Digital Sanskrit Buddhist Canon

डाकिनीवज्रपञ्जरटिप्पणी

Technical Details
  • Text Version:
    Sanskrit
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2025
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

p.1


डाकिनीवज्रपञ्जरटिप्पणी


ओं नमो वज्रडाकाय


प्रणम्य डाकिनीवज्रपञ्जरं यस्य लिख्यते।

विभागो गुरुतः सम्यक्स्मृतयेऽन्यस्य कस्यचित्॥

आकाशेष्वित्यादि। आकाशं धर्मोदयः। जड इति पृथ्वी। स्वच्छ इति वारुणम्। अनवकाश इति वायुः। प्रकाशिनीति वह्निः। विश्व इति धर्मोदयान्तर्गतविश्वपद्मम्। वज्रालय इति विश्वपद्मोपरि विश्ववज्रम्। नयन इति चतुर्मण्डलोपरि दृष्टभ्रूँचक्रसम्भववैरोचनसमापत्ति-जनितामृतधाराद्रुतचतुर्महाभूतपरिणामितकूटागारम्। सत्त्वधाताविति तदेव डाकडाकिनीनामाधारत्वात् सत्त्वधातुः। तथा पञ्चरत्नमयत्वान्मनोरमम्। एतदुक्तं भवति। धर्मोदयान्तर्गतकूटागारे स्थित इति परेण सम्बन्धः। महासुखस्वभावतया व्यापित्वेन सत्त्वासत्त्वेष्वपि स्थित इत्याह। सत्त्वेत्यादि। स इति चलेषु। भाजन इति स्थिरेषु। लोक इति एतयोरेव विशेषणम्। सत्त्वं निर्दे(र्दि)शन्नाह- भूरित्यादि। यथाक्रमं स्वर्गमर्त्यपातालस्थेषु। अन्तर इति एष्वेव भाजनादन्येषु। मनसीत्यादि एषामेव मनःकायवाक्सु। एकस्मिन्निति एषामेव विशुद्धरूपे महासुखस्वभावे ग्राहकाकारे द्वे वेति प्रज्ञोपायात्मके शून्यताकरुणाभिन्नबोधिचित्ते। खे रताविति शून्यतास्वभावे ग्राह्यंशे। षड्धेति रूपाद्यायतनषट्केति। पञ्चस्वति स्कन्धपञ्चके। द्विषट्केष्विति द्वादशस्वायतनेषु चतुर्विंशतिमहाभूतचतुष्टये। एकोनविंशत्स्वपीत्यत्रैव योज्यम्। पुद्गलसहितेष्वष्टा-दशधातुष्विति भावः। ततो भाजनस्य निर्देशः। जगत्स्विति। अस्यैव प्रतिनिर्देशः। त्रैधांतुकम-शेषेष्विति। पितरीत्यादि चतुर्ष्वित्यनन्तरं योज्यम्। लोकप्रसिद्धेष्वेव पित्रादिष्वित्यर्थः। बाह्येत्यादि बाह्याभ्यन्तरव्यपदेशेन सत्त्वासत्त्वमेव निर्दे(र्दि)शति। सर्वयोषित्स्विति सर्वविधानां सुखाधारत्वात्तत्र स्थित इति भावः। धर्मे चेति नीलपीतादिके। सर्वकर्मसु चेति एषामेव नीलादीनां रञ्जनादिक्रियालक्षणे। अनात्मनीति प्राकृतात्मेव भावशून्यदेवतादेहे। फल इति फलहेवज्रे। हेताविति हेतुहेवज्रे। कार्याख्य इति एतयोरेव विशेषणम्। एतावेवाह साध्यसाधनवज्रिणीति। अथवा साध्यं महासुखम्। साधनं तस्यौवोपायः। इदानीं मातरं निर्दिशन्साध्यस्यैवावस्थाद्वयं समलनिर्मलात्मकं दर्शयितुमाह - तथाहीत्यादि आलयविज्ञाने सर्ववासनानिलयलक्षणे। धर्मधाताविति अनालयरूपतां गते। अनुद्भव इति उपादानचित्तक्षणादन्यस्मात्कारणादुत्पादरहिते। सत्त्वधाताविति सत्त्वस्य संभोगकायाख्यस्य तद्बीजाधारत्वादाधारे। स्वेन शून्यता अंशेन साधकानां पोषणात् खधातौ च ग्राह्यग्राहकाकारस्वभावविवेकादनात्मनि। उभयविविक्तेनात्मना स्थितत्वादात्मसंज्ञिनि। अनात्मनीत्यस्य निर्देशो विभावेष्विति। विगता ग्राह्यादयो भावा अस्मिन्निति विभावे, पूजार्हत्वाद्बहुवचनम्। आत्मसंज्ञिनीत्यस्य निर्देशोऽना(शो ना)भाव इति 


p.2


ग्राह्यग्राहकविगमरूपेण विद्यमानत्वान्नाभावे, सुखस्य ज्ञेयलक्षणस्याङ्गस्य रक्षणात्सुखावत्याम्। त्रिकोणरूपमहीरूपत्वेन त्रिकोणके। रागादीनां तत्राभावादरजे। अस्यैव निर्देशः प्रतिनिर्देश-स्तत्प्रतिनिर्देशा विगतदोषेष्वित्येवमादीनि वचनानि। सर्वविकल्परहितत्वान्निस्तरङ्गे। समाधिचित्तैकाग्रता तदात्मकत्वात्समाधौ ग्राह्याङ्गसुखवेदनात्मकत्वादन्तःसुत्सुखवेदिनि। अपात्रभूतेषु गोप्यत्वाद्रहस्ये, उत्कृष्टत्वात् परमे। रमणीयत्वाद्रम्ये। सर्वेषामात्मायमेवेति सर्वात्मनि। सदेति प्रबन्धनित्यत्वात्सर्वकालम्। स्थित इति सम्बन्धः। कोऽसावित्याह - सर्वबुद्धमय इत्यादि। सर्वबुद्धस्वभावत्वात्तन्मयो महावज्रधर इत्यर्थः। अयं च सत्त्वार्थं प्रति सततप्रवृत्तत्वात्सत्त्वः। डाकिनीनां नैरात्म्यादीनां बहिर्गमननिषेधकत्वेन वज्रपञ्जरमिव वज्रपञ्जरः। स्थित्वा किं कृतवानित्याह - असावित्यादि। असाविति डाकिनीवज्रपञ्जरः परमार्थतो हेत्वभावात्स्वयम्भूः। ऐश्वर्यादिषड्गुणयोगाद्भगवान्, धर्मकायरूपतया। एकोऽद्वितीयः। सम्भोगनिर्माणकायस्वभावत्वादधिदैवतः। उक्तवानिति सम्बन्धः। पञ्चमण्डलमिति मण्डलपञ्चकमिति भावः। तदेवाह - वज्रिण इत्यादिना सुगमम्। गौरीत्यादिना माण्डलेयदेवता आह - पुष्पाद्या इति पुष्पा-धूपा-दीपा-गन्धा(ः)। लास्याद्या इति लास्या-गीता-नृत्या-हास्या(ः)। वंशाद्या इति वंशा-वीणा-मर्दला-मुरजा(ः)। लोचनाद्या इति लोचना-मामकी-पाण्डरा-तारा(ः)। नानावर्णा इति शुक्लादिवर्णोपेताः। आसां च वर्णः संहारमण्डलेऽवगन्तव्यः। अतिमोहेत्यादि। सत्त्वानां अतिशयितो मोहोऽतिमोहश्चित्तविभ्रमः। तस्यापनयनाय महामोहो महोत्साहः। तस्मात्तत्स्वभावा इत्यर्थः। अतितेज इति अतिशयितं तेजोमान् सत्त्वानाम्। तदपनयनाय महादीप्तिरोजस्कता। बलवत्तेति यावत्तया तेन स्वभावेनेति भावः। अतिरागो विषयाभिष्वङ्गः। तस्यापनयनाय। महारागो महानभिष्वङ्गस्तात्पर्यम्। तस्मात्तद्रूपा इति भावः। महेर्ष्या आत्मीये वस्तुनि परेषां प्रवृत्तिनिषेधकश्चेतोधर्मः। तां महता यत्नेनावृणोति प्रच्छादयति निषेधयतीति महावरणं महोत्साहः। तस्मात्स्वभावा इत्यर्थः। अन्ययानं श्रावकादियानम्। वज्रसत्त्व इति अक्षोभ्योऽक्षोभ्यज्ञानसम्भव इति क्लेशविकल्पैरक्षोभ्यस्य शून्यताज्ञानस्य परस्मिन्सम्भवो यस्मात्स तथेति भावः। जगदित्यादि जगतः सत्त्वराशेः। अक्षये शून्यताज्ञाने। निमन्त्रणर्थमभिमुखीकरणाय। पञ्चावरणघातक इति पञ्चानामात्म-सत्त्वार्थ-विकल्प-संस्कार-प्रवृत्तिपञ्चज्ञानानां शून्यताज्ञानस्यावरणानां घातको हन्तेति भावः। मत्सरिण इति ईर्ष्यकान्। अनेकधेति पञ्चधा। अतिशून्यप्रसक्तानामिति सर्वं नास्तीति चिन्तयताम्। सम्बुद्धतामिति वैरोचनरूपताम्। अभ्यासमाह - यद्यदीत्यादिना। यद्यदिति रूपशब्दगन्धरसस्पर्शान्। इन्द्रियमार्गत्वं यायादिति। पश्यति शृणोति। जिघ्रति आस्वादयति स्पृशति वा। तत्तदिति तान्सर्वान्। स्वभावतः प्रकृतिरूपेण न विकारेणेति भावः। परमाहितयोगेनात्यन्तसमाहितेन मनसा। सर्वबुद्धमयमिति। यथायोगं पञ्चडाकात्मकान्वहेत्पश्येत्। कथमेतत्कर्तुं स्मार्यत (पार्यत) इत्याह - येन येनेत्यादि सुगमम्। सत्त्वार्थमाह - येन येनेत्यादिना। अबोधम् देशनाया। आकारं दर्शयन्नाह - चित्तवज्रेत्यादि।


