महाप्रतिहार्यसूत्र
(बुद्)ध्(ओ) भागवांन् राजगृहे विहरति वेणुवन कलंन्दकनिवापे
सत्कृतो गुरुकृतो मानित<ः> पूजितो राज्ञां राजमात्राणां ब्राह्मणानां गृहपतीनां नैगम- नैगम जानपदानां धनिनां श्रेष्ठिनां सार्थवाहानां लाभी च भगवां<श्> चीवर-
पिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां तीर्थ्यास् तु न सत्कृत्या न गुरुकृता न
मानिता न पूजिता रज्ञां राजमात्राणां ब्रह्मणानां गृहपतीनां नैगमजानपदानां
धनिनां श्रेष्ठिनां सार्थवाहानाम् न च लभिन<श्> चीवर(पिण्डपातशयनासनग्लान-
प्रत्ययभैषज्यपरि)ष्काराणां <।>
(1)
अथ मारस्य पापीयस् स्अ एतद् अभव<त्।> दीर्घरात्रम् मया श्रमणो गौतमो
विहेठितो न च लब्ध्अव्आवतारः <।> यन् <न्>व् अहं तीर्थ्यान् अपि विहेठयेयम् इति।
(2)
तेन खलु समयेन षट् पूरणाद्याश् शास्ताःरो (ऽसर्वज्ञाः) सर्वज्ञाभिमानिनो
राजागृहम् उपनिश्रित्य विहरंति।
अथ मार<ः> पापीयान् पूरण<स्य> वर्णम् आत्मानम् अभिनिर्म्माय येन मस्करी
गोशालीपुत्रस् तेनोपसंक्रान्तः <।> उपसंक्रम्य मस्करिणो गोशा(ल्)ई(पुत्रस्य) पुरतो
ज्वलनतपन वर्षणविद्योतनप्रातिहार्याणि विदर्शयितुम् आरब्धः <।> मस्कारी गोशालीपुत्रः
कथयति <।> पूरण एवंविधास् त्वया गुणगणा अधिगताः <।> अधिगता <ः।>
(3)
एवं संजय्(इनो वै)रट्टीपुत्त्रस्य अजितस्य केशकंबलस्य ककुदस्य कात्याया-
नस्य निग्रन्थस्य ज्ञातिपुत्त्रस्य पुरतो ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि
विदर्शयितुम् आरब्धः <।> सो ऽपि कथयति <।> पूरण ए(व)ं(विधा)स् त्वया गुणगणा
अधिगता<ः। अधिगताः।>
एवं मस्करिणो गोशलीपुत्त्रस्य वर्णम् आत्मानम् अभिनिर्म्मया सर्वेषां सकाशम्
उपसंक्रान्तः पूर्ववद् यावद् एव<ं>विधास् त्वया गुणगणा अधिगता<ः। अधिगताः>।॥
एवं संजयिनो वैरट्टीपु(त्त्रस्य वर्ण)म् आत्मानम् अभिनिर्म्माय सर्वेषाम् सकाशम्
उपसंक्रान्तः पूर्ववत्॥ <एवं अजितस्य केशकंबलस्य वर्णं आत्मानम् अभिनिर्म्माय
सर्वेषां सकाशम् उपसंक्रान्तः पूर्ववत्॥> एवं ककुदस्य कात्यायनस्य वर्णम्
आत्मानम् अभिनिर्म्माय सर्वेषा<ं> सकाशम् उपसंक्रान्तः पूर्ववत्। <॥> एवं
निग्रन्थस्य (ज्ञातिपु)त्त्रस्य वर्णम् आत्मानम् अभिनिर्म्मया सर्वेषां सकाशम्
उपसंक्रान्तः पूर्ववत्<॥>
(4)
