥

आधेयमुक्त्वाऽऽधारमण्डलमाह - शरीरं मण्डलमित्यादिना। तत्र शरीरमेव मण्डलम्, चित्तवाक्कायमण्डलनाडीधातुरूपाणां योगिनीवीराणामाश्रयत्वात्। अत एव 


p.61


समत्वात् सर्वभावेन चतुरस्रं प्रकीर्तितम्।

कायवाक्चित्तरूपेण त्रिचक्रात्मकमुच्यते॥४॥

गिरिमस्तककिञ्जल्के वैरम्भादि यथाक्रमम्।

गुरुपर्व क्रमेणैवमुत्पन्नं मण्डलं हि तत्॥५॥

स्थितः पादतले वायुर्वैरम्भो धनुराकृतिः।

स्थितस्त्रिकटि देशेतु त्रिकोणे ज्वलनस्तथा॥६॥

रम्यम्, बाह्यरजोरङ्गाद्यनपेक्षणात्। बाह्यमण्डलं चतुर्द्वारं यथाऽऽध्यात्ममपीति दर्शयन्नाह। तत्र देहमण्डले चत्वारि द्वाराणि नेत्रश्रोत्रनासिकामुखाख्यानि, अथवा यथोदितमिति यथा प्रागुक्तानि तानि द्वाराणि विभागेन चत्वारि भवन्ति। वामदक्षिणनाड्यां चित्तद्वारं प्रथमम्। आत्मपीठादीनि चत्वारि द्वितीयं वाग्द्वारम्। नवात्मकं कायद्वारमध‍ऊर्ध्वभेदाद् द्विधा। एवं चतुर्वारम्। प्रतिद्विद्विस्तम्भयुक्तत्वादष्टस्तम्भम्। अध्यात्मनि चक्षुरादिनाडीस्तम्भैर्युक्तम्। बाह्यमण्डलं यथा चतुरस्रं तथा समभावेन देहमण्डलमपि चतुरस्रं ज्ञेयम्। कुतः समत्वमस्य ? यथायं कायः पादाधस्तादुष्णीषान्तं प्रमाणवांस्तथा प्रसारितबाहुरपि तत्प्रमाण एव। बाह्यमण्डलं चित्तवाक्कायमण्डलात्मकं त्रिचक्रं चतुर्विशत्परम्, तथाऽध्यात्मन्यपि चित्तवाक्कायनाड्याधारभूत-शिर‍आदिजानुपर्यन्तचतुर्विंशतिपीठाध्यात्मिकचक्रत्रयोपेतम्॥३-४॥

गिरिमस्तककिञ्जल्क इत्यादिनोद्देशः। स च वाय्वादिमण्डलचतुष्टयोपरिस्थित-सुमेरुशिखरारूढविश्वपद्माख्यया प्रतिपाद्यमानः। तथैवाध्यात्मन्यपि देहमण्डलमण्डलाङ्कितं गुरूदेशादधिगन्तव्यम्॥५॥

निर्देशमाह - स्थितः पादतले वायुरित्यारभ्य व्यक्तमव्यक्तरूपत इत्यन्तेन मण्डलाङ्कितत्वमुच्यते। पादतले पादाधस्ताद्वायुः स्थितः। धनुराकारत्वाद्विशिष्टारम्भत्वात् स एव वैरम्भः। स्वार्थेऽण्। वैकृतवत् पादविहरणात्मिका च क्रिया वैरम्भ


p.62


वर्तुलाकाररूपो हि वरुणस्तूदरे स्थितः।

हृदये पृथिवी चैव चतुरस्रं समन्ततः॥७॥

कङ्कालदण्डरूपो हि सुमेरुगि(र्गि)रिराट् तथा।

तच्छिरोभागसंस्थं तु द्वात्रिंशद्दलपङ्कजम्॥८॥

स्वरव्यञ्जनसंभूतं द्वात्रिंशद्बोधिमानसम्।

पद्ममध्य गतं यत्तच्चन्द्रमण्डलमुच्यते॥९॥

मस्तिष्कं तु शिरोमध्ये स्थितं यत्तदुदाहृतम्।

तस्य मध्ये तु हंकारो बिन्दुरूपो ह्यनाहतः॥१०॥

इत्युच्यते। एतेन वायुमण्डलस्य कारित्रं सन्निवेशश्चोक्तः। तदुपरि योऽयं त्रिकटिप्रदेशः कटिभागस्तत्र स्त्रीपुंसयोरग्निमण्डलं त्रिकोणं स्वभावतो रक्तमणियुक्तत्वादुज्ज्वलं व्यवस्थितम्। तदुपरि वर्तुलमन्त्रावलीद्रवतायोगाद्वारुणमण्डलमुदरदेशे स्वभावतो व्यवस्थितम्। तदुपरि हृदये चक्षुषि(वक्षसि) चतुरस्रं फल(कन) कसदृशं पृथिवीमण्डलमास्ते। य एष तदुपरि ग्रीवाभागः कङ्कालापरपर्यायः स एव मेरुर्ज्ञातव्यः, चक्षुराद्यष्टशृङ्गोपेतः, तद्दलचतुष्टयरत्नमयत्वात्। तस्य मेरोर्यदेतच्छिरस्तन्मध्ये या अभेद्याद्या द्वात्रिंशन्नाडयस्त(स्ता) एव विश्वपद्मं भगवत आसनं विज्ञेयम्। तदन्तरालिकालिस्वरव्यञ्जनात्मद्वात्रिंशद्बोधिचित्तपिण्डितमुस्तुलुङ्गमेव चन्द्रमण्डलं भगवतो विशेषासनम्। नह्यासनानां स्वभावसिद्धः कश्चिद्विशेषस्तन्त्रेषु प्रतिपाद्यते, विशुद्धितत्त्वस्य सर्वदाऽविवक्षितत्वात्। पुद्गलाधिमुक्तिवसा(शा)त् प्रभेद आसनानाम्। अत एव त्रिचक्रस्थवीरयोगिनीनां क्वचिच्चन्द्रमण्डलासनानि, क्वचित् सूर्यासनानीति प्रतिपादयन्ति॥६-९ १/२॥


p.63


तन्मूलं सर्वलोकानां स्थिराणां च चलात्मनाम्।

स्थितं तद्बीजरूपेण व्यक्तमव्यक्तरूपतः॥११॥

सर्वेषां देहिनां रूपं तस्मादुत्पन्नमादितः।

श्रवत्यमृतरूपेण व्यवस्थितमहर्निशम्॥१२॥

तेनैव भिद्यते नादो वह्निसंतोष कारिणा।

सम्पूर्णं मण्डलं तेन भवत्येव न संशयः॥१३॥

तस्य मध्य इत्यादि। तस्य मस्तिष्कस्य मध्येऽनाहताक्षरो हंकारः स्रवदमृत-प्रसरत्वाद् बिन्दुर्वेदनशीलो बिन्दुरित्युच्यते। स सर्वेषां स्थिरचलात्मनां भावानां कारणभूतत्वात् पूर्णप्रतिष्ठास्थानम्। अत एव बीजरूपेण व्यक्तम्, पारमार्थिकबोधिचित्तरूपेणाव्यक्तम्। तत एव सर्वेषामपदैकपदद्विपदचतुष्पद बहुपदानामण्डजस्वेदज-जरायुजोपपादुकानां तिर्यक्प्रेतनारकदेवासुरमनुष्याणां देहिनां देह आदित एवोत्पन्नो मातृ पितृसमापत्तिवशादन्यदास्यामृतमेव स्रवन्नवस्थितम्। स भगवतो हेरुकस्य स्वरूपम्, धर्मतयैव सर्वधर्माणां व्याप्तेः, बुद्धोत्पादानुत्पादेऽपि तस्या[स्य] स्थितत्वात्, आद्यनुत्पन्नत्वात् सर्वधर्माणां प्रतीत्योत्पन्नत्वादुत्पादाभावाद् अत एव निरोधासिद्धेः।

न चात्रोत्पद्यते कश्चिन्मरणं वापि कस्यचित्।

संसार एव ज्ञातव्यश्चित्तरूपाकृति[ः] स्थितः॥

इति वचनात्। उत्पादनिरोधविकल्पेऽपि वस्तुभावे निरालम्बः। प्रतिभासमानालम्बेऽपि तस्य मायोपमत्वात् सर्वमेव वस्तुजातमवाच्यमनिरुद्धमनुत्पादं विज्ञेयमिति॥१०-१२॥

प्रज्ञोपायसमापत्तिमाह- तेनैव महासुखचक्रस्थेन स्वदेहे मण्डलारूढे वा मण्डलीस्वरूपज्ञानवह्निसन्तोषकारिणा नादो निर्माणचक्रकर्णिकास्थिता कारा[द्]


p.64


तदेव मण्डमित्युक्तं वस्तूनां सारमुत्तमम्।

तद् गृह्णाति लातीति शरीरं मण्डलं मतम्॥१४॥

भिद्यते। स्वस्थानाच्चाल्यस्वरूपगतसुधात[र]ङ्गपाश(न)लम्पटतया दण्डभङ्गं कारयित्वोन्मूल्यत इत्यर्थः। उक्तं च -

