Digital Sanskrit Buddhist Canon

बुद्धोदयकाव्यम्

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

सुगतकविरत्न-

शान्तिभिक्षुशास्त्रिकृतं


बुद्धोदयकाव्यम्


प्रथमः प्रसंगः

जन्ममंगलम्


स्नेहार्द्रस्तनुते सुखानि सततं यो दुःखिनां जीवने,

मैत्र्या निर्भयतां दधाति विपुलां यो जीवतां मानसे।

विश्वस्ता जनतेह मातरि यथा यस्मिन् सुलब्धोत्सवा,

कारुण्यामृतसारवान् विजयतां सत्त्वः स कोप्युत्तमः॥1॥


यो लोकाय वरो वरं वितरित प्रीत्युत्तमेनात्मना

शल्यान्युद्धरतीह जीवनपथाद् यो जीवतां भूतये।

लोकः शापशरौ न जातु लभते यस्मादुदाराशयात्

सर्वाशापरिपूरणाय जगतस्तं बोधिसत्त्वं भजे॥ 2॥


(1)


यो दीपंकरमाश्रितो विहितवान् बोधावुदारां मतिं

सेत्स्यस्यात्ममनोरथेष्विति वरं यः प्राप्तवाञ्छ्रीघनात्।

एवं यः प्रणिधानवान् करुणया संप्रस्थितो व्याकृतो

जातः शाक्यकुले सदा स भगवान् क्षेमाय नः कल्पताम्॥3॥


या शश्वद् ध्रियते च या च मनसा संवेद्यतेऽनास्रवा

नित्या धर्ममयी च याऽपरिमिता कारुण्यकोषान्विता।

यस्या एव बलेन तिष्ठति जनो हिंसां विना शक्तिमान्

तां शान्त्यै जगतां भजे भगवतः शान्त्यैकसारां तनुम्॥4॥


निर्माणेन रतेः प्रियस्य वपुषः कान्तिं क्षिपन्तीं श्रिया

ज्योत्स्नां चन्द्रमसः स्वसौम्यविभया वीतश्रियं कुर्वतीम्।

सिंचन्तीं स्वसुभाषितेन मधुना तिक्तं जनानां मनः

रूपेणाप्रतिमां भजे भगवतः कान्त्यैकसारां तनुम्॥ 5॥


(2)


शान्तं वैरमहो वृकी मृगसुतान् स्तन्येन पुष्णात्यहो

तिग्मैः संतनुते करैरपि लिहंस्तापं न सुर्योऽप्यहो।

भिन्नो लोकगणो विवादकलहैर्हन्तैक्यमद्याश्नुते

क्षुब्धं सर्वमिदं प्रशाम्यति जगद् भोः पश्य बुद्धोदयम्॥ 6।


श्रुत्वेदं सुमनोहरं प्रियकरं श्रीब्रह्मणो भाषितं

देवा मानवरूपिणो भुवमिताः श्रीलुम्बिनीं सर्वतः।

कुर्वन्तो जनतां शुभारुणतरैः पिष्टातकैः श्रीमतीं

नृत्यन्तो रसभावरीतिमधुरां गीतश्रियं तन्वते॥ 7॥


वन्दे लोकपते


लोकमनाथमिमं विवदन्तं

कलहरतं कुशलं न चरन्तम्।

अनुकम्पयितुं भुवमवतीर्ण

वन्दे लोकपते॥अ॥


(3)


जनो जनस्य विरुद्धं तनुते

स्वपरभेदमयलोकं मनुते।

संधातुं लोकानवतीर्ण

वन्दे लोकपते॥आ॥


हिंसन्तं जीवान् धर्मार्थं 

हिंसन्तं लोकान् राज्यार्थम्।

शिक्षयितुं करुणामवतीर्ण

वन्दे लोकपते॥ इ॥


यः पातयति न दंडं शस्त्रं

यो रक्षति धर्मेण निरस्त्रम्

नाथः स इति गदितुमवतीर्ण

वन्दे लोकपते॥ई॥


तृष्णादासमनुष्यमपूर्णं

भाति सदा भुरुवसुभिः पूर्णम्।

शमे सुखं शासितुमवतीर्ण

वन्दे लोकपते॥ उ॥


(4)


परस्वमिह तृष्णया हरन्तं

परदारेष्वनुचितं चरन्तम्।

शीलं देशयितुं ह्यवतीर्ण

वन्दे लोकपते॥ ऊ॥


यश्च स्वदुःखोद्धारे यत्नः

परदुःखोद्धारेऽपि स यत्नः।

कर्य इति प्रवदितुमवतीर्ण

वन्दे लोकपते॥ऋ॥


चर्या कृपामतिं जनमित्रं

लवेन कुरुते सर्वपवित्रम्।

इति देशयितुं जगदवतीर्ण

वन्दे लोकपते॥ॠ॥


मधुरिह वरिवस्यति


अरुणरागमयललितवसनसमलंकृतविस्फरिताशैः।

तरुणतरानलहसितसदृशसुमनोहरविकचपलाशैः॥

मधुरिह वरिवस्यति जननाथम्।

मामपि नतं कुरुष्व शोकहर निजकरुणया सनाथम्॥ अ॥


(5)


दिशि दिशि सुरभिगन्धसमुदीरणपटुतरविकसितसालैः।

नवमंजरीमनोज्ञ-विहंगमकूजनचारु-रसालैः॥

मधुरिह वरिवस्यति जननाथम्।

मामपि नतं कुरुष्व शोकहर निजकरुणया सनाथम्॥ आ॥


वकुलवीथिकाविहरणशीलसुखितयुवजनसंलापैः।

आम्रकुंजगतशिशुजनकेलिसमयकृतबहुलालापैः॥

मधुरिह वरिवस्यति जननाथम्।

मामपि नतं कुरुष्व शोकहर निजकरुणया सनाथम्॥इ॥


यवगोधूमसस्यलवनानतकृषकवधूमृदुगानैः।

दत्ततरुणजनसाधुवादपरिवर्धितगीतवितानैः।

मधुरिह वरिवस्यति जननाथम्।

मामपि नतं कुरुष्व शोकहर निजकरुणया सनाथम्॥ ई॥


(6)


वटतिन्तिणीविलंबितदोलान्दोलनलोकशरीरैः।

सरससमयकृतहृदयहरणवशपरमभीरुरसवीरैः॥

मधुरिह वरिवस्यति जननाथम्।

मामपि नतं कुरुष्व शोकहर निजकरुणया सनाथम्॥ उ॥


रससंचयतल्लीनकुसुमगृहगर्भगतैः संक्षुब्धैः।

डयनविधूतपक्षकृतझंकृतिरवसुभगैर्मधुलुब्धैः॥

मधुरिह वरिवस्यति जननाथम्।

मामपि नतं कुरुष्व शोकहर निजकरुणया सनाथम्॥ ऊ॥


रुक्षचित्तमपनीय जनितसुललितसुललितरसभावैः।

सकललोकहृदयंगमकोकिलकुहूकुहूकलरावैः॥

मधुरिह वारिवस्यति जननाथम्।

मामपि नतं कुरुष्व शोकहर निजकरुणया सनाथम्॥ ऋ॥


स्पर्शसुखेन तनौ रोमांचनसंविधानकृतधीरैः।

ललितलुम्बिनीवनविकासने परमविदग्धसमीरैः॥


(7)


मधुरिह वरिवस्यति जननाथम्।

मामपि नतं कुरुष्व शोकहर निजकरुणया सनाथम्॥ॠ॥


जनसकल-मंगलम्

दिनमिव गगनमणेरुदयेन।

तव जन्मनेह पुण्यतमेन॥

सिद्धमस्तु जनसकलमंगलम्।

ऋद्धमस्तु जनसकलमंगलम्॥ अ॥


श्वसितमिवात्र जने पवनेन।

प्राणदायिना तवोदयेन।

सिद्धमस्तु जनसकलमंगलम्।

ऋद्धमस्तु जनसकलमंगलम्॥ आ॥


जीवितमिव लोकस्यान्नेन।

तव संजीवनकरणभवेन॥

सिद्धिमस्तु जनसकलमंगलम्।

ऋद्धमस्तु जनसकलमंगलम्॥ इ॥


(8)


सुखमिव कालवर्षिदेवेन।

धर्मवर्षिणा त्वदवसरेण॥

सिद्धमस्तु जनसकलमंगलम्।

ऋद्धमस्तु जनसकलमंगलम्॥ ई॥


कुसुमहसितमिव मधुसमयेन।

हर्षकृता तव संजातेन॥

सिद्धमस्तु जनसकलमंगलम्।

ऋद्धमस्तु जनसकलमंगलम्॥ उ॥


आप्लावनमिव वृहदौधेन।

कारुण्येन तवोत्पादेन॥

सिद्धमस्तु जनसकलमंगलम्।

ऋद्धमस्तु जनसकलमंगलम्॥ ऊ॥


तनुकल्पनमिव सिद्धरसेन।

तव दुःखापहसमुद्भवेन॥

सिद्धमस्तु जनसकलमंगलम्।

ऋद्धमस्तु जनसकलमंगलम्॥ ऋ॥


(9)


सकलजनगमनमिव गगनेन।

तवोदितेन शरणभूतेन॥

सिद्धमस्तु जनसकलमंगलम्।

ऋद्धमस्तु जनसकलमंगलम्॥ ॠ॥


गीतैर्वाद्यविजृम्भितैरुपचितैः कण्ठोत्थसप्तस्वरै-

र्नृत्यैः साभिनयैश्चलत्पदकरैर्नेत्रार्धसंवीक्षितैः।

पुंसां हर्षवशात् सतालमुखरैर्वामांगनानां कृतै-

र्लुम्बिन्यामभिनन्दितोऽजनि नृणां क्षेमाय बुद्धांकुरः॥ ८॥


पीत्वा तृप्तिमवाप्नुवन्ति न जना नेत्रैः स्वरूपामृतं

पश्यन्तीव निमेषहीननयनैः पुष्पच्छलैः पादपाः।

द्यौरभ्रस्य तनोति तं सुखयितुं रम्यं वितानं क्षणाद्

आनन्देन मुहुर्मुहुश् चलति भूर्दोलोत्सवं तन्वती॥ ९॥


मायायाः परमां मुदं जनयते शुद्धोदनस्य श्रियं

शाक्यानां गणजातिमुन्नमयते लोके नराणां गतिम्।

सत्त्वानां बहु कुर्वते हितसुखं नॄणां कुदृष्टेः शमं

लोकानुद्धरते महाकरुणया नाथाय तुभ्यं नमः॥ १०॥


(10)


इति शान्तिभिक्षुशास्त्रिविरचिते श्रीबुद्धोदयकाव्ये

जन्ममंगलाभिधानः

प्रथमः प्रसंगः॥


(11)


द्वितीयः प्रसंगः


असितागमनम्


कर्णाकर्णिकयादितो जनपदे श्रीलुम्बिनीभूषिते

पश्चाच्छ्रीकपिलाख्यवास्तुनिपुरे शुद्धोदनो यत्प्रभुः।

आप्रालेयगिरेस्ततः सुकृतिमद्दिव्यर्षिदिव्याश्रयाद्

आविन्ध्यात् सुगतांकुरोद्भवकथाचर्या प्रवृत्ता जने॥११॥


एको रम्यकथां शृणोति हि जनाद् या बोधिसत्त्वानुगाम्

अन्यस्मै स विभूष्य तां कथयति प्रीत्या प्रसन्नान्तरः।

एवं मंगलजन्म तस्य जगतां मांगल्यमूर्तेः स्फुटं

सर्वाप्यत्र विदां चकार जनता भक्त्या नताप्युन्नता॥१२॥


श्रुत्वा तस्य भवं भवार्तिशमनं सन्मंगलानां निधिं

मत्वा भारतवर्षभाग्यमतुलं तज्जन्मनालंकृतम्।

बुद्ध्वा सर्वमनामयं तदुदितेनास्मिन् धरामण्डले

निष्कामोऽप्यसितोऽगमच्छिशुवरं तं द्रष्टुकामो मुनिः॥ १३॥


(12)


श्रीशुद्धोदनभूपतिर्मुनिवरं तं पूजयित्वादराद्

आत्मानं च सराज्यबान्धवजनं तस्मै समर्प्याखिलम्।

किं तद्यत्करवाणि ते प्रियमिह प्राप्तस्य कृत्वा कृपां

शिष्यं शाधि महामुने द्रुतमिति प्रोवाच बद्ध्वांजलिम्॥ १४॥


नार्थे मे वसुना न कोऽपि नृपतेर्नार्थे न राज्येन मे

नार्थः कोऽपि गृहैर्ममास्मि मुदितो हित्वा गृहान्निर्जने।

यद्यत् तेऽर्पितमद्य मे जनधनं तत्तत्तवैवास्तु भोः

कामो मे तव सूनुमीक्षितुमहो तं केवलं पूरय॥ १५॥


श्रेष्ठस्यापि तथा समीक्ष्य हृदयं प्रीतं परं स्वात्मजे

राजा हर्षभरानतः स विदधत् कामं सकामं मुनेः।

धात्र्यंके सुविराजितं निजसुतं पूर्णेन्दुरम्याननं

प्रीत्या लोकमनोहरं मुनिवरस्याग्रे समानीतवान्॥ १६॥


(13)


लोकालोकमनोहरं शिशुवरं सर्वार्थसिद्धिप्रदं

पूर्णं लक्षणसम्पदा विपुलतां रूपश्रियो विभ्रतम्।

साक्षादंकुरितं तथागतमहावृक्षस्य बीजं गणे

शाक्यानामवलोक्य शाक्यनृपतिं ब्रह्मर्षिरेवं जगौ॥ १७॥


असितर्षिः (असित-ऋषि)


मध्ये भ्रुवोः परमरमणीयं दक्षिणतः परिवृत्तम्।

उर्णाकोषमवैतु महासत्त्वे धर्मश्रीनृत्तम्॥

लक्षणलक्षितमतिसुकुमारम्।

पश्यतु सुगतांकुरं कुमारम्॥ अ॥


जानुलंबिनौ बालतनावप्यतिमानुषावबालौ।

विश्वमिदं रक्षितुमवगच्छतु भुजावस्य सुविशालौ॥

लक्षणलक्षितमतिसुकुमारम्।

पश्यतु सुगतांकुरं कुमारम्॥ आ॥


मारविमर्दनमिदं बोधयतु जालांकितकरचरणम्।

नूनमयं भविता सकलनां लोकानामिह शरणम्॥

लक्षणलक्षितमतिसुकुमारम्।

पश्यतु सुगतांकुरं कुमारम्॥ इ॥


(14)


