Digital Sanskrit Buddhist Canon

श्रीसर्वबुद्धसमायोगडाकिनीजालसम्वरनामतन्त्रम्

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

श्रीसर्वबुद्धसमायोगडाकिनीजालसम्वरनामतन्त्रम्


ओं नमः श्रीवज्रसत्त्वाय।


रहस्ये परमे रम्ये सर्वात्मनि सदा स्थितः।

सर्वबुद्धमयः सत्त्वो वज्रसत्त्वः परं सुखम्॥१॥


असौ स्वयम्भू भगवानेकचैवाधिदेवता।

सर्वबुद्धसमायोग-डाकिनीजालसंवरः॥ २॥


न रागो न विरागश्च मध्यमा नोपलभ्यते।

सर्व-स्त्रीमायामुद्रेयमयं अद्वयानमुक्तम्॥ ३॥


सर्वासामेव मायानां स्त्रीमाया प्रविशिष्यते।

प्रकृत्यैव हि सा सिद्धा प्रभावेन स्वभावतः॥ ४॥


अनया स्त्रियस्त्रिलोकेऽस्मिन्गौरव्यमुपायन्ति।

दुश्चारिण्योऽपि सिद्ध्यन्ते सर्वलाभसुखोत्सवैः॥५॥


सर्वस्त्री-मायया सिद्धाः स्वरूपपरिवर्तनैः।

विचित्रमाया मुद्रेय डाकिनीति मिलिच्छया॥६॥


डे विहायसि गमने बुद्धधातुविकल्पितः।

सर्वाकाशचरा सिद्धिं डाकिनिति प्रसिद्ध्यति॥ ७॥


सर्वतो विश्वमुद्रां तु सर्वतो विश्वसंवरैः।

सर्वबुद्धसमायोगो डाकिनीति प्रसिद्ध्यति॥ ८॥


डे विहायसि गमने बुद्धधातुः विकल्पितः।

सर्वतो गामिनो सिद्धिः सर्वबुद्धात्मडाकिनी॥९॥


(1)


सुखं समिति विख्यातं सर्वबौद्धं महासुखम्।

सर्वमाया प्रयोगैस्तु संवरं तेन संवरम्॥ १०॥


सर्वत्र सर्वतः सर्वं सर्वथा सर्वदा स्वयम्।

सर्व बुद्धादि स्थिरचलं सर्वभावं भवत्यसौ॥११॥


चित्तसत्त्वः समाधिश्च बोधिचर्याविचित्रधा।

माराणरूपी चैव बोधिबुद्धो भवत्यसौ॥ १२॥


वज्रवज्रधरं चैव पद्मं पद्मधरं तथा।

मणिं मणिधरं चैव भवत्येषां कुलानि च॥ १३॥


सैव रागो विरागश्च काम मोक्ष भवत्यपि।

त्रिकालस्त्रिभवस्त्रिग्र स्त्रिलोकस्तु त्रिधातुकः॥१४॥


स्थावरः सर्व एवासौ विचित्र विविधा भवेत्।

जंगमः सर्वतो विश्वः सर्वदो हि भवत्यसौ॥ १५॥


एवमाद्याम्त्वनन्ताग्रा धर्मधातुः समासमा।

आकाशधात्वपर्यन्तं सर्वभावं भवत्यसौ॥ १६॥


सर्वाकाशावकाश श्रीवज्रसत्त्वस्तथागतः।

सर्वबुद्धसमायोग-डाकिनीजालसम्वरः॥ १७॥


येन मुद्राविधानेन कल्पासंख्येय कोटिभिः।

आ प्राप्य सर्वबुद्धत्वं प्राप्यतेहैव जन्मनि॥ १८॥


तमहं कल्पयिष्यामि सर्वबुद्धात्म-सम्वरम्।

आत्मसाधनमत्यन्तं सर्वबुद्धात्म-सम्वरम्॥१९॥


(2)


अनन्तत्यान्तयोगानां देवतालम्बनं प्रति।

प्रतिबिम्बमयायोगो निषिक्तादिषु जायते॥ २०॥


स तत्त्वाशययोगानां देवतालम्बनं प्रति।

आत्मयोगः स्वसमयः सिद्ध्यते परमाक्षरः॥२१॥


न योग प्रतिबिम्बेषु निषिक्तादिषु जायते।

बोधिचित्त-महद्योगाद्योगिनस्त्वेन देवताः॥ २२॥


बोधिचित्तमिदं वज्रं सर्वबुद्धस्वमात्मनः।

तस्मात्सर्वात्मयोगेन सर्वबुद्धत्वमाप्नुते॥२३॥


आत्मा वै सर्वबुद्धत्वं सर्वसौरित्वमेव च।

स्वाधिदेवतयोगेन तस्मादात्मैव साधयेत्॥२४॥


अनेन सर्वबुद्धत्वं सर्वसौरित्वमेव च।

सर्ववज्रधरत्वञ्च सिद्ध्यतेहैव जन्मनि॥२५॥


इत्याह भगवाञ्छ्रीवज्रसत्वः सर्वबुद्धसमायोग-डाकिनीजालसम्वरात्

परमतत्त्वावलोकविषयावतार-ज्ञानमुद्राकल्पः प्रथमः॥१॥


(3)


असौ हि भगवान् योगो वज्रसत्त्वस्तथागतः।

सर्वबुद्धसमायोग-डाकिनीजालसम्वरः॥ १॥


वज्रसत्त्वात्मसंयोगः सर्वावेशः प्रसिद्ध्यति।

सर्वबुद्ध-समायोग-योगैश्वर्य-महासुखम्॥२॥


अतः सुखं सुखेनैव सर्वबुद्धत्वमाप्नुते।

सर्वबुद्ध-समायोग-योगैश्वर्य-महासुखम्॥३॥


नात्रऽसौच न नियमो न तपो न च दुष्करम्।

अदुष्करैरनियमैः सुखैर्हर्षैश्च सिद्ध्यति॥४॥


तस्माद्यथेष्टव्यापारीसर्वत्रकसर्वक्षं तथा।

यथाकामक्रियाचारी यथाभुवि तथैवेष्ठितः॥५॥


उत्थितो वा निषण्णो वा चंक्रमं वा यथा स्थितः।

प्रहसन्वा प्रजल्पन् वा यत्र तत्र यथा तथा॥६॥


अमण्डल-प्रविष्टो वा सर्वावरणवानपि।

स्वाधिदेवतयोगात्मामन्दपुण्योऽपि सिद्ध्यति॥ ७॥


अनेन तत्त्वयोगेन साधयेत्सर्वमेव हि।

दुर्भुक्तैः दुष्कृतैः सर्वैः सर्वथा न प्रदुष्यति॥८॥


येन मुद्रा विधानेन अप्राप्यकल्प-कोटिभिः।

आमुद्रणादवाप्नोति सर्वबुद्धत्वमुत्तमम्॥९॥


तमहं कल्पयिष्यामि स्वात्म-साधनमुक्तमम्।

सर्वबुद्धसमायोग-डाकिनीजालसंवरम्॥१०॥


वज्रसत्त्वात्मसंयोग-यथावेश-प्रवर्त्तनैः।

सर्वतो विश्वमुद्रात्मा मन्दपुण्योऽपि सिद्ध्यति॥११॥


(4)


अनया मुद्रणादेव सर्वबुद्धैरधिष्ठ्यते।

स्वाधिष्ठानाद्भवत्येव सर्वबुद्धसमागमः॥१२॥


सर्वबुद्ध-समायोगात्सर्वबुद्धमयो भवेत्।

सर्वबुद्धमयत्वाच्च सर्वबुद्ध प्रसिद्ध्यति॥१३॥


येन पश्यन्ति संयुक्तं पूजयन्ति च सर्वथा।

दृष्टान्तैः पूजिताश्चैव सर्वबुद्धा भवन्ति हि॥ १४॥


दर्शन स्पर्शनाभ्यां च सर्वबुद्धस्य चास्य हि।

मण्डल अप्रविष्टोऽपि दृष्टसत्या भवन्ति हि॥ १५॥


दर्शनस्पर्शनाभ्यां च श्रवणस्मरणेन च।

सर्वपापैः प्रमुच्यन्ते युज्यन्ते सर्वसिद्धिभिः॥१६॥


सर्वबुद्धसमायोगैः सर्वबुद्धस्य चास्य हि।

नार्यापि हि विमुच्यन्ते बुद्धबोधिं स्पृशन्ति च। १७॥


सर्वत्र सर्वतः सर्वं सर्वथा सर्वदा स्वयम्।

सर्वबुद्धमयं सिद्धं स्वमात्मानं स पश्यति॥ १८॥


सर्वात्मसंस्थितश्चैवं पूजयन्ति तथागताः।

सर्वपूजा महामेघव्यूह-प्रसर-संचयैः॥१९॥


सर्वात्मपूजायोगश्रीवज्रसत्त्वत्वमुत्तमम्।

लभते सर्वबुद्धत्मासर्वतोऽपि हि संवरम्॥ २०॥


सर्वयोगोपभोगैस्तु सिद्ध्यन्ते श्रीचतुर्गुणाम्।

सर्वयोगो हि भगवान् वज्रसत्त्वस्तथागतः॥२१॥


(5)


तस्योपभोगं सर्वं वै त्रैधातुकमशेषतः।

सर्वयोगोपभोगैस्तु सेव्यमानै यथासुखम्॥२२॥


स्वाधिदेवतयोगेन स्वमात्मानं प्रपूजयेत्।

पूजयेन्ननु योगेन सर्वयोग सुखानि तु॥ २३॥


समास्वादयमानश्च स्वयमतियोगेन सिद्ध्यति।

अनेनसर्वबुद्धात्म-रसायन-सुखेन तु॥ २४॥


सिद्धयेच्छ्रीवज्रसत्त्वायुयौवनारोग्यतो सत्सुखम्।

सर्वत्र सवर्तः सर्वं सर्वदा सिद्ध्यते ह्यसौ॥२५॥


सर्वबुद्धसमायोगडाकिनीजालसंवरमित्याह-भगवाञ्छ्रीवज्रसत्त्वः

सर्वबुद्धसमायोगडाकिनीजालसंवराच्छ्रीवज्र-

सत्त्वसंयोगः कल्पः द्वितीयः॥२॥


(6)


असौ हि भगवान् योगो वज्रसत्त्वस्तथागतः।

सर्वबुद्ध-समायोग-डकिनीजालसंवरः॥१।


श्रीवज्रसत्त्वसंयोगः श्रीमान्स्वसमयसुखम्।

सर्वबुद्ध-समायोग-योगैश्वर्य-महासुखम्॥२॥


श्रीवज्रसत्त्वसंयोग-प्रभावेनैव सर्वतः।

स्वयं प्रत्यन्तसिद्ध्यन्ते सर्वयोगसुखोत्सवाः॥३॥


श्रीवज्रसत्त्वसंयोग-प्रभावेनैव सर्वतः।

स्वयंप्रत्यनुसिद्ध्यन्ति सर्वसिद्धिसुखोत्सवाः॥४॥


श्रीवज्रसत्त्वसंयोग प्रभावनैव सर्वतः।

स्वयं प्रत्यनुसिद्ध्यन्ते सर्वैश्वर्य-सुखोत्सवाः॥५॥


श्रीवज्रसत्त्वसंयोग-प्रभावेनैव-सर्वतः।

आकाशधातुपर्यन्ता जायन्ते परमा स्त्रियः॥६॥


तस्य ताःसमयोद्भूताः प्रियाः स्वसमयानुगाः।

अभियोग-महायोग-सर्वात्म-समयोत्तमा॥७॥


एकस्यै चैकचारिण्यः सहचर्यान्तचराःप्रियाः।

सर्वबुद्धसमायोग-डाकिनीपरमोज्ज्वलः॥८॥


सर्वतो विश्वरमणैः सर्वमुद्रामहासुखाः।

सर्वपूजाः परं राज्ञो देव्यः परमशाश्वतः॥९॥


श्रीवज्रसत्त्व संयोगः सर्वदेवी-समागमैः।

सर्वतो विश्व-सुभगः सुखी प्रत्यनुसिद्ध्यति॥१०॥


(7)


अनया मुद्रणादेव वज्रसत्त्वाधिदेवताः।

आकशधात्वपर्यन्ताः सर्वदेव्यो महासुखाः॥११॥


सर्वयोगसुखोत्सवाः प्रसज्यबल मानवाः।

परस्परं प्रहर्षया रमन्ति पुरुषा पि ते॥१२॥


पूजयन्ति च सर्वात्म-सर्वेन्द्रिय-विनिःसृतैः।

सर्वपूजा महामेघव्यूह-प्रसरसंचयैः॥१३॥


सर्वयोगसुखात्मकैरहोसुखविनिःसृतैः।

सर्वरत्नप्रकारैश्च सेवयन्ति प्रमोदिताः॥१४॥


सर्वदेव्यूपभोगैस्तु सेव्यमानैः यथसुखम्।

स्वाधिदैवतयोगेन स्वमात्मानं प्रपूजयेत्॥१५॥


पूजयन्नन्तयोगेन सर्वयोगसुखानि तु।

समाश्चोदयमानश्च स्वमतियोगेन सिद्ध्यति॥ १६॥


अनेन सर्वबुद्धात्म-रसायनसुखेन तु।

सिद्ध्यच्छ्रीवज्रसत्त्वायुयौवनारोग्यसत्सुखम्॥१७॥


सर्वबुद्धमहाकायः सर्वबुद्धसरस्वती।

सर्वबुद्धमहाचित्तः सर्वबुद्धमहामहः॥१८॥


सर्वबुद्धमहाराजः सर्ववज्रधराधिपः।

सर्वलोकेश्वरपतिः सर्वरत्नाधिपेश्वरः॥१९॥


ताभिःसौरम्यमाणस्तु पात्यत्युत्पनतीच्छतः।

सर्वदेवी-महासिद्धश्चक्रवर्ती प्रसिद्ध्यति॥२०॥


(8)


न ते केचिद्वरोदारा धर्मधातुसमासमाः।

आकाशधात्वपर्यन्ताः सर्वैश्वर्यसुखोत्सवाः॥२१॥


येन यानास्य सिद्ध्यन्ते जन्मनीहैव सर्वथा।

सर्वबुद्धसमायोगेश्वर्य-महासुखाः॥२२॥


न ते केचिद्वरोदारा धर्मधातु-समासमाः।

आकाशधातुपर्यन्ताः सर्वैश्वर्यसुखोत्सवाः॥२३॥


येन यानास्य सिद्ध्यन्ते जन्मनीहैव सर्वथा।

सर्वबुद्धसमायोग-डाकिनीजालसंवरैः॥२४॥


इत्याहभगवाञ्छ्रीवज्रसत्त्वः सर्वबुद्धसमायोगडाकिनीजाल-

संवरात्सर्वदेवीसमायोगसुभगश्रीवज्र-

समयकल्पस्तृतीयः॥३॥


(9)