p.3


नानास्वभाविन इति नानागोत्रकाः। आत्मविकल्पेनेति आत्मादिदृष्ट्या। सौख्यमिति साध्यस्वभावं, महासुखात्मकमण्डलचक्रम्। अनन्यत्वादिति सादृश्यात्। शास्त्ररूपिणमिति लक्षणानुव्यञ्जनविराजितः शास्ता माण्डलेय-सहितः। इति प्रथमः पटलः।

त्रिलोकाप्त इति भुवनत्रये हितोपदेष्टा। समयपूजामिति चक्रवर्तिभेदेन यथार्हपूजाद्रव्यम्। वज्रपूजाविकुर्वणैरिति अनन्तरोक्तपूजाविशेषेण। गन्धं हूँ वज्रसम्भवमिति। बीज-चिह्नपरिणामजो गन्धः। सप्तिराजस्यैव दातव्य इत्यर्थः। समन्तभद्रबीजात्मेति हूँकाराज्जातः कलितं तर्जनीद्वाभ्यां मुद्राप्रयोगत इति। वज्रबन्धं कृत्वाऽनामिकाद्वयेन शृङ्खलीकृत्य वृद्धाङ्गुष्ठेन मध्या-कनिष्ठा-नखाक्रम्य तर्जनीद्वयमाकुञ्च्य हृदि धारयेदिति मुद्रा। नागिन्यो यक्षिण्यश्चेति हेमपीठादौ दृष्टक्षीँकाररश्मिभिर्यक्षिणीमाकृष्य तत्र प्रवेश्य यक्षिणीं पीतवर्णां श्वेतच्छत्रां भूतडामराक्रान्तमस्तकां हृदि भावयेत्सिद्ध्यति। तथा नागिनीं नंकारेण। मानुषीदेवकन्ययोस्तु नामाद्यक्षरं बीजम्। पद्ममिति स्वदिङ्नागवर्णं पद्ममष्टदलम्। अष्टनागानिति पूर्वे नीलमनन्तम्, याम्यां वासुकिं सितम्, वारुण्यां तक्षकं रक्तम्, कौवेर्यां कर्कोटकं रक्तम्, आग्नेय-नैरृतदलल्योः पद्ममहापद्मौ पाण्डरौ, वायव्यां शङ्खपालं पीतम्, ऐशान्यां कुलिकं विश्ववर्णमिति। तार्क्ष्यवज्रकृतासनमिति गंजातगरुडासनम्। हूँभ्यां विदर्भितमिति मालामन्त्रान्ते हूँकारद्वयेन फुःकारं मध्यीकृत्येति भावः। तद्यथा हूँ फुः हूँ फट्। चुम्बितमित्यादिषु भावे क्तः। वज्रपद्ममित्यादिषु षष्ठ्यर्थे प्रथमा वेदितव्या। महास्नेहादिति सिद्धिं प्रति महातृष्णया। स्पो(फो)टवज्रिति शृङ्खलया वज्रवदभेद्यस्वभावया। तदा डाकिनीचतुष्केणेति अनन्तरोक्तेन सूर्यादिचतुष्टयेन। अत्रायं क्रमः। सिद्धिप्रदाने विमुखीभूतानां प्रथमे षण्मासे पूजापूर्वकं श्रावणं द्वितीये हृद्यङ्कुशेन ताडनम्। तृतीये हठेनाकर्षणादिपूर्वकं कीलनं कर्तव्यमिति। अथ निश्चरतीत्यादि वज्रीत्युपलक्षणम्। भुजादिसंहाराच्चक्रीरत्नीत्यादिकमवसातव्यम्। वज्राञ्जलीत्यादि हस्तद्मयेऽकारण चन्द्रमण्डलम्। तत्र हूँकारेण सितवज्रम्। अङ्गुलीश्च वज्राकारा भावयेन्मूर्ध्न पुष्पाञ्जलिना। नमः सर्वतथागतानामिति प्रणमन्नात्मानं निर्यातयेदित्यर्थः। अत्र संहारमण्डले द्वारपालचतुष्टयस्य संहारोऽचलः। शाश्वतस्य माण्डलेययोगिनीनां लोचना संहारः। वज्रसत्त्वस्य योगिनीनां मामकी। तथा लोकेश्वरस्य योगिनीनां पाण्डरा तारा च सप्तिराजवज्रसूर्ययोर्योगिनीनामिति। सर्वैरेव माण्डलेयैर्नर्तनं बोद्धव्यमिति भावः। द्वितीयः पटलः।

