Digital Sanskrit Buddhist Canon

हेवज्रसाधनोपायिका

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

p.1


हेवज्रसाधनोपायिका


नमः श्रीहेवज्राय।


श्रीहेवज्रं नमस्कृत्य नैरात्मां चापि भक्तितः।

तत्साधनविधिं वक्ष्ये वज्राचार्यप्रसादतः॥

आदौ तावद्योगी सर्वसत्त्वार्थोद्यतमतिसम्यग्गुरुभट्टारकमाराध्य यथा-विधिना श्रीहेवज्रोक्तमण्डलप्रतिष्ठया यथापरिपाट्याभिषिक्तः सम्यगनुज्ञातः सुविशुद्धा विपरीततत्त्वज्ञानप्राप्तो लब्धनिमित्तश्च श्रीमधेकारवज्रं साधयितुकामः श्मशानादिमनोरमे स्थाने स्थित्वा सविद्यः पञ्चामृतादिसमयसेवी बलिपूजादिकं कृत्वा स्वहृद्रेफोद्भवसूर्य नीलवर्ण हूंकारं पश्येत्। तस्माद् हूँकारात् पञ्चाकारान् रश्मीन् गगनकुहरे संस्फार्य तैश्च रश्मिभिराकृष्य पुरतो गगनदेशे भगवन्तं वज्रजन्मनीलं वक्ष्यमाणवर्णभुजायुधम्, षोडशभुजम्, षड्भुजम्, चतुर्भुजम्, द्विभुजं वा स्वविद्यालिङ्गितं त्रिनेत्रम् ऊर्ध्वपिङ्गः[ल]केशं षण्मुद्रोपेतम्, अष्टदेवीपरिवृतम्, स्फुरणसंहरण विग्रहं ध्यायात्।


p.2


तस्य पुरतो गौरी कृष्णवर्णा बोधिचित्तेन्दुकरा, दक्षिणे चौरी पीता स्वयम्भूकुसुमाख्या सूर्यस्य, पृष्ठतो वेताली रक्ता वज्राम्बुपात्रहस्ता, उत्तरे घस्मरी श्यामा गुह्यभैषज्यधरा, ईशान्यां पुक्कसी नीला विविधबलधारिणी, अग्नेय्यां शबरी शुक्ला रसाधारहस्ता, नैरृत्यां चण्डाली, आरक्ता कृपीटं वादयन्ती, वायव्यां डोम्बिनी धूम्रवर्णा स्वकायाश्लिष्टा।

एवंभूतं भगवन्तं स्फुरणसंहरणविग्रहं नभसि भट्टारकं दृष्ट्वा स्वहृदये सर्यस्थबीजाद्विनिर्गतबाह्यागुह्यतत्त्वपूजाविशेषौः संपूज्य तस्याग्रतः पापदेशनादिकार्यं कुर्यात्। यदनादिगति संसारे असत्संकलंपप्रसूतं मया पापकं कर्म कृतं तत्सर्वं भगवदग्रतः पुनरकरणाय देशयामि। सर्वसत्त्वाना क्शलं तत्समस्तमनुमोद्यामुक्तरायां सम्यक्संबोधौ परिणामयामि। तत्समस्तत्रैधातुकात्मकं 


p.3


महासुखाकारं हेकारवज्रं बुद्धं तद्देशितमन्त्रमुद्रामण्डलादिस्वरूपं धर्मं तत्पूर्व चक्रस्थितदेवतीगणञ्च शरणं गतोऽस्मीति कृत्वा सर्वसत्त्वार्थकरणहेतुभूतायां सर्वाकारवरोपेतशून्यतालक्षणायां वोधिचित्तं समाग्निरूपे सर्वसत्त्वेष्वेकपुत्रप्रेमलक्षणां महामैत्रीं भावयेत्।

