Digital Sanskrit Buddhist Canon

महावस्तु अवदानं

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2020
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

महावस्तु अवदानं
प्रथमः खण्डः

महावस्तु अवदानं

ओं नमः श्रीमहाबुद्धायातीतानागतप्रत्युत्पन्नेभ्यः सर्वबुद्धेभ्यः॥
महावस्तुये आदि। चत्वारीमानि बोधिसत्वानां बोधिसत्वचर्याणि। कतमानि
चत्वारि। प्रकृतिचर्या प्रणिधानचर्या अनुलोमचर्या अनिवर्तनचर्या। नमो
अपराजितध्वजाय तथागतायार्हते सम्यक्संबुद्धाय। यस्यान्तिकेऽनेनैव भवगता
शाक्यमुनिना प्रमथं कुशलमूलान्यवरोपितानि राज्ञा चक्रवर्तिभूतेनादौ प्रकृति-
चर्यायां प्रवर्तमानेन॥ नमोऽतीताय शाक्यमुनये तथागतायार्हते सम्यक्संबुद्धाय।
यस्यान्तिकेऽनेनैव भगवता शाक्यमुनिना प्रथमं कुशलमूलप्रणिधानं कृतं वणिकश्रेष्ठिभूतेनादौ प्रणिधानचर्यायां प्रवर्तमानेनाहो पुनरहमनागतेऽध्वनि बुद्धो
भवेयं तथागतोऽर्हं सम्यक्संबुद्धो यथायं भगवाञ्छाक्यमुनिर्ममापि शाक्यमुनिरिति
नामधेयं विस्तरेण यावत् ममापि कपिलवस्तुनगरं भवेदिति॥ नमः समिताविने तथागतायार्हते सम्यक्संबुद्धाय यस्यान्तिकेऽनेनैव भगवता शाक्यमुनिनानुलोम-
प्रणिधानं कृत राज्ञा चक्रवर्तिभूतेन अनुलोमचर्यायां प्रतिष्ठितेन [कतमा
निवर्तनचर्या]॥ नमो दीपंकराय तथागतायार्हते सम्यक्संबुद्धाय। येनायं
भगवान्प्रथमत एवं व्याकृत। भविष्यसि त्वं माणवकानागते ध्वनि अपरिमितासंख्येयाप्रमेयेहि कल्पेहि शाक्यमुनिर्नाम तथागतो र्हं सम्यक्संबुद्ध इति।
विस्तरेणोदीरयिष्यं दीपक-

(1)

रवस्तुनि मेघमाणवव्याकरणं॥ अतः प्रभृत्यनिवर्तनचर्यायां दीपंकरस्य तथागतस्य
तस्योत्तरेणापरिमाणेहि तथागतेहि अनुव्याकृतो बुद्धो भविष्यसिति॥ तत पश्चा-
त्सर्वाभिभुवापि भगवतानुव्याकृतं। भविष्यसि त्वं अभिजि भिक्षोऽनागते ध्वनि शतसहस्रकल्पे शाक्यमुनिर्नाम तथागतोऽर्हं सम्यक्संबुद्ध इत्येवमादि विस्तरेणोदी-
रयिष्यं अभिजिभिक्षुव्याकरणं॥ नमो विपश्यिने तथागतायार्हते सम्यक्संबुद्धाय॥
नमो क्रकुत्संदाय तथागतायार्हते सम्यक्संबुद्धाय॥ नमः काश्यपाय तथागतायार्हते सम्यक्संबुद्धाय॥ येन भगवता अयमेव भगवांछाक्यमुनिरनुव्याकृतो युव-
राज्ये चाभिषिक्तो। भविष्यसि त्वं ज्योतिष्पालानागते ध्वनि ममानन्तरमेव शाक्य-
मुनिर्नाम तथागतो र्हं सम्यक्संबुद्ध इति विस्तरेणोदीरयिष्यं ज्योतिष्पालस्य भिक्षोर्व्याकरणं॥

एवं नमोऽतीतानागतप्रत्युत्पन्नेभ्यस्संबुद्धेभ्यः॥

निदाननमस्काराणि समाप्तानि॥

आर्यमहासांघिकानां लोकोत्तरवादिनां मध्यदेशिकानां पाठेन विनयपिटकस्य
महवस्तुये आदि॥

चतुर्विधा उपसंपदा स्वाम-उपसंपदा एहिभिक्षुकाय उपसंपदा दशवर्गेन गणेन
उपसंपदा पंचवर्गेन गणेन उपसंपदा च॥ तत्र स्वामुपसंपदा नाम उपसंपन्ना

(२)

भगवन्तो भ्यासे बोधीय मूले॥ दश कुशला कर्मपथा ये हि समादाय वर्तन्ति ते
बोधाय समासन्नतरा भवन्ति॥ तत्रापि च सो प्रतिविशिष्ठो॥ तेनैवं बुद्धवैनेय-
तायै व सुकृतिष्वेतासु चरितेन दीपंकरमुपागमिय पटिपाटिया प्राणकोटिषु दृष्ट्वा
दर्शनीयं समन्तप्रासादिकं प्रसादनीयं श्रावकसंघपरिवृतं तस्य स्पृहाचित्तमुत्पाद्ये।
साधु स्याद्यद्यहं लोकमेव अभिभूय लोके लोकार्थचरो लोकस्यास्य हिताय जायेयं॥
ज्ञात्वा समुदागमं संबोधौ नियतं च तस्य प्रणिधानं आत्मसमताये समासतः।
स्वयंभूसमताये व्याकार्षीत्॥ बुद्धो भविष्यसि त्वमनागते ध्वन्यपरिमाणे शाक्यकुले
शाक्यसुतो देवमनुष्यणामर्थाय॥ सो व्याकृतो भगवता पुरुषोत्तमताये पुरुष-
सिंहेन अग्रपुरुषः सुपुरुषः पुरुषोत्तमचारिकामचरि॥ सो बोधिसत्वचर्यां सत्वानां
हितसुखं गवेषन्तो संसरति बोधिसत्वो लोकार्थं आत्मनो र्थं च। सो यं किञ्चिदेवं
दानं शीलं समयं चोपवासं सेवति अमात्सर्यवन्तो लोकस्य हितं गवेषन्तो। दानं
च प्रियवाद्यं च तथार्थचर्या समानसुखदुःखता संग्रहवस्तुहि जिनो चतुर्हि परि-
कल्पये सत्वां॥ न तस्य अभूषि किञ्चिदपरित्यक्तं यं अस्ति सन्निहितं। दृष्ट्वान च
याचनकं भूयोस्य मनो प्रसादित्वा चक्षूणि च मान्सानि च पुत्रदारं धनं च धान्यञ्च
आत्मा च जीवितं च भूयोभूयो परित्यक्ता॥ एतेन उपायेन बहुनि जातीनयुतश्-

(३)

तसहस्राणि संसरति बोधिसत्वो सत्वानामर्थं चिन्तयन्तो यथातथं कालज्ञो सम्-
यज्ञो पुद्गलपरापरज्ञताकुशलो समयमभिकांक्षमाणो तुषितकायं उपागमेसि।
तुषितभवने भवनुदो भवो अनित्यो ति भावयन्तो सुगतो चरिमं भवमुपागमि॥
भगवान्मवविप्रमोक्षाये एकतिलकोलभक्षो परमकृशो दुष्करन्तपो अचरि। परमश-
रीरपीडो जानन्तो न एष मार्गो ति विप्रमोक्षाय नदीकालसमये नदीये नैरंजना..
स्नायित्वा अग्रपुरे गयसाह्वये निषीदे सिंहो वा असंत्रस्तो। पुरिमे यामे अनध्..
दिव्यं चक्षुर्योनिशो विशोधेत्वा सत्वानामागतिगतिं विविधां भगवां अभिज्ञासि॥
यामे मध्यमस्मिं पूर्वनिवासं अनुस्मरसि इतरेषां आत्मनो च पुर्वं च निवासवा..
बहुप्रकारं अभिज्ञासि॥ यामे च पश्चिमस्मिं यं ज्ञेयं पुरुषदम्यसारथिना सर्वन्तमे-
कक्षणे स्वयम्भूसमतां समनुबुध्ये॥

इति श्रीमहावस्तुनिदानगाथा समाप्ता॥

भगवान्सम्यक्सबुद्धो यदर्थं समुदागतो तदर्थं अभिसंभावयित्वा श्रावस्तीयं वि-
हरति जेतवने अनाथपिण्डदस्यारामे शास्ता देवानां च मुनुष्याणां च विस्तरेण
निदानं कृत्यं॥

अथायुष्मान्महामौद्गल्यायनोऽभीक्ष्णं निरयचारिकां गच्छति॥ तत्र सत्वां

(४)

पश्यति अष्टसु महानरकेषु प्रत्येकषोडशोत्सदेषु अनेकविधानि नैरयिकानि दुःख-
सहस्राणि समनुभोन्तो॥ अहं च आयुष्मान्कोलितस्थविरो चरन्तो नरकचा-
रिकां अद्राक्षीत्सत्वा नरकेषु अनुभवन्ता बहू दुःखा संजीवे निरये ऊर्ध्वपादा
अधोशिरा वासीहि च परशूहि च क्षीयन्ता। अपरे पि परस्परं प्रदुष्टमनसं-
कल्पा आयसेहि नखेहि पाटेन्ति तीक्ष्णानि च असिपत्राणि हस्तेषु प्रादुर्भवन्ति
येहि परस्परं गात्राणिच्छिन्दन्ति न च कालं करोन्ति यावत्सानं पापका कर्मा न
परिक्षीणा॥ कालसूत्रे महानरके अद्राक्षीत्सत्वां कालसूत्रेण सूत्रिताङा निहतक्षी-
यन्तां परशूहि पि विपाटीयन्तां करपत्रेहि विपाटीयन्तान्॥ तक्षितपटितो च
सानं कायो पुन रुह्यति असाता वेदना वेदयन्ति न चैवं कालं करोन्ति कर्मोपस्त-
ब्धत्वात्॥ संघाते पि महानरके अद्राक्षीत्सत्वसहस्राणि पर्वतेहि पीडियन्ता
आदीप्तसंप्रज्वलितसज्योतिभूतेहि शोणितनद्यो च प्रसवन्ति भूयो च तानि पर्व-
तानि ते च संक्रमन्ति न चैवं तावत्कालं करोन्ति कर्मोपस्तब्धत्वात्॥ अद्राक्षी-
देकान्तरौरवे सत्वसहस्रियो ताम्रमयघनेषु आदीप्तसंप्रज्वलितसज्योतिभूतेषु धूम-
समाकुलेषु प्रक्षिप्ता दुःखसहस्राणि अनुभोन्ता। महारौरवे आदीप्तसंप्रज्वलिते

