Digital Sanskrit Buddhist Canon

वज्रप्रदीपा

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

p.1


सरोरुहवज्र'स् हेवज्र-लिनेगे परि - २


उद्घातः

नमः श्रीहेवज्राय॥


श्रीहेवज्रं प्रणम्यादौ निस्तरण्गस्वरूपिणम्।

उत्पत्तिक्रमम् आश्रित्य विशुद्धिर् वक्ष्यते स्फुटम्॥

प्रथमं तावत् साधनसूत्रं निगद्यते।

पूजाचक्रं। चतुर्ब्रह्मविहारं। परमं। सह-

जं। स्वेष्टदेवो। रक्षाचक्रं। शून्यताधिमोक्षः।

श्मशानं। कूटागारं। हेतुमण्डलं। द्रुतापत्तिः।

समुत्थानं। न्यासो। द्वेषात्मा। उत्सर्गो। ज्ञानच-

क्रं। अभिषेको। मुद्रणम्। अमृतास्वादो। जगद् -


p.2


अर्थः। षडण्गः। प्रभास्वरम्। उत्थानं। मन्त्र-

जापो। बलितत्त्वं। सूक्ष्मयोगो। द्वितीयन्यासो। विहर-

णं भोजनं। चरणं। शयनं। पुनर् अप्य्

उत्थानम्।

एतेन द्वात्रिंशत्साधनसूत्रं महापुरुषलक्षणविशुद्धम्॥॥

1 पूजाचक्रम्

आदौ तावद् योगी सत्त्वार्थोद्यतमतिर् इति। योगं कामयितुं शीलं

यस्येति योगी। सत्त्वमनोरथपुरणं कामयतिति सत्त्वार्थोद्यतमतिः॥ सम्यग् गुरुभट्टारकम् आराध्य यथाविधिना श्रीहेवज्रोक्तमण्डलप्रवूष्त इति। तेनात्यन्तैकनिषण्णो भूत्वा कायगौरवं परित्यज्याराध्य गुरुं। सम्यक्चित्तेनेत्य् आराधनं। सम्यग्गुरूपदेशाम्ना-


p.3


यज्ञ इति। सम्यग्गुरुभट्टारकम् अपि। तस्याराधने सति तेन प्रवेशितो हेवज्रोक्तमण्डले यथाविधिना॥ यथापरिपात्याभिषिक्तः सम्यग् अनुज्ञात इति। उदकादिप्रज्ञाजानाभिषेकपर्यन्तम् इति सिक्त्वा। यथाम्नायोपदेशेन तन्त्रं देशयित्वा। हितशिष्यं भाजनं च बुद्ध्वा। तदनु तस्मै प्रकाशयेत् तत्त्वं परमान्तं विरमादिकम्। अन्यपदार्थं कृत्वा देशितव्यम्॥

तदनु सम्यगनुज्ञातो मन्त्री वक्ष्यमाणक्रमं चरेद् गुप्तेन यावन् मुद्राप्राप्तिः स्यात्। मुद्रालाभ इति किञ्चिल् लाभः स्यात्॥


p.4


सुविशुद्धाविपरीततत्त्वज्ञानप्राप्त इति। विपरीतं न भवतीत्य् अविपरीतम्।

किं त्व् अस्य प्राकृततनोर् अविशुद्धतां विहाय सुविशुद्धतत्त्वं ज्ञानद्वारेण जानातीति ज्ञानं मार्गः। प्राप्तो ऽनेन। सुविशुद्धाविपरीततत्त्वज्ञानप्राप्त इति॥ लब्धनिमित्तश् चेति। कल्पितालारो निमित्तं सुविशुद्धाविपरीततत्त्वज्ञानपरिप्राप्तेस् तस्माद् अविपरीतज्ञानं कारणं कार्यम् अविपरीततत्त्वज्ञानम्॥ तन् निमित्तं जानातीति यथाम्नायतो ऽनेन लब्धनिमित्तः॥ अत एव 

धूमेन ज्ञायते वह्निः सलिलं तु बलाकया।

निमित्तैर् ज्ञायते गोत्रं बोधिसत्त्वस्य धीमतः॥


p.5


चकारात् पुनर् अनेन ज्ञानसंपन्नो योगी श्रीमद्धेवज्रं साधयितुकामो मूलोक्तविद्याप्राप्तौ सत्यां श्मशानारण्यगमनं कुर्याद् इति॥

तदनु मनोरमे स्थाने स्थित्वा। वक्ष्यमाणं बलिपूजादिकं कृत्वा गुप्तयोगेन यथोक्तविधिना पूजाचक्रम् आनीय। बाह्यगुह्यतत्त्वपूजा विशेषैः संपूज्य। भावनाम् आरभेत्॥ तत्र पुस्पादिभिर् नानाप्रकारैर् अर्चना बाह्यं। तच्चक्रस्थितदेवीहस्तगतसमयसरीकेतद्र-व्यभावना गुह्यम्। स्फुरत्संहारविग्रहं नाम तत्त्वम्॥ अनेन कं संपूजयेत्। यो ऽसौ स्वहृत्सूर्यस्थबीजाद्। विनिर्गतै रश्मिजाल-किरणैर् आनीतः सचक्रभट्टारकः तम् इति। एतेन स्वहृत्सूर्यस्थबीजाद् विनिर्गतार्थः सूचितः॥


p.6


ततः सप्तविधानुत्तरपूजां कुर्यात् तस्याग्रतः॥ एतेन पूजाचक्रम् उक्तं भगवता पुण्यसंभारार्थम्। पुण्यसंभाराज् ज्ञानसंभारो ज्ञानसंभाराद् बोधिर् उत्तमा॥

इति पूजाचक्रम्॥१॥

2 चतुर्ब्रह्मविहारम्

तदन्व् एकपुत्रप्रेमलक्षणां महामैत्रीं सर्वसत्त्वेषूत्पाद्य। ततस् तान् सर्वान् संसारार्णवपतितान् दृष्ट्वा चारक एकपुत्रे ध्ःखे सति यथाकष्टं तथाशरणान् सत्त्वान् दृष्ट्वा महाकरुणाम् उत्पाद्य। पश्चात्। महाप्रामोद्यप्राप्तो योगी कथम् आत्मानम् अपि सिद्धं मत्वा हसतीति। हर्षयुक्तो मन्त्री मुदितां विभा-


p.7


वयेत्। संसारासक्तिमहात्मलाभसत्कारादौ सर्वापेक्षाविरहलक्षणां महोपेक्षां विभावयेद्॥ इति चतुर्ब्रह्मविहारम्॥२॥

3 परमम्

एवंभूतो मन्त्री परमसाधनम् आरभेत्॥

प्रथमं भावयेन् मृतकं धर्मधात्वात्मकं विदुः।

योगी तस्योपरि स्थित्वा हेरुकत्वं विभावयेत्॥

श्रीहेरुकवज्रं तत्र स्थित्वा। अक्षरषत्कार्थम् आमुखीकुर्यात्। अथ सदुपदेशतः श्रीहेरुकेत्य् अक्षरचतुष्टयार्थं ज्ञानालोक- वज्रसमाधियोगेनामुखयन्तं भावयेद् इति परमम्॥३॥


p.8


4 सहजम्

अनेनाशुचितनुम् अपनीय सहजयोगम् आरभेत्॥ झटिति बुद्धागार-मध्ये वंकारेण निगदितं पूर्ववद् वक्त्रचिह्नाद्यैश् चन्द्रकान्तिमणिप्रभम् आत्मानं वज्रसत्त्वं महाशान्तं जटामुकुटिनं द्विभु-जैकमुखं त्रिनेत्रं वज्रपर्यण्किणं धर्ममुद्रावृतकरद्वयं सवोपरि चन्द्रस्थं भावयेत्। अनन्तलोकधातुकं द्वात्रिंशल्लक्षणधरं व्यञ्जनाशीतिराजितं सहजहेरुकं चिन्तयेद् इति॥ कस्मात्।

आलिकालिसमायोगो निःस्वभावपदं परम्।

शवस्य परमार्थो ऽयं वज्रसत्त्वस्य विष्टरः॥


p.9


तस्योत्पादो हूं-फट्-कारेण न चेष्यते। कथं चकारात्। अक्षरेति शून्यम्। तस्माद् अकल्पितोद्भूतं पिण्डं चेद् अत एवाक्षरोद्भव-पिण्डस्येति। एतद् दृधीकरणहेतोर् अष्टमे पटले चोक्तं भगवता -

आलिकालिसमायोगो वज्रसत्त्वस्य विष्टरः।

अक्षरोद्भवपिण्डस्य हूं-फट्-कारौ न चेष्यते॥

इति॥

पूर्ववद् वक्त्रचिह्नाद्यैश् चन्द्रकान्तिमणिप्रभम्।

इति वचनात्॥ वज्रसत्त्वशब्देन सहजनाथं विचिन्त्य द्वेषवज्र-पदम् आरभेत्॥ इति सहजम्॥४॥


p.10


5 स्वेष्टदेवः

ततो द्वेषवज्रपदं वक्ष्ये। ज्रंकाराक्षरप्रयोगतः। रेफेण सूर्यं तद्धृदये विभाव्य। तद्बिन्दुना चिन्तयेत् संपूर्णम् इन्दुं। तन्मध्यवर्तिहूंकारं जजगज्जन्मबीजसूचकं। एवं च त्रिभुवनेश्वरं विधाव्य। तद्धृदये वज्रसत्त्वहृदय इत्य् अर्थः। कथं। देवतापटलोक्तद्रमेण।

स्वहृदि भावयेद् रेफं तत्भवं सूर्यमण्डलम्।

तत्रैव कूंकृतिं चैव प्रज्ञोपायस्वभावकम्॥

कृष्णवर्णं महाघोरं हूंकाराद् वज्रम् उद्भवेत्।


p.11


वज्रवरटकमध्यस्थं हूंतत्त्वं भावयेत् पुनः॥

हूंकारपरिणतं दृष्ट्वा द्वेसात्मानं विभावयेत्॥

हूंकारपरिणतशब्देन। एतत् सर्वं परिणम्य। द्वेषवज्रं विभाव्य हृदये। यथोपदेशतो "वज्री द्वेषात्मको भवेत्"। वक्ष्यमा-णक्रमं संस्थानं ध्यायात्। तत्समविग्रहं चतुर्णां मध्यतो योगी भावयेद् यथाधिमोक्षम्॥

यथोपदेशतस् त्रैधं स्वेष्टदैवतरूपकम्।

अष्टास्यादिमहाघोरं भावयेद् ईडृषं प्रभुम्॥


p.12


सत्त्वबिम्बसमुद्भूतं मण्डलेशं विभावयेत्॥

इति वचनात्॥ स्वेष्टदेवता॥५॥

6 रक्षाचक्रम्

एवं द्वेषवज्रयोगेन स्फारयेत् क्रोधसंघातं दिक्षु विदिक्षु यथाक्रमम्। हूंकारपरिणतान् सर्वान् महाकिरणज्वा-लाकुलान् उत्स्र्जेत्। एवं पूर्वादिदिक्षु यमान्तकप्रज्ञान्तकपद्मा-न्तकविघ्नान्तकान् यथाक्रमं ध्यायात्। कृष्णसितरक्तनीलान् वज्रमुद्गरसितवज्रदण्डरक्तवज्राब्जकरालवज्रधरान् खर्वलम्बोदरान् वैरोचनरनेशामिताभाक्षोभ्याण्कितशिरसः॥


p.13


तत ऐशान्यादिकोणेष्व् अचलटक्किराजनीलदण्डमहाबलाः। महाकृष्णाः खड्गाण्कुशदण्डत्रिशूलधराः॥ टक्क्यचलौ दिव्याभर-णभूषितौ ललितौ विकृताननौ। नीलदण्डमहाबलौ यमान्तकवद् विकृतौ। तन्मध्ये ध्यायात् पुनर् ऊर्ध्व उष्णीषचक्रवर्ती पीतः पीतचक्रधरः। वैरोचनमुकुटी खर्वलम्बोदरः। अधरे सुम्भराजः कृष्णवर्णो मुषलधरः खर्वलम्बोदरः॥ अचलादयश् चत्वारः सुम्भराजश् चाक्षोभ्यमुकुटिनः॥ अमी दशक्रोधाः प्रत्यालीढपदाः। वामे तर्जनीवज्रपाशधराश् च विश्वाब्जसूर्येषु द्रष्टव्याः॥


p.14


एवं यथानुक्रमेणोत्सृज्य क्रोधान् स्वस्वस्थाने तत्र तत्र गत्वेति विचिन्त्य। संमुखीभूय स्थित्वा संपुटाञ्जलिं कृत्वा। अष्टपदहृदयोपहृदयमन्त्रैः स्तुतिपूर्वकं किं करिष्यामो वयं वदन्तीति पश्येत्॥ ततः शान्तिकादिभेदेन त्व् आज्ञाप्य तान् ओं सुम्भ निसुम्भेत्यादिना। धीमतस् ते वज्रधराज्ञां संगृह्यात्मनिर्माणं स्वस्वस्थाने संस्थाप्य स्वयम् एव गत्वा विघ्नगणान् गलके वज्रपाशेन बद्ध्वा स्वस्वास्त्रेण त्रासयन्तो गृहीत्वागत्य दशदिक्षु विघ्नात्मनः स्वस्वनिर्माणे समर्प्य वज्रधराभिमुखीभूय तिष्ठन्तीति पश्येत्॥


p.15


तत्रायं विघ्नगणः। इन्द्रो गौरः सहस्राक्षो रत्नमुकुटी ललिततनुः। यमः कृष्ण ऊर्ध्वपिण्गलकेशः खर्वल-म्बोदरः। वरुणः शुक्लः सफणाण्कितशिरा ललिताण्गः। कुबेरः पीतो रत्नमुकुटी ललितविग्रहः। ईशानः शुक्लो जटामुकुटी खर्वो बृहत्कुक्षिः। अग्नी  रक्तो जटामुकुट्यण्कितशिराः खर्वशरीरः। राक्षसो धूम्रो मुक्तकेशः खर्वतनुः। वातः श्यामो रत्नमुकुटी ललिततनुः॥ ऊर्ध्वे पितामहः पीतः खर्वलम्बोदरो जटामुकुटी। अधरे पृथिवी पीता रत्नमुकुटिनी ललिततन्वी॥


p.16


एते विघ्नविनायका यमान्तकादिभिर् गृहीताः कातरोद्विग्नास् त्राणार्थैषणतत्परा द्रष्तव्याः॥

