Digital Sanskrit Buddhist Canon

प्रहाणपूरकशतवन्दनानाम महायानसूत्रम्

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

p.1


प्रहाणपूरकशतवन्दनानाम महायानसूत्रम्


नमः सादरम् अनन्तापर्यन्तासु दशसु दिक्षु त्रिषु कालेषु गच्छद्भ्यो विराजमानेभ्यो बुद्ध-बोधिसत्त्वेभ्योः सपरिवारेभ्योऽशेषप्रसरस्थेभ्यः समस्तत्रिरत्नेभ्यः॥१॥ नमः सादरं दशदिगवस्थेभ्यः समस्तबुद्धेभ्यः॥२॥ नमः पूर्वदिशायाः तथागतरत्नसम्भवाय॥३॥ नमो दक्षिणदिशायाः अशोकश्रिये तथागतबुद्धाय॥४॥ नमः पश्चिमदिशायाः रत्नार्चिषे तथागतबुद्धाय॥५॥ नमः उत्तरदिशायाः जिनेन्द्राय तथागतबुद्धाय॥६॥ नमः ईशानकोणस्य श्रीपरमसमाधिहस्तिने तथागतबुद्धाय॥७॥ नमः आग्नेयकोणस्य परमपद्माय तथागतबुद्धाय॥८॥ नमो नैरृत्यकोणस्य परमसूर्यमण्डलावभासाय तथागतबुद्धाय॥९॥ नमः वायव्यकोणस्य श्रीपरमच्छत्राय तथागतबुद्धाय॥१०॥ नमः अधोदिशायाः श्रीपद्माय तथागतबुद्धाय॥११॥ नमः ऊर्ध्वदिशायाः श्री - आनन्दाय तथागतबुद्धाय॥१२॥ नमः पुनः पुर्वदिशायाः अक्षोभ्याय तथागतबुद्धाय॥१३॥ नमो दक्षिणदिशायाः रत्नसम्भवाय तथागतबुद्धाय॥१४॥ नमः पश्चिमदिशायाः अमिताभाय तथागतबुद्धाय॥१५॥ नमो दक्षिणदिशायाः अमोघसिद्धये तथागतबुद्धाय॥१६॥

नमो हर्षराजवीरदृढसेनाय तथागतबुद्धाय॥१७॥ नमः अमितायुस्तथागतबुद्धाय॥१८॥ नमः अक्षोभ्याय तथागतबुद्धाय॥१९॥ नमो भैषज्यगुरुवैडूर्यप्रभराजाय तथागतबुद्धाय॥२०॥ नमः सुविकसितशालपुष्पेन्द्रराजाय तथागतबुद्धाय॥२१॥ नम शाक्यमुनये तथागतबुद्धाय॥२२॥ नमो रत्नश्रीराजाय तथागतबुद्धाय॥२३॥ नमो रत्नभद्राय तथागतबुद्धाय॥२४॥ नमो वैरोचनाय तथागतबुद्धाय॥२५॥ नमो विकसितोत्पलगन्ध-राजकेतवे तथागतबुद्धाय॥२६॥

नमः काषायध्वजलोकस्य वज्रगर्भप्रमर्दिने सुविनीतथागतबुद्धाय॥२७॥ नमः अकैवर्त-चक्रवर्जितलोकस्य अत्यवश्यपद्मविकसितकायतथागतबुद्धाय २८॥ नमो विरजस्कलोकस्य तथागतसिंहाय॥२९॥ नमः आभासलोकस्य रत्नचूडतथागतबुद्धाय॥३०॥ नमः सुप्रभलोकस्य वैरोचनतथागतबुद्धाय॥३१॥ नमो दुःसमतिक्रमलोकस्य धर्मप्रभासातिविस्तरकायाय तथागतबुद्धाय॥३२॥ नमः सुभद्रलोकस्य सर्वज्ञमतिप्रभासराजतथागतबुद्धाय॥३३॥ नमः आदर्शमण्डलघोषलोकस्य चन्द्रचित्ततथागतबुद्धाय॥३४॥ नमः श्रीपद्मलोकस्य श्रीभद्रपर्यन्तं सर्वतथागतबुद्धेभ्यः॥३५॥