(५)

सज्योतिभूते अग्निस्मिं संप्रक्षिप्तानां महारावं रवन्तानां च शब्दो चक्रवाडमहाच-
क्रवाडेहि पर्वतेहि प्रतिहन्यते येहि चतुर्हि महाद्वीपेहि जम्बुद्वीपपूर्वविदेह-अपरगो-
दानीय-उत्तरकुरुषु मनुष्याणां श्रोताभासमागच्छति॥ अद्राक्षीत्तपने अनेका
सत्वसहस्रियो एकान्तकदुःखवेदना वेदयन्तां पार्ष्णि उपादाय यावदधिकृकाटिका
अयोकुट्टनेहि कुट्टीयन्ता अपराणि च दुःखसहस्राणि समनुभवन्ता न चैवं ताव
कालं करोन्ति कर्मोपस्तब्धत्वात्॥ तस्मिं महानरके आदीप्तसंप्रज्वलिते सज्यो-
तिभूते अनेकायो सत्वसहस्रियो उपपन्ना दुःखा वेदनां वेदेन्ता॥ तस्मिं महानरके
समन्तायोजनशतिके पूर्वाय भित्तीय अर्चिसहस्राणि उत्पत्तित्वा पश्चिमाये भित्तीये
प्रत्यहन्यन्ति। पश्चिमाये भित्तीये अर्चिसहस्राणि उत्पत्तित्वा पूर्वाये भित्तीये प्रत्य-
हन्यन्ति। दक्षिणाये उत्पत्तित्वा उत्तराये प्रत्यहन्यन्ति। उत्तराये उत्पत्तित्वा
दक्षिणायं प्रत्यहन्यन्ति। भूमीये उत्पत्तित्वा तले प्रत्यहन्यन्ति। तलातो उत्पत्तित्वा
भूमौ प्रत्यहन्यन्ति। तायो सत्वसहस्रियो समन्ततो परिपतन्ति न चैवं तावत्कालं
करोन्ति कर्मोपस्तब्धत्वात्। प्रतापस्मिं महानरके पर्वता प्रज्वलिता आदीप्ता
सज्योतिभूता। नैरयिकेहि सत्वेहि शूलोपेतेहि तानि पर्वतानि परिचारितानि॥
एदृशानि दुःखानि समनुभवन्ति च चैवं ताव कालं करोन्ति कर्मोपस्तब्धत्वात्॥
अतो महानरके मुक्ताः कुक्कुलन्ते वगाहन्ति। ते च तत्र कुक्कुले दह्यमानायो जना

(६)

प्रधावन्ति न चैवं कालं करोन्ति कर्मोपस्तब्धत्वात्॥ कुक्कुलातो मुक्ताः कुणपं अव-
गाहन्ति। तत्र कृष्णेहि प्राणकेहि अयोमुखेहि खज्जन्ति न चैव कालं करोन्ति
कर्मोपस्तब्धत्वात्॥ कुणपातो मुक्ता नरकोत्सदा द्रुमाणि रमणीयानि च वनप्रा-
न्तानि पश्यन्ति तेन सुखार्थिनो तानि वनप्रान्तानि धावन्ति। तत्रापि सानं कुलला
च गृध्रा च काकोलूका च अयोमुखा आर्द्रवृक्षे वा वर्जयित्वा मान्सानि खादन्ति।
यं तेषामस्थीनि अवशेषाणि भूयो पि मान्सच्छवि मान्सशोणितमुपजायति न चैवं
कालं कुर्वन्ति कर्मोपस्तब्धत्वात्॥ ते तेषां पक्षिणां भीता अलेने लेनसंज्ञिनो
असिपत्रवनं नरककुम्भं च प्रविशन्ति॥ तत्रापि संप्रविष्टानां वातानि उपवायन्ति
यैस्तानि असिपत्राणि पतन्ति तीक्ष्णानि। तेषां सत्वानां गात्राणि प्रत्याहन्यन्ति
नैवं सानं कश्चित्काये प्रदेशो यो अक्षतो भवति अन्तमसतो बालाग्रकोटिनिष्क्रम-
मात्रो पि न चैवं कालं करोन्ति कर्मोपस्तब्धत्वात्॥ ते क्षता च शयाना रुधिरम्र-
क्षितशरीरा वैतरणीं नदीं अवगाहन्ति सत्वा कठिनां क्षारनदीं याव सानं श्लक्ष्णि-
तानि अंगानि प्रतिविध्यन्ति न चैवं कालं करोन्ति कर्मोपस्तब्धत्वात्॥ ततो पि सानं
नरकपाला आयसेहि अङ्कुशेहि उद्धरेत्वा नदीतीरे आदिप्ताये भूमिये संप्रज्वलि-

(७)

तसतेजोभूताये आविद्धानां एवमाह॥ अहह भो पुरुषां किमिच्छथ॥ ते एवमा-
हन्सुः॥ परिबुभुक्षिता स्म संपिपासिता स्म॥ ततो सानं नरकपालाः अयोविष्कं-
भनेभि मुखं विष्कंभयित्वा आदीप्तसंज्वलितसतेजोभूतेहि अयोषण्डं धमेन्ति मुखं
स्वकं विवरयित्वा आदिप्तानि संप्रज्वलितानि सतेजोभूतानि अयोगुडानि मुखे
संप्रक्षिपन्ति॥ तं भूजन्तां भवन्तो॥ ताम्रलोहं च सानं विलीनकं पाययन्ति॥
पिबन्तां भवन्तो॥ यो सानं धममान एव ओष्ठं दहति ओष्ठं दहित्वा जिह्वां दहति
जिह्वां दहित्वा तालुकं दहति तालुकं दहित्वा कण्ठं दहति कण्ठं दहित्वा अन्त्रं
दहति अन्त्रं दहित्वा अन्त्रगुणमादाय अधोभागेन गच्छति न चैवं तावत्कालं
करोन्ति कर्मोपस्तब्धत्वा॥

एवं स्थविरो महामौद्गल्यायनो अष्टसु महानरकेषु सत्वा दुःखसहस्राण्यनु-
भवन्ता दृष्ट्वानहो कृच्छ्रन्ति जेतवनमागत्वा चतुर्णां परिषदां विस्तरेणारोच-
यति॥ एवं सत्वा अष्टसु महानरकेषु षोडशोत्सदेषु विविधानि दुःखसहस्राणि
प्रत्यनुभवन्ति। तस्माज्ज्ञातव्यं प्राप्तव्यं बोद्धव्यं अभिसंबोद्धव्यं कर्तव्यं कुशलं
कर्तव्यं ब्रह्मचर्यं न च वा लोके किंचित्पापं कर्म करणीयं ति वदेमि॥ एवं
स्थविरस्य महामौद्गल्यायनस्य श्रुत्वा बहूनि प्राणिसहस्राणि देवमनुष्याणां अद्भुतं
प्राप्नुवन्ति॥

(८)

एवं समासतो नरकवर्णः॥ विस्तरतो प्युपवर्णयिष्यामि॥

इमं लोकं पारलोकं सत्वानामागतिं गतिं।
च्युति-उपपत्तिसंसारं संबुद्धो स्वयमद्दसा॥
आवज्जन्तो सफलतां कर्मणां प्राणसंश्रितां।
यथास्थानं विपाकं च स्वयमवबुध्ये मुनिः॥
सो अभिज्ञाय आख्यासि नरकानष्ट गौतमः।
प्रत्यक्षधर्मा भगवां सर्वधर्मेषु चक्षुमां॥
संजीवं कालसूत्रं च संघातं च द्वौ च रौरवौ।
अथापरा महावीची तपनो च प्रतापनो॥
इत्येते अष्टौ निरया आख्याता दुरतिक्रमा।
आकीर्णा रौद्रकर्मेभिः प्रत्येकषोडशोत्सदा॥
चतुःकला चतुर्द्वारा विभक्ता भागशो मिता।
उद्गता योजनशतं समन्ताच्छतयोजनं॥
अयःप्राकारपरिक्षिप्ता अयसा प्रतिकुज्बिताः।
तेषामयोमयी भूमिः प्रज्वलिता तेजसायुता॥
सदायसफालास्फारा आवसथा दुरासदा।
रोमहर्षणरूपा च भीष्मा प्रतिभया दुःखा॥

(९)

महद्भयंकरा सर्वे अर्चिशतसमाकुला।
एकैको योजनशतं आदाये संप्रभासति॥
यत्र सत्वा बहू रौद्रा महाकिल्विषकारका।
चिरं कालं पतप्पन्ति अपि च वर्षशतान्यपि॥
अयोमयेहि दण्डेहि स्थूलनरकपालकाः।
हनन्ति प्रत्यमित्राणि ये भोन्ति कृतकिल्विषा॥
तेषामहं कीर्तयिष्यामि गिरायमनुपूर्वशः।
श्रोतुमादाय सत्कृत्य शृणोथ मम भाषतः॥
संजीवे सत्वा निरये ऊर्धपादा अधोशिराः।
प्रलंबयित्वा तक्ष्यन्ति वासीहि परशूहि च॥
ततो नखेहि तीक्ष्णेहि आयसेहि स्वयंभुहि।
अन्यमन्यं विवादेन्ति क्रुद्धा क्रोधवशानुगाः॥
असिनो चापरा तेषां तीक्ष्णा हस्तेषु जायिथ।
येहिच्छिन्दन्ति अन्योन्यं प्रदुष्टमनसारका॥
तेषां सीदन्ति गात्राणि शीतलवा-ऊहता।
सर्वाङ्गज्वलनस्तेषां पूर्वकर्मविपाकतः॥
एवं शास्ता यथाभूतमभिज्ञाय तथागतो।
संजीवमिति आख्यासि आवासं पापकर्मणां॥

