Digital Sanskrit Buddhist Canon

हेवज्रप्रकाश

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

p.1


[नमस्क्रिया, मण्गलाचरण, एत्च्.] 

इह तु। उत्पत्तिक्रमो वक्तव्यः॥ तत्र द्वात्रिंशत्साधनसूत्रं द्वात्रिंशन्-महापुरुषलक्षणं विशुद्धं जालन्धरिपादैर् उक्तं। तच् च क्रमेण व्याख्यास्यामः॥

पूजाचक्रं चतुर्ब्रह्मं परमं सहजं तथा।

स्वेष्टदेवस् तथा रक्षाचक्रं शून्याधिमोक्षकम्॥

श्मशानं कूटभवनं हेतुमण्डलविस्फुटम्।

द्रुतापत्तिः समुत्थानं न्यासो देव्षात्मविग्रहः॥

नमः श्रीहेरुकाय॥

शून्याशून्यात्मकं नाथं सहजं सितविग्रहम्।

द्विभुजैकास्यकं चापि श्रीहेरुकम् प्रणम्य यम्॥

ये तत्परिणताकाराः षट्षोदशभुजादयः।

नैरात्म्यायास् तथा तेषां साधनं मन्त्रिणोचते॥

तत्र श्रीमदाचार्यसरोरुहपादविरचितविचित्रहेवज्रसाधनस्य वज्रप्रदीपा नाम टिप्पणी कृतिः श्रीजालन्धरिपादानाम्। अत एव तत्तदर्थप्रकाशनो द्वेषवज्रसाधनं कृतिर् भद्रपादानाम्। एवम् अपि। मन्दबुद्धिना तत् श्रुत्वा भावयितुं न शक्यत इति विचिन्त्य। तत्साधनवज्रप्रदीपाद्वेषवज्रसाधनेभ्यः समाकृस्य। मूलतन्त्रम् अनुगम्य। मन्दबुद्धिमतः स्वचित्तेन सम्यक्प्रत्येतव्यायोत्पत्त्युत्पन्नक्रमसाधनानि मया मिश्रीक्रियन्ते॥ हेवज्रे ऽप्य् उक्तम्।

क्रमम् उत्पत्तिकं चैव - उत्पन्नक्रमम् एव च।

क्रमद्वयं समाश्रित्य वज्रिणा धर्मदेशना॥

तत्रोत्पन्नक्रमसाधनं प्रज्ञापारमितादिसूत्रान्तरानुसारेणापि बोद्धव्यम्॥


p.2


उत्सर्गो ज्ञानचक्रं चाभिषेको मुद्रणं तथा।

सुधास्वादो जगत्कार्यं षडण्गश् च प्रभास्वरम्॥

उत्थानं मन्त्रजापश् च बलिः सूक्ष्माख्ययोगकः।

भूयो न्यासो विहारश् च भोजनं चरणं श्यः।

पुनरुत्थानम् इत्य् एवं द्वात्रिंशत्सूत्रसंग्रहं॥

1 पूजाचक्रम्

आदौ तावत् पाददेशनात्रिशरनगमनादिपोषधपर्यन्तं गृहीत्वा। षट्पारमितासुशिक्षितो वज्राचार्यम् आराध्य। यथोक्तविधिना श्रीहेवज्रोक्तमण्डले प्रविष्टः। यथापरिपात्याभिषिक्तः। सर्वसत्त्वार्थोद्यतमतिः। श्रीमद्धेकारवज्रं साधयितुकामो योगी गुप्ते मनोऽनुकूले स्थाने वज्रपर्यण्केण विश्ववज्राण्कितसुखासनमध्यासीनः श्रीहेवज्रं साधयेत्। यावद् ऊष्माप्राप्तिः स्यात्॥ श्रीहेरुको ऽहम् इति वारत्रयम् उच्चार्य। वक्ष्यमाणक्रमेण स्वेष्टदेवताम् आलम्ब्य। स्थानात्मयोगरक्षां कुर्यात्।

ओं रक्ष २ हूं ३ फट् स्वाहा॥ ओं वज्रसत्त्व हूं॥ ओण् आः हूं॥


p.3


तदनु स्वहृदि पद्मे रेफपरिणतसूर्यमण्डले नीलवंअहूंकारं पञ्चरश्मिकं दृष्ट्वा। तद्रश्मिभिर् अनन्तलोकधातून् अबभास्य। स्वेष्टदैवतं गौर्यादियोगिनीचक्रपरिवृतं गुरुबुद्धबोधिसत्त्वांश् चाकृष्याकाशे पुरतो विचिन्त्य। बाह्यगुह्यतत्त्वपूजाविशेषैः पूजयेत्॥ तत्र स्वहृद्बीजान् निर्गतवीणादिधर्मापर्यन्ताभिः षोडशदेवीभिर् वक्ष्यमा-णस्वस्वचिह्नहस्ताभिनयपदाभिः परितोषणम् इति बाह्यपूजा॥ तच्चक्रस्थितगौर्यादिदेवीहस्तगतसमयसंकेतद्रव्यढौकनभावनेति गुह्यपूजा॥ तत्र -

गौरी मृगलाञ्च्चनं धर्ति चौरी मार्तण्डभाजनम्।

वेत्ताली वारिहस्ता च भैषज्यं धर्ति घस्मरी॥

पुक्कसी बलहस्ता च शबरी रसधरी भवेत्।

चण्डाली डमरुकं वादयेत् डोम्ब्य् आलिण्गनं प्रदर्शयेत्॥


p.4


नैरात्मासमापत्तिसुखानुभवात् स्फुरत्संहारविग्रहं नाम तत्त्वम्। तद् एव तत्त्वपूजेति॥ संपूज्य भगवदग्रतः पापदेशनादिकं कुर्यात् -

अनादिमति संसारे जन्मावर्तविडम्बनैः।

यत् कृतं पापकं कर्म कारितं चानुमोदितम्॥

देशयाम्य् एष तत् सर्वं पुनर् न करणाय वै।

यत् पुण्यं सर्वजन्तूनां चानुमोदे स्वरूपतः॥

तथा लौकिकदेवानां बुद्धानां खड्गचारिनाम्।

पुण्यं श्रावकबुद्धानां संबुद्धानां च तायिनाम्॥

यत् पुण्यम् अनुमोदनासहगतं चानुत्तरायां सम्यक्संबोधौ परिणामयामि सत्त्वानां बोधिचित्तोत्पादाय॥ भगवन्तं त्रैधातुकैकमूर्तिं सहजानन्दसुखागारं श्रीमद्धेरुकवीरं बुद्धम्। तद्देशित-मण्डलमुद्रामन्त्रादिकं धर्मम्। तच्चक्रस्थितगौर्यादिदेवीगणं च सण्घं शरणं गच्चामि यावद् आ बोधिमण्डतः॥ सर्वसत्त्वार्थकरणहेतुभूतायां सर्वाकारवरोपेतशून्यतालक्षनायां सम्यक्संबोधौ शून्यताकरुणाभिन्नं बोधिचित्तम् उत्पादयामि॥ अनुत्तरं मार्गम् 


p.5


आश्रयामि यद् उत वज्रयानम्। पुनस् तेभ्य आत्मनात्मा दीयते सर्वसत्त्वानां सर्वसुखोपधानायेति॥ पूजाचक्रं नाम प्रथमसूत्रम्॥१॥

2 चतुर्ब्रह्मम्

तदन्व् अनादौ भवचक्रे संसरतो मम मातृपितृभ्रातृभगिन्या दिरूपाः सत्त्वा इति परिकल्प्य। तेष्व् एकपुत्रप्रेमलक्षणां महामैत्रीं भावयेत्॥ ततः सर्वांस् तान् संसारार्णवपतितान् अशरणान् दृष्ट्वा। दुःखितः क्रन्दनो योगी दुःखात् दुःखहेतोर् वा समुद्धरणाभिलाषस्वभावां महाकरुणां विभावयेत्॥ महचित्तम् उत्पाद्य सर्वे सम्बोधौ मया प्रतिष्ठापयितव्याः श्रीहेरुकरूपेणात्मानं सिद्धं बुद्ध्वा हसतीति मुदिता॥ लाभालाभस्तुति-निन्दायशोऽयशःसुखदुःखादिग्रहो मे न युज्यत इति। अष्टलोकधर्-मविरहलक्षणाम् उपेक्षां चतुर्थीं भावयेत्॥ इति चतुर्ब्रह्मविहारः॥२॥


p.5


3 परमम्

तदनु मृतकाक्रान्तम् आत्मानं भावयित्वा। ज्ञानालोकवज्रसमाधियोगेन प्राकृतशरीराभावं दृष्ट्वा। श्रीहेरुक इत्य् अक्षरचतुष्टयार्थम् आमुखयन्तम् भावयेत् सदुपदेशाद् इत्य् अनेनाशुचितनोर् अभाव इति परमम्॥३॥

4 सहजम्

तदनु झटिति सहजनाथव्युत्थानं चिन्तयेत्। झटिति बुद्धागारमध्ये वंकारेण निगदितं वज्रसत्त्वं महाशान्तं जटामुकुटिनम् वज्रपर्यण्किणोपविष्टं विश्वपद्मे शवोपरि चन्द्रासनस्थं द्विभुजैकमुखं शुक्लं त्रिनेत्रं धर्ममुद्राभृत-करद्वयं द्वात्रिंशल्लक्षणधरं व्यञ्जनाशीतिविराजितं सहजहेरुकं विभावयेत्। अनेनैतत् प्रतिपादितम्। अक्षरषट्कस्य श्रीहेरुकवज्रम् इत्य् अस्य वंकारेण निगदितं परमाद् वज्रसत्त्वं सहजहेरुकाख्यम् इति सहजम्॥४॥


p.6


5 स्वेष्टदेवः

तस्य हृदये ज्रंकाराक्षरस्य रेफपरिणतसूर्यं। तदर्धच-न्द्रबिन्दुपरिणामेन संपूर्णं चन्द्रमण्डलम्। तन्मध्यव-र्तिहूंकारं च जगज्जन्मबीजं जकारेण सूचितम्। कृष्णवर्णं महाघोरम्। हूंकारपरिणतं वज्रं तद्वज्रवरटकमध्यस्थं हूंतत्त्वं भावयेत्॥

तदनु सूर्यचन्द्रचिह्नबीजपरिणामेन चन्द्रबिम्बमात्रं विभाव्य। तद्विनिर्गतं द्वेषवज्रिणं महाभीमम् आकाशे दृष्ट्वा। वक्ष्यमाणोपदेशतस् तं क्षीरोदकन्यायेन प्रवेश्य। स्वेष्टदैवतरूपं चिन्तयेत्। त्रिसत्त्वात्मकं प्रभुम्॥