नमः चन्द्रप्रभतथागतबुद्धाय॥३६॥ नमः महाचारुतथागतबुद्धाय॥३७॥ नमः लोकमण्डलस्य इन्द्रराजतथागतबुद्धाय॥३८॥ नमः आनन्दचक्षुषे तथागतबुद्धाय॥३९॥ नमः श्रीसागरतथागतबुद्धाय॥४०॥ नमः स्वर्णरूपतथागतबुद्धाय॥४१॥ नमः आनन्दगुणप्रभतथागतबुद्धाय॥४२॥ नमः सकलप्रणिधानसम्भवातिरत्नतेजसे विशिष्टराजतथागतबुद्धाय॥४३॥ नमः कीर्तिघोषराजतथागतबुद्धाय॥४४॥ नमः ज्ञानवज्रसागरेन्द्रतथागतबुद्धाय॥४५॥ नमो विलोचनतथागतबुद्धाय॥४६॥ नमः उष्णीषवते तथागतबुद्धाय॥४७॥


p.2


नमः अशेषेन्द्राय तथागतबुद्धाय॥४८॥ नमो विपरीतश्रद्धानिर्हारकतथागतबुद्धाय॥४९॥ नमः कनकमुनये तथागतबुद्धाय॥५०॥ नमः काश्यपतथागतबुद्धाय॥५१॥ नमः समस्तेभ्यः अतीतबुद्धेभ्यः॥५२॥ नमः समस्तविराजमानप्रत्युत्पन्नबुद्धेभ्यः॥५३॥ नमः समस्तेभ्यः अनागततथागतबुद्धेभ्यः॥५४॥

नमः समस्तमहावैरोचनश्रीबोधिसत्त्वेभ्यः॥५५॥ नमः अपर्यन्तबुद्धधर्मकायेभ्यः॥५६॥ नमः अनन्तलोकधातूनां समस्तकायरूपेभ्यः॥५७॥ नमः समस्तधातुभ्यः (अवशेषेभ्यः)॥५८॥ नमः समस्तचैत्येभ्यः॥५९॥

नमः समस्तसद्धर्मसूत्रपिटकाय॥६०॥ नमः गेयवर्गाय॥६१॥ नमः व्याकरणवर्गाय॥६२॥ नमः गाथावर्गाय॥६३॥ नमः उदानवर्गाय॥६४॥ नमः निदानवर्गाय॥६५॥ नमः अवदानवर्गाय॥६६॥ नमः इतिवृत्तकवर्गाय॥६७॥ नमः जातकवर्गाय॥६८॥ नमः वैपुल्यवर्गाय॥६९॥ नमः अद्भुतवर्गाय॥७०॥ नमः धर्मावबोधदर्शनवर्गाय॥७१॥ नमः समस्तमहायानकोषाय बोधिसत्त्वपिटकाय॥७२॥ नमो दशदिशां समस्तत्रैकालिकवचनेभ्यः अशेषविनेयोपायद्वारेभ्यः॥७३॥ नमः अनभिलाप्यसम्यगन्तधर्मधातुभ्यः॥७४॥ नमः समस्ततथागतजिनजननी-प्रज्ञापारमितादिसद्धर्मसमस्ताक्षरेभ्यः॥७५॥

नमः बोधिसत्त्वमहासत्त्ववैरोचनाय॥७६॥ नमः पूर्वदिशायाः बोधिसत्त्वसमन्तरश्मिसम्भवाय॥७७॥ नमो दक्षिणदिशायाः बोधिसत्त्वाय अशोकदत्ताय॥७८॥ नमः पश्चिमदिशायाः बोधिसत्त्वचर्यामतये॥७९॥ नमः उत्तरदिशायाः बोधिसत्त्वजिनदत्ताय॥८०॥ नमः ईशानकोणस्य बोधिसत्त्वसुविक्रान्तविजयाय॥८१॥ नमः आग्नेयकोणस्य बोधिसत्त्वपद्मपाणये॥८२॥ नमो नैरृत्यकोणस्य बोधिसत्त्वसूर्याभासाय॥८३॥ नमः वायव्यकोणस्य बोधिसत्त्वरत्नश्रेष्ठाय॥८४॥ नमः अधोदिशायाः बोधिसत्त्वपरमद्माय॥८५॥ नमः ऊर्ध्वदिशायाः बोधिसत्त्वानन्ददत्ताय॥८६॥