(१०)

संजीवातो च निर्मुक्ता कुक्कुलमवगाहिषु।
हन्यमाना समागम्य दीर्घमायतविस्तरं॥
ते खु तत्र प्रधावन्ति योजनानि अनेकशो।
दह्यमाना कुक्कुलेन वेदेन्ता बहुदुःखकं॥
कुक्कुलातो च निर्मुक्ताः कुणपमवगाहिथ।
दीर्घपदातिविस्तीर्णं ते विध्वंसितपौरुषा॥
तमेनं कृष्णप्राणका अग्नितीक्ष्णमुखा खरा।
छविं भित्त्वान खादन्ति मान्सशोणितभोजनाः॥
कुणपातो च उत्तीर्णा द्रुमा पश्यन्ति शोभना।
हरितान्पत्रसंछन्नास्तानायान्ति सुखार्थिनः॥
तमेनं कुलला गृध्रा काकोला च अयोमुखा।
आर्द्रवृक्षे व वर्जित्वा खादन्ति रुधिरक्षतां॥
यदा च खादिता भोन्ति अस्थीनि अवशेषिता।
पुनस्तेषां छविमान्सं रुधिरं चोपजायते॥
ते भीता उत्पतित्वान अलेना लेनसंज्ञिनो।
असिपत्रवनं घोरं हन्यमाना उपागमि॥

(११)

ततो क्षता च आर्ता च बहुरुधिरम्रक्षिता।
असिपत्रवना मुक्ताः यान्ति वैतरणीं नदीं॥
तेन तामवगाहन्ति तप्तां क्षारोदकां नदीं।
तेषां च अङ्गमङ्गानि क्षतानि प्रतिविध्यत॥
ततो ऽङ्कुशेहि विद्धित्वा आयसैः यमपौरुषाः।
उत्क्षिपित्वा नदीतीरे भुंजावेन्ति अयोगुडां॥
ताम्रलोहं च शुल्वं च आपायेन्ति विलीनकं।
तमेषामन्त्रमादाय अधोभागेन गच्छति॥
एतानि पापकर्मान्ता नरकां प्रतिपद्यथ।
अकृत्वान कुशलं कर्म वाममार्गानुसारिणः॥
ये च पापानि कर्माणि परिवर्जन्ति योनिशः।
एकान्तकुशलाचारा न ते गच्छन्ति दुर्गतिं॥
तस्मा द्विरूपपर्याया कर्मा कल्याणपापका।
पापानि परिवर्जित्वा कल्याणं आचरे शुभं॥
कालसूत्रस्मिं नरके आर्द्रवृक्षे व वर्जिताः।
सूत्रयित्वान तेषाङ्गा वासीहि परशूहि च॥
ततो अयोमया पत्रा दीर्घकालसुतापिता।
दहन्ता पीडयन्ता च गात्रेषु परिवेष्टिता॥

(१२)

दहित्वा पीडयित्वा च अयोपत्रा विघट्टिता।
आवृंहितं छविमान्सं रुधिरं च प्रसारये॥
ततो पार्ष्णीहि पाटेत्वा याव अधिकृकाटिकां।
कालसूत्रस्मिं नरके बहु अपि संघट्टति॥
भैरवे अन्धकारस्मिं वार्ता यत्र न दृश्यति।
धूमसंघातस्मिं तस्मिं नरके ओसरन्ति च॥
ते च तत्र प्रधावन्ति योजनानि अनेकशः।
अन्यमन्यं आक्रमन्ता बध्रेषु परमन्त्रशः॥
एवं शास्ता यथाभूतं अभिज्ञाय तथागतः।
कालसूत्रं इदं वक्षे आवासं पापकर्मिणां॥
संघातस्मिं च नरके महता पर्वता अधो।
तेषामन्तरिकं सत्वा मृगवशो प्रवेशिता॥
ते पि शैला समागम्य सत्वानां कर्मप्रत्यया।
पीडयन्ति बहु प्राणां अग्निस्कन्धनिभानिव॥
पीडितानां च गात्राणां बहुं स्रवति शोणितं।
शरीरसंभ्रमे चापि पूयनद्यो प्रवर्तिथ॥

(१३)

आयसासु च द्रोणीषु अयोमुशलकोटिषु।
सुभन्ति प्रत्यमित्राणि अपि वर्षशतं बहुं॥
एवं शास्ता यथाभूतं अभिज्ञाय तथागतः।
संधातमिदमाख्यासि आवासं पापकर्मिणां॥
रौरवस्मिं च नरके ओरुद्धा जनता बहु।
अग्निस्मिं प्रज्वलितस्मिं शब्दं कुर्वन्ति भैरवं॥
यदा च अग्निर्निर्वाति अथ तूष्णीभवन्ति ते।
पुनरग्निस्मिं प्रज्वलिते निर्नादन्ति महत्स्वरं॥
द्वितीयो पि च आख्यातो रौरवो रोमहर्षणः
निरन्तकूलनरको गम्भीरो नसमुत्तरो॥
तत्र दण्डं गृहीत्वान स्थूलनरकपालका।
सुभन्ति प्रत्यमित्राणि अपि वर्षशतं बहुं॥
एवं शास्ता यथाभूतं अभिज्ञाय तथागतो।
रौरवं इति आख्यासि आवासं पापकर्मिणां॥
तपनस्मिं च नरके तप्तलोहो समुद्यतः।
निःस्वनन्ते च संतप्ता अग्निस्कन्धसमा दुःखा॥
तत्र पापसमाचारा ओरुद्धा जनता बहु।
पच्यन्ति पापकर्मान्ता ये भोन्ति कृतकिल्विषाः॥

(१४)

तां पक्वमात्रा संखिन्ना खादेन्ति सुनखा बहु।
प्रवृद्धकाया बलिनो मान्सशोणितभोजना॥
यदा च खादिता भोन्ति अस्थीनि अवशेषिता।
अथ तेषां छविमान्सं रुधिरं चोपजायति॥
एवं शास्ता यथाभूतमभिज्ञाय तथागतः।
तपनमिदमाख्यासि आवासं पापकर्मणां॥
प्रतापनस्मिं नरके तीक्ष्णशूला अयोमुखा।
महतो अग्निस्कन्धस्य पर्वतो भयभैरवः॥
तत्र पापसमाचारा आवृता जनता बहु।
अण्वन्ति पापकर्मान्ता मछा कठल्लगता यथा॥
एवं शास्ता यथाभूतं अभिज्ञाय तथागतः।
प्रतापनन्ति आख्यासि आवासं पापकर्मिणां॥
ततो अवीची करको एकान्तकटुको दुःखो।
महन्तो तपोसंतप्तो अर्चिसंघगणावृतः॥
अयोगुडा हि अग्निस्मिं यथरिव संतापिता।
एवं अवीची नरको हेष्टा उपरि पार्श्वतो॥
जातवेदोसमा कायाः तेषां नरकवासिनां।

(१५)

पश्यन्ति कर्मदृढतां न तस्माद्भोति नो गतिः॥
ते च तत्र प्रधावन्ति दृष्ट्वा द्वारमपावृतं।
अपि निष्क्रमणं यस्मा अस्ति मोक्षगवेषिणां॥
येषां च पापकं कर्म अविपक्वं पुरा कृतं।
न ते लभन्ति निर्गन्तुं निरयात्कर्मप्रत्यया॥
एवं शास्ता यथाभूतं अभिज्ञाय तथागतः।
अवीचिमिति आख्यासि आवासं पापकर्मिणां॥

संजीवं नाम॥ कस्य कर्मस्य विपाकेन तत्र सत्वा उपपद्यन्ति। इह सपत्ना ये
वा भोन्ति सापत्नका वा वैरिणः क्षेत्रवैरिका वा वस्तुवैरिका वा वप्रवैरिका वा
प्रतिराजानो वा चैरा वा संग्रामगता अन्यमन्यस्मिं सापत्नानि चित्तानि उपस्था-
पयित्वा कालं कुर्वन्ति तस्य कर्मस्य विपाकतो तत्र सत्वा उपपद्यन्ति॥ एवं खलु
पुनः आधिपतेयमात्रमेतं तत्रोपपत्तेः। तत्रोपपन्ना अन्येषां पि पापकानामकुश-
लानां कर्माणां विपाकं प्रत्यनुभवन्ति॥ कस्य कर्मस्य विपाकेन तक्षीयन्ति॥ येहि
इह जीवन्तो प्राणका तच्छिता भवन्ति वासीहि परशूहि कुठारीहि तस्य कर्मस्य
विपाकेन तक्षीयन्ति॥ कस्य कर्मस्य विपाकतो तेषां शीतको वायु उपवायति॥

(१६)

येहि इह निवापकभोजनानि दत्तानि भोन्ति शृगालमहिषाण शूकराण कुक्कुटान
पोषितानि मांसार्थाय वधिष्यामि त्ति तस्य कर्मस्य विपाकतो तेषां .....
हस्तेषु नखा जायन्ति दण्डा वा आयसा। यथा इह आयुधयानानि दत्तानि
भोन्ति एवं यूयं इमेहि आयुधेहि इत्थंनामं ग्रामं वा नगरं वा निगमं वा हनध्वं
मनुष्यां वा तिरच्छानगतां वा तस्य कर्मस्य विपाकतो तेषां हस्तेषु दण्डा वायसा
जायन्ति असिनो च॥ केनैष संजीवो॥ तत्र तेषां नैरयिकानां एवं भवति संजीवं
कालसूत्रभूतिकं तेनैष संजीवनिरयो॥

कालसूत्रं नाम॥ सो नरको याव आयुधहस्ता याव सज्योतिभूतो॥ तत्र
तां नैरयिका निरयपाला आर्द्रवृक्षे वा वर्जेत्वा कालसूत्रवशेन तक्षन्ति अष्टांशे
पि षडंशे पि चतुरंशे पि॥ अन्यषां दानि पार्ष्णि उपादाय यावत्कृकाटिकातो
यथा इक्षुगण्डिका एवं छिन्दन्ता गच्छन्ति अन्येषां पुनः कृकाटिकादुपादाय याव-
त्पार्ष्णि यथा इक्षुगण्डिका एवं छिन्दन्ता गच्छन्ति॥ ते तथाभूता अतिमात्रं दुःखा
वेदना वेदेन्ति न च पुनः कालं करोन्ति यावं न तत्पापकं कर्म क्षीणं भवति॥

