Digital Sanskrit Buddhist Canon

योगशतकम्

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

p.1


योगशतकम्


[ बुद्धाय भैषज्यगुरुवैडूर्यप्रभराजाय नमः ]

[ आर्यनागार्जुनाय नमः ]


कृत्स्नस्य तन्त्रस्य गृहीतधाम्न -

श्चिकित्सिता द्विप्रसृतस्य दूरम्।

विदग्धवैद्यप्रतिपूजितस्य

करिष्यते योगशतस्य बन्धः॥१॥

परीक्ष्य हेत्वामयलक्षणानि

चिकित्सितज्ञेन चिकित्सकेन।

निरामदेहस्य हि भेषजानि

भवन्ति युक्ता न्यमृतोपमानि॥२॥

छिन्नोद्भवाम्बुधरधन्वयवासविश्वै -

र्दुःस्पर्शपर्पटकमेघ किराततिक्तैः।

मुस्ताटरूषकमहौषध धन्वयासैः

क्वाथं पिबेदनिलपित्तकफज्वरेषु॥३॥

क्षुद्रा मृतानागरपुष्कराह्वयैः 

कृतः कषायः कफमारुतोत्तरे।

सश्वासकासा रुचिपार्श्वरुक्करे

ज्वरे त्रिदोषप्रभवे प्रशस्यते॥४॥


p.2


आरग्वधग्रन्थिक मुस्ततिक्ता -

हरीतकीभि क्वथितः कषायः।

सामे सशूले कफवातपित्ते

ज्वरे हितो दीपनपाचनश्च॥५॥

द्राक्षाभया पर्पटकाम्बुतिक्तैः

क्वाथं सशम्याकफलं विदद्यात्।

प्रलापमुर्छाभ्रमदाहशोष -

तृष्णान्विते पित्तभवे ज्वरे तु॥६॥

निदिग्धिकानागरकामृतानां

तोयं पिबेन्मिश्रितपिप्पलीकम्।

जीर्णज्वरारोचककासशूल -

श्वासाग्निमान्द्यार्दितपीनसेषु॥७॥

दुरालभापर्पटकप्रियङ्गु -

भूनिम्ब वासाकटुरोहिणीनाम्।

क्वाथं पिबेच्छर्करयावगाढां

तृष्णास्रपित्तज्वरदाह युक्तः॥८॥

[ ज्वरचिकित्सा ]

