Digital Sanskrit Buddhist Canon

आलवकसूत्तम्

Technical Details
  • Text Version:
    Roman
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

छत्रचर्या


p.12


जयं प्राप्नुवन्तः पित्रार्जितं धनं वृथा व्ययीकुर्वन्तो न किञ्चिदपि फलं प्राप्नुवन्ति। अत एव ह्यद्यतना बाला ईदृशचर्याविकलाः पण्डितमहाशयानामिवाभ्यासपरिपाटीमलभमानाः स्वोपजीवनायाप्यप्रभविष्णवो भवन्ति। एतादृशीञ्च दुरवस्थां कतिपयानामपि निरासयितुकामैर्विबुधगणमणिमुकुटै रसभरमेदुरेण पीयूषमप्यधरीकुर्वता स्वकविताप्रपञ्चेन विद्वज्जनानामन्येषाञ्चातितरामाह्लादं जनयद्भिः, नानाबिरुदलाञ्छितैर्महामहिमशालिभिः केरलवर्मदेवैः प्रोत्साहितेनं सकलधर्ममूलेनान्वर्थनाम्ना परमकारुणिक-श्रीमूलकमहाराजेन सच्छात्रवृत्त्यधिष्ठापितायामस्यां पाठशालायामधीयाना वयं कृतज्ञतासूचकमपरं कतुमक्षमाः केवलमिदमाशास्महे -

श्रीमत्केरलवर्मदेवनिपुणप्रज्ञासमालोचित-

श्रेष्ठारम्भगृहीतधर्म्यधिषणस्सन्त्रायमाणो भुवम्।

सूत्रामेव दिवं बृहस्पतिमतिप्रक्रान्तधर्मोत्करः

श्रीमान् मूलकभूपतिर्विजयतामाचन्द्रतारं सुखी॥

पद्मनाभशास्त्री।

त्रिवेन्द्रम् , त्रिवङ्कुरम्।


आलवकसूत्तम्

( आडवकसूत्रम् )


मूलपालिभाषातः प्रत्यक्षरानुवादरूपम्।

नमस्तस्मै भगवते अर्हते सम्यक् सम्बुद्धाय।


p.13


एवं मया श्रुतम्ः -


एकस्मिन् समये (१) भगवान् आलव्याम् (२) विहरति आलवकस्य यक्षस्य भवने। अथ खलु आलवको यक्षो येनं भगवान् तेनोपसंक्रान्तः। उपसंक्रम्य भगवन्तमेतदवोचत्ः -

" निष्क्राम श्रमणेति "।

" साधु बन्धो " (३), इति भगवान् निष्क्रान्तः।

"प्रविश श्रमणेति"।

" साधु, बन्धो" इति भगवान् प्राविक्षत्।

द्वितीयमपि खलु आलवको यक्षो भगवन्तमेतदवोचत्ः -

"निष्क्राम श्रमणेति"।

" साधु, बन्धो" इति भगवान् निष्क्रन्तः।

"प्रविश श्रमणेति"।

" साधु, बन्धो" इति भगवान् प्राविक्षत्।

तृतीयमपि खलु आलवको यक्षो भगवन्तमेतदेवावोचत्ः -

"निष्क्राम श्रमणेति"।

"साधु, बन्धो" इति भगवान् निष्क्रान्तः।

"प्रविश श्रमणेति"।

"साधु, बन्धो" इति भगवान् प्राविक्षत्।

चतुर्थमपि खल्वांलषको यक्षो भगवन्तमेतदेवावोचत्ः -

"निष्क्राम श्रमणेति"।

"न खलु पुनरहं बन्धो निष्क्रमिष्यामि, यत्ते करणीयं तत्कुरु"।

" प्रश्नं त्वां श्रमणा, प्रक्ष्यामि, स चेन्मे न व्याकरिष्यसि, चित्तं वा


p.14


ते क्षेप्स्यामि, हृदयं वा ते फालयिष्यामि (१), पादेषु वा गृहीत्वा पारं गङ्गायाः क्षेप्स्यामीति"।