विनिभालयतु चक्रपरिमंडितपादावस्य सुरम्यौ।

सत्यमस्य लोके भवितारावुभौ नृदेवौ दम्यौ॥

लक्षणलक्षितमतिसुकुमारम्।

पश्यतु सुगतांकुरं कुमारम्॥ई॥


वारणवस्तिकोषमवगच्छतु ह्रीसंरक्षणकोषम्।

मारवधूरपि वन्दितुमुत्का भवितैनं गतदोषम्॥

लक्षणलक्षितमतिसुकुमारम्।

पश्यतु सुगतांकुरुं कुमारम्॥ उ॥


स्मितं विभावयतु प्रसन्नमधिवदनं विस्मयजननम्।

रवेरुदितमिव सकलदृष्टितमसो लोकानां शमनम्॥

लक्षणलक्षितमतिसुकुमारम्।

पश्यतु सुगतांकुरं कुमारम्॥ ऊ॥


वदनं वचनविहीनं संप्रति कलयतु जनयत्तोषम्।

प्रवचनकृज्जनयिता ध्रुवं लोकस्य सत्यसंतोषम्॥

लक्षणलक्षितमतिसुकुमारम्।

पश्यतु सुगतांकुरुं कुमारम्॥ ऋ॥


(15)


अवलोकयतु दृशैव द्वन्द्वहरमेनं बालमबालम्।

मार्गमवश्यं लब्धा लोकोऽनेन विगतकलिजालम्॥

लक्षणलक्षितमतिसुकुमारम्।

पश्यतु सुगतांकुरं कुमारम्॥ ॠ॥


तं शौद्धोदनिमादरेण परमेणोद्वीक्षमाणो मुनी

रम्यं गीतमुदीर्य शाक्यनृपतेस्तुष्टिं व्यधाद् व्याकृतैः।

पश्यात् किं तु मनस्यभूत् किमपि यद् ब्रह्मर्षिरेष क्षणाद्

आकाशोन्मुखवाष्पपूर्णनयनः संरुद्धकंठोऽभवत्॥ १८॥


दृष्ट्वा गद्गदकंठमेवमवनेस्तं दैवतं तत्क्षणाच्-

छोकेनाकुलचेतसा परिगतं बाष्पाम्बुपूर्णेक्षणम्।

भीतो भूमिपतिः कुमारविषये संदेहपूर्णान्तरः

कृत्वा मूर्धनि याचनांजलिमिमां दीनां बभाषे गिरम्॥ १९॥


(16)


राजा


सकलबन्धुजन-निखिलसंघजन-सपुरराष्ट्रजनहर्षम्।

सांवत्सरिकदेवविद्ब्राह्मणकथितबहुविधोत्कर्षम्॥

सकललोकहितमिममुपजातम्।

उक्त्वा किं रोदिषि सविषादम्॥ अ॥


नरनारीगण-बालबालिकागण-नर्तनोपचारम्।

कलकंठोद्गतसंगीतध्वनिकृतबहुविधसत्कारम्॥

सकललोकहितमिममुपजातम्।

उक्त्वा किं रोदिषि सविषादम्॥ आ॥


लक्षणसूचितनिश्चितमहापुरुषताभूषितदेहम्।

बोधिमवाप्स्यन्तं व्यपगतकलिकलुषमोहसंदेहम्॥

सकललोकहितमिममुपजातम्।

उक्त्वा किं रोदिषि सविषादम्॥ इ॥


रागद्वेषविधूनन-हिंसोन्मूलन-शान्तिनिधानम्।

निखिललोकसज्जनसंपादितपूजनयोग्यनिदानम्॥

सकललोकहितमिममुपजातम्।

उक्त्वा किं रोदिषि सविषादम्॥ ई॥


(17)


निजजन्महितसकलधान्यधनसुखसमृद्धिवैपुल्यम्।

स्वात्मनैव निजपरममनोहररूपराशिना तुल्यम्॥

सकललोकहितमिममुपजातम्।

उक्त्वा किं रोदिषि सविषादम्॥ उ॥


सनगरजनपदमंडललोकसमूहविदितवृत्तान्तम्।

लब्धनूतनोदयौषधिप्रियतमसमानमतिकान्तम्॥

सकललोकहितमिममुपजातम्।

उक्त्वा किं रोदिषि सविषादम्॥ ऊ॥


हृतबहुधापरिपीडितदुःखनिमग्नविश्वजनपीडम्।

शरणहीनजनहेतुपरमशरणप्रदसुखैकनीडम्॥

सकललोकहितमिममुपजातम्।

उक्त्वा किं रोदिषि सविषादम्॥ ऋ॥


व्याकृतमिह बहुविधं तथागतपदमनुपमलब्धारम्।

लोकान् अमृतमयीं वृष्टिं विधाय सुतरां त्रातरम्॥


(18)


सकललोकहितमिममुपजातम्।

उक्त्वा किं रोदिषि सविषादम्। ॠ॥


असितर्षिः (असित-ऋषि)


धृतकाषायपटं कुर्वन्तं हृदयं वीतकषायम्।

धर्मामृतवर्षेण निरुन्धन्तं क्लेशाग्निमपायम्॥

न श्रोष्यामि वदन्तं वीरम्।

इति रोदिमि समयो मम यातुं हन्त विहाय शरीरम्। अ॥


वन्द्यमानमनुपमं सकललोकैर्विधत्तबहुमानम्।

माननीयमिह महामानिलोकैरपि गताभिमानम्॥

न श्रोष्यामि वदन्तं वीरम्।

इति रोदिमि समयो मम यातुं हन्त विहाय शरीरम्॥ आ॥


एककुलं धर्मैककुलं नूतनं जने जनयन्तम्।

उच्चावचनीचोच्चसकलनृकुलाग्रहमुपशमयन्तम्॥

न श्रोष्यामि वदन्तं वीरम्।

इति रोदिमि समयो मम यातुं हन्त विहाय शरीरम्॥ इ॥


(19)


आसुमेरुमस्तकात् कुमेरोश्चरमकोटिपर्यन्तम्।

उदयास्ताचलयोर्मध्ये जनमिममेकीकुर्वन्तम्॥

न श्रोष्यामि वदन्तं वीरम्।

इति श्रोष्यामि वदन्तं वीरम्।

इति रोदिमि समयो मम यातुं हन्त विहाय शरीरम्॥ ई॥


धर्मेणाभ्युदयस्य मार्गमनुपमं जनान् गमयन्तम्।

नरसुरपूजनयोग्यमिमं मानवं गुणै रचयन्तम्॥

न श्रोष्यामि वदन्तं वीरम्।

इति रोदिमि समयो मम यातुं हन्त विहाय शरीरम्॥ उ॥


करुणौघेन विहिंसातीव्रज्वलनं संशमयन्तम्।

मैत्र्या वधबन्धोद्धतयुद्धकथामखिलां तिरयन्तम्॥

न श्रोष्यामि वदन्तं वीरम्।

इति रोदिमि समयो मम यातुं हन्त विहाय शरीरम्॥ ऊ॥


(20)


स्वप्रज्ञया विभिन्नविविधमतजालं संछिन्दन्तम्।

धर्ममयं विश्वैकराज्यमुपदिश्य कलिं भिन्दन्तम्।

न श्रोष्यामि वदन्तं वीरम्।

इति रोदिमि समयो मम यातुं हन्त विहाय शरीरम्॥ ऋ॥


सर्वैर्नृर्भिर्नृपैर्नृनृपाणां ललनाभिः कृतपूजम्।

बुद्धं मारविमर्दनमेतं शाक्यनृपस्य तनूजम्॥

न श्रोष्यामि वदन्तं वीरम्।

इति रोदिमि समयो मम यातुं हन्त विहाय शरीरम्॥ॠ॥


मामेवं प्ररुदन्तमैक्ष्य नृपते त्वं कातरो मा स्म भूर्

यद्यत् किंचिदवोचमस्मि सकलं तत्तद् ध्रुवं सेत्स्यति।

इत्येवं समुदीर्य शाक्यनृपतिं दत्वाशिषं मंगलां।

विप्रो राजकुलात्स्वमाश्रममगात् सर्वेर्जनैर्वन्दितः॥२०॥


इति शान्तिभिक्षुशास्त्रिविरचिते श्रीबुद्धोदयकाव्ये

ऽसितागमनाभिधानो

द्वितीयः प्रसंगः॥


(21)


तृतीयः प्रसंगः


गोपापरिग्रहः


सर्वार्थानुदयोन्मुखान् निजपितुः कृत्वोदयेनात्मनः

सिद्धार्थोऽत्र दिने दिने निजवयोवृद्ध्या समं वर्धयन्।

क्रीडाभिः शिशुताक्षणे शिशुजनैः सार्धं कुलं नन्दयन्

कौमारे गुरुमाश्रितो लघु सुधीर् विद्यास्वधीती बभौ॥ २१॥


कन्यानां स्पृहणीयमात्मतनुजे दृष्ट्वोद्गतं यौवनं

राजा पुत्रवधूं गणाद् वरयितुं प्रक्षांचकारोत्तमाम्।

भावं तद्विषयं कुमारसुहृदां जिज्ञासमानो मुखात्

लेभे शाक्यगणाधिके निजसुतस्येमां नवीनां गिरम्॥ २२॥


कुमारः


या रूपेण भवेद् रमणीया गुणैर्नन्दयेच्चित्तम्।

या रज्येन्मय्येव चिन्तयेन्न बहिर्वसुधावित्तम्॥

वृणुयामहं कुमारीम्।

तां धर्माचरणैकसहायां कमनीयां सुकुमारीम्॥ अ॥


(22)


जातायामपि महाकुले यस्यां न भवेदभिमानः।

हीनकुलेऽपि समुत्पन्नायामपि नहि भवेद् विमानः॥

वृणुयामहं कुमारीम्।

तां धर्माचरणैकसहायां कमनीयां सुकुमारीम्॥ आ॥


आवाहेऽथ विवाहे जातिं या गणयेन्न सुशीला।

यान्त्यायान्ति गुणा जातिं दृष्ट्वा न हीति मतिशीला॥

वृणुयामहं कुमारीम्।

तां धर्माचरणैकसहायां कमनीयां सुकुमारीम्॥ इ॥


या प्रोषिते न पत्यौ विहरेत् कदापि परगतचित्ता।

या व्यभिचरति पतिं न भाग्यवैगुण्येऽप्यपगतवित्ता॥

वृणुयामहं कुमारीम्।

तां धर्माचरणैकसहायां कमनीयां सुकुमारीम्॥ ई॥


श्वश्रूं मात्रीयेत् सततं या सौभाग्येऽपि न मत्ता।

पित्रीयेत् श्वशुरं कुशला कुलकर्मसु सदाप्रमत्ता।


(23)


वृणुयामहं कुमारीम्।

तां धर्माचरणैकसहायां कमनीयां सुकुमारीम्॥ उ॥


विद्याकलासु कुशला कुशुले यस्या मतिर्न लोला।

या शीलैकभूषणा रत्नकनकभूषणेष्वलोला॥

वृणुयामहं कुमारीम्।

तां धर्माचरणैकसहायां कमनीयां सुकुमारीम्॥ ऊ॥


या मात्रया पिबेद् भुञ्जीत मितव्ययशीला धन्या।

या संरक्षेद् गृहवस्तूनि कुलं पालयेत् सुकन्या॥

वृणुयामहं कुमारीम्।

तां धर्माचरणैकसहायां कमनीयां सुकुमारीम्॥ ऋ॥


किं बहुना पतिमुपकुर्वीत जनेष्वपि करुणां कुर्यात्।

नित्यं या हितमतिश्चरेत् कुशलं चित्ते संतनुयात्॥

वृणुयामहं कुमारीम्।

तां धर्माचरणैकसहायां कमनीयां सुकुमारीम्॥ ॠ॥


(24)


एवं पुत्रमनोरथं विदितवाञ्छाक्याधिनाथो द्विजान्

कन्यां सर्वगुणान्वितां मृगयितुं शीघ्रं समादिष्टवान्॥

तेभ्यो दण्डपदण्डपाणितनुजां श्रुत्वा स्वपुत्रोचितां

तां सिद्धार्थविलोचनप्रणयिनीं कर्तुं चकारोत्सवम्॥ २३॥


कन्यानां वितरन्नुपायनमसौ तस्मिन् कुमारो महे

व्याक्षिप्तो न कयापि चेतसि कृतै र्नेत्रार्धसंवीक्षितैः।

गोपा तं तु वितीर्णभाण्डमगमद् यस्मिन् क्षणे सस्मिता

तस्मिन्नेव क्षणेंऽगुलीयकमसौ चित्तेन सार्धं ददौ॥ २४॥


गोपायामनुरक्तमात्मजमनो ज्ञात्वार्थितस्तद्गुरुम्

तेनैवं न कृतं प्रदातुमनसा वीरोत्तमायात्मजाम्।

तस्मादात्मयशोऽभिरक्षितुमसौ गोपां ग्रिहीतुं तथा

शिल्पं दर्शयितुं दिदेश नृपतिं कर्तुं गणे घोषणाम्॥ २५॥


गोपामेव यशोधरां कृतवतां लोके पताकां जये

शाक्यानां पुरतोऽभिभूय सकलाञ्छ्रीबोधिसत्त्वे बभौ।

तद् दृष्ट्वा तनुजां निजां निजकरेणादाय मानी महान्

सिद्धार्थाय ददौ नृपस्य विदधौ श्रीदण्डपाणिर्मुदम्॥ २६॥


(25)


सा गोपा श्वशुरालयेपि विवृता तातस्य गेहे यथा

वृद्धानां पुरतोऽवगुण्ठनमृते चर्यां ततानात्मनः।

सर्वेषां हृदयप्रसादमकरोत् मैत्र्या जनानां गणे

मन्यन्ते बहु रूढिमेव हृदये ये तान् कलं सा जगौ॥ २७॥


गोपा


या स्वयं न ह्निया युता लोके बिभेति न लज्जया।

या न सत्यप्रावृता नित्यं समा खलु नग्नया॥

किं पटसंवृतवदनया।

द्वयंगुलधीधनया तया॥अ॥


रन्धनालयमेव या कर्त्री विभूषितमात्मना।

किं बहिर्लोकेऽस्ति विज्ञातुं न जाता तन्मना॥

किं पटसंवृतवदनया।

द्वयंगुलधीधनया तया॥ आ॥


(26)