(१७)

कस्य कमस्य विपाकेन तत्र सत्वा उपपद्यन्ति॥ येहि इह बद्धा भवन्ति हस्तिनिग-
डादिभिः कर्मकारापिता वा भवन्ति एत्तकानां हस्तानि छिन्दथ पादानि छिन्दथ
एत्तकानां नासा एत्तकानां स्नायुमान्सं उत्पाटेथ एत्तकानां बाहु एत्तकानां पृष्ठि-
मान्सं उत्पाटेथ पंचवारं वा दशवारकं वा तस्य कर्मस्य विपाकेन तत्र सत्वा उपप-
द्यन्ति॥ एवं खलु पुनः आधिपतेयमात्रमेतं तत्रोपपत्तेः। तत्रोपपन्ना अन्येषां पि
पापकानामकुशलानां कर्मणां विपाकं प्रत्यनुभवन्ति॥ तत्र ते नैरयिका निरयपालै-
स्ताड्यमाना परिभाष्यमाणाः सभुस्सू ति आहंसु॥ ते संभीता बहूनि प्राणसह-
स्राणि यथा नैवजीवानि एवन्तिष्ठन्ति॥ अथ यमपालानां पट्टानां तप्तानां संप्र-
ज्वलितानां सज्योतिभूतानां बहूनि पट्टसहस्राणि पुरतो वैहायसा गच्छन्ति॥
तेषां दानि आगच्छतां शब्दं करोन्ति। एतानि आगच्छन्तीति॥ तानि तेषां
आगत्वा प्रत्येकं गात्राणि परिवेष्टन्ति॥ तत्र तेषां छविं निर्दहन्ति चर्म पि मान्सं
पि स्नायुं पि निर्दहन्ति यथा सर्वं पि निर्दग्धं भवति॥ अथ तेषां आवृंहितं
तच्छविमान्सलोहितं व्यवदह्यति॥ ते तथाभूता अधिमात्रं दुःखा वेदनां वेदयन्ति
न च पुनः कालं करोन्ति याव सानं तं पापकं कर्म व्यन्तीकृतं न भवति॥ एवं
खलु पुनः आधिपतेयमात्रमेतं तत्रोपपत्तेः। तत्रोपपन्ना अन्येषां पि पापकानाम-

(१८)

कुशलानां कर्मणां विपाकं प्रत्यनुभवन्ति॥ कस्य कर्मस्य विपाकेन तत्र सत्वा
उपपद्यन्ति॥ येहि इह जीवन्ता प्राणा अनेकशो घाताविता भवन्ति येहि इह
याचनकेहि वा पण्डकेहि वा सर्वदण्डेहि वा दुःशीलेहि वा प्रव्रजितेहि ची-
वराणि वा कायबन्धनानि वा परिभुंजितानि भवन्ति तस्य कर्मस्य विपाकेन
तत्र सत्वा उपपद्यन्ति॥ एवं खलु पुनः आधिपतेयमात्रमेतं तत्रोपपत्तेः। तत्रो-
पपन्ना अन्येषां पि पापकानामकुशलानां कर्मणां विपाकं प्रयनुभवन्ति॥ अन्येषां
दानि पार्ष्णि उपादाय यावकृकाटिकातो वध्री विदारेन्ति॥ अन्येषां दानि
कृकाटिकातो उपादाय यावपार्ष्णि वध्री विदारेन्ति॥ अन्येषां दानि कृका-
टिका उपादाय यावकटीयो चीरकवध्राणि करोन्ति॥ ते तथाभूताधिमात्रां वे-
दना वेदयन्ति॥ कस्य कर्मस्य विपाकेनात्र सत्वा उपपद्यन्ति॥ येहि इध एरक-
वार्षिका वा कारापिता चीरकवार्षिका कारापिता वा तस्य कर्मस्य विपाकेन
तत्र सत्वा उपपद्यन्ति॥ यो निरये अन्धकारधूमसंघो परितो सो धूमो तीक्ष्णो

(१९)

कटुको भयानको छविं भित्त्वा चर्म भित्त्वा मान्सं भित्त्वा स्नायुं भित्त्वा अस्थिं
भित्त्वा अस्थिमर्जं मान्साद्यतिनिर्याति। सर्वे काया मूर्छन्ता तत्र संप्रक्षियन्ति॥
ते तत्र अनेकानि योजनशतानि अन्वाहिण्डन्ता अन्यमन्यं आक्रमन्ता पटिसुभन्ति॥
ते तथाभूता अधिमात्रा वेदनां वेदेन्ति न च पुनः कालं करोन्ति याव सानं तं
पापकं कर्म व्यन्तीकृतं न भवति॥ कस्य कर्मस्य विपाकातो तत्र सत्वा उपपद्यन्ति॥
येहि इध रन्ध्रेषु वा गुत्तीषु वा कारासु वा बन्धेषु वा साहिकानां वा किंपुरुषकानां
वा उन्दुरूणां वा विडालानां वा अजगराणां वा विले धूपं कृत्वा द्वारा रक्षिता
भवन्ति भधुकरा वा धूमेन बाधिता भवन्ति तस्य कर्मस्य विपाकतो तत्र सत्वा उप-
पद्यन्ति॥ एवं खलु पुनः विविधानां पापकानां अकुशलानां कर्माणां विपाकतो
तत्र सत्वा उपपद्यन्ति॥ एवं खलु पुनः आधिपतेयमात्रमेतं तत्रोपपत्तेः। तत्रो-
पपन्नाः अन्येषां पि विस्तरः॥ केनेदं कालसूत्रं॥ तत्र नैरयिकान्निरयपाला
आर्द्रवृक्षे वा वर्जेत्वा कालसूत्रवशेन तक्षन्ति तेनैष कालसूत्रनिरयो यथाकर्तव्यो॥

(२०)

संघातो नाम॥ सो नरको पर्वतान्तरिकसंस्थितो आयसो आदीप्तसंप्रज्वलितो
सज्योतिभूतो अनेकानि योजनशतानि आयतो॥ तत्र तेषां नैरयिकानां निरय-
पाला आयुधहस्ता उद्देशेन्ति॥ ते दानि भीताः तं पर्वतान्तरिकं प्रविशन्ति॥
तेषां दानि पुरतोऽग्नि प्रादुर्भूतो। ते दानि भीताः प्रतिनिवर्तन्ति। तेषां दानि
पृष्ठतोऽग्नि प्रादुर्भवति॥ ते दानि शैलाः परस्परं समागच्छन्ति। तेषु दानि
आगच्छन्तेषु शब्दं करोन्ति एतागच्छन्ति एतागच्छन्तीति॥ ते समागता यथा इक्षु
एवं पीडयन्ति॥ ते दानि शैला वैहायसमभ्युद्गच्छन्ति॥ ते तेषां हेष्टा अनुप्रवि-
शन्ति। यदा अनुप्रविष्टा भवन्ति बहूनि प्राणिसहस्राणि ते दानि शैला सन्निवि-
शन्ति यथा इक्षुगण्डा एवं पीडेन्ति लोहितनदीयो प्रस्यन्दन्ति॥ अस्थिसंकलिकाः
परिवर्ज्यन्ति निर्मान्सा स्नायुसंयुक्ताः॥ तथाभूता वेदना वेदेन्ति न च पुनः कालं
करोन्ति याव सानं न तं पापकं कर्म व्यन्तीकृतं भवति॥ कस्य कर्मस्य विपाकेन
तत्र सत्वा उपपद्यन्ति॥ येहि इह कीटकमर्दनानि वा कारापितानि भवन्ति तल-
मर्दनानि वा असिपत्रे वा देवानां तथैवा जीवन्तका एवं प्राणका पत्रयष्टीहि पी-
डिता भवन्ति लिक्षा वा यूका वा सांकुशा वा नखेहि पिच्चिता भवन्ति तस्य कर्मस्य
विपाकेन तत्र सत्वा उपपद्यन्ति॥ एवं खलु पुनः आधिपतेयमात्रमेतं तत्रोपपत्तेः।

(२१)

तत्रोपपन्नाः अन्येषां पि पापकानामकुशलानां कर्माणां विपाकं प्रत्यनुभवन्ति॥ ता
अस्थिसंकलिकायो आयसाहि द्रोणीहि आदीप्ताहि संप्रज्वलिताहि सज्योतिभूताहि
आयसेहि मुशलेहि आदीप्तेहि संप्रज्वलितेहि सज्योतिभूतेहि अयोपाते यथा पंच
वर्षशतानि भवन्ति॥ ते तथाभूता एवं दुःखां तीव्रां वेदना वेदयन्ति॥ कस्य कर्मस्य
विपाकेन तत्र सत्वा उपपद्यन्ति॥ येहि इह जीवन्तका प्राणका शक्तीहि विज्झिता
भवन्ति वा गदासिहि बाध्यन्ते वा येहि संप्रज्वलितेहि सजीवानि प्राणकानि व्या-
पाद्य उदूखले मुशलेहि संक्लिष्टा भवन्ति तस्य कर्मस्य विपाकतो तत्र सत्वा उपप-
द्यन्ति॥ केनैष संघातो ति वुच्चति॥ तत्र नैरयिका सत्वाः संघातमापद्यन्ते तेनैष
निरयो संघातो ति वुच्चति॥

.... तत्र ते नैरयिका बहूनि प्राणसहस्राणि प्रत्येकप्रत्येकं वा घरकेहि
ओरुद्धा छिन्न-ईर्यापथा गच्छन्ति॥ तेषां हस्ते अग्नि प्रज्वलति। यथायथा अग्नि
प्रज्वलति तथातथा शब्दं करोन्ति। यथायथा अग्निर्निर्वाति तथातथा तुष्णीभ-
वन्ति। ते तथाभूता अधिमात्रां वेदना वेदयन्ति॥ कस्य कर्मस्य विपाकतो तत्र
सत्त्वा उपपद्यन्ति॥ येहि इह अत्राणा अनभिसरणा कर्मकारापिता भवन्ति गेह-

(२२)

दाघा वा कृता भवन्ति वनदाघा कृता भवन्ति रन्ध्रेषु वा गुत्तीषु वा कारासु वा
बन्धेषु वा साहिकानां वा किंपुरुषाणां वा उन्दुरूणां वा विडालानां वा अजग-
राणां वा विलेषु अग्निं दत्वा द्वाराणि रक्षितानि भवन्ति मधूनि वा ताम्बूलानि
वा अग्निना बाधितानि भवन्ति तस्य कर्मस्य विपाकेन तत्र सत्वा उपपद्यन्ति॥ एवं
खलु पुनः आधिपतेयमात्रमेतं तत्रोपपत्तेः। तत्रोपपन्नाः अन्येषां पापकानामकुश-
लानां कर्माणां विपाकं प्रत्यनुभवन्ति॥ ......