सत्त्वबिम्बसमुद्भूतं मण्डलेशं विभावयेत्॥

इति वचनात्॥ इति स्वेष्टदेवः॥५॥

6 रक्षाचक्रम्

एवम् अष्टास्यादिमहाघोरं द्वेषवज्रं भावयित्वा। हूंकारोद्भूतान् दशक्रोधान् ज्वालामालाकुलान् उत्स्र्जेत् पूर्वादिदिक्षु॥ तत्र पूर्वे यमान्तकं वैरोचनमुकुटिनं महाकृष्णवर्णं वज्रमुद्गरहस्तम्। दक्षिणे प्रज्ञान्तकं रत्नसंभवमुकुटिनं महाशुक्ल -


p.7


वर्णं सितदण्डधरम्। पश्चिमे पद्मान्तकम् अमिताभमुकुटिनं महारक्तवर्णं रक्ताब्जधरम्। उत्तरे विघ्नान्तकम् अक्षोभ्यमुकुटिनं महानीलवर्णं करालवज्रधरम्। ऐशान्याम् अचलं महाकृष्णं खड्गधरम्। आग्नेयां टक्किराजं महाकृष्णवर्णं वज्राण्कुशधरम्। नैरृत्यां नीलदण्डं महाकृष्णं नीलदण्डधरम्। वायव्यां महाबलं महाकृष्णं त्रिशूलधरम्॥ अचलादयो ऽक्षोभ्यमुकुटिनः॥ ऊर्ध्व उष्णीषचक्रवर्तिनं वैरोचनेशं पीतं पीतचक्रधरम्॥ अधः सुम्भराजं धूम्रवर्णं चित्तेशमुकुटिनं मुषलधरं भयानकं चिन्तयेत्॥ एते क्रोधास् त्रिनेत्रा ऊर्ध्वपिण्गलकेशाः। नानानागोपशोभिताः। द्विभुजैकमुखाः। खर्वलम्बोदराः। वामे तर्जन्यासक्तवज्रपाश्धरा ध्यातव्याः॥ किं तु टक्क्यचलौ ललितौ दिव्याभरणभूषितौ विकृताननौ। पुनः सर्वे विश्वाब्जसूर्ये प्रत्यालीढपदेन संस्थिता द्रष्टव्याः॥

एवं दशक्रोधराजानः स्वस्वस्थाने निर्माणम् आत्मतुल्यं यमान्तकादिक्रोधरूपं संस्थाप्य। संपुटाञ्जलं कृत्वा। संमुखिभूय अष्टपदहृदयोपहृदयमन्त्रैः स्तुतिपूर्वकं किं करिस्यामो


p.8


वयं क्रोधा वदन्तीति पश्येत् मन्त्री॥ ततः शान्तिकादिकर्मभेदेनाज्ञापयेत् तान् डाकिनीवज्रपञ्जरोक्तमन्त्रेण -

ओं सुम्भ निसुम्भ हूं। ओं गृह्न २ हूं। ओं गृह्णापय २ आनय होः। भगवन् विद्याराज पूं फट्।

इत्य् अनेनाज्ञादानम्॥ ततो वज्रधराज्ञ्ं संगृह्य। तत्र स्वयम् एव गत्वा। इन्द्रादिविघ्नगणान् गलके वज्रपाशेन बद्ध्वा। स्वस्वास्त्रेण त्रासयन्तो दशदिक्षु निर्माणेषु समर्प्य। वज्रधराभिसं मुखीभूय तिष्ठन्तीति पश्येत्॥ तत्रायं विघ्नगणः। इन्द्रो गौरः सितैरावतारूढः सहस्राक्षो रत्नमुकुटी ललिततनुः। यमः कृष्णो महिषारूढः। ऊर्ध्वपिण्गलकेशः। खर्वलम्बोदरः। वरुणः शुक्लो व्योमकच्चपारूढः फणाण्कितशिरा ललितनुः। कुबेरः पीतो नरवाहनः। रत्नमुकुटी ललिततनुः। ईशानः शुक्लो वृषभारूढः। जटामुकुटी खर्वो बृहत्कुक्षिः। अग्निश् चागासनो जटामुकुटाण्कितशिराः खर्वशरीरो रक्तः। राक्षसो धूम्रः शवासनो मुक्तकेशः खर्वः। वातः श्यामः पीतहरिणासनः। रत्नमुकुटी ललिततनुः। ऊर्ध्वे पितामहः पीतो हंसवाहनः खर्वलम्बोदरो जटामुकुटी। अधरे 


p.9


पृथिवी पीता पण्कजस्थिता। रत्नमुकुटिनी ललिततन्वी॥ एते विघ्ना वमान्तकादिभिर् गृहीताः कातरोद्विग्नास् त्राणार्थैषणतत्परा द्रष्टव्याः॥ 

तदनु स्वहृद्बीजाद् दशक्रोधम् अधः शूलाकारं कृष्णवर्णं महाघोरं प्रलयानलदुःसहम्। ऊर्ध्वे ऽमृतकुण्डल्याकारं स्फारयित्वा। विघ्नगणमस्तकेषु निरूप्य। क्रोधान् आज्ञाय। कीलयेत्॥

ओं घ घ घातय २ सर्वदुष्टान् फट् २ कीलय २ सर्वपापान् फट् २ हूं हूं वज्रकील वज्रधरो आज्ञापयति सर्वदुष्टविघ्नानां कायवाक्चित्तवज्रं कीलय २ हूं २ फट् २।

इति कीलारोपणम्॥ तदनु सर्वे क्रोधा आत्मचिह्नपरिणतवज्रमुद्गरेणाकोटयन्ति तान् कीलान् यावद् धरणीतलगता भवेयुः। अनेन मन्त्रेण -

ओं वज्रमुद्गर वज्रकीलाकोटय २ हूं फट्।

इत्य् आकोटनम्॥ ततः स्वस्वनिर्माणैः सह एकीकरणसमये क्रोधस्फुरद्वह्निना विघ्नपरिवारान् दग्धान् निर्मूलीकृतान् पश्येत्॥ एवम् आकोट्य निर्मूलीकृत्य च। निर्विघ्नीभूय पश्चात्  -


p.10


रेफेण सूर्यं पुरतो विभाव्य

तस्मिन् रवौ हूंभवविश्ववज्रम्।

तेनैव वज्रेण विभावयेच् च।

प्राकारकं पञ्जरबन्धनं च॥

अत्र चकारेण वज्रशरजालं वज्रवितानं वज्रमयीं भूमिं च रसातलपर्यन्तं प्रतिपादितं चिन्तयेत्। इति रक्षाचक्रम्॥६॥

7 शून्यताधिमोक्षः

ततः शून्यतां महारक्षां विभाव्य वक्ष्यमाणक्रमेण -

भाव्यन्ते हि जगत् सर्वं मनसा यस्मान् न भाव्यते।

सर्वधर्मपरिज्ञानं भावना नैव भावना॥

तदनु निःशेषवस्तुतत्त्वसारसंग्राहकं मन्त्रम् उच्चरेत् -

ओं शून्यताज्ञानवज्रस्वभावात्मको ऽहम्॥७॥


p.11


8 श्मशानं

तन्मध्य आकाशव्यापिनीं प्रज्ञां एकाराकारां शुक्लां भावयेत्। तदुपरि पंकारजं विश्वपद्मम्। तदुपरि हूंकारजं विश्ववज्रम्। विश्ववज्रवेदिकामध्ये यंकारजम् अर्धचन्द्राकारं नीलवर्णं वायुमण्डलम्। ततस् त्रिकोणं रंकारजाग्निमण्डलं रक्तम्। ततो वर्तुलं वंकारजं वरुणमण्डलं शुक्लम्। तदुपरि पृथ्वीमण्डलं चतुरस्रं लंकारजं पीतम्। कोणेषु वज्रचतुष्टयं पीतम्। तन्मध्यवर्ति विज्ञानं विदित्वा। एतत् सर्वं परिणम्य चतुर्महाभूतमण्डलम्। झटिति कूटागारम् अष्टश्मशानमण्डितं चिन्तयेत्॥

यथानुक्रमतो वृयदिनामेपचान्वितान्य् अष्ट श्मशानानि कथ्यन्ते।

पूर्वे चण्डोग्रं नाम महाश्मशानम्॥ तत्र वृक्षः शिरीषः। यक्षो गजाननः सितः। दिक्पतिः शक्रः। नागो वासुकिः पीतः। मेघो गर्जितो नाम विश्ववर्णः। पर्वतः सुमेरुश् चतूरत्नमयः। चैत्यः सितवज्रो नाम तिष्ठति॥१॥

दक्षिणे करण्कभीषणं नाम महाश्मशानम्॥ तत्र वृक्षश् चूतः। यक्षो महिषमुखः कृष्णः। दिक्पतिर् यमः। नागः पद्मः सितः। मेघ आवर्तको विश्ववर्णः। पर्वतो मलयो गौरः। चैत्यः कृष्णवज्रो नाम तिष्ठति॥२॥

पश्चिमे ज्वालाकुलं नाम महाश्मशानम्॥ तत्र वृक्षो ऽशोकः। यक्षो मकराननः। दिक्पतिर् वरुणः शुक्लः। नागः कर्कोटको रक्तः। 


p.12


मेघो घोरो नाम विश्ववर्णः। पर्वतः कैलासः श्वेतः। चैत्यः सितसंज्ञावज्रो नाम तिष्ठति॥३॥

उत्तरे गह्वरं नाम महाश्मशानम्॥ तत्र वृक्षो ऽश्वत्थः। यक्षो मनुष्यमुखो गौरः। दिक्पतिः कुबेरः। नागो तक्षकः कृष्णः। मेघो घूर्णितो नाम विश्ववर्णः। पर्वतो मन्दरः श्यामः। चैत्यो गौरसंस्कारवज्रो नाम तिष्ठति॥४॥

ऐशान्यां लक्ष्मीवनं नाम महाश्मशानम्॥ तत्र वृक्षो वटः। यक्षो गोमुखः सितः। दिक्पतिर् महेश्वरः। नागः शण्खपालो नाम पीतः। मेघश् चण्डो नाम विश्ववर्णः। पर्वतो महेन्द्रः कृष्णः। चैत्यः श्वेतश् चित्तवज्रो नाम तिष्ठति॥५॥

आग्नेय्यां अट्टट्टहासं नाम महाश्मशानम्॥ तत्र वृक्षः करञ्जकः। यक्षश् चागाननो रक्तः। दिक्पतिर् हुताशनः। नागो महापद्मः श्यामः। मेघो घनो नाम विश्ववर्णः। पर्वतो गन्धमादनः पीतः। चैत्यो रक्तः कायवज्रो नाम तिष्ठति॥६॥


p.13


नैरृत्यां घोरान्धकारं नाम महाश्मशानम्॥ तत्र वृक्षो लतापर्कटिः। यक्षः कृष्णो मृतकाननः। दिक्पती राक्षसः। नागो ऽनन्तः पाण्डरः। मेघो पूरणो नाम विश्ववर्णः। पर्वतो हेमो नाम श्वेतः। चैत्यः कृष्णो रत्नवज्रो नाम तिष्ठति॥७॥

वायव्यां किलिकिलारवं नाम महाश्मशानं॥ तत्र वृक्षो ऽर्जुनः। यक्षः श्यामो मृगाननो नाम। दिक्पतिर् मरुतो श्यामः। नागः कुलिकः कर्बुरः। मेघो वर्षणो नाम विश्ववर्णः। पर्वतो नीलः श्रीपर्वतो नाम। चैत्यः श्यामो धर्मवज्रो नाम तिष्ठति॥८॥

एते महर्द्धिका यक्षा द्विभुजा वृक्षार्धनिःसृतकायाः। असृक्परिपूर्णनरकपालव्यग्रवामकराः। नानारसग्रहणाभिनयदक्षिणकरकमलाश् चिन्तनीयाः॥ एतानि हरितशाद्वलनूतनाण्कुरितपत्रपुष्पा-द्यलंकृतनानातरुभिर् घनानि। काककोकिलोलूकशुकशारिकाकपोतक-पोतिकागृध्रादिनानापक्षिगणैर् उपशोभितानि। सिंहवृकशार्दूलभ-ल्लूकशूकरादिनानामृगैः परिपूरितानि। नानासुगन्धिकुसुमैर् आकुलीकृतानि। नानासर्पसंकुलैर् भयानकानि। हड्डमुण्डपक्षकण्-कालकपालशवादिभिर् नानास्थानप्रदेशमण्डितानि। पुनर् नानाप्र -


p.14


देशेषु विहारविहारीध्यानागारवापिकाभिर् उपशोभितानि। योगियोगिन्यव-धूतावधूतीध्यायिध्यायिनीयक्षयक्षिणीप्रेतप्रेतीराक्षसराक्षसीकुम्भा-ण्डकुम्भाण्डीभूतभूतीडाकडाकिनीवीरवीरिणीसमूहैः समयसंके-तासक्तचित्तैर् अन्वितानि। हास्यलास्यविलासालिण्गननखप्रदानानन्दादि-प्राप्तडाकडाकिनीगणैः परिपूरितानि॥