नादो हि सर्ववर्णानां पदवाक्यप्रभेदिनाम्।

एक कारणतां प्राप्ते नाभिदेशे व्यवस्थितः॥

वायूपवायूश्च(च)क्रस्य व्युत्थानादिक्रियां प्रति।

रेचकादिस्वरूपेण प्रवृत्तीतरतां श्रितः॥

दशधा मध्यरूपस्य स एवाश्रय उच्यते।

मन्थमन्थानसंयोगात् स महासुखकारकः॥

ऊर्ध्वज्वालनयोगेन स्कन्धादीन्द्रियदाहकृत्।

कालाग्निरूप एवासौ सर्वसंहारकारकः॥

बिन्दुरिन्दुस्वरूपेण जगदाह्लादकारकः।

महासुखे महाचक्रेऽनाहताक्षररूपधृक्॥

तुषारकरसंकाशबोधिचैतन्यविप्रुषः।

स्फुरंस्तु हरिचक्रान्ते स्रवन्नेवोपतिष्ठते॥

स एव प्राणिनां प्राणः स एव परमाक्षरः।

सर्वव्यापी स एवासौ सर्वदेहे व्यवस्थितः॥

अनेनाप्यायितो नादः सन्तोषपदभाग्भवेत्।

वसन्ततिलकायोग [ः] स एष विनिगद्यते॥

तस्मात्तेनैव मण्डलं चतुष्पीठात्मकं वा निर्माणादिमण्डलं सम्पूर्णमाख्यायितं भवति। बहिरपि मण्डलाधिपतिना स्वस्वाभेन मण्डलं परिपूर्णं भवति, नान्यथा॥१३॥


p.65


सप्तत्रिंशन्महानाडीचक्रं हि मण्डलं मतम्।

बोधिचित्तं महारत्नं मण्डलं तत्त्वमण्डलम्॥१५॥

बाह्याभ्यन्तररूपेण व्याप्य विश्वं व्यवस्थितम्।

बाह्यं तु रूपशब्दादि षडिन्द्रियप्रवर्तनम्॥१६॥

अभ्यन्तरं तु शुक्रादि सिद्धद्रव्यं व्यवस्थितम्।

सबाह्याभ्यन्तरेणैव बोधिचित्तेन वज्रिणाम्॥१७॥

आधारमण्डलनिरुक्तिमाह - तदेव मण्डलमित्यादिना। सारस्य नाडीधातु-वसन्ततिलकास्वभावडाकिनीवीरश्रीहेरुकवज्रवाराहीमयस्याधेयमण्डलस्य संग्रहात् शरीरमेव मण्डलमुच्यते। मण्डाय यदा (मण्डोपपदाद्) दानार्थाल्लाते(तेः) प्रत्ययविधानात्॥१४॥

आध्यात्मिकविशुद्धिमाह - सप्तत्रिंशदित्यादिना। य एते सप्तत्रिंशद्बोधिपाक्षिका धर्माः संविद्रूपास्तद्विशुद्धया प्रागुक्तनाडीचक्रमेव मण्डलम्। वीरविशुद्धिमाह - बोधिचित्तमित्यादिना। चतुर्विंशतिर्यानि बोधिचित्तस्पन्दनानि धातुरूपाणि तदेवानर्घत्वान्मण्डस्य देवीचक्रस्य मण्डलं तत्सारग्राहकं वीरमण्डलं [च] ज्ञेयम्॥१५॥

निर्मितमण्डलं द्विधा-बाह्यं चतुरस्रादि, आभ्यन्तरं गर्भमण्डलं त्रिचक्रादि। इह तु बाह्यं शिर‍आदि जालन्धरादि, आभ्यन्तरं नाडीधातुमयम्। अत एव न ममैकस्यैतन्मण्डलमपि तु विश्वस्यास्य पञ्चगतिकस्याप्येतन्मण्डलं ज्ञेयम्। अत आह-व्याप्य विश्वं व्यावस्थितम्। अपि च, बाह्यमण्डले रूपशब्दादिभिः पूजाभिरभ्यन्तरमण्डलं पूज्यते। अभ्यन्तरतु कलशकपालोदरे पञ्चामृतानि सुखपूजार्थं विद्यन्ते। इह तु बाह्ये रूपादिभिः पञ्चकामगुणैरिन्द्रियद्वाराणि पूज्यन्ते। आन्तरे सिद्धानि स्वभावसिद्धानि द्रव्यानि(णि) पञ्चव्योमभूतानि द्रव्यानि(णि) स्थितानि। तदर्थमाह - बाह्यं तु रूपशब्दादि इत्यादि। बाह्यं स्थूलसूक्ष्मसमयदानाय शिष्येभ्यो दर्श्यते। इह तु स्थूलसूक्ष्म -


p.66


स्थूलसूक्ष्मस्वरूपेण जगद्बन्धु स्वरूपिणाम्।

बुद्धानां बोधिसत्त्वानां समयार्थोदितेन तु॥१८॥

जन्मनीहैव बुद्धत्वं प्राप्नोति मण्डलादतः।

श्रावकाणां च बुद्धानां प्रत्येकानां तथैव च॥१९॥

ब्रह्मादीनां च देवानां निष्पत्तिर्मण्डलादतः।

अभ्यन्तरैस्तु शुक्राद्यैर्बाह्यै रूपादिभिस्तथा॥२०॥

प्रभेदभिन्नेन बोधिचित्तेन वज्रधरेण सर्वजगद् बुद्धत्वसाधकेन बुद्धत्वं बोधिसत्त्वत्वं च समयं दातुमुदितेन हेतुना तस्मादेव मण्डलात् तत्पदं प्राप्यते॥१६-१७॥

तदर्थमाह - स्थूलसूक्ष्म प्रभेदेनेत्याह(दि)। तत्र स्थूलाश्चतुर्विंशतिधातवः। सूक्ष्मं बोधिचित्तम्। अथवा स्थूला नवद्वारनिर्गता मला द्र(द्रा)व्याः, सूक्ष्मं बोधिहृदयं द्रावकः (कम्)। उक्तं च -

स्थूलसूक्ष्मप्रभेदेन द्विधाभाव मुपागतः।

स्थूलं नवविधं द्रव्यं सूक्ष्मं भेद(बोधि)स्वरूपकम्॥

सिद्धानि (सिद्ध) द्रव्याण्यमूनि स्युर्द्रावकद्रव्यभेदतः॥इति।

बाह्यमण्डलमध्यनायकः श्रावकप्रत्येकबुद्धसम्यक्संबुद्धब्रह्मादिनिर्माणं करोति सत्त्वार्थम्। आन्तरे तु श्रवन्तीति श्रावका नवद्वाराणि। चक्षुरादिविज्ञानानि प्रत्येकबुद्धाः, असंस्कृतत्वात्। आनन्दादयः सम्यक्संबुद्धाः। कायवाक्चित्तानि ब्रह्मादयः। एते सर्व एतस्मादेव मण्डलान्निष्पद्यन्त इति मण्डलनिर्णयः॥१८-१९ १/२॥

बाह्याध्यात्मिका(कं) होममाह - आभ्यन्तरैस्तु शुक्राद्यैरित्यादि। इह बाह्ये तिलाहुतिभिराचार्यैः समयाग्निमुखेन ज्ञानाग्निस्तर्प्यते, तथैव रूपादिविषयैः प्रत्याहारध्यानाभ्यां शुक्राद्यैश्च समापत्तिजनितैः पञ्चस्कन्धादिबुद्धतत्सुतमण्डलं तर्प्यते। प्रज्ञाग्नौ चण्डालीज्वलन तीक्ष्णत्वाद् दाहोज्ज्वले होमोऽसौ विज्ञेयः॥२०-२० १/२॥


p.67


हविभिः क्रियते होमः प्रज्ञाग्नौ तु महोज्ज्वले।

षडायतनधातूनां स्कन्धादीनां विशेषतः॥२१॥

देवतारीपिणां तेषां डाकिनीनां तथैव च।

योग[ः] पूजा समाख्याता तेन ते पूजिता यतः॥२२॥

शिरःकपालमेतत्तु हविर्भाजनमुच्यते।

श्रुवं तु रसनाख्याता हृच्चन्द्रो ललनात्मकः॥२३॥

पात्रीति मुखमुद्दिष्टं कुण्डं च नाभिमण्डलम्।

कर्ममारुतनिर्धूतो ब्रह्माग्निस्त्रिकटे स्थितः॥२४॥

पूजामाह - षडायतनधातूनामित्यादि। इह प्रागुक्तेन न्यायेन पञ्चस्कन्धाः पञ्चडाकाः षडायतनानि षट्चक्रवर्तिनः खण्डकपालाद्याः। धातवश्चतस्रो ज्ञानदेव्यः। डाकिन्यः षट्त्रिंशन्नाड्यः। एवमेषां देवतादिरूपिणां प्रज्ञोपायाद्वययोगेन यो योगः, सा पूजा विज्ञेया। उक्तं च -