वेत्ति या चोलूखलं कुण्डं च वेत्ति शिलोपलम्।

वेत्ति दास्यं स्वं न लोके मूढतायाः काफलम्॥

किं पटसंवृतवदनया।

द्वयंगुलधीधनया तया॥ इ॥


पेषणीं गेहे पिनष्टि स्वात्मनात्र सहैव या।

विद्या या न विनात्र सौख्यमिति प्रवेत्ति जने न या॥

किं पटसंवृतवदनया।

द्वयंगुलधीधनया तया॥ ई॥


योदकुम्भं संपृणाति स्वं रसेन न जीवनम्।

शास्त्रशिल्पं नास्ति किंचित् हन्त कर्त्री सीवनम्॥

किं पटसंवृतवदनया।

द्वयंगुलधीधनया तया॥ उ॥


या कुलस्य विभुर्न, दासी दुःखमेव हि यत्फलम्।

रूपमेव बलं क्षणस्थैर्यं हि यस्याः केवलम्॥

किं पटसंवृतवदनया।

द्वयंगुलधीधनया तया॥ ऊ॥


(27)


तृष्णया धनधान्यसंताने गृहेष्वतिरागतः।

या न चिन्तयतीह किंचित् पुण्यमत्र विरागतः॥

किं पटसंवृतवदनया।

द्वयंगुलधीधनया तया॥ ऋ॥


या न पुंवद् संप्रगल्भा या न पुंवद्धीधना।

या न पुंवद् वीरभावा या न पुंवज्जीवना॥

किं पटसंवृतवदनया।

द्वयंगुलधीधनया तया॥ॠ॥


ज्ञात्वैवं स यशोधरां नरपती रूपे गुणेषूत्तमां

शीलेनात्मनि संवृते सुविवृतां भत्रीं च कत्रीं गणे।

प्रीत्या नन्दितुमात्मजामिव निजां संछाद्य रत्नैः पटैः

स्वस्त्याशीर्वचनोपगां शुभगिरं सानन्दमेवं जगौ॥ २८॥


(28)


शुद्धोदनः


कुसुमेनेव सदा वदनेन।

लावण्यं विभाति विवृतेन॥

त्वया वयं बहु-धन्या।

विवृता त्वमसि सुकन्या॥ अ॥


रत्नेनेव सदा वदनेन।

मूल्यं व्यक्तिमेति विवृतेन॥

त्वया वयं बहु-धन्या।

विवृता त्वमसि सुकन्या॥ आ॥


तोयेनेव सदा वदनेन।

अन्तः किमिति भाति विवृतेन॥

त्वया वयं बहु-धन्या।

विवृता त्वमसि सुकन्या॥ इ॥


आदर्शेनेव हि वदनेन।

भावं फलति सदा वदनेन॥

त्वया वयं बहु-धन्या।

विवृता त्वमसि सुकन्या॥ ई॥


(29)


सर्वः संतुष्यति वदनेन।

प्रियवचनं श्रुत्वा विवृतेन॥

त्वया वयं बहु-धन्या।

विवृता त्वमसि सुकन्या॥उ॥


गुरुजन इह नन्दति वदनेन।

विनयशोभिना किल विवृतेन॥

त्वया वयं बहु-धन्या।

विवृता त्वमसि सुकन्या॥ ऊ॥


संवृतेन भाव्यं दोषेण।

गुणेन भवितव्यं विवृतेन॥

त्वया वयं बहु-धन्या।

विवृता त्वमसि सुकन्या॥ऋ॥


युक्ता त्वं रूपेण गुणेन।

मुखेन शोभा ते विवृतेन।

त्वया वयं बहु-धन्या।

विवृता त्वमसि सुकन्या॥ ॠ॥


(30)


एवं तां स्वसुतेऽनुरागपरमां गोपां वधुं सर्वतो

भावैर्भक्तिपरां गुरुष्वथ जनेष्वन्येषु मैत्रीपराम्।

सौभाग्यस्य समृद्धिसौख्यसहितस्याशीर्भिराह्लादिताम्

आघ्रायानतमूर्धनि प्रमुमुदे शाक्येषु शाक्याधिपः॥ २९॥


यादृक्सर्वगुणान्वितः स भगवान्छ्रीबुद्धबीजांकुरम्

तादृक्सर्वगुणान्विता भगवती सासीत्कृपाधीघना

अन्योन्योपमसाहचर्यमभवद् यूनोस्तयोरुज्जवलं

तद् दृष्ट्वा रतिकामयोरपि मनो जातं तयोरुत्सुकम्॥ ३०॥


इति शान्तिभिक्षुशास्त्रिविरचिते श्रीबुद्धोदयकाव्ये

गोपापरिग्रहाभिधानस्

तृतीयः प्रसंगः।


(31)


चतुर्थः प्रसंगः


निमित्तदर्शम्


गोपां प्राप्य यशोधरां स गुणवान् ख्यातिं गणे लब्धवान्

साहाय्यं स्वपितुर्गणस्य बहुधा कृत्येष्वथो दत्तवान्।

प्रीतः किंतु न वीक्ष्य शस्त्रपरमानन्योन्यहिंसापरान्

स्वार्थैकप्रवणान् गणानथ गृहे भिन्नान् स्वबन्धूनपि॥३१॥


आनन्दक्षण एव दुर्लभतमो लोके गृहस्थस्य हा

प्रायो याति दिवानिशं कलिपरस्यायुः क्षयं केवलम्।

क्षत्रं पापकमेव जीवति निजानन्यांश्च हत्वायुधै-

र्निर्वैरं जगदस्तु मार्ग इह कः सामाग्र्यमाप्तुं जने॥३२॥


इत्येवं प्रविचिन्तयन् स विमना गेहावरुद्धो भृशं

चित्तं सान्त्वयितुं विलोक्य विपिनं गन्तुं बहिः पत्तनात्।

आरूढो रथमंगनाभिरतनुर्दृष्टो ध्रुवं सत्तनुः

पौरै राजसुतो जयध्वनिपरैः सानन्दमालोकितः॥३३॥


(32)


मार्गे सिक्तजले रजोविरहिते लोकाकुले प्रान्तयो

राजादेशपरैः कृतेऽपि पुरुषैर्यत्नान्मनोहारिणि।

संवेगावहवस्तुभिर्विरहितेऽप्यानन्दघोषान्तरे

जीर्णं कंचन वीक्ष्य सारथिमुवाचायं क इत्युत्सुकः॥३४॥


कुमारं प्रति सारथिः


अयमपि पुरा बद्धदृढवर्मा।

समरे जयी बभूव सुकर्मा॥

परिभूतः परमेष इदानीम्।

जरालीढतनुरेष इदानीम्॥ अ॥


अयमपि पुरा रूपबलशाली।

सुविहितांगरागो वनमाली॥

परिभूतः परमेष इदानीम्।

जरालीढतनुरेष इदानीम्॥ आ॥


(33)


इममवलोक्य पुरा बहुसक्ताः।

आसन् पौरांगनाः प्रमत्ताः॥

परिभूतः परमेष इदानीम्।

जरालीढतनुरेष इदानीम्॥ इ॥


वचनमस्य पूर्वं श्रुतवन्तः।

साधु साधु चाहुर्गुणवन्तः॥

परिभूतः परमेष इदानिम्।

जरालीढतनुरेष इदानीम्॥ ई॥


अयमपि पुरा पुपोष ज्ञातिम्।

गतः परां लोके विख्यातिम्॥

परिभूतः परमेष इदानीम्।

जरालीढतनुरेष इदानीम्॥ उ॥


पूर्वमनेनार्जितमिह वित्तम्।

आराधितं सकलजनचित्तम्॥

परिभूतः परमेष इदानीम्।

जरालीढतनुरेष इदानीम्॥ ऊ॥


(34)


रूपं बलं धनं धीर्ज्ञानम्।

पूर्वमभूदमुष्य बहु-मानम्॥

परिभूतः परमेष इदानीम्।

जरालीढतनुरेष इदानीम्॥ ऋ॥


इयं गतिः सकलस्य भवित्री।

पूर्वं वसुबलमस्य धरित्री।

परिभूतः परमेष इदानीम्।

जरालीढतनुरेष इदानीम्। ॠ॥


संविग्नो जरया निवृत्य गमनात् प्रत्यागतः स्वान् गृहान्

रुद्धस्तत्र पुनः पुरान्नृपसुतो रन्तुं वियासुर्वनम्।

वीथ्यामेव पुरस्य वीक्ष्य मनुजं रोगार्तमार्तः स्वयं

कोऽसावित्यनुयुक्तवान् निजगदे यन्त्रा विवृत्याखिलम्॥ ३५॥


कुमारं प्रति सारथिः


तपति तनुरस्य मनो व्याकुलत्वमेति।

यातं सुखमस्य चायं वेदनामुपैति॥

वंचित इह खलु भोगात्।

एष विषीदति रोगात्॥अ॥


(35)


वातेन श्वसिति परं निर्वृतिं न याति।

अशनं न भाति चैनं पानं नापि भाति॥

वंचित इह खलु भोगात्।

एष विषीदति रोगात्॥ आ॥


पश्यन्नपि लोकानयं पश्यति न किंचित्।

शून्या दृष्टिरस्य दृश्यं स्फुरति न किचिंत्॥

वंचित इह खलु भोगात्।

एष विषीदति रोगात्॥ इ॥


वेपथुर्वपुषि धैर्यं मानसं जहाति।

स्थातुमसमर्थो ग्रीवामपि न दधाति॥

वंचित इह खलु भोगात्।

एष विषीदति रोगात्॥ ई॥


करुणं विरौति पीडयाश्रुमुख आह।

अम्ब हा जनक देव पाहि पाहि हा! हा!॥

वंचित इह खलु भोगात्।

एष विषीदति रोगात्॥ उ॥


(36)


जीवितं शरीरे किंतु स्वास्थ्यमस्य नास्ति।

दुःखमेव दुःखमेव दुःखमेव चास्ति॥

वंचित इह खलु भोगात्।

एष विषीदति रोगात्॥ऊ॥


दोषधातुमलमस्य काये क्षोभमेति।

भेषजं तदर्थमाप्तुं भिषगमुपैति॥

वंचित इह खलु भोगात्।

एष विषीदति रोगात्॥ ऋ॥


क्षुब्धे दोषगणे दशा सेयं सकलस्य।

दोषगणः क्षुब्धश्चास्य समतां निरस्य॥

वंचित इह खलु भोगात्।

एष विषीदति रोगात्॥ॠ॥


संविग्नः सुतरां रुजा परिगतं दृष्ट्वा जनं पीडितं

स्वस्थात्मापि चिराय चातुरमिवादर्शत् स कायं निजम्।

व्यावृत्तो गमनाद् गृहानुपगतः श्रीबुद्धबीजांकुरः

सम्यक्प्राप्तसुखोऽपि दुःखमतुलं चित्तेऽन्वविन्दद् भृशम्॥ ३६॥


(37)


संवेगात् परमातुरः स्वहृदये दृष्ट्वा जगत् सामयं

नित्यं तिष्ठति खिन्न-खिन्नहृदयो लोकेषु दृष्ट्वा कलिम्।

अप्राप्तो हृदये सुखस्य लवमप्यन्तःपुरेष्वात्मवान्

निर्यातो हृदयं निजं रमयितुं दृष्ट्वा वनं पत्तनात्॥ ३७॥


वीथ्यामेव परन्तु दृष्टिरपतन्निर्हार्यमाणे जने

निश्चेष्टे समलंकृते तदपरै रोरूयमाणैर्वृते।

कोऽसावित्यनुयुक्तवान् नृपसुतो यन्तारमुक्तो भृशं

स प्राहैनमवेक्ष्य चित्तविकलं संवेगवृद्धयै वचः॥३८॥


सारथिः


जातो जातो जन इह नश्यति।

अन्ते कोऽपि न चैनं पश्यति॥

पूर्यत्यायुर्मानम्।

सकलस्यैतादृशं जायते लोकेऽस्मिन्नवसानम्॥ अ॥


(38)


खादति पिबति स्वपित्यवबुध्यति।

अन्ते किन्तु गमनमिह सिध्यति।

पूर्यत्यायुर्मानम्।

सकलस्यैतादृशं जायते लोकेऽस्मिन्नवसानम्॥ आ॥


क्रीडति हसति वधूं परिचरति।

परमन्ते लोकाद् अपसरति॥

पूर्यत्यायुर्मानम्।

सकलस्यैतादृशं जायते लोकेऽस्मिन्नवसानम्॥इ॥


अर्जति रक्षति सुखमनुभवति।

च्यवतेऽन्ते परमत्र न भवति॥

पूर्यत्यायुर्मानम्।

सकलस्यैतादृशं जायते लोकेऽस्मिन्नवसानम्॥ई॥


युध्यति जयति यजति सुखमृच्छति।

अन्ते पुनरभावमुपगच्छति॥

पूर्यत्यायुर्मानम्।

सकलस्यैतादृशं जायते लोकेऽस्मिन्नवसानम्॥उ॥


(39)


कुतोऽपि जातः कुतोऽपि याति।

यान्तं लोकात् कोऽपि न पाति॥

पूर्यत्यायुर्मानम्।

सकलस्यैतादृशं जायते लोकेऽस्मिन्नवसानम्॥ऊ॥


अजरः कोऽपि न भूमौ विचरति।

अमरो नेह कोऽपि भुवि विहरति॥

पूर्यत्यायुर्मानम्।

सकलस्यैतादृशं जायते लोकेऽस्मिन्नवसानम्॥ऋ॥


विगतजीवमनले वपुरस्यति।

जनो जनस्यैवं वरिवस्यति॥

पूर्यत्यायुर्मानम्।

सकलस्यैतादृशं जायते लोकेऽस्मिन्नवसानम्॥ ॠ॥


संविग्नोऽपि पुरा विलोक्य जगतीमन्योन्यहिंसापरां

नित्यं नित्यमनुव्रतां कलिमलं सामग्र्यभावाच्च्युताम्

रागद्वेषमयैर्गणैः परिवृतां कारुण्यहीनां शठाम्

एनां वीक्ष्य परं क्षणस्थितिमतीमद्योदवैक्षीद् भृशम्॥ ३९॥


(40)


किं लोके कलिरेव जीवनमथो सम्भाव्यमैक्यं क्वचिद्

हिंसैवात्र विधिर्भवेदथ जने कारुण्यभावोऽपि किम्।

जीर्णं मृत्युपरायणं जगदिदं मायैव यद् यौवनं

शून्यं सर्वमिदं विभाव्य पुनरप्यागाद् गृहानेव सः॥ ४०॥


इति शान्तिभिक्षुशास्त्रिविरचिते श्रीबुद्धोदयकाव्ये

निमित्तदर्शनाभिधागश्

चतुर्थः प्रसंगः॥


(41)