वज्रपञ्जरसमाधिस्थ इति। हेवज्रसमाधिस्थः। आकाशधातुमध्यस्थ्यस्थमिति धर्मोदयमध्यस्थम्। कमलाष्टकमिति रक्ताष्टदलकमलम्। वज्रनाम समाधिस्थ इति कुलानुरूपतः कर्तव्यनामानि बुद्धावरोत्य तत्रैव चित्तस्य संयमने स्थित इति भावः। रागोऽमिताभः। द्वेषोऽक्षोभ्यः। मोहो वैरोचनः। समयोऽमोघसिद्धिः। सत्त्वो वज्रसत्त्वः। मणिस्तु रत्नसंभवः। काममोक्षप्रसाधका इति पचभिः कामैर्मुक्तेः साधका इत्यर्थः। तृतीयः पटलः।


p.4


हूँकार इति वज्रहूँकारस्य। मुद्रेत्यादि। मुद्रानन्तरं वक्तव्या। तया विजयः परेषामभिभवनम्। तत्र समाधौ चित्तैकाग्रतायां स्थितः। मुद्रैव चिह्नं मुद्राचिह्नम्। काये तु करमुद्रा स्यादिति। हूँवज्रेण विशुद्धकरादीनां वज्रचक्रादीनि। एवमतिदेशाच्चरणदृष्टि(ष्ट)मुद्रादीनि। वाङ्मुद्रेत्यादि जिह्वायां सितहूँकारेण सितवज्रम्। मन्त्रजाप इति निरोधक्रोधजापतः। चित्ते तु चिह्नमुद्रेति चित्तेनाभिनिवर्त्य घटितचित्रितं संदंशाद्यं चिह्नं ध्यानमण्डलेऽपि। तदेवेत्याह - सैवेति। संदंशं दक्षिण इत्यादि सर्वं सुगमम्। प्रादेशिकं समयम्। डाकिनीति भाषणम् विद्यते। उत्तानीकृतत्वा(द्) देवतादेहादेः। न विद्यते शून्यतारूपस्य दुरवगाहत्वादिति भावः। परमानन्दसमाधिस्थ

इति शिष्यस्य परमानन्दहेतुत्वात्। परमानन्दः पञ्चाभिषेकाः। तत्र समाधौ चित्तैकाग्रतायां स्थितः। विद्यासेकमिति पञ्चाभिषेकान्। स्वविद्येत्यादि प्रज्ञोपायसमापत्तिर्ज(ज)नितबोधिचित्ताविशिष्टैः कलशैरष्टभिरित्यर्थः सार्वकर्मिकविजयकलशयोरपि ग्रहणमत्र वेदितव्यम्। वज्रिणमित्यक्षोभ्यम्। वज्रचित्तप्रभावनैरिति आदर्शज्ञानभावनया। सर्वमिति गीताव्यु(द्यु)पकरणानि भव्यमानानि। वज्रगाथाप्रयोगत इति। अभिषेकं महावज्रमित्यादेः पाठतः। जलादिसेकानां स्वरूपं वक्तुमाह - यद्यद्भातीत्यादि। यद्यज्जलादिकं यद्यप्यक्षोभ्यादिरूपमुक्तम्, तथापि सुखात्मना हेरुकस्वभावमिति भावः। धर्मा इति बाह्या बुद्धधर्माः वा। यदिति यस्माद्देरुकात्। सर्वोपयिकविधानेनेति सर्वोपयिकमण्डलोपकरणम्, तस्य विधानं यथावड्ढौकनं मायोपमाद्यधिमोक्षेणेत्यर्थः। सर्वानुत्तरपूजयेति बाह्यगुह्यतत्त्वपूजाभिः। करात्कर इति आचार्यकराच्छिष्यकरे। सर्वाश्वासं समादायेति 'दृष्ट्वा प्रविष्ट्वे' त्यादिगाथाभिः शिष्याश्वासमभिधाय। समाधिवज्रदेशक इति आदियोगादि-समाधिदेशकः। निश्चार्येति चेतसि कृत्वा वज्रसमयाख्यमिति समाधित्रयम्। विशुद्धीः सप्त कारयेदिति पापदेशना-पापाकरण-संवर-पुण्यानुमोदना-पुण्यपरिणामना-रत्नत्रय-शरण-बोधिचित्तोत्पादमार्गाश्रयणानि। बोधिचित्तं समुत्पाद्येति शून्यताभावा(व)नां कृत्वोपलक्षणं

चैतत् वज्रपञ्जरादिकमपि भावयित्वा। धर्मोदयविभावनेति रक्षाचक्राभ्यन्तरे वज्रहूँकारादिपरिणतस्य धर्मोदयस्य भावनां कुर्यात्। तत्रेति धर्मोदयाभ्यन्तरे विश्वपद्मविश्ववज्रोपरीत्यर्थः। पञ्चाकारमिति चन्द्रसूर्यादिभावनाम्। आद्यपुरुषमिति हेतुभूतान्। डाकिनीचक्रं गौर्यादिदेवतागणम्। गन्धर्वे त्विति रक्तहोःकारद्वयमध्यीकृताक्षरत्रये। चक्रनायक इत्यत्र उत्तिष्ठतीति वेदितव्यम्। त्रिवज्रेति पदं न्यसेदिति हृत्कण्ठमूर्द्धस्न(सु) खेचरी भूचरी पातालवासिनी हृदयचन्द्रे हूँ आः ओं इत्यक्षरत्रयं भावयेत्। वज्रानुरागणमिति डाकिनीचक्रनिर्माणार्थं प्रतिमण्डलं वज्रयोः प्रज्ञोपाययोः सन्तोषणं कर्तव्यमिति भावः षडङ्गमिति नीलपीतादिकम्। स्वाधिष्ठानेत्यादि कर्मराजाश्री(ग्री)समाधौ स्वसमाधिध्यानं स्वज्ञानम्। तेन परेषामधिष्ठानम्, यथा स्वज्ञाने नियोजनम्। चिह्नमिति सिद्धेर्निमित्तपञ्चकम्। मेघा कारमिति सर्षपसूक्ष्ममरीचिकाया एकघनाकारत्वान्मेघाकारं हेवज्रस्य। धूम्रसन्निभमिति धूमाभ्रखण्डसन्निभं श्वासं तस्य। खद्योत(आ)