निःस्वभावपदाभ्यासाद्देवतारूपभावना।

सा मता महती पूजा सर्वबुद्धप्रसाधनी॥ इति।

एत एवाज - तेन ते पूजिता यत इति॥२१-२२॥

प्रागुक्ताहोमस्याङ्गान्याह - शिरःकपालमेतत्तु इत्यादि। यदेतच्छिरः कपालं मूर्ध्नि कपालम्, तदेव चन्द्राज्यहविष आधारभूतत्वाद्धविर्भाजनं नान्यत्। तथा वामदक्षिणगे ललनारसने अधोद्रव्यवाहित्वाद्यथाक्रमं स्रुक्स्रुवौ ज्ञे। निर्माणचक्रे नाभिमण्डलं वह्निकुण्डम्, तत्र् हविषः पातात्। मन्थमन्थानसंयोगात् कर्मणो यत्र तद्भूतो ब्रह्माग्निस्तत्त्वमयो ज्वलनः स त्रिकटे तदधो गुह्ये त्रिकोणे ज्वलन्नास्ते, स्वभावेनेति वाक्यशेषः। बहिरपि ब्रह्माग्निः शान्तिके शस्यते। स चारणिनिर्मथनादुद्भवतीति॥२३-२४॥


p.68


नादं तु (दस्तु) मन्त्र इत्युक्तो जाप मा(आ)वर्तनं भवेत्।

भावनाप्रतिभासस्तु मण्डलाद्वययोगतः॥२५॥

सहजरूपमेतत्तु जिनानां मण्डलादिकम्।

होममभिधाय जापमाह - नादस्त मन्त्र इत्युक्त इत्यादि। योऽयं प्रागुक्तो नाभिदेशादुच्चारणात् प्राणवायुः, स एव सर्व मन्त्रहेतुत्वान्मन्त्र इत्युच्यते। तस्यैव प्रवेशादिक्रमेण यदावर्तनं स जाप उच्यते। एतेन प्रकृतिजापोऽयं सर्वलोकसाधारण उक्तः।

उक्तं च -

ये वै त्रिधातुके सत्त्वाः प्राणायामसमाश्रिताः।

मन्त्रराजं जपन्त्यज्ञा ध्यानाध्ययनवर्जिताः॥इति।

जापमुक्त्वा भावनामाह - भावनाप्रतिभासस्त्वित्यादि। बाह्ये कायवाक्चित्तान्यालम्ब्य योगिनां प्रतिभासते। अध्यात्मनि निर्माणादिचतुर्मण्डलेषु मुद्रानिकायादिप्रतिभास एव भावना। निःस्वभावतालम्बनं वा मण्डलाद्वययोगः, सैव भावना। 

उक्तं च -

अभावे भावना भावो भावना नैव भावना।

इति भावो न भावः स्याद् भावनातो न लभ्यते॥२५॥

उपसंहारमाह - सहजरूपमेतत्तु जिनानां मण्डलादि मिति। जिनानां सर्वसत्त्वानामेतन्मण्डलादिकं मण्डलहोम यागजापभावनाख्यं सहजरूपं स्वभावस्थितं न तु कृत्रिमम्। कृत्रिमं तु सहजप्रवृत्त्यर्थमेव देशितमिति सर्वसत्त्वा वज्रधरा एवेति। एषां मण्डलानां बाह्या आचार्याधिष्ठिता, अध्यात्मनि तु क इत्याशङ्कयाह - आचार्यश्चित्तराजस्तु मण्डलाध्यक्षरूपत इति। योऽयं चित्तवज्रधरः स्वसंवेद्यस्वरूपत्वेन 


p.79


आचार्यश्चित्तराजस्तु मण्डलाध्यक्षरूपतः।

सर्वमत्रैव बोद्धव्यं मण्डलादि यथोदितम्॥२६॥

इति श्रीवसन्ततिलकायां मण्डलहोमयोग जपभावनादि-

विधिक्रियानिर्णयनिर्देशोऽष्टमः॥८॥


प्रागुक्तमण्डलान्यभेदेन बुध्यते स एवाचार्यः। तत् सविद्वे(शे)षाचरणादाचार्य इत्युच्यते। अत एवाह - मण्डलाध्यक्षरूपत इति। अत्रादिशब्दो लुप्तो द्रष्टव्यः। अतिदेशमाह - सर्वमत्रैव बोद्धव्यं मण्डलादि यथोदितमिति। यदिहानुक्तमण्डलादीनि मण्डलोप -


p.70


करणानि। सूत्ररा(र)जोभूपरिग्रहावाहनस्थापनविसर्जनमण्डलसाधनाभिषेकस्नान-बलिप्रभृतयस्तत्रैव देहमण्डले बोद्धव्याः, ज्ञातव्या इति यावत्। तथाहि - मध्यनाडी सूत्रेण(त्रम्), रक्तशुक्रविण्मूत्रादीनि मण्डलरजांसि, चतुविंशतिपीठसंग्राहिदशनाड्यो भूमयः, तासां लयादिक्रमेण परिभ्रम(ग्रह)णं भूपरिग्रहः, प्रवेशादिक्रमेणावाहनादीनि, ज्ञानोल्या मण्डलसाधनम्, वज्रमणिकलशात् पद्मासनस्थदेवीदेवताचक्रस्य धारासारेणाभिषेकमत्र, इयं(यन्)निष्यन्दाना(नां) रसनास्वादो बलिरिति॥२६॥


इति वसन्ततिलकायां निष्पन्नक्रमसाधनोपायिकायां रहस्यदीपिकायां 

टीकायामष्टमपटल विस्तरव्याख्या॥८॥


p.71


नवमो निर्देशः


अथान्यतमस्य तथागतकायस्य मन्त्रचक्रोद्धारं कथयिष्यामि॥१॥

त्रिकोणं मण्डलं रम्यं वज्रारल्लिविनिःसृतम्।

धर्मोदयेति विख्यातं योषितां भग इत्यपि॥२॥

तस्य मध्यगतं पद्ममष्टपत्रं सकर्णिकम्।

तत्रालिकालिसंमिश्रा अष्टौ वर्गा व्यवस्थिताः॥३॥

यः प्रागुक्तो मन्त्रजापः, कोऽसौ मन्त्र इति, तमु(दु)द्धारं प्रतिपादयितुमथेत्यादिना नवमं निर्देशमाह - अन्यतमस्येति। यस्य कस्यचित् सत्त्वस्य स्वभावसिद्धो यो मन्त्रस्तस्योद्धारं ततः सर्वमन्त्राणां प्रभव इति प्रतिपाद्यते॥१॥

तत्र बाह्ये त्रिकोणं मण्डलं लिखित्वा तद(न?)न्तरेष्वष्टदलं कमलं चित्रयित्वा तन्मध्यकर्णिकायामकारं दलेष्वष्टाष्टभेदेनालिकाली विन्यस्य "चतुर्थस्य तु पञ्चमम्" इत्यादिना क्रमेण "पञ्चमस्य तु पञ्चमम्" इत्यादिना च प्रपञ्चेन मूलमन्त्रादीनुद्धारयेत्। अध्यात्मनि तु यदेतत्त्रिकोणं मूलपीठमध्यनाड्यष्टकसहितम्, तत्र वर्गाष्टकसहितालि-कालिमध्यवर्ती भगवानकारो निःशेषवर्णपदवाक्यमहावाक्यादिरूपेणावस्थितः, तत एवैते वर्णाः प्रादुर्भवन्ति। ते च पदानि जनयन्ति, तान्यपि वाक्यानि, तन्यपि महावाक्यानि यावल्लौकिकभांवभेदमनन्तं चतुरशीतिधर्मस्कन्धसहस्राणीति सर्वोऽयं वर्णाद्यप्रभव इति। स च नाभिगुह्ययोराधाराधेयभावस्य विवक्षितत्वान्निर्माणचक्रमेव मन्त्राधार इत्युक्तः॥२-३॥

एवमकारान्वया अकारप्रभवा मन्त्रा अनुरूपेण शान्तिकादिकर्मसंघातं कुर्वन्ति प्रवर्तयन्ति, नान्यथापरिज्ञाततत्त्वा मन्त्रा इति।


p.72


कुर्वन्ति कर्मसंघातं मन्त्ररूपेण देहिनाम्।

पञ्चाशदक्षराण्येव वेदादिसंस्थितानि वै॥४॥

उक्तं च -

स्वभावो मन्त्रवर्गस्य परमाक्षर एककः।

तत्परिज्ञानमात्रेण मन्त्राः स्युः कर्मकारिणः॥ इति।

तथा - 

अत एव हि नेच्छामो मन्त्रान् वर्णस्वरूपिणः।

नहि शक्तास्तृणस्यापि कुब्जीकरणहेतवः॥ इति।

अत आह - कुर्वन्ति कर्मसंघातं मन्त्ररूपेण देहिनामिति। पञ्चाशदक्षराणीत्यादिना संख्यामाह। आलीनां प्रज्ञोपायरूपेण द्वित्वाच्चतुःषष्टिः संपद्यन्ते। तत्रालिवर्गं द्विधा कृत्वा वर्णा द्वात्रिंशत् संभवन्ति। रक्षयोरूर्ध्वाधो न्यासात् कालयो द्वात्रिंशदेव। मूलतस्तु साक्षात् पञ्चाशद्वर्णाः। तैर्वर्णैर्वेदानीति चतुर्दशविद्यास्थानानि परनिकायप्रसिद्धया, स्वनिकायप्रसिद्धया तु पञ्चविद्यास्थानान्याश्रित्य वर्ततेऽकारः उक्तं च -