तदनु स्वहृदीजात् क्रोधम् अभःषूलं कृष्णवर्णं महाघोरं प्रलयानलदुःसहम्। अमृतकुण्डल्याकारम् ऊर्ध्वे स्फारयित्वा यमान्तकादिषु समर्प्य चिन्तयेद् विघ्नगणमस्तकेषु॥ तदनु

ओं घ घ घातय घातय सर्वदुष्टान् फट् फट् कीलय कीलय सर्वपापान् फट् फट् हूं हूं वज्रकील वज्रधर आज्णापयति सर्वदुस्तविघ्नानां कायवाक्चित्तवज्रं कीलय हूं फट्।


p.17


इत्य् अनेन कीलान् आरोपयेत्। इति किलनमन्त्रः॥

ओं वज्रमुद्गर वज्रकीलाकोतय २ हूं फट्।

इत्य् अनेनाकोटयन्ति॥ क्रोधाः सर्व आत्मचिह्नपरिणामेण वज्रमुद्गरं विभाय्व। कीलाकोटनमन्त्रेण तावत् कीलान् आकोटयन्ति यावद् धरणीगता भवेयुः॥ ततः स्वस्वनिर्माणे प्रविष्टान् यमान्तकादीन् चिन्तयेत्। तदन्व् एकीकरणसमये क्रोधवह्निना विनायकपरिवारान् निर्मूलीकृतान् पश्येत्॥


p.18


इदानीम् -

रेफेण सूर्यं पुरतो विभाव्य

तस्मिन् रवौ हूंभवविश्ववज्रम्।

तेनैव वज्रेण विभावयेच् च 

प्राकारकम् पञ्जरबन्धनं च॥

चकारेण वज्रशरजालं वज्रवितानं वज्रमयीं भूमिं च प्रतिपादितम् आरसातलपर्यन्तं चिन्तयेत्॥ विघ्नान् उत्सार्य इति वचनात्। रक्षाचक्रम् उक्तं विघ्नोपशमनाय॥६॥


p.19


7 शून्यताधिमोक्षः

तदनु निःशेषवस्तुतत्त्वसारसंग्राहकं मन्त्रम् उच्चरेद् इति। तत्त्वतः सर्वधर्मविचारेण यद् रूपं तत् सारं तस्य संग्राहकं तत्संग्राहकम्।

ओं शून्यताज्ञानवज्रस्वभावात्मको ऽहम्।

इति मन्त्रम्। इत्यनन्तरं मन्त्रार्थम् आमुखीकुर्वन् आत्मानं त्रैधातुकं च निराभासं पश्येत्॥ शून्यताधिमोक्षम्॥७॥


p.20


8 श्मशानं

तन्मध्य आकाशव्यापिनीं प्रज्ञाम् एकाराकारां शुक्लां भावयेत्। तदुपरीति तन्मध्य आकाशोपरि पृथ्वी भवति। निश्चितं वाय्वादि क्रमेणानेन चतुर्महाभूतमण्डलसंहारेण कूटागारं श्मशानाष्टकमण्डितं चिन्तयेत्॥

अथ श्मशानानि कथ्यन्ते। यथानुक्रमयोगतः -

पूर्वे चण्डोग्रं नाम महाश्मशानम्। शिरीषवृक्षे गजमुखो महर्द्धिकः सितः। इन्द्रो दिक्पतिर् गौरः सहस्राक्षः 


p.21


शुक्लैरावतासीनः। वासुकिर् नागराजः पीतः। गर्जितो मेघो विश्ववर्णः। सुमेरुः पर्वतश् चतूतत्नमयः। सितव्ज्रो नाम चैत्यः श्वेतः॥१॥

दक्षिणे करण्कभीषणं नाम महाश्मशानम्। आम्रवृक्षे महिषमुखो महर्द्धिकः क्र्ष्णः। यमो दिक्पालो महिषारूढः कृष्णः। पद्मो नागः सितः। आवर्तको मेघो विश्ववर्णः। मलयपर्वतो गौरः। कृष्णवज्रो नाम चैत्यः कृष्णः॥२॥

पश्चिमे ज्वालाकुलं नाम महाश्मशानम्। कण्केलिवृक्षे मकराननो महर्द्धिकः श्वेतः। वरुणो दिक्पतिः सितः। कर्कोटको नागो रक्तः। घोरो मेघो विश्ववर्णः। कैलासपर्वतः श्वेतः। संज्नावज्रो नाम चैत्यः सितः॥३॥


p.22


उत्तरे गह्वरं नाम महाश्मशानम्। अश्वत्थ्वृक्षे मनुष्यमुखो महर्द्धिको गौरः। दिक्पतिः कुबेरो गौरो नरवाहनः। तक्षको नागः कृष्णः। घूर्णितो मेघो विश्ववर्णः। मन्दरः पर्वतः श्यामः। संस्कारवज्रो नाम गौरचैत्यः॥४॥

ऐशान्यां लक्ष्मीवनं नाम महाश्मशानम्। वटवृक्षे गोमुखो महर्द्धिकः सितः। महेश्वरो दिक्पतिः सितो गोवाहनः। शण्खपालो नागः पीतः। चण्डो मेघो विश्ववर्णः। महेन्द्रः प्रवतः कृष्णः। चित्तवज्रो नाम श्वेतचैत्यः॥५॥

आग्नेय्याम् अट्टट्टहासो नाम महाश्मशानम्। करञ्जवृक्षे चागाननो महर्द्धिको रक्तः। हुताशनो दिक्पालो


p.23


रक्तः। महापद्मो नागः श्यामः। घनो मेघो विश्ववर्णः। गन्धमादनः पर्वतः पीतः। कायवज्रो नाम रक्तचैत्यः॥६॥

नैरृत्यां घोरान्धकारं नाम महाश्मशानम्। लतापर्कटिवृक्षे शवमुखो महार्द्धिकः कृष्णः। राक्षसो दिक्पतिः शवासनः कृष्णः। अनन्तो नागः पाण्डरः। पूरणो मेघो विश्ववर्णः। हेमपर्वतः श्वेतः। रत्नवज्रो नाम चैत्यः कृष्णः॥७॥

वायव्यां किलिकिलारवं नाम महाश्मशानम्। अर्जुनवृक्षे मृगाननो महार्द्धिकः श्यामः। नारुतो दिक्पतिः श्यामो मृगारूढः। कुलिको नागः कर्बुरः। वर्षणो मेघो विश्व -


p.24


वर्णः। श्रीपर्वतो नीलः। धर्मवज्रो नाम श्यामचैत्यः॥८॥

एतन्मध्ये महर्द्धिकाः पुनर् वामे नरकपालासृक्परिपूर्णकरव्यग्राः। दक्षिने नानारसग्रहणाभिनयकरकमलसम्पन्नाश् चिन्तनीयाः॥ तदनु हरितशाद्वलनूतनाण्कुरितपत्ररचितनानापुष्पतरुभिर् घनानि। काककोकिलोलूकशुकशारिकपोतककपोतिकागृध्रादिभिर् नानापक्षिगणैर् उपशोभितानि। सिंहवृकशार्दूलभल्लूकशू-करादिनानामृगैः परिपूरितानि। नानासुगन्धिकुसुमपरिमलैर् आकुलीकृतानि। नानासर्पौघपूरितानि। हड्डमुण्डकण्कालाकपालश-वादिभिर् नानास्थानप्रदेशमण्डितानि।


p.25


 पुनर् नानाप्रदेशेषु विहारविहारीध्यानागारवापिकायोगियोगिन्यव-भूतावधूतीध्यायिध्यायिनीयक्षयक्षिणीप्रेतप्रेतीराक्षसराक्षसीकुम्भा-ण्डकुम्भाण्डीभूतभूतीडाकडाकिनीवीरवीरिणीसमूहैः समयसं-केतासक्तचित्तैर् अन्वितानि। हास्यलास्यविलासालिण्गनचुम्बनविचित्रादि-प्राप्तडाकडाकिनीगणैः परिपूरितानि॥ तदन्व् आनन्दचित्तेन केचिद् वज्रपदैर् नर्तयन्तः। केचिद् वज्रगीतैर् गायन्तः। केचिन् नानासमयाचारैर् आचरन्तः। केचित् पञ्चामृतपञ्चप्रदीपं भक्षयन्तः। केचिन् नानावस्तून्य् उपढौकयन्तः।


p.26


केचिन् नानासत्त्वान् संतर्पयन्तः। केचिन् मदनानि पिबन्तो द्रष्टव्याः॥ अपरे च डाकडमरुपटहमर्दलकृपीटझ-र्झरवीणावेणुवंशतलादिभिर् नानावाद्यैर् वाद्यन्तः॥ पुनर् अनेकसिद्धविद्याधरविद्याधरीमहोरगमहोरगीकिन्नरकिन्न-रीगन्धर्वगन्धर्वीत्यादिभिर् देवासुरगरुडसमूहैः परिपूरितानि। किलिकिलारवाणि घोरगह्वराणि भयानकानि नवनाट्य-रसेनात्यन्तमनोह्लादकराणि। वेतालभूतसंघैर् अधिष्ठितानि तिष्ठन्त्य् अष्ट श्मशानानि चिन्तयेत्॥


p.27


अष्टश्मशानं विज्ञानाष्टकविशुद्धम्। अष्टविज्ञानम् इति। चक्षुरादिपञ्चविज्ञानम्। आलयविञानम्। मनोविज्ञानम्। क्लिष्टमनोविज्ञानम्। आदर्शवप्नमायामरीचिकागन्धर्वनगरप्र-तिश्रुत्कजलचन्द्राकाशम् इति। अत एव श्मशानाष्टकं सर्वधर्म-परिञानेन ग्राह्यग्राहकवर्जितम्। इत्य् अष्टविज्ञानदृष्टान्तेन ज्ञायन्ते श्मशानानि॥८॥

9 कूतागारम्

सर्वज्ञताभिसंबोधिः

इदानीम् उक्तवाय्वादिचतुर्महाभूतपरिणतं कूतागारं कथ्यते॥ चतुःस्मृत्युपस्थानविशुद्ध्या चतुर्द्वारम्। चतुःप्रहाणानि चत्वारस् तोरणाः स्मृताः। चतुरृद्धिपादविशुद्ध्या चतुर्वेदिका। पञ्चेन्द्रियाणि चतुरस्रं वज्रसूत्रं च। पञ्च बलानि चत्वारि कोणानि हा -


p.28


रार्द्धहारं च। आर्याष्टाण्गिकमार्गविशुद्ध्याष्टौ स्तम्भाः प्रकल्पिताः। सप्त बोध्यण्गानि पक्षिनीक्रमशीर्षचत्रचामरवितानघ-ण्टापताकाश् चेति। कूतागारं सप्तत्रिंशद्बोधिपाक्षिकधर्मविशुद्धम्। प्रभास्वरं भावयेद् इति शब्देन कूटागारम्। एतेन बोधिपाक्षिकधर्मार्थस्वभावं स्वरूपतः। किं तूत्पत्तिं प्रत्य् उक्तवद् बोद्धव्यम्। स्वरूपेण पृथिव्यादिक्रमं ध्यायात्॥