असौ हि भगवान्योगो वज्रसत्त्वस्तथागतः।

सर्वबुद्धसमायोग-डाकिनीजालसंवरम्॥१॥


सर्वदेवीसमायोग-सुभगोत्तम-कार्मुकः।

सुखास्वादातिसंयोगः स्थिरशाश्वत मन्मथः॥२॥


सर्वबुद्ध-महारूपस्वरामोद रसोत्स्वाः।

सर्वबुद्ध-सुखस्पर्शाश्चोपभोगैर्भुनक्त्यसौ॥३॥


बौद्धाः पारमिताः सिद्धा धारण्यो भूमयस्तथा।

रमन्ते किं पुनर्नायः सुभगा दिव्यमान्तथा॥४॥


अमारां दुष्करां सिद्धां बुद्धबोधिं महासुखाम्।

सुखास्वादातिसुभगां स्वयम्प्रत्यनुसिद्ध्यति॥५॥


सर्वसिद्धि-समुद्भूतां सर्वताथागतीं श्रियम्।

सर्वोपभोग-सुभगां चोपभोगैर्भुनक्त्यसौ॥६॥


वज्रिणःपरमां सिद्धिं लोकेशाम्परमां श्रियम्।

बुद्धेभ्यः परमं सौख्यमपहृत्योपभुंजति॥७॥


सर्वबुद्ध-महाराज्यं त्रैधातुकमशेषतः।

प्रसह्य बलमाहृत्य पौरुषेणोपभुंजति॥८॥


सर्वबुद्धमहासिद्धि-परमैश्वर्यमुक्तमम्।

समाकट्योपभुक्तेऽसौ किमुतान्यो विभूतयः॥९॥


नारायणात्स्थिरां लक्ष्मीहरां सिद्धिं स्मराद्रतीम्।

प्रसह्य बलमाहृत्य भक्तेभ्यः प्रददात्यसौ॥१०॥


ब्रह्माविष्णुमहेशेभ्यः पारमैश्वर्यमुक्तमम्।

समाकट्यददात्यासु किमुतोन्या विभूतयः॥११॥


नादेयं किञ्चिदस्यास्ति नाकार्यं विद्यते पुनः।

सर्वबुद्धान कार्याणि ददाति च करोति च॥१२॥


(10)


बुद्धत्वं बोधिसत्त्वमपहृत्य ददाति च।

किं पुनः सिद्ध्यश्चान्याःकर्माग्राप्रसराणि च॥१३॥


अमोघ-प्रसरस्सिद्धः सर्वसैन्य-प्रभञ्जकः।

सर्वबुद्ध-महासिद्धिश्चक्रवर्ती प्रसिद्ध्यति॥१४॥


सर्वबुद्धसमायोग-डाकिनीजालसंवरैः।

सर्वबुद्धमहासिद्धिः विकुर्वन्संप्रवर्तकः॥१५॥


क्वचिद्बोधि-महाचित्तं क्वचिच्चर्या यथातथा।

क्वचित्तुषित-देवेभ्यः अपक्रमणमुत्तमम्॥१६॥


क्वचिज्जातिविशुद्धं हि क्वचिन्निष्क्रमणं पुरात्।

क्वचिद्बोध-महारात्रा क्वचिन्मारपराजयः॥१७॥


क्वचिद्बोध्यभिसंबोधिः क्वचिच्चक्रप्रवर्तनम्।

क्वचिच्च परभीत्यानां सहधर्मेण निग्रहः॥१८॥


सर्वसिद्धीश्वरत्वं श्रीत्रिलोकविजयं क्वचित्।

क्वचिच्च सर्वकल्पाग्र्य सिद्धैश्वर्यमनुत्तरम्॥१९॥


एवमादिरनन्ताग्रैः सर्वबुद्धात्मसंवरैः।

नर्नर्त्ति विनयोपाय-रतिक्रीडा-विकुर्वितैः॥२०॥


सर्वोत्तममहासिद्धिर्माहैश्वर्याधिपः स्थिरः।

रूपायुर्बलवर्णश्रीवज्रसत्त्व इवापरः॥२१॥


सेव्यमानो जगहितस्तु पूज्यमानस्तथागतैः।

सर्वदेवीश्वरः श्रीमान्वज्रसत्त्वः प्रसिद्ध्यति॥२२॥


आमुद्रन्नशेषन्तु सत्त्वधातुमनेकधा।

अमारां दुष्करां बोधिसत्त्वेभ्यः प्रददे स्थिराम्॥२३॥


अशेषानवशेषाश्च सर्वकल्पां भवेत्स्वयम्।

करोति सर्वबुद्धात्मसंवरैः बुद्धयोगजैः॥२४॥


(11)


इत्याह भगवाच्छ्रीवज्रसत्त्वस्तथागतः।

सर्वबुद्धसमायोगडाकिनीजाल-संवरात्॥२५॥


सर्वतोविश्वसुभगोत्तमसिद्धिनामश्री-

समयकल्पश्चतुर्थः॥४॥


(12)


असौ हि भगवान् योगो वज्रसत्त्वस्तथागतः।

सर्वबुद्धसमायोगडाकिनीजालसम्वरम्॥१॥


एक एव हि संसिद्धो यथाकामनियोजितः।

सर्वकल्पविधानेषु परासिद्धिरनुत्तरा॥२॥


विचित्रकर्मयोगेन विचित्रविधिकांक्षिणाम्।

सत्त्वानां विनयार्थाय सर्वसौख्यप्रसिद्धये॥३॥


स एव भगवान् योगः सर्वबुद्धविकुर्वितः।

विकुर्वन्सर्वसत्त्वार्थं सुतरामाशु सिध्यति॥४॥


प्रत्यहं प्रतिमासं वा प्रतिसम्वत्सरन्तथा।

यथाधिष्ठानतो वापि नाटयेद् बुद्धसम्वरैः॥ ५॥


सर्वधातुमयैर्वापि जीवमूलमयैस्तथा।

स्वाधिदेव प्रतिमुखैः सिद्धम्मुद्राप्रवर्त्तितम्॥६॥


यद्यन्मण्डलसेवेद्विश्वमुद्रोपहारतः।

तत्तच्छिष्यगणैः सर्वैः पूजयन् तु महापयेत्॥७॥


अतः परम्प्रवक्षामि सर्वबुद्धविकुर्वितम्।

कथया सर्वकल्पस्य यथायोगविकुर्वितम्॥८॥


रहस्ये परमे रम्ये सर्वात्मनि सदास्थितः।

सर्वबुद्धमयः सत्त्वो वज्रसत्त्वः परं सुखम्॥९॥


असौ हि भगवान् योगः स्थिरः परमशाश्वतः।

प्रत्युत्पन्नः सदा चैव स्वभावो दुरतिक्रमः॥ १०॥


विचित्रकर्मयोगेन विचित्रविधिकांक्षिणाम्।

बुद्धवज्रधराद्यास्तु कृतका विनयाः स्मृताः॥११॥


(13)


सर्वबुद्धादिस्थिरचला सर्वभावा भवत्यसौ।

सर्वबुद्धसमायोगडाकिनीजालसंम्वरम्॥१२॥


अनेन मायायोगेन सर्वतो विश्वमुत्तमम्।

बुद्धादिविनयैः सिद्धं सर्वसत्त्वार्थमुत्तमम्॥१३॥


श्रीवज्रसत्त्वाश्वासः॥


भूतपूर्वमतीतेऽध्वे शाश्वतस्य महात्मनः।

तथागतस्य प्रवचने प्रागासीज्जगतः स्थितिः॥ १४॥


अत्यन्तशून्यतायुक्ताः सर्वसत्त्वास्तदाभवन्।

निरोधधर्मतायोगानिरुद्धाः परिनिर्वृताः॥ १५॥


स एव भगवान् योगो वज्रसत्त्वस्तथागतः।

सर्वमोक्षविशुद्ध्यर्थं बुद्धनिर्वाणमावतेत्॥१६॥


न शून्यं नापि वा शून्यं मध्यमा नोपलभ्यते।

प्रज्ञापारमितायोगाद्युपायः करुणात्मना॥१७॥


ततः स करुणोपायप्रज्ञापारमितां स्फुटाम्।

अविकल्पाधिमोक्षेऽपि कल्पयं सर्वकल्पनाम्।

सर्वाविकल्पेषुधर्मेषु सत्त्वार्थपरिकल्पनाम्॥१८॥


प्रतिश्रुत्कार-समान्ततोऽसौ धर्मवागभूत्।

ततो महामहायान-सद्भूतगुणविस्तरैः।

त्रैयध्विकास्त्रिसमया गीताः सर्वतथागताः॥ १९॥


असमाचलास्समन्तसारधर्मिणः। करुणात्मका जगतिदुःख-

हारिणः असन्तसर्वगुणसिद्धिदायिनो अमलाचलास्समवराग्र-धर्मिणः।


(14)


गगणसमोपमकता न विद्यते गुणलेशरेणुकेऽप्यसीमके। स्फुटासत्त्वा-

धातुवरसिद्धिदायिषु विगतोपमेषु असमन्तसिद्धिषु। सततामला

करुणान्धगतोत्थिता प्रणिधानसिद्धिरनिरोधधर्मता। जगतोऽथसाधन-

परा समन्तिनी सततम्विरोचति महाकृपात्मनाम्। न हि रोधतां

करुणाचारिकाऽचला व्रजते त्रिलोकवरसिद्धिदायिका। अमे(मि)ताभेषु

समाप्तितां मतिं सुगतिं गतेष्वपि अहो सुधर्मता। त्रिसमयाग्रसिद्धिं

वरदा ददन्तु मे वरदानताग्रगतितां गतानि सदा। सकला त्रिलोकि-

वरसिद्धिदायिका नाथाः त्रियध्वगतिका अभाव्यता इति।


असौ हि सर्वबुद्धानां सद्भूतगुणविस्तरः।

ददाति सर्वबुद्धत्वं सकृद्दुच्चारितोऽपि हि॥ २०॥


अनेन स्तोत्रराज्ञा वै सर्वबुद्धात्मयोगतः।

त्रैयध्विकाः सर्वजिनाः सिद्ध्यन्ति समयैस्त्रिभिः॥२१॥


दर्शयन्ति च सर्वात्माह्यसेचनकविग्रहम्।

साधुकाराणि सिद्धानि प्रददन्ति वराणि च॥२२॥


सर्वात्मसिद्धयो रम्याः सर्वाशापरिपूरयः।

ददन्ति परमं योगं सर्वबुद्धत्वमुत्तमम्॥२३॥


अथास्य शाधनं वक्ष्ये सिद्धिमत्यन्तशाश्वतीम्।

येनाप्नोति भवेहैव सिद्धिमत्यन्तशाश्वतीम्॥२४॥


सर्वबुद्धसमाजन्तु वज्रच्छटाविमोक्षणैः।

सम्पतालसमाजैस्तु त्रितालं विनियोजयेत्॥ २५॥


यद्यदिन्द्रियामार्गत्वं यायात्तत्तत्स्वभावतः।

असमाहितयोगेन सर्वबुद्धमयं वहेत्॥ २६॥


वादवादिभिर्गीतैस्तु रागैश्चापि यथोत्सुकम्।

तथैव सर्वत्र सर्वं यथा वापरिमितं जपेत्॥ २७॥


सर्वत्र सर्वतः सर्वं सर्वथा सर्वदा स्वयम्।

सर्वबुद्धमयं सिद्धं प्रपश्यन्सिद्ध्यते वरः॥२८॥


(15)


अनेन सर्वबुद्धत्वं सर्वसौरित्वमेव च।

सर्ववज्रधरत्वं (च) सिद्ध्यतेहैव जन्मनि॥२९॥


सर्वबुद्धगुणविस्तरस्तवस्तोत्रराजवरगादनात् क्षणे।

सर्वगां योगशाश्वतीं सिद्धिमक्षयसुखमवाप्नुते॥३०॥


अनेन स्त्रोत्रराज्ञा वै सर्वात्मयमयेश्वरः।

सर्वतो विश्वविनयः सर्वतः सर्वतथागतः॥ ३१॥


ततस्त्रिसमयाद्यैस्तु सर्वकल्पनिरुत्तरैः।

आकाशधात्वपर्यन्तः सत्त्वधातुविमोक्षितः॥ ३२॥ इति॥


श्रीवैरोचनाश्वासः॥


भूतपूर्वमतीतेऽध्वे शाश्वतस्य महात्मनः।

तथागतस्य प्रवचने प्रागाज्जगतः स्थितिः॥ ३३॥


अत्यन्तदुष्टा रौद्राग्राः सर्वसत्त्वास्तदाऽभवन्।

अत्यन्तदुष्टरौद्रतया रौरवे पतिताः पुनः।

ततश्च्युताश्च ते सत्त्वाः सर्वेव सन्धियोगतः॥ ३४॥


अतिमहादुष्टतरा जाताः माराधिष्ठान-सिद्धिभिः।

ज्वरा विषा ग्रहरोगा डाकिन्योपद्रवागराः।

मारा विनायकाश्चैव महादुष्टतराभवन्॥३५॥


नाशयन्ति त्रिभुवनं भक्षयन्ति च साधनः।

द्यावयन्ति च देवादीन्शासनं ध्वन्सयन्ति च।

ततस्तु सेन्द्रका देवा ब्रह्माणमुपजग्मु ते॥ ३६॥


ब्रह्मा च सेन्द्राका देवा विष्णवे शरणं गताः।

ब्रह्मा विष्णुश्च देवाश्च महादेवमुपागताः।

ब्रह्मा विष्णुमहेश्वराश्च वज्रिणं शरणं गताः॥ ३७॥


(16)


ततस्थ भगवान्वज्री वज्रच्छटामुद्रया।

श्रीवज्रसत्त्वयोगेन सर्वबुद्धान्समाजयेत्॥३८॥


बाहुभ्यां वज्रबन्धानवज्रच्छटाविमोक्षणैः।

श्रीवज्रसत्त्वयोगात्मा सर्वबुद्धान्समाजयेत्॥३९॥


अस्याज्ञामात्रचकिताः समयेच्चक्रसञ्चयाः।

सर्वबुद्धाः समायान्ति का कथानयेषुर्लभ(वर्त)ते॥४०॥


वज्रच्छटाविमोक्षैस्तु निःशेषा लोकधातवः।

तिलबिम्बकवत्पूर्णाः सर्वबुद्धैः सवज्रिभिः॥ ४१॥


अत्यन्तदुष्टरौद्रेषु सौम्यता नोपयुज्यते।

प्रज्ञोपायमयमन्युचक्रः सर्वतथागताः॥ ४२॥


मन्युः क्रोधवतां शीलं त्रैलोक्यमपि निर्द्दहन्।

किं पुनः सर्वबुद्धानां त्रैधातुकमशेषतः॥ ४३॥


ततस्तु नासिकाग्रेभ्यो मनः संधार्य वै दृढम्।

दीर्घोष्णनासा निश्वासं मुद्रायोगं जिताःम्यहुः॥४४॥


स एव भगवान् योगो वज्रक्रोध विनिसृजन्।

श्रीहेरुक-महावज्र-भगस्य प्रलयोज्ज्वलः॥ ४५॥


नीलज्वालामयः सत्त्वो रक्तज्वालाभमण्डलः।

महाप्रलयकालाग्रश्मशानाग्निरिवापरः॥ ४६॥


दीप्तकेश-महाज्वाल-कपालमकुटोत्कटः।

महाप्रलयकालाग्रश्मशानमिव भीषणम्॥४७॥


(17)