एकादिनवमध्ये तु दशभिर्यो न बध्यते।

तमबद्धं विजानीयात् स वेत्ति परमं पदम्॥

स्वरव्यञ्जनवर्णाश्च नवसंख्यानुवर्तिनः।

अबद्धान्योन्यसंयोगाद् यो वेत्ति स जगद्गुरुः॥ इति।

अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः।

पुराणं धर्मशास्त्राणि विद्या ह्येताश्चतुर्दश॥

इति परयूथ्यपक्षः।

लक्षणं हेतुविद्या च तथैवाध्यात्मिका(की) पुनः।

चिकित्साशिल्पविद्ये द्वे विद्यास्थानानि पञ्च तु॥

एतानि सर्वान्य(ण्य)कारादेवोदिध्रयन्त इति सर्वमन्त्रेश्वरं तं विना तेषामुच्चारो न विद्यते। अत आह - वेदादिसंस्थितानि वा इति॥४॥


p.73


मन्त्राणां चैव तन्त्राणां शास्त्राणां बाह्यरूपिणाम्।

एतान्येव स्वरूपाणि नान्यदन्योऽस्ति किञ्चन॥५॥

अ क च ट त प य शवर्गैरेतानि पञ्चाशदपि समानि मतानि।

वज्रारल्लौ पद्मगतानि प्रतिदल दिक्षुविदिक्षु विनिर्गतानि॥६॥

एषां मध्ये तु किञ्जल्के विद्यते परमेश्वरः।

अष्टाभि र्वर्गकैश्चैव वेष्टितः परमाक्षरः॥७॥

शान्तरौद्रो भयस्वभावानां मन्त्राणां प्रत्यङ्गिरादीनां च रक्षाचक्राणां बाह्यशास्त्राणां च प्रागुक्तविद्यास्थानानामेतान्येव वर्णानि कारणतां प्रयान्ति। नान्यदत्रास्ति किञ्चनेति बोद्धव्यम्। अत एष मन्त्रोद्धारो निर्विकल्पः सर्वत्र योगिनीतन्त्रादौ बोद्धव्यः। तदर्थमाह - नान्यदन्योऽस्ति किञ्चनेति॥५॥

कोऽसौ मन्त्रः, किंपरिवारः, कुत्र स्थितः, किंसंख्याक इत्याशङ्क्याह - अ क च ट त प य श मध्यगतानीत्यादिना ग्रन्थेन। प्रतिवर्गादाद्यक्षरमादायालिकाली सकलवाङ्मयहेतू अष्टौ वर्गा भवन्ति। त एव पञ्चाशद्वर्णा आलिकाल्योः समीकरणाच्चतुः- षष्टिः सम्पद्यन्ते, प्रतिनाडीमेकैकवर्णानुध्यानात्। अत एव निर्माणचक्रे पञ्चाशदक्षराणि स्वभावसिद्धानि अष्टाष्टकभेदभिन्नश्रीचक्रसंवरमण्डलचतु षष्टिदेवतामयान्यष्टसु दिग्विदिक्षु व्यवस्थितानि ज्ञातव्यानि॥६॥

मध्यनायकमाह - तासां मध्य इत्यादिना। तासामालिकालिमयीनां नाडीनां मध्ये, परमेश्वरः परमवीरयोगिनीस्वभावा वर्णास्तेषामीश्वरश्चक्रवर्ती। तथाहि नपुंसकबीजचतुष्टयपरिहारेणाकारादयो द्वादशवर्णा भगवान् द्वादशभुजः। दग्धबीजानि चत्वारि डाकिनी-लामा-खण्डरोहा-रूपिण्यः (का?)। कादयो हान्ता मकारबिन्दु-लाञ्छितास्त्रिचक्रवीरवीरिण्यः। यादयो हान्ताः काकास्याद्याः। क्षकारः क्षयडाकः। मध्येऽकारो वज्रवाराहीति। अत एतैरष्टभिर्वर्गैर्वेष्टितोऽसौ परमाक्षरोऽकार एव समस्तमन्त्रहेतुरिति। तत एतेन मन्त्रा उद्ध्रियन्त इति॥७॥


p.74


अकारः सर्ववर्णाग्र्यो महार्थो वर्गनायकः।

अत एव समुद्भूताः सर्वमन्त्रास्तु देहिनाम्॥८॥

या खङ्गाञ्जनपादलेप गुटिकापातालयक्षाङ्गना-

स्त्रैलोक्योदरचारि(वर्ति) सूतकगताः कर्मानुगाः सिद्धयः।

याः सर्वास्तु महर्द्धयः स्वभवने सत्पञ्चकामान्विता-

स्ता वर्गाष्टकमध्यगान्(त्) स्वरवरान्निर्यान्ति वर्गात्मकात्॥९॥

तस्यानुशंसामाह - अकार इत्यादि। महार्थ इति, आद्यनुत्पन्नतत्त्वसूचकत्वात्। वर्गनायक इति, तेनैव तेषां प्राणितत्वात्। ये च देहिनां साधका[नां] वा ये मन्त्रा वाक्यानि प्रणवादीनि वा तत एव जाता उत्पन्नाः। एवं सर्वं एव सत्त्वा मन्त्रपरायणा[ः] स्वभावेनेति स्थितम्॥८॥

कर्मप्रसरसिद्धयश्चैतत्परिज्ञानादेव नान्यस्मादपीति वक्तुमाह - या खङ्गाञ्जनेत्यादि। खङ्गचक्र रत्नवज्रपद्मविद्याधरसिद्धयः पञ्च, खङ्गस्योपलक्षणत्वात्। यया नष्टच्छायो भवति साऽञ्जनसिद्धिर्द्वितीया। यया क्षणमात्रेण योजनशतसहस्राण्याक्रामति सा पादलेपसिद्धिस्तृतीया। यया भूगतनिधानानि पश्यति, बिलद्वारं प्रविश्यासुरकन्यका आकर्षयति वा, सा पातालसिद्धिश्चतुर्थी। यया मनोरम तरवपुषो यक्षिणीर्भुङ्क्ते सा यक्षाङ्गनासिद्धिः पञ्चमी। यया मुखक्षिप्तया सर्वबुद्धक्षेत्राण्यटित्वा बुद्धेभ्यो धर्मं शृणोति सा गुलि(टि)कासिद्धिः षष्ठी। यया शान्त्यादीन्यष्टौ कर्माणि साधयति सा त्रैलोक्योदरवर्तिनी सिद्धिः सप्तमी। यया पाषाणताम्रादीन् सुवर्ण(र्णी)करोति सा सूतकसिद्धिरष्टमीत्यष्टौ महासिद्धयः। अन्या अपि दिव्यचक्षुरादिलक्षणा अणिमादयो वा कार्यैश्वर्यादयो वा लौकिकलोकोत्तराः सिद्धयः, ताः सर्वा वर्गाष्टक -


p.75


यः कश्चित्प्रसरो वाचां जन्तूनां प्रतिपद्यते।

स सर्वो मन्त्ररूपो हि तस्मादेव प्रजायते॥१०॥

नादो हि मन्त्र इत्युक्तः सर्वेषां तु शरीरिणाम्।

विश्वग्रन्थिमहास्थानाद्धर्मारल्ले (ल्लि) विनिश्चरेत्॥११॥

न कश्चिन्नियतो मन्त्रः सिद्धार्थस्तु व्यवस्थितः।

अनुत्पन्नस्वभावो हि मन्त्रो वर्गेश्वरः परः॥१२॥


इति श्रीवसन्ततिलकायां मन्त्रोद्धाराख्यान-

निर्देशो नाम नवमः॥९॥


भूषिताः(तात्) प्रथमस्वरादेवोद्भवन्तीति न पृथक् प्रपञ्चेन तत्साधनाय यत्नः करणीय इत्युक्तं भवति॥९॥

सर्वसत्त्वान्तर्गतत्वेन तस्य व्याप्तिं प्रदर्शयन्नाह - यः कश्चिदित्यादिना। देहिनामपदादीनां यो वाक्प्रसरो व्यक्ताव्यक्तोभयात्मक उत्पद्यते, स सर्वो मन्त्ररूप एव, तदुत्पत्तिभूतस्यान्तर्गतत्वात्॥१०॥