तेसाम् एकैकः संलक्षयति <।> सर्व एते न माहर्धिका महानुभावाः
स्थापयित्वा माम् एकम् इति<।>
(5)
अथापरेण (समये)न षण्णां पूरणादीनां शास्त्रीणां कुताहलशालायां सन्नि-
षण्णानां सन्निपतितानाम् अयम् एवम्रूपो ऽभूद् अन्तराकथासमुदाहारः <।> पूर्व<ं>
वयम् भवतः सत्कृताश् चा<स्म> न गुरु कृतस्य नम + + + कृताश् च
मानिताश् च पूजिताश् च राज्ञां राजमात्त्राणां ब्राह्मणानां गृहपतीनां नैगमानां
जानपदानां धनिनां <श्रेष्ठिनां> सार्थवाहानां लाभिनश् चास्म भूवंश् चीवर-
पिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरि(ष्कारा)णां <।> ते व्यंम् एतर्हि न
(6)
सत्कृता न गुरुकृता<ः> पूर्ववद् याव<न्> न च लाभि<न>श् च चीवरपिण्डपातशयनासनग्लान-
प्रत्ययभैषज्यपरिष्काराणां। <।> अयं तु भ गवन्तः श्रमणो गौतमः सत्कृतो गुरु-
(कृतः) पूर्ववद् यावल् लाभी च श्रमणो गौतमः चीवरपिण्डपातशयनासनग्लान-
प्रत्ययभैषज्यपरिष्काराणां<।>
एते वयं भवन्तः श्रमणं गौतमम् उत्तरेमनुष्यधर्म्मे रिद्धिप्राति-
हा(र्येणा)ह्वायामहे <।> यद्य् एकं श्रमणो गौतम उत्तरेमनुष्यधर्म्मे रिद्धि-
प्रातिहार्यं विदर्शयिष्यति वयं द्वे <।> द्वे श्रमणो गौतमो वयं चत्वारि <।> चत्वारि श्र-
मणो गौतमो वयम् अष्टौ <।> श्रमणो गौ(तमो) वयं षोडश<।> षोडश
श्रमणो गौतमो वयं द्वातृंश<द्> इति यावच् छ्रमणो गौतम उत्तरेमनुष्यधर्म्मे
रिद्धिप्रातिहार्यं विदर्शयिष्यति वयं तद्द्विगुणं तत्तृगुणं <उत्तरे>मनुष्यधर्म्मे
(7)
(अथ पूर)णाद्याः षट् च्छास्तारो येन राजा बिम्बिसारस् तेनोपसंक्रान्ता<ः।> उप-
संक्रम्य राजानं बिम्बिसारं च जयेनायुषा च वर्धयित्वा इदम् अवोचन् <।>
(8)
वयं स्मो देव रिद्धिमंतो ज्ञानवादिनः <।> श्र्(अमणो) ऽपि गौतमो रिद्धि-
मन्तं ज्ञानवादिनम् आत्मानं मन्यते<।> तद् अर्हति ज्ञानवादी ज्ञानवादिना सार्धम्
उत्तरेमनुष्यधर्म्मे रिद्धिप्रातिहार्यं विदर्शयितुं <।> यद्य् एकं श्रमणो गौतम
उत्तरे(मनु)ष्यधर्म्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति वयं द्वे <।> द्वे पूर्ववद्
यावद्द् वयं त<द्>द्विगुणं च त<त्>तृगुणंम् उत्तरेमनुष्यधर्म्मे रिद्धिप्राति-
हार्यं विदर्शयिष्यामो ऽर्धमार्गं श्रमणो गौतम आगच्छतु वयम् अ(प्य् अर्ध)-
(मार्गं गमिष्याम इति।)
(9)
(अथ पूरणाद्याः षट् च्छास्तारो) ....