p.5


क्[आ]रमिति खद्योतकालोक-सदृशं सूर्यस्य। दीपमुज्जलमिति उज्ज्वलदीपशिखाकारं पद्मस्य। सदालोकमित्यादि स्वच्छालोकं गगनाकारं घटकस्य(?), एकस्यैव क्रमेण व पञ्चस्वपि निमित्तेषु बुद्धाकारस्यैव मरीचिकादि-रूपेण प्रतिभासनमवसातव्यम्। पश्चादिति सिद्धौ सत्याम्। वज्रदेहिन इति बोधिसत्त्वाः। ज्ञानपुञ्जस्येति संभोगकायात्मनः। योनिसम्भवा इति जरायुजाण्डजसंस्वेदजौपपादुकाः। महामुद्रा प्रयोगेणेति निर्माणकायात्मना। उपभुञ्जयेदिति निरुत्तरधर्मदेशनाद्वारेण। कृतवन्तो दानवज्रिण इति साधु साध्वित्युदाहरणं कृतवन्त इति भावः। कायवाक्चित्तमेव चेति। कायवाक्चित्तमपि। महावज्रसमाधिस्थ इति देशचित्तं(त्त)बुद्ध्यारूढो हेवज्रो महावज्रस्तदालम्बनः समाधिश्चित्तैकाग्रता तस्मिन्स्थित इत्यर्थः। नानारूपा हि योषित इति तत्र मोहवज्रा सिता, द्वेषवज्रा नीला, पिशुनवज्रा पीता, रागवज्रा रक्ता, ईर्ष्यावज्रा हरिता, नैरात्म्ययोगिनी नीला। गतप्राणोर्ध्वसंस्थिता इति शवोपरि सूर्यमण्डले प्रत्यालीढेन स्थिताः। अनेनैव विधानेनेति सूर्यासनं सूर्यप्रभवत्वेन। तत्र भूचरी रक्ता कण्ठे, खेचरी कृष्णा हृदि, पातालवासिनी शुक्ला काये। आसां बीजमाह- ओंकार इत्यादिना ओंकारः पातालवासिन्याश्चित्तो वज्रो हूँकारः खेचर्याः, आःकारो भूचर्याः। गौस्वरूपिणीमिति शुक्लाः। वज्रेत्यादि वज्रो हेरुकस्तस्य द्वारपालिनीनां योग इति भावः। कोणेषु भावयेद्देवीमिति पुक्कस्यादिदेवताचतुष्टयं कोणेषु द्रष्टव्यम्। बोधिचित्तघण्टादीनि चत्वारि यथाक्रमं तच्चिह्नानि। चतुर्भूतवरेत्यादि। तत्र बोधिचित्तघटो धातुः मेरुः पृथिवीधातुः। वह्निकुण्डं तेजोधातुः। महाध्वजो वायुधातुरित्यर्थः। अथवा पुक्कस्यादयश्चतस्रः पृथिव्यादिस्वभावास्तासामयं समाधिरिति भावः। सर्वाकारसमाधिस्थ इति। क्रोधानां ये सर्वे आकारा भुजादयस्ते सर्वाकारास्तेषु समाधिः चित्तैकाग्रता तत्र स्थितः। इदं घोषमिति वक्ष्यमाणं मन्त्रात्मकं च वचनम्। नारीणामित्यादि। प्रशस्तं कपालं गृहीत्वा तत्पृष्ठे पद्ममष्टदलं सकर्णिकं कुङ्कुमगोरोचनामिकारक्तैरालिख्य कर्णिकायां साध्यप्र[ति]कृतिं तद्धृदये च मालामन्त्रममुकीमाकर्षय जःपर्यन्तं लिखित्वात्मानं यमारिवज्ररूपेणालम्ब्य गौर्यादिदेवताचतुष्टयेना-कर्षादिप्रयोगेणानीतैः सर्वबुद्धैर्हेवज्राद्याकारैः। प्रतिपरमाणु पूरयित्वा कपाललिखितप्रतिकृतिहृदयं सूर्यमण्डलस्थहूँभववज्राङ्कुशाङ्कितचरणतलेन कन्याकर्षण आलीढेन। पुरुषाकर्षणे प्रत्यालीढेन वाऽऽक्रम्य तं यमारिमन्त्रं चोदनासहितं जपेदिति समुदायार्थः।

द्वितीयं प्रयोगमाह - पादेत्यादिना। पादपांशुः साध्यस्य पादरजस्तस्य विधानं नद्युभय-तटमृत्तिकया सह साध्यप्रतिकृतिः। ततस्तद्धृदये भूर्जादिलिखितमन्त्रं प्रक्षिप्य पूर्ववत्पादेनाक्रम्य तन्मन्त्रं जपेदिति। त्रिकायेत्यादि। त्रिकायात्मकस्य यमारेश्चिह्नबीजपरिणामेनोत्पत्तिभावनयेत्यर्थः। मुद्रितानामिति गृहीतानाम्। हूँ-कृतातोप इति स्वयमपराजितयोगयुक्तो हूँकारसहितं मन्त्रमुच्चारयन्। वज्रपीडनम् इति करद्वये दृष्टहूँभववज्रद्वयेन सरश्मिना पीडनं हूँकारेण ज्वलद्वज्रीकृतसर्षपेण ताडनं वा वज्रपीडनम्। ततः सुखं स्वास्थ्यम्। आकर्षयतीत्यादि। आत्मानं पद्मान्तकरूपेणालम्ब्य गरुडपृष्ठं सूर्यस्थितं दृष्ट्वा स्वहृदि सूर्यस्थहूँकारकिरणैस्त्रैलोक्यगतं 


p.6


विषं मन्त्रमुच्चारयन्नाकर्षयति। सुप्तकोत्थापनं तथेति। आत्मानं पूर्ववद्दृष्ट्वा तत्किरणैः साध्यशरीरस्थं विषं मस्तकादारभ्य पादतलाद्बहिः प्रेर्यमाणं कृष्णीभूतं पश्येदिति। मारुतोद्धूतकमित्यादि। गणपतिपादतल इति। कुण्डलीति पादान्ते प्रयोजनं लिखेदित्यर्थः। अत्रायं समुदायार्थः पितृवनदग्धो न तु काष्ठाङ्गारहरितालविषं अरिष्टपत्राणां रसेन वामचरणानामिकासृङ्मिश्रेण बृहत्काकपक्षलेखन्या वातमण्डले कोक्षिप्तवस्त्रादौ वायुमण्डलस्थबृहन्नाभिखड्गचक्रमालिख्य तन्नाभौ प्रतिकृतिं तद्धृदये च तन्नाम वदर्भितं सञ्चोदनापूर्वकं मालामन्त्रं लिखित्वा कुलालचक्रमृत्तिकाचतुष्पथमृत्तिका-साध्यपादपांसुभिः प्रतिकृतिं कृत्वा तद्धृदये प्रक्षिपेत्। ततः कपालसंपुटे कृत्वाऽऽवाहनपूर्वकं स्वप्नविध्नान्तकयोगिमनः समन्तबुद्धेभ्य इत्यादि मन्त्रेणाष्टशताभिमन्त्रितं यन्त्रं मातृगृहे श्मशाने चतुष्पथे वा गोपयेत्। साध्यं च वायुमण्डलारूढोष्ट्रपृष्ठस्थं पश्चाद्दण्डहस्तपुरुषेण दक्षिणां दिशं नीयमानं ध्यायन्नियतमुच्चाटयति। प्रयोगविधिचोदित इति यथावदार्यनीलदण्डयोगवांश्चित्यङ्गार-वाल्मीकमृत्तिकातुषमहामांससाध्यपादपांसुभिः प्रतिकृतिं कृत्वा श्मशानकर्पटे नरास्थिलेखन्या विषरुधिरनीलीत्रिकूटारिष्टपत्ररसैर्विश्ववज्रस्थाग्निमण्डलस्य मध्ये साध्यनामविदर्भितं मालामन्त्रमालिख्य प्रतिकृतिहृदये प्रक्षिप्य बाह्यतामुभयकपालान्तर्गतां कृत्वा तस्य घातनाय क्रुद्धो वामपादेनाक्रम्य पाषाणास्थिनि स्वदलानि चर्वयन्मध्याह्नेऽर्धरात्रे वाऽमुकं मारय हूँ फडिति चोदनान्वितं मन्त्रं क्रोधवाचा जपेत् सप्ताहान्मारयति। विषास्या इति अष्टौ नागाः पूर्वकथिताष्टबाहुचतुर्वक्त्र-महाबलयोगवान् पक्वशरावे नीलीरसेनाष्टारखड्गचक्रमध्याष्टदलकमलमध्ये ओं नँ नँ नँ नँ नँ नँ नँ नँ शूलपाणिनमर्पय शीघ्रमिति विलिख्यापरेण शरावेण संपुटीकृत्य नीलसूत्रेण संवेष्ट्य शूलिनीं नाशां[गां]श्च हृद्बीजेनावाह्यसंपूज्याज्ञां दत्वा शरावसंपुटं नागाधिष्ठानपुष्करिण्यादौ मन्त्रावर्तनपूर्वकं प्रक्षिपेन्नियतं नागा वर्षन्ति। सिंहारूढेत्यादि। अचलक्रोधयोगवान्योगी यँकारजवायुमण्डलारूढ-सिँकारजसिंहस्थपाशाङ्कुशधरदेवतयाकृष्यमाणं साध्यं पादयोः पतितं चिन्तयेदाकर्षयति। आकर्षयेत्सर्वकन्यास्त्विति। पूर्वक्रमेणैव देवतायोगे पुनर्विशेष एवेति। अविद्यापुरुषमिति डाकपञ्चकादन्यतमं सप्रज्ञं विभाव्य। अङ्कुशादिप्रयोगेणेति हृद्वीजान्निर्गतपाशाङ्कुशधरगौरीप्रयोगेण। कन्यामिति वायुमण्डलारूढाम्। वज्राङ्कुशप्रयोगत इति अङ्कुशाकारं कृत्वेत्यर्थः। आकर्षणपदं धत्त इति प्रकारान्तरेणकर्षणं कथयति। अनन्तरमेव कथितमिति नेह प्रपञ्चितमिति भावः। बाहुविद्यगतं कृत्वेति भूर्जपत्रादावष्टारचक्रमालिख्य मध्ये सुम्भनिसुम्भं चक्रनेमिकायां सितातपत्रमन्त्रं आरासु यथास्थानमष्टानां क्रोधानां मन्त्रालिख्य विद्यां कृत्वा बाहौ कण्ठे वा धारयेदित्यर्थः। 