तदनु विकल्पोदधिनिमग्नान् सत्त्वानशरणान् दृष्ट्वा तदुत्तारण-वाञ्छास्वभावां महाकरुणां चामुखीकृत्य एवं महाप्रामोद्यप्राप्तः मुदिता समस्तकल्पितविषयाद्युपेक्षको मंत्री निःशेषवस्तुतत्त्वसार-संग्राहकं मन्त्रमुच्चारयेत् "ओं शून्यताज्ञानवज्रस्वभावात्मकोऽहम्'। इत्यनन्तरं मन्त्रार्थमामुखीकुर्वन् आत्मानं सर्वत्रैधातुकं च निराभासं कारयेत्। ततः प्रणिधिमनुस्मृत्याकाशे रेफोद्भवं सूर्यमण्डलम् तन्मध्ये हूँकारसंभूतं पञ्चरश्मिकं त्रिसूचिकं विश्ववज्रम्, तद्रश्मिसंभूतं यावदिच्छाविस्मरं जाज्वल्यमानं वज्रप्राकारं पश्येत्। तदभ्यन्तरे वज्रपञ्जरं च विभाव्य विघ्नानुत्सार्य तन्मध्याकाशव्यापिनीं प्रज्ञामेकाराकारां शुक्लां भावयेत्। तदुपरि पृथिवीं चतुरस्रां लंकारजां हरिताम्। ततो वर्तुलं वँकारजम् आप मण्डलं शुक्लम्। ततस्त्रिकोणं रंकारजाग्निमण्डलं रक्तम्। ततो यंकारजमर्द्धचन्द्राकारं नीलवर्णं वायुमण्डल्।


p.4


तन्मध्यवर्ति विज्ञानं विदित्वा एतत्सर्वं परिणाम्य झटिति मण्डलं चक्राकारं प्रभास्वरं भावयेत्।

चतुरस्रं चतुर्द्वारमष्टस्तम्भोपशोभितं हारार्द्धहारतोरणादि-विचरितं स्फुटं विचिन्तयेत्। तन्मध्ये चन्द्रार्कसंपुट मध्ये हूँ अं बीजद्वयसंभूत करोटककर्तिकं तदुपरि तदेव बीजद्वयम्। एतत्समस्त-परिणतमात्मानं श्रीहेकारवज्ररूपं नीलवर्णमष्टास्यं षोडशभुजं चतुश्चरणं नैरात्म्यासहैकर-सपरमानन्द-महासुखरतिद्वन्द्वसमापन्नं पश्येत्। ततः ओं पद्मसुखोदार महारागसुख दद चतुरानन्दभाग विश्व हूँ हूँ हूँ कार्यं कुरुष्व मे। ओं वज्रमहाद्वेष चतुरानन्ददायक खगमुखैकरस नाथ हूँ हूँ हूँ कार्यं कुरुष्व मे।

बाह्येऽपि सुखविधौ पद्मवज्राधिष्ठानमिदं कर्तव्यम्। ततो मन्थमन्थानयोगाद्देवतीचक्रमुत्सृजेत्। तत्र पूर्वादिद्वारेषु यथाक्रमं ब्रह्मेन्द्रोपेन्द्ररुद्राः तथा ईशानादिकोणेषु वैवस्वतवित्तनायकाः, नैरृत्ये वेमचित्रिणश्च। एवमष्टासनानि विभाव्य तदुपरि चन्द्रार्क्क-संपुटमध्येषु। गँ चँ वँ घँ पँ शँ लँ डँ इति बीजाष्टकं पश्येत्।


p.5


तत्परिणतानि गौर्यादीनां चिह्नानि। कर्ति, कृपीट, कूर्म, सर्प, सिंह, भिक्षु, चक्र, वज्राणि चिन्तयेत्। तदुपरि पुनस्तान्येव बीजानि। सर्वमेकत्र परिणाम्य गौर्यादयो निष्पन्ना भावयेत्।