अथ बोधिपाक्षिकधर्मभेदाः कथ्यन्ते। आर्यसरोरुहपाद-प्रसादतः॥ प्रथमं मन्त्रविग्रहोत्पत्तिः। तद्धर्मः सर् -


p.29


वशून्यः। तस्मात् प्रथमं काय उत्पन्नः॥ अनुशब्देन। तस्याभावस् तद्धर्मरूपं। पश्चाद् यत् तद् धर्मरूपं स्मृतिर् इत्य् उत्पत्तेर् अभावात्। पूर्वरूपम् अशेषवस्तुतत्त्वस्वभावम्। तस्माच् चित्तप्रकृतिर् इति स्मृतिशब्देन भण्यते चेत्। तदा प्रतिभासते कथम्। कल्पिताकारेण। तेन विना नैवं भवति स्वरूपम्। सा पुनर् दर्पणप्रतिबिम्बं यथा तथैव प्रतिभासत उत्पत्तिं प्रति कल्पिताकारम्॥ उपस्थानशब्देन किम्। उत्तमाद् उत्तमं स्थानम् अनेनेत्य् उपस्थानं। उत्तमं प्रभास्वरं स्मृतिशब्देन


p.30


यद् उक्तम्। तदुपस्थानस्थितिहेतोः पूर्वद्वारं कल्पयेद् एवंभूतं। कायानुस्मृत्युपस्थानविशुद्ध्या पूर्वद्वारम्॥ एवं वेदनानुस्मृत्युपस्थानविशुद्ध्या दक्षिनद्वारम्॥ एवं धर्मा-नुस्मृत्युपस्थानविशुद्ध्या पश्चिमद्वारम्॥ एवं चित्तानुस्मृत्यु-पस्थानविशुद्ध्या उत्तरद्वारम्॥

एवं भवतीति कथम्। रूपं विहाय वेदना न वेत्त्य् अन्यत्र संज्ञापि तथा संस्कारा एवं भवेत्॥ किं तु यथा माया यथा स्वप्नं गन्धर्वनगरं यथा। तथैव प्रतिभासन्ते द्वाराः॥ एवं रूपवेदनासंज्ञासंस्कारा विज्ञानविठपिताः। सर्वधर्मा अप्य् एवं। विज्ञानम् अप्य् अलिकम्। कथं विचारासहं चेत् 


p.31


। विचार इति किम्। ये ते धर्मा विज्ञानविठपितास् ते क्षणिका इति भावः। अलीका इति शक्योक्तिः। तस्माद् विज्ञानम् अपि क्षणिकम्। कथम्। सर्वधर्मविचारेण। चामीकरादिभिः परिरचितघटादिधर्माः। तद्धर्माभावे यथा द्रव्याभावः। तथा सर्वधर्माभावे विज्ञानाभावः। अत एव विज्ञानम् अप्य् क्षणिकम्। यथा ग्राह्यवस्त्वभावे ग्राहकाभावः। तथा ग्राह्यग्राहकाभावे ग्रहणाभावः॥ पुनर् यथा ग्राह्यम् आलम्ब्य ग्राहकस्थितिः। तथा ग्राह्यग्राहकम् आलम्ब्य ग्रहणस्थितिः। तयोर् अभावे ग्रहणाभावः॥ शेषरूपं हि महाद्वारम् उत्पत्तिविशुद्ध्या विना न ज्ञायते। एवंभूतं द्वारं चतुष्टयं ध्यातव्यं निर्माणालीकस्वरूपम्॥


p.32


चतुःप्रहाणानि तोरणाः सऋता इति। अनुत्पन्नानां पापानां प्रतिपक्षः। उत्पन्नानां पापानां विच्चेदः। अनुत्पन्नानां कुशलमूलानाम् उत्पादनम्।  उत्पन्नानां कुशलमूलानां बुद्धत्वे परिणामना चेति॥ प्रतिपक्षो विच्चेद उत्पादः परिणामना। इति॥ कस्य प्रतिपक्षः। रागादिक्लेशस्य। तस्माद् अनुत्पत्तिः क्लेशस्य भविष्यति। उत्पादकृतविरोधो ऽसौ प्रतिपक्षः॥ उत्पन्ने अपि रागादिक्लेशस्य विनाशायेयं भावना तस्य विच्चेदः। तस्माद् एतद्विनाशाद् आमीषाभावः। अत एव निरामयपदोत्पत्तिः। उत्पन्न इयं सत्त्वेन सह साधारणीकर्तुकामता परिणामना॥ इति प्रहाणचतुष्टयपरिशुद्ध्या चत्वारस् तोरणाः॥


p.33


चतुरृद्धिपादविशुद्ध्या चतुर्वेदिकाः। चन्दो वीर्यम् मीमांसा चित्तः। चन्द इत्य् अत्यन्तादरता चिन्तायाम्। एवं वीर्यम् अप्य् अत्यन्ताभिलाषता। अविच्चेदः। तेनैवानवरतविचारणा मीमांसेति। विचारम् अपीति। स्वरूपेण तेनैव स्वपरतदाकारकरणं हि नाम विचारः। चित्त इति स्वरूपाकारोत्पादश् चित्तपर्यन्तता। तस्माच् चित्तपर्यन्तता साक्षात्क्रिया॥ एवं चतुरृद्धिपादविशुद्धं वेदिकाचतुष्टयम्॥


p.34


ऋद्ध्युत्पादम् इति। यो ऽसौ निर्माणविशुद्ध्या विशुद्धाकारस् तस्य स्फुरत्संहारविग्रहं नाम यथेच्चया ऋद्धिः। अस्याकारस्य साक्षात्कार उत्पादः। तस्माद् एतेन विना स्वरूपवज्राकारे प्रवेशो नास्तीति॥

पञ्चेन्द्रियाणि चतुरस्रं वज्रसूत्रं चेति। श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियम् इति॥ अभिसंप्रत्ययः प्रथमं हेतूपादानः श्रद्धेन्द्रियशब्देन भण्यते। अत्यन्तादरतः। द्वितीये प्रवर्तनम् आत्मज्ञानं विना निर्वृतिं विहाय संसारकर्मकम् आ संसारम् आसाद्य


p.35


प्रवर्तयतीति प्रवर्तनं वीर्येन्द्रियशब्देन भण्यते। तत्त्व्तो ऽहर्निशि योगस् तृतीये। आत्मेति ज्ञानविच्चेदे चित्तप्रवेशमात्रेण यदाकारस्याकृतिमोत्पादो यो ऽसौ स्मृतीन्द्रियशब्देन भण्यते। चित्तैकाग्रता चतुर्थे। अग्रशब्देन सम्यग् मार्गः। तेन सहैकता चित्तैकारता समाधीन्द्रियशब्देन भण्यते। एवं चतुरिन्द्रियैश् चतुरस्रं च। उरसशब्देनान्यत्र भण्यते॥ वज्रसूत्रैर् इति। पञ्च रेखाः पञ्च प्राकाराः पञ्चतथागतभेदेन भेदिताः सन्ति। तन्मेध्ये बुद्धागारं वज्रशब्देन सर्वेण सह समं। समं वज्रम् अभेद्यं


p.36


। प्रज्ञेन्द्रियशब्देन सर्वधर्माप्रतिष्ठानम् इति प्रतिपादितं चेत्। तदा समाः प्राकाराः। तथागतानाम् अन्योन्यभेदो नास्तीति। यद् वज्रधरस्वभावेनेति। वज्रसूत्रैर् अलंकृतैर् एभिः प्राकारैर् अलंकृतं चिन्तयेद् ध्यानागारम्॥

चत्वारि कोणाणि हारार्द्धहारं च पञ्च बलानीति। श्रद्धाबलं वीर्यबलं स्मृतिबलं समाधिबलं प्रज्ञाबलं चेति॥ अभिसंप्रत्ययः प्रथमो हेतुः। हेतोः परिपूरणं बलं सामर्थ्यम्। फलं साक्षात्कारः। तं संपादयतीति श्रद्धाबलशब्देन भण्यते॥ तद्धेतौ दृढचित्तं कृत्वा प्रवर्तयतीति वीर्यबलम्॥


p.37


पुनस् तत्र क्षणम् अपि चैतन्यं नोपलभ्यते। अहर्निशि योगं यत् तत् स्मृतिबलम्। चित्तैकाग्रता यथाभूतं सर्वधर्मानुपलम्भो ऽग्रमार्गस् तं साक्षात्कारं करोतीति तेनाभिन्नं तत् साक्षात् समाधिबलशब्देन भण्यते॥ एवं चतुर्बलविशुद्धं कोणचतुष्टयम्। चतुरिन्द्रियाणां परिपूरणं करोतीति चत्वारि बलानि। परिपूरणशब्देनार्थपूरणं इति॥ प्रज्ञाबलेन हारार्द्धहारम्। बलं प्राग् उक्तम्। प्रज्ञेन्द्रियसंपादितं सर्वधर्माप्रतिष्ठानं यत् तत् संपूरणं साक्षात्-


p.38


कारम्। तेनाभिन्नम् आत्मानं प्रज्ञाबलेन हारार्द्धहारभावना तेनोक्ता॥

आर्याष्टाण्गिकमार्गैर् अष्टौ स्तम्भाः प्रकल्पिताः॥ आरब्ध-स्यापरित्यागो नाम सम्यग्दृष्टिः। अविसंवादकवचनं नाम संयग्वाक्। दशकुशलानतिक्रमो नाम सम्यक्संकल्पितः। सत्त्वाविहेठनाचित्तं नाम संयक्कर्मान्तः। दशकुशलैकमनः सम्यगाजीवः। आत्यन्तिकनैरात्म्यचित्तं नाम सम्यग्व्यायामः। व्यायामो नाम भावाभावविचेदः। कालत्रय एकक्षणज्ञता संयक्स्मृतिः। त्रैलोक्यैकमूर्तिः सम्यक्समाधिश् चेति। एभिः स्तम्भाः प्रकल्पिताः॥


p.39


सप्त बोध्यण्गानि पक्षिणीक्रमशीर्षच्चत्रचामरवितानघण्टापताका इति स्मृताः॥ सर्वदा कालत्रयपरिज्ञानस्मरणं नाम स्मृतिसंबोध्यण्गम्। अनवरतमहारसावबोधो नाम धर्मप्रविचयसंबोध्यण्गम्। अविच्चिन्नमहायोयेन प्रवृत्तिं नाम वीर्यप्रविचयसंबोध्यण्गम्। नैरात्म्यं विना नान्यरतिर् इति प्रीतिप्रविचयसंबोध्यण्गम्। सर्वदा शून्यताकरुणाभिन्नयोगो नाम प्रस्रब्धिप्रविचयसंबोध्यण्गम्। अविपरीततत्त्वप्राप्तिर् नाम समाधिप्रविचयसंबोध्यण्गम्। समाधाव् अनाभोगप्रवृत्तिर् नाम उपेक्षाप्रविचयसंबोध्यण्गम्। एभिः संबोध्यण्गैः पक्षिण्यादय उक्ता ध्यातव्याः॥


p.40


एतेन सप्तत्रिंशद्बोधिपाक्षिकधर्मभेदेन कूटागारभावनापर्यन्तेन प्रथमशून्यतादौ सर्वज्ञताभिसंबोधिर् उक्ता॥

इति कूटागारम्॥९॥

10 हेतुमण्डलम्

मार्गज्ञताभिसंबोधिः 

इदानीं हेतुवज्रधरोत्पादः कथ्यते॥ कूटागाराभ्यन्तरे विश्वद-लकमलोपरि चतुर्माराः सूर्याक्रान्ता द्रष्टव्याः। हेकारवज्रेण। ब्रह्माविष्णुमहेश्वरदेवेन्द्राः। स्कन्धो मृत्युः क्लेशो देवपुत्रश् च। एते च चत्वारो माराः स्कन्धानां क्लेशकारकाः॥


p.41


अथ तदुपरि सूर्यचक्रं दृष्ट्वा। तस्योपर्य् अकारादिस्वरैर् द्विगुणितं कृत्वा। तत्परिणामेन चन्द्रमण्डलं भाव्यं द्वात्रिंशन्महापुरुषलक्षणसंसूचकम् आदर्शज्ञानस्वभावकम्॥ ककारादिवर्णैर् ड-ढ-द-धा-य-लेत्य् अक्षरषट्कं दत्त्वा। द्विगुणितं कृत्वा। अनुलोमविलोमेन दृष्ट्वा। तत्परिणामेन सूर्यमण्डलं पश्येद् अशीत्यनुव्यञ्जनसंसूचकं समताज्ञानस्वभावम्॥

अनयोर् मध्ये हूं-अं-बीजद्वयं दृष्ट्वा। तत्संभवकरोटककर्तिकं पश्येद् बीजद्वयेनाण्कितं प्रत्यवेक्षणाज्ञानम्॥ बीजाद् रश्मीन् निश्चार्यानन्तलोकधातून् अवभास्यानीय तत्रैव प्रवेश्य 


p.42


सर्वम् अप्य् एकं भावयेद् इति कृत्यानुष्ठानज्ञानम्॥ एतत् सर्वं परिणम्य। झटित्य् आत्मानं श्रीहेरुकरूपं सुविशुद्धध-र्मधातुज्ञानम्॥ एतेन पञ्चाकारः। आदर्शज्ञानेन यथादृष्टं पूपं। समताज्ञानेन तथा समरसीकृतं। प्रत्यवेक्षणाज्ञानेन प्रत्यवेक्षितं तथा पुनः कृत्यानुष्ठानज्ञानेन यत् करणीयं तद् एकीभावकृतं। सुविशुद्धधर्मधातुज्ञानं सर्वाकारेण सहैकरूपम्। इति पञ्चाकाराभिसंबोधिः॥