रौद्रादि-रससंयोगविचित्रमुख-विभ्रमैः।

सविभ्रमभ्रू-भृकुटि-प्रदीप्तालोक-नर्त्तितः॥४८॥


सरुद्रसेन्द्र-सोपेन्द्र-सचन्द्रार्क-यमंसकम्।

समुज्वाल्य त्रिभुवनं भस्म प्रलयोतान्नयेत्॥४९॥


सवज्रवज्रखट्वाङ्गं घण्टाकक्खर-स्वरैः।

समावेश्य पुनः सर्वं स भस्ममपि जीवयेत्॥५०॥


तस्य ज्वालार्क-सम्भूताः च्छायाः परमदारुणाः।

सृष्टा निःशेष-मारादि-दुष्टास्यरक्त-भक्षणक्षमाः॥५१॥


स ताभिः सहितो राजाश्मशानप्रविकुर्वति।

स वज्र वज्र-समायोगडाकिनीमण्डलोज्ज्वलः॥५२॥


अत्यन्तदुष्टरौद्राग्रं सत्त्वधातुं विशोध्य वै।

शुद्धेषु बुद्धक्षेत्रेषु बुद्धं बोधौ निवेशयेत्॥५३॥


श्रीवज्रकामक्रोधाद्यैः सर्वकल्पैरनुत्तरैः।

आकाशधात्वपर्यन्तः सत्त्वधातुः प्रसाधितः॥५४॥इति॥


श्रीहेरुकाश्वासः॥


भूतपूर्वमतीतेघ्वे शाश्वतस्य महात्मनः।

तथागतस्य प्रवचने प्रागासीज्जगतःस्थितिः॥५५॥


मिथ्यादृष्टि-प्रतिष्ठास्तु सर्वसत्त्वास्तदाऽभवन्।

अत्यन्तदुर्दृष्टितया महारौरवमापतत्॥५६॥


स एव भगवान् योगो बोधिचित्त-विशुद्धये।

पद्मरागमयो योगो वज्रधर्मप्रतिष्ठितः॥५७॥


(18)


यथा रक्तमिदं रागदोषैर्न लिप्यते।

अस्यावलोकनादेव परमेश्वरतां जिनाः।

अवलोकितेश्वरः श्रीमान्वज्रसत्त्वस्तथागतः॥५८॥


सर्वरागविशुद्ध्या तु भगवान् वरदः परम्।

विचित्रविनयोपायैर्विचित्रविनयोत्सवैः॥ ५९॥


अवलोकितेश्वरो राजा पद्मनर्तेश्वरो भवेत्।

पद्मजालसमायोगडाकिनीजालसम्वरैः॥६०॥


श्रीपद्मनर्तेश्वराद्यैः सर्वकल्पैरनुत्तरैः।

आकाशधात्वपर्यन्तः सत्त्वधातु-विशोधितः॥ ६१॥ इति॥


श्रीपद्मनर्तेश्वराश्वासः॥


भूतपूर्वमतीतेध्वे शाश्वतस्य महात्मनः।

तथागतस्य प्रवचने प्रागासीज्जगतः स्थितिः॥६२॥


अत्यन्तदुष्टलुब्धाश्च सर्वसत्त्वास्तदाऽभवन्।

अत्यन्तमात्सर्यतया पितृणा नरकेऽपतन्॥६३॥


ततश्च्युताः पुनर्भूयो महादारिद्र्यमाप्नुवन्।

क्षुत्पिपासादि-दोषैस्तु जिघात्सुस्तैः परस्परम्॥६४॥


स एव भगवान् योगः परमार्थो महाधनः।

अत्यन्त-दुष्ट-शुद्ध्यर्थं वज्रसूर्यादयो भवेत्॥६५॥


आकाशगर्भः सर्वाशः सर्वाशापरिपूरकः।

आकाश-स्त्र्यादि-सद्रत्नसर्वरत्न-प्रवर्षकः॥ ६६॥


अत्यन्तदुष्टरौद्रेषु सौम्यता नोपयुज्यते।

प्रज्ञोपायमयः सूर्यः प्रतापः सर्वसाधकः॥ ६७॥


करणैर्वारणैश्चापि हरणैश्च विशेषतः।

विजित्य सर्वार्थचर्यां संहरेद् भुवन त्रयम्॥ ६८॥


(19)


त्रिलोक-विजयाद्यैस्तु सर्वकल्पैरनुत्तरैः।

आकाशधात्वपर्यन्तः सत्त्वधातुर्विमोचितः॥ ६९॥ इति॥


श्रीवज्रसूर्यश्वासः॥


भूतपूर्वमतीतेध्वे शाश्वतस्य महात्मनः।

तथागतस्य प्रवचने प्रागासीज्जगतः स्थितिः॥ ७०॥


अत्यन्तहीन-वीर्यास्तु सर्वसत्त्वास्तदाऽभवन्।

अत्यन्तहीन-वीर्यतया अवीचौ नरकेऽपतन्॥७१॥


स एव भगवान् योगो वज्रसत्त्वस्तथागतः।

हठयोगविशुद्धौ श्रीपरमाश्वो(द्यो)ऽद्वयोऽभवन्॥ ७२॥


सर्वशुद्ध्यधिमोक्षेण प्रसज्यबलमानः (सः)।

पञ्चायुधविबुद्धैश्च सर्वलोकाञ्जयेत्तदा। ७३॥


विजित्य स पराक्रमाक्रमणतो सर्वलोकान्प्रमर्द्दयन्।

अत्यन्तदुष्ट-रौद्राग्रं सत्त्वधातुमनेकधा।

जयाश्चो(च्चा)परैवस्कन्दैः सर्वमेव विशोधय।

च्छलेन साहसाच्चैव प्रसज्य-बलमानः॥ ७४॥


बलं सिद्धं जगत्स्थावरजंगमं...............॥

विचित्रविनयोपायैः स्वराज्यं नित्य पालयन्॥ ७५॥


कामिनीनां भवेत्कामो रौद्राणां रौद्रमुत्तमम्।

सौम्यानाम्परमः सौम्यो हठानां दृढविक्रमः॥ ७६॥


परमेश्वरमाक्रम्य प्रसज्यबलमानः।

भीमादेवीं समाकट्यचोपभोगैर्भुनक्त्यसौ॥ ७७॥


नारायणं समाकट्यम्पप्रसज्य बलमानः।

रुक्मिणीन्तु समाकट्यश्चो(चो)पभोगैर्भुनक्त्यसौ॥ ७८॥


(20)


प्रजापतिं समाक्रम्य प्रसज्य बलमानः।

प्रशान्ती-देवीं समाकट्यचोपभागैर्भुनक्त्यसौ॥७९॥


कामदेवं समाक्रम्य प्रसज्य बलमानः।

रतिप्रीतिधृत्यैश्वर्यञ्चोपभोगैर्भुनक्त्यसौ॥ ८०॥


एवमाद्यात्वनन्ताग्रा धर्मधातुसमासमाः।

आकाशधात्वापर्यन्ता वज्रकर्माग्र-विक्रमाः॥८१॥


सर्वाकाशावकाशे श्रीवज्रसत्त्वप्रतिस्थिताः।

साधिता हठयोगेन नयपौरुष-साधनः॥८२॥


त्रैलोक्यराज्यमखिलं समावाप्य स वज्रधृक्।

बोधिचित्तमनन्ताग्रं हठयोगेन-साधयेत्॥८३॥


सर्वशुद्ध्यधिमोक्षेण प्रसज्यबलमानः।

पराक्रमाक्रमणतो बुद्धबोधिं प्रमर्द्दयेत्॥८४॥


अमरां दुष्करां सिद्धां बुद्धबोधिं महासुखाम्।

समावाप्य स्वयोगात्मा परां परमशाश्वतीम्॥८५॥


अमुद्रयन्नशेषन्तु सत्त्वधातुमनेकधा।

अमरां दुष्कराम्बोधिं सत्त्वेभ्य प्रददे स्थिराम्॥ ८६॥


अशेषानवशेषांश्च सर्वकल्पां भवेत्स्वयम्।

करोति सर्वसत्त्वार्थं परमार्थविकुर्वितैः॥ ८७॥


ततः श्रीपरमाश्वा(द्या)द्यैः सर्वकल्पैरनुत्तरैः।

आकाशधातुपर्यन्तः सत्त्वधातुः प्रशाधितः॥ ८८॥ इति॥


(21)


श्रीपरमाश्वाश्वासः॥


एवमाद्यास्त्वनन्ताग्रा धर्मधातु-समासमाः।

आकाशधात्वपर्यन्ताः कथामुद्राः स्वयंभुवः॥ ८९॥


सर्वाकाशा चकाश श्रीवज्रसत्त्वे प्रतिष्ठताः।

समाधि(दि)स(श)न्ति सर्वात्म-सिद्ध्यैश्वर्य-प्रसिद्धिभिः॥९०॥


इत्याह भगवच्छ्री-वज्रसत्त्वस्तथागतः

सर्वबुद्धसमायोगडाकिनीजालसंवरात्कथामुद्रा-

ज्ञानकल्पः पञ्चमः॥५॥


(22)


अतः परं प्रवक्ष्यामि सर्वतो विश्वमुत्तमम्।

सर्वबुद्धसमायोग-डाकिनीजालसंवरम्॥१॥


रहस्ये परमे रम्ये सर्वात्मनि सदास्थितिः।

सर्वबुद्धमयः श्रीमान्वज्रसत्त्वोदयः सुखम्॥२॥


तथागतमहादिव्यरत्नराजाद्यलंकृते

घण्टावसक्तसत्केतु-विताने विततोत्तमे॥३॥


वज्रगीतोपहारादि-नृत्यवाद्य-विकुर्वितैः।

पुष्पधूपप्रयोगादि-दीपकादि समन्विते॥४॥


प्रसादयन्ति भुवनं स्वोद्यानादिषु वा पुनः।

सर्वबुद्धसमायोग-डाकिनीजालसम्वरम्॥५॥


तत्रासनं निवेश्यैव मृदुसंस्पर्शजं मुखम्।

विश्वपद्मपटच्छिन्न-सर्वशुद्ध्यासनं हि तत्॥६॥


श्रीवज्रसत्त्वदेवास्तु विकुर्वन्ति हि यत्र वै।

सर्वबुद्धसमायोग-योगैश्वर्यविकुर्वितैः॥७॥


सर्वतश्चासनं स्वस्य यथाधिष्ठानतस्तथा।

चतुरस्रं चतुर्द्वारं द्वारपालसमन्वितम्॥८॥


स्वाधिदेव-प्रतिमुखैः सुप्रसाधितयोषितम्।

स्वमुद्राचिह्नसुभगं कल्पयेद् गणमण्डलम्॥९॥


मानुषरुधिरं सिद्धं महारक्तमिति स्मृतम्।

प्रकृत्यैव हितं सिद्धं प्रभावेण स्वभावतः॥१०॥


वज्रोदकं सवज्रन्तु महारुधिर-साधितम्।

प्रभावात्सिद्धतरकं पद्मभाण्डे निवेशयेत्॥११॥


(23)


महारागो हि भगवान् वज्रसत्त्वस्तथागतः।

वज्रहृत्सर्वबुद्धानां समयो दुरतिक्रमः॥१२॥


तदसंरुदि(ध)रं तस्य महारुधिर-साधितम्।

महारागोद्भव त्वाच्च महारक्तमिति स्मृतम्॥१३॥


महारक्तं सकर्पूरं रक्तचन्दन-योजितम्।

गणमध्ये प्रतिष्ठं श्रीसर्वान्तिष्ठ-रसायनम्॥१४॥


अनामांगुष्ठ-वक्त्राभ्यां स्वाधिदेवात्मयोगवान्।

सोमपानवदास्वाद्य सिद्धिमाप्नोति शाश्वतीम्॥१५॥


अनेन सर्वबुद्धात्मरसायन-सुखेन तु।

सिद्धश्री वज्रसत्त्वायुयौवनारोग्यसत्सुखम्॥१६॥


अत्र रंगप्रतिष्ठस्तु याम्यत्युत्पततीच्छतः।

सर्वबुद्धसमायोगडाकिनीजालसम्वरैः॥१७॥


सर्वत्र सर्वतः सर्व सर्वथा सर्वदा स्वयम्।

सर्वत्र बुद्धादिस्थिरचलांसर्वभावभवत्यसौ॥१८॥


अनया कृतरक्षाश्च श्रीवज्रसत्त्व इवापरः।

सिद्ध्यते सर्वबुद्धात्म-डाकिनीजालसम्वरैः॥१९॥


ततः स्नातः सुगन्धाङ्गो विचित्राभरणावृतः।

विचित्र-वस्त्र-सम्वीतः स्रग्वी सुरभिदानतः॥२०॥


सर्वतो विश्वसुभगः उत्थाप्ययन्ता(पयन् वा) शरैः (क्षणैः)।

पट्टावतार-योगेन चोदयः संप्रसूच्यते॥२१॥


संबुद्धचन्द्रसूर्यार्णां उदयस्य न तु दर्शनात्।

मुच्यते सर्वपापेभ्यः सर्व पुण्यैश्च सिद्ध्यति॥२२॥


(24)


ध्रुवमार्गसमायुक्तां विनिर्वृत्ति-विभूषिताम्।

उत्थापनीं ध्रुवां सिद्धां सर्वतोत्थापनीं सुखम्॥२३॥


शून्यातियोग-सदसत्प्रभवैराकाशतां अपगतः।

समयः उत्थापयंती सुगताः श्रीसुगतश्रीवज्रसत्त्वसुभग

सत्त्वमहम्॥२४॥


इयं हि गीयमानत्वे अत्यन्तपरिनिर्वृताम्।

मृतान् तदुत्थापयेद् भूयः किं पुनश्च पुनर्भवा॥२५॥


चतुर्मार्गसमायुक्तं विनिर्वृत्तिविभूषितम्।

विश्वासावितर्कं(तथं) सिद्धं भूर्भुवः स्वः प्रसाधकम्॥२६॥


भूर्भुवःस्वः वन्दितो भूर्भुवः स्वः शास्वकः।

भूर्भुवःस्वः भूतीन्द्रो(तिंदः) भूर्भुवः स्वः सिद्ध्य मे॥२७॥


श्रीवज्रसत्त्व-संयोगः सर्वदेवी-समागमैः।

सर्वतो विश्वसुभगः सर्वारल्लिः प्रसिद्ध्यति॥ २८॥


आकाशधातु-पर्यन्तः सर्वदेवी-सुखोत्सवः।

श्रीवज्रसत्त्व-संपूर्ण-चन्द्रसूर्योदयः स्फुटः॥ २९॥


श्रीवज्रसत्त्व-संयोगडाकिनी-संवरोदयः।

सकृद्वैलक्षमाणस्तु सर्वसिद्धिसुखोदयः॥ ३०॥


उत्थापनी ध्रुवां सिद्धां विश्वासारितकन्तथा।

गान्धर्वमाद्रवैर्गायं साधयेद्विश्ववर्त्तिनम्॥३१॥


ततः परम-तत्वेन सर्वमोक्ष-प्रमोहितम्।

श्रीवज्रसत्त्वमात्मानं गीतेनानेन चोदयेत्॥ ३२॥


बहुविविधा तु रागरति पद्मविशुद्धिमहैः।

स्फुटमनुपूजितः परमशाश्वतयोगसुखैः॥३३॥


(25)