तत्र पूर्वाद्वारे गौरीं गँकारोद्भवां कृष्णां दक्षिणहस्ते कर्ति वामे लोहितकराम्, ब्रह्माक्रान्तां रूपस्कन्धस्वभावां पश्येत्। दक्षिणद्वारे चौरीं चँकारसंभवां मञ्जिष्ठवर्णां दक्षिणकरे कृपीटं वामे शूकरधराम्, इन्द्रारूढां वेदनास्कन्धस्वरूपां पश्येत्। पश्चिमद्वारे वँकारजाँ वेतालीं तप्तहेमाभां दक्षिणभुजे कूर्मं वामे पद्मभाजनम् उपेन्द्राक्रान्तां संज्ञास्कन्धनिर्मितां चिन्तयेत्। उत्तरद्वारे घँकारजनितां घस्मरीं श्यामवर्णां, दक्षिणहस्ते सर्पधरां वामे कपालम् रूद्रारूढां संस्कारस्कन्धस्वभावां पश्येत्। ईशाणकोणे पुक्कसीं पुँकार जनितां


p.6


नीलवर्णां दक्षिभुजे सिंहं वामे परशुधरां, वैवस्वताक्रान्तां पृथिवी-धातुस्वरूपां विचिन्तयेत्। अग्निकोणे शंकारजनितां शवरीं शुक्लां, दक्षिणभुजे भिक्षुं शृगालं वा अवसव्येन खिङ्खिरिकाम्, वित्तनायकारूढाम् अब्धातुस्वभावां पश्येत्। नैरृत्यकोणे लंकारजां चण्डालीं नभोपमां दक्षिणे चक्रधरां वामे लाङ्गलहस्तां राक्षसाक्रान्तां तेजोधातुस्वभावां पश्येत्। वायव्यकोणे डंकारजां डोम्बिनीं कर्बुरवर्णां, दक्षिणकरे वज्रं वामे तर्जनीं वेमचित्रि-समाऱ्ऊढां वायुधातुस्वरूपां ध्यायात्। एताः सर्वास्त्रिनेत्रा दंष्ट्राकरालवदना उर्द्धपिङ्गलकेशा नग्नाः पञ्चमुद्रोपेता अर्द्धपर्यङ्क-नाट्यस्थिता बोधिचित्तोत्सर्गसंभूता भावनीयाः।


p.7


इत्यनन्तरं भगवान् अत्यन्तनिर्भरपरममहा सुखैकरसेन स्वविद्यया सह द्रुतापन्नो बीजस्वस्वरूपेणावस्थितोऽभूत्। ततः पुक्कस्या-दयश्चतस्रो देव्यः अनाथा वयमिति मत्वा महद्दौर्मनस्यं प्राप्ताः। 

अतीवोत्कण्ठिताश्चित्तप्रबोधकारिकाभिर्वज्रगीतिकाभिर्भगवन्तमुत्थापयन्ति।

उट्ठ भराडो करुणमण्ड पुक्कसी महुं परिताहिं।

महासु‍अ जो‍ए काममहुं छडुहिं सुण्णसमाहि॥

तोह्या विहुण्णे मरमि हहुं उट्ठेहिं तुहं हेवज्ज।

छड्डहि सुन्नसभावडा शवरि‍अ सिह्या‍उ कज्ज॥

लो‍अ निमिन्त‍अ सुर‍अपहु सुण्णे अच्छसि कीस।

हौं चण्डालि विण्णनमि त‍इविण्ण डहमि न दीस॥

इन्दी आली उट्ठ तुहुं हौं जानामि तुह चित्त।

अम्भे दोम्बी छे‍अमण्ड मा कर करुण विच्छित्त॥

इति तत्त्वगीतिकाभिः प्रचोदितो भगवान् स्वप्नबोधिवत्तदमृत-द्रवेन्दुरूपम्, तदुपरि बीजद्वयोद्भूतचिह्नद्वयोपरि हूँ ओं बीजद्वयं, ततः सूर्यमण्डलमेतत्सर्वमेकत्र परिणम्य, रविमण्डलमध्ये हूँकारो-द्भूत-अँकारसंभवः नैरात्मासमापन्नं भगवन्तं श्रीहेकारवज्रमात्मानं निर्मयेत्।