फलत्रिकं दारुनिशां विशालां

मुस्तां च निष्क्वाथ्य निशांशकल्कम्।

पिबेत्कषायं मधुसंप्रयुक्तं

सर्वप्रमेहेषु समुत्थितेषु॥९॥


p.3


सवत्सकः सातिविषः सविल्वः

सोदीच्यमुस्तैश्च कृतः कषायः।

सामे सशूले च सशोणिते च 

चिरप्रवृत्ते विहितोऽतिसारे॥१०॥

शुण्ठीं समुस्तातिविषागुडूचीं

पिबेज्जलेन क्वथितां समांशाम्।

मन्दानलत्वे सततामये च 

ज्वरानुसक्ते ग्रहणीगदे च॥११॥

पुनर्नवा दार्व्यभयागुदूचीं

पिबेत् समूत्रां महिषाक्षयुक्ताम्।

त्वग्दिषशोफोदरपाण्डुरोग -

स्थौल्यप्रसे कोर्ध्वकफामयेषु॥१२॥

मुस्ताखुपर्णी फलदारुशिग्रु -

क्वाथः सकृष्णाक्रिमिशत्रुकल्कः।

मार्गद्वयेनापि चिरप्रवृत्तान् 

क्रिमिन् निहन्ति क्रिमिजांश्च रोगान्॥१३॥

एलोपकुल्यामधुकाश्मभेद -

कौन्ती श्वदंष्ट्रावृष कोरुबूकैः।

शृत विबेदश्मजतुप्रधानं

सशर्करे साश्मरिमूत्रकृच्छ्रे॥१४॥


4


एलाश्मभेदकशिलाजतुपिप्पलीनां

चूर्णानि तण्डुलजलालुलितानि पीत्वा।

तावद्गुडेन सहितान्यपि संलिहान

आसन्नमृत्युरपि जीवति मूत्रकृच्छ्रे॥१५॥

हरीतकीगोक्षुरराजवृक्ष -

पाषाण भिद्धन्वयवासकानाम्।

क्वाथं पिबेन्माक्षिक संप्रयुक्तं

कृच्छ्रे सदाहे सरुजे विबन्धे॥१६॥

वासागुडूचीचतुरङ्गुलाना -

मेरण्डतैलेन पिबेत्कषायम्।

क्रमेण सर्वाङ्गजमप्यशेषं

जयेदसृग्वातभवं विकारम्॥१७॥

रसाञ्जनं तण्डुलीयस्य मूलं

क्षुद्रान्वितं तण्डुलतोयपीतम्।

असृग्दरं सर्वभवं निहन्ति 

श्वासं च भार्गी सह नागरेण॥१८॥

एरण्डविल्व बृहतीद्वय मातुलुङ्ग -

पाषाण भित्त्रिकृत मूलकृतः कषायः।

सक्षारहिङ्गुलवणोरुबुतैलमिश्रः

श्रोण्यंस मेढ्हृदयस्तनरुक्षु पेयः॥१९॥


p.5


हिङ्गूग्रगन्धाविड शुण्ठयजाजी -

हरीतकीपुष्करमूलकुष्ठम्।

भागोत्तरं चूर्णितमेतदिष्टं

गुल्मोदरा जीर्णविषूचिकासु॥२०॥

चूर्ण समं रुचक हिङ्गुमहौषधानां

शुण्ठयम्बुना कफसमीरणसंभवासु।

हृत्पार्श्वपृष्ठ जठरार्तिविसूचिकासु

पेयं तथा यवरसेन व विड्विबन्धे॥२१॥

पूतीक पत्रगजचिर्भिटच व्यवन्हि -

व्योषं च संस्तरचितं लवणोपधानम्।

दग्ध्वा विचूर्ण्य दधिमस्तुयुतं प्रयोज्यं

गुल्मोदरश्वयथु पाण्डुगुदोद्भवेषु॥२२॥

द्विरुत्तरा हिङ्गुवचा सकुष्ठा

सुवर्चिका चैव विडङ्गचूर्णम्।

उष्णाम्बुनानाह विसूचिकार्ति -

हृद्रोगगुल्मोर्ध्वसमीरणध्नम्॥२३॥

शृङ्गीकटुत्रिकफलत्रय कण्टकारी

भार्गी सपुष्करजटा लवणनि पञ्च।

चूर्ण पिबेदशिशिरेण जलेन हिक्का -

श्वासोर्ध्ववातकसनारुचिपीनसेषु॥२४॥


p.6


नादेयीकुटजार्कशिग्रुबृहतीस्नुग्विल्वभल्लातक -

व्याघ्रीकिंशु कपारिभद्रकजटा पामार्गनीपाग्निकान्।

वासामुष्ककपाटलान् सलवणान् दग्ध्वा रसं पाचितं 

हिङ्ग्वादिप्रतिवापमेतदुदितं गुल्मोदरप्लीहिषु॥२५॥

चव्याम्लवे तसकटुत्रिक तिन्तिडीक -

तालीशजीरकतुगादहनैः समांशैः।

चूर्णं गुडप्रमुदितं त्रिसुगन्धियुक्तं 

वैस्वर्य पीनसकफारुचिषु प्रशस्तम्॥२६॥

तालीशचव्यमरिचं सदृशं द्विरंशं

मूलं तुगामगधजं त्रिगुणां च शुष्ठीम्।