सुखमनुसिद्ध्य हे परमसौख्यमयः।

परमसुखातियोगसुभगः परमसुखः॥३४॥


रम रमण होः स्वसमयां निर्द्दोषां शाश्वताम्।

स्वसमय त्वाम्परमरहस्याधिपतेः परमरहस्योत्तमादेव्यः॥३५॥


विविधविचित्र सन्ततिजगतस्फुटविनयपट। स्थिरचल-सर्व-

भावभव। सर्वभावमयः। सर्वजिनात्मयोगेन सुख-डाकिनीजाल,

महादर्शयि सिद्ध्ये हे परमशास्वतसिद्धि हैः। जः हूँ वं होः संवर्य हो

सुखोद्धरविकुर्व हूँ दीपेति अ ल ल ल ल ल होः (हो) शिष्योपविश

सर्वतथागत-विचित्र-डाकिनीजालैः॥


असौ हि गीतराजा वै श्रीवज्रसत्त्वे प्रतिस्थितः।

सिद्ध्यभ्यशेषनिःशेष-सर्वतो जालसम्वरैः॥३६॥


अनेन गीयमानेन सर्वतोविश्वमण्डलम्।

दृश्यभ्यशेषनिःशेषसर्वबुद्ध-विकुर्वितम्॥ ३७॥


बहुविध-रागसन्तत्यशेषनिःशेषसत्त्वविनयविदग्धे। सर्व-

तथागत-जालप्रविकुर्वविकुर्वसर्वसम्वरजालैः तेन ते ते हूँ। बहु-

विविधसुरसन्तत्यशेषनिःशेषसत्त्वविनयविदग्धे॥


सर्वतथागतजालप्रविकुर्वविकुर्वसर्वसम्वरजालैः। हूँ हूँ हूँ। बहु-

विविधरौद्रसन्तत्यशेषनिःशेषसत्त्वविनयविदग्घैः। सर्वतथागतजालैः-

प्रविकुर्वविकुर्वसर्वसम्वरजालैः हूँ रुलुरुलुभ्योः हूँ बहुविविधजीव-

सन्तत्यशेषनिःशेषसत्त्वविनयविदग्धे सर्वतथागतजालैः प्रविकुर्व-

विकुर्वसर्वसम्वरजालैः हूँ। शिष्याविश हूँ।


(26)


एवमाद्याः त्वनन्ताग्रा धर्मधातु-समासमाः।

आकाशधात्वपर्यन्ता गीतमुद्रा स्वयंभुवः॥ ३८॥


सर्वाकाशावकाशे श्रीवज्रसत्त्वे प्रतिस्थिताः।

समाधिसन्तिसर्वात्मसिद्ध्यैश्वर्यप्रसिद्धिभिः॥३९॥


अ(आ)भिस्तु गीयमानाभिः सर्वदेवीप्रचोदिताः।

सिद्ध्यन्ति सर्वबुद्धात्म-डाकिनीजालसम्वरैः।

पूजयन्ति च सर्वात्म-सर्वेन्द्रिय-विनिःसृतैः॥४०॥


सर्वपूजा महामेघव्यूह-प्रसर-संचयैः।

सिद्ध्यत्यशेषनिःशेषसर्वभावात्ममूर्तिभिः॥४१॥


सर्वबुद्धसमायोग-डाकिनीजाल-सम्वरैः।

नार्योपि हि समाविश्य मुद्रावेषेण शासिनाम्॥४२॥


स्ववज्रचिह्न-धारिण्यो योगिन्यः प्रभवन्ति हि।

स्वाधिदेव-प्रतिमुखाधिष्ठानावेशिता स्तुताः॥४३॥


सिद्ध्यभ्यपूर्वसंगीत-वाद्यनृत्यविकुर्वितैः।

दिव्यरूपस्वरामोदरसस्पर्शसुखोत्सवैः॥४४॥


स्वाधिदेवत मात्मानं पश्यन्ति पूजयन्ति च।

दिव्यपूजासमायोग-सुभगोत्तम-कामुकः।

सर्वतो विश्वसुभगं सुखं संवाहयति हि॥ ४५॥


श्री वज्रसत्त्व-संयोग-सर्वसिद्धि-सुखानि तु।

बुद्धजालास्वधिष्ठानान्मण्डले तु भवन्ति हि॥

श्रीवज्रसत्त्व-संयोग-प्रभावेनैव सर्वतः॥४६॥


(27)


सर्वतो विश्व-सुभगसुखेनैव प्रसिद्ध्यति।

सर्वबुद्ध-महारूपस्वरामोदरसः सुखैः।

श्रीवज्रसत्त्वमात्मानं प्रपश्यन्पूजत्यसौ॥४७॥


सर्वपूजासमायोग-सुभगोत्तम-मन्मथः।

सिद्धभ्यशेषनिःशेष सर्वबुद्धात्म-सिद्धिभिः॥४८॥


सर्वबुद्ध-समायोगडाकिनीजालसम्वरैः।

सर्वबुद्धात्म-नृत्यैस्तु विकुर्वन्दृश्यते वरः॥४९॥


ततः स्वगुह्य-तत्त्वेन योषिताभिश्चतसृभिः।

नृत्यमुद्रोपहारेण सर्वपूजां निवेदयेत्॥५०॥


गणवेष्टिणु सुरदापयेत्। परमतथागतसिद्ध द्रं उं ऊँ हूँ॥२॥

महुसिद्धसमयोत्तम। सर्वमहामहुसिद्ध द्रं उं ऊँ हूँ॥२॥


इयं हि गीतमुद्रा श्रीवज्रसत्त्वे प्रतिष्ठिता।

पूज्यतेऽशेषनिःशेषपूजा-प्रसरकर्मसु॥५१॥


यस्य सिद्धिर्भवेन्नैव न च पूजा समृद्ध्यति।

अनया मुद्रया पूज्य सर्वपूजा सुसिद्ध्यति॥ ५२॥


अनेन पूजायोगेन योषिताभिश्चतसृभिः।

पूजां पुष्पादिभिः कृत्वा सर्वशिष्यान्प्रवेशयेत्॥५३॥


अनृत्यज्य पुटाश्चैव यथेच्छासिद्धिकामिनः।

विचित्रवस्त्र-संच्छन्न-वदनां संप्रवेशयेत्॥५४॥


(28)


पुष्पाणि क्षेपयेच्छिष्यान् यथेच्छासिद्धिमावहेत्।

पतन्ति यस्यान्दिव्यां तु शा(सा)स्य सिद्ध्यति देवता॥५५॥


ततस्तु मुखमुद्धाट्य दक्षिणां गृह्य चोत्तमाम्।

बुद्धरत्नाभिषेकं तु यथावदभिषेचयेत्॥ ५६॥


महारक्तं सकर्पूरं रक्तचन्दनयोजितम्।

गणमध्ये प्रतिष्ठन्तु स्ववज्रवामचिह्नधृक्॥५७॥


अनामाङ्गुष्ठवक्त्राभ्यां स्वाधिदेवतयोगवान्।

सोमपानवदास्वाद्य सिद्धिमाप्नोति शास्वतीम्॥५८॥


अमुद्र्यश्चाप्रमोद्यश्च अभक्षश्च भवत्यसौ।

सर्वबुद्धसमायोग-डाकिनीनां गणैरपि॥ ५९॥


ततस्तु स यथा(मयं त्यक्त्वा) दद्यात्समयसम्वरम्।

सर्वबुद्धैः समादत्तां आज्ञां परमशाश्वतीम्॥६०॥


यावन्तस्सर्वबुद्धा वै बोधिसत्त्वश्च विज्रिणः।

देवताश्च मनुष्याश्च साधवो योगिनस्तथा॥६१॥


तां दुग्धान्धमहारक्तं हृदयेभ्यः पिबेद्भवम्।

सर्वबुद्धसमायोगसम्वरं यद्यतिक्रमेत्॥ ६२॥


अशेषसत्त्व-धात्वर्थं अत्यन्तपरिशुद्धये।

अनिरोधधर्मतायोगान्नित्यमेव तु साधयेत्॥६३॥


स्वमात्मानं परित्यज्यतपोभिर्न च पीडयेत्।

यथासुखं सुखं धार्यः संबुद्धाय मनोगतः।

सर्वयोगोपभोगैस्तु रमथ स कुतोभयः।

मा भैष्ट नास्ति वः पापं समयोदुरतिक्रमः॥ ६४॥


एकस्यैक चरा सिद्धा सहचर्या तु चारिणी।

सदा सेवीसुतत्त्वेन बुद्धबोधिरनुत्तरा॥६५॥


(29)


इत्याह ज्ञापयति श्रीमान्वज्रसत्त्वस्तथागतः।

आज्ञापयति संसिद्धाः सर्वबुद्धाः स वज्रिणः॥ ६५॥


मुद्राज्ञानं स्वयम्मुद्रा शिष्येभ्यः प्रददेत्सुखम्।

सयोगं सरहस्यञ्च यथावेश-प्रवर्त्तनैः॥ ६६॥


ततः प्रभृति सच्छिष्या मुद्राज्ञानान्तु संग्रहान्।

सिद्ध्यते सर्वबुद्धात्मा वैरोचन इवापरः॥६७॥


ततो रसाहार-सनृत्य गीत-वाद्योपहारादिभिः वीज्य नाधं .....

निर्यातिते वज्रमहागुरुस्तैः संपूजयेत्स्वरुचितपराञ्च।


ततस्तु स्वयमाविश्य सर्वाचार्य-प्रतिष्ठितम्।

धर्मं सत्यञ्च वै कुर्याद्यथावेश-प्रवर्त्तनैः॥६८॥


श्रीवज्रसत्त्व-विषयः सर्वकल्प-प्रसाधकाः।

सर्वकल्पप्रयोज्याश्च स्वभावत्वान्महोत्तमाः॥ ६९॥


विचित्र-कर्मयोगेन विचित्रविनयात्मनाम्।

सत्त्वानां विनयार्थाय तदन्यविषयः स्मृताः॥ ७०॥


स एव भगवान् योगो वज्रसत्त्वस्तथागतः।

सर्वमोक्ष-विशुद्ध्यर्थं मोक्षारल्पोदयो भवेत्॥७१॥


स्वाधि-देव-प्रतिमुखाधिष्ठानावेशमुद्रया।

यथामुद्रानुसारेण बुद्धनिर्माणमावहेत्॥७२॥


पुनश्चभगवान् योगः सर्वयोगीश्वरः परः।

समयद्विषां विशुद्ध्यर्थं वज्रारल्पोदयो भवेत्॥७३॥


पुनरप्यतियोगस्तु सुभगः परमाक्षरः।

विश्वपद्म-विशुद्ध्यर्थं पद्मजालोदयो भवेत्॥७४॥


पुनश्च भगवान् योगः सर्वाकाशमहामणिः।

परमार्थविशुद्ध्यै श्रीवज्रसूर्यादयो भवेत्॥७५॥


(30)


स एव भगवन् योगो हयग्रीव-पराक्रमः।

हठयोगविशुद्ध्यर्थं परमाश्वोदयो भवेत्॥७६॥


स्वाधिदेव-प्रतिमुखाधिष्ठानापि समुद्रया।

प्रतिबिम्ब-मयो योगो मुद्रायोगेन नाटयेत्॥७७॥


सर्वतो विश्वसमये एवं क्रीडा प्रसिद्ध्यति।

सर्वबुद्ध-समायोगडाकिनीजालसम्वरः॥ ७८॥


सर्वत्र सर्वतः सर्वसर्वञ्च सर्वदा स्वयम्।

सर्वबुद्धादिस्थिरचलां सर्वभावां भवत्यसौ॥७९॥


सर्वतः सर्वबुद्धानां सर्वबुद्ध-विकुर्वतिः।

विकुर्वदर्शयत्यात्मा सर्वदेवी-समागमैः॥८०॥


बुद्धक्षेत्रेष्वशेषेषु बुद्धनिर्माणमावहेत्।

दर्शयेद् बुद्धकार्याणि बुद्धनिर्माण......॥८१॥


त्रैधातुके ह्यशेषान्तु सर्वभावां भवत्यसौ।

सर्ववज्रसमायोग-डाकिनीजालनर्त्तितैः॥ ८२॥


बुद्धवज्रधरादीनां विश्वरूप-क्रियाक्रमैः।

सन्तोषयेज्जगच्च्छर्वं पद्मजालविकुर्वितैः॥८३॥


त्रैधातुक-महाराज्यं सर्वं कार्याणि दर्शयेत्।

सन्धिविग्रह-सिद्धानि राजमायाविकुर्वितैः॥८४॥


त्रैधातुक-महाराज्यमवष्टभ्य स्वसाहसैः।

प्रमर्द्दयं जगत्सर्वं दर्शयेदश्व-नर्त्तितैः॥८५॥


एवमाद्यैरनन्ताग्रैः धर्मधातुसमासमाः।

आकाशधात्वपर्यन्ताः सर्वतो विश्वसम्वरैः॥ ८६॥


सर्वाकाशावकाशश्रीवज्रसत्त्वस्तथागतः।

विक्रीडन्ति(ति) विचित्रैः श्रीरतिक्रीडाविकुर्वितैः॥८७॥


(31)


सर्वतो विश्वसुभगैः सर्वतो विश्वसम्वरैः।

सर्वतो विश्वविनयः सत्त्वधातुम्प्रसाधयेत्॥८८॥


एवमाद्यास्त्वनन्ताग्रा धर्मधातुसमासमाः।

आकाशधात्वपर्यन्ताः सर्वबुद्धादयो पराः॥८९॥


सर्वाकाशावकाशे श्रीवज्रसत्त्व-प्रतिस्थिताः(ष्ठिताः)।

समाविशन्ति सर्वामे सिद्धैश्वर्यप्रसिद्ध्यः॥९०॥


इत्याह भगवान्श्रीवज्रसत्त्वस्तथागतः।


सर्वबुद्ध-समायोगडाकिनीजालसम्वरात्॥

सर्वबुद्धसमायोगडाकिनीजालमण्डलकल्पः षष्टमः॥


(32)


अतः परं प्रवक्ष्यामि सर्वचक्र-विकुर्वितम्।

श्रीवज्रसत्त्वदेवानां सर्वतो विश्वमुत्तमम्॥१॥


रहस्ये परमे रम्ये सर्वात्मनि प्रसाधयेत्।

विविक्ते भुवने चापि स्वोद्यानादिषु वा पुनः॥२॥


सर्वतो विश्वसुभगः सर्वतो विश्वसम्वरैः।

सर्वतो विश्वकार्याणि साधयेत् यथासुखम्॥३॥


विहारारण्यायतने गिरिमूर्द्धषु सर्वतः।

साधयेद् बुद्धकार्याणि विचित्र-विविधानि च॥४॥


श्मशाने देवायतने मातृस्थानादिसंस्थितः।

श्रीवज्रधर-कार्याणि सिद्ध्यन्ति विविधानि तु॥५॥


पद्मोद्यानेषु रम्येषु सरित्संगमनेषु च।

श्रीपद्मधरकार्याणि सिद्ध्यन्ति परमार्थतः॥६॥


राजधानीषु रम्यासु राजोद्यानेषु चैव हि।

साधयेद्राजकार्याणि विचित्रविविधानि च॥७॥


शिखरेषु विचित्रेषु नदीतीरेषु चैव हि।

परराष्ट्रेषु सिद्धेषु साधयेद्वज्रवाजिनः॥८॥


सर्वतो विश्वनेपथ्यं सर्वतो विश्वसाधनैः।

श्रीवज्रसत्त्वकार्याणि मण्डलादिषु साधनम्॥९॥


बुद्धानां पद्मरक्तं तु विचित्रं वज्रपाणिनः।

शुक्लवर्णं तु लोकेशे पीतं श्रीवज्रभास्करे॥१०॥


सर्ववर्ण यथा वाह्या वितानध्वजभूषणम्।

प्रसाधनं हि सर्वं श्रीपरमाश्वस्य वज्रिण॥११॥ इति॥


(33)