नाभिदेशादुच्चरन् महासुखध्वनिरितरो वा नाद एव मन्त्रः, मनस्त्राणनाद् गुप्तभाषणात्। समापत्तौ सर्वोऽयं स्त्रीपुंसवर्गस्तमेव भाषते, तेनैव च प्रमोद्यते, दण्डभेदेन मूर्च्छति, तेनैव बिन्दुभेदोऽप्याप्यत इत्येवमादिकर्मसंघातकृतसर्वदेहिनां विश्वग्रन्थिमहास्थानान्निर्माणचक्राद्धर्मारल्लि[ः] सर्ववर्णपदवाक्यमहावाक्यादेश्चतुरशोतिधर्म-स्कन्धारल्लिव्यापकः। विनिश्चरेत् प्रभवति।


p.76


रतिकाले समुत्पन्ने यं भाषन्ते पुरन्ध्रयः।

व्यक्ताव्यक्तस्वभावोऽसौ नाद[दो] मन्त्र इति स्मृतः॥

हर्षे कोपे प्रसादे च स्वप्ने मूर्च्छाक्षणे मृतौ।

प्रबोधे रतिकाले च स एवाश्रूयते ध्वनिः॥११॥

उपसंहारमाह - मन्त्रसिद्धौ प्रागुक्तायां न कश्चिन्नियतो विद्यते मन्त्रस्य(मन्त्रः), येनासौ कर्मसिद्धिमभिनि[र्व]र्तयति, भावनायां साति शयेनातिशयत्वाद् अयमेवातिशयो यो धर्मताक्षरेण व्याप्तिः, तस्यां स्त्यां ते विविधविचित्रकर्मकारिणो भवन्तीति। तदर्थमाह - अनुत्पन्नस्वभावो हि मन्त्रो वर्गेश्वरः पर इति। आद्यनुत्पन्नसर्वभाव-स्वभावसूचकोऽयमकारः। तद्दृष्टयैवै तैर्म(ते म)न्त्रा स्वकर्मणि प्रयुक्ताः सफला भवन्तीति। अत एव वर्गेश्वर इति तेषामाधिपत्यकृत्, न तु ते तदधिपतय इति॥१२॥


इति वसन्ततिलकायां निष्पन्नक्रमसाधनोपायिकायां रहस्यदीपिकायां टीकायां नवमनिर्देशविस्तरव्याख्या॥९॥


p.77


दशमो निर्देशः


अथान्यतमस्य तथागतकायस्य धर्मसंभोगनिर्माणत्रिकायरूपेण महासुखज्ञानं प्रवक्ष्यामि॥१॥

शिरोनाभिगतं चक्रमेकाराकृतिसंस्थितम्।

हृत्कण्ठं च गतं चक्रं वंकारसदृशं मतम्॥२॥

इदानीं धर्मादिकायत्रयस्वभावचतुश्चक्रवसन्ततिलकानिरुक्तिमन्त्राद्योनि(द्यौलि)-चतुष्टयपञ्चस्वरादिस्वरूपावाच्यसहजप्रतिपादनार्थं दशमनिर्देशमथेत्यादिनाऽऽह। अथेति निर्देशापेक्षयाऽऽनन्तर्यार्थः। यस्य कस्यचिदन्यतमस्य। धर्मादिरूपेणेति कायत्रयरूपेण। महासुखज्ञानमिति सहजं प्रवक्ष्यामीत्युद्देशः। एतदुक्तं भवति - सर्व एव सत्त्वास्त्रिकायसहजमयं(याः), त्रियुक्तत्वात्॥१॥

तेषां स्थानमाह - शिरोनाभिगतं चक्रमित्यादिना। यदेतच्छिरोनाभ्यो[र]न्तरे स्थितं चक्रद्वयं तदेकाराकृतीति, अधो धर्मोदयसमत्वात् पृथिवीसाधर्मा(र्म्या)च्च। ऊर्ध्वमुष्णीषकमलकर्णिकापि त्रिकोणाकृति[ः], धर्मोदयस्वभावत्वात्। तथा हृत्कण्ठगतमपि चक्रद्वयं वंकाराकृति। व(वं)कारस्य विलोमसन्निवेशादपि त्रिकोणमेव। एतदुक्तं भवति - निर्माणमहासुखचक्रयोः प्रज्ञोपायस्वभावेऽपि, उभयोः प्रज्ञारूपत्वात्। तथैवोपायप्रज्ञास्वभावयोरपि हृत्कण्ठचक्रयोरपि प्रज्ञारूपता, सर्वेषामवधूत्या व्याप्यत्वात्॥२॥


p.78


नाभिमध्ये स्थितं पद्मं चतुःषष्टिदलान्वितम्।

द्वात्रिंशत्तु दलं पद्मं मूर्ध्नि मध्ये व्यवस्थितम्॥३॥

कण्ठमध्ये गतं चापि पद्मं तु षोडशच्छदम्।

हृदयेऽपि तथा चैव पद्ममष्टदलान्वितम्॥४॥

चतु[ः]षष्टिदलं चैव निर्माणं परिकीर्तितम्।

अष्टदलमहापद्मे धर्मकायः प्रवर्तते॥५॥

षोडशारे तु संबोगो द्वात्रिंशच्छदके तथा।

महासुखमहाज्ञानं समन्तात् संव्यवस्थितम्॥६॥

नाभिमध्य इत्यारभ्य पद्ममष्टदलं स्मृतमित्यन्तेन निर्माणादिचक्राणि चत्वारि यथाक्रमं चतुःषष्टिद्वात्रिंशत्षोडशाष्टदलानि, दण्डनाडीसंक्रान्तिप्रहर(ण?)स्वरूपत्वात्। यथा बहिः सूर्यप्रचारेण दण्डादिविभागस्तथैवाध्यात्मनि प्राणप्रचारेण। स चक्राश्रित एवेति कालचक्राण्येतानीति प्रतिपादितं भवति॥३-४॥

चतुःषष्टिदलमित्यारभ्य समन्तात् संव्यवस्थितमित्यन्तेन न केवलं प्रज्ञोपाय-कालविशेषस्वभावानि चत्वारि, यावन्निर्माण कायादिस्वभावान्यपि भवन्तीति प्रतिपाद्यते। तत्र नाभिचक्रं निर्माणकायः, बुद्धबोधिसत्त्वरूपाणां स्कन्धायतनस्वभावसर्व-सत्त्वानामुत्पत्तेः। हृच्चक्रं धर्मकायः, हूँकारादिरूपस्कन्धधातूपसंहारकत्वात्। कण्ठचक्रं संभोगकायः, अप्येषां धर्मामृतपरिभोगदानात्यनु रश्वादाच्च। शिरश्चक्रं महाज्ञानं स्वभावकायः, पारमार्थिकबोधिचित्तस्वरूपत्वात्। उक्तं च -

त्रिकायं देहमध्ये तु चक्ररूपेण संस्थितम्।

त्रिकायस्य परिज्ञानं चक्रं महासुख(खं) स्मृत[म्]॥ इति।


p.79


निर्माणचक्रमध्ये तु वर्गाष्टकनिवेष्टितम्(तः)।

वर्णानामग्ररूपोऽसा वकारः परमाक्षरः॥७॥

धर्मचक्रे तु विख्यातो हूँकारोऽनाहतो मतः।

पञ्चस्वरसमायुक्तो यरलवैर्विभूषितः॥८॥

संभोगचक्रमध्ये तु ओंकारो वर्णदीपकः।

चतसृभिः कलाभिस्तु समन्तात् परिवारितः॥९॥

महासुख महाचक्रे हंकारो बिन्दुरूपकः।

चन्द्रसूर्यौ तु विख्यातौ पार्श्वे तु वामदक्षिणे॥१०॥

तथा -

कायाः कृता येन जगद्धितार्थ

कुलानि देव्यः कुलनायकाश्च।

सं(स्व)मूर्तिमन्त्रानुगतस्वरूपो

निषेव्यतां वज्रधरः शिवाय॥ इति॥ ५-६॥

चक्राधेयमन्त्रमूर्तित्वं सर्वसत्त्वानां प्रतिपादयितुमाह - निर्माणचक्रमध्ये त्वित्यारभ्य हंकारो दीपक इत्यन्तेन ग्रन्थेन। तत्र निर्माणचक्रे प्राप्ते[प्रो]क्तेन न्यायेन मध्येऽकारो दलेष्वालिकाली। हूँकाराः पञ्चडाकबीजानि सनपुंसकानि धर्मे। चतुर्दीर्घप्रणवाः षोडशस्वरवृतो ब्रह्मा वा कण्ठे। द्विगुणालिवेष्टितोऽध्या (धो)मुखो हँकारः शिरसि। यथाक्रमं महामण्डल समापन्ना ज्ञानमण्डला(ल) समापन्नज्ञानमण्डलशान्तशा(सा)न्तरचतुर्नाडीहेरुकमण्डलरूपाणि चक्राण्येतानीति प्रतिपादितं भवति॥७-९ १/२॥