एतेन "त्रैलोक्यैकमूर्तिम् अभिसमीक्ष्य" ततः पूर्वादिद्वारेषु यथाक्रमं ब्रह्मेन्द्रोपेन्द्ररुद्राः तथैव ऐशान्यादिकोणेषु वैवस्वतवित्तनायकनैरृतिवेमचित्रिणश् च। एवम् अष्टासनानि विभाव्य 


p.43


तदुपरि चन्द्रार्कसम्पुटमध्येषु गं चं वं घं पुं शं चं दं इति बीजाष्टकं पश्येत्॥ तत्परिणातानि गौर्यादीनां चिह्नानि कर्तिकृपीटकूर्मसर्पसिंहभिक्षुचक्रवज्राणि चिन्तयेत् तेन तेनाधिष्ठितानि। सर्वम् एकत्र परिणम्य गौर्यादयो निष्पादनीया द्रष्टव्याः॥ एतेन भाव्यमण्डलम् उक्तम्॥

एषां वर्णचिह्नानि विशुद्धिश् चेदानीं वक्ष्यन्ते। अथ 'कृपया लोचने रक्ते"। कृपेति सत्त्वेष्व् एकचित्ततास्नेहः। तेन रक्तनेत्रः॥ 'कृष्णाण्गो मैत्रचित्ततः"। मैत्रचित्त इति स्कन्धधात्विन्द्रियाणां 


p.44


निरोधः। तेन मैत्रचित्तेन कृष्णाण्गः॥ "नेत्रशुद्धिस् त्रिवज्रेण" कायवाक्चित्तानां निरावरणं त्रिवज्रम्॥

संग्रहवस्तुचतुष्केण चत्वारश् चरणाः स्मृताः॥

संग्रहवस्त्व् इति। दानं प्रियवचनम् अर्थचर्या समानार्थता चेति॥ अचिन्त्यतत्त्वे चित्तारोपणं नाम दानम्। तत्राचिन्त्ये चित्तारोपणे यथा सुखं तथा प्रीतिर् यथोपदेशाद् बोद्धव्या॥ दाहाच् चेदान् निकषाद् यथा सुवर्णं तथेति तत्त्वं प्रियवचनशब्देन भण्यते॥ अर्थं कायवाक्चित्तं विना यथा न चरणं तथार्थचर्याशब्देन भण्यते॥ समानार् 


p.45


थशब्देन सर्वैर् एकमूर्तिता नाम॥ एतद् एव चतुर्णां चरणानां शुद्धिः॥

नुखान्य् अष्टाव् अष्टविमोक्षविशुद्धानि॥ रूपं पश्यति शून्यम्। अनवकाशं पश्यति शून्यम्। शुभाशुभज्ञानम् आपन्नं पश्यति शून्यम्। दृष्टिकृतं पश्यति शून्यम्। आकाशम् आपन्नं पश्यति शूयं। संवित्तिनिरोधं पश्यति शून्यम्॥ इत्य् अष्टौ विमोक्षविशुद्धानि मुखानि। विमोक्षम् इति सर्वबन्धविमुक्तं सुखम्। आपन्नम् इति महासुखेन स्वपरसंवित्तिज्ञाननिरोधश् चेति॥


p.46


"भुजाः षोडश शून्यता" इति। अध्यात्मशून्यता। बहिर्धाशून्यता। अध्यात्मबहिर्धाशून्यता। महाशून्यता। शून्यताशून्यता। परमार्थशून्यता संस्कृतशून्यता। असंस्कृतशून्यता। अत्यन्तशून्यता। अनवराग्रशून्यता। प्रकृतिशून्यता। अपरकृतिशून्यता। सर्वधर्मशून्यता। अभावशून्यतास्वभावशून्यता। अभावस्वभावशून्यता। इति षोडश शून्यताः॥

दिआनीं शून्यतार्थः कथ्यते॥ सकलधर्मा अन्तःशून्याः। इत्य् अध्यात्मशून्यता॥ सर्वधर्मा बाह्यं तथैव। बहिर्धाशून्यता॥ शून्यताकरुणाभिन्नो यथा योगो भवति गुरोर् उपदेशतस् तथाध्यात्मबहिर्धाशून्यता॥ अभिन्नयोगाद् यद् अनुभूतं सा महाशून्यतेत्य् अभिधीयते॥ महायोगाद् यच् 


p.47


चून्यं तच् चून्यताशून्यता भण्यते॥ अत एव परमार्थ उत्कृष्टाद् उत्कृष्टतरः। इति परमार्थशून्यता॥ एताः षट् शून्यताः॥ एताभिः संस्कृता सर्वाकारेणैकीकृता। संस्कृतशून्यतेति॥ असंस्कृतेति संस्कारो ऽपि न विद्यते। जातौ सर्वाकारा एकयुक्ता। इत्य् असंस्कृतशून्यता॥ सर्वाकारवरोपेता नामात्यन्तशून्यता॥ अनवराग्रशून्यतेति तेन सह भेदो नास्तीति॥ प्रकृतिशून्यतेति प्रकृतिः पञ्चाकारोद्भूता। पञ्चाकारम् इत्य् आकारशून्यम्। इति प्रकृतिशून्यता॥ स्वभावो नास्तीत्य् अप्रकृतिस्वभावा प्रज्ञापारमिता। इत्य् अप्रकृतिशून्यता॥ स्थावरजण्गमाः परमाणुर् अपि सर्वधर्माः। सर्वधर्मशब्देनोक्तम् इति यद् उक्तं तत् सर्वं शून्यम्। इति सर्वधर्मशून्यता॥ अभाव इति किम्। जगत् 


p.48


सर्वम् अलातचक्रम् इव भावदर्शनं स्वरूपतः। प्रकृतिर् निजाख्यातेत्य् अभावशून्यता॥ स्वभाव इति। स्वेति स्वचित्तं अस्य भावः। इति स्वभावशून्यता॥ आकाशधातुविज्ञानस्कन्धयोर् एकीभावे यथा भवेद् पूपम्। अभावस्वभावशून्यतेति निगदितं तथा॥ एतच्चून्यताशुद्धा भुजाः प्रकीर्तिताः॥

अथ मुखवर्णविशुद्धिश् च कथ्यते॥ प्रथममुखं कृष्णं द्वेषकर्मसाधनार्थं चेन्द्रियाणां निवारणं च। वाममुखं रक्तं वश्यार्थसाधनं कायवाक्चित्तैकीभावता 


p.49


वशता। दक्षिणमुखं शुक्लं शान्त्यर्थं स्कन्धधात्वायतनेषु शुद्धदेवताहण्कारता नाम शान्तिः। ऊर्ध्वास्यं विकरालिनं धूम्रं। पश्चिम उद्भूतक्लेशनाशार्थं द्वेषादय एवं चतुर्मारविनाशार्थं मुखानि चत्वारि भृण्गसंनिभानि। स्कन्धाश्रयो रोगः स्कन्धमारः स्कन्धानां स्कन्धस्वभावः। मृत्युमारः सत्त्वापकारः। क्लेशमारो ऽपि एवम्। स्त्रीलौल्यं नाम देवपुत्रमारः। इति मारचतुष्टयविनाशार्थं मुखानि चत्वारि भृण्गसंनिभानि॥


p.50


चिह्नानां शुद्धिः कथ्यते॥ कुञ्जरादयो गृहीता नानाक्लेशोपशान्तये। नानाक्लेशा इति -

कासः श्वासस् तथोन्मादः क्षयकुष्ठविचर्चिकाः।

प्लीहजक्ष्मस्वरूपाश् च गजाद्याः परिकीर्तिताः॥

इति अष्ट क्लेशाः॥

एते करभृताः सत्त्वा भाजनोपरि धारिताः।

इत्य् अर्थः॥ धनदान्तपृथिव्यादाव् अष्टैश्वर्यप्रसिद्ध्यर्थं वामेन गृहीतं चिह्नम्॥

कायैश्वर्यं वागैश्वर्यं चित्तैश्वर्यं तथैव च।


p.51


ऋद्धिः सर्वगतैश्वर्यम् इच्चा कर्ता गुणाष्टकम्॥

कायानन्त्यं कायैश्वर्यं (१); सर्वभाषां वदतीति वागैश्वर्यं (२); सर्वसत्त्वचित्तं जानातीति चित्तैश्वर्य्यं (३); ऋद्ध्यानन्-तलोकधातुं पश्यतीत्य् ऋद्ध्यैश्वर्यं (४); त्रैलोक्यैकमूर्तिः सर्वगतैश्वर्यं (५); कामेन महासुखमयं सत्त्वानाम् अभिलाषयतीति कामैश्वर्यं। इच्चाशब्देन काम उक्तः (६); कर्ता वज्रधरतेति कर्त्रैश्वर्यं (७);गम्भीरदेवताकारान् निर्वाणे गतं। निर्वाणाद् देवताकारेण चरणम् इति गुणैश्वर्यं (८);। एतेन चिह्नानां विशुद्धिः॥ भाजनानां शुद्धिः क -


p.52 


थिता। भाजनं करुणांशप्रतिपादनम्। भुजाः शून्यताशुद्धाः। एतेन शून्यताकरुणाभिन्नत्वं प्रतिपादितम्॥

"मात्राभिः पञ्च बुद्धाः स्युर् " इति। मात्रेति मुद्राः पञ्चतथागतशुद्धाः। मुद्रेति परिच्चदः।

चक्री कुण्डल कण्ठी च हस्ते रुचक मेखलम्।

"भस्मेति मुद्राषट्कं प्रतीर्तितम्"। षण्मुद्रेति सम्यग्ज्ञानम्॥ सम्यग्ज्ञानम् इति यत्र ज्ञानाभावः। ज्ञानाभावे


p.53


यद् रूपं तत् सम्यग्ज्ञानं भवेत्॥ पञ्चाशदक्षररचिता स्कन्धे शिरोमालिका। आलिकालिपञ्चाशदक्षरविशुद्ध्येति युगनद्धमा-र्गोपदर्शिका कण्ठे शिरोमालिका॥

नवनाट्यरसाश् च कथ्यन्त इदानीम्॥ नैरात्म्यासहैकरसं शृण्गारः। श्मशानस्थितिर् वीरः। भृकुटीकरालं बीभत्सः। ज्वलत्प्रभत्वं रौद्रः। विकसितवदनं हास्यः। सार्द्र-मुण्डमाली भयानकः। सत्त्वानुग्रहचित्तं करुणा। मायारूपम् अद्भुतम्। प्रहीणरागादिक्लेशत्वाच् चान्तम्॥ एतैर् " नव -


p.54


नाट्यरसैर् युतं भगवन्तम् आत्मानं हेतुभूतम्॥ शुष्कपञ्चमुण्डमाला ललाटोपरि पञ्चस्कन्धानां निःस्वभावार्थप्रतिपादिका। विश्ववज्राण्कितं मूर्धनि विश्वार्थकरणाय॥ कालत्रयपरिज्ञानात् त्रिनेत्रं प्रति मुखेषु सर्वज्ञरूपं चेति॥ सकलरागादिक्लेशदहनार्थं पिण्गोर्ध्वकेशत्वं चेति॥ सकलरागादिक्लेशदहनार्थं पिण्गोर्ध्वक्र्शत्वं दर्शितम्॥ सकलरागादिक्लेशदहनार्थं पिण्गोर्ध्वकेशत्वं दर्शितम्॥ सकलधर्मनिरावरणप्रतिपादनाय नग्नत्वं॥ प्राप्तबोधिचित्तपदत्वाद् अर्धपर्यण्कताण्डवम्॥ सकलत्रैधातुकैकमूर्तिप्रतिपादनाय पादाण्गुष्ठैकता दर्शिते॥ भगवान् अप्य् अलीकप्रतिभासः। यथा भगवान् तथा भगवती च। भेदः पुनः सकलैकमूर्तिवशाद् एकमुखा॥ वामे देवासुराणां रक्तेन


p.55


पूरितकरोटकरव्यग्रा॥ देवासुरशब्देन किम्। देवः कायवाक्चित्तं तद्विषयि ऽसुरः। अनयोर् निराकरणं विरक्तीकरणं तेन पूरितं करोटम्। करोटरक्ताभ्याम् एकीकरणं नाम प्रज्ञापारमितार्थपरिपूरणं दर्शितम्॥ दक्षिण अशेषक्लेशच्चेदनाय कर्तिधारिणी॥ शेषं यत् किञ्चिद् भगवद्विशुद्धिवद् बोद्धव्यं भगवत्यां॥