p.8


कृष्णवर्णं महारौद्रं त्रिनेत्रम् ऊर्द्धज्वलितपिङ्गलकेशं मूर्घ्नि विश्ववज्रांङ्कितं तलाटोपरि पञ्चमुण्डमालाविभूषितं सद्भ्रूभङ्ग-भृकुटीकरालम्। प्रथममुखं कृष्णं, दक्षिणं शुक्लम्, वामं रक्तम्, पुनर्वाममुखद्वयं कृष्णं, तथा दक्षिण मुखद्वयं कृष्णम् ऊर्द्धमुखं धूम्रवर्णम्। विकृतं सर्वाण्येव मुखानि द्रंष्ट्राकरालानि, त्रिनेत्राणि, दक्षिणाष्टभुज-स्थितेष्वष्टसु पद्मभाण्डेषु यथाक्रमम्-हस्ति-अश्व-खर-गावोष्ट्र-मनुष्य-श्वान(शरभ)-महिषाः। तथा वामाष्टकपालेषु पृथिवी-वरुण-वायु-तेज-चन्द्र-आदित्य-यम-धनदाश्चेति। षण्मुद्रोपेतं सार्दमुण्डमालालङ्कृतं शरीरम्। नग्नमालीढपदस्थितम्। स्कन्ध, क्लेश, मृत्यु, देवपुत्रचतुर्मारं समाक्रान्तं सूर्यमण्डले ताण्डवान्वितपदस्थितं ध्यायात्। नैरात्मां कृष्णां द्विभुजां कर्तिकपालसहितां दक्षिणेतरभुजाभ्यां भगवन्तं समालिङ्गतं नग्नां पञ्चमुद्रोपेतां त्रिनेत्राम् ऊर्द्धपिङ्गलकेशां मुण्डमालां शिरसि विभूषितां शुष्कनरशिरोमाला -


p.9


लङ्कृतगात्रां प्रत्यालीढेन परममहारागं भगवत्समापन्नां भगवतीं भावयेत्।

एवं यथादृष्टमण्डलचक्रान्तर्गतं विद्यागणपरिवेष्टितं स्वरश्मिसमूह-व्याप्तनभस्थलं सम्यग्विभाव्य स्वहृदयस्थस्व बीजाद्रश्मीन्निश्चार्यच रश्मयः समस्तत्रैधातुकमभिव्याप्य तत्रैवाक्षरं प्रवेशयेत्। पुनर्गगनकुहरे स्फारयित्वा ज्ञानचक्रमाकृष्याग्रतः। स्फीटीकृत्य संपूज्य चानीय स्वसमयचक्रे प्रवेशयेत्। प्रवेशैकीकृत्य देवताहङ्कारमुद्वहन् स्वकायनिर्गतरश्मिसमूहात्तथागत बोधिसत्त्वविद्यादेवतीक्रोधाधिपतीन् पञ्चामृतपरिपूर्ण कलशैरभिषिच्यमानं विविधपूजाविशेषैः संपूज्यमानञ्चात्मानं भावयेत्।

एवं यथाक्रमं, विचित्र-विपाक-विमर्द-विलक्षणं चतुःक्षणमव्याप्य आनन्द-परमानन्द-विरमानन्द-सहजानन्द-चतुरानन्दान् 


p.10


विलक्ष्य हसितेक्षणालिङ्गनद्वन्द्वचतुर्विशुद्ध्या आचार्यगुह्यप्रज्ञा-परममहासुखपर्यन्तं चतुरोऽभिषेकान् गृह्णीयात्। अभिषिक्तं तु स्वकुलेशाङ्कितशिराः तथा चित्तेशा शाश्वतरत्नसंभवामिताभैर्गौर्याद्या-मुद्र्यात् द्वेष-मोह-पिशुन-रागैः। पुक्कस्याद्याः शिरसि अङ्कयेत्।