(येन राजा प्रसेनजित् कौशलस् तेनोपसंक्रान्ताः। उपसंक्रम्य राजानं प्रसेनजितं
कौशलं जयेनायुषा च वर्धयित्वावोचन्। वयं स्मो देव रिद्धिमंतो ज्ञानवादिनः।)
श्रमणो ऽपि गौतम रिद्धिमन्तं ज्ञानवादिनम् आत्मानं मन्यते<।> तद् अर्हति
ज्ञानवादी ज्ञानवादिना सार्धम् उत्तरेमनुष्यधर्म्मे रिद्धिप्रातिहार्यं विदर्शयितुम्<।>
यद्य् एकं श्रमणो गौतम उ(त्तरेमनुष्यधर्म्मे रिद्धिप्रा)तिहार्यं विदर्शयिष्यति
वयं द्वे <।> द्वे श्रमणो गौतमो वयम् वयं चत्वारि<। चत्वारि> श्रमणो गौतमो
वयम् अष्टौ <।> अष्टौ श्रमणो गौतमो वयम् षोडोश <।> षोडश श्रमणो गौ(तमो
वयं द्वातृंशद् इति) याव<च्> श्रमणो गौतम उत्तरेमनुष्यधर्म्मे रिद्धिप्राति-
हार्यं विदर्शयिष्यति वयं त<द्>द्विगुणं त<त्>तृगुणंम् उत्तरेमनुष्यधर्म्मे
रिद्धिप्रातिहार्यं विदर्शयिष्यामो ऽर्धमा(र्गं श्रमणो गौतम) आगच्छतु वयम्
अप्य् अर्धमार्गं गमिष्याम इति<।>
(10)
राजा प्रसेनजित् वो कौशलः कथयंति<।> भवन्तो यद्य् एवम् आगमयत तावद्
यावदद् अहं भगवन्तम् अवलो(कया)मीति<।> ते (कथयंति। देव
शोभन)म् एवं भवतु तिष्ठाम इति<।>
अथ राजा प्रसेनजित् कौशलो येन भगवांस् तेनोपसंक्रान्तः <।> उपसंक्रम्य
भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्ण<ः> एकान्तनिषण्णो राजा प्रसेनजित् कौशल्(ओ
भगवन्तम् एत)द् अवोचत् <।> इमे भदन्त तीर्थ्या भगवन्तम् उत्तरेमनुष्य-
धर्म्मे रिद्धिप्रातिहार्येणाह्वयंते। तद् दर्शयतु भगवान् उत्तरेमनुष्यधर्म्मे
रिद्धिप्रातिहार्यं निर्भत्सयितु<ं> तीर्थ्या<ं> नन्दयितु<ं> देव(मनुष्यांस् तोषोयि)-
तु<ं> सज्जनहृदयानीति<।>
(11)
एवम् उक्ते भगवान् राजानं प्रसेनजितं कौशलम् इदम् अवोचत् <।> नाहं
महाराज श्रावकाणाम् एवं धर्म्मं देशयिष्यामि <।> एते यूयं भिक्षव आगतागतानां
(ब्राह्मणगृह) (पत्)ई(ना)ं (उ)त्तरेमनुष्यधर्म्मे रिद्धिप्रातिहार्यं विदर्शय-
तेत्य् अपि त्व् अहम् एवं श्रावकाणां धर्म्मं देशयामि प्रतिच्छन्नकल्याणा भिक्षवो
विहरत <वि>वृतपापा इति<।>
(12)
द्विर् अपि तृर् अपि राजा (प्रसेनजित् कौ) (शलो भगवन्तम् एतद् अवोचत्। इमे
भदन्त तीर्थ्या भगवन्तम् उत्तरेमनुष्यधर्म्मे रिद्धिप्रातिहार्येणाह्वयंते। तद्
दर्शयतु भगवान् उत्तरेमनुष्यधर्म्मे रिद्धिप्रातिहार्यं निर्भत्सयितुं तीर्थ्यान्
नन्दयितुं देवमनुस्यान् तोषयितुं सज्जनहृदयानीति। द्विर् अपि तृर् अपि भगवान् राजानं
प्रसेनजितं कौशलम् इदम् अवोचत् <।> नाहं महाराज स्रावकाणाम् एवं धर्म्मं
देशयिष्यामि। एते यूयं भिक्षव आगतागतानां ब्राःमणगृहपतीनां उत्तरेमनुष्य-
धर्म्मे रिद्धिप्रातिहार्यं विदर्शयतेत्य् अपि त्व् अहम् एवं श्रावकाणां धर्म्मं
देशयामि प्रतिच्छन्नकल्याणा भिक्षवो विहरत विवृतपापा इति॥)
(13)
(भवन्तो) यदि वा श्रमणो गौतमो निष्पलायते यदि वा पक्षं