इदानीं साध्यसमयवज्रधरशरीरे चक्रचतुष्टयं ध्यायात् निर्माणादौ कृत्वा यथायोगेन तत्त्वतो धर्मसंभोगनीर्माणमहासुखवतुःकायशुद्धयर्थम् इति॥


p.56


इदानीं माण्डलेयविशुद्धिः कथ्यते॥ गौरी कृष्णा मारविनेयसत्त्वप्रबोधनाय। दक्षिणकरे मिथ्यादृष्टिच्चेदनाय कर्तिधारिणि। वामे संसारवासनाविनाशाय रोहितम्॥ चौरी रक्ता रागविनेयसत्त्वप्रबोधनाय। दक्षिणे प्रज्ञोपायात्मकत्वप्रतिपादनाय कृपीटम्। वामे मोहविनाशार्थं वराहः॥ वेत्ताली तप्तहेमाभा पौष्टिकसत्त्वविनयार्थं सुखजननायेत्य् अर्थः। दक्षिणे शून्यतार्थप्रतिपत्तये कूर्मः। वामे करुणास्वभावं पद्मभाजनम्॥ घस्मरी मरक्तमणिनिभा किञ्चिद्रक्तश्यामशिलाकारा। अभिचारुकार्थप्रसाधने उच्चेदिजनप्रभोधनार्थं च। दक्षिणे द्वेषविशु


p.57


द्धितः सर्पः। वामे प्रज्ञोपायात्मकयोगपात्रिका॥ पुक्कसी नील जम्भनार्थप्रसाधने मानिसत्त्वप्रबोधनार्थं च। दक्षिणे मारसेनाविदारणाय सिंहः। वाम अशेषद्वन्द्वच्चेदनाय परिशुः॥ शबरी शुक्ला शान्तसत्त्वप्रबोधनाय। दक्षिणे पञ्चज्ञानप्रतिपादनाय भिक्शुः। वाम अद्वैतज्ञानावबोधनाय खिण्खिरिका॥ चण्डा गगनश्यामा स्तम्भनार्थप्रसाधने सतब्धसत्त्वप्रबोधनाय च। दक्षिणे किंचिज्ज्ञानमात्रच्चेदनाय चक्रः। वाम अज्ञानमलोन्मूलनार्थं लाण्गलम्॥ डोम्बिनी कर्बुरा विश्वार्थप्रसाधने क्रूराशय


p.58


जनप्रबोधने च। अभेद्यज्ञानप्रतिपादनाय दक्षिणे वज्रः। वाम अशेषदुष्टत्रजनाय तर्जनिका स्मृता॥

आसाम् अष्टासनशुद्धिः कथ्यत इदानीम्। रागविद्याश्रवणपा-नभोजननिद्रातर्कश्रद्धात्यन्ताभिनिवेशच्चेदनायाष्टासनान्य् उपदर्शितानि। अत्यन्ताभिनिवेशच्चेदः पुनः कर्तव्यो ध्याने॥ एवम् अष्टासनानां शुद्धिर् उक्ता॥


p.59


एताः सर्वास् त्रिनेत्रा ऊर्ध्वपिण्गलकेशाः पञ्चमुद्राविभूषिता अर्धपर्यण्कनाट्यस्था विवस्त्रिका दंष्ट्राकरालवदना भगवत्कामेच्चासंपन्ना भावनीयाः॥

इत्यनन्तरं देवतापट्टिकायां वीणादीः प्रधानद्वारदक्षिणाद् आरभ्य द्वारकोणसन्धिषु द्वे द्वे देवत्यौ। नामप्रधानाद्यक्षरम् इन्दुबिन्दुसमन्वितम् आसां बीजं। तज्जनितम् आसां चिह्नं पुनस् तद्बीजाण्कितं। चन्द्रसूर्ययोर् मध्येषु दृष्ट्वा। गौर्यादयो यथा निष्पन्नास् तथा वीणादीनाम् उत्पाद इति कृत्वा चिन्तयेत्।


p.60


अथ वीणा पीटा। वंशा रक्ता। मृदण्गा धूम्रा। मुरजा सिता। माला पीता। लास्या रक्ता। गीता अरुणा। नृत्या विश्ववर्णा। पुष्पा शुक्ला। धूपा कृष्णा। पीपा कनकाभा। गन्धा पीता। आदर्शा सिता। रसा रक्ता। स्पर्शा हरिता। धर्मा सिता॥

एताः स्वस्वचिनहस्ताभिनयपदाश् चन्द्रासनस्थाः षोडशकलाविशुद्धा द्रष्टव्याः॥ एतेन विश्वपद्मादौ हेतुवज्र-धरबिम्बनिष्पत्तिमाण्डलेयजनपर्यन्तेन। मार्गज्ञताभिसंबोधिः॥ इति हेतुमण्डलम्॥१०॥


p.61


11 द्रुतापत्तिः

अथेदानीं सूक्ष्ममण्डलस्वभावं रक्तहोःकारपण्क्तिद्वयपरिवेष्टितं ध्यायाद् उपदेशाद् गन्धर्वसत्त्वं महासुखमयम् अतिरागं स्वरश्मिनाकृष्य यथोपदेशात् प्रविश्य प्रवेशितमात्रेण भगवान् अत्यन्तपरममहासुखैकरसेन स्वविद्यया सह महारागानुरागतो द्रुतापन्नो बीजरूपेणावस्थितो ऽभूत्॥

इति द्रुतापत्तिः॥११॥


p.62


12 समुत्थानम्

ततः पुक्कस्यादयश् चतस्रो देव्यः। अनाथा वयम् इति मत्वा। महादौर्मनस्यप्राप्ताः अतीवोत्कण्ठिताश् चित्तप्रबोधकारिकाभिर् वज्रगीतिकाभिर् भगवन्तम् उत्थापयन्ति॥

तत्रायम् उत्थानगाथाचतुष्टयार्थः कथ्यते। "उट्ठ भराडो करुणमण्व्" इत्यादि।

"उत्तिष्ठ त्वं भट्टारक करुणामनस्क सदा पुक्कसीं मां परित्राहि महासुखयोगेन कामाहि मां। त्यज शून्यतासमाधिं द्रवरूपताम्" इति। "मया तव महामैत्री"॥ "त्वया विना मृता-


p.63


हं। उत्तिष्ठ त्वं हेवज्र त्यज शून्यतास्वभावतां। शबर्याः सिद्ध्यतु कार्यम्" इति। "मया तव महाकरुणा"॥ "लोकान् निमन्त्र्य सुरतप्रभो शून्ये तिष्ठसि किम्। अहं चण्डाली विज्ञापयामि त्वया विना ऊहे न दिशं। न दिशं पश्यामी" ति। "तस्माद् उत्तिष्ठ मया तव महामुदिता"॥ "हे ऐन्द्रजालिक उत्तिष्ठ त्वम् अहं जानामि तव चित्तम्। इन्द्रजालं कृत्वा स्थितो ऽसि। वयं डोम्बिन्यो ऽतिनागरिकाश् चेकमनस" इति। "मा कुरु करुणाविच्चेदम्"


p.64


 इति। "मया तव महोपेक्षाविहारः"॥ इति चतुस्तत्त्वविशुद्ध्या द्रुतापत्तिर् उपदर्शिता। आत्मतत्त्वं देवतातत्त्वं मन्त्रतत्त्वं ज्ञानतत्त्वम् इति॥

अत्र गुरूपदेशाद् यथा तथा क्रमेण बोद्धव्यं चतुस्तत्त्वार्थं ग्रन्थविस्तरभयान् नोक्तम् अत्र॥

अथ तत्त्वरूपी भगवांश् चेद् अभूत् तदा तत्त्वगीतप्रयोगतः स्वप्नप्रबोधितवद् उत्तिष्ठेत्। तथा च परप्रसंगः॥ भगवान् नैरात्मया सहैकचित्तेन नैरात्मको भवेद् चेत्। तस्माद् आ-


p.65


काशस्वप्नं पश्यति किम्। अथवा कथं स्वप्नप्रबोधितवद् भगवान् उत्त्ष्ठति। अत्राह। सत्त्वा निद्रावस्थायां किञ्चिद् अपि न जानते। अथोत्थानं कथं दृश्यते। इतिकर्तव्यतावशाज् जहटित्य् उत्तिष्ठेत् सम्त्रस्तवत्। तथा शून्यतासमाधिसमापन्नो भगवान् स्वपरसंवित्तिं न जानाति। अथ च तत्त्वगीतप्रचोदित उत्तिष्ठेत्। प्रणिधानावेधवशात्॥ तथा च प्रश्नद्वयम्। जन्तवः कायसुखम् आलम्ब्य न जानन्ति ते निद्रावस्थायां किं तु कायेन सत्ता। भगवतः किं तादृक्। कथम् उत्थानम्। अथ च मन्त्रिणा प्रथमम् अशुचितनुः शुचीकृतः शून्यताशु -


p.66


द्ध्या। निर्माणकायाभिनिवेशप्राप्तेः। पुनर् अथ कस्य द्रुतापत्तिर् असौ। निर्माणस्य। इति न भवति। कथम् अस्थिमज्जारहितत्वाद्। इति प्रश्नद्वयम्॥ अथाह। आदौ द्रुतापत्तिर् हेतोर् न तु फलस्य॥ अथ स्वरूपग्रहणोपायकथनम्। यथा शून्यतादिशुद्धितो हेतुवज्रधरग्रहणं तथा द्रुतापन्नादिविशुद्धितः फलवरधरस्यापि ग्रहणम्। एकप्रश्नो निरस्तः। तथा चापरो ऽपि। आदौ देवताकारेणाशुचिकायाभावः। अशुचिकायाभावे शुद्धनिर्माणकायाभिनिवेशमात्रम्। तस्याभावेनामृतद्रवेन्दुवत् स्वच्चमायोपमविज्ञानरूपेण स्थितः। अत एव मायाविज्ञानं प्रणिधानधरम्॥ यथा माया स्वपरसंवित्तिं न जानाति।


p.67


अथ च कार्यं करोति। तथा मायाविज्ञानं स्वपरविज्ञानं विना चिरप्रणिधानावेधवशाद् उत्तिष्ठति॥

योगसमाधिः

तत्रायम् उत्थानक्रमः पञ्चाकारप्रयोगतः। अमृतद्रवाद् इन्दुरूपम् इति। तदमृतद्रवपरिणामेन पञ्चज्ञानमयं बोधिचित्तम्॥ तत्रालिपरिणत आदर्शज्ञानं चन्द्रः। कालिपरिणतः समताज्ञानं सूर्यः। तयोर् मध्यगतं बीजं चिह्नं प्रत्यवेक्षणम् उच्यते। सर्वैर् एकम् अनुष्ठानम्।


p.68


बिम्बनिष्पत्तिः शुद्धधर्मता॥ ततः पञ्चज्ञानमयबोधि-चित्तोत्थानकिरणैः सचराचरम् आनीय माण्डलेयं च तत्रैव समरसं कृत्वा शरच्चन्द्रमण्डलाकारं बोधिचित्तं पश्येत्॥ इति योगसमाधिः॥

अनुयोगो नाम समाधिः

तदनु झटिति तत्परिणतं सहजहेवज्रं शरच्चशधराकारम् अनन्तलोकधातुप्रकाशकं धर्ममुद्रायुतं पञ्चज्ञानमयं ध्यायात्॥ अनुयोगो नाम समाधिः॥१२॥


p.69


13 न्यासः

अतियोगो नाम समाधिः

ततः स्कन्धधात्वायतनानां न्यासम् आरभेत्॥ आंकारं न्यसेद् रूपे। इंकारं वेदनायां समृतम्। ईंदीर्घं संज्ञायां भावयेत्। उं संस्कारे न्यसेत्। विज्ञाने त्व् अंकारं पञ्चस्कन्ध-विशुद्धितः॥ ऊंकारं न्यसेन् मांसे। रक्ते ऋं पुनः सृजेत् ऋंकारं बोधिचित्ते तु। मज्जमेदयोः ल्ं न्यसेत्। धातुविशुद्धितः॥ ल्ंकारं रूपविषये। शब्दे एंकारं न्यसेत्। ऐंकारं गन्धभागे च रसे ओंकारं पुनः। स्पर्शे औंकारम्। अंकारं


p.70


धर्मधातुतः॥ एषां दृढीकरणहेतुत्वान् नवमे पटले चोक्तं भगवता -

रूपस्कन्धे भवेद् वज्रा गौरी वेदनायां स्मृता।

संज्ञायां वारियोगिनी संस्कारे वज्रडाकिनी।

विज्ञानस्कन्धरूपेण स्थिता नैरात्म्ययोगिनी॥

रूपे गौरी सदाख्याता शब्दे चौरी प्रकीर्तिता।

वेत्ताली गन्धभागे च रसे घस्मरी कीर्तिता।

स्पर्शे भूचरी ख्याता खेचरी धर्मधातुतः॥

मांसे पुक्कसी ख्याता रक्ते शबरी प्रकीर्तिता।

चण्डाली शुक्रम् इत्य् उक्तं डोम्बिनी मेदमज्जयोः॥

इति अतियोगो नाम समाधिः॥


p.71


महायोगो नाम समाधिः

एतेन स्कन्धधात्वायतनन्यासः। तथा च तस्मात् पुनर् अपि -

प्रथमं शून्यताबोधिं द्वितीयं बीजसंग्रहम्।

तृतीयं बिम्बनिष्पत्तिश् चतुर्थं न्यासम् अक्षरम्॥

नाभौ हृदि तथा कण्ठे ललाटे पद्मचतुष्टयम्। चतुःषष्ट्य् अष्ट तथा षोडश द्वात्रिंशड् यथाक्रमतो ध्यात्वा चिन्तयेत् तत्र सचराचरम्॥ ततो मन्त्रपटलोक्तकायवाक्चित्ताधिष्ठानमन्त्रेण कायादित्रयाधिष्ठानं कुर्याद् यथाम्नायोपदेशतः। ओंकारेण काय -


p.72


वज्रम्। आःकारेण वाग्वज्रं। हूंकारेण चित्तवज्रम्॥ इति महायोगः॥१३॥

14 'द्वेषात्मा'