तदन्व् आनन्दचित्तैः केचिद् वज्रपदैर् नर्तयन्तः। केचिद् वज्रगीतैर् गायन्तः। केचिन् नानासमयाचारैर् आचारयन्तः। केचित् पञ्चामृतपञ्चप्रदीपैर् भक्षयन्तः। केचिन् नानावस्तून्य् उपढौकयन्तः। केचिन् नानासत्त्वान् संतर्पयन्तः। केचिन् मदनानि पिबन्तो द्रष्टव्याः॥ अपरे च डाकडमरुपटहमर्दलझरवीणावेणु-वंशादिभिर् नानावाद्यैर् वादयन्तः॥ पुनर् अनेकसिद्धविद्याध-रकिन्नरमहोरगगन्धर्वदेवासुरगरुडैः सप्रज्ञकैः समूहैर् आकीर्णानि। किलिकिलारवाणि घोरगह्वराण्य् अतिभयानकानि। अथ च नवनाट्यरसेन मनोह्लादकराणि। वेताडभूतसंघैः सहितान्य् अष्ट श्मशानान्य् अष्टविज्ञानविशुद्धानि। तत्र चक्षुर्विज्ञानं। श्रोतविज्ञानं। घ्राणविज्ञानं। जिह्वाविज्ञानं। कायविज्ञानं। मनोविज्ञानं। क्लिष्टमनोविज्ञानं। आलयविज्ञानं। चेति॥ श्मशानम्॥८॥


p.15


9 कूटागारम्

तन्मध्य उक्तवाय्वादिचर्तुर्महाभूतपरिणतं कूटागारम्। अस्य च चतुरस्रं वज्रसूत्रं च पञ्चेन्द्रियविशुद्ध्या। चत्वारि द्वाराणि चतुःस्मृत्युपस्थानविशुद्ध्या। चत्वारस् तोरणाश् चतुःप्रहाणविशुद्ध्या। चतुर्वेदिका चतुरृद्धिपादविशुद्ध्या। चत्वारः कोणा हारार्धहारं च पञ्चबलविशुद्ध्या। आर्याष्टाण्गविशुद्ध्याष्टौ स्तम्भाः प्रकल्पिताः। सप्तबोध्यण्गविशुद्ध्या पक्षिणीक्रमशीर्षचत्रचामरविता-नघण्टापताकाश् च। एवं सपतत्रिंशद्बोधिपाक्षिकधर्मविशुद्ध्या। इत्थंभूतं प्रतीत्यसमुत्पन्नं परिशुद्धबुद्धक्षेत्रसंक्षेपरूपं महामोक्षपुरं वैरोचनविशुद्धं प्रभास्वरस्वभावं। द्वादशशूकविश्ववज्रवेदिकोपरि कूटागारं चिन्तयेत्॥ तत्र पूर्वे शूकत्रयं शुक्लं। दक्षिणं पीतं। पश्चिमं रक्तम्। उत्तरं श्यामं। मध्ये नीलवर्णं वेदिकायां च ध्यायात्॥

इदानीं षोडशदेवीविन्यासः कथ्यते। वज्रसूत्रम् एव पञ्च रेखास्। ताभ्यो बाह्ये देवतापट्टिकायां मूलद्वारम् आरभ्य द्विद्विपार्श्वेषु दक्षिणावर्तेन द्विद्वियोगिन्यो ऽनुक्रमेण चन्द्रसूर्यमध्य-गतार्धेन्दुबिन्दुयुक्तस्वस्वाक्षरबीजनिष्पन्नाः पूजादेव्यः स्वस्वनामाभिनयस्थिताः। वीणा पीता। वंशा रक्ता। मृदण्गा धूम्रा। मुरजा


p.16


सिता। माला पीता। लास्या रक्ता। गीतारुणा। नृत्या विश्ववर्णा। पुष्पा शुक्ला। धूपा कृष्णा। दीपा कनकाभा। गन्धा पीता। आदर्शा सिता। रसा रक्ता। स्पर्शा हरिता। धर्मा सिता। एताः सर्वाश् चन्द्रासनस्थाः षोडशकलाविशुद्ध्या द्रष्टव्याः। एताभिः शोभितम् इति कूटागारम्॥९॥

10 हेतुमण्डलम्

तदनु कूटागारमध्ये विश्वदलकमलकर्णिकोपरि मारचतुष्टयं दक्षिणोत्तरशिरस्कम् उत्तानम्। स्कन्धक्लेशमृत्युदेवपुत्रा-भिधानकं पश्येत्॥ तत्र स्कन्धमारो ब्रह्मा। क्लेशमारो विष्णुः। मृत्युमारो महेश्वरः। देवपुत्रमारो देवेन्द्रः। एतन् मारचतुष्टयं सूर्याक्रान्तहृदयम्॥ पूर्वादिदिग्दलेषु। ब्रह्मा-इन्द्र-विष्णु-महेश्वराः। ऐशान्यादिविदिग्दलेषु। यम-कुबेर-नैरृति-वेमचित्रिणश् चेति। एते चाष्टौ चन्द्रेणाक्रान्तहृदयाः॥ विश्वदलकमलादिवेमचित्रि-पर्यन्तं कूटागारं निष्पत्तिकाल एव निष्पन्नम्॥

हृत्सूर्योपरि द्विगुणाकारादिस्वरपरिणामेन द्वात्रिंशल्लक्षणसूचकं चन्द्रमण्डलम् आदर्शज्ञानस्वभावकम्। तदुपरि चतुस्त्रिं-शत्कादिवर्णन् ड-ढ-द ध-य-लेत्य् अक्षरषट्केन सहानुलोमविलोमतो द्विगुणीकृत्य। अशीत्यक्षरपरिणामेन सूर्यमण्डलम् अशीत्यनुव्यञ्जन-सूचकं समताज्ञानस्वभावकं पश्येत्॥ संपुटमध्ये हूं -अं-बीजद्वयपरिणतकरोटकर्तिकं ताभ्याम् एवाण्कितम् इति प्रत्यवेक्ष-णाज्ञानम्॥ ततो बीजद्वयविनिर्गतरश्मिजालैर् अनन्तलोकधातून् अव -


p.17


भास्यानीय च। तत्रैव प्रवेश्य। सर्वेषाम् ऐक्यम् इति कृत्यानुष्ठा-नज्ञानम्। ऐक्यपरिणामेन झटित्य् आत्मानं वक्ष्यमाणचिह्नादिना निष्पन्नं श्रीहेरुकरूपं स्वेष्टदेवं षोडशभुजं षड्भुजं चतुर्भुजं द्विभुजं वा हेतुवज्रधररूपम्॥ तथैव निष्पन्नं नैरात्माद्याश्लिष्टकन्धरं सुविशुद्धधर्मधातुज्ञानम्। तित् पञ्चाकाराभिसम्बोधिः॥

पूर्वादिदिक्क्रमेण चन्द्रे तथैव चन्द्रार्कसंपुटमध्ये गं चं वं घं पुं शं चं डं इति बीजाष्टकं पश्येत्॥ तत्परिणतानि गौर्यादीनां चिह्नानि। कर्तिकृपीटकुर्मसर्पसिंहभिक्षुचक्रवज्राणि तैर् एव बीजैर् अधिष्ठितानि चिन्तयेत्॥ एतत् सर्वं परिणम्य। पञ्चाकाराभिसम्बोध्या गौर्यादयो निष्पादनीयाः। वक्ष्यमाणक्रमेण वर्णचिह्नादिना॥ इति हेतुमण्डलम्॥१०॥

11 द्रुतापत्तिः 

एवं स्वेष्टदेवताकृतिं निष्पाद्य। नैरात्मादिडाकिनीचक्रं च स्वविद्यया सहैकरसम् आपन्नं पश्येत्। समाधिसमयरश्मिनाकृष्य। रक्तहोःकारपण्क्तिद्वयपरिवेष्टितं गन्धर्वसत्त्वं महासुखमयं चक्रडाकद्वारेण प्रवेश्य। भगवान् अत्यन्तपरममहासुख -


p.18


रसेन स्वविदया सह महारागानुरागतो द्रुतापन्नो बीजरूपेणावस्थितो ऽभूत्। इति द्रुतापत्तिः॥११॥

12 समुत्थानम्

अथ पुक्कस्यादयश् चतस्रो देव्यो ऽतिविषण्णाश् चक्रपतेर् अभावं दृष्ट्वा। अनाथा वयम् इति मत्वा। महादौर्मनस्यप्राप्ता अतीवत्कण्ठिताश् चित्तप्रबोधकारिकाभिर् वज्रगीतिकाभिर् भगवन्तम् उत्थापयन्ति॥

उट्ठ भराडो करुणमणु पुक्कसि महु परिताहि।

महासुहजों काम महुं च्चड्डहि सुण्णसमाहि॥

तोज्झ विहुण्णे मरमि हं उट्ठहि तुहु हेवज्ज।

चड्डहि सुण्णसहावडा शबरिआ सिज्झ कज्ज॥


p.19


लोय निमन्तिय सुरापहु सुण्णे अच्चसि कीस।

हं चण्डाली विण्णममि त विणु उहमि ण दीस॥

इन्दी-आली उट्ठ तुहु हं जाणमि तुह चित्त।

अम्हे डोम्बी चे-अ-मणु मा करु करुणविचित्त॥

तत्त्वगीतप्रचोदितो भगवान् चिरप्रणिधानावेधसामर्थ्यवशाद् तिष्ठेत् स्वप्नप्रबोधितवत्॥

योगो नाम समाधिः

तत्रायम् उत्थानक्रमः पञ्चाकारप्रयोगतः। अमृतद्रवेन्दुवन् मायोपमविज्ञानम्। तदमृतद्रवपरिणामेन पञ्चज्ञानमयं बोधिचित्तम्। तत्रालिपरिणत आदर्शज्ञानं चन्द्रः। कालिपरिणतः स -


p.20


मताज्ञानं सूर्यः। तयोर् मध्यगतं बीजं बीजपरिणतं चिह्नं तदण्कितं प्रत्यवेक्षणम् उच्यते। "सर्वैर् एकम् अनुष्ठानम्" इति कृत्यानुष्ठानम्। बिम्बनिष्पत्तिः शुद्धधर्मता। तच् च पञ्चज्ञानमय-बोधिचित्तोत्थानकिरणैः सचराचरम् आनीय माण्दलेयं च तत्रैव समरसं कृत्वा शरच्चन्द्रमण्डलाकारं बोधिचित्तं पश्येद् इति योगो नाम समाधिः॥

अनुयोगो नाम समाधिः 

तदनु झटिति तत्परिणातं सहजबिम्बं शरच्चशधराकारम् अनन्तलोकधातुव्यापकं धर्ममुद्रायुतकरद्वयं पञ्चज्ञानमयं मायोपमं सहजहेरुकं पश्येद् इत्य् अनुयोगो नाम समाधिः॥१२॥