चतुर्थः पटलः।

सर्वज्ञमिति सर्वज्ञम्। बुद्धबिम्बमिति पञ्चाकाराभिसम्बोधिक्रमेण निष्पन्नं वज्रसत्त्वम्। वज्रसत्त्वमिति श्रीहेरुकम्। एवमन्यत्रापि द्रष्टव्यम्। बुद्धविश्व(बिम्बं)संभूतान्मण्डलानिति पञ्चविधहेतुवज्रधरसंभूतान्माण्डलेयानित्यर्थः। मन्त्राणामिति मन्त्रदेवतानाम्। ज्ञानपदमिति ज्ञानसत्त्वम्। आत्मसमानं चिह्नबीजाङ्कितम्। सत्त्वज्ञानप्रयोगेणेति ज्ञानसत्त्वस्य समयमण्डले


p.7


प्रवेशेन। बुद्धबोधिमिति उभयोरैक्यं क्षीरनीरयोरिव भावयेत्। स्वमन्त्रेत्यादि। यथा स्वबीजपरिणामेन वज्रादिचिह्नान्यवलोक्य स्फुरणसहरणं कृत्वा देवतानामुत्पत्तिश्चिन्तनीयेति भावः। शब्दमित्यादि प्रणीताप्रणीतमध्यभेदेन त्रिविधम्। रक्षां समयमध्यस्थमिति रक्षाचक्रमध्यगतम्। मण्डलं पञ्चेति संहारमण्डलं मण्डलपञ्चकात्मकम्। पञ्चपञ्चात्मकेत्यादि। आदर्शादिपञ्चज्ञानस्वभावतया प्रत्येक पञ्चात्मकाः श्रीहेरुकादय इत्यर्थः रजस्यापीति अपि शब्दात्सूत्रस्यापि। तत्र पञ्चविंशातिभेदाः। शाश्वतस्य नीलपीतरक्तहरितसिताः, रूपस्य सितनीलरक्तहरितपीताः। नर्त्तेश्वरस्य सितपीतनीलहरितरक्ताः। अश्वस्य सितपीतरक्तनीलहरिताः। हेवज्रस्य सितपीतरक्तहरितनीला इति दक्षिणावर्तेन। अभ्यन्तरप्रदेशविधिनेति भावः यस्यैवेत्यादि यस्यैव हेवज्रादेः संहारमण्डलमध्ये मण्डलं भवति तस्यैव च तत्र नायकत्वमिति भाव। अथवा संहारमण्डलमिति महामण्डल-मध्यवर्तिपञ्चमण्डलम्। अष्टाष्टकमध्यस्थमिति अष्टावष्टौ कोष्ठका यस्मिन् संहार इति। अष्टाष्टकमष्टाष्टकं च तन्महामण्डलापेक्षया मध्यं च तदित्यष्टाष्टकमध्यम्, तेन रूपेण स्थितमित्यष्टाष्टकमध्यस्थम्। पञ्चविंशत्सु पुनरिति पञ्चविशत्या रजोभिर्लक्षितम्। द्वारपालानिति द्वारपालीः। अङ्कशमिति अङ्कुशी, एवमन्यत्रापि। मीनराजं वेति रोहित। गतावप्युत्तमेत्यादि पञ्चानां गतीनां मध्ये मानुषी गतिरुत्तमा, तत्रैव बोधित्रयप्रापणादिति भावः। सा चेति तान् गजाद्यान् रोगवान्(?)। दधाविति दक्षिणकपालस्था रोगाः। वामकपालस्थानि भैषज्यानि सर्वेषामिति भावः। पञ्चमः पटलः।

चित्तानुस्मृतीत्यादि। सत्त्वार्थं प्रति निर्माणकाले स्फुरणसहरणक्रमेण हेवज्रादीनामनुस्मरण कर्तव्यमिति भावः। चित्तरत्नमिति चित्तादव्यतिभिन्नं रत्नसम्भवम्। महाचक्रमिति संहारमण्डलम्। वज्रसत्त्वमिति हेवज्रम्। चतुर्भुद्रेणेति निर्माणादिचक्रचतुष्टयेन। एवं शाश्चतादीनामपि। द्वेषराजमित्यादि विभावयेदित्यन्तेनानुस्मृतीनां निर्देश उक्तः। स्फरणयोगेनेति मन्त्रबिन्दोः स्वकायमेधेन चिह्नमेघेन वा संहारं च समादिशेदिति तत्रैव एवमन्येष्वपि। चित्ताक्षरमिति हेवज्रस्य बीजाक्षरम्। एवमन्यत्राप्यक्षरशब्देन बीजमेवोक्तम्। स्वच्छमण्डलं चन्द्रमण्डलम्। रक्तमण्डलं सूर्यमण्डलम्। धर्ममण्डलं सूर्यमण्डलम्। कर्ममण्डलं सूर्यमण्डलम्। अभेद्यमिन्यादि। भाव्यमण्डले हेवज्रादीनां शिरसि वा वज्रादिचिह्नानि वेदितव्यानीति क्रमः। योजनकोटिविस्तारमित्यप्रमेयम्। आकाशधातुमध्यस्थमिति। हृद्बीजादानीय पुरो देशे व्यवस्थिति:। कोणदेवीप्रयोगेणेति कोणदेवीसमीपत्वेनोपचारात्। कोणदेवीति गौर्यादिदेवीभिराकर्षणादिविधिना। अद्बैतमिति समयमण्डलेन सहैकीभावः। बुद्धागममिति बुद्धागमनच्छलेनैवेति व्याजीकृत्य तिष्ठन्तीति शेष। अत एवाह - सपीत्यादि। बुद्धाहङ्कारमालम्ब्येति बुद्धरूपेणात्मानमधिमुच्य, धर्मधातुं यतो भावयन्ति ततो बुद्धा एवेति समासार्थः। चित्तरत्नप्रचोदनादिति चित्तरत्नस्य यथार्थसंवेदनादित्यर्थः। त्रैधातुकमहाराज्यमिति सम्भोगनिर्माण-कायाभ्यासत एव। मन्त्रराजेनेति मन्त्रराज इत्युपलक्षणम्। देवताभिरपीति वेदितव्यम्। षष्ठः पटलः।