एवं चक्राणामाश्रयभूतं नाडीद्वयमाह - चन्द्रसूर्यौ तु विख्यातावित्यादि। वामदक्षिणयोश्चक्राणां चन्द्रसूर्यौ प्राणापानादूर्ध्वमधः शुक्ररक्तधातू प्रवहन्त्यौ ललनारसने स्थिते ज्ञेये। एतेन बहिश्चन्द्रसूर्यप्रकाश आध्यात्मिक एवेति कथितं भवति॥१०॥


p.80


कण्ठादारभ्य वामेन नाडी संभोगकायिकी।

नाभिमध्ये तु विश्रान्ता अधोमुखी मदावहा॥११॥

नाभेरूर्ध्व तु या नाडी वहत्यूर्ध्वमुखी तथा।

कण्ठमध्ये तु विश्रान्ता रक्तावहा प्रकीर्तिता॥१२॥

मदश्चन्द्र इति ख्यातो रक्त[ः] सूर्य इति स्मृतः।

द्वारद्वयसमारूढौ अध‍ऊर्ध्वसमाश्रितौ॥१३॥

एतौ हि चन्द्रसूर्याख्यौ नाडीद्वयं प्रकीर्तितौ।

वीराणां डाकिनीनां तु गत्यागतिनिबन्धनौ॥१४॥

तयोर्द्रव्यवाहित्वं द्वारं सन्निवेशं च प्रकाशयितुमाह - कण्ठादारभ्येत्यादिना। येयं वामपार्श्वे ललनाख्या नाडी, साऽधोमुखी कण्ठादारभ्य नाभिमध्यं यावन्मदं वहति। तथा येयं दक्षिणपार्श्व रसनाख्या नाडी, [सा] ऊर्ध्वमुखी नाभेरारभ्य कण्ठं यावद्रक्तं वहति॥ ११-१२॥

मदरक्तयोः पर्यायमाह - मदश्चन्द्र इति ख्यात इत्यादिना। यो मदश्चन्द्रः शुक्रमपानवायुश्च, तदुक्तम् - "स सूर्यः प्राणवायुश्च" [इति]। वर्णतः कृत्यतश्चेति वाक्यशेषः। एतौ चन्द्राकौं चित्तद्वारं द्विप्रभेददक्षिणोत्तरायणरूपमाश्रित्योर्ध्वाधःप्रवाह-वृत्त्या प्रवहन्तौ लोकेशाकाशगर्भस्वभावा अमिताभरत्नसंभवरूपिणौ ज्ञेयौ, "वज्रसूर्यामिताभौ द्वौ मूलं संसारसाधने" इति वचनात्। बहिरपि यदस्ताचलात् सूर्योऽधो गच्छति, तदोदयाच्चन्द्र ऊर्ध्वं गच्छति। विपर्ययेना(णा)पि। यावेतौ चित्तद्वारमाश्रितौ चन्द्राकौं तावेव वीरडाकिनीनां गत्यागतिप्रवृत्तिनिबन्धनौ विज्ञेयौ। तथा वीराश्चतुविंशतिधातवस्ते चन्द्रचरणाः। एवं निखिले याः सर्वसत्त्वानामिति ज्ञेयाः॥१३-१४॥


p.81


अस्तमनोदयार्थौं तु स्वप्नप्रबोधयोः स्थितौ।

वामदक्षिणपार्श्वे तु स्वरा द्वादश संस्थिताः॥१५॥

ऊर्ध्वंमुखा[ः] समाख्याताः ककारादिभिरावृताः।

अधोमुखैस्तु पार्श्वस्थै यकारादिभिर्योजिताः॥१६॥

क्षकाराक्षरसंयुक्तो अधोभागे तु वेष्टितः।

यदा कण्ठे महारागरूपेण चन्द्रमाः स्थितः॥१७॥

तथा बहिरुदया स्तममावध्यान्दन (मनौ माध्यन्दिन) एव प्रवृत्ता इति दर्शयुतुमाह - अस्तमनोदयार्थावित्यादिना। तत्र यदा प्राणवायुर्दक्षिणनासापुटेनोदेति तदाऽपानवायुर्वामनासापुटेनास्तमेति। एवमहोरात्रेण चन्द्रसूर्यप्रचारः सर्वसत्त्वानां स्थित एव। स्वप्नप्रबोधावपि तथैव विज्ञेयौ। स्वापश्चन्द्रांशः, [प्रबोधः] सूर्यांशः। एवं स्वापप्रबोधावस्थ चन्द्रार्कस्वरूपामिताभरत्नसंभवरूपता ज्ञातव्या॥१४ १/२॥

अभ्यान्तरस्तूपं कालमृत्युवञ्चनं च प्रतिपादयितुमाह - वामदक्षिणपार्श्वे [त्वि]-त्यारभ्याधोभागे व्यवस्थित इत्यन्तेन ग्रन्थेन। वामदक्षिणनाड्योर्नपुंसकबीजवर्जिता द्वादशस्वरा यथाक्रममध‍ऊर्ध्वमुखाः सबिन्दु[क]कारादिचतुविंशतिव्यञ्जनैरध‍ऊर्ध्वमुखैः परिवृताः स्वभावेनैव नाडीनादरूपेण व्यवस्थिताः। अत एवाह - मध्यीकृत्य नियोजिता इति। अधोऽपानमार्गेऽपानरक्षकः क्षकारः शङ्खमुद्रायां स्थित ऊर्ध्वं तु रेफ इति। धर्मचक्रमध्यगतहूँकाररश्मिभिर्वामदक्षिणस्वरव्यञ्जनान्याकृष्य मध्ये प्रवेशान्ते तदा कुलिकापूजावशात् कालमृत्यू वञ्चयित्वा वज्रधरमहाश्वासप्राप्तो भवति योगीति॥ १५-१६ १/२॥

अधुना बोधिचित्तस्य स्थानसंचारवशात् कायत्रयरूपतां प्रतिपादयितुमाह - यदा कण्ठ इत्यादिना। कण्ठे यदा षोडशकलास्वरूपो वा परवश(रस)रूप श्चन्द्रमा -


p.82


संभोगस्तु तदाख्यातो बुद्धानां काय उत्तमः।

नासाग्रे तु तदा चासौ वज्राग्रे तु यदा स्थितः॥१८॥

अस्तंगतस्तु संभोगः कायोऽपि च यदा भवेत्।

भगमध्य गतश्चासौ सर्षप इति विश्रुतः॥१९॥

सूर्यरूपसमाख्यातो निर्माणकाय उच्यते।

बुद्धानां बोधिसत्त्वानां स्फरणं तेन जायते॥२०॥

पद्म नर्तेश्वरो राजा पद्मप्रकाशयोगवान्।

तस्मिन्नस्तंगते भानौ निर्माणकायरूपके॥२१॥

स्तिष्ठति, तथा नासाग्रे हृन्नाभ्यग्रवज्राग्रे च, तदा परिपूर्णसुख त्वाच्चन्द्रोऽसौ संभोगकाय इत्युच्यते। तस्यैव(स एव) विशेषेण बुद्धानां स्कन्धानामुत्तमस्वसंवेद्यः कायो विज्ञेयः। स एव यावद्वज्राग्राच्चन्द्रोऽस्तङ्गतो भगमध्ये पतितः सर्षपप्रमाणास्तङ्गत-सूर्यमध्यप्रविष्टस्तदासौ निर्माणकाय इति संख्यां(ज्ञां) गच्छति। हेतुमाह - बुद्धानामित्यादिना। ततश्चन्द्रसूर्यसंयोगात् स्कन्धादिरूपाणां बुद्धबोधिसत्त्वानां स्फरणं जायते, ततोऽसौ निर्माणकायः, पृथग्जनानामदृश्यत्वात् संभोगकायोऽस्तङ्गतः, निर्माणकायः सत्त्वार्थं करोतीति व्यवस्था॥१७-२०॥

अत एव तस्य सूर्यमध्यस्थस्यापि स्वरूपं पद्मनर्तेश्वराख्यमविवृत्तमिति प्रतिपादयितुमाह - (स एव ?) पद्मनर्तेश्वरो राजेति। पद्मनर्तनं पद्मनर्तस्तत्रेश्वर इव प्रभवतीति पद्मनर्तेश्वरः। राजते सूर्यसंयोगाच्चीन पिष्टवद्विरोचत इति राजा। तदर्थमाह - [पद्मप्रकाशयोगवानिति] पद्म(द्मे) प्रकाशते शोभते इति पद्मप्रकाशः स्वयम्भूः, तद्योगादेकीभावादपि पद्मका(प्र)काशयोगवाँश्चन्द्र इत्युच्यते॥२० १/२॥


p.83


व्यक्तसंबोधिचित्ताख्यं पिण्डीभूतमनाविलम्।

संसारमार्गविच्छिन्नं प्रपञ्चोपशमं शिवम्॥२२॥

निर्द्वन्द्वं परमं शुद्धं श्रीवज्रसत्त्व रूपकम्।

श्रीहेरुक इति ख्यातं तन्त्रस्तु घुणरूपकः॥२३॥

हासदर्शनपाण्याप्ति तन्त्रत्रयव्यवस्थितः।

रागं चैव विरागं च वर्जयित्वा घुणः स्थितः॥२४॥

उक्तौ संभोगनिर्माणकायौ, धर्मकायमाह - तस्मिन्नस्तंगते भानावित्यादिना। तस्मिन्निर्माणकायसंज्ञके सूर्ये चन्द्रास्तङ्गते तत्र प्रविष्टेद्वयोर्व्यक्तौ सामरस्यं प्राप्तयोः सत्योः, तस्य बोधिचित्तस्येति चन्द्रस्य सूर्यस्य च पिण्डीभूतमनाविल उभयविकल्पकलङ्कापगतः स धर्मकाय इति परेण संबन्धः। कीदृशः ? व्यक्तिद्वयसामरस्यसंसार-मार्गस्य तद्विकल्पस्य विच्छेदो यस्मिंस्तथा प्रपञ्चयोः संभोगनिर्माणकाययोरुपशमो यत्र, ततः समानाधिकरणसमासः। सहजत्वाच्छिवः। परस्परविरुद्धपक्षद्वयोज्झितत्वान्निर्द्वन्द्वः। स्वसंवेद्यत्वात् परमः। निःक्लेशत्वाच्छुद्धः। वज्रं शून्यता, सत्त्वं करुणा, तन्निश्रितत्वाद्वज्रसत्त्वस्वरूपस्त्रिविमोक्ष मुखोपायं प्रकृतिप्रभास्वरविमोक्ष-मुखोपेयरूपत्वात् श्रीहेरुकः। स एव धर्मकाय इत्युच्यते। मनस्त्राणनात् स एव मन्त्रः। रागादिक्लेशजालस्य पलालस्यै(स्ये)व भक्षणात् स एव घुणः॥२१-२३॥