नमो बोधिसत्त्वसमन्तावलोकितेश्वराय॥८७॥ नमो बोधिसत्त्वमैत्रेयाय॥८८॥ नमो बोधिसत्त्वाकाशगर्भाय॥८९॥ नमो बोधिसत्त्वसमन्तभद्राय॥९०॥ नमो बोधिसत्त्ववज्रपाणये॥९१॥ नमो बोधिसत्त्वमञ्जुश्रिये॥९२॥ नमो बोधिसत्त्वाय सर्वनीवरणविष्कम्भिने॥९३॥ नमो बोधिसत्त्वक्षितिगर्भाय॥९४॥ नमो बोधिसत्त्वविमलकीर्तये॥९५॥ नमो बोधिसत्त्वमहास्थामप्राप्ताय॥९६॥ नमो दशदिशां समस्तत्रैकालिकबोधिसत्त्वेभ्यः॥९७॥

नमो महाप्रज्ञेषु अग्राय आर्यशारीपुत्राय॥९८॥ नमो महर्द्धिमताम् अग्राय आर्यमौद्गल्यायनाय॥९९॥ नमो महाश्रुतानाम् अग्राय आर्यानन्दाय॥१००॥ नमो धूतगुणेषु श्रेष्ठाय आर्यकाश्यपाय॥१०१॥ नमः शिक्षादरकेषु श्रेष्ठाय आर्यधनदत्तधराय॥१०२॥ नमोः विनयधरेषु श्रेष्ठाय आर्य-उपालये॥१०३॥ नमः चक्षुर्भूताय ऋद्धिषु श्रेष्ठाय आर्यानिरुद्धाय॥१०४॥ नमः प्रश्नोत्तरेषु श्रेष्ठाय आर्यसुभूतये॥१०५॥


p.3


नमः समस्तार्यावर्तस्य सङ्घेभ्यः॥१०६॥ नमः समस्तार्यप्रत्येकबुद्धेभ्यः॥१०७॥ नमः समस्तासु दशदिक्षु विराजमानाय सङ्घेभ्यः॥१०८॥

श्रद्धाय रत्नत्रितयं प्रणम्य

पापक्षतिः पुण्यचयस्य वृद्धिः।

प्राप्तं च किञ्चिद् भगवद्वचोभ्यः

भवेत्स सिद्धो हि गुणैर्विशिष्टैः॥

नमो दशदिशां त्रिरत्नेभ्यः, तेषां स्तुतिं प्रशंसां च करोमि, दृष्ट्वा परीक्षणं करोमि, बोधिसत्त्वानां विस्तरेण प्राप्तानां पुण्यानां असमसमविभिन्नोत्तमपूजाप्रमुखपरमविशिष्टभद्रप्रणीत-अनुत्तरेण च असमसमः दशदिशां समस्तभाजनलोकः पूर्णतया चूलिकाबद्धं कृत्वा धर्मपूजासहितं अशेष - निःशेष - निरवशेषत्रिरत्नानि अपरान्तकोटिनिष्ठानि सदा निरन्तरं पूजयित्वा पाठं करोमि, समर्प्य च याचनां करोमि, सत्करोमि, गुरूकरोमि, आदरं करोमि, अभिराधनां च करोमि।

मया अस्मिन् जन्मनि अनादि - अनन्तजन्मसु च त्रिभवे संसारे संसरता रागद्वेषमोहत्रयवशतया काय - वाक् - चित्तैः दशाकुशलानि पञ्च आनन्तर्यादीनि कृतानि, समस्तवचनविरुद्धानि अकुशलपापकर्माणि मया कृतानि कारितानि स्युः अन्यैः क्रियमाणानि अनुमोदितानि भवेयुः तानि रजोमात्राणि लेशमात्राण्यपि समस्तानि प्रतिदेशयामि, आविष्करोमि, विशोध्य ध्वस्तीकरोमी, शमयित्वा पाठं करोमि, न प्रतिच्छादयामि, न गोपयिष्यामि, असत्कारपूर्वकम् उपस्थानं न करिष्यामि। तत्पश्चात् तस्मिन् समये समस्तपापानां नाशः समस्तपुण्यानां सम्पन्नता भवतीति।