पंचमः प्रसंगः


वन-विहारः


यस्मिञ्छाक्यगणाभिवांछितमभूज्जन्मक्षणे रोपितं

पश्चाच्चांकुरितं किशोरवयसि प्राप्ते कुमारोत्तमे।

वृद्धयैवं वयसः सुपत्रितमथ प्राप्ते नवे यौवने

सम्यक्पुष्पितमाः किमेतदधुना नोज्जृम्भते सत्फलैः॥४१॥


दातुं दानमथो विजेतुमवनिं हित्वा विरक्तिं गतो

यास्यत्येष न चक्रवर्तिपदवीं किं सर्वसिद्धिप्रदः।

त्यक्त्वा शाक्यगणं विहाय नृपतिं भार्यां तथा गौतमीं

गत्वारण्यमसौ भविष्यति जने किं भैक्ष्यचर्यापरः॥४२॥


एवं चिन्तयतो गणस्य सनृपस्याहर्निशं चिन्तया

संरुद्धो विषयोपभोगपरमैः प्रायेण नारीजनैः।

किं चित्त् स्वास्थ्यमवाप्तुमेष निरगाद यन्त्रा समं पत्तनाद्

द्रष्टुं पक्षिमृगोपजुष्टविपिनं राजाज्ञया श्रीघनः॥ ४३॥


(42)


दृष्ट्वा तत्र यतिं प्रसन्नकरणं निश्चिन्तवीतारतिं

कोऽसावित्यनुयुज्य, धर्मपरमोऽसावित्यविन्दद् वचः।

शान्तं तं समुपेत्य नम्रवचसा राजात्मजः पृष्टवान्

केन त्वं विहरस्यतीव भगवन्नार्तेष्वनार्तः सुखी॥४४॥


श्रुत्वेदं वचनं यतिर्यमवतां लोके नृणामुत्तमं

ज्ञात्वेमं जगदेकतारणपरं कंदर्पदर्पोन्मथम्।

दृष्ट्वेदं जगद्व्यवस्थितमथो रौक्ष्यानुरागोद्धतं

संविग्नं व्युपशान्तये हृदि परं शाम्यन्तमेनं जगौ॥ ४५॥


यतिः


अनिकेतनो भैक्ष्यमतिसुलभं यथासुखं विहरामि।

बद्धो नास्मि कयापि केनचिद् स्वच्छन्दं विचरामि॥

बन्धनहीनमिदानीम्।

चित्तं वसुभामिनीलौल्यविरहेण विमुक्तमिदानीम्॥ अ॥


(43)


पशुपालनमिह लोकः कुरुते हन्ति पशून् यजनाय।

पशुभिर्मम न कार्यमिह किंचिद् ब्रीहियवं धर्माय॥

बन्धनहीनमिदानीम्।

चित्तं वसुभामिनीलौल्यविरहेण विमुक्तमिदानीम्॥आ॥


लोको गवाव्यजं परिपुष्यति भोजनाय घातयितुम्।

शाकाहारेणैव परं दिनमिह शक्यं यापयितुम्॥

बन्धनहीनमिदानीम्।

चित्तं वसुभामिनीलौल्यविरहेण विमुक्तमिदानीम्॥इ॥


मनुजो मनुजं हन्ति चिन्तयति धर्मायेदं युद्धम्।

हिंसायामिह धर्मलवो नास्तीति मया प्रतिबुद्धम्॥

बन्धनहीनमिदानीम्।

चित्तं वसुभामिनीलौल्यविरहेण विमुक्तमिदानीम्॥ई॥


धर्मकैतवेनात्र वर्तते द्वन्द्वं किल भोगार्थम्।

अन्नमात्रया सहितं वासोयुगं ह्यलं कायार्थम्॥

बन्धनहीनमिदानीम्।

चित्तं वसुभामिनीलौल्यविरहेण विमुक्तमिदानीम्॥उ॥


(44)


शयनासनमेकं पर्याप्तं नृपतेरपि निद्रार्थम्।

शेते तृणसंस्तरे यतिः सुखमेव सौख्यरक्षार्थम्॥

बन्धनहीनमिदानीम्।

चित्तं वसुभामिनीलौल्यविरहेण विमुक्तमिदानीम्॥ऊ॥


भोजनवसनशयनशरणं सकलस्यैवात्राभिष्टम्।

किं त्वेकस्मिंश्चितं वित्तमिह जनयति सकलमनिष्टम्॥

बन्धनहीनमिदानीम्।

चित्तं वसुभामिनीलौल्यविरहेण विमुक्तमिदानीम्॥ऋ॥


एकस्यापि कृते नालं निखिलं भुवि यत्स्त्रीवित्तम्।

संविभागरतिमन्तरेण शममेति कदापि च चित्तम्॥

बन्धनहीनमिदानीम्।

चित्तं वसुभामिनीलौल्यविरहेण विमुक्तमिदानीम्॥ॠ॥


नैष्क्रम्याभिमुखं निशम्य वचनं साधोः शमेनान्वितं

किंचित् स्वस्थमभून्मनोऽस्य विपिने पूर्वं ममत्वातुरम्।


(45)


ध्यायन्नर्थममुं विहृत्य सुचिरं तस्मान्निवृत्तो वनाद्

गायन्तीं पथि शुश्रुवान् नृपसुतः कन्यां कृशागौतमीम्॥ ४६॥


कृशा गौतमी


रोम-रोम-पुलकितं तृप्तिरन्यैव हि कापि शरीरे।

शान्तिः समुन्मिषति सुतरां काचिन्मम मनस्यधीरे॥

सा निर्वृतात्र कान्ता

कान्तो यस्येदृशो भवति कमनीयो भाग्यविधाता॥ अ॥


दुर्भावो हृदयाद् व्यपैति सद्भावो हृदयमुपैति।

विमला स्नेहसमेता काचिच्चेतोवृत्तिरुदेति॥

सा निर्वृतात्र कान्ता

कान्तो यस्येदृशो भवति कमनीयो भाग्यविधाता॥आ॥


नयने हर्षसमेते हसतो हसति च वदनमुदारम्।

अन्तःकरणं हसति विहसति प्रहसति वारं वारम्॥

सा निर्वृतात्र कान्ता

कान्तो यस्येदृशो भवति कमनीयो भाग्यविधाता॥इ॥


(46)


वक्षःस्थलं स्फुरत्यानन्दः स्फरति मानसे धीरम्।

किमप्यपूर्वमननुभूतं सुखमनुबोभोति शरीरम्।

सा निर्वृतात्र कान्ता

कान्तो यस्येदृशो भवति कमनीयो भाग्यविधाता॥ई॥


इन्द्रियाणि मुदितानि बहून्यूदितानि पूर्वसुकृतानि।

धन्यधन्यमिदमहो दिनं सफलानि कायनयनानि॥

सा निर्वृतात्र कान्ता

कान्तो यस्येदृशो भवति कमनीयो भाग्यविधाता॥उ॥


लोचनयुगलमेव हि वपुषि न लोचनमयं शरीरम्।

दर्शनेन प्रीतिः समुदेति न तृप्यति चित्तमधीरम्॥

सा निर्वृतात्र कान्ता

कान्तो यस्येदृशो भवति कमनीयो भाग्यविधाता॥ऊ॥


एतौ करौ वन्दितुं यातः पुनः पुनर्मूर्धानम्।

मूर्धा नमति सकृद् द्विस् त्रिर्बहुकृत्वः कर्तुं मानम्॥

सा निर्वृतात्र कान्ता

कान्तो यस्येदृशो भवति कमनीयो भाग्यविधाता॥ऋ॥


(47)


अत्र निर्वृत्तः पिता स खलु निर्वृता ध्रुवं सा माता।

अयं ययोरंगात् संजातः पुत्रो मुदमाधाता॥

सा निर्वृतात्र कान्ता

कान्तो यस्येदृशो भवति कमनीयो भाग्यविधाता॥ॠ॥


श्रुत्वा निर्वृतमुत्तमं पदमयं कन्यामुखान्निर्वृतम्

तस्यै हारमुपायनं विसृजति स्मामुक्तमात्मप्रियम्।

आगत्याथ गृहानभून्न विमना नैवोन्मनाः पूर्ववत्

स्थैर्यं चेतसि संनिधाय नृपतिं गत्वा जगौ वीर्यवान्॥ ४७॥


कुमारः


क्षण आयास्यति यदा न लोकेऽस्मिंस्त्वं तात भविष्यसि।

न भविष्याम्यहमपि वद किं मयका नरनाथ करिष्यसि॥

न मनो मे रतिमेति।

इदमनित्यमध्रुवं शून्यमिति पश्यद् विरतिमुपैति॥अ॥


अजरमिदं न, सदातुरमेतं क्षणभंगुरं शरीरम्।

जगत् कलिमलं वीक्ष्य मदीयं चित्तं जातमधीरम्॥

न मनो मे रतिमेति।

इदमनित्यमध्रुवं शून्यमिति पश्यद् विरतिमुपैति॥आ॥


(48)


अद्य न यदि श्वस्तने भविष्यति विरहो मृत्युवशेन।

अलं क्षणस्थितिकेन तात विषयामिषमद्यरसेन॥

न मनो मे रतिमेति।

इदमनित्यमध्रुवं शून्यमिति पश्यद् विरतिमुपैति॥इ॥


रोगो नेष्यति यमक्षयं युद्धे वा नंक्ष्यति कायः।

हा लप्स्यते न किंचिल्लोके कोऽपि च नात्र सहायः॥

न मनो मे रतिमेति।

इदमनित्यमध्रुवं शून्यमिति पश्यद् विरतिमुपैति॥ई॥


यौवनमिदं गमिष्यति शीघ्रं भविष्यामि बलहीनः।

करिष्यामि किं तात तदा जरया परिभूतो दीनः॥

न मनो मे रतिमेति।

इदमनित्यमध्रुवं शून्यमिति पश्यद् विरतिमुपैति॥उ॥


का धर्मार्थकथा श्वसितुं न शरीरं यदा समर्थम्।

धर्मार्थयोरयं मम कालं करवाणि स्वमनोऽर्थम्॥


(49)


न मनो मे रतिमेति।

इदमनित्यमध्रुवं शून्यमिति पश्यद् विरतिमुपैति॥ऊ॥


अर्थेन तु बहुकलिना हिंसापरेण नास्ति ममार्थः।

स्वार्थः शमप्रधानो धर्मः शमकामोऽस्मि शमार्थः॥

न मनो मे रतिमेति।

इदमनित्यमध्रुवं शून्यमिति पश्यद् विरतिमुपैति॥ऋ॥


परिविव्रजिषति चित्तमिदं धर्माय तपोवनमेतुम्।

अनुजानीहि धर्मचरणार्थं स्मरसैन्यानि विजेतुम्॥

न मनो मे रतिमेति।

इदमनित्यमध्रुवं शून्यमिति पश्यद् विरतिमुपैति॥ॠ॥


सिद्धार्थस्य वचो निशम्य नृपतिर्वाष्पाम्बुपूर्णेक्षणो

धर्मे तस्य मतिं विलोक्य सुदृढां संचिन्त्य दुःखं वने।

पुत्रस्नेहममत्वपूर्णहृदयो रोद्धुं गृहेष्वात्मजं

वेदार्थोपसमन्वितं गदितवान्निर्वेदशान्त्यै वचः॥ ४८॥


(50)


उक्तं सत्यमिदं त्वयात्र सकलं किचिन्न नित्यं जने

कर्तव्यं तु तथाप्यवश्यमुचितं यत्पूर्वजैरादृतम्।

कौमारेऽध्ययनं ततो नवयुवस्याप्ते वधूसंग्रहो

गार्हस्थ्ये तु कुलानुसारि चरणं धर्मार्थमन्ते तपः॥ ४९॥


नायं ते समयो वनोपगमने दोषाढ्यमेतद् वयो

भोगार्हस्य गृहान् विसृज्य विपिनाद् व्यावर्तनं गर्हितम्।

मा गाः सम्प्रति वर्तते तव बहुः कालोऽत्र कर्तुं तपो

निर्दिश्यैवममुं जगाद नृपतिर्मोदस्व गत्वा गृहान्॥ ५०॥


इति शान्तिभिक्षुशास्त्रिविरचिते श्रीबुद्धोदयकाव्ये

वनविहाराभिधानः

पंचमः प्रसंगः॥


(51)


षष्ठः प्रसंगः


अभिनिष्क्रमणम्


गंभीरं हृदि भावयामि नितरां यद्यच्छमायोचितं

कश्चिद् राजकुले मुहूर्तमपि तत्स्वप्नेऽपि नोद्वीक्षते।

राजा चापि निवृत्तिमार्गविमुखो नित्यं प्रवृत्ती रतो।

मत्वा मां शिशुमेव शास्ति विपुलक्रीडोपचारक्रमम्॥ ५१॥


इत्येवं हृदये विचिन्तनपरं कृत्यं दिनान्तोचितं

संध्यावंदनभोजनादिसकलं कृत्वाथ लब्धक्षणम्।

श्रोत्रावन्दनगीतवाद्यरवभृद् रम्यं विमानं गतं

सुन्दर्यः स्मितनेत्रचारुवदनास्तं हर्षयन्त्यो जगुः॥ ५२॥


वामलोचन्यः


त्वयि सति भवनमिदं प्रविभाति तिरस्कुरुते सुरसदनम्।

त्वमिह यत्र विहरसि वनमपि तद् भवति नगरमदशमनम्।

रूपे मदनमानमर्दनकरकनकगौरतनुधारी।

त्वं जय निरालंबसुखपरिचितहृदयारामविहारी॥अ॥


(52)


बहुजनसंकुलमपि गृहमेतच्छून्य-शून्यमिव भाति।

क्षणमपि तवादर्शने चेतो विरहरुजामुपयाति।

रूपे मदनमानमर्दनकरकनकगौरतनुधारी।

त्वं जय निरालंबसुखपरिचितहृदयारामविहारी॥ आ॥


त्वं जीवनं त्वमेव प्राणस्त्वामेवाभिलषामः।

सदा रमस्व सहास्माभिस्त्वामेव यथोपचरामः॥

रूपे मदनमानमर्दनकरकनकगौरतनुधारी।

त्वं जय निरालंबसुखपरिचितहृदयारामविहारी॥ इ॥


एते शुकाः सारिका एता यदा बहिस्त्वं यासि।

क्व कुमारेति रटन्त्यविरामं यावन्नैवायासि॥

रूपे मदनमानमर्दनकरकनकगौरतनुधारी।

त्वं जय निरालंबसुखपरिचितहृदयारामविहारी॥ ई॥


(53)