p.8


वज्र इति धर्मकायस्वभावत्वाद्वज्रतुल्य योगोत्पत्तिसमाधिस्थ इति योगो देवतायोगः, तस्योत्पत्तिस्तत्र समाधिरेकाग्रता तत्र स्थितः। आत्मयोगमिति साधकस्यात्मनो देवतायोगम्। बुद्धालयनिष्पत्ताविति कूटागारनिष्पत्तौ। प्रतिमण्डलमाकारपञ्चभावनम्। चन्द्रसूर्यसबीजचिह्न-स्फुरणसंहरणदेवतोत्पत्तीनां भावनामिति भावः। ततः किमित्याह - समन्तभद्रसद्भावमिति प्रतिमण्डलं हेतुवज्रधरनिष्पत्तिः। स्वाधिदैवतसाधनं प्रतिमण्डलं नायकमाण्डलेयानां निष्पत्तिं प्रति हेतुभूतम्। अत एवाह - मण्डलानां तथा न्यासमिति। षडङ्गं दर्शयन्नाह - ओं सर्वतथागताभिषेकेत्यादि। चतुर्भूतात्ममण्डलमिति पृथिव्यादिमण्डलम्। बुद्धं तस्योपरीति भ्रूँचक्रपरिणामेन वैरोचनं ध्यात्वा। स्फुरत्कूटालयं न्यसेदिति यथोपदेशं सर्वोपमर्देन कूटागारं भावयेत्। अभेद्यमित्यादि सुगमम्। विद्यावचनेत्यादि विद्याः पचाभिषेकाः। तेषां वचनवज्रं यस्मिन्समाधौ स तथेत्यर्थः। कलशाभिषेकमिति आचार्याभिषेकः। यथा तन्नेति यथा तन्नेति यथा लक्षणज्ञानं तथा लक्ष्यं न भवति विपरीतत्वादिति। परमं मण्डलं लिख्येति आचार्यसेकसूचनम्। समयरेतविधानेनेति गुह्याभिषेकस्य सूचनम्। होमं वा ध्यानजं कृत्वेति प्रज्ञाभिषेकस्य। आश्वासं तु तदा सृजेदिति चतुर्थस्य। तथा पञ्चडाकसमायुक्तैरित्यादि गाथयाऽऽचार्याभिषेकसूचनम्। वज्रबीजप्रयोगेणेत्यादि सर्वतथागतसमयबोधिचित्तद्रवादुत्पत्त्यात्मानमधिपतिरूपेणालम्ब्य शिष्यं च वैरोचनरूपेण ध्यात्वाऽभिषिञ्चेदिति शेषः। धारयेत्यभिषेकमन्त्रधारया उच्चारणेनेत्यर्थः।

कुलनामयेति कुलानुरूपेण नाम्नेति भावः।

इदानीं गुह्याभिषेकसूचनमाह - लोचनेत्यादिना। वज्रानुत्तरमित्यादि। सेवया यद्भूतं बोधिचित्तं तदनुत्तरतत्त्वरूपमिति भावः। एतदेवाह - अनुत्तरमित्यादिना। निरावरणेत्यादि अमृतत्वेन निष्पाद्य निरावरणवज्रं निर्मलीकरणं वस्तूनां यस्मिन्समाधौ स तथेत्यर्थः। विधिनेति अमृतरूपता निष्पादनेन। वज्रामृतास्पद इति सेवयाभेद्यरूपस्य मोक्षस्यास्पदीभूते। हेतुतां गते सतीति यावत्। वज्रप्राण्य(णा)ङ्गसम्भव इति मांसं समीहत इति यथेष्टं चेष्टते। सप्तमः पटलः।

सर्वकृत्येति। सर्वं कृत्यं येषां ते सर्वकृत्यास्तथागताः तेषामुत्थापनाय समाधिरित्यर्थः। ओं सर्वतथागतेत्यादिना खेचर्यादीनामधिष्ठानमन्त्रानाह। कायवाक्चित्तेत्यादि सुगमम्। महामुद्रेत्यादि महामुद्रा देवतादेहस्तस्य प्रयोगः स्वदेहे समारोपणम्। तेन कायं शोधयेत्। ध्यानवज्रं चित्तेन देवताकारस्यान्यस्य वा। भावनम् तेन चित्तस्य मन्त्रजापेन वचनस्येति भावः। मोहवज्रेत्यादि सुगमम्। यद्यपीत्यादि। विरुध्यतीति विरुद्धम्। तद्यद्यपीति। जी(जि)नानामिति जिनैः। कुत एतदेवेत्याह - संवृतीत्यादि। चक्रं मण्डलचक्रम्। यथा संव्यवहारतस्तथा तच्छोधनमपि व्यवहारत एव। यस्माद्धर्मतेति धर्मतया रूपविभावनमात्रं स्वरूपसंवेदनमात्रं नापरं किञ्चिदस्तीति भावः। धर्मता वस्तुनेति परमार्थतो ग्राह्यं वा ग्राहकं वा नास्ति। भूतविवेकादिति भूतस्य द्वयशून्यस्य विवेकात्परिज्ञानात्। एतदेवाह सर्वमित्यादिना। यस्मात्सर्वलोकः पुद्गलादिना ग्राहकादिरूपेण वर्जितः। अतो लोकस्य गतिर्यथाभूतप्रतीतिर्न शङ्कया चिन्तयितुं बालैर्यत एवं 


p.9


तस्मात्। धर्मतरूपैरित्यादि धर्मतारूपेण सर्वमेव विशुद्धमित्यर्थः। दृष्टान्तमाह - दग्धानामित्यादिना, विषमिव विषस्फोटकादिजनकं भैषज्यम्। तेनार्दिततनोरुपहतशरीरस्य। अन्यद्विषं साक्षाद्विषशब्दवाच्यम्। क्षयमिति क्षयज्ञानम्। वीतरागाभिसम्बोधिमित्यर्थः। वज्ररागपरिज्ञानादिति रागस्य देवताद्याकारेण परिशोधनाच्चतुर्वक्त्रानिति। पूर्वं पीतम्। दक्षिणं नीलम्। पश्चिमं रक्तम्। वामं शुक्लम्। चण्डबीजं राजिका। न बोधेरङ्गना सेति बोधेरङ्गं सा नैवेत्यर्थः। अष्टमः पटलः।

ध्वनिनिगूढ इति जनानां कलकलादिरहिते। कौपीनं पीतवस्त्रम्। रत्नेति पञ्चरत्नानि। औषधीति पञ्चौषधयः। उपलक्षणमिदं पञ्चवृ(व्री)हयोऽपि। ओं देवेत्यादि। स्वहृद्बीजं मरीचिसञ्चयेन हेवज्रादिदेवतां गौर्यादिभिर्मन्त्रसहिताभिराकृष्य कलशेषु प्रवेश्य वच्चा(बध्वा) वशीकृत्य, ओं इत्यादिमन्त्रमुच्चरेदिति भावः। ओं मोहरत्यादयो मन्त्रा लोचनादीनां कलशाधिवासने द्रष्टव्याः। ओं वज्रगौरीत्यादयस्तु गौर्यादीनां मन्त्रदेवतानाम(मा)कर्षणादिनिमित्तम्। पुनस्तेनैवेत्यादि प्रतिष्ठासमये सर्वं पूर्ववत्कर्तव्यमिति भावः।