इतः प्रारभ्य बोधिमण्डप्राप्तिपर्यन्तम् अभिप्रायवशतया निर्मितसत्त्वान् विना यदा यदा मध्ये मध्ये जन्म - जन्मान्तरेषु विध्नकरासु त्रिषु दुर्गत्यादिषु विध्नकरासु गतिषु न भवेद् जन्म तथा नापि भवेत्तत्र पतनम्। मिथ्या अकुशलकर्मणां न भवेयं पक्षधरः, न च भवेयं तत्कारकः। कर्मक्लेशानां हेतुपक्षे न भवेयं तथा न भवेयं तेषां सञ्चयकर्ता, समस्त निन्दनीयकायेभ्यः समस्तदुःखफलेभ्यः च मुक्तो भूत्वा कदापि दुःखभोक्ता न भवेयम्।

इतः प्रारभ्य बोधिमण्डप्राप्तिपर्यन्तं त्रिद्वारेभ्यः नदीधारा इव अविच्छिन्नतया कुशलकर्मकरः भवेयम्, कुत्रापि कस्मिन्नपि जनजातिषु जन्म गृह्णीयां सुखोत्सवसम्पन्नो भूत्वा समस्तसत्त्वार्थकरणेन बलशक्तिमांश्च भवेयम्, (या) केवलं तथागतेनावबुद्धा अनुत्तरा धर्मबोधिः अवश्यं बुद्धत्वस्य अर्थः यत्तत्त्वं तत् मयापि अभ्रान्ततया ज्ञात्वा भावना कृता। अन्येभ्योऽपि अभ्रान्ततया निर्दिश्य तेषाम् उद्धारको भवेयम्।

इतः प्रारभ्य बोधिमण्डप्राप्तिपर्यन्तं त्रिरत्नशरणं गच्छामि। स्वकायार्पणं तावत् महाकरुणासमन्विताः पृथक् - पृथक् स्वीकुर्यः।


p.4


यथा त्रैकालिकाः बुद्ध - बोधिसत्त्वाः सर्वभावविगतं स्कन्धधात्वायतनग्राह्यग्राहकवर्जितं धर्मनैरात्म्यसमतया आद्यनुत्पन्नं शून्यतास्वभावं बोधिचित्तम् उत्पादयन्ति, तथैव अहमपि एवंनामा एतत्कालमारभ्य बोधिमण्डप्राप्तिपर्यन्तं बोधिचित्तमुत्पादयामि। बोधिचित्तं कदापि नैव त्यक्ष्यामि। तस्मात् परमकल्याणमित्रात् कदापि वियुक्तः नैव भवेयम्।

यथा त्रैकालिका बुद्धाः (भगवन्तः) अनुत्तरपुण्यम् अनुमोदयन्ति, तथैव अहमपि एवंनामा लोक - लोकोत्तरसर्वं पुण्यम् अनुमोदयामि।

यदा (अहं) निश्चितमृत्युकालसमीपे भवेयम्, तदा सकलबुद्धबोधिसत्त्वानां मुखमण्डलानि प्रत्यक्षरूपेण पश्यन्, स्वर्णवर्णं दक्षिणहस्तं प्रसार्य (भगवन्तो बुद्धाः) मम मूर्ध्नि संस्थापयन्तु, आगमस्य च श्रवणं भवेत्। अहमपि क्लिष्टचित्तेन अव्याकुलितो भूत्वा नैरात्म्य-धर्मानुकूलच्छन्दसमन्वितो भवेयम् एवं च अपरिमाणबोधिचित्तसमन्वितः सन् मृत्युं प्राप्नुयाम्।

संक्षेपतो नष्टसमस्तबीजः

स्यां ज्ञानपुण्योभयसम्भृतोऽहम्।

अशेषमुक्तैश्च तथा गतीनां

शीघ्राभिसम्बोधिमवाप्नुयां हि॥


॥ प्रहाणपूरकशतवन्दनानाम महायानसूत्रं समाप्तम्॥


( भोटदेशे सद्धर्मागमनात् पूर्वसंकेतस्वरूपं (राजा) थोथोरि -ञेन - छन् - काले युमबु (ल्हगर -)दुर्गनामके राजभवने आकाशतः प्राप्तः पञ्चसन्ततीनां पश्चाद् अस्यार्थज्ञानं भविष्यतीत्येवं स्वप्ने भविष्यवाणी समभूत्, तदनन्तरं सद्धर्मस्य प्रारम्भो जातः। )

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project