13 न्यासः

अतियोगः

बिम्बस्थानं निष्पाद्यैवम्। अतियोगं स्कन्धधात्वायतनेषु बीजन्यासं कुर्यात्। वज्रादिखेचरीपर्यन्तानाम्। आं न्यसेद् रूपस्कन्धे वज्रायाः। इं वेदनास्कन्धे गौर्याः। ईं संज्ञास्कन्धे वारियोगिन्याः। उं संस्कारस्कन्धे वज्रडाकिन्याः। अं विज्ञानस्कन्धे नैरात्म्यायाः। ऊं मांसे पुक्कस्याः। ऋं रक्ते शबर्याः। ॠं बोधिचित्ते चण्डाल्याः। ळ्ं रूपायतने न्यसेद् अपरगौर्याः। एं शब्दे चौर्याः। ऐं गन्धे वेत्ताल्याः। ओं 


p.21


रसे घस्मर्याः। औं स्पर्शे भूचर्याः। अं धर्मधातौ खेचर्याः॥ अतियोगः॥

नहायोगो नाम समाधिः

ततो नाभौ चतुःषष्टिदलं। हृद्य् अष्टदलं। कण्ठे षोडशदलं। ललाटे द्वात्रिंशद्दलम्। अं हूं ओं हं विन्यस्य। कायवाक्चित्ताधिष्ठानं चिन्तयेत्॥ ओंकारं सितं शिरसि ध्यात्वा। तस्मात् कायवज्रसमूहेन गगनम् आपूर्य। तत्रैव जीजे प्रवेश्य। कायवज्रो भवेत्। ओं कायवज्रात्मकाः सर्वधर्माः कायवज्रात्मको ऽहं इति पठन्। आःकारं रक्तं वाक्पथे ध्यात्वा। तस्मात् वाग्वज्रसमूहेन गगनम् आपूर्य। तत्रैव बीजे प्रवेश्य। वाग्वज्रो भवेत्। ओं वाग्वज्रात्मकाः सर्वधर्मा वाग्वज्रात्मको ऽहं इति पठन्। हूंकारं कृष्णं हृदि ध्यात्वा। तस्माच् चित्तवज्रसमूहेन गगनम् आपूर्य। तत्रैव बीजे प्रवेश्य। चित्तवज्रो भवेत्। ओं चित्तवज्रात्मकाः सर्वधर्माश् चित्तवज्रात्मको ऽहम् इति। कायवाक्चित्ताधिष्ठानपर्यन्तेन न्यासः। इति महायोगो नाम समाधिः॥१३॥


p.22


14 द्वेषात्मा 

ततः पूर्वोक्तक्रमेण सत्त्वबिम्बसमुद्भूतं चतुर्णां हेरुकरूपाणां मध्ये स्वेष्टदेवं प्रज्ञासमापन्नम् आत्मानं कृष्णवर्णं महाघोरं सत्त्वहृदये चन्द्रबीजादिनिष्पन्नं द्वेषात्मकं पश्येत्॥ वक्ष्यमाणक्रमेण चिह्नादिकं ध्यात्वा त्रिसमयम् आरभेत्। तत्रात्मसमयो वज्रधररूपता। स्वहृदि सूर्ये आत्मसमयवज् ज्ञानसमयम्। तद्धृदि समाधिसमयं हूंकारं चिन्तयेत्॥

इति द्वेषात्मा॥१४॥

15 उत्सर्गः

मुद्रासाधनम्

एवं त्रिसमयात्मको भूत्वा मुद्रासाधनम् आरभेत्।

प्रज्ञाम् अचञ्चलां प्राप्य साधके भक्तिवत्सलाम्।

यां सर्वलक्षणोपेतां सर्वसत्त्वहितैषिणीम्॥

तस्याः शिरसि ओंकारं हृदि हूंकारं। नाभौ स्वाकारम्। ऊरुयुग्मे आःकारं। पादयोर् हाकारं न्यसेद् इति। अण्गन्यासस् तु यथात्मनि तथा भगवत्याः॥


p.23


रूपस्कन्धे भवेद् वज्रा गौरी वेदनायां स्मृता।

संज्ञायां वारियोगिनी संस्कारे वज्रडाकिनी।

विज्ञानस्कन्धरूपेण स्थिता नैरात्म्ययोगिनी॥

पृथिवी पुक्कसी ख्याता अब्धातुः शबरी स्मृता।

तेजश् चण्डालिनी ज्ञेया वायुर् डोम्बी प्रकीर्तिता॥

रूपे गौरी सदा ख्याता शब्दे चौरी प्रकीर्तिता।

वेत्ताली गन्धभागे च रसे घस्मरी कीर्तिता।

स्पर्शे च भूचरी ख्याता खेचरी धर्मधातुतः॥

आदियोगो नाम समाधिः।

एवं भगवत्याः सकन्धधात्वायतनेषु बीजन्यासं कृत्वा। पद्मवज्राधिष्ठानं कुर्यात्॥ आह्कारेण त्रिदलं पद्मम् आह्लादकरं ध्यात्वा। हूंकारेण कमलकोशकिञ्जल्कशुषिरं विचिन्त्य। तदनु हूंकारसंभूतं वज्रं विभाव्य। ओंकारेण तन्मणिशुषिरं च ध्यात्वा। मन्त्रेणनेनाधितिष्ठेत्॥

ओं पद्म सुखाधार महाराग सुखंदद।

चतुरानन्दभाग् विश्व हूं हूं हूं कार्यं कुरुष्व मे॥

ओं पद्म सुखाधार महाराग सुखंदद।

चतुरानन्दभाग् विश्व हूं हूं हूं कार्यं कुरुष्व मे॥

ओं वज्र महाद्वेष चतुरानन्ददायक।

खगमुखैकरसो नाथ हूं ३ कार्यं कुरुष्व मे॥


p.24


बाह्यमुद्राभावे मनोनिर्मितां मुद्रां प्राप्य। तस्यां पञ्चकुलकलापक्रमादिकं च कृत्वा। अनुरागणम् आरभेत् -

ओं सर्वतथागतानुरागणवज्रात्मकाः सर्वधर्माः।

ओं सर्वतथागतानुरागणवज्रस्वभावात्मको ऽहम्॥

इति कृत्वा। वाग्वज्राहंकारेण हूंकारम् उच्चारयन् वज्रं चालयेत्॥ शून्यताधि मोक्षादि रतिसुखपर्यन्तेनादियोगो नाम समाधिः॥॥

एतच् च प्रज्ञोपायैकरसमहासुखसंभवबोधिचित्तं फट्कार-विनिर्गतं निश्चित्य पूजां कुर्याद् अनेन -

ओं सर्वतथागतपूजावज्रस्वभावात्मकाः सर्वधर्माः 

ओं सर्वतथागतपूजावज्रस्वभावात्मको ऽहं॥

इति पठित्वा। गरुडमुद्राधरो योगी कमलकोशान्तर्गतं तद् बोधिचित्तं रसनेन्द्रियेण गृहीत्वा। सर्वतथागतवज्रयोगिनीस्वभावम् आत्मानं पूजयेत्॥ यदि सुशिक्षिता स्यान् मुद्रा नो चेन् न कर्तव्यः। अन्यथा मूलापत्तिः स्यात्॥ तदनु यत् किञ्चिल् लवलेशस्थितं बोधिचित्तं तत्परिणतं सचक्रभट्टारकं विचिन्त्य। मन्थमन्थानयोगेनोत्सृजेद् अनेन। ओं वज्रधृक् हूं। भगवती अं। गौरी गं। चौरी चं। वेत्ताली वं। घस्मरी घं। पुक्कसी पुं। शबरी शं। चण्डाली चं। डोम्बी डं।


p.25


इति मन्त्रेणोत्स्र्ज्य। जगदर्थं च कारयित्वा। आनीय भगवन्तं। भगवच्चक्रडाकंआर्गेण प्रवेश्य। पयसि पानीयं यथा तथा वक्ष्यमाणक्रमेण भगवान् स्थितः। भगवती भगवत्यां च। गौर्यादयो ऽपि यथास्थानं स्वस्वासनेषु चिन्तनीयाः॥ इत्य् उत्सर्गः॥१५॥

16 ज्ञानचक्रम्

षोडशभुजाः षोडशशून्यताविशुद्ध्या। दक्षिणाष्टभुजस्थिताष्टपद्-मभाण्डेषु यथाक्रमं हस्त्यश्वखरगावोष्ट्रमनुजशरभोतुकास् तथा वामाष्टपद्मभाण्डेषु क्रमेण ज्ञेयाः पृथ्वीवरुणवायुतेजश्-चन्द्रार्कयमधनदाश् चेति॥

काशः श्वासस् तथोन्मादः क्षयकुष्ठविचर्चिकाः।

प्लीहयकृत्स्वरूपाश् च सर्वे चैते प्रकीर्तिताः॥

इत्य् अष्टक्लेशविशुद्ध्या कुञ्जरादयो गृहीताः। पृथिव्यादिधनदान्ता इत्य् अष्टैश्वर्यविशुद्ध्या। यथा -


p.26


कायैश्वर्यं वागैश्वर्यं चित्तैश्वर्यं तथैव च।

ऋद्धिः सर्वगतैश्वर्यम् इच्चा कर्ता गुणाष्टकम्॥

कायानन्ते कायैश्वर्यम्। सर्वभाषां वदतीति वागैश्वर्यम्। सर्वसत्त्वचित्तं जानातीति चित्तैश्वर्यम्। ऋद्ध्यानन्तलोकधातुं पश्यतीत्य् ऋद्ध्यैश्वर्यम्। त्रैलोक्यैकमूर्तिम् इति सर्वगतैश्वर्यम्। इच्चाशब्देन काम उक्तः। कामेन महासुखं सत्त्वानाम् उत्पादयतीति कामैश्वर्यम्। कर्ता वज्रधरतेति कर्तैश्वर्यम्। देवताकारेण चरणं इति गुणैश्वर्यम्॥ पद्मभाजनं करुणाण्गविशुद्ध्या। भुजाः शून्यताविशुद्ध्या। एतेन शून्यताकरुणाभिन्नत्वं प्रतिपादितम्॥ कृष्णाण्गं मैत्रीचित्तम्॥ अष्टास्यान्य् अष्टविमोक्षविशुद्ध्या। प्रथमं मुखं कृष्णं द्वेषकर्मसाधनार्थम्। वामं रक्तं वश्यसाधनार्थम्। दक्षिणं शुक्लं शान्तिककर्-मसाधनार्थम्। ऊर्ध्वास्यं विकरालं धूम्रवर्णम्। पश्चिम उद्भूतद्वेषादिक्लेशविशोधनाय। पुनर् वाममुखद्वयम् कृष्णम्।


p.27


तथा दक्षिणमुखद्वयं कृष्णं चतुर्मारविनाशार्थम्॥ सर्वम् एव मुखं दंष्ट्राकरालं सभ्रूभण्गं महाभीमं प्रलयानलज्वालाकुलप्रभं। क्रोधात्मकत्वात्॥ रक्तवर्तुलत्रिनेत्रं च। रक्तं कृपया। त्रिनेत्रत्वं  त्रिवज्रविशुद्ध्या। कालत्रयपरिञानाच् च॥ चतुर्विंशतिनेत्राढ्यम्॥ पट्टबद्धोर्ध्वपिण्गलकेशम्। सकलरागादिक्लेशदहनात्॥ विश्ववज्राण्कितशिरस्कम्। जगदर्थकरणात्॥ ललाटोपरि पञ्चशुष्कमुण्डमालालंकृतम्। पञ्चस्कन्धानां निःस्वभावताप्रतिपादनाय॥

चक्री दुण्डल कण्ठी च हस्ते रुचक मेखलम्।

इति पञ्चमुद्रोपेतं पञ्चतथागतविशुद्ध्या॥ भस्मेति वज्रसत्त्वा-विशुद्धम्। "मुद्राषट्कं प्रकीर्तितम्" इति। सम्यग्ज्ञानविशुद्धं नग्नत्वं सर्वधर्मनिरावरणप्रतिपादनाय॥ चत्वारश् चरणाः संग्रहवस्तुचतुष्केण॥ सूर्यमण्डले पादद्वयेनार्धपर्यण्क-ताण्डवधरम्। प्राप्तबोधिचित्तत्वात्॥ सकलत्रैधातुकैकमूर्तिप्र -


p.28


तिपादनाय पादाण्गुष्ठैकता दर्शिता॥ तथैवालाढपदधरता विघ्नविनाशाय॥ स्कन्धप्रतिलम्बिता पञ्चाशदक्षररचिता सार्द्रप्र-क्षरद्रक्तशिरोमाला। आलिकालिपञ्चाशदक्षरविशुद्ध्या॥ युगनद्ध-मार्गप्रदर्शिका स्कन्धे शिरोमालिका॥