इदानीं चक्षुराद्यधिष्ठानादिकं प्रतिष्ठितदेवतानां दर्शयितुमाह - चक्षुरादिष्वित्यादि। पूजादिनारभेत क्रमादित्युद्देशः। ज्ञानपदं ज्ञानसत्त्वम्। बुद्धानिति प्रतिष्ठितान्। बोधिचित्तवरमिति डाकादिरूपम्। सर्वभावेत्यादि हेरम्बवज्रेत्यन्तेन स्तुतिः। वज्राच्छटेत्यादि बाहुभ्यां वज्रबन्धं कृत्वा वज्रसमाज जः ३ इति मन्त्रेण तर्जन्याङ्कुशं कृत्वा मध्याज्येष्ठाभ्यामच्छटां दत्वा। वज्रभवनभावना वज्रं च भवनं च तयोर्भावना वज्रभवनभावना हूँकारसहिताच्छटयाऽऽधाराधेयमण्डलं रु(दृ)गिति पश्येदित्यर्थः। वज्राक्षरं यँकारम् वज्रमण्डलं वायुमण्डलम्। वज्रराशिमग्निमण्डलम्। वज्रपाकमिति ज्वालनतापनादिक्रमेण यथावन्निर्मलीकरणं द्रव्याणाम्। वज्रबुद्धान्प्रवेश्येति धर्मोदयादिष्वित्यध्याहारः। पञ्चशूलनिबन्धेनेति स्वकुलिशं पञ्चशूलवज्रसूपेण निष्पाद्य प्रज्ञाकमलद्वारितेन(?) विबन्धं कृत्वेत्यर्थः आकाशधातुमध्यगानिति विमुखीभूतान् बुद्धानाकाशे दृष्ट्वा मुखेन प्रज्ञापद्मोदरे पातितान्। वज्राङ्गुलिप्रयोगत इति वज्रयमारिरूपाष्टकीलकप्रयोगेण। रक्तामिति सत्त्वार्थप्रत्यनुरक्तम्। देवतादेहं महामुद्राशब्दं बोध्यम्।

वीक्ष्येति पश्येत्। वीर्याराधनचेतसेति वीर्यपूर्वकेनाराधनाशयेन। नवमः पटलः।

वज्रमुद्रामिति चक्रीकुण्डलादिकाम्। चक्षुर्वज्रेणेति अशक्ताव्याहतरूपेण चक्षुषा।  सर्वसत्त्वमहाचित्तमिति षष्ठ्यर्थे प्रथमा। दशमः पटलः।

अभिषेकं समारभेदिति वैरोचनादिसितदेवतायोगयुक्तः सितामृतकलशसहितदेवताभिः साध्यं स्वहृद्वारुणमण्डलगतं प्रज्ञाकमलगतवारुणमण्डलस्थं वाभिहतवानराकारव्याधिमभिषिच्य सितदेवतापरमाणुमयं पश्येदिति। पुष्टचित्तेनेति अतीवस्फीतमनसा, वज्रसूर्ययोगवान्प्राग्वन्माहेन्द्रमण्डलगतं साध्यं ध्यात्वा पीतकलशामृतैरभिषिच्य पीतदेवतामयपरमाणुं च ध्यात्वा नानारत्नवृष्टिं तद्गृहे पश्येदिति। कन्यामाकृष्य भुञ्जयेद्रागचित्तेन वज्रधर्मयोगी यथावदाकृष्य रक्तकलशै -


p.10


रभिषेचयित्वा साध्यां वशीकृत्य समीहितं सम्पादयेदिति। दृष्टचित्तेनेति क्रूरचेतसा नीलदेवता-योगेन साध्योपरि वह्निवृष्टिं कारयित्वा मारणं कुर्यात्। एकादशः पटलः।

इति वाधुनेरिति (?)। किमुक्तवानिति प्रश्ने संगीतिकार आहेत्यादि। तदेव दर्शयति। गिरीत्यादि। बोधिचित्ताश्रयमिति पारमार्थिकबोधिचित्तभावनां शून्यताभावनां कुर्यादित्यर्थः। क्रोधयोगेनेति क्रोधाहङ्कारेण। अमृतयोगेनेति न म्रियन्त इत्यमृता वज्रहूँकारादयस्तेषां योगो मध्ये नायकीकरणं तेनेत्यर्थः। अथवामृतयोगोऽमृतकुण्डलिस्फरणं तेन विध्नानुत्सारयेदिति सम्बन्धः। आकाशधातुमध्यस्थमिति धर्मोदयमध्यस्थम्। वज्रमण्डलं वायुमण्डलम्। रश्मिमण्डलम् अग्निमण्डलम्। पञ्चज्ञानसमुद्भूतमिति पञ्चज्ञानस्वभावेनोत्पन्नम्। सत्त्वबिम्बमिति वज्रसत्त्वशरीरम्। कस्मादुद्भूतमित्याह - वज्रसत्त्वसमुद्भूतमिति। वज्रं चिह्नम्, सत्त्वं बीजम्, ताभ्यामुत्पन्नमित्यर्थः। डाकमण्डल इति। डाक इव डाको नैरात्मा, तस्य मण्डले। द्वादशः पटलः।

स्वात्मनीति स्वशरीरात्सकाशात्। आत्मीयमिति आत्मन आत्मन इदमित्यात्मीयं प्रत्येकामित्यर्थंः। आपेदुरिति उत्पादितवन्तः। त्रयोदशः पटलः।

भद्रचरितमिति भद्राणां गुडिकादिसिद्धा(द्धी)नां चरितं चेष्टितं साधनोपायमिति यावत्। वज्रस्येति हेवज्रस्य। पञ्चगन्धमिति पञ्चामृतानि पञ्चद्रव्यम्। पञ्चप्रदीपास्त्रिलोह-वेष्टितमिति। सुवर्णरजतताम्राणां त्रिभिः पत्रैर्वेष्टितं कृत्वा मुखे प्रक्षिपेदिति शेषः। रूपमास्थाय वज्रस्येति च वर्तते। सूर्यविद्याधर इति वज्रसूर्याहङ्कारेणैव। पञ्चमांससमायुक्तमिति पञ्चप्रदीप-सहितम्। नन्दगोपः प्राणिविशेषः। अश्वविद्याधर इति परमाश्वाहङ्कारेण। लोकनाथमिति पद्मनर्तेश्वरम्। नागराज इति द्विवदनसर्पराजस्य। अञ्जनविद्याधर इति चक्षुषोरञ्जनेन। बीजं रेतः। शार्दूलेत्यादि व्याघ्रचर्मतैलेन मनःशिलाबीजाभ्यां सार्द्धं पादद्वयं म्रक्षयित्वा वैरोचनयोगी पादलेपेन सिद्धो भवतीत्यर्थः। अनङ्गमण्डलेत्यादि अयमत्र समुदायार्थः। इन्द्रशैलगुहामध्ये वज्रानङ्कं(ङ्गं) नायकं रक्षाचक्राख्यमण्डलं रजोभिर्वर्तयित्वा स्वपञ्च तन्मध्यस्थितनायकत्वेनात्मानमधिमुच्याधः - स्थितसुम्भराजस्य। ओं सुम्भेत्यादि मन्त्रेणाज्ञां दद्यात्। सुम्भोऽपि स्वस्थाने द्वितीयं निर्माणेन सुम्भमवस्थाप्य पाताले प्रविश्य पातालकन्यां समाकृष्य साधकस्य समर्पयतीति त्रिसन्ध्यं सप्ताहं यावद्भावयन्नभिमतं साधयेदिति। आड्रदेश इत्यादि। अत्रापि पूर्वक एव प्रयोगः। वज्रसत्त्व इत्यादि। अनेन सिद्धिसाधनं प्रतिदेवतान्तरभावनां दर्शयति। प्रेषितसुम्भराजस्य स्वरूपं दर्शयितुमाह - सुम्भराजस्येत्यादि। वज्रकोषमिति वज्रमुसलम्। फट्कारमन्त्रचोदनादिति फट्कारविशिष्ट ओं सुम्भेत्यादिमन्त्रेण चोदयेदित्यर्थः। फुःकारमन्त्रेत्यादि पाठेऽश्वराजस्य यन्मन्त्रं 