यथास्थाने यथाचक्रं यथाव्युहं यथाजगत्।

पर्षत्सन्निवेशस्यतादृक्चक्रसृजवरः॥१२॥


श्रीवज्रसत्त्वदेवानां चक्रं प्रत्यक्ष-दर्शनात्।

यादृशं शाश्वतं पुण्यं पश्चाल्लिखिते तथा॥१३॥


मण्डलं सूत्रयेत्प्राज्ञः सर्वदिक्समतावहम्।

प्राक्प्रतीच्युत्तरा वा दिक्चतुःसूत्राष्टमण्डलम्॥१४॥


मण्डलानि यथातथ्यं कः समर्थः प्रकल्पितुम्।

स्वाधिदेवतयोगेन सिद्धा मण्डल-कल्पनाः॥ १५॥


स्वाधिदेवात्मयोगेन सर्वसिद्धि-प्रकल्पनाः।

न्यूनाधिकविधिर्वापि सिद्ध्यते न च दुष्यति॥१६॥


सर्वतो विश्वसुभगं सर्वतो विश्वचक्रिणः।

सर्वतो विश्वसिद्धं तु सर्वतो विश्वमण्डलम्॥१७॥


मण्डलमण्डलं बौद्धं वज्रिणोऽ(ह्य)र्द्धचन्द्रवत्।

पद्माकारं सुपद्मस्य रत्नाकारं सुरत्निनः।

यथाकामं यथाबाह्या यथाकालं यथासुखम्॥१८॥


मण्डलं वज्रपाणेः श्रीपरमाश्वास्यसंस्थितम्।

न हि मण्डलहीनस्य समयो वर्जितस्य वा॥ १९॥


सिद्ध्यते शाधनं किञ्चित्तत्त्वगुह्यमजानतः।

न हि प्राणिवधः कार्यं त्रिरत्नन्न परित्यजेत्॥ २०॥


बोधिचित्तं न संत्याज्यं आचार्यसुभगो ध्रुवम्।

नानावाद्यं सुमंगलं सत्यञ्चापि त्यजेन्नहि।

दशकुशलं गीतं च सर्वं चापि तथा पुनः॥ २१॥


(34)


सत्वतोविश्वसुभगः सुभग स्वात्मसाधनात्।

नैरात्म्यधर्मतायुक्तादुर्भगाः समयद्विषः॥ २२॥


सुभगो भगवान्बुद्धः अत्यन्तभवशोधनात्।

दुर्भगाः श्रावका लोके अत्यन्तपरिनिर्वृताः॥ २३॥


श्रीवज्रपाणिसुभगः सर्वकल्प-प्रसाधनात्।

दुर्भगाः प्रत्येकजिनाः शून्यतायातियोगतः।

अवलोकितेशः सुभगः सर्वराग-विशुद्धितः॥२४॥


दुर्भगास्तीर्थिका लोके मिथ्यादृष्टि-समन्विताः।

श्रीवज्रसूर्यः सुभगः परमार्थाग्र-सञ्चयात्॥२५॥


दुर्भगास्तापसाः सर्वे निःसर्गाः स्वतनावपि।

सुभगः परमाश्व-श्रीसर्वराज्याग्र-संग्रहात्।

दुर्भगा यतयः सर्वनिरात्मानिष्परिग्रहाः॥२६॥


सर्वाचार्यस्तु सुभगः सर्वसौख्यात्म-साधनात्।

दुर्भगाः सर्वशिष्यास्तु दुर्दृष्टा समयद्विषः॥ २७॥


अनेन गुह्यतत्त्वेन विज्ञातेन स्फुटार्थतः।

सिद्ध्यते सर्वबुद्धत्वं सर्वबुद्धवचो यथा॥ २८॥


सर्वाचार्य-प्रतिष्ठस्तु पूर्वतो मण्डलार्थिनाम्।

गुह्यतत्त्वमनन्ताग्रं शिष्यादिभ्यो वदेत्स्फुटम्॥ २९॥


चक्रप्रवेशकालेषु पृच्छेत्कस्त्वं हे भो प्रिय।

प्रवेशेनापि वक्तव्यं सुभगोऽहमिति प्रियः॥३०॥


गुह्यतत्त्वे गुह्यत्त्वं तु दक्षिणेन प्रवेशयेत्।

प्रविष्टमण्डलञ्चैव तथा वै दत्तदक्षिणाम्॥३१॥


(35)


गुह्यतत्त्व-विधिज्ञश्च सिद्ध्यते परमाक्षरः।

सर्वतो विश्व-गुरवे सिद्धिमुत्तम-दक्षिणम्।

यस्य यद्परित्याज्यं तदुत्तममिति स्मृतम्॥३२॥


यद्यदिष्टतरं किञ्चिद्विशिष्टतरमेव वा।

तत्तद् हि गुरवे देयं तदेवाक्षयमिच्छता॥३३॥


अथास्याभिमतं स्याद्वै चित्तं कार्यमथापि वा।

तद् देयमथवा कार्यं स्वलाभोऽप्युत्तमं हि तत्॥ ३४॥


अथोत्तमम्भवेदस्य स च दद्याच्च दक्षिणाम्।

सर्वाचार्यापमानेन स नित्यदुःखमाप्नुते॥ ३५॥


कन्यां स्वलंकृतां कृत्वा भार्यां चापि प्रियान्तथा।

दत्वा तु मोक्षयेत्मूल्यं बुद्धबोधाग्रदक्षिणाम्।

महापशुनिवेद्यं च पुनर्मूल्येन मोक्षयेत्॥३६॥


श्रीवज्रधरसंयोग .............................दक्षिणाम्।

शुद्धामुक्तावली चैव सुशुक्लं वस्त्रसंयुतम्।

स्वेतं तुरंगमं चैव पद्मिनो वरदक्षिणाम्॥३७॥


राज्यभोग्यविविधानि वस्त्रालंकार-संचयाः।

सर्वपूजा तथैव च वज्रसूर्यस्य दक्षिणाम्॥३८॥


अश्वं स्वलंकृतं कृत्वा हस्तिनं वा सुकल्पितम्।

रथं रत्न-प्रपूर्णं च सप्तिराजस्य दक्षिणाम्॥ ३९॥


सर्वधातुमयैर्वापि जीवमूल्यमयैस्तथा।

बुद्धरत्नाभिषेकैस्तु विचित्रं कल्पयेद् बुधः॥ ४०॥


मूर्ध्नि चैव ललाटे च पार्श्वयोः पृष्ठतस्तथा।

सर्वबुद्धमहारत्नमकुटः परमाक्षरः॥ ४१॥


(36)


सर्वधातुमयैर्वापि(मयो वाऽपि) जीवमूल्मयैस्तथा।

कपालरत्नमुकुटबुद्धचूढामणिस्तथा॥४२॥


सर्वतो विश्वगुरवे सर्वाचार्याय सर्वदा।

सिद्ध्यत्यशेषनिःशेष-सर्वराज्या सुसिद्धितः॥ ४३॥


एकरत्नमयं बिम्बं विचित्रं तु रत्नं तथा।

बुद्धपद्माभिषेकैश्च सर्वशिष्याभिषेकेन(कतः)॥ ४४॥


बुद्धानां रत्नवज्रं तु वज्रं वज्रकुले तथा।

बुद्धकायावलोकेशे मणिमणिधरस्तथा॥४५॥


बुद्धरत्नं तथा पद्मं वज्रं चिन्तामणिं तथा।

सर्वाग्रपरमाश्वे(च) स्वाभिषेकसमुच्चयः॥४६॥


निषिक्ताः घटिता वापि संस्कृता वाथ चित्रिताः।

विचित्राः प्रविचित्राश्च चिह्नमुद्राः प्रकल्पयेत्॥४७॥


सर्वतोविश्वसुभगाः चिह्नमुद्राः स्वयंभुवः।

आकाशधात्वपर्यन्ताः सर्वदेव्यो महासुखाः॥ ४८॥


धनुर्बाणं तथा चैव सुभगः सुभगस्तथा।

कपालं चैव खट्वाङ्गं विश्ववज्रं तथैव च॥४९॥


विश्वपद्मेऽमितायुश्च सर्वबुद्धायुसाधकः।

सर्वदेवीगणः सिद्धः चिह्नमुद्रागणः परम्॥५०॥


बाणं ब्रह्मशिरञ्चैव चक्रमुद्रा तथैव च।

वज्रं त्रिशूलमुद्राग्रं कल्पवृक्षलतास्तथा॥५१॥


पद्महेयोच्छ्रयग्रीवहरिताश्वमुखास्तथा।

वराहदंष्ट्रा सिद्धा च चन्द्रसूर्यौ तथैव च॥५२॥


(37)


गुह्यतत्त्व-विधिज्ञश्च सिद्ध्यते परमाक्षरः।

सर्वतो विश्व-गुरवे सिद्धिमुत्तम-दक्षिणम्।

यस्य यद्परित्याज्यं तदुत्तममिति स्मृतम्॥३२॥


यद्यदिष्टतरं किञ्चिद्विशिष्टतरमेव वा।

तत्तद् हि गुरवे देयं तदेवाक्षयमिच्छता॥३३॥


अथास्याभिमतं स्याद्वै चित्तं कार्यमथापि वा।

तद् देयमथवा कार्यं स्वलाभोऽप्युत्तमं हि तत्॥३४॥


अथोत्तमम्भवेदस्य स च दद्याच्च दक्षिणाम्।

सर्वाचार्यापमानेन स नित्यदुःखमाप्नते॥३५॥


कन्यां स्वलंकृतां कृत्वा भार्यां चापि प्रियान्तथा।

दत्वा तु मोक्षयेत्मूल्यं बुद्धबोधाग्रदक्षिणाम्।

महापशुनिवेद्यं च पुनर्मूल्येन मोक्षयेत्॥३६॥


श्रीवज्रधरसंयोग ....................... दक्षिणाम्।

शुद्धामुक्तावली चैव सुशुक्लं वस्त्रसंयुतम्।

श्वेतं तुरंगमं चैव पद्मिनो वरदक्षिणाम्॥३७॥


राज्यभोग्यविविधानि वस्त्रालंकार-संचयाः।

सर्वपूजा तथैव च वज्रसूर्यस्य दक्षिणाम्॥३८॥


अश्वं स्वलंकृतं कृत्वा हस्तिनं वा सुकल्पितम्।

रथं रत्न-प्रपूर्णं च सप्तिराजस्य दक्षिणाम्॥३९॥


सर्वधातुमयैर्वापि जीवमूल्यमयैस्तथा।

बुद्धरत्नाभिषेकैस्तु विचित्रं कल्पयेद् बुधः॥४०॥


मूर्ध्नि चैव ललाटे च पार्श्वयोः पृष्ठतस्तथा।

सर्वबुद्धमहारत्नमकुटः परमाक्षरः॥४१॥


(38)


सर्वधातुमयैर्वापि(मयो वाऽपि) जीवमूल्मयैस्तथा।

कपालरत्नमकुटबुद्धचूढामणिस्तथा॥४२॥


सर्वतो विश्वगुरवे सर्वाचार्याय सर्वदा।

सिद्ध्यत्यशेषनिःशेष-सर्वराज्या सुसिद्धितः॥४३॥


एकरत्नमयं बिम्बं विचित्रं तु रत्नं तथा।

बुद्धपद्माभिषेकैश्च सर्वशिष्याभिषेकेन(कतः)॥ ४४॥


बुद्धानां रत्नवज्रं तु वज्रं वज्रकुले तथा।

बुद्धकायावलोकेशे मणिमणिधरस्तथा॥४५॥


बुद्धरत्नं तथा पद्मं वज्रं चिन्तामणिं तथा।

सर्वाग्रपरमाश्वे(च) स्वाभिषेकसमुच्चयः॥४६॥


निषिक्ताः घटिता वापि संस्कृता वाथ चित्रिताः।

विचित्राः प्रविचित्राश्च चिह्नमुद्राः प्रकल्पयेत्॥४७॥


सर्वतोविश्वसुभगाः चिह्नमुद्राः स्वयंभुवः।

आकाशधात्वपर्यन्ताः सर्वदेव्यो महासुखाः॥४८॥


धनुर्बाणं तथा चैव सुभगः सुभगस्तथा।

कपालं चैव खट्वाङ्गं विश्ववज्रं तथैव च॥४९॥


विश्वपद्मेऽमितायुश्च सर्वबुद्धायुसाधकः।

सर्वदेवीगणः सिद्धः चिह्नमुद्रागणः परम्॥५०॥


बाणं ब्रह्मशिरञ्चैव चक्रमुद्रा तथैव च।

वज्रं त्रिशूलमुद्राग्रं कल्पवृक्षलतास्तथा॥५१॥


पद्महेयोच्छ्रयग्रीवहरिताश्वमुखास्तथा।

वराहदंष्ट्रा सिद्धा च चन्द्रसूर्यौ तथैव च॥ ५२॥


(39)


विश्वपद्ममहाभाण्डे बुद्धबिम्बरसायनम्।

सर्वात्मास्वादसुभगं चिह्नमुद्रागणः परः॥५३॥


वंशं च सर्ववीणा च मुकुन्दा मुरजस्तथा।

पुष्पं धूपं तथा दीपं विश्ववासं तथैव च॥५४॥


एवमाद्यास्त्वनन्ताग्रा धर्मधातुसमासमाः।

आकाशधात्वपर्यन्ताः चिह्नमुद्रागणा वराः॥५५॥


सर्वाकाशोवकाशे श्रीवज्रसत्त्व-प्रतिष्ठिताः।

समाधिं सति सर्वात्म-सिद्ध्यैश्वर्य-प्रसिद्धिभिः॥५६॥


चीवरं चैव पात्रं च तथा चैवं तु खिङ्खरी।

सद्धर्म पुस्तकञ्चैव चिह्नमुद्रागणः परः॥५७॥


जिह्वा मुद्रा तथा चैव कांशिका वाद्यमेव च।

वज्रं रत्नकरण्डञ्च चिह्नमुद्रागणः परः॥५८॥


बुद्धबिम्बं तथा चैव दर्पणं वायु-तर्पणम्।

वज्राशनि-समेघश्च नेत्रमुद्रा तथैव च॥५९॥


ज्वाला वज्रञ्च खट्वाङ्गं कपालं चषकं तथा।

महारक्तं महामेदं महामान्सं महामधु॥६०॥


तीक्ष्णं बाणं तथा कर्षः मद्यं वारि तथैव च।

लता च मारुतोद्धूता पटञ्चैव हुताशनः॥ ६१॥


श्रीवज्रकोधराजा वै सर्व-दुष्टादि-भक्षणे।

चिह्नमुद्रागणः सिद्धो योग-सिद्धि-प्रसाधकः॥६२॥


विश्वपद्मं च रक्तञ्च हरितञ्च तथा सितम्।

नीलं पीतञ्च मञ्जिष्ठ-पद्मचिह्नाग्र-सप्तकम्॥६३॥


(40)


पद्म शूची नारीमुद्रा धर्मचक्रं तथैव च।

शूलं श्रियावहं वज्रं पद्मचिह्नगणः परम्॥६४॥


धनुर्वाणमसिश्चैव तेजोज्वाला तथैव च।

अभिषेकोऽभिषेके तु पूजा वा चिह्न-संचयः॥६५॥


विश्वपद्मं तथा चैव विश्ववज्रं तथैव च।

चिह्नमुद्राद्वयः सिद्धः सर्वराज्य-प्रमर्दनी॥६६॥


सर्वबुद्धादि स्थिरचलः सर्वभावा ह्यशेषतः।

आकाशधात्वपर्यन्ताः चिह्नमुद्राः स्वयम्भुवः॥६७॥


इत्याह भगवाच्छ्रीवज्रसत्त्वस्तथागतः।

सर्वबुद्ध-समायोगडाकिनीजालसम्वरात्॥


सर्वमण्डलमुद्राज्ञानकल्पः सप्तमः॥


(41)