शृण्गारवीरबीभत्सरौद्रहास्यभयानकैः।

करुणाद्भुतशान्तैश् च नवनाट्यरसैर् युतम्॥

इति॥ तत्र नैरात्म्यया सहैकरसता शृण्गारः। शमशानस्थितिर् वीरः। भृकुटीकरालता बीभत्सः। ज्वलत्प्रभाता रौद्रः। विकसितवदनता हास्यः। सार्द्रमुण्डमालाता भयानकः। सत्त्वानुग्र-हचित्तता करुणा। मयारूपत्वम् अद्भुतम्। प्रहीणरागादिक्लेशता शान्तम् इति एभिर् युक्तम्॥ द्विरष्टवर्षाकृतिललितगात्रं नैरात्म्या-समापन्नं भगवन्तम् आत्मानं पश्येत्॥ यद्वद् भगवान्। तद्वद् भगवती॥ किं च पञ्चमुद्रोपेतां शुष्कनरशिरोमालालंकृतगात्राम्। देवासुररक्तपूर्णकपालव्यग्रवामकराम्। अशेषक्लेशच्चेदनाय दक्षिणे कर्तिधारिणीम्। त्रैधातुकैकमूर्तिप्रति-पादनायैकमुखीम्। भगवदधररसम् आस्वदयन्तीम्। प्रत्या-


29


लीढपदेन परममहासुखरसरत्यां भगवत्समापन्नां चिन्तयेत्॥

षड्भुजं तु हेवज्रं षट्पारमिताविशुद्धितः। त्रिमुखम्। मूलमूखं कृष्णं। दक्षिणं शुक्लं। वामं रक्तम्। वामद्वि-भुजाभ्यां त्रिशूलवज्रघण्टाधरं। दक्षिणद्विभुजाभ्यां वज्रकर्तिधरं। शेषभुजाभ्यां कर्तिकपालसहिताभ्यां वज्रशृण्खला-समापन्नं मृतकाक्रान्तं पश्येत्॥

चतुर्भुजं पुनर् हेवज्रं चतुर्मारविशुद्धितः। दक्षिणे वज्रधरं। वामे कपालधरं। शेषभुजाभ्यां वज्रवाराहीसमापन्नम्। एकाननं शवाक्रान्तं चिन्तयेत्॥

द्विभुजहेवज्रं वामे कपालखट्वाण्गं। दक्षिणे ज्वलद्वज्रं। मृतकाक्रान्तं पश्येत्। अस्य तु प्रज्ञा वज्रा॥

षड्भुजादीनां तु शेषं षोडशभुजवद् वर्णालण्कारहूंभवादिरूपं द्रष्टव्यम्॥ तथा वज्रशृण्खलादीनां च नैरात्म्यावत्। सम्ज्ञामात्रभिन्नाः सर्वाः॥

एवंभूतं भगवन्तं स्वेष्टदेवताकारेण निश्चित्य। मन्थमन्-थानयोगाद् यद् उत्सृष्टं देवतीचक्रं प्राक् तस्य पूर्वादिदिग्वर्णचिह्-नादिक्रमो विशुद्धिद्वारेण प्रतिपाद्यते॥


p.30


तत्र पूर्वद्वारे गंकारजां गौरीं कृष्णां विनेयमारसत्त्वप्रबोधनाय। दक्षिणे कर्तिधारिणीं मिथ्यादृष्टिच्चेदनाय। वामे रोहितधरां संसारवासनाविनाशाय। ब्रह्माक्रान्तां पूपस्कन्-धस्वभावां चिन्तयेत्॥ दक्षिणे चौरीं चंकारजां रक्तवर्णां रागविनेयजनप्रबोधनाय। दक्षिणकरे कृपीटधरां प्रज्ञो-पायात्मकप्रतिपादनाय। वामे वराहधरां मोहविनाशार्थम्। शक्राक्रान्तां वेदनास्कन्धस्वभावां पश्येत्॥ पश्चिमे वेत्तालिं वंकारजां कनकवर्णां सत्त्वानां पौष्टिकार्थम्। दक्षिणे कूर्म धरां शून्यतार्थप्रतिपादनाय। वामे पद्मभाण्डधरां करुणास्वभावप्रतिपादनाय। उपेन्द्रारूढां संज्ञास्कन्धस्वभावां विकल्पयेत्॥ उत्तरे घस्मरीं घंकारजां मरक-तमणिनिभाम् अभिचारकर्मप्रसाधनार्थम्। सव्ये सर्पधरां द्वेषविशुद्धितः। वामे योगपात्रीधरां प्रज्ञोपायात्मकबोधनार्थम्। रुद्रारूढां संस्कारस्कन्धस्वभावां पश्येत्॥ ऐशान्यां पुक्कसीं पुंकारजां नीलवर्णां जम्भनकर्मप्रबोधनाय मानविशोधनार्थं च। दक्षिणे सिंहधरां मा -


p.31


रसैन्यविदारणाय। वामे परशुधराम् अशेषद्वन्द्वच्चेदनाय। यमाक्रान्तां पृथ्वीधातुस्वभावां चिन्तयेत्॥ आग्नेय्यां शंकारजां शबरीं शुक्लां शान्तसत्त्वप्रबोधनाय मानविशोधनार्थं च। दक्षिणे भिक्षुधराम् आदर्शादिपञ्चज्ञानप्रबोधनाय। वामे खिण्खिरिकाधराम् अद्वैतज्ञानावबोधनाय। कुबेरारूढाम् अब्धातुस्वभावां पश्येत्॥ नैरृत्यां चण्डालीं चंकारजां नभःश्यामां स्तब्धसत्त्वप्रबोधनाय स्तम्भनप्रसाधनार्थम्। दक्षिने चक्रधरां किञ्चिज्ज्ञानमात्रच्चेदनाय। वामे लाण्गलधराम् अज्ञानमूलोन्मूलनार्थम्। राक्षसाक्रान्तां तेजोधातुस्वभावां पश्येत्॥ वायव्यां डोम्बिनीं डंकारजां विश्ववर्णां विश्वार्थप्रतिपादनाय क्रूराशयजनप्रबोधनाय च। दक्षिणे ज्वलद्वज्रधराम् अभेद्यज्ञानप्रतिपादनाय। वामे तर्जनीधराम् अशेषदुष्टतर्जनाय। वेमचित्रिसमारूढां वायुधातु-स्वभावां चिन्तयेत्॥


p.32


ज्ञानमुद्रापक्षे तु नैरात्माम् उत्स्र्ज्य भट्टारके प्रविष्टां चिन्तयेत्॥ तथासनाभावात् भूचरीं खेचरीं च। तथान्यासाम् अप्य् अपरगौर्यादीनाम् उत्सर्गानुप्रवेशौ ज्ञातव्यौ। एतेनैतद् उक्तं भवति। यावद् अण्गन्यासस् तावद् उत्कर्षणम्॥

एताः सर्वास् त्रिनेत्रा ऊर्ध्वपिण्गलकेशाः। दंष्ट्राकरालवदनाः। पञ्चमुद्रोपेता नग्नाः। अर्धपर्यण्कताण्डवस्थाः। रौद्राः। द्विरष्टवर्षाकाराश् चन्द्रासना बोधिचित्तोत्सर्गसंभूता भगवतः कामेच्चासंपन्नाः॥

इदानीं गौर्यादीनाम् अष्टासनविशुद्धिः कथ्यते। रागविद्याश्र-वणपानभोजननिद्रातर्कश्रद्धानाम् अत्यन्ताभिनिवेशच्चेदनाय ब्रह्मादिवेमचित्रिपर्यन्तान्य् आसनान्य् उक्तानि॥


p.33


एवं यथानिर्दिष्टं मण्डलचक्रान्तर्गतं मातृगणपरिवेष्टितं स्वकायविनिर्गतसरश्मिसमूहव्याप्तनभस्तलं भगवन्तं सम्यग् विभाव्य ज्ञानचक्राकर्षणं कुर्यात्॥ आत्मसम-यहृत्पद्महूंभवकपालस्थसूर्ये नीलहूंकारकिरणाण्कुशैर् अनन्तलोकधातून् अवभास्य। ज्ञानचक्रं चानीय। पुरतो विचिन्त्या-र्घपाद्यादिकं दत्त्वा। संपूज्य संस्तुत्य च। जः हूं वं होः इत्य् अनेनाकर्षणप्रवेशनबन्धनतोषणानि कुर्यात्॥

ततः -

ओं वज्रगौरि आकर्षय जः। ओं वज्रचौरि प्रवेशय हूं।

ओं वज्रवेत्तालि बन्धय वं। ओं वज्रघस्मरि तोषय होः।

ज्ञानचक्रं समयचक्रे प्रवेश्य यथायथं। पयसि पय इव। श्रीहेरुकाहण्कारं दृढीकुर्यात्। यद्य् अप्य् आत्मसमयवज् ज्ञानसमयः। तथापि ज्ञानचक्रप्रवेशानन्तरं दिव्भुजैकमुखं रक्तं स्वाभप्रज्ञाज्ञानसमयं स्वहृदये चिन्तयेत्॥ तस्य हृदये समाधिनाथं च॥ ततो भगवत्याश् च तथा ज्ञानसमयहृत्पद्मस्थ-अं-कारजकर्तिकावस्थितचन्द्रस्थ-अं-कारं पश्येत्॥ अष्टयोगिनीनां ज्ञानसमयहृत्पद्मचन्द्रेषु स्वस्वबीजजनितचिह्नानि पुनश् चन्द्रस्थतत्तब्दीजाधिष्ठितानि पश्येत्॥

ज्ञानचक्रम्॥१६॥


p.34


17 अभिषेकः

ज्ञानचक्रसमयचक्रयोर् एकीकरणसमये स्वकायविनिर्गतरश्मिभिर् आकृष्य। पञ्चतथागतान् श्रीहेरुकरूपापन्नान् समण्डलात्मकान् वज्रयोगिनीमहाबोधिसत्त्वक्रोधादींश् चाकाशे संमुखं दृष्ट्वा। संपूज्य संस्तुत्य च। अभिषेकं प्रार्थयेत्। अभिषिण्चन्तु मां सर्वतथागता इति। ते च पञ्चतथागताः पञ्चामृतपूर्णविजयकलशादिभिः -

यथा हि जातमात्रेण स्नापिताः सर्वतथागताः।

तथाहं स्नापयिष्यामि शुद्धदिव्येन वारिणा॥

ओं आः सर्वतथागताभिषेकसमयश्रिये हूं।

इति पठन्तः स्नापयन्ति। इत्य् अभिषेकः॥१७॥

18 मुद्रणम्

तत्समये वज्रयोगिन्यो जयजयकारं कुर्वन्ति। बोधिसत्त्वाः पुनः संतुष्टम् आत्मानं पश्यन्ति। क्रोधादयो नन्दन्ति। आकाशान् नानासुगन्धिपरिमलपुष्पवृष्टिर् भवति। कुण्कुमचन्दनवृष्टिश् च नानारत्नानि च पतन्ति। नाट्यवाद्यस्तुतिशब्देनानन्तलोकधातौ महाकोलाहलम् उच्चलति॥ अभिषेके सति भगवतः श्रीरसि चित्तेशः स्यात्। तथा भगवत्याः। अक्षोभ्यवैरोचनरत्नसंभवामिताभैर् मुद्रयेद् 


p.35


गौर्याद्याः। पुनस् तैर् एव बुद्धैः पुक्कस्याद्याः। खेचरीभूचरीमुद्रणं मोहरागाभ्याम्॥ ततो वीणादयः पूजादेव्यः स्वस्वपूजाविशेषैः पूजयन्ति प्रभुम्॥ तदनु स्तुवन्ति च लोचनादयः स्तुतिगीत्या।