अयं च भगवान् सचक्रः पञ्चज्ञानात्मकः। तत्रालिपरिणत आदर्शस्वभावश्चन्द्रः। कालिपरिणतः समतास्वभावः सूर्यः। तयोर्मध्यगतं चिह्नबीजं प्रत्यवेक्षणा सच्चैकत्र परिणामः कृत्यानुष्ठानम्। बिम्बनिष्पत्तिः सुविशुद्धधर्मधातुज्ञानमिति। एवं समस्तत्रैधातुक - मण्डलचक्राकारमधिमुञ्चन्। एतच्च प्रज्ञोपायैकरसमहासुखसंभव-बोधिचित्तविनिर्गतमिति दृष्ट्वा गौर्यादेव्यः स्वकीयेषु अष्टसु मुखेषु क्रमेण प्रविष्टाश्चिन्तनीयाः। एवं प्रज्ञोपायात्मक सकलत्रैधातुकैकमूर्तिमभिसमीक्ष्य यथास्थानं चक्रचतुष्टयेन मुद्रयेत्। शिरसि महासुखचक्रं द्वात्रिंशद्दलपद्मं ततः किञ्जल्कं शुक्लहंकारं देदीप्यमानं पश्येत्। कण्ठे संभोगचक्रे षोडशदलपद्मं तन्मध्ये ओंकारं रक्तम्।


p.11


हृदये धर्मचक्रे अष्टदलपद्मं तन्मध्ये हूँकारं नीलम्। नाभौ निर्माणचक्रं चतुःषष्टिदलपद्मं तद्गर्भे अँकारं पञ्चरश्मिकं भावयेत्। एतानि चक्राणि सम्यग्विभाव्य तद्रश्मिसमूहं गगनोपरि स्फार्य च तत्रैवान्तलींनानि कारयेत्। ततः स्वशरीरस्थितषण्मुद्रारूपैस्तथागतैरात्मानं कवचयेत्।

अक्षोभ्यश्चक्रिरूपेण अमिताभः कुण्डलात्मकः।

रत्नेशः कण्ठमालायां हस्ते वैरोचनः स्थितः॥

मेखलायां स्थितोऽमोघः सर्वाङ्गे वज्रधृग्वसेत्।

चक्षुषोर्मोहवज्री स्यात् श्रोत्रयोर्द्वेषवज्रिका॥

घ्राणे मात्सर्यवज्री ख्याता वक्त्रे च रागवज्रिका।

स्पर्शे ईर्ष्यावज्री च मनो नैरात्मा योगिनी॥

कायबोधिं तथा चित्ते हृच्चन्द्रबीजमधिष्ठयेत्।

ओं आः हूँ इति मन्त्रः।

खेचरी भूचरी चैव तथा पातालवासिनी॥


p.12


एवं समयी भूत्वा मन्त्रं जपेदनेन विधिना। यान्येव मन्त्राक्षराणां(णि) निश्चार्यन्तेतानि देवतीमुखाद्विनिर्गतानि सरश्मीनि स्वमुखं प्रवेश्य वज्रमार्गेण निश्चार्य च देवती पद्मप्रविष्टानि। पुनर्देवतीमुखात् स्वमुखम्। अनेन क्रमेणाधिष्ठानमन्त्रमावर्तयेत्। कर्मभेदे तु वर्णभेदः कार्यः।