कृत्वा गुडत्रिगुणितां गुटिकां सुगन्धां

कासाग्निमान्द्यगुदजज्वररुक्षु दद्यात्॥२७॥

शुण्ठीकणामरिचनागदलत्वगेला -

चूर्णीकृतं क्रमविवर्धितमूर्ध्वमन्त्यात्।

खादेदिदं समसितं गुदजाग्निमान्द्य -

गुल्मा रुचिश्वसनकण्ठहृदामयेषु॥२८॥

सिन्धूत्थ हिङ्गुत्रिफलायवानी -

व्योषैर्गुडांशैर्गुटिकां प्रकुर्यात्।

तैर्भक्षितैस्तृप्तिमवाप्नुवन्ना

भुञ्जीत मन्दाग्निरपि प्रभूतम्॥२९॥


p.7


अयस्तिलत्र्यूषणकोलभागैः

सर्वैः समं माक्षिकधातुचूर्णम्।

तैर्मोदकः क्षौद्रयुतो ऽनुतक्रः 

पाण्ड्वामये दूरगतेऽपि शस्तः॥३०॥

गुडेन शुण्ठीमथवोपकुल्यां

पय्यां तृतीयामथ दाडिमां वा।

आमेष्वजीर्णेषु गुदमयेषु

वर्चो विबन्धेषु च नित्यमद्यात्॥३१॥

हरीतकीनागरमुस्तचुर्णे

गुडेन बद्धा गुटिका विधेया।

निवारयेदा स्यविधारितेयं 

श्वासं प्रवृद्धं प्रबलं च कासम्॥३२॥

वटप्ररोहं मधु कुष्ठ मुत्पलं

सलाजचूर्णं गुटिकां प्रकल्पयेत्।

सुसंहिता सा वदनेन धारिता

तृषं प्रवृद्धामपि हन्ति सत्वरम्॥३३॥

मनःशिलामागधिकोषणानां

चूर्णं कपित्थाम्लरसेन युक्तम्।

लाजैः समांशैर्मधुनावलीढं

छर्दि प्रसक्तामसकृ न्निहन्ति॥३४॥


p.8


दूर्वारसो दाडिमपुष्पजो वा 

घ्राणप्रवृत्तेऽसृजि नस्यमिष्टम्।

स्तन्येन वालक्तरसेन वापि

विण्मा क्षिकानां च निहन्ति हिक्काम्॥३५॥

धात्रीरसः सर्जरसः सपाक्यः

सौवीरपिष्टश्च तदा युतश्च।

भवन्ति सिध्मानि यथा न भूय -

स्तथैवमुद्वर्तनकं करोति॥३६॥

दूर्वाभयासैन्धवचक्रमर्द -

कुठेरिकाः काञ्जिकतक्रपिष्टाः।

त्रिभिः प्रलेपैरपि बद्धमूलान्

दद्रूश्च कण्डूश्च विनाशयन्ति॥३७॥

गाण्डीरिका चित्रकमार्कवार्क -

कुष्ठद्रुमत्वग्लवणैः समूत्रैः।

तैलं पचेन्मण्डलदद्रु कुष्ठ -

दुष्टव्रणानां किटिमापहारि॥३८॥

सिन्दूर गुग्गुलुरसाञ्जनसिक्थतुत्थै -

स्तुल्यांशकैः कटुकतैलमिदं विपक्वम्।

कच्छुं स्रवत्पिटकिता मथवापि शुष्का -

मभ्यञ्जनेन सकृदुद्धरति प्रसह्य॥३९॥


p.9


सुवर्चिका नागरकुष्ठमूर्वा -

लाक्षानिशालोहितयष्टिकाभिः।

तैलं ज्वरे षड्गुणतक्रसिद्ध -

मभ्यञ्जनं शीतविदाहनुत् स्यात्॥४०॥

सर्पिर्गुडूचीवृषकण्टकारि -

क्वाथेन कल्केन च सिद्धमेतत्।

पेयं पुराण ज्वरकासशूल -

श्वासाग्निमान्द्यग्रहणीगदेषु॥४१॥

वृषखदिर पटोलपत्र निम्ब -

त्वगमृतमामलकीकषायकल्कैः।

घृतमभिनवमेतदाशु सिद्धं

जयति विसर्पमदास्रकुष्ठगुल्मान्॥४२॥

अमृतापटोलपिचुमर्द धावनी -

त्रिफलाकरञ्जवृषकल्कवारिभिः।

घृतमुत्तमं विधिविपक्वमादृतः

प्रपिबन्निदं जयति कुष्ठमातुरः॥४३॥


p.10


खण्डाङ्कूष्माण्डकानामथ पचनविधिः स्विन्नशुष्काज्यभृष्टान्

न्यस्येत्खण्डे विपक्वे समरिचमगधाशुण्ठयजाजीत्रिगन्धान्।

लेहोऽयं बालवृद्धानिलरुधिरकृशस्त्रीप्रसक्त क्षतानां

तृष्णाकासास्रपित्त श्वसनगुदरुजाच्छर्दितानां च शस्तः॥४४॥

विपाच्य मूत्राम्लमधूनि दन्ती -

पिण्डीतकृष्णाविड धूमकुष्ठैः।

वर्ति कराङ्गुष्ठनिभां घृताक्तां

गुदे रुजानाहर्हारिं विदध्यात्॥४५॥

[ इति कायचिकित्सा ]