आदियोगो नाम समाधिः 

इदानीं तदुपरीति सत्त्वहृदये पूर्वोक्तक्रमेण साधनोक्तक्रमेणापि। तथैव श्रीहेरुकाकाररूपं चतुर्णां मध्ये त्व् एकवीरं स्वेष्टदेवं नैरात्मया समापन्नं स्वविद्यायुतं वा निष्पन्नबिम्बम् आत्मानं पश्येत्॥ इत्यनन्तरं समयत्रयम् आरभेत्। वज्रधरता आत्मसमयं। स्वहृदये सूर्ये ज्ञानसमयं। तस्योपरि हूंकारः समाधिस -


p.73


 मयं। वक्ष्यमाणोपदेशाज् ज्ञात्व्यौ द्वौ ज्ञानसमाधिसमयौ॥ न्यासं पुनर् यथा भगवति तथा भगवत्यां कुर्याद्। अधिकतरसाधनं पुनर् भगवत्यां पञ्चकुलकलापो ऽपरापरस्थानेषु प्रसिद्धः। कलाप इति तथागतसमूहः॥ आःकारेण त्रिदलं पद्मं साह्लादकरं। हूंकारेण कमलकिञ्जल्कं। हूंकारेण जातकुलिशं। तन्मणिमध्य ओंकारं पश्येत्॥ ओं पद्म सुखाधारेत्यादिगाथाद्वयेनाधिष्ठाय पद्मवज्रम् अनाहताक्षरोच्चारणपूर्वकं वज्रं चा लयित्वा रतिम् आरभेत्। पञ्चानां मध्ये वाग्वज्राहंकारतः॥


p.74


प्रथमशून्यताधिमोक्षादौ रतिसुखपर्यन्तेनादियोगो नाम समाधिः॥१४॥

15 उत्सर्गः

सर्वाकारज्ञताभिसम्बोधिः

एतच् च प्रज्नोपायैकरसमहासुखसंभवबोधिचित्तं विनिर्गतम् इति विदित्वा मातृपुरमध्ये त्रितत्त्वोच्चारणपूर्वकं सेवयेज् जिह्वया गरुडमुद्राधरो योगी॥ एवं तथागतपूजा भवेन नित्यम्॥ बाह्ये ऽपि यदि भद्रा मुद्रा भवति। नो वा भद्रा भवेत् तदा न कर्तव्यं। मूलापत्तिः स्यात्॥


p.75


तदनु यत् किंचिल् लवलेशपरमाणुलवबोधिचित्तं कर्णिकास्थितं। तत्परिणामेन देवतीपद्ममध्ये समण्डलमाण्डलेयं प्रभुं विचिन्त्य मन्थमन्थानयोगात्॥ ओं वज्रधृक् हूं। भगवती अं। गौरी गं। चौरी चं। वेत्ताली वं। घस्मरी घं। पुक्कसी पुं। शबरी शं। चण्डाली चं डोम्बिनी डं। उत्सर्गयेद् इत्यादिना॥ पूर्वादिद्वारेषु यथाक्रमं गौर्यादयो ऽस्तौ देव्यः॥ भगवद्भगवत्याव् उत्स्र्ज्य हूंकारा-अंकाराभ्यां। भगवान् भगवतीं प्रविष्टः। भ-


p.76


 गवती भगवन्तं च तथैव॥ गन्धर्वसत्त्वप्रवेशादौ मण्डलोत्सर्गपर्यन्तेन सर्वाकारज्ञताभिसम्बोधिः॥१५॥

16 ज्ञानचक्रम्

सर्वाकाराभिसम्बोधिः

तदनु बोधिचित्तोत्सर्गसंभूता गौर्यादयो भावनीयाः॥ एवं यथानिर्दिष्टं मण्डलचक्रान्तर्गतं विद्यागणपरिवेष्टितं रश्मिसमूहव्याप्तनभस्तलं सम्यग् विभाव्य। इदानीं ज्ञानचक्राकर्षणं कुर्यात्॥ स्वहृधाजाद् रश्मिं निश्चार्य गगन-


p.77


कुहरे स्फारयित्वा ज्ञानचक्रम् आनीय पुरतो विचिन्त्यार्घपाद्यादिकं दत्त्वा संपूज्य संस्तुत्य च। जः हूं वं होः इत्यनेनाकर्ष-णप्रवेशनबन्धनतोषणं च कुर्याट्। ज्ञानचक्रं समयचक्रे प्रवेश्य यथायथम् एकीभूय देवताहण्कारम् उद्वहेत्॥

तदनु हृदये ज्ञानाहंकारचिन्तनम्। यद्य् अप्य् आत्मवत् ज्ञानचक्रं तथापि प्रवेशानन्तरे द्विभुजैकमुखं रक्तं प्रज्ञायुतं ज्ञानसत्त्वं स्वहृदये चिन्तयेत्। तद्धृदये समाधिनाथम्॥ ततो भगवत्यादौ गौर्यादीनाम् अपि तथैव चिन्तयेद् इति॥ ज्ञानचक्राकर्षणादौ ज्ञानचक्रप्रवेश-पर्यन्तेन सर्वाकाराभिसंबोधिः॥१६॥


p.78


17 अभिषेकः

मूर्धाभिसंबोधिः

तदनु ज्ञानचक्रसमयचक्रयोर् एकीकरणसमये प्रज्वलितरश्मिभिर् आकृष्याकाशे पञ्चतथागतं हेरुकरूपापन्नं समण्डलात्मकं ध्यात्वा। अभिषिण्चन्तु माम् सर्वतथागता इति प्रार्थयंस् तं पश्येत्॥ तैस् तथागतैः पञ्चविजयकलशसंयुतकरैः। यथा हि जातमात्रेणेत्यादि गाथां पठित्वा स्नापयन्ति स्वयम् एव॥ ओं सर्वतथाताभिषेकसमयश्रिये हूं इति पठेत्  ॥१७॥


p.79


18 मुद्रणम्

तदनु कुण्कुमचन्दननानासुगन्धिपरिमलपुष्पवृष्टिर् भवति। दुन्दुभिशब्द उच्चलति। नाट्यवाद्यस्तुतिशब्देनानन्तलोकधातुकोलाहल उच्चलति॥ अभिषिक्तस् तु शिरसि चित्तेशः स्यात्। भगवती च चित्ताण्का। चित्तेशशाश्वतरत्नेशामिताभैर् गौर्यादीर् मुद्रयेत्। पुनर् एभिर् बुद्धैर् यथाक्रमं पुक्कस्यादीः शिरस्य् अण्कयेत्॥

ततो वीणादयः स्वस्वविषयेनाभ्यर्चयन्ति प्रभुम्॥ दर्प-णवीणागन्धशण्खनानारसपूरिताधारपात्रस्पर्शवस्तुबोधिचित्तपरिपूर्णधर्मोदयाः। एतान् गृहीत्वा भगवन्तम् अर्चयन्ति पूपवज्रादयः॥


p.80


तुहु पऋवेट्टि जोणिसथें तुहु वर लद्धा अप्पणु चित्तें।

तै जग साल चराचर सोहि करुणाचित्तें सतु संबोहि।

मायपबञ्चे साहसि कज्ज तुट्ट हो मणे शिरिहेरुरज्ज॥

इति वज्रगीत्या लोचनादयो भगवन्तं स्तुवन्ति॥ तथागतबोधिसत्त्वविद्यादेवीक्रोधादयो हृदयोपहृदयमालाष्टपदमन्त्रैः संमुखम् आकाशे स्थित्वा स्तुवन्ति ते। एतेनाभिषेकादौ स्तुतिपर्यन्तेन मूर्धाभिसंबोधिः॥१८॥


p.81


19 अमृतास्वादः

अनुपूर्विकाभिसम्बोधिः

तदनु पुरतो यंभवं वायुमण्डलं ध्वजाण्कितम्। तदुपरि रंभवम् अग्निमण्डलं ज्वालाण्कितम्। तस्योपर्य् आःकारजं त्रिमुण्डोपरि पद्मभाजनं पुनर् आःकाराधिष्ठितम्। तन्मध्ये रक्तं बाह्ये सितम्। बुं आं ज्रीं खं हूं। लां मां पां तां वं तन्मध्य एतानि परिणम्य। पञ्चामृतपञ्चप्रदीपं निष्पाद्य। तदुपर्य् ओंकारेणाच्चादितम् आःकारेण चन्द्रमण्डलं हूंकारेणाधिष्ठितं दृष्ट्वा। वातप्रेरिताग्नितापाद् एव पारदरसाका-रवद्भूतम् ओंकारेण ज्वालनम् आःकारेण बोधनं हूंकारेण शोधनम् कृत्वा। तदनु त्रितत्त्वरश्मिना ज्ञानामृतम् आनीय। तत्रैव


p.82


प्रवेश्य। एकीकृत्य। हूंभववज्रेणालोड्य। समरसीकृत्य। वज्रम् अमृते विलीनं पश्येत्॥ तथागतज्ञानामृतप्रवेशेनातिशीतलं भवेत्। इति निष्पाद्य त्रितत्त्वेनाधिष्ठाय हूंभववज्रजिह्वयाकृष्य रश्मिना सचक्रम् आत्मानं भोजयेत्॥

अमृतास्वादादौ तत्पर्यन्तेनानुपूर्विकाभिसम्बोधिः॥ इत्य् अमृतास्वादः॥१९॥


p.83


20 जगदर्थः

मण्डलराजाग्री नाम समाधिः

तदनु मण्डलमाण्डलेयं तत्प्रतिस्फरणयोगेन यस्य यत्र विनेयास् तस्य निर्माणेन तत्र गत्वा तान् विनीयागत्य स्वस्वकाये संहृत्यानेनैव क्रमेण परिपाच्य षडण्गभावनाम् आरभेद् इति॥ उत्सर्गादौ जगदर्थपर्यन्तेन मण्डलराजाग्री नाम समाधिः॥२०॥

21 षडण्गम्

ततः शशिरविसंपुटमध्ये महामन्त्रराजचक्रवर्तिबीजाक्षरं दृष्ट्वा षडण्गं भावयेत्। कुतः। स्वहृदयस्थचन्द्रसूर्यान्तर्-गतहूंकारनिर्गतरश्मिसमूहात्। ततो ज्ञानसत्त्वहृदये प्रथमं 


p.84


समाधिनाथं भावयेत् कृष्णं। तं परिणम्य बिन्दुरूपं ध्यात्वा। तद्रश्मिभिर् निःसृत्य भगवद्रोमकूपतः समण्डलमाण्डलेयं महाकृष्णं पश्येत्। द्वितीये रक्तं। तृतीये पीतं। चतुर्थे हरितं। पञ्चमे नीलं। षष्ठे सितम् इत्य् अनेन षडण्गं ध्यायात्॥

षडण्गं भावयित्वा तु पश्चात् वर्णं विसर्जयेत्।

इति॥ वर्णविसर्जनशब्देन द्विधा बोधः। वर्णस् तथागताहंकारः शान्तिकादिभेदार्थतः। विसर्जनशब्देन प्रभास्वर-प्रवेशोपायकथनम्॥२१॥


p.85


22 प्रभास्वरम्

एकक्षणाभिसंबोढिः

तत आलिकालिश्वासोच्च्वासतः संस्फार्य संहार्य तत्रैव स्वयं प्रवेश्य एकीभूय इति॥ आलिकालिपण्क्तिं संस्फार्य। कुतः। श्वासोच्च्वासतः। श्वासपथेनालिं कालिम् उच्च्वासपथेन निःसृत्य। तद्रश्मिभिर् लक्षणव्यञ्जनानि संशोध्य। सचराचरेण सहैकीभूय। तत्रैव प्रवेश्य स्वयं। गौर्यादीर् नैरात्म्यां च संहार्य। आत्मनातिष्ठेद् वज्रधरपदम् अविकल्पितं सर्वभावतः। अत एव द्विभुजै-कमुखं शुक्लं। कुत्र। शशिरविसंपुटमध्य इति। भावाभावानुपलम्भ इत्य् अर्थः॥


p.86


अत एव -

अभ्रान्ततत्त्वलाभाय संभोगम् इति स्मृतम्।

हूण्-फट्-कारविनिर्मुक्तं सत्त्वबिम्बसमं परम्॥

तथा च कुलपटले संभोगम् इत्य् उक्तम् -

देहस्थं च महाज्नानं सर्वसम्कल्पवर्जितम्।

व्यापकः सर्ववस्तूनां देहस्थो ऽपि न देहजः॥

तथा च -

आदर्शबिम्बे सकलाण्गयुक्तं

रूपं यथा स्वच्चतरं विभाति।

अशीत्यनुव्यञ्जनलक्षणाढ्यो

देहस् तथा वज्रधरः सदैव॥


p.87


स्वाधिष्ठानक्रम एषः॥ जगदर्थादौ सहजपर्यन्तेन एकक्षणाभिसंबोधिः॥॥

धर्मकायाभिसंबोधिः

ततो बीजावस्थायां स्थित इत्य् अस्य को ऽर्थः। सहजो ऽसौ बीजः॥ अत्र प्रस्ताव इदं स्मर्तव्यम् इति। हसितेक्षणालिण्गनद्वन्द्व-चतुर्वीशुद्ध्या ज्ञातव्यः॥ क्व -