" न खल्वहं तं बन्धो, पश्यामि सदेवके लोके समारके (२) सब्रह्मके, सश्रमणाब्राह्मणायां प्रजायां सदेवमनुष्यायां यो मे चित्तं वा क्षिपेत्, हृदयं वा फालयेत्, पादेषु वा गृहीत्वा पारं गङ्गायाः क्षिपेत्। अपि च त्वं बन्धो पृच्छ यदाकाङ्घसीति"।


1


" किं स्विदिह वित्तं पुरुषस्य श्रेष्ठं,

किंस्वित् सुचरितं(३) सुखमावहति।

किं स्विद् ह वै साधुतरं रसानां,

कथं जीवि जीवितमाहुः श्रेष्ठम्॥"


2


" श्रद्धेति वित्तं पुरुषस्य श्रेष्ठं,

धर्मः सुचरितः सुखमावहति।

सत्यं ह वै साधुतरं रसानाम्,

प्रज्ञां जीविजीवितमाहुः श्रेष्ठम्॥"


3


कथं स्वित् तरति ओघं,

कथं तरति अर्णवम् (४)।

कथं स्विद् दुःखमत्येति,

कथं स्वित् परिशुध्यति॥


p.15


4


श्रद्धया तरति ओघम्,

अप्रमादेन अर्णवम्।

वीर्येण दुःखमत्येति,

प्रज्ञया परिशुध्यति॥


5


कथं स्विल्लभते प्रज्ञां, कथंस्विद् विन्दते घनम्।

कथं स्वित् कीर्त्ति प्राप्नोति, कथं मित्राणि ग्रथ्नाति (१)।

अस्माल्लोकात् परं लोकं कथं प्रेत्य न शोचति॥


6


श्रद्दधानोऽर्हतां धर्म निर्वाणपत्त्या (२)।

शुश्रूषमाणो लभते प्रज्ञामप्रमत्तो विचक्षणः॥

प्रतिरूपकारी धुरावान् व्युत्थितो विन्दते धनम्।

सत्येन कीर्त्तिं प्राप्नोति, ददन्मित्राणि ग्रथ्नाति।

अस्माल्लोकात् परं लोकमेवं प्रेत्य न शोचति।

यस्यैते चत्वारो धर्माः सश्रद्धस्य (३) गृहमेधिनः।

सत्यं धर्मो धृतिस्त्यागः स वै प्रेत्य न शोचति॥

"इङ्घ" (४) अन्यान् पृच्छ पृथक् श्रमणब्राह्मणान्।

यदि सत्याद् धर्मात् त्यागात् क्षान्त्या भूयोऽथ विद्यते॥


p.16


7


कथं न्विदानीं पृच्छेयं पृथक् श्रमणाब्राह्मणान्।

सोऽहमद्य विजानामि सोऽर्थः साम्परायिकः (१)॥

अर्थाय बत मे बुद्धो वासाय आलावीम् (२) आगतः।

सोऽहमद्य विजानामि यत्र दत्तं महाफलम्।

सोऽहं विचरिष्यामि ग्रामाद् ग्रामं पुरात्पुरम्।

नमस्यन् सम्बुद्धं धर्मस्य च सुधर्मं तम्॥

इति आलवकसूत्रम्।


विधुशेखरशर्मा।


साहरामरुभूः


प्रियवाचमहाभागाः ! स्मर्यतां भवद्भिर्भुवभूतेः सूक्तिरत्नं -

पुरा यत्र स्रोतः पुलिनमधुना तत्र सरितां

विपर्यासं यातो घनविरलभावः क्षितिरुहाम्।

बहोर्दृष्टं कालादपरमिव मन्ये वनमिदं

निवेशः शैलानां तदिदमिति बुद्धिं द्रढयति॥ इति।


गच्छता पुनः कालेन शैला अपि सकतीभवन्ति। तन्नैतदाश्चय यन्मरुभूशिरोमणिः साहरापि षट्सहस्रवर्षतः पूर्व सरःसरिदादिसनाथा समृद्धतमा महानगर्यासीदिति। साम्प्रतं ४५ फरासीयवैज्ञानिकैः समग्रां साहाराभूमिं परिभ्रम्यैतन्निर्णीतम्। सर्वं हरतीति मरुभुवोऽस्याः सा हरेत्यन्वर्था समाख्या। प्रसिद्धविषयकस्तच्छब्दः।


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project