एवं अखेदपर्यन्तं मन्त्रं परिजप्य ततः स्वहृदये रविचन्द्रान्तर्गतं हूँकारं नीलं स्फुरत्संहारविग्रहं ध्यायात्। नैरात्म्याहृदि चन्द्रे अंकारं पश्येत्। तेनैव अंकारचन्द्रमण्डलेन सह द्रुतापन्नां भगवतीं भगवद्धृदये प्रविष्टां विचिन्तयेत्। ततो भगवानपि स्वहृदयस्थचन्द्रसूर्यान्तर्गतं हूँकारनिर्गतं रश्मिसमूहादालिकालिनिः - श्वासाऽष्टाशतं संस्फार्य संहार्य च तत्रैव स्वयं प्रविश्यैकीभूत्वा 


p.13


च शशिरविसंपुटमध्ये बीजे व्यवस्थितः। अत्र प्रस्तावे इदं स्मर्त्तव्यम् -

आ‍इ न अन्त न मह्यु तहिं नत्र न भव नत्र निर्वाण।

एहु सो परममहासुह न‍उ पर न‍उ अप्प्ण॥

तेन बीजाक्षरं चन्द्रसूर्यं च मिश्रीभूया मृतस्वभावं रश्मिपूजाकारम्। क्रमेण दीपशिखा इव यावदनुपलब्धिकं कुर्यात् एवं चतुःसन्ध्या क्रमेण स्तुतिपूजावल्युपहारपूर्वकं भावयेत्।

ओं इन्द जम जक्ख भूत वह्नि वायु रक्ख।

चन्द सुज्ज माद बप्प तलपाताले अट्ठसप्प स्वाहा॥


p.14


इदं बलिं भुञ्ज जिघ्र फुल्ल-धूप-मांस-विङ्घ।

अम्भ कज्ज सव्व साध खन्ति कुणि फेड गाद॥

ओं अकारो मुखं सर्वधर्माणामाद्यनुत्पन्नत्वात् ओं आः हूँ फट् स्वाहा। सार्वभौतिकबलिमन्त्रः 

ओं अष्टाननाय पिङ्गोर्ध्व केशावर्त्मने, चतुर्विंशतिनेत्राय षोडशभुजाय कृष्णजीमूतवपुषे कपालमालानेकधारिणे, अत्यन्त क्रूरचित्ताय, अर्धेन्दुदंष्ट्रिणे।

ओं मारय २ कारय २ गर्जय २ तर्जय २ शोषय २ सप्तसागरान् बन्ध २ नागाष्टकान् गृह्ण २ शत्रून् ह हा हि ही हु हू हे है हो हौ हं हः फट् स्वाहा। भगवतो मूलमन्त्रः।

ओं देव पिचुवज्र हूँ ३ फट् स्वाहा। हृदयमन्त्रः।

ओं वज्र कर्त्तरि हेवज्राय हूँ ३ फट् स्वाहा। उपहृदयः।


p.15


ओं अ क च ट त प य श स्वाहा। पुरक्षोभमन्त्रः।

आद्य पूजावल्युपहारकाले इदमपरं परमसमयगीत मुच्चारयेत् -

कोल्ल‍इरे ट्ठि‍अ बोला मुम्मुणिरे कक्कोला।

घण किविड हो वाज्ज‍इ करुणे कि‍अ‍इ न रोला॥

तहि बरु खाज्ज‍इ गाढे म‍अना पिज्ज‍इ।

हले कालिञ्जर पणि‍अ‍इ दुन्दुरु तहि वज्जि अ‍इ।

चौसम कच्छुरि सिह्ला कप्पुर ला‍इ अ‍इ।

माल इन्धन शालिञ्ज तहि भरु खा‍इ‍अ‍इ॥


p.16


प्रेङ्खण खेट करन्ते शुद्धाशुद्ध न मुणि‍अ‍इ।

निरंसु‍अ अङ्ग चडाबी तहिं ज सराब पणि‍इ।

मलयजे कुन्दुरु बाट‍इ डिण्डिम तहिण्ण बज्जि‍अ‍इ॥

एवं सन्ध्याधिष्ठानगणपूजाकाले वज्रघण्टाधरेण मन्त्रिणा इयं गीतिका कालिकया गातव्या। सर्वसिद्धिसान्निध्यकरणायेति।