अतः परं प्रवक्ष्यामि सर्वपूजाविकुर्वितम्।

श्रीवज्रसत्त्वदेवीनां सर्वतोविश्वमुत्तमम्॥१॥


वामदक्षिणपाणिभ्यां शरीराग्रान्तनर्त्तितैः।

वामगर्वाधरः श्रीमान् दक्षिणत्रिपताकया।

स विभ्रमा विलासाग्रसस्मिता लोकलोचनः॥२॥


श्रीवज्रसत्त्वमात्मानं नमेदाशय कम्पितैः।

संबुद्धवज्रधृक्-पद्मवज्रसूर्य-त्रिधातुकम्।

प्रणामयेत्क्षणादेव दर्प्पोद्धृतेषु का तथा॥३॥


सरुद्रसेन्द्रसोपेद्रः सचन्दार्कयमंसकम्।

प्रणम्य विनयभ्याशु सर्वकर्मसु योजयेत्॥४॥


बुद्धपूजां समाधाय नमेदाशय-कम्पितैः।

सिद्धत्यशेष-निःशेष-श्रीवज्रवलिताञ्जलिः॥५॥


वामभ्रूत्कर्ष-योगेन प्रहसंलापितैः।

स ब्रह्मोपेन्द्र-रुद्रं तु नाशयेद् भुवन-त्रयम्॥६॥


कुङ्मलाञ्जलितः पद्मं हृदिबध्वा स्वयोगतान्।

द्व्यङ्गुष्ठान्त्या चतुष्पत्रः प्रोत्स्फुल्लनमितैर्नमेत्॥७॥


सर्वांगमंगं प्रणतोधरण्यां सुप्रतिष्ठितः।

हृदि वक्त्रे तथा मूर्ध्नि अंजल्या नामयेन्नमन्॥८॥


वज्रगर्वाधरः श्रीमान् चक्षुभ्यां प्रहसन्नमेत्।

प्रणामयेत् त्रिभुवनं बलोद्वृत्तेषु का कथा॥९॥


इति प्रमाणमुद्राज्ञानम्॥


यावन्त्यानृत्य शास्त्रेषु करणाभिनयास्तथा।

श्रीवज्रसत्त्वमुद्रास्ता स्वार्थसिद्धि-प्रसाधिकाः॥१०॥


(42)


सलीला गतयः सर्वाः सर्वावेश-प्रवर्त्तनैः।

विश्वमण्डलिका-नृत्यैः सर्वपूजां निवेदयेत्॥११॥


वामदक्षिणपाणिभ्यां शरीराग्रान्त-नर्त्तितैः।

वामाग्र खटको द्वारो दक्षिणत्रिपताकया॥१२॥


अनया मुद्रया मुद्र्य सर्वबुद्धसमागमः।

सर्वोत्तममहासिद्धि-माहेश्वर्यैः प्रसिद्ध्यति॥१३॥


सर्वबुद्ध-समागमः श्रीसुभगानाममुद्रा॥


तां समुत्क्षिप्य योगेन सोद्वहन्तु महाग्रहः।

परिवर्त्त्य कपाले तु मूर्द्ध्नि सर्वाणि वेशयेत्॥१४॥


ततोवतार्य नर्त्तत्वे सर्वावेशप्रनर्त्तनैः।

हूँकारगीतसुभगः सर्वपूजां निवेदयेत्॥१५॥


सर्वबुद्धसमायोग-सुभग-श्रीमहासुखानाममुद्रा॥


वाम-दक्षिण पाणिभ्यां शरीराग्रान्त नर्त्तितैः।

वज्राञ्जलिं समाधाय वलिता वामतस्तथा॥१६॥


तान्समुत्क्षिप्य योगेन मुर्द्ध्नि सन्धौ निवेशयेत्।

ओंकार-गीत-सुभगः सर्वपूजानिवेदयेत्॥१७॥


श्रीवज्रवलितांजलि-बुद्धपूजानाममुद्रा॥


वामदक्षिणपाणिभ्यां शरीराग्रान्त-नर्त्तितैः।

वज्रांजल्यूर्द्धविचा सर्वपूजाबलिविधिः॥१८॥


अनया मुद्रयानर्त्तश्मशानावेश-नर्त्तितैः।

वज्रांगहास-सुभगः सर्वपूजान्निवेदयेत॥

श्रीहेरुकवज्र-कपालाञ्जलिः सर्वपूजा-बलिविधिः॥१९॥


(43)


वामदक्षिणपाणिभ्यां शरीराग्रान्त-नर्त्तितैः।

सव्याव(प)सव्य-तालैस्तु सर्वपूजां निवेदयेत्॥२०॥


श्रीपद्मनाल-नर्त्तेश्वरीनाममुद्रा॥


वामदक्षिणपाणिभ्यां शरीराग्रान्त-नर्त्तितैः।

चक्ररत्नाञ्जलिं बध्वा सर्वपूजां निवेदयेत्॥२१॥


सर्वाशापरिपूर्ण-श्रीवज्ररत्नानाममुद्रा॥


ऊर्ध्वक्षेपा अधःक्षेपा भ्रामिता लेपतस्तथा।

पुष्पधूपप्रदीपाग्रगन्धपूजा-प्रवर्त्तिकाः॥२२॥


संपूर्णा वाऽथ रिक्ता वा यथालाभेन वा पुनः।

सर्वपूजा प्रसिद्ध्यन्ते समं समय-साधनैः॥२३॥


अभिमुद्राभिरामुद्रा सर्वबुद्धाः प्रपूजिताः।

प्रतिपूजयन्ति सर्वान् सिद्ध्यैश्वर्य-प्रसिद्धिभिः॥२४॥


तासां काचिद्वरोदाराधर्मधातु-समासमाः।

आकाशधात्वपर्यन्ताः सर्वपूजाः स्वयम्भुवाम्॥२५॥


या कृता न भवेत्तेन न चैवोपचिता भवेत्।

सर्वबुद्ध-समायोग-योगैश्वर्य-महासुखा॥२६॥


तासां किंचिदासाध्यं हि सिद्धिकर्मसुखं तथा।

सुसिद्ध्यत्यशेषनिःशेषमुद्रा प्रसरसिद्धिभिः॥२७॥


इत्याहभगवाच्छ्रीवज्रसत्त्वस्तथागतः।

सर्वबुद्धसमायोगडाकिनीजालसम्वरात्॥२८॥


सर्वपूजासमायोगसुभगश्रीसमयकल्पोऽष्टमः॥


(44)


अतः परं प्रवक्ष्यामि सर्वबुद्धविकुर्वितम्।

श्रीवज्रसत्त्वदेवानां सर्वतोविश्वमुत्तमम्॥१॥


रहस्ये परमे रम्ये सर्वात्मनि सदास्थितः।

सर्वबुद्धमयस्सत्त्वः वज्रसत्त्वः परं सुखम्॥२॥


सर्वसौख्यारुणत्वाच्च सर्वसौख्य-विशुद्धितः।

पूर्णचन्द्रारुणवपुः वज्रसत्त्वः परं सुखम्॥३॥


महारागो हि भगवान् सर्वरागान्तरागणात्।

श्रीवज्रसत्त्वमुद्रेयं रक्तचित्तोज्वलप्रभः॥४॥


बुद्धरत्न-समन्नास्ति रत्नमन्यं त्रिधातुके।

सर्वबुद्धमहारत्नमकुटानेन वै वरः॥५॥


अपरं च असंहार्यं च शुद्धं दिव्येन वारिणा।

प्रकृत्यैव हि तत्सिद्धं प्रभावेण स्वभावतः॥६॥


कपालमालामुकुटो बुद्धचूडामणिस्तथा।

संक्लिष्ट-लोकधात्वीशः सहादिषु स सिद्ध्यति॥७॥


श्रीवज्रसत्त्वसंयोगः सर्वदेवी-समागमैः।

सर्वतोविश्वसुभगः सर्वारल्लिः प्रसिद्ध्यति॥८॥


संबुद्धवज्रधृक्पद्मचक्र सूर्यं त्रिधातुकम्।

मुद्रा प्रमोह्य वोत्थाप्य सर्वकर्मसु योजयेत्॥९॥


अनया मुद्रयामुद्र्यपातयेत्युत्पततीच्छतः।

सर्वदेवीवरः श्रीमान् वज्रसत्त्वः प्रसिद्ध्यति॥१०॥


(45)


परमतातियोग सुभगः श्रीवज्रसत्त्वसम्वरकेलिकिलानाममुद्रा॥


सव्यावसव्ययोगेन सुखावेश-प्रवर्त्तनैः।

सत्त्वपर्यङ्कमाभुज्य सर्वसैन्यां प्रभञ्चति॥११॥


श्रीवज्रसत्त्वराजपर्यंकानाममुद्रा॥


चन्द्रवर्णस्मितमुखाः सर्वशुद्धिविशुद्धितः।

पद्मरागविशुद्ध्या तु रक्तगौरोरुमध्यमाः॥१२॥


पलाशनीलाग्रभुजाः सौख्यस्यैश्वर्यतस्तथा।

सुखस्पर्शैश्वर्यत्वाच्च श्वेतपीतोरुसंगमाः॥१३॥


यत्र वर्णविधिकार्यमदस्तत्र प्रयोजितः।

देव्यो विश्वमहावर्णा विश्वज्वालाकुलप्रभाः॥१४॥


विश्वपद्म-प्रतिष्ठानाः सर्वशुद्धि-प्रतिष्ठिताः।

बुद्धपद्मादि-सद्रत्न-विचित्राभरणाम्बराः॥१५॥


सर्वबुद्धसमाजेन भूषितैश्च सहादयः।

करणैर्वारणैश्चापि हारणैश्च विशेषतः॥१६॥


सर्वाङ्गाहरणी सिद्धा स्वपरिष्वंग-मुद्रया।

अनया मुद्रया मुद्रये(द्र्य) पात्येत्युत्पततीच्छतः॥

सर्वकामीश्वरः श्रीमान्वज्रसत्त्वः प्रसिद्ध्यति॥१७॥


परमरतातियोगसुभगः श्रीवज्रसम्वरकेलीकिलानाममुद्रा॥


विचित्र-समयासक्तसुखावेश-प्रवर्त्तनैः।

स्वपरिष्वंग-मुद्राग्रमध्योत्कृष्टाधिदेवता॥


(46)


अनया मुद्रया योगी पात्येत्युत्पतीच्छतः।

महासुखेश्वरः श्रीमान्वज्रसत्त्वः प्रसिद्ध्यति॥१८॥

परमरतातियोग-सुभगः श्रीवज्रसत्त्वसमयसम्वरकेलीकिला-

नाममुद्रा॥


यज्ञोपवीतयोगेन वज्रखट्वाङ्गसंग्रहः।

सपद्मविश्ववज्राग्रस्वपरिष्वङ्गमुद्रया॥१९॥


अनया मुद्राया मुद्रया(द्र्य) पात्येत्युत्पततीस्थितः।

सर्वयोगीश्वरो राजा वज्रसत्त्वः प्रसिद्ध्यति॥२०॥

परमरतातियोग-सुभगः श्रीवज्रसत्त्व-योगसंवरकेलीकिला-

नाममुद्रा॥


सर्वबुद्ध-सिद्ध-चषकः सुपरिष्वंगमुद्रया।

श्रीवज्रसत्त्वसंयोगमध्योत्कृष्टादि-देवता॥२१॥


अनया मुद्रया मुद्र्य (योगी) पात्येत्युत्पत(ती)च्छतः।

वज्रायुः यौवनः श्रीमान्वज्रसत्त्वः प्रसिद्ध्यति॥२२॥


परमरतातियोगसुभगः श्रीवज्रायुः सम्वरकेलीकिलानाममुद्रा।

एवमाद्यास्त्वनन्ताग्रा धर्मधातु-समासमाः।

आकाशधात्वपर्यन्ता विश्वमुद्रा स्वयम्भुवः॥२३॥


सर्वाकाशावकाशे श्रीवज्रसत्त्व-प्रतिष्ठिताः।

समाविशन्ति सर्वात्म-सिद्ध्यैश्वर्य-प्रसिद्धिभिः॥२४॥इति॥


सर्वबुद्ध-समायोग-डाकिनीजालसम्वरात्मूलमुद्रागणः॥


यथा शास्त्रान्तसारेण श्रीपूर्णायतनर्त्तितैः।

चतुर्बाण-परिक्षेपाच्चतुर्मार-पराजयः॥ २५॥


महाब्रह्मशिरः श्रीवज्रसायकानाममुद्रा॥

पादावक्षेपरिक्षेप-संक्षेपोक्षेप-विक्रमैः।

चक्रमुद्रा समुत्क्षेपात्सिद्धं त्रैलोक्यलंघनम्॥२६॥


(47)


श्रीवज्रनारायणीनाममुद्रा॥


करणैवारणैश्चापि हरणैश्च विशेषतः।

प्रनर्त्तन्विश्वमुद्राभिः संहरेद् भुवन-त्रयम्॥२७॥


श्रीवज्रतालनर्त्तेश्वरीनाममुद्रा॥


यस्य तस्य लतां गृह्य स्वपरिष्वंग-मुद्रया।

रामयं सर्वनार्यस्तु कल्पवृक्षः प्रसिद्ध्यति॥२८॥


श्रीवज्रकामदेवीनाममुद्रा॥


सरुद्रोपेन्द्र-सेन्द्रश्च चन्द्रार्कयमंसकम्।

समास्वादनमूत्कारैस्त्रैलोक्यमपि शोषयेत्॥२९॥


श्रीवज्रपद्मवड(श्व)वामुखानाममुद्रा॥


सरुद्रसेन्द्रसोपेन्द्रसचन्द्रार्कयमंसकम्।

नासिकास्वादसीत्कारैः संहरेद् भुवनत्रयम्॥३०॥


श्रीवज्रवाराहीनाममुद्रा॥


सरुद्रसेन्द्रसोपेन्द्रसचन्द्रार्कयमंसकम्।

समास्वादनदृष्ट्या तु त्रैलोक्यमपि भक्षयेत्॥३१॥


श्रीवज्रसूर्यचन्द्रहुतासनानाममुद्रा॥


सरुद्रसेन्द्रसोपेन्द्रसचन्द्रार्कयमंसकम्।

सर्वात्मास्वादनतया भस्ममपि जीवयेत॥३२॥


श्रीवज्रधातु-पुनःसंजीवनीनाममुद्रा॥


वंशाभिनययोगेन यथावेशप्रव(न)र्त्तनैः।

सब्रह्मोपेन्द्ररुद्रं तु वशीकुर्याज्जगत्त्रयम्॥३३॥


(48)


