Digital Sanskrit Buddhist Canon

भावनायोगम्

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

भावनायोगम्


1 (एकं समयं बोधिसत्त्वो

भगवान्) (उ)रुबिल्वा(यां

विहरं नद्या नैरंजनायास्

तीरे बोधिमूले स्थित आनिञ्ज्य-

प्राप्तो बोधिपक्षिकेषु ध-

र्मेषु भावनायोगम् अनुयुक्तो 

विह)रति(।)


(1)


2. (स रात्र्याः प्रथमे यामे

ऋद्धिविषयज्ञानसाक्षीक्रियाया अ-

भिज्ञायां चित्तम् अभिनिर्नाम-

यत्य् अनेकविधम् ऋ)-

(द्धिवि)षयं प्रत्यनुभ(वति।)


3 ( एको भूत्वा बहुधा भ-

वति। बहुधा भूत्वैको भा-

वति। आविर् भवति तिरोभावम्

अपि ज्ञानदर्शनेन प्र)-

त्यनुभवति(।) तिरस्कु(ड्यं

तिरःप्राकारं तिरःपर्वतम्

अपि असज्यमानो गच्छति तद्य-

थाप्य् आकाशे। पृथिव्याम् उन्म-

ज्जननिमज्जनं) (क)रोति

तद्यथा उदके (।) उदके अस-

ज्यम्(आनो गच्छति तद्यथापि

नाम महापृथिव्याम्। आकाशे ऽपि


(2)


पर्यङ्केन विक्रमते तद्य-

था पक्षि शकुनिः। इमाव् अपि

चन्द्रसूर्यौ) (ए)व(ं)म-

हर्धिकौ (एवंमहानुभावौ

पाणिना आमारजति परिमार्जयति

यावद् ब्रह्मलोकाद् अपि कायेन

वशे वर्तय)(ए)त्(इ।)


4 (इति) बोधिसत्वो भग(वान्

उरु) (बिल्वायां वि)हारं न-

(द्या नैरंजनायास् तीरे बोधि-

मूले स्थित आनिंज्यप्राप्तो बो-

धिपक्षिकेषु)  धर्मषु भा-

वनायोगम् अनु(युक्तो वि-

हरं) रात्र्या(ः) प्र(थमे या-

मे अनेकविधम् ऋद्धिविषयं

प्रत्यनुभवति।)


5 (अथ बोधिसत्त्वो) भ-

गवान् उरुबिल्वायं विह(रं पू-

र्ववद् यावद् अनुयु) (क्तो

विहर)ति (।)


6 स रात्र्याः प्र(थमे यामे

पूर्वेनिवासानुस्मृतिज्ञानसाक्षी-

क्रियाया अभिज्ञायां चित्तम् अभि-

निर्नाम) यति सोऽनेक(विधं

पूर्वेनिवासं समनुस्मर-

ति।)


(3)


7 (तद्यथैकां जातिं देवे ति-

स्रश् चतस्रः यावद् अनेकान् अपि

संवर्तकल्पान् समनुस्मर-

ति।)


8 (इति बोधिसत्त्वो भगवान्

उरुबिल्वायां विहरं नद्या नै-

रंजनायास् तीरे बोधिमूले स्थित

आनिंज्यप्राप्तो बोधिपक्षिकेषु

धर्मेषु भावनायोगम् अनु-

युक्तो विहरं रात्र्याः)

(प्रथमे) यामे पूर्वेनिवा(सं

समानुस्मरति।)


9 (अथ बोधिसत्त्वो भगवान्

उरुबिल्वायां विहरं पूर्ववद्

यावद् अनुयुक्तो विहरति।)


10 (स रात्र्या म)ध्यमे

या(मे दिव्यश्रोत्रज्ञानसाक्षीक्रि-

याया अभिज्ञायां चित्तम् अभि-

निर्नामयति दिव्येन) श्रो-

त्रेण विशुद्धेनातिक्रांत(मा)-

(नुषेण उभ)यां शब्दां

(शृणोति मानुषांश् चामानुषाम्श्

च ये वा दूरे ये वान्तिके।)


11 (इति बोधिसत्त्वो भग)-

(व्)आन् उरुबिल्वायाम् विहरं न-

(द्या नै) (रंजनायास् तीरे)


(4)


बोधिमूले ( स्थित आनिंज्यप्राप्तो

बोधिपक्षिकेषु धर्मेषु भा-

वनायोगम् अनुयुक्तो विहरं

रात्र्या म) (ध्)य्(अ)मे या-

मे दिव्यश्र्(ओत्रज्ञानं प्रत्य-

नुभवति।)


(5)


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project