आचार्य गुह्य प्रज्ञा च चतुर्थं तत् पुनस् तथा।

अनेनानन्दक्षणभेदार्थः कथ्यते। आचार्यशब्देन विचित्रक्षणः प्रथमानन्दः। गुह्यशब्देन विपाकक्षणः परमान -


p.88


न्दः। प्रज्ञाशब्देन विमर्दक्षणः विरमानन्दः। चतुर्थं तत् पुनस् तथेति शब्देन विलक्षणक्षणः सहजानन्दः॥ कर्ममुद्राप्रसण्गे किञ्चित्सहजचायोन्मेषमात्रम्। ज्ञानमुद्राप्रसण्गे सम्यक्सम्वेदनम्। महामुद्राप्रसण्गे पुनः संवेदनाभावः॥ कथम् -

आ न अन्त न मज्झ तहिं ण भव न निर्वाण।

एहु सो परममहासुह न पर नौ अप्पाण॥


p.89


इति यथा मत्वा सहजावस्थायाम्। ततो भगवान् अपि प्रभास्वरे प्रविशतीत्य् अर्थः॥ एतेन तद् बीजाक्षरं चन्द्रसूर्यौ च मिश्रीभूय इत्य् अनेन ज्ञानत्रयाभावः सूचितः। अमृतस्वभावम् इत्य् अनेन सहजावस्था दृधीकृता। रश्मिपुञ्जाकारं क्रमेण दीपशिखा इव यावद् अनुपलब्धिकं कुर्याद् इति। रश्मीति किरणम्। पुञ्जाकारम् इति स्कन्धसमूहम्। क्रमेणेति पञ्चस्कन्धानुपूर्वेण प्रवेशम्। दीपशिखा इवेति यथा दीपशिखा झटित्य् अस्तण्गता दीपात्। तथा भगवतः स्कन्धान् उक्रमेण रूपाद् रूपं वेदनायां 


p.90


वेदना संज्ञायां। संज्ञा संस्कारेषु। संस्कारा विज्ञाने। विज्ञानम् आकाशे॥

पक्षाभावात् पूर्वतो गौर्यादीनां संहारः कथं भवेत्। तत्रायं क्रमः कथ्यते। आलिकालिभ्यां निःसृत्य सकलत्रैधातुकम् एकीकृत्य यथाक्रमेण प्रवेशयेत्॥ गौरी स्वैषयं गृहीत्वा भगवद्रूपे गता। तथा चौरी वेत्ताली घस्मरी च वेदनासंज्ञासंस्कारेषु गताः। पुक्कसी कठिनधातुं गृहीत्वा वज्रधररूपधातौ गता। तथा शबरी चण्डाली डोम्बी च अप्तेजोमरुत्सु गताः॥ यद्य् अपि गौर्यादीनां संहारे पुक्कस्यादिसंहारः। तथा च भेदः कथ्यते। किं स्वधातुं विहाय रूपादीनां संहारः। अपि खलु तान् गृहीत्वा समकाले। अत एव पुक्कस्यादीनाम् अपि॥ ग्राह्यग्राहकग्रहणे सति ज्ञानत्रयविशुद्ध्या 


p.91


भूचरी खेचरी नैरात्मिका प्रकृतिरूपा अन्यत्रालोकालोकाभासालोकोप-लब्धिशब्देनोक्ताः॥ नैरात्मादेवी पक्षद्वयम् आसाद्य वज्रधरविज्ञाने गता पूर्वम् एव॥ कुतो। नैरात्म्याहृच्चन्द्रमण्डले अंकारं पश्येत्। तेनैव अंकारचन्द्रमण्डलेन सह द्रुतापन्नां भगवतीं भगवद्धृदये प्रविष्टां चिन्तयेद् इति वचनाद् भगवतीसंहारः॥

एतेन सहजादौ प्रभास्वरपर्यन्तेन धर्मकायाभिसंबोधिः॥२२॥


p.92


23 उत्थानम्

अथ प्रभास्वराद् उत्थानं कथ्यते॥ अथ प्रभास्वरो ऽसौ परमयोगः। उत्थानं प्रति यथा ज्ञानालोकवज्रात् सहजोत्पत्तिः। पश्चात् सहजम् आदौ कृत्वा प्रभास्वरपर्यन्तेन यथा स्यात्। तथा प्रभास्वरात् पुनः सहजं सहजात् पुनर् अनेनैव क्रमेण ध्यातव्यम्। यावद् आबोधिलाभः स्यात्॥ चतुःसन्ध्याधिष्ठानक्रमेणेति प्रातर्मध्याह्नापराह्नरात्राव् इति भावनाक्रमः॥ 

इत्य् उत्थानम्॥२३॥


p.93


24 मन्त्रजापः

तदनु भावना खिन्नो योगि मन्त्रं जपेत्॥ तद् अपि प्रभास्वराद् उत्थाय भावनाजापबलिं च चिन्तयैतव्यम्। तथा च परममादौ कृत्वा स्वेष्टदेवतारूपं निष्पाद्य सहजहेवज्रयोगतो यथो क्तक्रमेण। ततो मन्त्रजापं प्रति भगवन्तं निष्पाद्य डाकिनी-चक्रात्मकम्। यथा पूर्वे तथापरे कार्यकारणसम्बन्धेन् भगवन्तम् आदौ तदनु डाकिनीचक्रं चिन्तयेत्॥ बलिप्रदानं प्रति तथैव॥ किं त्व् अत्र वज्रधरः क्रोधात्मकश् चिन्तनीयो दुष्टदमनार्थम्। कर्मयोगं तु षडण्गम् आश्रित्य॥

ततो जापावसरे गौर्यादिमन्त्रजापं प्रति यस्या जापस् ताम् आलिण्ग्य भगवतीं तस्या निवासे चिन्तयेद् योगिनीसंचारेणेति॥ वज्र -


p.94


धरमूलाष्टपदहृदयोपहृदयानां जापः॥ नो वा नैरात्म्यायाश् च गौर्यादीनां हृदयमन्त्रमात्रं वा जप्तव्यम्॥

तत्रायं क्रमः -

चक्रमध्ये प्रज्ञायुतम् आत्मानं दृष्ट्वा। अनेनैव विधिना मन्त्राख़्षराणि देवतीमुखाद् विनिर्गतानि सरश्मिकानि स्वमुखे प्रविश्य वज्रमार्गोत्सृष्टानि देवतीपद्मे प्रविष्टानि पुनर् देवतीमुखात् स्वमुखम् अनेनैव क्रमेणाविच्चिन्नं मत्रम् आवर्तयेत्॥ इति दोलाजापः॥

हृत्सूर्ये मन्त्राक्षराणि विन्यस्य सरश्मिकान्य् ऊर्ध्वशिरस्कानि ध्यातव्यानि॥ इति पिण्डजापः॥


p.95


तन्मन्त्राक्षराणि मण्डलेश्वरस्य माणालेयानां च मुखाद् उच्चरन्तीति मनसा बोद्धव्यम्॥ इति समयजापः॥

तदनु नाभेर् ऊर्ध्वं गच्चन्तीति चिन्तयेत्। यथेच्चयानुपल-मभपर्यन्तम् उच्च्वासः। नासिकायाश् चिन्तयेन् निःश्वासं तथैवाधरे ऽनुपलम्भं यथेच्चयाशब्दबोधः। परं गोपितम् आम्नायं च तथा॥ इति वज्रजापः॥२४॥

25 बलितत्त्वम्

कर्मराजाग्री नाम समाधिः

ततः पूर्वोक्तक्रमेण क्रोधेश्वरपदं निष्पाद्य यथाक्रमतः क्रोधान् स्फारयित्वा प्रेषयेद् विघ्नगणानाम् आनयनाय॥ तान्


p.96


प्रेष्य मोक्षपुरत्रयं चिन्तयेत् त्रितत्त्वतः। इति चिन्तयित्वा गजभाजनसंहारेण वज्रं तथैव क्षोणीभाजनेन घण्टाम् उत्पाद्य वज्रवज्रघण्टाधरो भूत्वा सत्त्वहितहेतोर् बल्यधिष्ठानं कुर्यात्। क्रमभेदेनु तु वर्णयोगतः॥ तैर् आनीय वज्रधरपुरे विनायकान्। ऊर्ध्व उष्णीषचक्रवर्तिना अधसि सुम्भराजेना-नीतमात्रेण। ओं इन्द जम जलेत्यादिमन्त्रेणामन्त्र्य। ओं आकर्षय जः। ओं पद्मत्रये प्रवेशय हूं। ओं स्वस्वस्थानेषु क्रोधबन्धेन बन्धय वं। ओं वशघण्टया वशीकुरु होः। इत्य् अनेनाकर्षण -


p.97


प्रवेशनबन्धनतोषणं कृत्वा। उक्तविधिनामृतम् उत्पाद्य। पुष्पधूपदीपगन्धादिपूजास्तुतिबल्युपहारपूर्वकं सन्ध्यागीतम् उच्चरन् कमलावर्तादीन् कारयेत्॥

तदन्व् आलिण्गनानन्तरे मुद्रा बन्धं कृत्वा विघ्नान् वीक्षयेत्। तत्र मोक्षपुरेषु मध्ये। तस्य मध्यपुरे प्राग्दल इन्द्रः सहस्राक्षो गौरो वज्रपाणिः शुक्लैरावतासीनः। दक्षिणदले यमो दण्डपाणिः कृष्णो महिषारूढः। पश्चिमदले वरुणः श्वेतो मकरवाहनः कुमुदकमलपाणिः।


p.98


उत्तरदले यक्षः पीतो नरवाहनः श्रीफलपाणिः॥ एते सर्वालं-कारधरा रत्नमुकुटिनः। यमः सूर्यासनः सूर्यप्रभः। शेषाश् चन्द्रासनाश् चन्द्रप्रभाः॥

ऐशान्यदले भूतपतिः श्वेतस् त्रिनेत्रो जाटामुकुटी वृषभवाहनस् त्रिशूलपाणिर् व्याघ्रचर्माम्बरधरो भस्मोद्धूलितविग्रहः सर्वास्थ्याभरणभूषितश् चन्द्रासनश् चन्द्रप्रभः। अग्निदले वह्निर् लम्बोदरो ऽतिपीनः खर्वश् च्चागवाहनो रक्तः। अक्षसूत्रकमण्डलुधरो जटामुकुटी सूर्यासनः सूर्यप्रभश् चीवरवासी। नैरृत्यदले राक्षसो मुक्तकेशः कट्टारकपाल -


p.99


धरः क्रुद्धः सभ्रूभण्गः कृष्णः शवोपरि सूर्यासनः सूर्यप्रभः। वायव्यदले वायुर् ध्वजपाणिः श्यामो रत्नमुकुती मृगवाहनश् चन्द्रासनश् चन्द्रप्रभः सर्वालण्कारधरः। वरटके पृथिवी पीता दिव्यवसना सर्वालण्कारधरा घटहस्ता चन्द्रासना चन्द्रप्रभा॥ प्रेताश् च पृथिवीम् आवेष्ट्य संस्थिताः॥ इन्द्रादयः पञ्च वामे नागपाशधराः। सर्वे पुनः प्रत्यालीढपदाः॥