श्रीवज्रवंशवशंकरीनाममुद्रा॥


वीणाभिनययोगेन यथावेशप्रव(न)र्त्तनैः।

सिद्ध्यत्यशेषसिद्ध्याशुकर्मप्रसरसिद्धिभिः॥३४॥


श्रीवज्रवीणासुखप्रमोहनीनाममुद्रा॥


मुकुन्दाभिनयैर्योगी यथावेशप्रव(न)र्त्तनैः।

ज्वर-ग्रह-विषासंग सर्वदुःखान्क्षणाद् हरेत्॥३५॥


श्रीवज्रमुकुन्दा सर्वदुःखापहारिणीनाममुद्रा॥

मृदङ्गाभिनयैर्योगी यथावेशप्रव(न)र्त्तनैः।

आवेशयेत्क्षणादेव समस्तभुवनत्रयम्॥३६॥


श्रीवज्रमृदङ्गोन्मादनीनाममुद्रा॥


मुद्रानृत्योपहारेण नृत्यपूजाः स्वयम्भुवान्।

सिद्ध्यत्यशेषनिःशेषसर्वपूजा प्रव(न)र्त्तनैः॥३७॥


ज्वरा विषा गरारोगा डाकिन्योपद्रवग्रहाः।

विश्वमण्डलिकानृत्यैः शामयन्ति क्षणेन हि॥३८॥


सरुद्रसेन्द्रसोपेन्द्रसचन्द्रार्कयमंसकम्।

मुद्रितं मोहितः भुक्तं क्षणात्संजीवयन्ति हि॥३९॥


एवमाद्यास्त्वनन्ताग्र धर्मधातु-समासमाः।

आकाशधात्वपर्यन्ता देवीमुद्रास्वयम्भुवः॥४०॥


सर्वाकाशावकाशे श्रीवज्रसत्त्व-प्रतिष्ठिताः।

समाविशन्ति सर्वात्मसिद्ध्यैश्वर्य-प्रसिद्धिभिः।

सर्वबुद्ध-समायोगडाकिनीजालसम्वरैः॥४१॥


गीतैरत्यन्तसंसिद्धैः प्राप्ता सिद्धिरनुत्तरा।

अथास्य मुद्राज्ञानस्य सर्वकर्म-प्रसाधकम्।

श्रीवज्रसत्त्व संगीतं अत्यन्तभवसाधकम्॥४२॥


(49)


श्रीमुखवज्रसत्त्व सुभगस्त्वामहं प्रतिपद्ये, बुद्ध हे विविध-

विचित्रसन्तति जगद्धितायोत्तमसिद्धि सिद्ध्य माम्। सर्व-

तथागतात्म-सुखडाकिनीजालविचित्रसम्वर। अ ल ल ल ल होः।

प्रदर्शय विचित्र-तथागतयोग-नाटकम्। जः हूँ वँ होः समय हो

सुखोद्धर विकुर्व हूँ दीपेति। अ ल ल ल ल होः शिष्याविश सर्व-

तथागतविचित्रडाकिनीजालः सर्वत्र सर्वतः सर्वं अनेन सुप्रसिद्ध्यति।


सर्वबुद्धसमायोगडाकिनीयोगमण्डलमुद्राज्ञानम्॥


स एव भगवान् योगो वज्रसत्त्वस्तथागतः।

सर्वमोक्षविशुद्ध्यै श्रीबुद्धमुद्रा-प्रतिष्ठितः॥४३॥


परमार्थविशुद्धत्वात्तप्तकाञ्चनवर्णधृक्।

विरागादि-महारागाच्छुक्रचित्रोज्वलप्रभः॥४४॥


धर्मरत्नादृते नास्ति धर्मराज-प्रसाधकम्।

बोधिचित्तमहायानं वज्ररत्नीहृतोजिनः।

दक्षिणाङ्गुष्ठ-जेष्ठाभ्याम्वामाग्र-खटकस्य तु॥४५॥


सर्वाङ्गुलि-परामर्शान् मूलमुद्रेति सिद्ध्यति।

इयं सा सर्वबुद्धानां प्रज्ञापारमिता स्फुटा।

बोधिचित्त-महोत्पाद-धर्मचक्रप्रवर्त्तनी॥४६॥


अनया मुद्रयामुद्रय प्रज्ञापारमितानयम्।

आकाशधात्वपर्यन्तं भवत्येवं प्रवर्त्तितम्॥४७॥


(50)


बोधिचित्तमहोत्पाद-धर्मचक्र-प्रवर्त्तकः।

बुद्ध एव हि बोद्धव्यो बुद्धः परमशाश्वतः।

यैनं पश्यन्ति संयुक्तं पूजयन्ति च सर्वथा॥

दृष्टास्तैः पूजिताश्चैव बुद्धः परमशाश्वतः॥४८॥


सह चित्तोत्पादित सम्यक्धर्मचक्रप्रवर्तन श्रीसमयानाममुद्रा॥


दक्षिणाङ्गं समाक्रान्ता वामसर्वाङ्गनिर्जितः।

सत्त्वपर्यङ्कमाक्रम्य सर्वमारान् प्रभञ्जिति॥४९॥


श्रीसत्त्वपर्यङ्कम्॥


वज्रमुष्टिं समाधाय संच्छन्नावामपाणिना।

सिद्ध्यत्यशेषनिःशेषबुद्धसंगीतिसिद्धिभिः॥५०॥


श्रीहेरुकमहावज्रमुष्टि-संच्छादिता तथा।

सिद्ध्त्यत्यशेषनिःशेषसौरिसंगीतिसिद्धिभिः॥।५१॥


पद्मनारीमयीमुष्टिः वामच्छन्ना तथैव च।

सिद्ध्यत्यशेषनिःशेषबोधिचर्या-प्रसिद्धिभिः॥५२॥


रत्नग्रहणमुष्टिस्तु संच्छन्ना वामपाणिना।

सिद्ध्यत्यशेषनिःशेषसर्वबुद्धार्थसिद्धिभिः॥५३॥


बुद्धमुष्टिसमाधाय संच्छन्ना वामपाणिना।

सिद्ध्यत्यशेषनिःशेषसर्वबुद्धसुसिद्धिभिः॥५४॥


नारीमुद्रां समाधाय संच्छन्ना वामपाणिना।

सिद्ध्यत्यशेषनिःशेष-सर्वसिद्ध्यासुसिद्धिभिः॥५५॥


श्रीपरमाश्वमुष्टिस्तु संच्छन्ना वामपाणिना।

सिद्ध्यत्यशेषनिःशेष-सर्वकर्म प्रसिद्धिभिः॥५६॥


(51)


श्रीसिद्धलोचनामुष्टिः संच्छन्ना वामपाणिना।

सिद्ध्यत्यशेषनिःशेष-सर्वालोक-प्रसिद्धिभिः॥५७॥


प्रथमा बुद्धसंगीतिः द्वितीया सौ(शौ)रिणी तथा।

समन्तभद्रा तृतीया चतुर्थाक्षयकरण्डकाः(का)॥५८॥


श्रीसर्वबुद्धा भगवती सुमुखा धारणी तथा॥

सप्तमी च महामेघा अष्टमी गगण-लोचना॥५९॥


सर्वधारणीमुद्रा॥


मुद्राज्ञानस्य चास्याग्र-सर्वकल्प-प्रसाधकम्।

बुद्धनिर्माण-संगीतं सिद्ध्यते परमाक्षरः॥६०॥


उत्थापनी ध्रुवा सिद्धा विश्वा सारितकं तथा।

षडङ्गग्रामेण वै गाय धैरवतग्रासमावहेत्॥६१॥


स्फुटा परमाणुसंख्य-बहुलोके धातुविस्तरैः।

स्फुटा परमाणुसंख्य-जिनसर्वार्थगतयः॥६२॥


स्फुटा परमाणुसंख्य-परिनिर्मितकाय चयैः।

स्फुटा परमाणुसंख्य-सुविकुर्व तथागत होः॥६३॥


अत्यन्तभव-महासुख-सर्वतथागत-विकुर्वितविविधः।

श्रीवैरोचनयोग अ ल ल ल ल होः प्रसिद्ध्याद्य माम्॥६४॥


असौ हि गीयमानस्तु सिद्ध्यते नात्र संशयः।

सर्वाकाश-समायोग-डाकिनीजालसम्वरः॥६५॥


(52)


ततः स्वगुह्यतत्त्वेन योषिद्भिश्चचतसृभिः।

पूजां पुष्पादिभिः कृत्वा यथाविधिवद्विस्तरः॥६६॥


तथागतमुद्राज्ञानम्॥


स एव भगवान् योगो वज्रसत्त्वस्तथागतः।

स यद्विषां विशुद्ध्यै श्रीमुद्राश्मशानकी स्फुटाः (टाम)॥६७॥


अत्यन्तदुष्ट-रौद्रेषु सौम्यतारोपयुज्यते।

प्रज्ञोपायमयो योगो योगसम्वरमुत्तमम्॥६८॥


बुद्धमत्युद्भवक्रोध-भस्म प्रलयमुत्तमः।

नील-ज्वालामयः सत्त्वो रक्तज्वालाभमण्डलः॥६९॥


अपरस्वमहार्यं च शुद्धं दिव्येन वारिणा।

प्रकृत्येव हि तत्सिद्धं प्रभावेन स्वभावतः॥७०॥


महावस्त्रं महासेकं महामान्सं महामधु।

सर्वाश्मशानेकीभूतां(शानकीभूता)मुद्राश्री-पारमेश्वरी॥७१॥


अत्यन्तदुष्टरौद्राग्र-सत्त्वधातुविशुद्धये।

श्रीहेरुकमहावज्र-मुद्रेयं पारमेश्वरी॥७२॥


कपालमालामकुटो बुद्धचूडामणिस्तथा।

सिद्ध्यत्यशेषनिःशेष-सर्वराज्य-प्रसिद्धिभिः।

सवज्रखट्वाङ्ग-वज्रघण्टा-कणकणस्वरैः॥७३॥


श्रीहेरुकसमावेशविश्वमुद्रा-विकुर्वितैः।

संबुद्धं वज्रधृक् पद्मं वज्रसूर्यं त्रिधातुकम्।

मुद्र्य प्रमोह्य भुक्त्वा तं स भस्मपि जीवयेत्॥७४॥


श्रीहेतुकमहावज्रावेशविकुर्वा पद्मनर्तेश्वरीनाममुद्रा॥


(53)


यज्ञोपवीतयोगेन खट्वाङ्गा पार्श्वयोः श्रिता।

कपालवामहस्ते तु दक्षिणे त्रिपताकया॥७५॥


आकाशमुद्रया योगी सर्वाकाशवरो भवेत्।

आकाशात्स्त्रियादि-सद्रत्न-सर्वभाव-प्रवर्त्तकः॥७६॥


अनया मुद्रया मुद्र्यपातनाभिनयैः सुखम्।

खगो निपात्य वै सर्वं स्वोपभोगैर्भुनक्तत्यसौ॥७७॥


सरुद्रोपेन्द्रसचन्द्रार्कडाकिनीगणमक्षयम्।

खगो निपात्य मायाभिः निःशेषं भक्षयत्यसौ॥७८॥


सर्वाकाशसमतासमायोगसुभगश्रीवज्रडाकिनीसम्वरा-

नाममुद्रा॥


सव्यावसव्ययोगेन सुखावेश-प्रव(न)र्त्तनैः।

अर्द्धपर्यङ्कमाभुज्यम्वारुणा चक्रमेत्क्रमम्॥७९॥


सरुद्रसेन्द्रसोपेन्द्रसचन्द्रार्कयमंसकम्।

मुद्रय प्रमोह्य चोत्त्थाप्य नर्त्तयित्वा तु भक्षयेत्॥८०॥


अनयैव तु योगेन ततोरुमुखपीडनैः।

प्रपीड्य चूर्णयित्वा तु प्रविकीर्य समापिबेत्॥८१॥


अनयैव तु मायाभिः तदूर्वन्तरस्पन्दनैः।

समयेत्सर्वनार्योऽसौ सुभगा दिव्यमानुषाः॥८२॥


सर्वसुखस्पर्शसमायोगसुभग-श्रीवज्ररौद्रासमानाममुद्रा॥


अतः परं प्रवक्षामि विश्वमुद्रा प्रतिस्थिताः।

श्रीहेरुक-समावेश-बुद्धडाकिनिमण्डले॥८३॥


(54)


सौम्यरौद्र-प्रमोहाग्रहर्षनृत्यसविभ्रमाः।

मृत व वण(मृतोत्थानन)याश्चैवसुखमुद्रा प्रतिष्ठिताः।

शान्तरौद्र-प्रमोहोत्थत्यानृत्यासन मूर्त्तयः॥८४॥


दृष्टिमुद्राः परं सिद्धाः रहस्या योगसम्वरैः।

पुष्पधूपप्रयोगाग्र-मद्योदकलतास्तथा॥८५॥


पटाग्निदानात्सिद्धा हि मुद्रयन्ति विशेषतः।

एकाग्रता समायोगाद्योगाङ्का न सुखप्रदा॥८६॥


अत्युक्षच्छटिकादाय प्रोद्ध श्वासस्य नासनैः।

वामदृष्टिः कराकर्षा चूचना(चुम्बना)लिङ्गनास्तथा॥८७॥


नर्त्तनं सुखमोहश्च भक्षणं गुह्यमूर्त्तयः।

महाब्रह्मशिरश्चैव तथा त्रैलोक्यलंघनम्॥८८॥


पृथिव्युद्धरणञ्चैव स्वमुद्राभिनयस्तथा।

श्मशाने नर्त्तनञ्चैव वातमण्डलिकास्तथा॥८९॥


महा-प्रलय-दाहश्च कर्ममुद्राः प्रतिष्ठिताः।

प्रथमा मुद्रिणी मुद्रा द्वितीया हृद्यकट्टिनी।

प्रमोहनी तृतीया तु चतुर्थ्युत्थापनी तथा॥९०॥


पञ्चमी नर्तनी मुद्रा षष्ठी चैव तु मारणी।

सप्तमी भक्षणीमुद्रा कर्ममुद्रा तथाष्टमी।

अथासां सर्वमुद्राणां प्रतिमुद्रां निरुत्तराम्॥९१॥


(55)


प्रवक्ष्यामि विशेषेण सर्वमुद्रात्मभेदिकाम्।

श्रीवज्रपद्मान्तिष्ठां समाधाय वज्रगीत प्रव(नृ)र्नत्तनैः॥९२॥


मुद्रितं भुक्तं सर्वदा भस्म (चा)पि स जीवयेत्।

अथास्य मुद्राज्ञानस्य सर्वकर्मप्रसाधकम्।

श्रीवज्रयोगसंगीतं प्रवक्ष्यामि विशेषतः॥९३॥


विविध विचित्र विभ्रमावलोकितैः प्रमुद्र्य।

विविधविचित्र-चुम्बनालिङ्गनैः प्रमोध्य॥९४॥


विविधविचित्र-सर्वसुख-भोजनैः प्रभक्ष्य।

विविधविचित्रसम्वरमहो प्रदर्शयस्व॥९५॥


मुद्र्य प्रमोहय भक्षय संवार्य महासुख प्रविश्य हूँ दीयेति।

अलललल होः प्रविकुर्व विकुर्व योग-सम्वरजालैः।

प इ स दु स अ लु स म ह सर्वा आ सु जो उ।

भ क्ष दु स अ लु सन्ता आ स जो उ॥ ९६॥


अनेन गीयमानेन सिद्ध्यति नात्रसंशयः।

सर्ववज्र-समायोग-डाकिनीजालसम्वरम्॥९७॥ इति॥


श्रीहेरुकवज्रमुद्राज्ञानमिति॥


स एव भगवान् योगो वज्रसत्त्वस्तथागतः।

सर्व रागविशुद्ध्यै श्रीपद्ममुद्रा प्रतिष्ठिता।

परमाक्षर-सिद्धत्वाच्छुद्धस्फटिक-सन्निभः॥९८॥


(56)