पक्ष्मपातमपि निजेच्छया दर्शने दृशौ न लभेते।

यदृच्छयैवोन्मेषनिमेषौ तयोः समुपजायेते॥

रूपे मदनमानमर्दनकरकनकगौरतनुधारी।

त्वं जय निरालंबसुखपरिचितहृदयारामविहारी॥ उ॥


वनमुपगतो विनोदयितुं त्वं चित्तं जना वदन्ति।

लताविटपखगमृगादयो किं प्रमदवने नहि सन्ति॥

रूपे मदनमानमर्दनकरकनकगौरतनुधारी।

त्वं जय निरालंबसुखपरिचितहृदयारामविहारी॥ ऊ॥


गच्छेर्बहिः पुनर्नेतव्या वयमपि तदा सहैव।

गन्तव्यं नान्यथा बहिः स्थातव्यं सततमिहैव॥

रूपे मदनमानमर्दनकरकनकगौरतनुधारी।

त्वं जय निरालंबसुखपरिचितहृदयारामविहारी॥ ऋ॥


(54)


त्वय्येवास्माकं तिष्ठन्ति सदा प्राणास्त्वं प्रेयान्।

एकाकी त्वं यासि बहिर्विधिरेष न सत्यं श्रेयान्॥

रूपे मदनमानमर्दनकरकनकगौरतनुधारी।

त्वं जय निरालंबसुखपरिचितहृदयारामविहारी॥ॠ॥


श्रुत्वा प्रेमभरार्द्रवाङ्मयमिदं  शाक्यांगनाभाषितं

स्नेहार्द्रः करुणामतिर्नृपसुतः किंचिद् बभूवोन्मनाः।

रौक्ष्यान्नैव जिहासति स्म स किलात्मीयानरण्योन्मुखः

प्राप्तुं किं तु महान्तमेव महते शश्वद् दधानो मनः॥ ५३॥


अध्यासीनमिमं मृदुस्तरमयं पर्यंकमंगश्रिया

व्याकर्षन्तमचेतसामपि मनः कारुण्यभावाढ्यया।

नृत्यैः साभिनयैः सतूर्यमधुरोद्गीतैः पदैरंगनाः

सौहार्दादुचितोपचारविधिभिश्चेतोविनोदं व्यधुः॥५४॥


संगीतादपरांमुखोऽपि हृदये चिन्तापरोऽसौ युवा

नृत्यन्तीष्वपि तासु वामनयनास्वायोगनिद्रामगात्।

तस्मिन् सुप्तवति प्रसुप्तमखिलं शोभाढ्यमन्तःपुरं

काये किन्तु जुगुप्सित बहुतरं यज्जागरामास तत्॥५५॥


(55)


दृष्टास्ताः प्रतिबुध्य मंजुवसनां क्षिप्ताः श्मशाने यथा

चेष्टाभिर्विकृतिं गता विददधोः प्रेतांगनाविभ्रमम्।

निर्यातो विपिनं विलोक्य ससुतां गोपां शयानामसौ

रात्रौ छन्दककन्थकोपकरणो देवद्वितीयः पुरात्॥ ५६॥


संप्राप्तोऽनवमां प्रभातसमये प्रव्रज्य सूर्योदये

तस्माच्चारिकया विधातुमवनिं पादांकितां सर्वतः।

साश्वच्छन्दनिवर्तने कृतमतिर्दातुं निजं वाचिकं

स्नेहाढ्याय जनाय धीरमवदद् धीमान् नवीनो मुनिः॥५७॥


मुनिवरः


विरसहृदयं न मे यद्भवनमत्यजम्।

तत्र तन्नास्ति यद् वश्मि तेनात्यजत्॥

यामि शरणमेवाप्तुम्।

यत्र मिथोवंचना न तं धर्मवरमनुसंधातुम्॥ अ॥


(56)


द्रष्टुमिच्छामि जनं सद्धनं सज्जनम्।

दुर्जनाच्चिन्तयाम्युत्तमं निर्जनम्॥

यामि शरणमेवाप्तुम्।

यत्र मिथोवंचना न तं धर्मवरमनुसंधातुम्॥आ॥


सूनृतं भाषितं श्रोतुमिच्छाम्यहम्।

नैव कौटिल्यमनुसर्तुमिच्छाम्यहम्॥

यामि शरणमेवाप्तुम्।

यत्र मिथोवंचना न तं धर्मवरमनुसंधातुम्॥ इ॥


युद्धवधबन्धनं यत्र खलु वर्तते।

तत्र दुर्भावना हिंसया वर्धते॥

यामि शरणमेवाप्तुम्।

यत्र मिथोवंचना न तं धर्म वरमनुसंधातुम्॥ ई॥


(57)


जन्मना विप्रता नापि नो शूद्रता।

कर्मणाभीप्सिता यदि चात्र विप्रता॥

यामि शरणमेवाप्तुम्।

यत्र मिथोवंचना न तं धर्मवरमनुसंधातुम्॥ उ॥


आनृशंस्येन वर्ततां संप्रवर्तताम्।

निश्छलं हिताय जनो जनमनुवर्तताम्॥

यामि शरणमेवाप्तुम्।

यत्र मिथोवंचना न तं धर्मवरमनुसंधातुम्॥ ऊ॥


द्वीपं सर्वकुशलं विगतसर्वपापकम्।

स्रष्टुं शुद्धचित्तं यामि तपसेऽसहायकम्॥

यामि शरणमेवाप्तुम्।

यत्र मिथोवंचना न तं धर्मवरमनुसंधातुम्॥ ऋ॥


तत्त्वमुपलभ्य पुरमागमिष्याम्यहम्।

साधय स्वस्ति ते हन्त साधयाम्यहम्॥

यामि शरणमेवाप्तुम्।

यत्र मिथोवंचना न तं धर्मवरमनुसंधातुम्॥ ॠ॥


(58)


संदिश्यैवममुं निवर्त्य सहयं शोकाकुलं निर्गतश्

छन्दोऽप्यश्वसहायकः प्रविशति स्मानन्दहीनं पुरम्।

दृष्ट्वार्तं सगणं नृपं नृपवधूगोपासमेतं जगौ

कर्तुं शोकविनोदनं दृढमतिर्यन्ता विनम्रं वचः॥ ५८॥


सारथिः


कामिजनो चितवे शस्त्यक्तः।

सकलो गणः सततमनुरक्तः॥

त्यक्तो जनः सतातः।

बहुगुणमन्वेष्टुं निर्यातः॥ अ॥


पुनरायास्यति लब्ध्वा कुशलम्।

अभयं व्युपशमफलमतिविमलम्॥

त्यक्तो जनः सतातः।

बहुगुणमन्वेष्टुं निर्यातः॥ आ॥


(59)


तस्य बुद्धिबलवीर्यमविचलम्।

ध्रुवमीप्सितं विधाता सफलम्॥

त्यक्तो जनः सतातः।

बहुगुणमन्वेष्टुं निर्यातः॥इ॥


कर्तुमशोकं जनं हितैषी।

यातः किं कुशलैकगवेषी॥

त्यक्तो जनः सतातः।

बहुगुणमन्वेष्टुं निर्यातः॥ ई॥


भयं न तस्य स भवभयहारी।

भवनवदेव स वने विहारी॥

त्यक्तो जनः सतातः।

बहुगुणमन्वेष्टुं निर्यातः॥ उ॥


तिर्यंचोऽपि विदधते प्रीतिम्।

क्षुद्रभावरहितां गतभीतिम्॥

त्यक्तो जनः सतातः।

बहुगुणमन्वेष्टुं निर्यातः॥ ऊ॥


(60)


तस्य कृते चिन्ता कास्माकम्।

स च चिन्तकः सदैवास्मकम्॥

त्यक्तो जनः सतातः।

बहुगुणमन्वेष्टुं निर्यातः॥ ऋ॥


चिन्तामणिपलब्धुं याताः।

चिन्तामणिमानेतुं यातः॥

त्यक्तो जनः सतातः।

बहुगुणमन्वेष्टुं निर्यातः॥ॠ॥


यत्रैवं प्रतिबोधितः शुभमतेः संकाममानः शुभं

किंचित् स्वास्थ्यमुपाश्रितो गणयुतो भूभृत् सभार्यस्नुषः।

द्रष्टुं तं पुनरागतं निजसुतं संप्राप्ततत्त्वामृतं

राज्यस्थोऽपि वनीव नित्यमचरद् गोपामनः शान्तये॥ ५९॥


हित्वा राज्यमुपाश्रिताय विपिनं शान्तौ मनः कुर्वते

गत्वा लोकविविक्तमाश्रमपदं तत्त्वं मुनीन् पृज्छते।

दृष्ट्वाराडमथोड्रकं मुनिवरं ध्यानाब्धिपारं यतेः

संयुक्ताय च पंचवर्गयतिभिस्तप्तुं परस्ते नमः॥ ६०॥


(61)


इति शान्तिभिक्षुशास्त्रिविरचिते श्रीबुद्धोदयकाव्ये

अभिनिष्क्रमणाभिधानः

षष्ठः प्रसंगः॥


(62)


सप्तमः सर्गः


तपश्चरणम्


निष्क्रान्तः स्वगणं विसृज्य ससुतां भर्यां गृहाद् गौतमो

राज्यार्धेन निमंत्रितोऽपि मगधाधीशेन नीरागवान्।

प्राप्तुं तत्त्वमुपागतो वनमिदं चर्यां चिकीर्षन् पराम्

इत्येषा प्रसृता प्रवृत्तिरखिलां व्याप्योरुविल्वां जने॥६१॥


सेनानीतनुजोपलभ्य सकलं वृत्तं सुजाता जनैर्

पुण्यैः पावयितुं निजं नवमुनेः सेवाविधानोत्थितैः।

कृत्वा कृच्छ्रतपः परामपचितिं नेनीयमानं तनूम्

अन्याभिश्च कुमारिकाभिरुपसृत्यैनं जगौ सांजलिः॥६२॥


सुजाता


इह वस निजचर्यया विधेहि ग्रामान् अतिप्रणीतान्।

तव चरणांकनलब्धवैभवान् पूजास्पदमुपनीतान्॥

इयं वनी सल्लयनसमीरा।

नैरंजना सुतीर्थास्माकमुपग्रामं शुभनीरा॥ अ॥


(63)


प्रसृतं यशस्तवातिनिर्मलं सेवां जनः करिष्यति।

तपसे यदपेक्षितं वस्तु तत्सकलं समाहरिष्यति॥

इयं वनी सल्लयनसमीरा।

नैरंजना सुतीर्थास्माकमुपग्रामं शुभनीरा॥आ॥


तरवः सलताः सघनच्छाया यथाकालफलवन्तः।

उटजं विधास्यन्ति गोपाला गुणवति प्रत्ययवन्तः॥

इयं वनी सल्लयनसमीरा।

नैरंजना सुतीर्थास्माकमुपग्रामं शुभनीरा॥इ॥


गोचरभूमिमया वनभागा हिंसमृगैरवहीनाः।

शुभैः खगमृगैः परिपूर्णा ग्रीष्मेऽपि दवदहनहीनाः॥

इयं वनी सल्लयनसमीरा।

नैरंजना सुतीर्थास्माकमुपग्रामं शुभनीरा॥ ई॥


(64)


दिवसे सगोगणा गोपानां बालबालिका वन्याः।

शाद्वले हि दृश्यन्ते गहने काष्ठहारिकाः कन्याः॥

इयं वनी सल्लयनसमीरा।

नैरंजना सुतीर्थास्माकमुपग्रामं शुभनीरा॥उ॥


किमपि भयं न, करिष्यति कोऽपि न पीडामिह चरतस्ते।

अहो भाग्यमिदमस्माकं करवाम सदैव नमस्ते॥

इयं वनी सल्लयनसमीरा।

नैरंजना सुतीर्थास्माकमुपग्रामं शुभनीरा॥ ऊ॥


एकान्तः सुलभस्ते कर्तुं तपो विधातुं ध्यानम्।

विहर ययेच्छं विचर सदेदं विघ्नविहीनं स्थानम्॥

इयं वनी सल्लयनसमीरा।

नैरंजना सुतीर्थास्माकमुपग्रामं शुभनीरा॥ऋ॥


भवतु समायान्तीनां सुलभं तव दर्शनस्माकम्।

सेवां कर्तुं तथा वन्दनां यथाक्षणं युष्माकम्॥

इयं वनी सल्लयनसमीरा।

नैरंजना सुतीर्थास्माकमुपग्रामं शुभनीरा॥ॠ॥


(65)


मौनेनैव कृतां मुनेरनुमतिं ज्ञात्वा सुजाता क्षणं

संसेव्यादरतो मुनिं गतवती नत्वा समं पंचभिः।

एनामेव वनस्थलीं श्रितवतो मे तत्त्वसिद्धिर्भवेद्

इत्येवं हृदयेऽवधार्य विविधं तेपे तपः षड् हिमाः॥ ६३॥


दौर्बल्यादतिमूर्छितोऽपि मरणासन्नोऽपि तप्त्वा तपस्

तत्त्वं नाध्यगमन्न चेदमयनं तत्त्वार्थमित्यैक्षत॥

कायस्वास्थ्यमवाप्तुमादृतवतः स्थूलान्नमस्यान्तिकात्

ते पंचाप्यपसर्तुरेवमवमं संचिन्तयन्तोऽन्यतः॥ ६४॥


पंचवर्गीयः


त्यक्तं राज्यं त्यक्ता दाराः।

स्वजनाः शाक्याः सपरीवाराः॥

तपः कुर्वता नाप्तम्।

भुक्तवता कथमनेन तत्त्वामृतमिह भवेदवाप्तम्॥ अ॥


त्यक्तोऽराडमुनिर्मुनिवीरः।

उड्रकोऽपि ध्याने गंभीरः॥


(66)


तपः कुर्वता नाप्तम्।

भुक्तवता कथमनेन तत्त्वामृतमिह भवेदवाप्तम्॥ आ॥


त्यक्तो बिंबिसारभूभर्ता।

राज्यार्धस्योपायनकर्ता॥

तपः कुर्वता नाप्तम्।

भुक्तवता कथमनेन तत्त्वामृतमिह भवेदवाप्तम्॥ इ॥


त्यक्तो ग्रामो वनमायातः।

तप्तुं तपो विजनमायातः॥

तपः कुर्वता नाप्तम्।

भुक्तवता कथमनेन तत्त्वामृतमिह भवेदवाप्तम्॥ ई॥


त्यक्तः संगः, स्वात्मनि लीनः।

त्यक्तः स्थूलाहारः, क्षीणः॥

तपः कुर्वता नाप्तम्।

भुक्तवता कथमनेन तत्त्वामृतमिह भवेदवाप्तम्॥उ॥


तपःक्षीणतनुरपि तेजस्वी।

तत्त्वं नाधिजगाम मनस्वी॥

तपः कुर्वता नाप्तम्।

भुक्तवता कथमनेन तत्त्वामृतमिह भवेदवाप्तम्॥ऊ॥


(67)