सशर्करं कुङ्कुममाज्यभृष्टं

नस्यं विधेयं पवनासृगुत्थे।

भूकर्णशङ्खाक्षि शिरोऽर्धशूले

दिनाभिवृद्धिप्रभवे च रोगे॥४६॥

पथ्याक्षधात्रीफलमध्यबीजै -

स्त्रिद्वयेकभागैर्विदधीत वर्तिम्।

तयाञ्जयेत् तत्सपदि प्रवृद्ध -

मक्ष्णोर्हरेत् दुष्टमपि प्रकोपम्॥४७॥


p.11


हरीतकीसैन्धवतार्क्ष्यशैलैः

सगैरिकैः स्वच्छजलप्रपिष्टैः।

बहिः प्रलेपं नयनस्य कुर्यात्

सर्वाक्षिरोगोपशमार्थमेतत्॥४८॥

ससैन्धवं लोध्रमथाज्यभृष्टं

सौवीरपिष्टं सितवस्त्रबद्धम्।

आश्च्योतनं तन्नयनस्य कुर्यात्

कण्डूं च दाहं च रुजं च हन्यात्॥४९॥

हन्त्यर्जुनं शर्करयाब्धिफेनं 

नक्तान्घतां गोशकृता च कृष्णा।

रसाञ्जनं व्योषयुतं च पिल्लं

तापीसमुत्थं मधुना च शुक्रम्॥५०॥

पुष्पाख्यतार्क्ष्यज सितोदधिफेनशङ्ख -

सिन्धूत्थगैरि कशिलामरिचैः समांशैः।

पिष्टैस्तु माक्षिकरसेन रसक्रियेयं

हन्त्यर्मकाच तिमिरार्जुनवर्त्मरोगान्॥५१॥

मुस्तोशीररजोयवाः समरिचाः सिन्धूद्भवं कट्फलं

दार्वीतुत्थकशङ्खफेननलदं कालानुसार्यञ्जनम्।

तुल्यं चूर्णित मायसे विनिहितं क्षौद्रान्वितं शस्यते

कण्ड्वर्मामय रक्तरा जितिमिरपिल्लोपदेहेषु च॥५२॥


p.12


मञ्जिष्ठामधुकोत्पलोदधिभवत्वक्सेव्यगोरोचना -

मांसीचन्दनशङ्खपत्रगिरिमृत्तालीशपुष्पाञ्जनैः।

सर्वैरेव समांशमञ्जनमिदं शस्तं सदा चक्षुषः

कण्डूक्लेदमला श्रुशोणितरुजापिल्लार्मशुक्लापहम्॥५३॥

[ नेत्रचिकित्सा समाप्ता ]