ननु योगिर्नातन्त्रे घुण एव (एव घुणो) निर्दिष्टो न क्रियादितन्त्रेष्विति कथमव्यापको धर्मकाय इति चेत्; उच्यते - हसितेत्यादि। क्रियाचर्यातन्त्रेषु प्रज्ञोपायानां परस्परं हासः, योगतन्त्रे तु दर्शनम्, योगचर्योभयतन्त्रेषु पाणिग्रहणम्। उपलक्षणं चैतत्। महायोगतन्त्रे आश्लेषः, योगिनीतन्त्रेषु द्वन्द्वम्। उक्तं च -


p.84


सर्वनाडीसमायोगडाकिनीजालसंवरम्।

रहस्यं पृथिवीधातौ परमेऽपि जले तथा॥२५॥

रहस्ये त्वनलाख्ये तु वायौ सर्वात्म संस्थितम्।

सदा स्थितमिदं प्रोक्तं सर्वबुद्धात्मसंवरम्॥२६॥

अथवा ऽऽदर्शरूपेण समतायां तथैव च।

प्रत्यवेक्षणाबोधे च कृत्यानुष्ठानके तथा॥२७॥

हसितप्रेक्षिताभ्यां वा आलिङ्ग द्वन्द्वकैस्तथा।

तन्त्राणामपि चतुर्णां सन्धाभाषेण देशितम्॥ इति।

एवं रागविरागया (योस्) त्रयं वर्जयित्वा सर्वत्रैव तन्त्रेषु घुणो व्यवस्थित इति व्यापकत्वं धर्मकायस्येति न दोषः॥२४॥

धर्मकायस्य मण्डलचक्ररूपतां दर्शयितुमाह - सर्वनाडीत्यादिना। सर्वाभिर्नाडीभिः समायोगो येषां धातूनां ते सर्वनाडीसमायोगाश्चतुर्विंशतिवीरास्तैरुपलक्षिता या एता डाकिन्यस्तासां जाल समूहस्तत्र संवरस्तत्त्वम्, बोधिचित्तरूप इत्यर्थः। धर्मकायस्य सर्वाकारतां दर्शय[न्] रहस्य इत्याद्याह। यदेतत्तन्त्रराजे रहस्य इत्यादिके(कं) वाक्यं तत् सन्धाभाषया पृथिव्यप्तेजोवायुधातुषु बाह्येष्वाभ्यन्तरेषु चतुश्चक्रेषु सर्वबुद्धात्मशं(सं)वरं(रो) महासुखस्वरूपो व्यवस्थितः, धर्मतारूपत्वात्॥२५-२६॥

अथवेत्यादिना सुविशुद्धधर्मधातुकमित्यन्तेन तस्यैवादर्शादिपञ्चबुद्धस्वभावतामाह। तथाहि विचित्रज्ञेयचक्रप्रतिबिम्बितत्वात् स एवादर्शज्ञानम्। अपदादीनामेकतम -


p.85


सदा स्थितमिदं प्रोक्तं सुविशुद्धस्वभावकम्।

वैरोचनेऽथवा चैव अथवा रत्नसंभवे॥२८॥

अथवा चामिताभावौ(भेवा) यद्वाऽमेघे सदा स्थितम्।

पञ्चामृतमयं पिण्डं बिन्दुरूपं मनोमयम्॥२९॥

सुविशुद्धमहाज्ञानं सर्वदेवीस्वरूपकम्।

वज्रसत्त्व इति ख्यातं परं सुखमुदाहृतम्॥३०॥

स्वयम्भूरूपमेतत्तु धर्मकायं प्रकीर्तितम्।

अस्यैव सहजा प्रज्ञा स्थिता तद्रूपधारिणी॥३१॥

त्वात् स एव समताज्ञानम्। स एव विवृतिप्रति (वि)चयात् प्रत्यवेक्षणाज्ञानम्। जगदर्थस्य तत एव प्रवृत्तेः स एव कृत्यानुष्ठानज्ञानम्। धर्मतारूपत्वाद्धर्मधातुज्ञानमसाविति॥ २७-२७ १/२॥

वैरोचन इत्यादिनाऽस्यैव पञ्चबुद्धस्वभावतामाह। तथा हि स्वसंवेद्यरूपेण रोचनात् स एव वैरोचनः। रागादिभिरक्षोभ्यः स एव। रत्नयोः संभोगनिर्माणयोः संभवोऽत इति रत्नसंभवः। ज्ञानमय्योऽपरिमिता भा[सो] यस्य सोऽयममिताभः। सत्त्वार्थक्रियायां सफ(क)ला सिद्धिर्यतः सोऽमोघसिद्धिः। विवृतिरूपमुक्त्वा सांवृतं रूपमाह - पञ्चामृतमयमित्यादि। रहस्यादिपञ्चभिः पञ्चामृतमयमपि पिण्डं बिन्दुरूपं पञ्चव्योममध्ये साम रस्यमापन्नं संवृतमपि सुविशुद्धधर्मधातुज्ञानं स्वदेहे स्थितं वदन्ति बुद्धा इति वाक्यशेषः। तस्यैव विशेषणमाह - वज्रसत्त्व इति। प्राङ्निर्णीतः परमसुखस्वभावो हेतुप्रत्ययनिरपेक्षो यः स धर्मकाय इत्युच्यते। एतेन पुनरपि विवृतिरूपत्वमस्य प्रतिपादितं भवति॥ २७-३० १/॥


p.86


कर्ममारुतनिर्धूता ज्वलन्ती नाभिमण्डले।

वाराहीति सुविख्याता वसन्ततिलका स्मृता॥३२॥

वालाग्रशतसहस्राङ्गो विद्युच्छता (त) समप्रभा।

देवतायोगकालेषु रोमकूपाग्रसन्धिषु॥३३॥

उक्तः कायत्रयस्वभावो भगवान् श्रीहेरुकः, तदभिन्नां भगवतीं वाराहीं दर्शयितुमाह - अस्यैव कायात्मनः सहजस्वभावस्य श्रीहेरुकस्य नाभिमण्डले ज्वलन्त(न्ती) मन्थमन्थानसंयोगजा कर्ममारुतसंधुक्षिता वह्निरूपिणी या संवित्, सैवास्य सहजप्रज्ञा स्वभावसिद्धा चन्द्रचन्द्रिकेव। सैव वाराही वायुरेफाभ्यां मातरिश्वहुत-भुग्भ्यामीरयति स्रावयतीति वाराही, न तु सूकरानना। वसन्तं हूंकारादिस्तिलकेव तिलका, तं प्राप्य सन्तुष्टेति प्राक् प्रतिपादितत्वात्॥३१-३२॥

अस्याः प्रमाणमाह - बालाग्रेत्यादिना। बालाग्रस्य यः शतसहस्रो लक्षप्रमाणो भागस्तद्वदङ्गं स्वरूपं यस्याः सा तथा। एतेनातिसक्ष्मत्वमस्याः प्रतिपादितं भवति, योगिज्ञानगम्यत्वात्। उक्तं च -