त्यक्तं तपोऽपि तेनेदानीम्।

सेत्स्यति न किमपि तत्त्वमिदानीम्॥

तपः कुर्वता नाप्तम्।

भुक्तवता कथमनेन तत्त्वामृतमिह भवेदवाप्तम्॥ऋ॥


वयमस्माद् अन्यतो व्रजामः।

वयमस्माद् अन्यतो वसामः॥

तपः कुर्वता नाप्तम्।

भुक्तवता कथमनेन तत्त्वामृतमिह भवेदवाप्तम्॥ॠ॥


एवं तेषु गतेषु गौतममुनिर्वीर्यद्वितीयो वसत्

स्थूलाहारपरायणो निजबलं लेभे तनोः पूर्ववत्।

तं दृष्ट्वा नयनाभिराममतनोः कान्तिं क्षिपन्तं श्रिया

लोकैस्तत्र महानसौ श्रमण इत्याख्या नवीना कृता॥ ६५॥


हित्वा कृच्छ्रतपः समाधिपरमे भिक्षाश्रयिणयागता

वैशाखी परिपूर्णचन्द्रवदना चेतो मुदं तन्वती।

कृत्वा पायसमत्युदारमसमं तेनासमं गौतमं

भिक्षार्थं विचरन्तमाप्य भवनं नीत्वा सुजतार्चयत्॥ ६६॥


(68)


सेनानी-तनुजाऽसमा जनपदे कालोऽसमो माधवः

पात्रे स्वर्णमयेऽसमं धृतमिदं भोज्यं मदर्थे कृतम्।

भोज्यं पायसमुत्युदारमसमं पूजाऽसमा संस्कृता

भुक्त्वा चैतदवाप्स्यतेऽसमपदं तेनाद्य नो संशयः॥ ६७॥


इत्येवं हृदये विचिन्त्य कुशलां बद्धांजलिं संनतां

कल्याणीं ददतीं हविष्यमतुलं कल्याणकामां शुभाम्।

तस्याः पूर्वतनीं कृतां बहुविधां पूजां च चित्ते स्मरन्

तां पुण्यैर्वचनैश्चकार मुदितां सर्वात्मना गौतमः॥६८॥


महाश्रमणः


तव पूजा सुफलाय भवित्री।

तव पूजा कुशलाय भवित्री॥

अमृतोपममुपनीतम्।

अमृतमवाप्तव्यं भुक्त्वेदं विमतं मे व्यपनीतम्॥अ॥


(69)


मम मंगलकामा शुभकामा।

त्वमसि भव त्वं सफलितकामा॥

अमृतोपममुपनीतम्।

अमृतमवाप्तव्यं भुक्त्वेदं विमतं मे व्यपनीतम्॥आ॥


मम धर्मे त्वं परमसहाया।

मम कुशले त्वं परमसहाया।

अमृतोपममुपनीतम्।

अमृतमवाप्तव्यं भुक्त्वेदं विमतं मे व्यपनीतम्॥इ॥


पंचापि च मे गताः सहाया।

स्वसृभिस् त्वं मे स्थिता सहाया॥

अमृतोपममुपनीतम्।

अमृतमवाप्तव्यं भुक्त्वेदं विमतं मे व्यपनीतम्॥ई॥


दुष्करचर्यायां संदेह-

गतमपालयं त्वयका देहम्॥

अमृतोपममुपनीतम्।

अमृतमवाप्तव्यं भुक्त्वेदं विमतं मे व्यपनीतम्॥उ॥


(70)


धृता इमे तव यूषैः प्राणाः।

स्थिता इमे तव यूषैः प्राणाः॥

अमृतोपममुपनीतम्।

अमृतमवाप्तव्यं भुक्त्वेदं विमतं मे व्यपनीतम्॥ऊ॥


कृच्छ्रे तपसि रूपमपयातम्।

तव सेवया पुनस्तत् प्राप्तम्॥

अमृतोपममुपनीतम्।

अमृतमवाप्तव्यं भुक्त्वेदं विमतं मे व्यपनीतम्॥ऋ॥


अद्य तवान्नबलेन विजेष्ये।

अहं मारमपि वशीकरिष्ये॥

अमृतोपममुपनीतम्।

अमृतमवाप्तव्यं भुक्त्वेदं विमतं मे व्यपनीतम्॥ॠ॥


इत्युक्त्वा परमान्नपात्रममलं हस्ते गृहीत्वा मुनि-

र्नद्यास्तीरमुपैत्य हृष्टमनसा भुंक्ते स्म तत्पायसम्।

भुक्त्वा पूर्णबलं शरीरमनसोर्लब्ध्वा प्रसन्नान्तरः

पात्रं स्वर्णमयं गतार्थमिति तन्नद्याः प्रवाहेऽक्षिपत्॥ ६९॥


(71)


तिष्ठन्तीमतिभक्तिभावपरमां विभ्राजमानां गुणै

र्भुक्त्वा धर्मकथामुखेन कृतवान् हृष्टां सुजातां तटे।

एका तं प्रणिपत्य सादरमगात् क्षिप्रं गृहानात्मनो

धीरोऽन्यश्च मृगेन्द्रखेलगमनो बोधिद्रुमं प्रस्थितः॥ ७०॥


इति शान्तिभिक्षुशास्त्रिविरचिते श्रीबुद्धोदयकाव्ये

तपश्चरणाभिधानः

सप्तमः प्रसंगः॥


(72)


अष्टमः प्रसंगः


माराविजयः


आस्तीर्यासनमादरादुपनतैः श्रीमत्तृणैः स्वस्तिकात्

पर्यकं श्रमणो बबन्ध निबिडं बोधिद्रुमे बोधये।

ब्रह्माद्या जहृषुस्तदा सुमनसो मोदाच्चकम्पे मही

मारः खिन्नमनाः पुरापि तपसस्तस्याद्य चक्रे रुषम्॥ ७१॥


रत्या सार्धमुपागतं द्रुमतले वामांगनाभिर्वृतं

व्याप्तं शस्त्रकरैः करालवदनैः सत्त्वैर्भयोत्पादकैः।

कर्तुं भीष्ममुपद्रवं बहुविधं बोध्युद्यतस्योद्यतं

शान्ता मारममुं सुराः शमयितुं क्रोधान्धमेवं जगुः॥ ७२॥


सुराः


न हि नितम्बिनी कापि करोति शिशोश्चेतस्युन्मादम्।

किन्तु शिशुः प्रभवति कर्तुं युवतीजनमनःप्रसादम्॥

विरमास्माद् व्यवसायात्।

मार, कामहिंसाभ्यां सहितादतिकुत्सितादुपायात्॥ अ॥


(73)


एतं मारकन्यकाः दृष्ट्वा मदन लभेरन् भावम्।

स्वयं व्रीडिता रूपेणास्य न जनयेयुः स्मर, हावम्॥

विरमास्माद् व्यवसायात्।

मार, कामहिंसाभ्यां सहिताद् अतिकुत्सितादुपायात्॥आ॥


तमुपलब्धुमेताः शंके दिव्यांगरागमपि जहतीः।

भस्मधूसरा विचरिष्यन्ति तपः कर्माणि विदधतीः॥

विरमास्माद् व्यवसायात्।

मार, कामहिंसाभ्यां सहिताद् अतिकुत्सितादुपायात्॥इ॥


तद्रूपासक्ताः पूर्वं पश्चात्तमाराधयितुम्।

त्वां विहाय यास्यन्ति शरणमेतस्य शुभं साधयितुम्॥

विरमास्माद् व्यवसायात्।

मार, कामहिंसाभ्यां सहिताद् अतिकुत्सितादुपायात्॥ई॥


एवं निष्परिवारो भविता, त्वां तस्मै दहयन्तम्।

रतिरपि यास्यति हित्वा, तं परिपूजयितुं मतिमन्तम्॥


(74)


विरमास्माद् व्यवसायात्।

मार, कामहिंसाभ्यां सहिताद् अतिकुत्सितादुपायात्॥उ॥


हिंस्राः सत्त्वा इमे निरर्थाः किं कर्तुं प्रभवेयुः।

सौम्यभावमुपागच्छेयुस्तत्सविधे चेद् गच्छेयुः॥

विरमास्माद् व्यवसायात्।

मार, कामहिंसाभ्यां सहिताद् अतिकुत्सितादुपायात्॥ऊ॥


कुसुमशरैः किं त्वमपि करिष्यसि वद कीदृशमाघातम्।

गच्छ गृहीत्वा कुसुमानि त्वं कुरु तस्मै प्रणिपातम्॥

विरमास्माद् व्यवसायात्।

मार, कामहिंसाभ्यां सहिताद् अतिकुत्सितादुपायात्॥ऋ॥


सकलकामनाहीनं हिंसाविरतं सुकृतद्वारम्।

सानुक्रोशः सन्नुपेहि तं भज भज वारं वारम्॥

विरमास्माद् व्यवसायात्।

मार, कामहिंसाभ्यां सहिताद् अतिकुत्सितादुपायात्॥ॠ॥


इत्येवं प्रतिबोधितोऽपि कुपितः पुष्पेषुसंघं क्षिपन्

दिव्यास्ता लडितैरपि प्रमथितुं चेतोऽस्य कन्या नुदन्।


(75)


हिंस्रैः सत्त्वगणैर्मुहुर्मुहुरिमं रात्रौ तथा भाययन्

अन्ते क्षीण इव क्षमां विनिपतन् रत्या कराभ्यां धृतः॥ ७३॥


दृष्ट्वा निर्जितमात्मयोनिमजिताप्यद्घा स्वयं निर्जिता

व्यालोक्यैव विकम्पमानमतनुं त्रस्ता भयात्कम्पिता।

संज्ञां कांचिदुपेतमैक्ष्य मदनं संज्ञामवाप्ता रति

र्नत्वा बोधिपरं सवाष्पपुलका धीरं ह्यधोरा जगौ॥ ७४॥


रतिः


त्वं शरणं शरणं वचनं ते शरणं शरणमुपेताः।

क्लेशहरेण गुणेन गिरस्ते सामग्र्येण समेता॥

जय हे धर्मनिधे।

जय जय शान्तिमते करुणाकर कुशल-क्षेमविधे॥अ॥


किं वाचा मौनेन दिशसि यत् तेन वयं परितुष्टाः।

संप्रति लब्धं महाधनं पूर्व केवलं प्रमुष्टाः॥

जय हे धर्मनिधे।

जय जय शान्तिमते करुणाकर कुशल-क्षेमविधे॥ आ॥


(76)


त्वं रत्नं भुवनस्य वयं त्वयकैव जनेषु सरत्नाः।

आराधयितुमेव रत्नं त्वां वयं सदैव सयत्नाः॥

जय हे धर्मनिधे।

जय जय शान्तिमते करुणाकर कुशल-क्षेमविधे॥इ॥


हे कारुणिक विलोक्य दृशा करुणयास्मान् क्षणमेकम्।

सफलय सुकृतमेव कृतमेकं विफलय कुकृतमनेकम्।

जय हे धर्मनिधे।

जय जय शान्तिमते करुणाकर कुशल-क्षेमविधे॥ई॥


अपराधोऽपि कृतोऽस्माभिस्ते तनुतां नाथ विनोदम्।

बालबालिकादुर्विलसितमपि कुरुते पित्रोर्मोदम्॥

जय हे धर्मनिधे।

जय जय शान्तिमते करुणाकर कुशल-क्षेमविधे॥उ॥


असुभाषितमप्यस्माकं जनयेन्नहि ते संतापम्।

न हि खद्योतातपः कदापि ज्वरयति कृत्वा तापम्॥


(77)


जय हे धर्मनिधे।

जय जय शान्तिमते करुणाकर कुशल-क्षेमविधे॥ऊ॥


यत् क्रीडया कुचेष्टितमेतत्तदप्यस्तु हर्षाय।

कुरुते यथा निदाघोपद्रव इह धारावर्षाय॥

जय हे धर्मनिधे।

जय जय शान्तिमते करुणाकर कुशल-क्षेमविधे॥ऋ॥


सांजलिरयं नमस्कारस्ते कृतो हरतु नः पापम्।

जनयतु पुण्यं सुखसमृद्धिकरमपनेतुं संतापम्॥

जय हे धर्मनिधे।

जय जय शान्तिमते करुणाकर कुशल-क्षेमविधे॥ॠ॥


नत्वा बोधिमतिं सदर्पकभटा मारांगनाभिर्वृता

रोषोन्मुक्तमनोभवा धृतकरा याता रतिर्लज्जया।

ब्रह्माद्यैरभिनन्दितो द्रुमतले माराभिभूः केवलो

निर्विघ्नो हृदिभावनाभिनिरतस्तस्थौ स संबोधये॥७५॥


(78)


पूर्वां जन्मपरम्परामवजगामादौ त्रियामामुखे

निश्चिक्ये तदिदं जगत् समनुजं संसारशीलाध्रुवम्।

दृष्ट्वा जन्मजराविपत्तिमरणान् सत्त्वान् दृशा दिव्यया

सर्वं दुःखमिति प्रमामधिजगे यामे निशामध्यमे॥ ७६॥


दुःखं जन्मफलं जनिर्भवकृतोपादानतोऽयं भवस्

तृष्णा चेत् समुपाददाति विषयान् तृड् वेदनासंभवा।

वित्तिः स्पर्शवशात् षडायतनतस्तन्नामरूपोद्गतं

तद्विज्ञानभवं पुनः पुनरिदं संस्कारतोऽविद्यया॥ ७७॥


सर्वा दुःखपरम्परा जनिमतामेवं समावर्तते

साविद्याप्रतिरोधतः खलु भवेत् पूर्णं परावर्तिता।

नात्मा वस्तुतयात्र वित्तिरखिला नैकाश्रयाथो कृतिः

स्कन्धानां परिवर्तनैव यदसावात्मा यदेतज्जगत्॥ ७८॥


मार्गो दुःखपरम्परापहतयेऽभ्यस्तोऽसहायेन यो

भोगक्लेशविवर्जितः स गुणवान् योगक्षमो मध्यमः।


(79)