समन्वेषते <।> कथम् अत्त्र प्रतिपत्तव्यम् इति<।> तेषाम् एतद् अभवत् <।> भवन्तो
निश्चयेन श्रमणो गौतमः पक्षं समन्वेषते यदि भवताम् अभिप्रेतं वयम् (अपि
प)क्षं समन्वेषामहे<।>
तेन खलु समयेन येन कुशिनगर्याम् सुभद्रह् परिव्राजकः प्रतिवसति जीर्ण्णो
वृद्धो महल्लकः कौशिनागराणां मल्लानां : सत्कृतो गुरुकृतो मानितः पूजितो ( ऽर्हत्सं-
मा) त<ः।> ते कृतसंकेतास् तस्य सकाशम् उपसंक्रान्ता<ः> कथयंति <।>
सुभद्रस् त्वम् अस्माकं सब्रमाचारी भविष्यास्माभिः श्रमणो गौतम उत्तरे-
मनुष्यधर्म्मे रिद्धिप्रातिहार्येणाहूतः<।> साहाय्यं क(ल्पय) <।> स कथय ंति
<।> भवन्तो न शोभनं युष्माभिः कृतं यच् छ्रमणो गौतमः उत्तरेमनुष्य-
धर्म्मे रिद्धिप्रातिहार्येणाहूतः <।> तत् कस्य हेतोः <।> महर्धिको ऽसौ महामुभावः <।>
कथं ज्ञायते <।> उपपत्तितः <।> काऽत्रो(पपत्तिः॥)
(14)
भव<न्>तो यदा श्रमणो गौतमो लोके नोत्पान्नस् तदा मम मन्दाकिन्यां
पुष्करिण्यां तीरे दिवाविहारः <।> सो ऽहं पिण्डपातम् आदायानवतप्तं महासरो गच्छामि
परिभोक्तुं<।> तत्र ममानवतप्तनिवासिन्यो देवता एकान्ते (निषण्ण)स्य पानीयम्
उद्धृत्यानुप्रयच्छ<ं>ति <।> यदातु श्रमणो गौतमो लोक उत्पन्न तदा तस्य शारिपुत्रो
नामाग्रश्रावकः <।> तस्य चुन्दो नाम श्रामणेरकः <।> स पांसुकूल्<इक्>अम् आदायान-
वतप्तं महासरो गच्(छति। त)स्य ता अनवतप्तनिवासिन्यो देवतास् तत्पांसुकूलं
शौचयित्वा प्रयच्छंति <।> तेन शौचोदकेनात्मानं सिंचंति <।> तद् यस्य वयं
शि ष्यप्रशिष्यैर् अपि न समाः <।> स युष्माभिर् उत्तरेमनुष्यधर्मे रिद्धिप्रा-
तिहार्येणाहूतो न शोभनं कृतम् इति<।>
(15)
ते परस्परं कथयंति <।> भव<न्>त एषो ऽपि तत्पक्ष्य एव<।> गच्छामो ऽन्यं
समन्वेषाम इति <।> ते तं शाठ्यसमुदाचारेण संमान्य प्रक्रान्ताः <।>
अन्यतमस्मिं प्रविविक्ते पृथिवीप्रदेशे स्थित्वा संजल्पं कु(र्)व्(अन्ति)॥।
(पञ्चा)भिज्ञः प्रतिवसति <।> तस्य सकाशं गच्छामः <।> सो ऽस्माकं साहाय्यं
कल्पयिष्यतीति <।> अपरे(ण)॥।
सो ऽस्माकं साहाय्यं कल्पयिष्यतीति।
(16)
तेन खलु समयेनान्यतमस्मिं हिमवत्कन्दरे (व्)इ(विध-)॥।
(पञ्चमात्राणि ऋषिश)तानि प्रतिवसन्ति <।> यद्भूयस पंचाभिज्ञास् तन्मध्याद् एकः
पंचाभिज्ञो ग्रामान्तं समवसृतः <।> स इ..॥।
तेन यथावृत्तं समाख्यातं <।> ते संजातसौमनस्यास् तेषां सकाशम् उपसंक्रान्तास्
ततः परस्परं प्रतिसं(जातसौमनस्याः)॥।
(भवन्त यूयम् अस्माकं सब्रमचारिनो भविष्यतास्माभिः श्रमणो गौतम)
उत्तरेमनुष्यधर्मे रिद्धिप्रातिहार्येणाहूतः सहाय्यं कल्पयतेति। ते क(थय)न्ति <।>
भवन्तः..॥।
प्रक्रान्ताः<।>
(17)
यावद् राज्ञः प्रसेनजितह् कौशलस्य कालो नाम राजकुमारो वै(मा)त्रो भ्राता
स(गन्ध-)॥।
(क्षि)प्तो ऽङ्से निपतितः <।> सो ऽपरैर् दृष्टो <।> मित्रारि मध्यमो लोकः <।> तैर्