क्वाथः समुस्तातिविषेन्दु दारु -

कालिङ्ग पाठाकटुरोहिणीनाम्।

गोमूत्रसिद्धो मधुना च युक्तः

पेयो गलव्याधिषु सर्वजेषु॥५४॥

यवाग्रजं तेजवती सपाठा

रसाञ्जनं दारुनिशा सकृष्णा।

क्षौद्रेण कुर्याद्गुटिकां मुखेन

तां धारयेत् सर्वगलामयेषु॥५५॥

दार्वीगुडूचीसुमनप्रवाल -

द्राक्षायवानीत्रिफलाकषायः।

क्षौद्रेण युक्तः कवलग्रहोऽयं

मुखस्य पाकं शमयत्युदीर्णम्॥५६॥

कुष्ठं दार्वी लोध्रमब्दं समङ्गा

पाठा तिक्ता तेजिनी पीतिका च।

चूर्ण शस्तं घर्षणं तद्विजानां

रक्तस्रावं हन्ति कण्डूरुजं च॥५७॥


p.13


सौवीरशुक्ता र्द्रकमातुलुङ्ग -

मांसी रसैर्गुग्गुलुसैन्धवैश्च।

पक्वं तु तैलं कटुकं निषिञ्चेत्

तत्कर्णयोः कर्णरुजोपशान्त्यै॥५८॥

वासानिम्बपटोलपर्पटफलश्रीचव्यदार्व्यम्बुभि -

स्तिक्तोशीरदुरालभात्रिकटुकात्रायन्तिकाचन्दनैः।

सर्पिः सिद्धमयोर्ध्वजत्रु विकृति घ्राणाक्षिशूलादिषु

त्वग्दोषज्वर विद्रधिव्रणरुजाशुक्रेषुं चैवेष्यते॥५९॥

दार्वीपर्पटनिम्बवत्सककणादुःस्पर्शयष्टीवृषा -

स्त्रायन्ती त्रिफलापटोलकटुकाभूनिम्बरक्ताम्बुदाः।

एषां कल्ककषायसाधितमिदं सर्पिः प्रशस्तं दृशः

पित्तासृक्प्रभवेषु शुक्र तिमिरेषूर्ध्वेषु च व्याधिषु॥६०॥

शुक्लैरण्डान्मूलमथोग्रा शतपुष्पा

पुष्पोद्भूतं यच्च बृहत्या स्तगरं च।

पक्वं तैलं तत् सपयस्कैस्तिमिरध्नं 

नस्यं श्रेष्ठं व्याधिषु चोर्ध्वेष्वपरेषु॥६१॥

[ इति शालाक्यतन्त्रम् ]


p.14


क्वाथे मुष्ककभस्मनो ऽनलशिखा दग्धं क्षिपेच्छङ्खकं

तत्तेनैव पुनर्जलेन विपचेत्क्षारं सतैलं विधिः।

योज्यं तद्व्रणदुष्टिषु व्रणरुजावर्शःसु नाडीषु च

त्वग्दोषेषु भगन्दरेषु विविधे कण्ठामये च स्थिरे॥६२॥

निशा सयष्टी मधुपद्मकोत्पलैः 

प्रियङ्गुकाशाबर लोध्र चन्दनैः।

विपच्य तैलं पयसा प्रयोजयेत्

क्षतेषु संरोपणदाहनाशनम्॥६३॥

जातीनिम्बपटोलपत्रकटुकदार्वीनिशाशारिवा -

मञ्जिष्ठाभय शिक्थतुत्थ मधुकैर्नक्ताह्वबीजैः समैः।

सर्पिः सिद्धमनेन सूक्ष्मवदना मर्माश्रिताः स्राविणो

गम्भीराः सरुजा व्रणाः सगतिकाः शुध्यन्ति रोहन्ति च॥६४॥

[ इति शल्यतन्त्रं समाप्तम् ]


p.15


शिरीषपुष्पस्वरसेन भावितं

सहस्रकृत्वो मरिचं सिताह्वयम्।

प्रयोजयेदञ्जनपाननावनै -

र्विमोहितानामपि सर्पदंशिनाम्॥६५॥

मयूरपित्तेन च तण्डुलीयकं

काकाण्डयुक्तं प्रपिबेदनल्पम्।

विषाणि संस्थावरजङ्गमानि

सोपद्रवाण्यप्यचिरेण हन्ति॥६६॥

तैलं तिलानां पललं गुडं च

क्षीरं तथार्कं सममेव पीतम्।

आलर्कमुग्रं विषमाशु हन्ति

सद्योद्भवं वायुरिवाभ्रवृन्दम्॥६७॥

आगारधूमो महिषाक्षयुक्तः

सवाजिगन्धाघृततण्डुलीयकः।

गोमूत्रपिष्टो हृद्गदानि हन्ति

विषाणि संस्थावरजङ्गमानि॥६८॥

मांसीसेव्यालकौन्तीजलजलदशिलारोचनापद्मकेशी -

स्पृक्काचण्डा हरिद्रागदसितपलितासृग्ल तापद्मकीलाः।

तुल्या गौरष्टभागाश्चतुरिभकुसुमा वर्तयः सर्वभोग्याः॥


p.16


कृत्वा लक्ष्मी पिशाचज्वरविषजगदा ध्नन्ति चन्द्रोदयाख्यः॥६९॥


[ इति विषतन्त्रं समाप्तम् ]