यात्मानात्मविवर्जिता च तथता लब्धा मया साधुना

याता रात्रिरयं प्रभाकृदुदितः बुद्धोऽस्म्यहं सांप्रतम्॥ ७९॥


बुद्धः


दुःखे दुःखसमुदये दुःखनिरोधे मार्गे दृष्टिः।

यस्य यथार्थज्ञानवती तस्मिन् नित्या सुखवृष्टिः॥

बोधिरबोधि विशुद्धा।

दुःखानां या परम्परा सा सकलैवाद्य निरुद्धा॥ अ॥


नैष्काम्येन समेतो हिंसाव्यापादने वियुक्तः।

यस्य भवति नित्यं संकल्पः स भवति दुःखविमुक्तः॥

बोधिरबोधि विशुद्धा।

दुःखानां या परम्परा सा सकलैवाद्य निरुद्धा॥आ॥


मृषापरुषसंभिन्नपिशुनवादाद् योऽस्ति प्रतिविरतः।

वचनं सम्यक् तस्य जायते मोदस्तस्याविरतः॥

बोधिरबोधि विशुद्धा।

दुःखानां या परम्परा सा सकलैवाद्य निरुद्धा॥इ॥


(80)


प्राणघातपरवस्तुहरणकामापचारदुष्कृत्यम्।

यो न करोति सुखं तस्यैव कृतं तस्यैव सुकृत्यम्॥

बोधिरबोधि विशुद्धा।

दुःखानां या परम्परा सा सकलैवाद्य निरुद्धा॥ई॥


हिंसा येन जायते तं न च कुरुते यो व्यवहारम्।

मद्यशस्त्रपशुसूनाविरताद् विरतो याति स पारम्॥

बोधिरबोधि विशुद्धा।

दुःखानां या परम्परा सा सकलैवाद्य निरुद्धा॥उ॥


कुशले यः सम्यग्व्यायामं कुशलाधिक्यं कुरुते।

स सुखी मतिर्न यस्याकुशले योऽकुशलं परिहरते॥

बोधिरबोधि विशुद्धा।

दुःखानां या परम्परा सा सकलैवाद्य निरुद्धा॥ऊ॥


मलिने देहे सुखदुःखयोर्न यो मूर्छितः सुयुक्तः।

कायेन्द्रियचित्तयोः सदोद्धतयोर्न वशे स विमुक्तः॥


(81)


बोधिरबोधि विशुद्धा।

दुःखानां या परम्परा सा सकलैवाद्य निरुद्धा॥ऋ॥


एकाग्रं कुरुते यश् चित्तं मैत्रीकरुणायुक्तम्।

स च जागर्ति स्वपिति सुखं पदमेति च दुःखविमुक्तम्॥

बोधिरबोधि विशुद्धा।

दुःखानां या परम्परा सा सकलैवाद्य निरुद्धा॥ॠ॥


मार्गं भावयते विमुक्तमनसे कारुण्यचर्यावते

भिक्षायां मधु भल्लिकत्रपुषयोर्दत्तं शुभं गृह्णते।

याच्ञां ब्रह्मकृतां प्रवक्तुममृतं मञ्जूररीकुर्वते

बुद्धश्रीविजितोपकाय चरते बुद्धाय कुर्मो नमः॥ ८०॥


इति शान्तिभिक्षुशास्त्रिविरचिते श्रीबुद्धोदयकाव्ये

माराविजयाभिधानोऽष्टमः

प्रसंगः॥


(82)


नवमः प्रसंगः


संघप्रतिष्ठापनम्


आषाढ्यां प्रविवर्तयन् मृगवने धर्मस्य चक्रं जिनः

सम्यक् सत्यचतुष्टये विधृतवान् कौण्डिन्यमुख्यान् मुनीन्।

काश्यां पंचमुनेर्गणः स्मरजिता योऽयं प्रतिष्ठापितो

लोकानां हितसौख्यकृत् स ववृधे सामग्र्यभावोन्मुखः॥ ८१॥


धर्मो जातिविवेचनं न कुरुते धर्मो गुणानीक्षते

धर्मेणार्यगतिं जनोऽत्र लभते यो धर्मवान् स द्विजः।

धर्मो भेदमपोह्य मानवगणान् एकान्वयं लम्भयन्

उद्भुतः सुगताश्रयो दिशि दिशीत्याकर्णितोऽभूद् रवः॥ ८२॥


धर्मो ब्राह्मणशूद्रकैरधिगतो हीनोत्तमैर्मध्यमैर्

लोकैः पीतसितासितैर्विविधवाक्वर्णाकृतिभ्राजितैः॥


(83)


सर्वे तेऽन्तरतो दयालुमनसोऽन्यान्योपकारे रताः

स्वल्पं भुक्तिकृतोऽपि मुक्पिरमा बोधिं श्रिताः सर्वशः॥ ८३॥


संघो धर्मपरायणो जिनसुतोऽनागारिको निःस्पृहो

भिक्षावृत्तिरिह त्रिचीवरबहिस्त्यागोन्मुखः पण्डितः।

विद्यादानविचक्षणः करुणया सामग्र्यशिक्षामुखाद्

एकां मानवमात्रतां विहितवान् विश्वैकनीडां शुभाम्॥ ८४॥


मूढानां परिकल्पितं च मलिनं यज्जितिवादादिकं

तत्संपूर्णमपोढवाञ्जगति योऽभ्यागारिकाणां गणः।

सन्धौ पंक्त्यविभेदधीः स्वकरणे मुक्तश्च जातिग्रहाद्

बद्धान् बन्धुतयाखिलान् विहितवान् एकान्वयान् भूजनान्॥८५॥


नार्यो यत्र यथा नरा सुविवृता दारा यथा दारिका

जात्यार्देन कदर्थना न कलुषं दैवज्ञमिथ्यामतम्।

कारुण्यादविहिंसया च सकलैवाजीववृत्तिर्मता

धर्मे लोकहितैकलक्ष्यपरमे तस्मिन् स्थिताः सौगताः॥ ८६॥


(84)


मुक्तिं लब्धमना लघु प्रयतते कोऽप्यत्र धर्मे गृहे

शुद्धाजीवमहिंसया प्रकुरुते विद्धान् विरक्तो मृदुः।

गेहं कोऽपि विहाय मुक्तिपरमः साधुः पुमान् स्त्रीजनः

जीवन् केवलभिक्षया विहरति प्राज्ञो निवृत्युन्मुखः॥ ८७॥


चरत्यकुशणाद् विरतः


कलिमलमिदमिति रागाद् दूरे।

अहमिव जन इति करुणापूरे॥

चरत्यकुशलाद् विरतः।

संयोजनमेकैकं छित्वा बोधिक्षेमरतः॥अ॥


भजते नित्यमिदं-प्रत्ययताम्।

अविमूढस् त्रिरत्नमाश्रयताम्॥

चरत्यकुशलाद् विरतः।

संयोजनमेकैकं छित्वा बोधिक्षेमरतः॥आ॥


(85)


सुधीस्त्रिरन्ते न च पाषण्डम्।

भित्त्वा विनिर्गतो ब्रह्माण्डम्॥

चरत्यकुशलाद् विरतः।

संयोजनमेकैकं छित्वा बोधिक्षेमरतः॥इ॥


उपरिस्थितोऽवपश्यति नीचैः।

रागक्लिष्टोऽप्येति प्रोच्चैः॥

चरत्यकुशलाद् विरतः।

संयोजनमेकैकं छित्वा बोधिक्षेमरतः॥ई॥


उच्चैरुच्चैरुच्चैर्याति।

नीचैः पश्यति न चावयाति॥

चरत्यकुशलाद् विरतः।

संयोजनमेकैकं छित्वा बोधिक्षेमरतः॥उ॥


उच्चैर्गतोऽपि नोच्चै रज्यति।

नीचैः सममुच्चैश्च विरज्यति॥

चरत्यकुशलाद् विरतः।

संयोजनमेकैकं छित्वा बोधिक्षेमरतः॥ऊ॥


(86)


विरते रागे चित्तं शान्तम्।

ममताभावे मनः प्रशान्तम्।

चरत्यकुशलाद् विरतः।

संयोजनमेकैकं छित्वा बोधिक्षेमरतः॥ऋ॥


मानः को न्वहमित्यपि यातः।

विद्याया उदयः संजातः॥

चरत्यकुशलाद् विरतः।

संयोजनमेकैकं छित्वा बोधिक्षेमरतः॥ॠ॥


उच्चैर्वास्तु न देशकालपरिधिः क्लेशक्षयान्निर्वृतिर्

यस्यास्ते स सुखी विमुक्तिममृतं पीत्वा कृती सर्वथा

अन्यो नीरस एव मोक्ष इतिधीः सर्वोपकारे रतः

श्राम्यन् यापयतीह बुद्धपरमो बुद्धात्मजो बोधिगः॥८८॥


(87)


एकेनोत्तीर्णेन फलं किम्


पचते स्वयं स्वयं परिभुंक्ते नान्यस्मै यो दाता।

एवं स्वार्थी विश्वजननां न भवति भाग्यविधाता॥

एकेनोत्तीर्णेन फलं किम्।

सर्वे यदा निमग्नाः पारं प्राप्तेनापि फलं किम्॥ अ॥


आत्मानं त्रातुं यो दुःखाद् विजने याति विहर्तुम्

किं शीलेनोदितं न चित्तं यस्य जानानुपकर्तुम्॥

एकेनोत्तीर्णेन फलं किम्।

सर्वे यदा निमग्नाः पारं प्राप्तेनापि फलं किम्॥आ॥


विजने तरुभिर्मैत्रीं कृत्वा तपसा वृद्धायुष्यः।

क्षमी सदा संपूज्यः किन्तु स चैत्यो नैव मनुष्यः॥

एकेनोत्तीर्णेन फलं किम्।

सर्वे यदा निमग्नाः पारं प्राप्तेनापि फलं किम्॥इ॥


कुरुते योऽत्र परार्थोपेक्षामात्मार्थं यः कुरुते।

वीरभावमुपदर्शयता किं तेन न कः स्वं कुरुते॥

एकेनोत्तीर्णेन फलं किम्।

सर्वे यदा निमग्नाः पारं प्राप्तेनापि फलं किम्॥ई॥


(88)


किं नो विजने तनुतां चित्तं ध्यानसुखेन सनाथम्।

विजनोन्मुखं करोत्वन्यानपि त्यक्त्वा लोकानाथम्॥

एकेनोत्तीर्णेन फलं किम्।

सर्वे यदा निमग्नाः पारं प्राप्तेनापि फलं किम्॥उ॥


किं विद्यामुक्तेन तेन नो बन्धनबद्धे लोके।

न समार्थी यो भवत्यशोकः सकले जगति सशोके॥

एकेनोत्तीर्णेन फलं किम्।

सर्वे यदा निमग्नाः पारं प्राप्तेनापि फलं किम्॥ऊ॥


सुकृतं धनं परार्थं यस्य परार्थं यस्य शरीरम्।

वीरः स इह महावीरं खलु वन्दे तं वरवीरम्॥

एकेनोत्तीर्णेन फलं किम्।

सर्वे यदा निमग्नाः पारं प्राप्तेनापि फलं किम्॥ ऋ॥


त्यक्तकामिनीकांचनमपि विजनस्थमकिंचनमार्यम्।

वन्दे विगतस्पृहं सदा चैत्योपमानसत्कार्यम्॥


(89)


एकेनोत्तीर्णेन फलं किम्।

सर्वे यदा निमग्नाः पारं प्राप्तेनापि फलं किम्॥ॠ॥


निःसंगाः कृतकृत्यतामुपगता ये सन्ति वीतस्पृहा

ये वा सन्ति परोपकारनिरता लोकोन्मुखाः साधवः।

ते चैते द्वितये जनेष्वहरहः कुर्वन्ति यामाशिषं

साशीः सिद्ध्यतु सर्वमत्र जगतां भूयाद् भवे मंगलम्॥८९॥


राष्ट्रपतिर्धर्मात्मा भवतात्


नदीमातृका पृथ्वी विलसतु सुखदायिनी सुभिक्षा।

देवो वर्षतु काले लोके धर्म्या प्रसरतु शिक्षा॥

राष्ट्रपतिर्धर्मात्मा भवतात्।

राष्ट्रजनोऽपि धर्ममतिरखिलो मिथो हितात्मा भवतात्॥ अ॥


धर्मेणैव विना दण्डेन विना शस्त्रेण च शास्त्रा।

लोकपतिर्लोकानां भूयात् सौभाग्यस्य विधाता॥

राष्ट्रपतिर्धर्मात्मा भवतात्।

राष्ट्रजनोऽपि धर्ममतिरखिलो मिथो हितात्मा भवतात्॥आ॥


(90)


युद्धाद् विरतिरस्तु लोकेऽस्मिन् शान्तिर्भुवि प्रसरतात्।

निरामिषाभ्यवहारा जगती प्राणिवधाच्च विरमतात्॥

राष्ट्रपतिर्धर्मात्मा भवतात्।

राष्ट्रजनोऽपि धर्ममतिरखिलो मिथो हितात्मा भवतात्॥इ॥


विवृतद्वारा गृहा भवन्तु स्तैन्यं जनाद् व्यपेयात्।

अन्न-पान-भैषज्य-वसन-निवसनं समृद्धिमुपेयात्॥

राष्ट्रपतिर्धर्मात्मा भवतात्।

राष्ट्रजनोऽपि धर्ममतिरखिलो मिथो हितात्मा भवतात्॥ई॥


स्त्रियः स्वतंत्रा विचरन्त्वभया बालबालिकाः प्रीताः।

न स्वैरिणश्चरन्तु नापि स्वैरिण्यः समे विनीताः॥

राष्ट्रपतिर्धर्मात्मा भवतात्।

राष्ट्रजनोऽपि धर्ममतिरखिलो मिथो हितात्मा भवतात्॥उ॥


सत्यभाषिणः सत्ये प्रितिताः सत्येनैव चरन्तः।

उपकुर्वन्तः परस्परं सन्त्वत्र जनाः विहरन्तः॥

राष्ट्रपतिर्धर्मात्मा भवतात्।

राष्ट्रजनोऽपि धर्ममतिरखिलो मिथो हितात्मा भवतात्॥ऊ॥


(91)