अमात्यानां निवेदितं <।> अ(मात्या अपि)॥।
(ते)षां आज्ञा दत्ता : गच्छन्तु भवन्तः परित्यक्तो मे कालो राजकुमारः
करचरणविकलं कुर्उ<वन्तु> वेति॥।
(अन्येनापि महा)जनकायेन परिवरितस् तिष्ठति।
(18)
यावात् तीर्थ्यास् तेन प्रदेशन गच्छन्ति <।> ते तस्य ज्ञातिभिर् उक्ता <।> आर्याः कालस्य
राज (कुमारस्य अंगप्रत्यंगानि सत्योपयाचनम्)॥।
(19)
(यावद् आयुष्मान् आन)न्दः पिण्डपातम् अटंस् तं प्रदेशम् अनुप्राप्तः <।> स
तैर् उक्तः <।> आर्य कालस्य राजकुमारस्य अंगप्रत्यंग्(आ)नि सत्योपयाच(नम्)॥।
(उत्तरं माणवम् आमन्त्रयते। एहि त्वम् माणव येन भगवांस् तेनोपसंक्राम।
उपसंक्रम्यास्माकं वचनेन भगवतः पादौ शिरसा वन्दि) त्वाल्पाबाधतां च
पृच्छाल्पातंकतां च लघूत्थानतां च यात्त्रां च बलं च सुखं चानवद्यतां च
स्पर्शविहारतां च एवं च वद <।> इह भदन्त तीर्थ्याः संनिषण्णा<ः> । सन्निपतिता<ः>।
यस्येदानीं भगवां कालं मन्यत इति <।> ए(वं देवे)त्य् उत्तरो माणवो राज्ञः
प्रसेनजितः कौशलस्य प्रतिश्रुत्य येन भगवांस् तेनोपसंक्रान्त<ः> द्उपसंक्रम्य
भगवता सार्धं संमुखं संमोदनीं संरंजनीं विविधां कथां
व्यतिसार्यैकान्ते निषण्णः<।>
(20)
<एकान्तनिषण्ण> उ(त्तरो) माणवो भगवन्तम् इदम् अवोचत् <।> राजा भो
गौतम प्रसेनजित् कौशलो भगवतो गौतमस्य पादौ शिरसा वन्दते ऽल्पाबाधतां च
पृच्छत्य् अल्पातंकतां च लघूत्थानतां च यात्त्रां (च ब)लं च सुखं चान-
वद्यतां च स्पर्शविहारतां च <।> सुखी भवतूत्तर राजा प्रसेनजित् कौशलस् त्वं च <।> राजा
भो गौतम प्रसेनजित् कौशल एवम् आह <।> तीर्थ्याः प्रातिहार्यमण्डपे सन्निषण्णाः
सन्नि(पतिताः।) यस्येदानीं भगवां कालं मन्यत इति<।>
भगवान् आह। गच्छोत्तरा<ह>म् अद्यागत इत्य् उत्तरो माणवः संप्रस्थितः<।>
भगवता तथाधिष्ठितो यथा विततपक्ष इव हंसराजो गगनतलम् अभ्युद्गम्इष्य
(21)
किलिकिला प्रक्ष्वे(डशब्)दनादिभिर् अनेकै<ः> प्राणिशतसहस्रै<र्> विस्मयोत्फुल्ल-
लोचनैर् अभिवीक्ष्यमाणो विहायसा प्रातिहार्यमण्डपे ऽवतीर्णः <।> तां विभूतिं दृष्ट्वा
राजा प्रसेनजित् कौशलो विस्मयावर्जितमनास् तीर्<थ्>य्(आ)(न इद)म् अवोचत्<।> विदर्शि-
तं भदंत भगवता उत्तरेमनुष्यधर्म्मे रिद्धिप्रातिहार्यं <।> इदानीं
युष्माकम् अवसरप्राप्तो यूयं विदर्शयतेति <।> ते कथयंति <।> देव महाजनकायो ऽत्र
सन्निपतितः <।> आगमय त्वं <।> को जानी(त्)ए (कस्य) तत् प्रातिहार्यं किं श्रमणस्य
गौतमस्याहोस्विद् अस्माकम् इति <।>
तत् समनन्तरम् एव गण्डकेनारामकेन रिद्ध्या गन्धमादनात् पर्वता ःद् अने-
कशाखाप्रशाखविततः पाण्डुफलोपशोभितो ऽनेकपक्षिगण्(अ)॥।
(22)
The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Subscribe to our newsletter for latest updates about the canon text of our project