महारौरवो नाम॥ सो नरको संचितो आयसो आदीप्तो संप्रज्वलितो सज्यो-
तिभूतो अनेकानि योजनशतानि आयतो॥ तत्र तेषां नैरयिकानां निरयपाला
मुद्गरहस्ता उद्देशेन्ति॥ ते दानि भीता अप्येकत्या धावन्ति अप्येकत्याः पलायन्ति
अप्येकत्या न पलायन्ति अप्येकत्या कुत्रापि अवसक्कन्ति अप्येकत्या न अवसक्कन्ति
अप्येकत्या अनुशक्यं संज्ञापयमानाः प्रत्युद्गच्छन्ति॥ ते दानि नरकपाला कस्य
दानि यूयं अत्र संज्ञापयमाना प्रत्युद्गच्छथेति तां प्रहरन्ति यथा दधिघटिका एवं
शीर्यन्ति विशीर्यन्ति॥ ये च धावन्ति ये च न धावन्ति ते तथाभूता दुःखां खरां
कदुकां वेदना वेदेन्ति॥ कस्य कर्मस्य विपाकेन तत्र सत्वा उपपद्यन्ति॥ येहि इह

(२३)

चन्द्रमसूर्याणि आवरित्वान् बन्धनानि कृतानि भवन्ति प्रवेशयित्वा ओसिरन्ति
एत्थ यूयं मा चन्द्रामासूर्यं पश्यथ तस्य कर्मस्य विपाकेन तत्र सत्वा उपपद्यन्ति॥
कस्य कर्मस्य विपाकतो तेषां सत्वानां शीर्षाणि पिच्चीयन्ति॥ येहि इह जीव-
न्तकानां प्राणकानां शीर्षाणि पिच्चितानि भवन्ति अहीनां वृश्चिकानां शतघ्नीनां
तस्य कर्मस्य विपाकेन तेषां शीर्षाणि पिच्चीयन्ति॥ केन तं रौरवं॥ तत्र ते
नैरयिका रोदन्ता न शक्नोन्ति अंबेति वा तातेति वा बान्धवानुपेतुं॥ तेनेदं
रौरवन्ति संज्ञितं॥

तपनो निरयो॥ तत्र ते नैरयिका ओरुद्धा बहूनि प्राणिसहस्राणि तिष्ठन्ति॥
ते दानि आर्द्रवृक्षे वा वर्जेत्वा खादन्ति॥ यदा दानि भवन्ति निर्मान्सा अस्थिसं-
कलिका ओरुद्धा स्नायुयुक्ता ते दानि संमूर्छित्वा सहवेदना प्रपतन्ति॥ अथ तेषां
कर्मविपाकतो शीतलको वातो उपवायति॥ तेन तेषां छविमान्सलोहितं उपजा-
यति॥ अथ ते पुरतो प्रवेशेन्ति ते तथाभूता॥ कस्य कर्मस्य विपाकेन तत्र सत्वा
उपपद्यन्ति॥ येहि इह अद्वारका घरा प्रतियत्ता भवन्ति तेषां भित्तियो लिस्ता-
पत्तियायं (?) भवन्ति जीवन्तका प्राणका तत्रापि वा कर्तरिकाहि प्रशस्ता भवन्ति
तस्य कर्मस्य विपाकेन तत्र सत्वा उपपद्यन्ति॥ तत्र कस्य कर्मस्य विपाकेन खज्जन्ति॥
येहि इह जीवन्तका प्राणका खादापिता भवन्ति सिंहेहि व्याघ्रेहि द्वीपिहि ऋक्षेहि

(२४)

तरक्षुहि तस्य कर्मस्य विपाकेन खज्जन्ति॥ कस्य कर्मस्य विपाकतो तेषां शीतको
वातो उपवायति॥ येहि इध निवापकभोजनानि दत्तानि भवन्ति मृगाणां महि-
षाणां सूकराणां कुक्कुटानां स्थूलमान्सार्थाय वधिष्यामि त्ति तस्य कर्मस्य विपाकतो
तेषां शीतको वातो उपवायति॥ केनैष तपनो॥ नैरयिका दह्यन्ति तेनैषो तपनो
नाम नरको आयसेहि शूलेहि सन्तप्तेहि समन्ततो हि अनुप्रवारितो॥ तत्र ते
नैरयिका केचि एकशूलेनायुता पच्यन्ति केचि द्विहि केचि यावद्दशहि शूलेहि आयु-
ता पच्यन्ति॥ यदा दानि एकं पार्श्वं पक्वं भवति विस्तीर्णमथ द्वितीयेन पार्श्वेन॥
अप्येकत्या नैरयिका अधिमात्रत्वात्पापकानामकुशलानां कर्मणां विपाकतो स्वय-
मेव अनुपरिवर्तयन्ति॥ ते तथाभूता अधिमात्रां वेदना वेदयन्ति। कस्य कर्मस्य
विपाकतो तत्र सत्वा उपपद्यन्ति॥ येहि इह जीवशूलिका कारिता भवन्ति एड-
कायो ते तस्य कर्मस्य विपाकतो तत्र सत्वा उपपद्यन्ति॥ एवं खलु पुनः आधिप-
तेयमात्रमेतं तत्रोपपत्तेः। तत्रोपपन्नाः अन्यषां पि पापकानामकुशलानां कर्मणां
विपाकं प्रत्यनुभवन्ति॥ .....
.... केनैष अवीचि नाम॥ तस्य पुरस्तिमातो कुड्डातो अर्चियो पश्चिमे कुड्डे प्रति-

(२५)

हन्यन्ति पश्चिमातो कुड्डातो अर्चियो पुरस्तिमे कुड्डे प्रतिहन्यन्ति दक्षिणातो कुड्डातो
अर्चियो उत्तरे कुड्डे प्रतिहन्यति उत्तरातो कुड्डातो अर्चियो दक्षिणे कुड्डे प्रतिह-
न्यन्ति। भूमिये उत्पत्तिता अर्चियो तले प्रतिहन्यन्ति तला निपतितायो अर्चियो
भूमिये प्रतिहन्यन्ति सर्वोऽर्चीहि सो नरको प्रतिबद्धो॥ तत्र ते नैरयिका बहूनि
प्राणसहस्राणि यथा काष्ठानि एवं विचित्रं पच्यन्ति॥ ते तथाभूता दुःखां तीव्रां
खरां कटुकां वेदना वेदयन्ति न चैवं तावत्कालं करोन्ति यावत्सानं न तत्पापकं
कर्म व्यन्तीकृतं भवति॥ एवन्तं पूर्वे मनुष्यभूतेहि अभिसंस्कृतं अभिसमादियित्वा
नियतं वेदनीयं॥ एवं खलु पुन आधिपतेयमात्रमेतन्तत्रोपपत्तेः।
तत्रोपपन्ना अन्ये-
षां पि पापकानामकुशलानां कर्माणां विपाकं प्रत्यनुभवन्ति॥ कस्य कर्मस्य विपा-
केन तत्र सत्वा उपपद्यन्ति॥ ये इह मातृघातका वा भवन्ति पितृघातका वा
अर्हन्तघातका वा तथागतस्य वा दुष्टचित्ता रुधिरोत्पादका वा सर्वेषामपि ईदृ-
शानामकुशलानां कर्मपथानां विपाकेन तत्र सत्वा उपपद्यन्ति॥ एवं खलु पुनर्वि-
विधानां पापकानामकुशलानां कर्माणां विपाकेन तत्र सत्वा उपपद्यन्ति॥ तेनैष
अवीचि इति वुच्चति। तत्र ते नैरयिका अवीचिं कटुकां तीव्रां खरां वेदना
वेदयन्ति नो यथान्येषु नरकेषु नरकपाला भीता कर्माणि कारापेन्ति शीतको वातो
उपवायति यथा अन्यत्र न एवं तत्र॥ अत्र खलु अवीचिं महानरके दुःखां तीव्रां
खरां कटुकां वेदना वेदयन्ति तेनैषो अवीची नाम महानरको॥

(२६)

इति श्रीमहावस्तु-अवदाने नरकपरिवर्त नाम सूत्रं समाप्तं॥

आयुष्मान्महामौद्गल्यायनो अभीक्ष्णं तिरच्छानचारिकां गच्छति। सो पशति
तिरच्छानयोनीषु सत्वा उपपन्ना विविधा दुःखानि प्रत्यनुभवन्तो॥ आयुष्मां
कोलितो स्थविरो चरन्तो तिरच्छानचारिकां अद्राक्षीत्तियग्योनिषु सत्वां परमदुः-
खिता शुष्कार्द्राणि तृणानि मुखुल्लोचकं परिभुजन्तां शीतोष्णानि च पानीयानि
पिबन्तां न च सानं माता प्रज्ञायति न पिता न भ्राता न भगनी न गुरु न
गुरुस्थानीयो न मित्रज्ञातिसालोहितं॥ अन्यमन्यं खादन्ति अन्यमन्यस्य शोणितं
पिबन्ति अन्यमन्यं घातेन्ति अन्यमन्यं विसुभन्ति॥ ते तमातो तमं गच्छन्ति अपा-
यातो अपायं गच्छन्ति दुर्गतिहि दुर्गतिं गच्छन्ति विनिपातातो विनिपातं गच्छन्ति
विविधान्यपि दुःखसहस्राणि प्रत्यनुभवन्ति कृच्छ्रेण तिर्यग्योनिषु उच्छहन्ति॥ सो
तं तिर्यग्योनिषु महन्तं आदीनवं दृष्ट्वा जेतवनं गत्वा चतुर्णा पर्षाणां विस्तरेणा-
रोचयसि॥ एवं ये ते सत्वा तिर्यग्योनीषु उपपन्ना विविधानि दुःखानि दुःखसह-
स्राणि प्रत्यनुभवन्ति कृच्छ्रेण तिर्यग्योनिषु उच्चहन्ति॥ तस्मा ज्ञातव्यं प्राप्तव्यं