p.11


वज्रपातालकस्य त्वित्यागमादश्वराजमन्त्रेणैव। शून्येषु सर्वधर्मेष्विति भैषज्यादिषु। सर्वभूतानामिति प्राणिनाम्। सर्वधर्मेति नीलपीतादीनाम्। अत्र यथा तथेति पदद्वयमध्याहार्यम्।

इदानीं गुह्यपूजामाह- चारुवक्त्रामित्यादिना। वज्राङ्गुलिः करिहस्तादिः। वज्रभुवनम् धर्मोदयं चित्तवज्रम्। वज्रजिह्वेनेति वज्राङ्कजिह्वया। सुखावत्यां धर्मोदये। वज्रसत्त्वं कुलिशम्। हरेदित्यभ्यवहरेत्। पुष्पसमायुक्तमिति पुष्पसम्भवयोग्यम्। रक्तपद्मेनेति सेवया। रक्तसहितपद्मेनेति पद्ममात्रेण। पञ्चगन्धप्रयोगेणेति पञ्चामृतभक्षणेन ध्वजकर्पूरं पूजयेति। एकस्यैव बोधिचित्तस्य भक्षणेन वा। दुष्टानां निग्रहोपायं वक्तुमाह - त्रिरत्नमित्यादि। वज्रात्मा सहाह्वयेदिति वज्रात्मा योगी, समाह्वयेत्साध्यमानयेत्। निसुम्भयेदिति  मारयेत्। वज्रिणो भुवनं व्रजेदिति विसंवादितः साध्यो यथावद्भावनाप्रभावादक्षोभ्यलोकधातावुपपद्यत इत्यर्थः। लब्धसामर्थ्यस्य योगिनः प्रभावं दर्शयित्वाऽपरस्य व्यापारमाह - अशक्तावित्यादिना। अयमत्रार्थः। यदा योगिलब्धसामर्थ्यो न भवति तदा तथागतेषु श्रावयित्वा साध्यमङ्कुशादिकं च पिष्टकेन समारचय्य तेषां बुद्धानामग्रतः साध्यमङ्कुशादिभिर्घटितैस्तारयेदिति। वज्रिणो भुवनं व्रजेदिति अत्रापि योजनीयम्। वज्रमण्डलमध्यस्थमिति रक्षाचक्रमध्यस्थम्। वज्रसूर्यं सूर्यमण्डलम्। हृदिति कमलकुलिशमध्ये अनाहतं हूँकारः। वक्रेण नैरात्म्यडाकिनीमिति वज्रोपलक्षिताम्। नैरात्म्यां बोधिचोदित इति उभयो रन्ध्रयोरन्तः। अभिलाषकमिति अभिलाषविषयत्वाद्धर्मोदयम्। अनात्मेति परस्य। आत्मेति आत्मनश्च। न वेदनमिति सुखमात्रस्यैव वेदनाद्यथेति शेषः। अन्ते मध्ये। स्वयमित्यादिना भावनाफलं दर्शयति। पञ्चावरणवर्जितमिति पञ्चभिर्नि(र्नी)वरणैः कामच्छन्दव्यापाद-स्त्यानमिद्धकौकृत्यविचिकित्सालक्षणै रहितम्। संस्कृतत्वैर्न बाध्यत इति संस्कृतरूपतया न बाध्यतेऽसंस्कृतरूपहेरुकस्वभावत्वादस्य देहस्येत्यर्थः। विबुद्ध्यतामिति प्रकटताम्। भावना न च भावनेति या देवता भावना सा भावना न कार्या देवताकारनिष्पत्तौ किं तयेति भावः। विसदृशेन कारणेनेति आकारशून्येन। निराकारा बोधिरिति निराकारैव। अपि तु निराकारपि, तामेव दर्शयति भावोऽहमित्यादिना। गम्भीरेति शून्यतारूपेण। उदारेति लक्षणाद्यलङ्कृतेन रूपेण। अनाहतमिति हङ्कारः। सुखदुःखस्वभावकं व्यापित्वात्। मुच्चुटीति सर्वाङ्गुलिसंकोचात्सिंहकर्णितर्जनीमध्यासंकोचात्। शायको बाणः। वक्ष्यविस्तरतामिति आटोपेनातीवस्फीतत्वम्। चक्षुरिति चक्षुश्च। कामिनी प्रियङ्गुः। कच्चोरं (कर्चूरः) शटी। केशशब्दो बालकः। बोलको गन्धरसः। शालिजं खट्तासः। सर्वथा हठसाधन इति हठसाधने सर्वैरेव गन्धविशेषैर्भूयो देय इत्यर्थः। सर्वे ते इति तैः सर्वैः। स संभ्रमेति सादरम्। विलासाग्रे इति 


p.12


सविलासं सलीलाग्रानुवर्तनं पुरागमनं सलीलम्। पदमष्टस्विति अष्टपदानि यावत्। नेत्रहस्तेति हस्तं परावृत्य तर्जनीमध्यमाभ्यां पताकावत्कर्णोपरि धारणात्। श्रोणीहस्तेति पताकया पादेन। प्रदक्षिणमव(प)सव्येनेति वामावर्तेन भ्रमणम्। चैत्यमिति अधोमुखवामकरस्थ[ः] दक्षिणस्तथाङ्गुष्ठमुष्टिः। वज्रसत्त्वेनेति हूँकारेण। पद्मवज्रस्य भावना कमलकुलिशयोर्निष्पत्तिः। तस्य नासास्वराग्रेणेति तस्य कमलस्य नासा किञ्जल्कः आःकारेण। प्रणवैरिति ओंकारेण। चिन्तामणिः कुलिशमणिः। चतुर्दशः पटलः।

प्रसूतकालवत् स्वयमिति प्रसवपीडापीडितानां दुःखशान्तये स्वयं प्रसवकाले स्थितामिवेत्यर्थः। पद्माकाङ्क्षमिति प्राकृतपद्मस्पृहाम्(हम्)। निवेश्य वज्रिणम् प्रवेश्य कुलिशम्। सम्बुद्धमेव चेति सम्बुद्धैः स्वीकृतत्वात्पुष्पाभिषेकः सम्बुद्ध इति। मुद्राबन्धं विवर्जयेदित्यादि। एतच्चोत्पन्नक्रमयोगिनामुक्तम्। अनाचार्यमिति अगुरुम्। संस्कारं समादिशेदिति मोहविमोक्षेण। 

पञ्चदशः पटलः।


॥ डाकिनीवज्रपञ्जरटिप्पणिः(णी) समाप्ता॥


विधाय डाकिनीवज्रपञ्जरस्य सुटिप्पणिम्(णीम्)।

यत्पुण्यमर्जितं तेन जनः सर्वोस्तु वज्रधृक्॥


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project