तुहु परिवेट्टि जोणिसत्थें तुहुं वर लद्धा अप्पण चित्तें।

तै जग साल चराचर सोहि करुणाचित्तें सतु संबोहि॥

मापबञ्चे साहसि कज्ज तुट्ट हो मणे सिरिहेरुरज्ज॥

तथागतबोधिसत्त्वविद्यादेव्यः क्रोधादयश् च हृदयोपहृदय-मालाष्टपदमन्त्रैर् आकाशे स्थित्वा संमुखं वदन्तीति॥

मुद्रणम्॥१८॥


p.36


19 सुधास्वादः

ततो मातृगणमध्ये विद्यायुतो वज्र्य् अमृतभोजनं निष्पादयति। यंकारेण वायुमण्डलम् अर्धचन्द्राकारं नीलं। तदनु पावकं रंकारजं रक्तं त्रिकोणं। तस्योपरि आःकारजं त्रिमुण्डोपरि पद्मभाजनं बहिःशुक्लं मध्यरक्तम् आःकाराधिष्ठितं च। तन्मध्ये बुंकारादिमन्त्रेण भक्ष्यभोज्यादिकं पञ्चामृतपञ्चप्रदीपं निष्पाद्य। ओंकाराधिष्ठितं च। तदुपरि आःकारेण चन्द्रमण्डलं। तदुपरि हूंभवं शुक्लवज्रं पश्येत्॥

तदनु वातप्रेरिताग्नितापाद् एव पारदरसाकारवद्भूतं हूं-आः-ओं-कारैः शोधनबोधनप्रज्वालनं कृत्वा। त्रितत्त्वरश्मिभिर् अनन्तापर्यन्तबुद्धबोधिसत्त्वादीन् अनुराग्य। लोकधातुषु गत्वा। ज्ञानामृतम् आनीय। एकीकृत्य। तेनैव वज्रेणालोड्य। समरसीकृत्य। वज्रम् अमृते विलीनं पश्येत्॥ वज्राब्जस्ंयोगाद् अतिशीतलं पश्येत्। तथागतज्ञानामृतप्रवेशाद् इति॥ निष्पाद्य। त्रितत्त्वेनाधिष्ठाय। श्रुवाकरेणाकृष्य। हूंभववज्रजिह्वारश्मिनाकृष्य। समाधिसमये तद् अमृतं शान्तिकादिकर्मभेदेन जुहोति। तन्माण्डलेयीस् तद्वद् ध्यायाद् इति॥ सुधास्वादः॥१९॥


p.37


20 जगदर्थः

मण्डलराजाग्री नाम समाधिः

तदनु मण्डलाधिपतितन्माण्डलेयीस्फरणेनानेकदेवतानिर्माणेन यस्य यस्य यद् रूपं तत्र ये विनेयाः सन्ति तत्र गत्वा तान् विनीयागत्य च स्वस्वकाये तन् निर्माणम् उपसंहरेद् वज्री। जगदर्थः॥ २०॥ उत्सर्गादिजगदर्थपर्यन्तेन मण्डलराजाग्री नाम समाधिः॥॥

21 षडण्गम्

कर्मराजाग्री नाम समाधिः

तदनु ज्ञानसमयहृत्पद्मस्थचन्द्रसूर्यान्तर्गतहूंकारनिर्गत-रश्मिसमूहानुप्रवेशतः प्रथमं भावयेत् कृष्णं समाधिनाथं। तं परिणम्य बिन्दुरूपं ध्यात्वा। तद्रश्मिभिर् निःसृत्य भगवतो रोमकूपतः समस्तमन्दलमान्दलेवीम् अधिव्याप्य। महाकृष्णाम् पश्येत्॥ एवं द्वितीत्य् रक्ताम्। तृतीये पीताम्। चतुर्थे हरिताम्। पञ्चमे नीलवर्णाम्। षष्ठे सिताम्॥ शान्तिकादिकर्मणि यथायोगं ज्ञातव्यम् इति। षडण्गम्॥२१॥


p.38


22 प्रभास्वरम्

एवं षडण्गं भावयित्वा प्रभास्वरम् आरभेत्। आलिकालिपण्क्तिं संस्फार्य श्वासोच्च्वासतः। श्वासपथेनाल्य् उच्च्वासपथेन कालि निःसृत्य। तद्रश्मिभिर् लक्षणव्यञ्जनानि संशोध्य। सचराचरेण सहैकीभूय। तत्रैव प्रवेश्य स्वयं। गौर्यादीन् नैरात्म्यां च संहार्य। आत्मना च वज्रधरपदं कल्पितं तत् सर्वं प्रभास्वरं पश्येत्। सर्वभावतः॥ तत्र प्रभास्वरप्रवेशानुक्रमः। गौर्यादयो बोधिचित्तविनिर्गता इति विदित्वा। प्रथमं गौरी स्वविषयं गृहीत्वा। भगवद्रूपस्कन्धे प्रविष्टा। एवं चौरी वेत्ताली घस्मरी नैरात्म्या च स्वस्वविषयं गृहीत्वा। वेदनासंज्ञासंस्कारविज्ञानेषु यथायोगं प्रविष्टाः। तथा पृथिव्यादिधातुषु पुक्कस्यादयः प्रविष्टाः॥ एवं बाह्यमातृगणं प्रवेश्य। ततो ऽध्यात्मस्थितपञ्चस्कन्धानां क्रमेण प्रवेशः। रूपस्कन्धस्य वेदनायां। वेदनायाः संज्ञायां। तस्याः संस्कारेषु। संस्काराणां विज्ञाने। नैरात्म्या तस्मिन् मता। खेचरी भूचरी च पक्षद्वयम् आसाद्य प्रभास्वरं गतेति निर्वाणं सर्वशून्यम् इति यावत्॥ इति प्रभास्वरं॥२२॥


p.39

23 व्युत्थानम्

अथ प्रभास्वराद् व्युत्थानम्। प्रभास्वरो ऽसौ परमयोगो व्युत्थानं प्रति। अत एव झटिति सहजहेरुकज्ञानम् उत्पद्यते॥ द्वात्रिंशल्लक्षणधरं व्यञ्जनाशीतिभूषितं चआयामायोपमं शान्तं भावयित्वा समासेन मण्डलेशं विभावयेत्॥ ज्ञानालोकवज्रसमाधियोगेन सहजोत्पत्तिः। पश्चात् सहजम् आदौ कृत्वा प्रभास्वरपर्यन्तेन यथा स्यात्। तथा प्रभास्वरात् पुनः सहजं सहजात् पुनर् अनेनैव क्रमेण ध्यातव्यं। यावद् आबोधिलाभः स्यात्॥ व्युत्थानम्॥२३॥

24 मन्त्रजापः

मन्त्रजापं प्रति षोडशभुजादिरूपं भगवन्तम् आदौ निष्पाद्य डाकिनीचक्रं पूर्ववत् चिन्तयेत्॥ एवं चतुःसंध्याक्रमेण - प्रातःसंध्या। मध्याह्नसंध्या। अपराह्नसंध्या। अर्धरात्रसंध्या - भावनाक्रमो दर्शितः॥ भावनात् खिन्नो मन्त्री मन्त्रं जपेद् इति॥ तत्रायं क्रमः। चक्रमध्ये तु संपुटयोगेन श्रीहेरुकाकारम् आत्मानं भावयित्वा। मन्त्राक्षराणि मण्डलेश्वरस्य माण्डलेयीनां च भगवतीमुखान् निश्चार्य। भगवन्मुखे प्रविश्य। अवधूतीपथेन वज्रमार्गात् पद्मे प्रविश्य। मन्त्राक्षराणि सरश्मिकानि पुनर् भगवतीमुखात् स्वमुखम् आगतानि। इत्य् अनेनाखेदं यावच् चान्तिकादिभेदेन वर्णयोगतो जपेत्॥ दोलाजापः॥॥


p.40


हृत्सूर्ये मन्त्राक्षराणि सरश्मिकान्य् ऊर्ध्वशिरस्कानि मण्डलाकारेणोपविष्टानि ध्यातव्यानीति पिण्डजापः॥॥

तन् मन्त्राक्षराणि मण्डलेश्वरस्य माण्डलेयीनां च सर्वे दीर्घ-नादेनोच्चारयन्तीति बोध्या बोद्धव्यम् इति समयजापः॥॥

जापश् च पुनः कर्तव्यो हृदयोपहृदयमालामन्त्राद्युपदेशतः -

ओं देव पिचुवज्र हूं ३ फट् स्वाहा। षोडशभुजस्य॥

ओं किटि वज्र हूं ३ फट् स्वाहा। षड्भुजस्य॥

ओं ज्वलज्वलभ्यो हूं ३ फट् स्वाहा। चतुर्भुजस्य॥

ओं त्रैलोक्याक्षेप हूं ३ फट् स्वाहा। द्विभुजस्य॥

सर्वेषाम् एव हृदयं जपेत्॥ उपहृदयं पुनः -

ओं वज्रकर्तरिहेवज्राय हूं ३ फट् स्वाहा॥

ओं अष्टननाय पिण्गोर्ध्वकेशवर्त्मने चतुर्विंशतिनेत्राय षोडशभुजाय कृष्णजीमूतवपुषे कपालमालानेकधारिणे आध्मातक्रूरचित्ताय अर्धेन्दुदंष्ट्रिणे मारय ३ कारय २ गर्जय २ तर्जय २ शोषय 


p.41


२ सप्तसागरान् बन्ध २ नागाष्टकान् गृह्ण २ शत्रून् ह हा हि ही हु हू हे है हो हौ हं हः फट् स्वाहा॥

इति भगवतो मुलमन्त्रः। एवं मालामन्त्रः॥

ओं अष्टाननाय हूं २ फट्।

ओं पीण्गोर्ध्वकेशवर्त्मने हूं २ फट्।

ओं चतुर्विंशतिनेत्राय हूं २ फट्।

ओं षोडशभुजाय हूं २ फट्।

ओं कृष्णजीमूतवपुषे हूं २ फट्।

ओं कपालमालानेकधारिणे हूं २ फट्।

ओं आध्मातक्रूरचित्ताय हूं २ फट्।

ओं अर्धेन्दुदंष्ट्रिणे हूं २ फट्।

इति भगवतो ऽष्टपदमन्त्रः।

ओं अं नैरात्मे हूं फट् स्वाहा॥

ओं वज्रडाकिनीये अं हूं फट् स्वाहा॥

भगवत्या हृदयोपहृदयमन्त्रौ॥


p.42


ओं अं आं ईं उं ऊं ऋं ॠं ल्ं ळ्ं एं ऐं ओं औं अं फट् स्वाहा॥

भगवत्या मूलमन्त्रः॥

ओं अं आं हूं २ फट्। ओं इं ईं हूं २ फट्। ओं उं ऊं हूं २ फट्। ओं ऋं ॠं हूं २ फट्। ओं ल्ं ळ्ं हूं २ फट्। ओं एं ऐं हूं २ फट्। ओं ओं औं हूं २ फट्। ओं अं हूं २ फट्।

भगवत्या अष्टपदमन्त्रः॥ यदि गौर्यादीनां मन्त्रजापः क्रियते तदा ताम् आलिण्गनं कर्तव्यः। भगवतीं च तस्यासने चिन्तयेत्। तत्रायं मन्त्रः -