(२७)

बोद्धव्यं अभिसंबोद्धव्यं कर्तव्यं ब्रह्मचर्यं न च वा लोके किञ्चित्पापं करणीयन्ति
वदामि॥

आयुष्मान्महामौद्गल्यायनो अभीक्ष्णं प्रेतचारिकां गच्छति॥ सो पश्यति सत्वां
प्रेतलोके उपपन्ना विविधानि दुःखसहस्राणि प्रत्यनुभवन्तो॥ आयुष्मान्कोलितो
स्थविरो चरन्तो प्रेतचारिकां अद्राक्षीत्प्रेतलोकस्मिं प्रेतां परमदुःखितां महाकायां
सूचीमुखां सन्निरुद्धकण्ठां सततमभ्यवहरन्ता तृप्तिं नाधिगच्छन्तां॥ किं पुनः अकृ-
तपुण्यातो येन किंचित्न लभन्ति दुर्वर्णा दुर्दर्शना दुर्गन्धा दुरुपेता अल्पेशाख्या
प्रतिकूलदर्शना नग्नका अप्रतिच्छन्ना क्षुत्पिपासासमर्पिता उच्चारप्रस्रावखेटसिंहा-
णिकापुब्बरुधिरं संपिपासन्ति॥ तेषां कर्मविपाकातो वातो वायति अस्ति पानी-
यन्ति अस्ति पानीयन्ति अस्ति कूरं अस्ति य्वागू ति ते तं घोषं श्रुत्वा नदीयो च
पर्वतां च लंघयित्वा गच्छन्ति एत्थ वयं खादिष्यामः एत्थ वयं भूंजिष्यामः एत्थ वयं
पिबिष्यामो ति॥ तथा ते पूर्वं आशां कृत्वा निराशा भवन्ति॥ तेषां नास्ति ना-
स्तीति वातो वायति ते तं शब्दं श्रुत्वा निराशा तेनैव अवकुब्जा प्रपतन्ति॥ प्रेती
गाथां भाषते॥

पंचानां वर्षशतानां अयं घोषो मया श्रुतं।
पानीयं प्रेतलोकस्मिं पश्य याव सुदुर्लभं॥

(२८)

अपरा प्रेती गाथां भाषते॥
पञ्चानां वर्षशतानामयं घोषो मया श्रुतो।
कूरो ति लोके प्रेतस्मिं पश्य याव सुदुर्लभं॥
अपरा प्रेती गाथां भाषे॥
पञ्चानां वर्षशतानामयं घोषो मया श्रुतं।
य्वागूति प्रेतलोकस्मिं पश्य याव सुदुर्लभं॥
अपरा प्रेती गाथां भाषे॥
नदीमुपेन्ति तृषिता सिकता परिवर्तति।
छायामुपेन्ति सन्तप्ता आतपो परिवर्तति॥
अपरा प्रेती गाथां भाषति॥
धिग्जीवितं आजीविषु यमन्तस्मिं नदामथ।
विद्यमानेषु भोगेषु प्रदीपं न करोथ व॥

सो तं प्रेतलोके महन्तं आदीनवं दृष्ट्वा जेतवनमागत्वा चतुर्णां पर्षदानामनेकप-
र्यायेण विस्तरेणारोचयति॥ एवं सत्वा प्रेतलोके उप्पन्ना विविधानि दुःखसह-
स्राणि प्रत्यनुभवन्ति। तस्मात् ज्ञातव्यं प्राप्तव्यं बोद्धव्यं अभिसंबोद्धव्यं कर्तव्यं कुश-
लञ्च कर्तव्यं ब्रह्मचर्यं न च वा लोके किंचित्पापं कर्म करणीयन्ति वदेमि॥ स्थवि-
रस्य श्रुत्वा अनेकप्राणसहस्राणि देवमनुष्याणां अमृतं प्रापुणेन्सु॥

(२९)

आयुष्मान्महामौद्गल्यायनो अभीक्ष्णं असुरचारिकां गच्छति॥ सो पश्यति
असुरपुरे असुरां प्रवृद्धमहाकाया उग्रदर्शना व्यापादबहुला असुरेषु च्यवित्वा
विनिपातेन्ता॥ आयुष्मान्कोलितो स्थविरो चरन्तो असुरचारिकामद्राक्षीत्सुरेषु
व्यापादेन सुदुःखितां पंच असुरगणान्॥ तेषामेवं भवति। वयं हेष्टा उपरि
देवा॥ ततः कुप्यन्ति व्यापद्यन्ति अभिष्यन्दन्ति कोपं च रोषं च अप्रत्ययं च आवि-
ष्करोन्ति॥ ते चतुरङ्गबलकायं सन्नहित्वा हस्तिकायं अश्वकायं रथकायं पत्तिकायं
सन्नहित्वा देवगुल्मानि प्रभजन्ति यदिदं करोटपाणयो नाम यक्षा मालाधारा नाम
यक्षाः सदामत्ता नाम यक्षाः। एतानि देवगुल्मानि भंजित्वा देवेहि त्रायस्त्रिंशेहि
संग्रामेन्ति॥ ते खु देवानां त्रायस्त्रिंशानां कृतपुण्यानां महेशाख्यानामन्तिके चि-
त्तानि प्रदुषयित्वा कायस्य भेदात्परं मरणादपायदुर्गतिविनिपातनरकेषूपपद्यन्ति॥
सो तं असुराणां महान्तमादीनवं दृष्ट्वा जेतवनमागत्वा चतुर्णां पर्षाणां विस्तरेण-
मारोचयति॥ एवं सत्वा महासमुद्रे असुरपुरे विविधानि दुःखानि प्रत्यनुभवन्ति।
तस्माज्झातव्यं बोद्धव्यं प्राप्तव्यं प्रतिसंबोद्धव्यं कर्तव्यं ब्रह्मचर्यं न च किञ्चिल्लोके पापं
कर्म करणीयन्ति वदामि॥ स्थविरस्य श्रुत्वा बहूनि प्राणसहस्राणि देवमनुष्याणा-
ममृतं प्रापयन्ति॥

आयुष्मान्महामौद्गल्यायनो अभीक्ष्णं चतुर्महाराजिकेषु देवेषु चारिकां गच्छति॥
तत्र पश्यति चतुर्महाराजिकदेवां कृतपुण्यां महेशाख्या दीर्घायुष्कां वर्णवन्ता सुखब-

(३०)

हूलां लाभी दिव्यस्यायुषः वर्णस्य सुखस्य ऐश्वर्यस्य परिवारस्य लाभिनो दिव्यानां
रूपाणां शब्दानां गन्धानां रसानां प्रष्टव्यानां दिव्यानां वस्त्राणां दिव्यानां आभर-
णानां। अग्रतो आभरणानि आबद्धानि पृष्ठतो दृश्यन्ते पृष्ठितो आबद्धानि अग्रतो
दृश्यन्ति छाया पि सानं न दृश्यति स्वयंप्रभा अन्तरीक्षचरा
येनकामंगमा प्रभूत-
भक्षा प्रचुरान्नपाना दिव्येषु रतनामयेषु विमानेषु दिव्येहि पंचहि कामगुणेहि सम-
र्पिता समंगीभूता क्रीडन्ता रमन्ता प्रविचारयन्ता॥ संपत्तिं स्थविरो विपत्तिप-
र्यवसानं पश्यति॥ स्वयंप्रभा ततो चातुर्महाराजिकेषु च्यवमाना नरकेषूपपद्यन्ति
तिरच्छेषूपपद्यन्ते प्रेतेषु असुरेषु कायेषु उपपद्यन्ति॥ स्थविरो दानि देवानां चातु-
र्महाराजिकानां तां विपरिणामदुःखतां दृष्ट्वा अहो कृच्छं  ति जेतवनमागत्वा
चतुर्णां पर्षाणां विस्तरेणारोचयति॥ एवं सत्वा कुशलस्य कर्मस्य विपाकेन चातु-
र्महाराजिकेषु देवेषूपपद्यन्ति॥ ते तत्र दिव्यानि संपत्ती अनुभवित्वा ततो च्यव-
माना नरकतिरिच्छप्रेतासुरेषु कायेषु उपपद्यन्ति। देवा पि अनित्याः अध्रुवाः
विपरिणामधर्माणो॥ तस्माज्ज्ञातव्यं प्राप्तव्यं बोद्धव्यं अभिसंबोद्धव्यं कर्तव्यं कुशलं
च कर्तव्यं ब्रह्मचर्यं न च वा लोके किञ्चित्पापं कर्म करणीयन्ति वदामि॥ स्थवि-
रस्य श्रुत्वा बहूनि प्राणसहस्राणि देवमनुष्याणाममृतं प्रापयन्ति॥

आयुष्मान्महामौद्गल्यायनो अभीक्ष्णं त्रायस्त्रिंशेषु देवेषु चारिकां गच्छति॥
तत्र पश्यति त्रायस्त्रिंशां देवां कृतपुण्यां महेशाख्यां दीर्घायुष्कां बलवन्तां सुखबहुलां

(३१)