सर्वरागनिराकर्त्तुं नानाज्वालाकुल प्रभः।

बुद्धो यः रत्नप्रत्युप्त-विचित्राभरणाम्वरैः।

सर्वबुद्धाः समाजेन(समासेन)सुखवतिरिवोत्तमाः॥९९॥


विचित्रकरणोदुहन परावृत्य प्रनर्त्तितैः।

सपद्मपद्मचिह्नाय चक्रीकृत-भुजशतः॥१००॥


संबुद्ध-वज्रसूर्यं तु त्रिधातुकं विशेषतः।

विशोध्य पद्मजालाभिर्बुद्धं बोधौ निवेशयेत्॥१०१॥


विचित्रविनयोपाय-सुभग-श्रीपद्मनर्तेश्वरीनाममुद्रा॥

सव्यावसव्ययोगेन अर्द्धपर्यङ्क-संस्थितम्।

राजपर्यङ्कमाक्रम्य सर्वोपायान् व्यपोहति॥१०२॥


श्रीवज्रपद्मासनानाममुद्रा॥


गर्वयागृह्य वामेन रक्तपद्मं यथासुखम्।

स्वहृद्युत्कर्षयोगेन पद्मपत्र-विकासिनी॥१०३॥


गर्वयागृह्य वामेन पालाश कमलं मुखम्।

स्वहृद्युत्कर्षयोगेन नारीमुद्रां समुद्वहेत्॥१०४॥


गर्वयागृह्य वामेन श्वेतपद्मं यथासुखम्।

वज्रमुद्रां समाधाय धर्मचक्रं प्रवर्त्तयेत्॥१०५॥


गर्वयागृह्य वामेन नीलपद्मं यथासुखम्।

दिक्षिणेन प्रनर्त्तेन वामेन त्रिपताकया॥१०६॥


(57)


गर्वयागृह्य वामेन पीतपद्मं यथासुखम्।

दक्षिणेन प्रनर्त्तेन मकाराभिनयोच्छ्रया॥१०७॥


गर्वयागृह्य वामेन माञ्जिष्टं पद्ममुत्तमम्।

स्वहृद्युत्कर्षयोगेन वज्रमुद्रां समुद्वहेत्॥१०८॥


विलोकिन्या विशुद्धश्रीसभार्या बोधिमुत्तमा।

भूरिण्या चक्रवर्त्तित्वं भृकुट्या प्रतिमुद्रणम्।

महाश्रीपद्मवासिन्या कामैश्वर्या जगत्त्रयम्॥१०९॥इति॥


श्रीपद्मरागविद्यादेवताः॥


अथास्य मुद्राज्ञानस्य सर्वकर्मप्रसाधकम्।

श्रीपद्मरागसंगीतं प्रवक्ष्यामि विशेषतः॥११०॥


सर्वतथागतादिविविधान्नानारूपधराम्।

विविधविचित्रसत्त्वविनयोत्तमसिद्धिपराम्॥१११॥


दर्शय शुद्धसत्त्व कमलोत्तमजाल रतिम्।

अ ल ल ल ल होः प्रनर्त्तेश्वर मोक्षरतिम्॥११२॥


बुद्धोहं वज्रधरोहं ब्रह्माविष्णुमहेश्वरश्चाहम्।

चन्द्रसूर्यश्चाहं अ ल ल ल ल होः पद्मजालश्रीः॥११३॥


बहु विह विण अकरण विह्णह्याण सुद्धणह्या-इ अ ल ल ल ल होः

प उ म स म ण ह्या स रु बुद्ध। राय विवाहण अः सु पु लु स ह म 

विमोहण अः सुण ह्या हण ह्याणः अः। सु ससि अग्र इय उमहरस्म।


(58)


अनेन गीयमानेन सिद्ध्यते नात्र संशयः।

विश्वपद्म-समायोगडाकिनीजालसम्वरम्॥११४॥


श्रीपद्मनर्तेश्वरमुद्राज्ञानम्॥


स एव भगवान् योगो वज्रसत्त्वस्तथागतः।

परमार्थ विशुद्ध्यै श्रीसूर्यमुद्रा प्रतिष्ठिता॥११५॥


आकाशगर्भः सर्वासः(शाः सर्वासा(शा)-परिपूरकः।

आकाशासंन्त्र्यादि सद्रत्न सर्वरत्न प्रवर्षकः॥ ११६॥


अत्यन्तदुष्टरौद्रेषु सौम्यतानामुपयूते(नोपपद्यते)।

प्रज्ञोपायमयः सूर्यः प्रतापः परमार्थतः॥११७॥


प्रतापविनयो लोकः प्रतापेनैव सिद्ध्यति।

सूर्यरूपमहातेजोलिंगेर्यापथ इष्यते॥११८॥


वज्रकार्मुकवाणाग्र-समुत्कर्षण तत्परः।

सविभ्रम..................................... लोचनः॥११९॥


सरुद्रसेन्द्रसोपेन्द्रसचन्द्रार्कयमंसकम्।

प्रतापेनैव विजयेत् समन्तं भुवनत्रयम्॥१२०॥


श्रीत्रिलोकविजयनाममुद्रा॥


जानुभ्यां वज्रबन्धेन समाक्रम्य स्वमासनम्।

वज्रपर्यङ्कमाभुज्य सर्वविघ्नं विनाशयेत्॥१२१॥


श्रीवज्रपर्यङ्का॥


अभिषेकोनिवे(धे)श्चैव ध्वजाङ्गी च महामहा।

यथाभिनमतो(ता)क्षेपात्स्वार्थसिद्धि-प्रसाधिका॥१२२॥


(59)


अथास्य मुद्राज्ञानस्य सर्वकर्म-प्रसाधकम्।

राजमाया-महागीतं प्रवक्ष्यामि विशेषतः॥१२३॥


त्रिभुवन-सर्वराज्य-विविधोत्तम कार्यावतीम्।

बहु-विविधसन्ति विग्रह-विशेषतयुद्धजयाम्॥१२४॥


विविधविचित्रमोह-विरूपोत्तम-हेतुवतीम्।

दर्शय वज्रसूर्यनृप-सम्वरजाल-तया।

संबोधिसत्त्व-मेघां प्रदान-संभारविश्व-वर्षवतीम्॥१२५॥


सर्वाशामेव साधयेत् अ ल ल ल ल होः दर्शय आशु। अति से

उणि हाणु अक्कु-उ विमुद्रम हूँ। अ से सु महिलावर र-अणः सुकारणे सु

वु इ मु विसेसु सर्वच्छु र अ ल स रन्ता। तक्कर अणु विधमहिला वर र 

अणु सुद्ध भुजः। सु इ मु मुल्लुस थु।


अनेन गीयमानेन सिद्ध्यते नात्रसंशयः।

सर्वराज्य-समायोग-डाकिनीजाल-सम्वरम्॥ १२६॥


श्रीवज्रसूर्यमुद्राज्ञानम्॥


स एव भगवान् योगो वज्रसत्त्वस्तथागतः।

हठयोग-विशुद्ध्यै श्रीसप्तिमुद्रा प्रतिष्ठिता॥१२७॥


सर्वशुद्ध्य-विमोक्षण-प्रसज्य-वशमानः।

पराक्रमाक्रमणतः सर्वलोकान्प्रमर्द्दयेत्॥१२८॥


(60)


कामिनीषु भवेत्कामं दुष्टो दुष्टेषु वै ततः।

सौम्यः सौम्येषु भवेत् हठयोग्राहठेषु च॥१२९॥


चतुर्मुखश्चतुर्बाहुश्चतुर्पादश्चतुः करः।

हयग्रीवो महाराजा सिद्ध्यते परमेश्वरः॥१३०॥


विश्वपद्मधरः श्रीमाम्वामाग्र-खटकेन तु।

सवज्रोत्तिष्ठ सिद्धिस्तु दक्षिणत्रिपताकया।१३१॥


अनया मुद्रयामुद्र्य अत्यन्त-पतितानपि।

समुत्थाप्य क्षणादेव सर्वोत्तिष्ठां प्रशाधयेत्॥१३२॥


सर्वसिद्धि-समायोग सुभगश्रीवज्रोत्तिष्ठानाममुद्रा॥


सव्यावसव्य योगेन प्रत्यालीढ-प्रयोगतः।

क्रोधपर्यङ्कमाभुज्य सर्वलोकान् प्रमर्द्दयेत्॥१३३॥


श्रीवज्रक्रोधासनानाममुद्रा॥


अथास्य मुद्राज्ञानस्य सर्वकर्म-प्रसाधकम्।

श्रीपरश्वसंगीतं प्रवक्ष्यामि विशेषतः॥१३४॥


मदन-सहस्रातिरेक-सुखकामरूपदर्शनो।

विनय-वशाद्यमस्रहस्राधिक सुकाम भीषणः॥ १३५॥


पुनरपि सौम्यवपुषाब्रह्म सहस्राधिकतरः।

सर्वोत्तममण्डले तु सिद्ध्यन्ति मे सर्वतथागतः॥१३६॥


सर्वशुद्ध्यधिमोक्षैः प्रसज्यबलसापराक्रमणैः।

हीः हि हि हि हि हीः प्रमर्द्द २ परमेश्वर ! सर्वान्॥१३७॥


(61)


परमेश्वरमाक्रम्य प्रसज्यबलसापराक्रमाक्रमणैः।

त्र्यक्षान्ति सिद्धिमाकट्याकट्या हुलु २ महायोगः॥१३८॥


नारायणमाक्रम्य प्रसज्यबलसापराक्रमाक्रमणैः।

हृदयाच्छ्रियमाकट्याकट्यरुट्मट् समायोगः॥ १३९॥


ब्रह्माणं समाक्रम्य प्रसज्यबलसापराक्रमाक्रमणैः।

अधिमुक्तैर्मुक्तिमाकट्यकट्य स्मर-समायोगः॥

सुरतेश्वरमाक्रम्य प्रसज्यबलसापराक्रमाक्रमणैः।

सर्वात्मनो रतिं कट्याकट्य अ ल ल ल ल होः॥ १४०॥


समायोगः अत्यन्तदुष्टरौद्रप्रचण्डसत्त्वासमुद्धर हेतोः। अ ल ल

ल ल होः सिध्याधिशास्त्रम्। ओं शुम्भनिशुम्भ हूँ फट्। कप्याकप्य

परिखण्ड उजाहि प्रियमाण्ड(णु) सुजा-उ। तं पुण्डण हु विललिम ओं

कोथ तहि प्रियवादु। कज्जाकज्जापरिखण्डजडि प्रारम्भ उजा-उ। तं

प्रारम्भ उजा-उ। तं प्रारम्भ विललिम तु कोथ तहि सुद्रवीषु।


अनेन गीयमानेन सिद्ध्यते नात्र संशयः।

श्रीपरमाश्व-समायोग-डाकिनीजाल-सम्वरम्॥१४१॥ इति॥


सर्वोदयमुद्राज्ञानम्॥


तर्जन्यङ्गुष्ठमावेष्ट्य स्वाङ्गुष्ठेन च तर्जनी।

श्रीसिद्धरो(लो)चना मुद्रा तर्जनी-सुप्रताककाम्॥१४२॥


(62)


वज्राञ्जलि समाधाय वज्रनेत्रद्वयेन तु।

संपुटा तु निबद्धा च सिद्धा श्रीवज्रलोचना॥१४३॥


अनया सर्वबुद्धत्वं सर्वसौरित्वमेव च।

सर्ववज्रधरत्वं च सिद्ध्यतेहैव जन्मनि॥१४४॥


श्रीबुद्धलोचना सिद्धा सर्वसत्त्व-वशंकरी।

सिद्धत्यशेष-सिद्ध्याशुकर्म-प्रसर-सिद्धिभिः॥१४५॥


वज्रांजलिं समाधाय समाकुञ्चित-विग्रहा।

समाङ्गुष्ठ-प्रविष्टाग्रं संपुटा परमाक्षरा॥१४६॥


अनया कृतरक्षस्तु सर्वसन्धि-प्रविष्टया।

सिध्यत्यशेष-निःशेष-बुद्धसिद्धिरिति स्मृता॥१४७॥

सर्वाष्टाषमुद्रा॥


वज्रांजल्योर्द्ध्व-विकचा समाकुञ्चित-विग्रहा।

द्वयङ्गुष्ठ-दंष्ट्राविकटा करला वज्रयक्षिणी।

मारादि-भक्षणं सिद्धं कंविलीकरणन्तथा॥१४८॥


सर्वावेश-प्रसिद्ध्यत्वं ततो विज्ञान-साधनम्।

निधानोत्पातनं चैव सर्वस्वहरणं तथा॥१४९॥


श्रीवैश्रवण समाक्रम्य श्रिया कटनमेव च।

किंकरांक्रमणं चैव यक्षिणी-मारणं तथा।

सेनापतित्वं यक्षाणामनया सिद्ध्यते लघु॥१५०॥


श्रीवज्रयक्षमुद्रा॥

वज्राजलिं समाधाय सममध्या प्रसिद्ध्यति।

द्वयङ्गुष्ठमस्य चतुःपत्र प्रोत्फुल कमलामला॥१५१॥


(63)


अनया शुद्ध्यते पापैः पापशुद्ध्या प्रबुद्ध्यते।

बुद्धबोध्यभिसंबुद्धो वज्रसत्त्वत्वमाप्नुते॥१५२॥


श्रीपद्मराजमुद्रा॥


वज्रांजलिं समाधाय समाग्र्या बाह्य-कुञ्चिता।

अंगुष्ठेव वज्रासना श्रीवज्रमणिरित्यपि॥१५३॥


अनया मुद्रयामुद्र्य सर्वाकाला(शा)मा प्रसिद्ध्यति।

आकान्तादिसद्रत्न सर्वभावा भुनक्त्यसौ।

वज्रांजलिं समाधाय सामात्यानामविभ्रमाः॥ १५४॥


समाग्रा-कुंचितश्री वा परमाश्वेति सिद्ध्यति।

अनया मुद्रयामुद्र्य बुद्धबोधिं प्रदर्शयेत्॥१५५॥

किं पुनः सर्वराजाः श्रीसुभगां दिव्यमानुषाम्।


समयमुद्राज्ञानम्॥


कायवाक्चित्तवज्रस्तु चिह्नमुद्रा-समन्विता।

सर्वोदयः तु योगेन स्वाधिदेवः स्वयं भवेत्॥१५६॥


आभिः श्रीसर्वबुद्धत्वं सर्वसौरित्वमेव च।

सर्ववज्रधरत्वं च सिद्धयतेहैव जन्मनि॥१५७॥


नता कांचिद्वरोदारा धर्मधातु-समासमा।

आकाशधातु-पर्यन्ता सर्वबुद्धात्म-सिद्धयः॥ १५८॥


या न सिद्ध्यन्तु चाभीष्टं न समृद्ध्यति चैव हि।

सर्वबुद्धसमायोगडाकिनीजालसम्वरः॥१५९॥ इति।


महासमयमुद्राज्ञानम्॥


(64)


श्रीवज्रसत्त्व-संयोगयथासंस्थानमुत्थितम्।

सर्वात्मानं सुखेनैव सर्वात्मनि निवेशयेत्॥१६०॥


अनया मुद्रया योगी पात्येत्युत्पततीच्छतः।

सर्वबुद्धमयो राजा वज्रसत्त्वः प्रसिद्ध्यति॥ १६१॥


(65)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project