सिद्धार्थ त्रिफलाशिरीषकटभी श्वेताकरञ्जामृता

मञ्जिष्ठारजनीद्वयत्रिकटुका श्यामा वचा हिङ्गु च।

शस्तं छागल मूत्रपिष्टमगदं सर्पग्रहोच्चाटनं

कृत्वोन्मादपिशाचराक्षसहरं पानादिभिः सेवितम्॥७०॥

कर्पासास्थि मयूरपत्त्र बृहतीनिर्माल्यपिण्डीतक -

त्वङ्मांसी वृषदंशविट्तुषवचाकेशाहिनिर्मोचकैः।

नागेन्द्रद्विजशृङ्गहिङ्गु मरिचैस्तुल्यैः कृतं धूपनं

स्कन्दोन्मादपिशाचराक्षससुरावेशज्वरध्नं स्मृतम्॥७१॥

त्रिकटुकदल कुङ्कुमग्रन्थिकक्षार सिंहीनिशाकुष्ठ सिद्धार्थयुग्समाम्बु शक्राह्वयैः

सितलशुनफलत्रिकोशीरतिक्तावचातुत्थ यष्टीबलालोहिताख्या शिलापद्मकैः।

दधितगरमधूकसारप्रियाह्वाविषाख्याविषा तार्क्ष्यशैलैः सचव्यामरैः कल्कितै


p.17


र्घृतमभिनवशेष मूत्राम्बु सिद्धं स्मृतं भूतरावं तु पानेन नस्याद् ग्रहध्नं परम्॥७२॥

नतमधुककरञ्जलाक्षापटोला समङ्गा वचापाटली

हिङ्गुसिद्धार्थसिंहीनिशायुग्लतारोहिणी -

मदनफलकटुत्रिकाकाण्ड दारु क्रिमिध्नाजगन्धामरा -

ङ्कोल कोशातकीशिग्रुनिम्बाम्बुदेन्द्राह्वयैः।

गदशुक तरुपुष्पबीजाम्बुयष्टयद्रि कर्णीनिकुम्भाग्नि -

बिल्वैः समैः कल्कितैर्मूत्रवर्गेण सिद्धं घृतं

चिरविनिहितमाशु सर्वैः क्रमैर्योजितं हन्ति सर्व -

ग्रहोन्मादकुष्ठज्वरांस्त न्महाभूतरावं स्मृतम्॥७३॥

[ इति भूतविद्या समाप्ता ]

दार्वी हरिद्रा कुटजस्य बीजं

सिंही च यष्टीमधुका च तुल्यम्।

क्वाथः शिशोः स्तन्यकृते च दोषे 


p.18


सर्वातिसारेषु च सर्वथेष्टम्॥७४॥

विल्वं च पुष्पाणि च धातकीनां

जलं सलोध्रं गजपिप्पली च।

क्वाथावलेहौ मधुना विमिश्रौ

बालेषु योज्यावतिसारितेषु॥७५॥

शृङ्गा सकृष्णातिविषां विचूर्ण्य

लेहं विदध्यान्मधुना शिशूनाम्।

कासज्वरछर्दिभिरर्दितानां

समाक्षिकां चातिविषामथैकाम्॥७६॥

[ इति बालतन्त्रम् ]

धात्रीचूर्णस्य कंसं स्वरसपरिगतं क्षौद्रसर्पिः समांशं

कृष्णा मानी सिताष्टप्रसृतयुतमिदं स्थापितं भस्मराशौ।

वर्षान्ते तत्समश्नन् भवति विपलितो रूपवर्णप्रभावी

निर्व्याधिर्बुद्धि मेघास्मृतिवचनबल स्थैर्यसत्त्वैरुपेतः॥७७॥

गोक्षुरकः क्षरकः शतमूली

वानरि नागबलातिबला च।

चूर्णमिदं पयसा निशि पेयं 

यस्य गृहे प्रमदाशतमस्ति॥७७ आ॥


p.19


मधुकं मधुना धृतेन च

प्रलिहन् क्षीरमनुप्रयोजयेत्।

लभते च न धातुसंक्षयं

प्रमदानां च मतं च गच्छति॥७८॥

[ इति वाजीकरणम् ]

यष्टीतुगा सैन्धवपिप्पलीभिः

सशर्कराभिस्त्रिफला प्रयुक्ता।

आयुःप्रदा वृष्यतमातिमेध्या

भवेज्जराव्याधिविनाशनी च॥७९॥

निम्बस्य तैलं प्रकृतिस्थ मेव

नस्ये निषिक्तं विधिना यथावत्।

मासेन तत्क्षीरघृतोपयोज्यां

जराप्रभूतं पलितं निहन्ति॥८०॥

चुर्णं श्वदंष्ट्रामलकामृतानां

लिहेत् ससर्पिर्मधुभागयुक्तम्।

वृष्यः स्थिरः शान्तविकारदुःखः

समाशतं जीवति कृष्णकेशः॥८१॥

[ इति रसायनम् ]