ओं वज्रगौरीये हूं २ फट् स्वाहा। ओं वज्रचौरीये हूं २ फट्। स्वाहा। ओं वज्रवेत्तालीये हूं २ फट् स्वाहा। ओं वज्रघस्मरीये हूं २ फट् स्वाहा। ओं वज्रपुक्कसीये हूं २ फट् स्वाहा। ओं वज्रशबरीये हूं २ फट् स्वाहा। ओं वज्रचण्डालीये हूं २ फट् स्वाहा। ओं वज्रडोम्बिनीये हूं २ फट् स्वाहा॥

मन्त्रजापः॥२४॥


p.43


25 बलिः

इदानीं बलितत्त्वम् उच्यते। शून्यताधिमोक्षेण सहजहेरुकं विभाव्य। पूर्वोक्तक्रमेन समुद्भूतं क्रोधेश्वरम् अष्टास्यादिमहाघोरं द्वेषवज्रं विभावयेत्॥ एवं द्वेषवज्रसमाधिस्थो योगीहूंकारोद्भूतान् दश क्रोधान् ज्वालामालाकुलान् सर्वान् उत्सृज्य पूर्वादिदिक्षु यमान्तकादीन् प्रेषयेत्॥ इन्द्रादिविघ्नगणान् आनीय। आज्ञापयेन् मन्त्रेण ओं सुम्भ निसुम्भेत्यादिना शान्तिकादिकर्मभेदेन॥

तदनु गजभाजनपरिणतं वज्रं क्षोणीभाजनपरिणतां च वज्रघण्टां विचिन्तयेत्॥ एवम् अन्येषाम् अपि योज्यम्। त्र्यक्षरेण धर्मोदयत्रयं रक्ताष्टदलकमलवसितम् उपर्य् उपरि पश्येत्॥ दश क्रोधैर् आनीतविघ्नगणान्।

ओं इन्द यम जल जक्ख भुद वह्नि वायु रक्ख

चन्द सुज्ज माद बप्प तलपाताले अट्टसप्प साहा॥


p.44


इत्य् अभिमन्त्र्य। आकर्षणादिकं कुर्यात् -

ओं वज्रगौरि आकर्षय जः। ओं वज्रचौरि पद्मत्रये प्रवेशय हूं। ओं वज्रवेत्तालि स्वस्वस्थानेषु बन्धय वं। ओं वज्रघस्मरि वशघण्टया वशीकुरु होः।

इति कृत्वा वीक्षयेत्॥ तत्र मध्यपुरे प्राग्दल इन्द्रो वज्रपाणिश् चन्द्रासनश् चन्द्रप्रभः शुक्लैरावतारूढः सहस्राक्षो द्विभुजैकमुखो ललिततनुः सर्वालण्कारधरो रत्नमुकुटी पीतः॥ दक्षिणे यमो द्विभुजैकमुखो दक्षिणे दण्डपाणिः सर्वालण्कारधरः पिण्गोर्ध्वज्वलत्केशः खर्वलम्बोदरः कृष्णो महिषारूढः सूर्यासनः सूर्यप्रभः॥ पश्चिमे वरुणः श्वेतो ललिततनुर् एकमुखो द्विभुजो दक्षिणकरे कुमुदं फणाण्कितशिराः सर्वालण्कारधरो रत्नमुकुटी मकरारूढश् चन्द्रासनश् चन्द्रप्रभः॥ उत्तरे यक्षः पीतो ललिततनुर् एकमुखो द्विभुजो दक्षिणे श्रीफलं सर्वालण्कारधरो रत्नमुकुटी मनुष्यारूढश् चन्द्रासनश् चन्द्रप्रभः॥ ऐशान्यदले भूतपतिस् त्रिनेत्रो जटामुकुटी शशिधृतो भस्मोद्धूलितविग्रहो ललिततनुर् एकमुखो द्विभुजो दक्षिणे त्रिशूलं शुक्लो व्याघ्रचर्माम्बरधरः सर्वास्थ्याभरणो वृषभवाहनश् चन्द्रास - 


p.45


नश् चन्द्रप्रभः॥ अग्निदले वह्निर् लोहितो जटामुकुट्य् एकमुखः खर्व लम्बोदरो द्विभुजो ऽक्षसूत्रकमण्डलुधरो रक्तचीवरवासो कपिलश्मश्रुश् चागारूढः सुर्यासनः सूर्यप्रभः॥ नैरृत्यदले राक्षसः कृष्णः पिण्गोर्ध्वमुक्तकेशः खर्वो विकृत-दंष्ट्राकरालास्य एकमुखो द्विभुजः कट्टारकपालधरः क्रुद्धः सभ्रुभण्गो नग्नः शवोपरि सूर्यासनः सूर्यप्रभः॥ वायव्यदले वायुः श्यामो रत्नमुकुट्य् एकमुखो ललिततनुर् द्विभुजो द्वाभ्यां वातपट्टधारी सर्वालण्कारधरो पीतमृगारूढश् चन्द्रासनश् चन्द्रप्रभः॥ वरटके पृथ्वी पीता सर्वालण्कारधरा। एकमुखा द्विभुजा। घटहस्ता वामे। दक्षिणे धान्यव्यञ्जिका पण्कजस्थिता ललिततन्वी रत्नमुकुटिनी दिव्यवस्त्रा चन्द्रासना चन्द्रप्रभा॥ प्रेताश् च पृथिवीम् आवेष्ट्य संस्थिता द्रष्टव्याः॥ इन्द्रादयः पञ्च वामे नागपाशधराः। सर्वे पुनः प्रत्यालीढपदे स्थिता इति विचिन्त्य॥॥


p.46


ऊर्ध्वधर्मोदयस्थपद्माष्टदलेषु। पूर्वदले चन्द्रः श्वेतः श्वेताश्ववाहनो रत्नमुकुटी कुमुदपाणिः सर्वालण्कारधरश् चन्द्रासनश् चन्द्रप्रभः॥ दक्षिणदले सूर्यो रक्तवर्णः सर्वालण्कारधरो रत्नमुकुटी भुजाभ्यां कमलधारी हरिताश्ववाहनः स्वसनात्मप्रभः॥ पश्चिमदले बुधो गौर्वर्णो रत्नमुकुटी शर्हस्तो मूषकवाहणः सूर्यासनः सूर्यप्रभः॥ उत्तरदले शुक्रो नीलवर्णो रत्नमुकुटी शक्तिपाणिः सूर्यासनः सूर्यप्रभः॥ ऐशान्यदले मण्गलो रक्त ऊर्ध्वमुक्तकेशः पद्मधरः सूर्यासनः सूर्यप्रभः॥ अग्निदले बृहस्पतिः पीतो रत्नमुकुटी गदाधरः सुर्यासनः  सूर्यप्रभः॥ नैरृत्यदले शनैश्चरः कृष्णः पिण्गलकेशः त्रिशुलधरः सूर्यासनः सूर्यप्रभः॥ वायव्यदले राहुकेतू महाकृष्णधूम्रवर्णौ सूर्यासनौ सूर्यप्रभौ। संसारचक्रम् आकृष्य भक्षणाभिनयो राहुः। केतुः संपुटाञ्जलिकरः॥ मध्यवरटके ब्रह्मा चतुर्मुखस् चतुर्भुजस् त्रिदण्डधरो ऽभयपाणिः शेषभुजाभ्याम् अक्षसूत्रकमण्डलुधरः पीतो हंसवाहनः पीनो जटीयज्ञोपवीती खर्वलम्बोदरश् चन्द्रासनश् चन्द्रप्रभः॥ ब्रह्माणम् आवेष्ट्य ब्रह्मकायिका ब्रह्मपुरोहितास् तुषिता यामा अकनिष्ठादयः सर्वदेवैः परिवृता द्रष्टव्याः॥॥


p.47


अधरधर्मोदयस्थपद्माष्टदलेषु दिग्विदिक्क्रमेण। वासुकिः पीतः। पद्मः श्वेतः। कर्कोटको रक्तः। तक्षकः कृष्णः। ऐशान्यदले शण्खपालः पीतः। महापद्मः श्यामः। अनन्तः पाण्डरः। कुलिकः कर्बुरः॥ एते चाष्टौ रत्नमुकुटिनो मनुष्यार्धकाया मनुष्यमुखाः सर्वालण्कारधारिणः सफणाण्कितशिरसः॥ वरटके शेषोनागो रत्नमुकुटी श्वेतो नरमुखः फणी॥ शेषम् आवेष्ट्यासुरनारकसंघाता द्रष्टव्याः॥॥

इत्थम् एतान् स्थिरीकृत्य। पुनस् तान् परिणाम्य। श्रीहेरुकरूपेण निष्पाद्य। कायवाक्चित्तबीजप्रयोगतः। ऊर्ध्वस्थाः स्वस्वरूपं परावृत्य। ओंकारजाः कायवज्राकाराः शुक्ला वैरोचनमुकुटिनः। अधःस्थिताः स्वस्वरूपं परावृत्य। आःकारजा वाग्वज्राकारा रक्ता अमिताभमुकुटिनः। मध्यस्थाः स्वस्ववर्णचिह्नसंस्थानपरिणता हूंकारजाः कृष्णाश् चित्तवज्राकारा अक्षोभ्यमुकुटिनः॥ सार्वकर्मिकार्थाय भुजमुखादिकं पुनर् यथात्मनस् तथात्मनस् तेषां। अपरकर्माहण्कारेण यथायोगतः कर्तव्यम्। सर्वेषां तथा यथात्मनो रूपम्॥

एवं संचिन्त्य चित्तकायवाग्वज्राणां श्रीहेरुकरूपापन्नानाम् अर्घादिकं दद्यात्। तत्र कुशविडिकया प्रोक्षणं शिरसि।


p.48


संदंशमुद्रया पाद्यं पादे। शण्खमुद्रया वामहस्तस्थशण्खं दक्षिणहस्तेन प्रच्चाद्याचमनं वक्त्रे। अर्घं तु शिरस्य् अर्घमुद्रया त्रिधा।

ओं प्रवरसत्काराभ्युक्षणं प्रतीच्च स्वाहा।

इत्यादिमन्त्रेण सर्वं दत्त्वा। संपूज्य पुष्पधूपदिना। मूलहृद-योपहृदयमन्त्रस्तुतिपूर्वकं पूर्ववद् अमृतास्वादविधिना बल्युपहारम् अमृतत्वेन निष्पाद्य। कमलावर्ताद्यभिनयपूर्वकम् आलिण्गनानन्तरे मुद्राबन्धं कृत्वा। तेषां जिह्वाग्रे स्वस्य च सितं हूंकारोद्भवं वज्रं यवफलप्रमाणं एकशूकं विभाव्य। वज्रोल्लालनपूर्वकं घण्टां वादयन् हूंभववज्र-जिह्वारश्मिनालिकाकृष्टम् आत्मना परिभुज। एतान् भोजयेत्॥ एवं हूंभववज्रजिह्वानालिकयास्वादयन्तीति विचिन्तयन् -

एदं बलिं भुञ्ज जिण्घ फुल्लधूप मांस विण्घ।

अम्ह कज्ज सव्व साध खन्ति खुणि फेड गाद॥

इति अस्याः पूर्वार्धेन भोजनं निवेदयेत्। अपरार्धेन कार्यं च॥


p.49


तदनु वज्रवज्रघण्टाधरो मन्त्री कमलावर्ताद्यभिनयपूर्वकं वज्रोल्लालनं घण्टावादनं चाष्टस्वस्थानेषु कृत्वा। ओं अकारो मुखं सर्वधर्माणाम् आद्यनुत्पन्नत्वात्। ओं आः पूण् फट् स्वाहेति पठन् संतोषणं चानेनैव कुर्याद् इति। संध्यागीतं च काकलिकया गात्व्यम्-