अत्यन्तसूक्ष्मविसतन्तुसमानरूपा

कल्पाग्निपूर्वकमहासुखधाम यावत्।

या व्याप्य तिष्ठति महापुरुषोपलभ्या 

प्रज्ञा च सा निगदिता वरहेरुकस्य॥ इति।

विद्युच्छटासमप्रभेति सौदामनीसन्निभा प्रभाभासुरा। तस्याः कारित्रमाह -

देवतायोगकाल इत्यादिना। देवतायोगः प्रज्ञोपायाद्वययोगस्तत्काले तदवसरे सैव ज्ञानाग्निज्वाला योगिनः सर्वरोमकूपसन्धिभ्यो निर्गत्य सुरासुराः(रान्) स्कन्धेन्द्रियविकल्पांस्तर्जयित्वा धर्मसंभोगचक्रयोर्ग्रन्थिरूपाणि स्कन्धधातुविकल्पेन्धनानि दग्धा(ग्ध्वा) दक्षिणेन नासारन्ध्रेण निर्गत्योर्णाकोषगतेन रन्ध्रेण दशदिग्गतानां प्रविश्व तच्छिखारन्ध्रं तेषां चक्रचतुष्टयं दग्ध्वा पुनर्वामनासारन्ध्रेण निर्गत्य शिखारन्ध्रेण प्रविश्य


p.87


निश्चरन्ती दिशः सर्वास्तर्जयन्ती सुरासुरान्।

हृदये धर्मचक्रे तु दग्ध्वा संभोगचक्रतः॥३४॥

नासारन्ध्रेण निष्कम्य दक्षिणेन समन्ततः।

ऊर्णाकोश गतेनापि रन्ध्रेन(ण) दश दिक्षु वै॥३५॥

बुद्धानां बोधिसत्त्वानां नासारन्ध्रेण वामतः।

प्रविश्य शिखायां चक्रं समादह्य विनिष्कमेत्॥३६॥

पूर्वोक्तेन च रन्ध्रेण शिखायां प्रविशेत् पुनः।

दग्धानां चैव बुद्धानामानन्दं जनयेत् पुनः।

नाभिमण्डलमागम्य स्थिता भवति पूर्ववत्॥३७॥

इति श्रीवसन्ततिलकायां धर्मसंभोगनिर्माणकायत्रयोलिङ्गन-पूर्वकश्रीहेरुकवसन्त-वज्रवाराही तिलका स्मृता। गत्यागतितन्त्रमन्त्रज्ञान-गुह्यालिनिर्माणसंभोगधर्ममहासुखचक्रगतपद्मचतुष्टय स्वरद्वादशमात्रा-चतुस्त्रिंशदक्षरस्वरूप प्रत्यर्थवर्तितथागताख्यानं दशमः॥

पूर्ववद्दग्धानां तथागतानामाप्यायनं करोति, नाभिमण्डले च स्थिरा भवति विलीयते। उक्तं च - "मन्थमन्थानसंयोगाद् ज्ञानवह्निरिह कर्ममारुतेन प्रेरितो नाभिमण्डले प्रलीयते, ज्वलति दीप्तिभिः। समयचक्रगतान् सुगतान् दग्ध्वा संभोगचक्रगतमुपायं त्रिः 


p.88


याः खङ्गाञ्जनपादलेप गुटिकापातालयक्षाङ्गना-

स्त्रैलोक्योदरवर्ति सूतकगता[ः] कर्मानुगाः सिद्धयः।

प्रदक्षिणीकृत्योर्णाकोषगतेन मर्मोद्घाटनद्वारेणोड्डियानसंज्ञकेन दशदिक्स्थिततथागतानां जालन्धरसंज्ञकेन कनकद्वारेण प्रविश्य तेषां पूर्वचक्रचतुष्टयं दग्ध्वा पूर्वोक्तद्वारेण निर्गत्य क्षीरधारामवगम्य दग्धानां तथागतानामानन्दं जनयति" इति। तन्त्रोलिज्ञानोली उक्ते। "वामदक्षिणपार्श्वे स्वरा द्वादश संस्थिताः" (१०।१५) इत्यनेन मन्त्रोलिः, धर्मकायविचारे तु गुह्योलि॥३३-३७॥

उपसंहारमाह - तत्र कायत्रयो(या)लिङ्गने चक्रचतुष्टयकथनेन व्यक्तिद्वयकथनेन तत्सामरस्यप्रतिपादनेन चोक्तः। नादबिन्दुसंघट्टकथनेन हेरुकवज्रवाराह्योर्वसन्ततिलकार्थ उक्तः। गत्यागतिशब्देन तयोः संयोग उक्तः मन्त्रतन्त्रज्ञानगुह्योलि कथनम्। वामदक्षिणपर्श्वेषु स्वरा द्वादश संस्थिताः" (१०।१५) इत्यनेन बाह्येन(वाक्येन) तथा "अस्यैव सहजा प्रज्ञा" (१०।३१) इत्यारभ्य "चक्रं निर्दह्य निष्क्रमेत्" (१०।३६) इत्यन्तेन च वाक्येन तथा "दग्धानां चैव बुद्धानामानन्दं जनयेत् पुनः" (१०।३७) इत्यनेन च "नाभिमण्डल मागम्य स्थिता भवति पूर्ववत्" (१०।३८) इत्यनेन च चतस्र ओलयो मन्त्रतन्त्रज्ञानगुह्याख्याः कथिताः। तथा निर्माणादिचक्रचतुष्टये यः पञ्चस्वरादिविन्यास इति संक्षेपेण द्विगुणीभूतालिकालिद्वयहूँकारादिबीजपञ्चकनपुंसकबीजविन्यास(सा?) - दीर्घब्रह्मविन्यास-द्वात्रिंशदालिपरिवेष्टितानाहताक्षरविन्यासश्च "निर्माणचक्रमध्ये तु वर्गाष्टपरिवेष्टिता(तः)। वर्णानामग्ररूपेण अकारः परमाक्षरः॥" (१०।७) इत्यादिना ग्रन्थेनोक्तम्(क्तः)। उद्देशापेक्षया निर्देशः। उद्देशो हि संक्षेपेण प्रतिपादनम्। निर्देशो विस्तरेणेति शेषः। एष निर्देश इति परिच्छेद इत्यर्थः। याः खङ्गाञ्जनेत्यादयोऽष्टौ महासिद्धयः प्रागुक्ताः स्पष्टार्थाः। तान्तु(तास्)ताः प्रागुक्तवसन्त-तिलकसाधनोपायिकावबोधाद् भवन्तीति प्रतिपादितं भवति।

मृद्विन्द्रियसत्त्वपरिहारेण तीक्ष्णेन्द्रियपुद्गलविषयोऽयमिति। दर्शयन्नाह - उद्देशादित्यादिना। उद्देशाद् गुरुपादप्रसादतत्पादपङ्कजो(ज)रजोरत्नौर्निर्देष्ट (ष्टृ)गुरुसमधि -


p.89


याः सर्वास्तु महर्द्धयः स्वभवने सत्पञ्च कामान्विता -

स्ताः सर्वा[ः] कलिता वसन्ततिलकायोगप्रभावोदिताः॥

इति चर्याव्रतिश्रीकृष्णाचार्येण गुरूपदेशमागम्य श्रीहेरुकभट्टारकस्या देशाच्च स्वप्नगतम[व]धार्यं श्रीचक्रसंवरा म्नायेन बाह्याभ्यन्तरं(र)रूपतः स्वरूपध्यानतो वाचा स्फुटीकृत्य मन्दमत्य वबोधाय सूचितेयं वसन्ततिलकेति वज्रवाराही देवी च वसन्तश्रीहेरुकादेशाद् वसन्ततिलकेति तदभिधानं ग्रन्थस्यापीति।


इति वसन्ततिलका समाप्ता॥


गततत्त्वरत्नविभागीकरण पट्ट(टु)भिर्ये समलङ्कृता मण्डिताः, तथा ये चान्ये निर्देशात् प्रज्ञाभिधानादाचार्यान्तं प्रसादादनुभूतेन सहजेन प्रतिपदप्रतिवाक्यवाग्भिस्तत्त्वाक्षरै-र्द्योतिकाभिर्जिनपुङ्गवैर्भगवद्भिस्तथागतैः समुल्लासिताः(तैः) सोत्साह(त्व?)मुपनीताः -

"आगमात् प्रत्ययश्चैव गुरुतः प्रत्ययस्तथा।

आत्मतः प्रत्ययश्चैव परतः प्रत्ययस्तथा॥

चतुर्भिः प्रत्ययैर्ग्राह्यम्"

इत्यादि गुह्यतत्त्वप्रकाशे वचनात्। अत एव हि ये बाह्याध्यात्मपरिग्रहादिति यथा 


p.90


बाह्ये तथाऽध्यात्मन्यपि सदृशत्वेनोपदेशं गृह्णन्ति, "यथाध्यात्मं तथा बाह्यं संवरं संप्रकाशितम्" इति वचनात्। तथा ये च स्वहृदय एव वज्रडाकान्विता न बहिः, तेषां कृते इयं वसन्ततिलका मया कृता। यतस्ते श्रद्धया दृढं गृह्णन्ति प्रमेयमिति श्रद्धादृढग्राहिणे ग्रन्थकार आत्मनः स्वरूपदर्शनमुखेन ग्रन्थसमाप्तिं दर्शयन्नान - इति श्रीगुरुबुद्धेत्यादिना। आत्मीयवज्रगुरुबुद्धबोधिसत्त्वाज्ञाप्राप्तेन तथागतकायस्थितेन चर्याव्रतिना मया कृष्णेनेदं वसन्ततिलकाख्यं दशनिर्देशात्मकं कृतं यत् परिसमाप्तमिति सर्वतन्त्रार्थसंग्रहादन्यापेक्षाभावादित्यर्थः।


इति वसन्ततिलकायां निष्पन्नक्रमसाधनोपायिकायां रहस्यदीपिकायां टीकायां दशमनिर्देशे विस्तरव्याख्या॥१०॥

इति वसन्ततिलकटीका समाप्ता॥


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project