यष्टीकषायं लवणाग्रयुक्तं

कलिङ्ग कृष्णाफल कल्क मिश्रम्।

सक्षौद्रमेतद्वमने प्रयोज्यं


p.20


घ्राणास्यकण्ठश्रवणामयेषु॥८२॥

हरीतकीभिः क्वथितं सुवीरं

दन्त्यङ्घ्रिकृष्णाविडचूर्णयुक्तम्।

विरेचनं सोरुबुतैलमेत -

न्निरत्ययं योज्यमथामयध्नम्॥८३॥

रास्नाराठ फलत्रयामृतलतायुक्पञ्चमूलीबला -

मांस क्वाथयुतः सतैललवण क्षौद्रांश सर्पिर्गुडः।

पुष्पाह्वा धनकुष्ठविल्वफलिनी कृष्णा वचाकल्कितो

वस्तिः काञ्जिकदुग्धमूत्रसहितो वातामयेभ्यो हितः॥८४॥

तैलं बलाक्वथि तकल्कसुगन्धिगर्भ

सिद्धं पयोदधितुषोदकमस्तुचुक्रैः।

तद्वत् सहाचरसरण्यमृतावरीभिः

प्रत्येकपक्व मनुवासनमीरणध्नम्॥८५॥

नस्यं विदध्याद् गुडनागरं वा 

ससैन्धवां मागधिकामथो वा।

घ्राणास्यमन्याहनुबाहुपृष्ठ -

शिरोक्षिकण्ठ श्रवणामयेषु॥८६॥

[ इति पञ्चकर्माध्यायः समाप्तः ]

श्रेष्थः पर्पटको ज्वरेषु विहितस्तृष्णासु पञ्चाम्लको 


p.21


लाजाश्छर्दिषु वस्तिजेषु गिरिजं मेहेषु धात्रीरसः।

रास्ना वातगदेषु मूत्रमुदरे प्लीहामये पिप्पली

सन्धाने क्रिमिहा विषे शुकतरुः शोफे तथा गुग्गुलुः॥८७॥

वृषोऽस्रपित्ते कुटजोऽतिसारे

भल्लातकोऽर्शःसु गरेषु हेमः।

स्यौल्येषु दारुः क्रिमिषु क्रिमिध्न

हरीतकी पाण्डुगदेषु शस्ता॥८८॥

अक्ष्यामयेषु त्रिफलां वदन्ति

सर्वेषु शूलेषु तथा रसोनम्।

कुष्ठेषु नित्यं खदिरस्य सारं

सर्वेषु कासेषु निदिग्धिकां च॥८९॥

शंसन्ति वाजीकरणे श्वदंष्ट्रा -

मुरःक्षते नागबलां बलां वा।

रसायनेष्वामलकं सदेव

सर्वेषु रागेषु शिलाह्वयं च॥९०॥

[ इत्युत्तरतन्त्रम् ]