ऊर्ध्वधर्मोदयस्थपद्माष्टदलेषु पूर्वदले चन्द्रः सिताववाहनः सितो रत्नमुकुटी कुमुदपाणिः सर्वालंकारधरश् चन्द्रासनश् चन्द्रप्रभः। दक्षिणदले सूर्यो रक्तो


p.100


भुजाभ्यां पद्मधरो हरिताश्ववाहनो रत्नमुकुटी सर्वालण्कारधरः स्वासन आत्मप्रभः। पश्चिमदले बुधो मूषकारूढः पीतः सूर्यासनः सूर्यप्रभो रत्नमुकुटी शरहस्तः। उत्तरदले शुक्रो नीलाभः सूर्यासनः सूर्यप्रभो रत्नमुकुती शक्तिधरः। ऐशान्यदले मण्गलो रक्तः सूर्यासनः सूर्यप्रभ ऊर्ध्वमुक्तकेशः पद्मधरः। अग्निदले बृहस्पतिर् अतिपीतः सूर्यासनः सूर्यप्रभो रत्नमुकुटी गदाधरः। नैरृत्यदले शनैश्चरः कृष्णः पिण्गलकेशः सूर्या -


p.101


सनः सूर्यप्रभस् त्रिशूलधरः। वायव्यदले राहुकेतु सूर्यासनसूर्यप्रभौ महाकृष्णधूम्राभवर्णौ। संसारचक्रम् आकृष्य भक्षणाभिनयधरो राहुः। संपुटाञ्जलिधरः केतुः॥ तन्मध्यवरटके ब्रह्मा  चतुर्भुजश् चतुर्मुखस् त्रिदण्डधरो ऽभयपाणिर् अक्षसूत्रकमण्डलुधरः शेषभुजाभ्यां पीतो हंसवाहनश् चन्द्रासनश् चन्द्रप्रभो यज्ञोपवीती पीनो जटी खर्वः। ब्रह्माणम् आवेष्ट्य ब्रह्मकायिका ब्रह्मपुरोहितास् तुषिता यामा अकनिष्ठादिदेवैः पण्वृताः॥


p.102


अधोधरमोद्ये दिग्विदिक्क्रमेण। वासुकिः पीतः। पद्मो नागः सितः। कर्कोटको नागो रक्तः। तक्षको नागः कृष्णः। शण्खपालो नागः पीतः। महापद्मो नागः श्यामः। अनन्तो नागः पाण्डरः। कुलिको नागः कर्बुरः॥ एते चाष्टौ रत्नमुकुटिनो मनुष्यास्याः सर्वालण्कारधराः फणाण्कितशिरसो शुरनारकसत्त्वसहिताः॥ वरटके शेषः श्वेतो रत्नमुकुटी नरमुखः फणी॥

इत्थम् एतान् स्थिरीकृत्य पुनस् तान् परिणाम्य श्रीहेरुकाकारेण निष्पाद्य कायवाक्चित्तबीजप्रयोगतः। ऊर्ध्वस्थाः कायाकाराः। मध्यस्थाः पुनर् अक्षोभ्याकाराः। अधःस्था वाग्वज्रा -


p.103


कारा द्रष्टव्याः॥ सार्वकर्मिकार्थं भुजमुखं पुनर् यथात्मनस् तथा तेषाम्॥ अपरकर्माहंकारो यथायोगतः कर्तव्यः॥ सर्वेषां तथा यथात्मनो पूपम्॥

तदनु ओं प्रवरसत्कारार्घं प्रतीच्च स्वाहा। इति मन्त्रेण प्रचोद्यार्घं दद्यात्। संदंशमुद्रया पादयोः पाद्यं दत्त्वा एदं बलिं भुञ्ज जिंघेत्यादिना भोजयेत्। कार्यं च निवेदयेत्॥


p.104


तदनु सन्ध्यागीतं भगवद्भगवतीदेवतीचक्रक्रोधानां मन्त्रांश् च पठन्। वज्रवज्रघण्टाधरेणाभिनयपूर्वकं घण्टावादनं वज्रोल्लालनादिकं कृत्वा। ओं अकारो मुखम् इत्यादि पठित्वा।

ओं वज्रहेरुक समयम् अनुपालय हेरुकत्वेनोपतिष्ठ दृधो

मे भव। सुतोस्यो मे भव। सुपोस्यो मे भव। अनुरक्तो

मे भव। सर्वसिद्धिं मे प्रयच्च। सर्वकर्मसु च

मे चित्तं श्रेयःकुरु हूं। ह ह ह ह होः भगवन्

सर्वतथागतवज्र मा मे मुञ्च हेरुको भव महासमयसत्त्व आः।


p.105


इत्य् अनेन संतोष्य विसर्जयेत्॥ तत्रायं विसर्जनमन्त्रः।

ओं आः। हूं फट् फट् फट्। ओंकारेण प्रणिधानम्। आःकारेण

तोषणम्। कूंकारेण तृप्तीकरणम्। त्रिफट्कारेणोपसंहारम्॥

देव्यः प्रमाणं समयः प्रमाणं

तदुक्तवाचश् च परं प्रमाणम्।

एतेन सत्येन भवेयुर् एता

देव्यो ममानुग्रहहेतुभूताः॥

भवशमसमसण्गा भग्नसंकल्पसण्गाः 

खम् इव सकलभावं भावतो वीक्षमाणाः।


p.106


गुरुतरकरुणाम्भःस्फीतचित्ताम्बुनाथाः

कुरुत कुरुत देव्यो मय्य् अतीवानुकम्पाम्॥

एतेन षडण्गादौ बलितत्त्वपर्यन्तेन कर्मराजाग्री नाम समाधिः॥२५॥

26 सूक्ष्मयोगः

सूक्ष्मयोगो नाम समाधिः

तदुत्थाय धर्ममध्ये तु विश्वपद्मं चिन्तयेत्। तद्दलेष्व् अष्टाव् अष्टानाम् ईश्वरं च। तद्धृदये चिन्तयेद् बीजम्। बीजान् नादाग्रकोटीं विभावयेत्। चित्तस्थैर्यकरणार्थं चिन् -


p.107


तयेत् सूक्ष्मां कोटीम्। तय सहैकभावेन चित्तस्थैर्यं भवेन् न संशयः। चित्तस्थैर्यमात्रेण स्फारयेत् ताथागतं व्यूहं योगिनीजालम् अतिविस्तरं चानन्तलोकधातुम् अभिव्यापकम्॥ कुतः। स्वचिह्नात् स्फरत्य् अचिन्तितं नाथं मण्डलात्मकं प्रभुम्॥ उक्तं धर्मशब्देन द्विविधं यथोपदेशाद् बोद्धव्यम्। चिह्नं पुनः 


p.108


सर्षपस्थूलमात्रकं चिन्तयेत्॥ इति सूक्ष्मयोगो नाम समाधिः॥२६॥

27 कवचद्वयम्

तदुत्थाय यदि वा विहरेद् योगी कवचद्वयं कृत्वा सहजहेवज्रयोगतः॥ अक्षोभ्यश् चल्रिरूपेणेत्यदिना। हूं शिरसि चक्री विधर्तव्या। ह्रीः कर्णयोर् दिव्यकुण्डलम्। त्रां कण्ठे कण्थमालाम्। ओं हस्तयो रुचकद्वयम्। खं कट्यां मेखलं चैव। हं सर्वाण्गे भस्मविग्रहम्। कवचयेन् महदुपदेशतः॥ एवं चक्षुषोर् मोहवज्रीत्यादिकवचः॥


p.109


तत्रायं कवचमन्त्रः। आं अं इं ईं उं अं॥ एतेन वज्रयोगिनीतथागतादिभिः परिघटितशरीरो ऽसौ भगवान् इति कवचद्वयम्॥२७॥

28 विहरणम्

अनेन सन्नाहसन्नद्धीभूय सिंहवद् विहरेद् योगी सहजहे-वज्रयोगतः॥ कुत्र। त्रैलोक्यागारमध्ये॥ तथा च -

कूटागारम् इदं न तु त्रिभुवनं न प्राणिनो ऽमी जिनाश्

चक्रेशो ऽस्मि नि मानुषो न विषया नाक्षाणि न क्ष्मादयः।


p.110


रूपाद्या न च धर्मतात्मकतया ते माण्डलेया इमे

विश्वं मण्डलचक्रम् आकलयतश् चेतः किम् उद्भ्राम्यसि॥

विहरणम्॥२८॥

29 भोजनम्

तदनु यत् किञ्चिद् उपार्जितं भक्ष्यद्रव्यं योगिना लब्धं वा तत् सर्वं पूर्ववद् अमृतास्वादविधिना विशोध्य त्रितत्त्वेनाधिष्ठाय भक्षयेत्॥ भोजनम्॥२९॥


p.111


30 चरणम्

ततो भक्षणविधिम् उक्त्वा स्थितिं चरणं च कथयाम्य् अहं। मूलतन्त्रानुसारतः॥ तथा हि -

लोभं मोहं भयं क्रोधं व्रीडाकार्यं च वर्जयेत्।

निद्राम् आत्मानम् उत्स्र्ज्य चर्या क्रियते न संशयः॥

अत एव -

शरीरं दानं दत्त्वा पश्चाच् चर्यां समारभेत्।

भागाभागविचारेण तस्माद् दानं न दीयते॥

भक्ष्यं भोज्यं तथा पानं यथाप्राप्तं तु भक्षयेत्।

ग्रहम् अत्र न कर्तव्यम् इष्टानिष्टविकल्पतः॥

पञ्चवर्णसमायुक्तम् एकवर्णं तु कल्पितम्।


p.112


अनेकेनैव वर्णेन यथा भेदो न जायते॥

एकवृक्षे श्मशाने वा भावना कथिता शुभा।

मातृगृहे तथा रात्रौ अथवा विजने प्रान्तरे॥

किञ्चिदूष्मे तु संप्राप्ते चर्यां कर्तुं यदीष्यते।

सिद्धिं गन्तुं यदाच्चास्ति चर्यया त्व् अनया चरेत्॥

अपरे च "मूले स्पष्टं च चर्यत" इति चर्याचरणम्। स्थितिर् व्यवहार आचारः। परमार्थस् तु भण्यते। अधिमात्रतरं प्राप्य। अधिमात्रतरस्य को ऽर्थः। किञ्चिदूष्मप्राप्त इत्य् अर्थः॥ मृदू रात्रौ स्वस्थाने निभृतं चरेद् एवं यावत् किञ्चिल् ला -


p.113


भः स्यात्॥ कुतः। "यथा भेदो न जायत" इति वचनात्॥ लाभे सत्य् अव्यवस्थां करोतु न करोतु वा स्वतन्त्र एव॥

इति चरणम्॥३०॥

31 शयनम्

ततो ऽपरसन्ध्यायां शयनेच्चया विरमान्तयोगम् आमुखीकृत्य शयीत॥ इति शयनम्॥३१॥


p.114


32 अपरम् उत्थानम्

उत्थानकाले पुनः पुक्कस्यादिगीतसंचोदित उत्थाय तादृशं कुर्याद् अनेनैव क्रमेण यावन् मण्डलचक्रलाभः स्यात्। तेन विना महाबोधिर् न स्यात्॥ अत एव -

इत्पत्तिक्रमं विना उत्पन्नं न ज्ञायते यथा।

तथोत्पन्नयोगं विना उत्पत्तिक्रमं न च॥

तथा च -

क्रमद्वयं समाश्रित्य वज्रिणां धर्मदेशना॥

एवं यथानिर्दिष्टं मण्डलचक्रान्तर्गतम्। एकमुखम् अद्वयज्ञानविशुद्धम्। द्विभुजं शून्यताकरुणाविशुद्धम्। दक्षिण-


p.115


करे वज्रम् अभेद्यज्ञानप्रतिपादकम्। वामे कपालं वज्रखट्वाण्गं च। खट्वाण्गं प्रज्ञास्वभावम्। कपालं बोधिचित्तप्रतिपादकम्॥

एवं चतुर्भुजं चतुर्मारविनाशार्थम्। एकमुखम् अचिन्त्यज्ञानविशुद्धम्। प्रथमदक्षिणभुजे वज्रं युगनद्धमार्गप्रतिपादकम्। प्रथ्मवामभुजे कपालं देवासुराणां रक्तेन पूरितम्। देवासुरशब्देन भावाभावम्। रक्तशब्देन तदेकीभावम्। पूरितशब्देन तत्पदप्राप्तम्। एतद्विशुद्धं नरकपालम्। शेषभुजाभ्यां वज्रवाराह्यालिण्गितम्॥

एवं षड्भुजं षट्पारमिताविशुद्धम्। त्रिमुखं कायावाक्चित्तस्वब्जावप्रतिपादकम्। वामे घण्टा शून्यताविशुद्ध्या त्रिशूलं 


p.116


ज्ञानत्रयच्चेदनार्थम्। दक्षिणे वज्रं समताज्ञानविशुद्धं कर्तिका चाशेषाज्ञानच्चेदनाय॥

एवं द्विभुजचतुर्भुजषड्भुजानाम् अवस्थितिर् अर्धपर्यण्केण शवोपरि सूर्ये। अपरं यथा षोडशभुजे तथा एषु त्रिष्व अपि॥ इत्य् अपरम् उत्थानम्॥३२॥

अवसानम्

श्रीमत्सरोरुहपादोद्देशसूत्रम् अदेशेन मया जालन्धरीति ख्यातेनार्यवचनम् आश्रित्य टिप्पितम्॥


p.117


कृत्वा सुरतवज्रेण विशुद्धिक्रमटिप्पणीम्।

तेन भूयाज् जगत् सर्वं वज्रश्रीज्ञानपारगम्॥

इत्य् आचार्यसरोरुहपादविरचितश्रीहेवज्रसाधनस्य वज्रप्रदीपा नाम टिप्पणिविशुद्धिः समाप्ता॥॥ कृतिर् इयं पण्डिताचार्यश्रीमत्सुरतपादानां इति॥॥


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project