लाभी दिव्यस्ययुषः बलस्य सुखस्य ऐश्वर्यस्य परिवारस्य दिव्यानां रूपाणां शब्दानां
गन्धानां रसानां स्पर्शानां वस्त्राभरणानां कामगुणानां स्वयंप्रभा अन्तरीक्षेचरा
सुखस्थायिनो येनकामंगमा प्रभूतभक्षा प्रचुरान्नपानाः दिव्येषु रतनामयेषु विमानेषु
अष्टसु च महा-उद्यानेषु वैजयन्ते नन्दापुष्करिणीपारिपात्रे कोविदारे महावने पारु-
ष्यके चित्ररथे नन्दने मिश्रकावने अपरेषु च रतनामयेषु च विमानेषु दिव्येहि
पंचहि कामगुणेहि समर्पिता समङ्गीभूता क्रीडन्ता रमन्ता परिचारयन्ता। शक्रो
पि देवानामिन्द्रो वैजयन्ते प्रासादे अशीतिहि अप्सरसहस्रेहि परिवृतः दिव्येहि
पंचकामगुणेहि समर्पितो समंगीभूतो क्रीडन्तो रमन्तो प्रविचारयन्तो॥ स्थविरो
तां देवानां त्रायस्त्रिंशानां तादृशीं समृद्धिं दृष्ट्वा दिव्यां संपत्तिं दृष्ट्वा सुदर्शनं च
देवनगरं दृष्ट्वा सप्तरतनामयं सुदर्शनस्य देवनगरस्य तं विधानं दृष्ट्वा सुधर्मां च
देवसभां सर्ववैडूर्यमयीं योजनसाहस्रिकां दृष्ट्वा यत्र देवा त्रायस्त्रिंशाः शक्रो च
देवानामिन्द्रो सन्निषणा सन्निपतिता देवकरणीयेषु वाह्यतो देवसभायां दृश्यन्ति
देवा पि त्रायस्त्रिंशा सुधर्माये देवसभाये निषणाः सर्वं सुदर्शनं देवनगरं पश्यन्ति॥
एवं स्थविरो सर्वां त्रायस्त्रिंशानां देवानां समृद्धिं दृष्ट्वा जेतवनमागत्वा चतुर्णां
पर्षाणां विस्तरेणारोचेति॥ एवं सत्वा कुशलस्य कर्मस्य विपाकेन देवेषु त्रायस्त्रिं-
शेषूपपन्ना दिव्यायो संपत्तीयो अनुभवन्ति॥ तं पि अनित्यमध्रुवं विपरिणाम-
धर्मि॥ ततो च्यवमाना नरकतिरिच्छप्रेतेषु उपपद्यन्ति॥ तस्माज्ज्ञातव्यं प्राप्तव्यं

(३२)

बोद्धव्यं अभिसंबोद्धव्यं कर्तव्यं कुशलं कर्तव्यं ब्रह्मचर्यं न च वा लोके किंचित्पापं
कर्म करणीयन्ति वदेमि॥
आयुष्मान्महामौद्गल्यायनो भीक्ष्णं यामतुषितनिर्माणरतिपरनिर्मितवशवर्तिब्र-
ह्मकायिका याव शुद्धावासां देवां चारिकां गच्छति॥ सो पश्यति शुद्धावासका-
यिकां देवा कृतपुण्या महेशाख्यां दीर्घायुष्कां वर्णवन्तां सुखबहुलां स्वयंप्रभा अन्त-
रीक्षावचरा प्रीतिभक्षा सुखस्थायिनो येनकामंगमा विगतरागा देवार्हन्तो अन्त-
रापरिनिर्वायी अनावर्तिकधर्मा अस्मिं लोके अव्यवकीर्णा सर्वबालपृथग्जनेषु॥
स्थविरो तान्तादृशीं समृद्धिं देवानां दृष्ट्वा जेतवनमागत्वा चतुर्णां पर्षाणां विस्त-
रेणारोचयति॥ एवं सत्वा कुशलस्य कर्मस्य विपाकेन देवेषु देवानां संपत्तीयो
नुभवन्ति। तं पि अनित्यं दुःखविपरिणामधर्मं॥

सर्वं आदीनवं लोकं सर्वं लोकं आदीपितं।
सर्वं प्रज्वलितं लोकं सर्वलोकं प्रकम्पितं॥
अचलं अप्रकम्पितं सपृथग्जनसेवितं।
बुद्धा धर्मं देशयन्ति उत्तमार्थस्य प्राप्तये॥

तस्माज्ज्ञातव्यं प्राप्तव्यं बोद्धव्यं कर्तव्यं कुशलं कर्तव्यं ब्रह्मचर्यं न च वा लोके
किञ्चित्पापं कर्म करणीयन्ति वदेमि॥ स्थविरस्य श्रुत्वा अनेकानि प्राणसहस्राणि
देवमनुष्याणां अमृतं प्रापयन्ति॥

(३३)

भगवान्सम्यक्संबुद्धो यदर्थं समुदागतो तदर्थमभिसंभावयित्वा राजगृहे विह-
रति गृध्रकूटे पर्वते शास्ता देवानाञ्च मनुष्याणां च सत्कृतो गुरुकृतो मानितो
पूजितो अपचितो लाभाग्रयशोग्रप्राप्तः लाभी चीवरपिण्डपात्रशयनासनग्लानप्र-
त्ययभैषज्यपरिष्काराणां तत्र अनुपलिप्तो पद्ममिव जले पुण्यभागीयां सत्वा पुण्येहि
निवेशेन्तो फलभागीयां सत्वां फलेहि प्रतिष्ठापयन्तो वासनाभागीयां सत्वां वासना-
यामवस्थापयन्तो अमृतवर्षेण देवमनुष्या संविभजन्तो प्राणसहस्राणि अमृतमनु-
प्रापयन्तो अनवराग्रजातिजरामरणसंसारकान्तानरकादिदुर्गसंसारकान्तारग्रह-
णदारुणातो महाप्रपातातो उद्धरित्वा क्षेमे स्थले शमे शिवे अभये निर्वाणे प्रति-
ष्ठापयन्तो आवर्जयित्वा अङ्गमगधां वज्जिमल्ला काशिकोशलां चेतिवत्समत्स्यां
शूरसेनां कुरुपंचाला शिविदशार्णा च अश्वक-अवन्ती ज्ञानेषु पराक्रम्य स्वयंभू
दिव्येहि विहारेहि आनिंजेहि विहारेहि सान्तत्येहि विहारेहि बुद्धो बुद्धविहारेहि
जिनो जिनविहारेहि जानको जानकविहारेहि सर्वज्ञो सर्वज्ञविहारेहि चेतोवशि-
प्राप्तो च पुनर्बुद्धो भगवन्तो येहि येहि विहारेहि आकांक्षति विहरितुं तेहि तेहि
विहारेहि विहरति॥ अथ सो आयुष्मान्महामौद्गल्यायनो काल्यस्यैव निवास-
यित्वा राजगृहं नगरं पिण्डाय प्रक्रमि॥ अथ खल्वायुष्मतो महामौद्गल्यायनस्य
अचिरप्रक्रान्तस्य एतदभूषीत्॥ अतिप्रागेव खलु तावदेतर्हिं राजगृहे नगरे पि-

(३४)

ण्डाय चरितुं यन्नूनाहं येन शुद्धावासो देवनिकायो तेनुपसंक्रमेयं। चिरं मे
शुद्धावासं देवनिकायं उपसंक्रान्तस्य॥ अथ खल्वायुष्मान्महामौद्गल्यायन पदवी-
तिहारेण ऋद्धीये येन शुद्धावासं देवनिकायं तेन प्रक्रामि॥ अद्राक्षुः सम्बहुला
शुद्धावासकायिका देवपुत्रा आयुष्मन्तं महामौद्गल्यायनं दूरतो येवागच्छन्तं दृष्ट्वा
च पुनर्येनायुष्मान्महामौद्गल्यायनो तेन प्रत्युद्गतासुः॥एत्थ एत्थ आर्यो महामौ-
द्गल्यायनो। स्वागतमार्यमहामौद्गल्यायनस्य अनुरागमार्यस्य महामौद्गल्यायनस्य।
चिरस्य पुनः आर्यो महामौद्गल्यायनो पर्यायमकार्षीत् यदिदं इह आगमनाय॥
अथ खलु ते संबहुला शुद्धावासकायिका देवपुत्रा आयुष्मतो महामौद्गल्यायनस्य
पादौ शिरसा वन्दित्वा एकमन्ते स्थिता। तत्र अन्यतरो शुद्धावासकायिको देव-
पुत्रो आयुष्मन्तं महामौद्गल्यायनमेतदवोचत्॥ आश्चर्यमिदमार्य महामौद्गल्यायन
अद्भुतमिदमार्य महामौद्गल्यायन यावद्दुःखसमुदानीया अनुत्तरा सम्यक्संबोधिः
यदिदं कल्पानां शतसहस्रेण॥ अथ खलु भगवन्सो शुद्धावासकायिको देवपुत्रो
आयुष्मन्तं महामौद्गल्यायनं अध्यभाषि॥ कल्पान शतसहस्रं अभियो नाम भिक्षु
सरागो अभूषि सदोषो समोहो॥ तेन खलु पुनः मौद्गल्यायन समयेन वसुमतं

(३५)

नाम नगरं अभूषि ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णजनमनुष्यं च सुखित-
जनमनुष्यं च बहुजनमनुष्यं च प्रशान्तदण्डडमरं सुनिगृहीततस्करव्यवहारसंपन्नं॥
वसुमते खलु पुनर्मौद्गल्यायन महानगरे उत्तियो नाम श्रेष्ठी अभूषि कृतपुण्यो महे-
शाख्यो आढ्यो महाधनो महाभोगो प्रभूतस्वापतेयो प्रभूतधनधान्यकोशकोष्ठागारो
प्रभूतजातरूपरजतवित्तोकरणो प्रभूतहस्त्यश्वगवेडको प्रभूतदासीदासकर्मकरपौ-
रुषेयो भगवतो सर्वाभिभुस्य शासने श्रद्धाप्रसन्नो बुद्धधर्मसंघमङ्गलो नन्दादीनां
भिक्षूणामभिप्रसन्नो॥ अथ खलु मौद्गल्यायन नन्दो च भिक्षुः अभियो च भिक्षुः
उत्तियस्य श्रेष्ठिस्य गृहमुपसंक्रमेयुः॥ नन्दो मौद्गल्यायन भिक्षुः तस्मिं श्रेष्ठिकुले
सत्कृतो अभूषि गुरुकृतो मानितः पूजितः अपचितः न तथा अभियो भिक्षुः॥
उत्तियस्य खलु पुनः मौद्गल्यायन श्रेष्ठिस्य धीता वसुमते महानगरे अन्यतरस्य
गृहपतिमहाशालस्य भार्या अभूषि। सा मौद्गल्यायन नन्दस्य भिक्षुस्य अतीवाभि-
प्रसन्ना अभूषि॥ अथ खलु महामौद्गल्यायन अभियो भिक्षुः नन्दं भिक्षुं ईर्ष्याप्रकृ-
तेन अभूतेनाब्रह्मचर्यवादेन अनुध्वंसेति॥ अब्रह्मचारी नन्दो भिक्षुः पापधर्मा
असंयतो प्रतिच्छन्नपापकर्मान्तो। उत्तियस्य श्रेष्ठिस्य धीतुः सार्द्धं विप्रदुष्टो॥ तं