इत्येते विधिविहिताः प्रसिद्धयोगाः

सिद्धयर्थ विनिगदिता भिषग्वराणाम्।

दृष्ट्वा तान् कथ मचिकित्सकोऽपि युञ्ज्या -

दित्यर्थः पुनरपि वक्ष्यतेऽत्र किञ्चित्॥९१॥

सन्धारणानशनजागरणोच्चभाषा -


p.22


व्यायामयानकटुतिक्तकषायरूक्षैः।

चिन्ताव्यवायभयलङ्घनशोकशीतै -

र्वायुः प्रकोप मुपयाति घनागमे च॥९२॥

कट्वम्ल मद्य लवणोष्ण विदाहितीक्ष्णैः

क्रोधानलातप परिश्रमशुष्कशाकैः।

क्षाराद्यजीर्णविषमाशनसेवनैश्च

पित्तं प्रकोपमुपयाति घनात्यये च॥९३॥

स्वप्नं दिवा मधुरशीतलमत्स्यमांसै -

गुर्वम्लपिच्छलतिलेक्षु पयोविकारैः।

स्निग्धातितृप्ति लवणोदकपानभक्षैः

श्लेष्मा प्रकोपमुपयाति तथा वसन्ते॥९४॥

इत्येवमेते क्रमशो द्विशो वा

दोषाः प्रवृद्धा युगपत् त्रयो वा।

कुर्वन्ति रोगान् विविधान् शरीरे

संख्यातसंज्ञाविगताननेकान्॥९५॥

पारुष्यसंकोचनतोदशूला -

ञ्छ्यामत्वमङ्गव्यथभङ्गचेष्टान्।

सुप्तत्व शीतत्वखरत्वशोषान्

कर्माणि वायोः प्रवदन्ति तज्ज्ञाः॥९६॥


p.23


परिस्रवस्वेदविदाहराग -

दौर्गन्ध्य संक्लेदविपाककोपान्।

प्रलापमूर्छाभ्रमपीतभावान्

पित्तस्य कर्माणि वदन्ति तज्ज्ञाः॥९७॥

श्वेतत्वशीतत्वगुरुत्वकण्डू -

स्नेहोपदेहस्तिमितत्वलेपान्।

उत्सेक संघातचिरक्रियाश्च

कफस्य कर्माणि वदन्ति तज्ज्ञाः॥९८॥

एतानि लिङ्गानि च तत्कृतानि

सर्वामयानामपि नैकनाम्नाम्।

कश्चिद्भवेत् प्राप्तिविशेष एषां

संज्ञान्तरं येन तु संप्रयान्ति॥९९॥

आलस्यतन्द्रा हृदया विशुद्धि -

दोषप्रवृत्ति क्षुदभावमूत्रैः।

गुरूदरत्वारुचिसुप्तताभि -

रामान्वितं तद्विदुषा वदन्ति॥१००॥

स्निग्धोष्ण स्थिरवृष्यबल्य लवणास्वाद्वम्लतैला तप -

स्नानाभ्यञ्जनवस्तिमांसमदिरासंवाहनोन्मर्दनैः।

स्नेहस्वेदनिरूहनस्यशमनस्नेहोपनाहादिकं


p.24


पानाहारविहारभेषजमिदं वातप्रशान्तिं नयेत्॥१०१॥

तिक्तस्वादुकषायशीतपवनछायानिशावीजनं

ज्योत्स्नाभूगृह यन्त्रवारि जलद स्त्रीगात्रसंस्पर्शनम्।

सर्पिःक्षीरविरेकसेकरुधिरस्रावप्रदेहादिकं

पानाहारविहारभेषजमिदं पित्त प्रशान्तिं नयेत्॥१०२॥

रूक्षक्षारकषायतिक्तकटुकव्यायामनिष्ठीवनं

स्त्रीसेवाध्वनियुद्धजागरजलक्रीडापदाघातनम्।

धूमात्युष्ण शिरोविरेकवमनस्वेदोपवासादिकं

पानाहारविहारभेषजमिदं श्लेष्माणमुग्रं जयेत्॥१०३॥

आमं जयेल्लङ्घनकोलपेया -

लध्वन्नसूपोदक तिक्तयूषैः।

विरूक्षण स्वेदनपाचनैश्च 


p.25


संशोधनै रूर्ध्वमधस्तथा च॥१०४॥

हेमन्तवर्षाशिशिरेषु वायोः

पित्तस्य तोयान्तनिदाघयोश्च।

कफस्य कोपः कुसुमागमे च

कुर्वीत यद्यद्विहितं यथैषाम्॥१०५॥

कफस्य कोपे वमनं सनस्यं

विरेचनं पित्तभवे विकारे।

वातात्मके वस्तिमुदाहरन्ति

संसर्गजेऽपि व्यमिति श्रमेतत्॥१०६॥

वातोऽम्ल तैललवणैर्मधुरान्नपानैः

पित्तं तथा मधुरतिक्तकषाय शीतैः।

श्लेष्मापि तिक्तकटुरूक्षकषायतीक्ष्णै -

रामः प्रशान्ति मुपयात्य पतर्पणेन॥१०७॥

बुध्वैत दन्यदपि यद्यदनुक्तमत्र

युञ्ज्या त्स्वयं समधिगम्य यथानुरूपम्।

रोगेषु भेषजमनल्पमति र्विदध्या -

च्छास्त्रं हि किंचिदुपदेशलवं करोति॥१०८॥


p.26


गुणधिकं योगशतं निबध्य

प्राप्तमेषां पुण्यमनुत्तरं यत्।

नानाप्रकारामयनीड भूतं

कृत्स्नं जगत्तेन भवत्वरोगम्॥इति॥॥१०९॥


कृतिराचार्यश्रीनागार्जुनपादानाम् इति॥

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project