कोल्लैरे ट्ठै बोला मुम्मुणिरे कक्कोला।

घनं किबिड हो वाज्जै करुणे कि न रोला॥

तहिं बल खाज्जै गाढें माणा पिज्ज।

हले कालिञ्जर पणि दुन्दुर तहिं वाज्जि॥

चसम कत्थुरि सिह्ला काप्पुर ला।

मालन्धण शालि तहिं भरु खा॥

पेक्खण खेट करन्ते शुद्धाशुद्ध न नुणि।

निरंशु अण्गे चडाबि तहिंज सराब पणि॥

मलाजे कुन्दुरु वाट डिण्डिम तहिं न वाज्जि॥

नूलमन्त्राष्टपदहृदयोपहृदयस्तुतिं कृत्वा। शताक्षरं पठेत् -

ओं श्रीहेरुक समयम् अनुपालय। हेरुकत्वेनोपतिष्ठ। दृधो मे भव। सुतोस्यो मे भव। सुपोस्यो मे भव। अनुरक्तो मे भव।


p.50


सर्वसिद्धिं मे प्रयच्च। सर्वकर्मसु च मे चित्तं श्रेयः हूं। ह ह ह ह होः भगवन् सर्वतथागतवज्र मा मे मुञ्च हेरुको भव महासमयसत्त्व आः हूं फट्॥

तदनु सत्याधिष्ट्ःआनम् -

देव्यः प्रमाणं समयः प्रमाणं

तदुक्तवाचश् च परं प्रमाणम्।

एतेन सत्येन भवेयुर् एता

देव्यो ममानुग्रहहेतुभूताः॥

अनुकम्पां पठेत् -

भवशमसमसण्गा भग्नसंकल्पसण्गाः

खम् इव सकलभावं भावतो वीक्षमाणाह्।

गुरुतरकरुणाम्भःस्फीतचित्ताम्बुनाथाः 

कुरुत कुरुत देव्यो मय्य् अतीवानुकम्पाम्॥

तदन्व् आचमनहस्तप्रोञ्चनसुगन्धिताम्बूलपुष्पादिकं संपूज्य। कृताञ्जलिपुट ईप्सितार्थं विज्ञाप्य। राजादेः शुभाशंसां कृत्वा। यो ऽसौ धर्मेत्यादिगाथां पठित्वा। क्षमाप्य। ततो विसर्जयेत् -


p.51


ओं वज्र मुः। ओं आः हूं फट् ३॥

ओंकारेण प्रणिधानम्। आःकारेण संतोषणम्। हूंकारेण तृप्तीकरणम्। त्रिफट्कारेणोपसंहारं च कुर्यात्॥

अनेन बलिना यदि सर्वभूतान्

पूजां प्रकुर्वन्ति शुभाय योगिनः।

भवेत् तदा तेषु सुखं त्व् अनाविलं

देवाश् च तुष्यन्ति जगत्सुभूतयः॥

वश्याभिचारं रिपुसैन्यनाशनं

चोच्चाटनं मारणाकर्षणं च वै।

शान्तिं सुखं पौष्टिकं भवेच् च दद्याद्

बलिं यद् इह भूतगणाय शश्वत्॥

षडण्गादौ बलितत्त्वपर्यन्तेन कर्मराजाग्री नाम समाधिः॥॥


p.52


भावनाशक्त्या यदा वातगृहीतो भवेत् तदा प्रथमं तस्य प्रतीकारहेतोः शिरस्य् ओंकारजं चन्द्रमण्डलं ध्यात्वा। चेतस्य् अन्तरितं महामृतवृष्ट्यात्मानं पुष्टं पश्येत्। यावत् स्वास्थ्यं प्राप्नोति॥२५॥

26 सूक्ष्मयोगः

सूक्ष्मयोगो नाम समाधिः

ततश् चक्रमध्यस्थितो मन्त्री नाभौ हृदि तथा कण्ठे ललाटे पद्मचतुष्टयं चतुःषष्ट्यष्टषोडशद्वात्रिंशद्दलं यथाक्रमं ध्यात्वा नाभौ बीजं ध्यायात्॥ चण्डालीरूपं दीपशिखेव ज्वलित्वा। धर्मचक्रस्थपञ्चतथागताल् लोचनादींश् च दग्ध्वा। आलिकालिश्वासोच्च्वाससमन्वितं सम्भोगचक्रं च महासुखचक्रस्थितं विञानरूपिहंकारं च दग्ध्वा। ततो महासुखहेतुभूतं बोधिचित्तम् आदाय। भगवता सार्धं तथतैकरसं कृत्वा। पुनश् चन्द्रं सूर्यं करोटं च गृहीत्वा। हृद्बीजे प्रवेशयेत्॥ तद् बीजं देदीप्यमानं सनादं पञ्चतथागतात्मकम् अभूत्॥ पुनर् नादाद् दीपशिखेव निःसृत्य। ईर्ष्यारूपम् ऊकारं रा -


p.53


गरूपहकारे। हकारं पिशुनात्मकरेखायाम्। रेखाम् अपि मोहरूपार्धेन्दौ। अर्धेन्दुम् अपि द्वेषरूपे बिन्दौ। बिन्दुं नादे। नादं अपि सूक्ष्मां कोटिं विभावयेत्॥ तया सहैकभावेन चित्तस्थैर्यकरणं भवेन् न संशयः। चित्तस्थैर्यमात्रेण। अनाभोगेन। स्फरयेत् ताथागतं व्यूहं योगिनीजालं च मण्डलचक्रम् अपि विस्तरम् अनन्तलोकधातुव्यापकम् इति॥ सूक्ष्मयोगो नाम समाधिः॥२६॥

27 द्वितीयो न्यासः

तदुत्थाय यदि वा विहरेद् योगी कवचद्वयं कृत्वा द्विभुजहेवज्रयोगतः। अक्षोभ्यश् चक्रीरूपेण हूं शिरसि। अमिताभो दिव्यकुण्डलरूपेण ह्रीः कर्णयोः। रत्नेशः कण्ठे मालारूपेण त्रां। वैरोचनो रुचकरूपेण ओं हस्तयोः। अमोघसिद्धिर् मेखलारूपेण खं कट्याम्। वज्रसत्त्वो भस्मरूपेण हं सर्वाण्गे। इति कवचं चिन्तयेत्॥


p.54


चक्षुषोर् मोहवज्री च आं। श्रोत्रयोर् द्वेषवज्रिका अं। घ्राणे मात्सर्यकी ख्याता इं। वक्त्रे रागवज्रिका ईं। स्पर्श ईर्ष्यवज्री च उं। मनो नैरात्मयोगिन्य् अं॥

कवचम् एभिर् महासत्त्व इन्द्रियाणां विशुद्धये।

इति। द्वितीयो न्यासः॥२७॥

28 विहरणम्

एतेन वज्रयोगिनीतथागतादिभिः परिघटितः सन्नाहसन्नद्धः सिंहवद् विचरेद् योगी द्विभुजहेवज्रयोगतस् त्रैलोक्यागारमध्ये॥ तथा च नागार्जुनपादाः -

कूटागारम् इदं न च त्रिभुवनं न प्राणिनो ऽमी जिनाश्

चक्रेशो ऽस्मि न मानुषो न विषया नाक्षाणि न क्ष्मादयः।

रूपाद्या न च धर्मतात्मकतया ते माण्डलेया इमे

विश्वं मण्डलचक्रम् आकलयतश् चेतः किम् उद्भ्राम्यसि॥

इति विहरणम्॥२८॥


p.55


29भोजनं

तदनु यत् किञ्चिद् उपार्जितं भक्ष्यभोज्यादिकं द्रव्यं लब्धं वा योगिना पूर्वव्द् विशोध्य। त्र्यक्षरेणाधिष्ठाय। अमृतास्वादविधिना भक्षयेद् इति भोजनं॥२९॥

30 चरणम्

लोभं मोहं भयं क्रोधं व्रीडाकार्यं च वर्जयेत्।

निद्राम् आत्मानम् उत्सृज्य चर्या क्रियते न संशयः॥

अत एव -

शरीरं दानं दत्त्वा पश्चाच् चर्यां समारभेत्।

भागाभागविचारेण तस्माद् दानं न दीयते॥

भक्ष्यं भोज्यं तथा पानं यथाप्राप्तं तु भक्षयेत्।

ग्रहम् अत्र न कर्तव्यम् इष्टानिष्टविकल्पतः॥

पञ्चवर्णसमायुक्तम् एकवर्णं तु कल्पितम्।

अनेकेनैकवर्णेन यथाभेदो न जायते॥


p.56


एकवृक्षे श्मशाने वा भावना कथिता शुभा।

मातृगृहे तथा रात्रौ अथवा विजने प्रान्तरे॥

किञ्चिद् ऊष्मे तु संप्राप्ते चर्यां कर्तुं यदीष्यते।

सिद्धिं गन्तुं यदीच्चास्ति चर्यया त्व् अनया चरेत्॥

इत्यादिविस्तरः॥ चर्यत इति चर्याचरणं। स्थितिर् व्यवहार आचार इति यावत्। किञ्चिदूष्मप्राप्त्यपेक्षया चोक्तम्॥ मृदुश् च योगी रात्रौ स्वस्थाने निभृतं चरेत्। यावत् किञ्चिल् लाभः स्यात्॥ कुत एतत्-

यथा भेदो न जायते।

इति वचनात्॥ लाभे सति करोतु न करोतु वा स्वतन्त्र एवासौ। इति चरणम्॥३०॥

31 श्यनम्

ततो ऽपरसन्ध्यायां शयनेच्चया श्रीहेरुकयोगम् आमुखीकृत्य सिंहवच् चयीत॥ इति श्यनम्॥३१॥

32 पुनरुत्थानम्

उत्थानकाले पुनः पुक्कस्यादिगीतसंचोदिते सत्य् उत्थानं पूर्वोक्तम् एव पूजाचक्रादि चरणपर्यन्तं सर्वं त्रिसन्ध्यं कुर्यात्।


p.57


यावन् मण्डलचक्राकारः प्रत्यक्षीकृतः स्यात्। उत्पत्तिक्रमसाक्षात्करणे -नादिकर्मिकयोग्य् अष्टभूमीश्वरो बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रामति॥ उक्तं च भगवता -

यावत् स्याद् भावनायोगस् तावत् स्याद् आदिकर्मिकः।

आदिकर्मिकयोगेन चाष्टमीं भूमिम् आप्नुयात्॥

पुनर् अप्य् उत्थानम्॥३२॥

अवसानम्

निर्विकल्पो यदा धीरः स्थितिं भित्त्वा तु लौकिकीम्।

आचरेत् सर्वकार्याणि बुद्धाः पश्यन्ति तं सदा॥

श्रीमद्धेरुकतन्त्रराजगदितं पञ्चक्रमानुत्तरं

श्रीजालन्धरिभद्रपादविवृतं गूढं गुरूणां मतम्।

तत् प्राप्याखिलसत्त्वराशिसुभगं संग्रन्थ्य पुण्योत्तमं प्राप्तं तेन जगत् प्रयातु नियतं हेवज्ररूपं परम्॥


p.58

पञ्चक्रमानुत्तरहेवज्रप्रकाशः समाप्तः॥॥ कृतिर् इयं महामण्डलाचार्यश्रीराहुलगुप्तपादानाम् इति॥॥

ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्य् अवदत्।

तेषां च यो निरोध एवंवादी महाश्रमणः॥

देयधर्मो ऽयं प्रवरमहायानयायिनः परमोपासकश्रीराणस्य। यद् अत्र पुण्यं तद् भवत्व् आचार्योपाध्यायमातापितृपूर्वण्गमं कृत्वा सकलसत्त्वराशेर् अनुत्तरज्ञानफलावाप्तय इति। भगवति शाक्यसिंहे परिनिर्वृति शत २८०० वर्ष ११ मास ४ दिवस ५ शकाव्रा ११०४ भाद्रदिने १४ लिखितम् इदं धर्मधातुविहारीय ऽधिवासिन् श्रामणेर श्रीजितारिश्रियेनेति॥ 

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project