एवमपि यथानिर्दिष्टक्रमेण मण्डलचक्रान्तर्गतं भगवन्तं द्विभुजमेकमुखं दक्षिणकरे वज्रं वामे कपालं खट्वाङ्गं च आलीढपदं नग्नं शवाक्रान्तं भावयेत्।

तथा चतुर्भुजं दक्षिणहस्ते वज्रं वामे कपालम्। शेषद्विभुजाभ्यां स्वाभविद्यालिङ्गितम्।

तथैव षड्भुजं त्रिमुखं वामे रक्तं दक्षिणे शुक्लं वामे हस्ते त्रिशूलं घण्टा दक्षिणे वज्रं कर्त्तिका च शेषद्विभुजाभ्यां स्वाभविद्यालिङ्गितम्।


p.17


सा च भगवती कर्त्रिकपालसहितभुजाभ्यां भगवत्स मालिङ्गिता। अमी द्विभुजचतुर्भुजषड्भुजाः। नीलवर्णास्त्रिनेत्रा ऊर्द्धपिङ्गलकेशाः, षण्मुद्रोपेता आलीढपदा नग्नाः शवाक्रान्ताश्चिन्तनीयाः। किं तु अष्टमुखाभावाद्देवतीचक्रं स्वकाये प्रवेशयेत्।

ओं त्रैलोक्याक्षेप हूँ ३ फट् स्वाहा। द्विभुजस्य जापमन्त्रः।

ओं ज्वल २ ज्वलभ्यो हूँ ३ फट् स्वाहा चतुर्भुजस्य जापमन्त्रः।

ओं किटि २ वज्र हूँ ३ फट् स्वाहा। षड्भुजस्य जापमन्त्रः।

शेषं पूर्वविधिमिव कर्तव्यम्। अन्यदेवं कर्तव्यम्।

कृपया लोचने रक्तः कृष्णाङ्गो मैत्रिचित्ततः।

संग्रहवस्तुचतुष्केण चत्वारश्चरणाः स्मृताः॥


p.18


अष्टास्यानि विमोक्षाश्चाष्टौ भुजाः षोडश शून्यताः।

गात्राभिः पञ्चमुद्रा स्युः क्रुद्धो दुष्टविनिर्णयात्॥

समांसेन पुक्कसी ख्याता रक्तेन शवरी कल्पिता।

चण्डाली शुक्ररूपेण डोम्बिनी मज्जमेदयोः॥

चर्म बोध्यङ्गसप्तं तु अस्थि सत्यचतुष्टयम्।

इत्यधिमुच्य मन्त्रिणा देवतायोगेन विहर्तव्यं प्रणिधानं च कर्तव्यम्।

कुलजन्मा अनुन्मादी समयी हेवज्रदेशकः।

कृपावान् गुरुभक्तश्च भवेयं जन्मजन्मनि॥

वज्रघण्टारणत्पाणिर्गम्भीरधर्मपाठकः।

योषिच्छुकसमाहारी भवेयं जन्मजन्मनि॥ इति॥

श्रद्धावेगेन मया लिखितमिदं मन्दबुद्धिना।

यत्किञ्चिच्छोध्यं तत्त्वज्ञैः क्षन्तव्यं मम साधुभिः॥


p.19


सत्त्वकृपया गुरुचरणाम्बुजभक्तः शशाङ्ककुलतिलकनन्दनस्तेन

लब्धनिमित्तेन मया पासाचभिमान शत्रूणानजितः। ()

साधनोपायिकां कृत्वा श्रीहेवज्रस्य दुर्लभाम्

यन्मयोपर्जितं पुण्यं तेन लोकोऽस्तु वज्रधृक्॥ इति॥


श्रीहेवज्रसाधनोपायिका समाप्ता। 

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project