बुद्धिहरं यत् पापकरं यद् येन प्रमाद्यति लोकः।

तन्मद्यं परिवर्ज्य सुखी सर्वो भवताद् गतशोकः॥

राष्ट्रपतिर्धर्मात्मा भवतात्।

राष्ट्रजनोऽपि धर्ममतिरखिलो मिथो हितात्मा भवतात्॥ऋ॥


कल्याणं जगदस्तु जनानां सभा भवतु कल्याणी।

सिद्धमस्तु मित्रं कल्याणं वाक् सिद्ध्यतु कल्याणी।

राष्ट्रपतिर्धर्मात्मा भवतात्।

राष्ट्रजनोऽपि धर्ममतिरखिलो मिथो हितात्मा भवतात्॥ॠ॥


कल्याणाय सुखाय सर्वजगतां चर्याश्रमं तन्वते

कल्याणं समुपागताय सकलं धर्मं तथा शासते।

कल्याणेन च वाङ्मयेन विपुलं बुद्धागमं कुर्वते

कल्याणाधिगमाय बुद्धमतये संघाय कुर्मो नमः॥ ९०॥


इति शान्तिभिक्षुशास्त्रिविरचिते श्रीबुद्धोदयकाव्ये

संघप्रतिष्ठापनाभिधानो 

नवमः प्रसंगः॥


(92)


दशमः प्रसंगः


बुद्धकायलक्षणम्


लुम्बिन्यां परिपूर्य बालचरितान् आनन्दयन् बान्धवान्

दृष्ट्वा लोकमलं विहाय सकलांस्तेपे तपो दुष्करम्।

वैशाख्यामुपभुज्य पायसवरं यः श्रीसुजातार्पितं

बोधिं प्राप्य सुनिर्वृतः स भगवान् धर्मं दिशन् पातु नः॥ ९१॥


प्रत्यक्षः शरदामशीतिमभवन्निर्माणकायेन यो

धर्मं लोकहिताय पंचरहितान् पंचाशदब्दान् जगौ।

पश्चाद् धातुषु कारितैरगणितैः स्तूपैः स्मृतः पूजितो

बिम्बैश्चित्रपटैश्च बुद्धभगवान् क्षेमाय नः कल्पताम्॥ ९२॥


द्वात्रिंशद्वरलक्षणोऽष्टदशकैः श्रीमाननुव्यंजनैः

संभोगात्ममयोऽनभूतिविषयो बुद्धः शिशूनामपि।

गातु यस्य मनोज्ञतां न कवयः सर्वे मिलित्वा क्षमा

गायन्त्यंशलवेन किं तु कृतिनोऽस्माकं सुखायास्तु सः॥ ९३॥


(93)


वरदं वरलक्षणं नमामि


नमन्तमुन्नतो दधत् समस्तलोकवंदितम्।

स्पृशामि ते पदाम्बुजं सतां सदाभिनन्दितम्॥

वरदं वरलक्षणं नमामि।

भगवन्तं मम भाग्यमहो यत् संपश्यन्नुपयामि॥ अ॥


तव त्रिलोकरक्षणे करे सुलक्षणाकरे।

स्थितोऽस्मि निर्भयोऽज्वरः कृपापरे कृपाकरे॥

वरदं वरलक्षणं नमामि।

भगवन्तं मम भाग्यमहो यत् संपश्यन्नुपयामि॥आ॥


विरोजने विलोभने प्रफुल्लपद्मलोचने।

दृशैव मे समस्तशोकदुःखजालमोचने॥

वरदं वरलक्षणं नमामि।

भगवन्तं मम भाग्यमहो यत् संपश्यन्नुपयामि॥इ॥


(94)


सनीलभृंगपंकजोपमानसुंदरं मुखम्।

तनोतु मे तनौ सुखं तनोतु मे मनःसुखम्॥

वरदं वरलक्षणं नमामि।

भगवन्तं मम भाग्यमहो यत् संपश्यन्नुपयामि।ई॥


तवान्तरा भ्रुवं भ्रुवं प्रदक्षिणोपलांक्षितम्।

करुतु मे मनोरथं करोतु चित्तवांछितम्॥

वरदं वरलक्षणं नमामि।

भगवन्तं मम भाग्यमहो यत् संपश्यन्नुपयामि॥उ॥


मनोरमाननच्छवी रतेर्मनोऽभिनन्दिता।

मम स्मरोपतापहारिणी सदास्तु वंदिता॥

वरदं वरलक्षणं नमामि।

भगवन्तं मम भाग्यमहो यत् संपश्यन्नुपयामि॥ ऊ॥


सुवर्णगौरविग्रहः कृपैकमात्रताग्रहः।

करोतु सर्वमंगलम् स्वभावतो गताग्रहः॥


(95)


वरदं वरलक्षणं नमामि।

भगवन्तं मम भाग्यमहो यत् संपश्यन्नुपयामि॥ऋ॥


मनोज्ञरूपलक्षणं प्रणीतपूर्णलक्षणम्।

दधामि मानसे जिनं सुमंगलं सुलक्षणम्॥

वरदं वरलक्षणं नमामि।

भगवन्तं मम भाग्यमहो यत् संपश्यन्नुपयामि॥ॠ॥


निर्माणेन शरीरिणा भगवता मौने पदे तिष्ठता

प्येकान्तं प्रविहाय संविदधता शिष्यैः समं चारिकाम्।

यान्युक्तानि सुभाषितानि वदतां वर्येण मध्येगणं

शान्त्येकार्थपराणि तानि सुतरां सिद्धन्तु नः स्वस्तये॥ ९४॥


कृतं सुभाषितमखिलम्


बहुजनहितबहुजनसुखकरणं सकलं नृणामभीष्टम्।

सकलदुरितशमनं मंगलमयमर्थवदेवोदिद्दष्टम्॥


(96)


कृतं सुभाषितमखिलम्।

अस्ति सुभाषितमिह यत् किंचित् तज्जिनभाषितमखिलम्॥ अ॥


महाकरुणया संप्रेरितमतिविमलं सकलं धर्म्यम्।

सतां संमतं भेदभावरहितं गुणसहितं रम्यम्॥

कृतं सुभाषितमखिलम्।

अस्ति सुभाषितमिह यत् किंचित् तज्जिनभाषितमखिलम्॥आ॥


सकलकामतृष्णया व्यपेतं क्लेशानामुपशमनम्।

कामसदाचारस्थितिकरणं मिथ्याचारविधमनम्॥

कृतं सुभाषितमखिलम्।

अस्ति सुभाषितमिह यत् किंचित् तज्जिनभाषितमखिलम्॥इ॥


रूपध्यानविषयकं रागं दूरीकृत्य विरागम्।

ध्यानसुखव्यसनोपविनोदनमतिनिर्मलगुणभागम्॥

कृतं सुभाषितमखिलम्।

अस्ति सुभाषितमिह यत् किंचित् तज्जिनभाषितमखिलम्॥ई॥


(97)


रूपारूपकामलोकानां क्षणं यथा नटरंगम्।

उपदिश्येह काम इव रूपे शमयदरूपे संगम्॥

कृतं सुभाषितमखिलम्।

अस्ति सुभाषितमिह यत् किंचित् तज्जिनभाषितमखिलम्॥उ॥


शन्त्यनुशंसनकरं भ्रान्तिहरमविहिंसायां निरतम्।

बधबन्धोद्धतयुद्धकलिकलुषदुरितापायाद् विरतम्॥

कृतं सुभाषितमखिलम्।

अस्ति सुभाषितमिह यत् किंचित् तज्जिनभाषितमखिलम्॥ऊ॥


परममौनमथ परमसंगं शंसत् परमगभीरम्।

सकलपरिग्रहपरिवर्जितमावर्जितसज्जनधीरम्॥

कृतं सुभाषितमखिलम्।

अस्ति सुभाषितमिह यत् किंचित् तज्जिनभाषितमखिलम्॥ऋ॥


(98)


जातिपंक्तिकुलभाषावर्णविभेदविहीनं धीरम्।

आत्मवदेव परस्य हितं करुणारसमयं गभीरम्॥

कृतं सुभाषितमखिलम्।

अस्ति सुभाषितमिह यत् किंचित् तज्जिनभाषितमखिलम्॥ॠ॥


नित्यं योऽत्र धृतः स्वधर्मवपुषा कारित्रवान् सद्गुणो

निर्याते च विकल्पिते निगदितः कारित्रहीनोऽगुणः।

यन्निर्माणविभूतिरेव भगवान् शौद्धोदनिर्गौतमः

सिद्धस्तत्त्वविदां विदां स परमः पायादपायाज्जिनः॥ ९५॥


शरणमेमि भगवन्तम्


रागवन्तमिह रागविहीनस्त्वं जितवानसि लोकम्।

स्वयमशोक एतेषां नृणामपहृतवानसि शोकम्॥

शरणमेमि भगवन्तम्।

अगुणवन्तमपि विगुणविहीनं सदा सकलगुणवन्तम्॥ अ॥


तव सामीप्यमुपेतो रुष्टः क्षणाज्जायते हृष्टः।

जितरोषेण रोषणं जितवानसि मनसा त्वं तुष्टः॥


(99)


शरणमेमि भगवन्तम्।

अगुणवन्तमपि विगुणविहीनं सदा सकलगुणवन्तम्॥आ॥


अज्ञानं मोहयति न लोकं त्वमसि यदा प्रत्यक्षः।

ज्ञानगिरा त्वं मूढान् बोधितवानसि विद्याध्यक्षः॥

शरणमेमि भगवन्तम्।

अगुणवन्तमपि विगुणविहीनं सदा सकलगुणवन्तम्॥इ॥


पूर्णतया स्पर्धया विहीनस्त्वं लोकानां ज्येष्ठः।

समवृत्त्या विहरन्नप्यसमस्त्वं सर्वेषां श्रेष्ठः॥

शरणमेमि भगवन्तम्।

अगुणवन्तमपि विगुणविहीनं सदा सकलगुणवन्तम्॥ई॥


दृश्यानां तव रूपं रत्नं स्मरोन्मादपरिधमनम्।

हृदये निर्मलतामुपजनयत् सकलकलिकलुषशमनम्॥

शरणमेमि भगवन्तम्।

अगुणवन्तमपि विगुणविहीनं सदा सकलगुणवन्तम्॥उ॥


(100)


यद् भाषसे शृणोति जनस्तत् सावधानमतियत्नम्।

श्रव्याणामुत्तमं वचस्ते भवति सुभाषितरत्नम्॥

शरणमेमि भगवन्तम्।

अगुणवन्तमपि विगुणविहीनं सदा सकलगुणवन्तम्॥ऊ॥


धर्मस्तु देशितस्त्वया यस् तं मन्यन्ते सुधियः।

त्रिपिटकधृतं नमन्ति सादरं वन्दन्ते तं कुधियः॥

शरणमेमि भगवन्तम्।

अगुणवन्तमपि विगुणविहीनं सदा सकलगुणवन्तम्॥ऋ॥


मैत्रीज्ञानविरागगुणानां धर्माणां त्वं धाता।

जय जय नाथ त्वमनाथानामसि सौभाग्यविधाता॥

शरणमेमि भगवन्तम्।

अगुणवन्तमपि विगुणविहीनं सदा सकलगुणवन्तम्॥ॠ॥


आदौ शाक्यजनेषु भव्यजननं भोगैस्ततो वर्धनं

नैपुण्याच्च यशोधराधिगमनं दृष्ट्वा निमित्तान्यतः।


(101)


गेहान्निष्क्रमणं विजित्य मदनं लब्ध्वा च बोधिं वरां

धर्मस्थापननिर्वृतं च भगवत्संदर्शितं पातु नः॥ ९६॥


यस्याः प्रार्थनया मया विरचितं काव्यं सगेयैः पदैः

यास्मै संस्पृहयत्यनेन परमं लब्धे क्षणे मोदते।

याभ्यागारिकजीवने मम सखी बोधिश्रियालंकृता

सा मे काव्यमिदं गृणात्युपहृतं प्रीत्या सुजाता सुखम्॥ ९७॥


चेतःक्लान्तिविनोदनाय मदनोन्मादव्यवच्छित्तये

रागान्धस्य जनस्य सुष्ठुवचसा धीरप्रशान्ताश्रयम्।

साकल्येन तथागतस्य चरितान्युद्गातुकामात्मना

काव्यं बुद्धपरायणेन कविना शान्त्येकसारं कृतम्॥ ९८॥


रम्यं बुद्धपदं सुभाषितमयी बुद्धस्य रम्या कथा

रम्या काव्यसरस्वती गुणवती गेयैः पदैरन्विता।

रम्यो भक्ति-रसो जगद्गुरुतमं शौद्धोदनिं संश्रितः

रम्याणां समुपाश्रयेण भवताद् रम्या मदीया कृतिः॥ ९९॥


(102)


रम्यं रम्यगुणानुवादचरितैः श्रीशाक्यसिंहप्रभो

रम्यं भक्तिरसायनेन मधुरेणौजायमानं नवम्।

रम्येष्वप्यधिराजितेषु सुकवि-प्रत्नप्रबन्धेष्विदं

रम्यं रम्यमहो गृणन्ति सुजनाः स्नेहेन बुद्धोदयम्॥ १००॥


इति शान्तिभिक्षुशास्त्रिविरचिते श्रीबुद्धोदयकाव्ये

बुद्धकायलक्षणाभिधानो

दशमः प्रसंगः॥


श्रीबुद्धोदयकाव्यं परिनिष्ठितम्।

कृतिरियं 

शान्तिभिक्षुशास्त्रिणः॥


(103)


[ पुष्पिका]


प्रज्ञायां चावदाने सततमतुलिते सिंहलद्वीपभुमौ

विद्यालंकारनाम्नि प्रथित इह परे चाश्रमे सौगतानाम्।

श्रीधर्मानन्दपादैः श्रमणवरमते दीक्षितस्य द्विजातेः

काव्यं श्रीशान्तिभिक्षोः पदमुपलभतां सत्सु बुद्धोदयाख्यम्॥


इति सिंहलेषु भार्यासुताभ्यां सह प्रोषितस्य भदन्त श्रीधर्मानन्दनाय-

कपादशिष्यस्योत्तरभारते कोसलेषु लक्ष्मणपुरान्तिकबीबीपुरग्रामवास्तव्यस्य

ला-इप्छिग् विश्वविद्यालयाल्लब्धडाक्टरपदवीकस्य विद्यालंकारविश्वविद्यालये

संस्कृतमहाचार्यस्य पण्डितश्रीशान्तिभिक्षुशास्त्रिणः साहित्याचार्यस्य कृतिः

सकलजगद्गुरुतमशाक्यसिंहावदानसमलंकृतं भक्तिरसाश्राय धीररशान्तनाय-

कोत्तमतथागतवस्तुरामणीयकरम्यं बुद्धोदयं नाम काव्यम्। शुभम्।

गत-बुद्धाब्दाः २५१४।


(104)


ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत्।

तेषां च यो निरोध एवंवादी महाश्रमणः॥


ये धर्मा तेतुप्रभवास् तेषां हेतुं तथागतो ह्यवदत्।

तेषां च यो निरोध एवंवादी महाश्रमणः॥


(105)


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project