(३६)

सेवितं वसुमते महानगरे यं महाजनकायेन श्रोतव्यं श्रद्धातव्यं मन्येन्सुः॥ अथ
खलु महामौद्गल्यायन नन्दं भिक्षुं वसुमते महानगरे ब्राह्मणगृहपतिका उत्तियो च
श्रेष्ठी न भूयो तथा सत्करितव्यं गुरुकर्तव्यं मानयितव्यं पूजयितव्यं मन्येन्सुः यथा
पूंर्व। लभ्यं सत्पुरुषा प्रत्यागच्छन्ति अकुशलेन कर्मणा विप्रतिसारी भवन्ति॥ अथ
खलु महामौद्गल्यायन अभियस्य भिक्षुस्य एतदभूषि॥ नन्दो भिक्षु वीतरागो
विगतदोषो विगतमोहो अरहो महाभागो सो च मये ईर्ष्याप्रकृतेन अभूतेनाब्र-
ह्मचर्यवादेन अनुध्वंसितो॥ मया बहुं अपुण्यं प्रसूतं॥ यन्नूनाहं नन्दं भिक्षुं
क्षमापेयं भगवतो च सर्वाभिभुस्य अन्तिके अत्ययं देशेयं॥ अथ खलु महामौद्ग-
ल्यायन अभियो भिक्षु नन्दं भिक्षुं क्षमापयामास भगवतो च सर्वाभिभूस्य अन्तिके
अत्ययं देशेति॥ अथ खलु महामौद्गल्यायन अभियो भिक्षुः येन उत्तियो श्रेष्ठि-
स्तेनोपसंक्रमित्वा उत्तियं श्रेष्ठिमेतदवोचत्॥ इच्छेयमहं गृहपति भगवतो सर्वाभि-
भूस्य सश्रावकसंघस्य अधिकारं कर्तुं देहि मे अर्थमात्रं॥ अदासि महामौद्गल्यायन
उत्तियो श्रेष्ठि अभियस्य भिक्षुस्य प्रभूतं हिरण्यं सुवर्णं तदन्ये पि गृहपतिमहा-

(३७)

शालाः॥ अथ खलु महामौद्गल्यायन वसुमते महानगरे दुवे गन्धिकमहत्तरका
अभियस्य भिक्षुस्य अभिप्रसन्ना अभूषि॥ अथ खलु महामौद्गल्यायनभियो भिक्षु
शतसहस्रहस्तो येन ते दुवे गन्धिकमहत्तरका तेनोपसंक्रमित्वा दुवे गन्धिकमहत्तरकां
एतदवोचत्॥ इच्छामि वासिष्ठाहो इमस्य शतसहस्रस्य केशरं। परिहरियाहं
भगवतो सर्वाभिभूस्य सश्रावकसंघस्य अधिकारं करोमि॥ परिहरेन्सुः महामौ-
द्गल्यायन ते दुवे गन्धिकमहत्तरका शतसहस्रकेशरं॥ अथ खलु महामौद्गल्यायन
अभियो भिक्षुः भगवन्तं सर्वाभिभूं सश्रावकसंघं प्रभूतेन खादनीयभोजनीय-आस्वा-
दनीयेन सन्तर्पयित्वा संप्रचारयित्वा भुक्ताविं धौतपाणिं अपनीतपात्रं विदित्वा
तेन शतसहस्रकेशरेण भगवन्तं सर्वाभिभूं सश्रावकसंघं ओकिरेसि अध्योकिरेसि
प्रकिरेसि ओकिरित्वा अध्योकिरित्वा अभिप्रकिरित्वा एवं चित्तं उत्पादेसि॥
अहो पुनरहं पि अनागतमध्वानं भवेयं तथागतो अरहो सम्यक्संबुद्धो विद्याचर-
णसंपन्नो सुगतो लोकविदनुत्तरः पुरषदम्यसारथिः शास्ता देवानां च मनुष्याणां
च यथायं भगवां सर्वाभिभू एतरहेसि॥ एवं द्वात्रिंशत्महापुरुषलक्षणेहि समन्वा-
गतो भवेयं अशीतिहि अनुव्यंजनेहि अनुविराजितशरीरो अष्टादशावेणिकेहि बुद्ध-
धर्मेहि समन्वागतो दशहि तथागतबलेहि बलवां चतुर्हि वैशारद्येहि विशारदो

(३८)

यथायं भगवान्सर्वाभिभू एतरहेसि॥ एवं च अनुत्तरं धर्मचक्रं प्रवर्तेयं अप्रवर्तितं
श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद्वा पुनर्लोके सह
धर्मेण एवं च समग्रं श्रावकसंघं परिहरेयं यथायं भगवां सर्वाभिभू एतरहेसि॥ एवं
च देवमनुष्या श्रोतव्यं श्रद्धातव्यं मन्येन्सुः यथा वेदं भगवतो सर्वाभिभूस्य एतरहि॥
एवं तीर्णो तारेयं मुक्तो मोचयेयं आश्वस्तो आश्वासेयं परिनिर्वृतो परिनिर्वापयेयं
तं भवेयं बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय
हिताय देवानां च मनुष्याणां च॥ अथ खलु महामौद्गल्यायन भगवां सर्वाभिभू
अभियस्य भिक्षो इदमेवरूपं प्रणिधानं विदित्वा एतदवोचत्॥ भविष्यसि त्वं
अभिय अनागते ध्वनि शतशस्रकल्पे शाक्यमुनि नाम तथागतोऽर्हन्सम्यक्संबुद्धो
विद्याचरणसंपन्नो सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च
मनुष्याणां च यथाप्यहमेतर्हि द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागतो अशी-
तिहि अनुव्यंजनेहि विराजितशरीरो अष्टादशेहि आवेणिकेहि बुद्धधर्मेहि समन्वा-
गतो दशतथागतबलेहि बलवां चतुर्हि वैशारद्येहि सुविशारदो यथापि अहं एत-
रहि॥ एवं च अनुत्तरं धर्मचक्रं प्रवर्तयिष्यसि अप्रवर्तितं श्रमणेन वा देवेन वा
मारेण वा केनचिद्वा पुनर्लोके सह धर्मेण। एवं च समग्रं श्रावकसंघं परिहरि-

(३९)

ष्यसि यथाप्यहमेतर्हि। एवं च ते देवमनुष्या श्रोतव्यं श्रद्धातव्यं मन्येन्सुः यथापि
मम एतरहि। एवं तीर्णो तारयिष्यसि मुक्तो मोचयिष्यसि आश्वस्तो आश्वासयि-
ष्यसि परिनिर्वृतो परिनिर्वापयिष्यसि यथापि अहं एतरहिं। तं भविष्यसि बहु-
जनहिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय हिताय सुखाय
देवानां च मनुष्याणां च॥ समनन्तरव्याकृतो च पुनः महामौद्गल्यायन अभियो
भिक्षुः सर्वाभिभूना सम्यक्संबुद्धेन अनुत्तराये सम्यक्संबुद्धाय अथायं त्रिसाहस्रमहा-
साहस्रो लोकधातुः कंपे प्रकंपे अतीव षड्विकारं। पुरस्तिमा दिशा उन्नमति
पश्चिमा दिशा ओनमति पुरस्तिमा दिशा ओनमति पश्चिमा दिशा उन्नमति
दक्षिणा दिशा उन्नमति उत्तरा दिशा ओनमति दक्षिणा दिशा ओनमति उत्तरा
दिशा उन्नमति मध्यातो ओनमति अन्तेषु उन्नमति मध्यातो उन्नमति अन्तेषु ओन-
मति॥ भूम्या च देवा घोषमुदीरयेन्सुः शब्दमनुश्रावयेन्सुः॥ एषोऽभियो भिक्षुः
भगवता सर्वाभिभूना सम्यक्संबुद्धेन अनुत्तराये सम्यक्संबोधये व्याकृतो तं भविष्यति
बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय महतो जनकायस्यार्थाय हिताय
सुखाय देवानां च मनुष्याणां च॥ भूम्यानां देवानां घोषं श्रुत्वा अन्तरीक्षेचरा
देवा चतुर्महाराजिका देवा त्रायस्त्रिंशा देवा यामा तुषिता निर्माणरतयो परनि-
र्मितवशवर्तिनो देवा याव ब्रह्मकायिका देवा घोषमुदीरयेन्सुः शब्दमनुश्रावयेन्सुः॥

(४०)

एवं मार्षा अभियो भिक्षु भगवता सर्वाभिभूना अनुत्तराये सम्यक्संबोधये व्याकृतो
तं भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय महतो जनकायस्या-
र्थाय हिताय सुखाय देवानां च मनुष्याणां च अप्रमेयस्य उदारस्य च महतो
अवभासस्य लोके प्रादुर्भावो अभूषि। या च ता लोके लोकान्तरिका अन्धकारा
अन्धकारार्पिता तमिस्रा तमिस्रार्पिता अघा असंविदिता असंविदितपूर्वा यत्र इमे
पि चन्द्रमसूर्या एवं महर्द्धिका महानुभावा आभया आभां नाभिसंभुणन्ति आलोकेन
वा आलोकं अकाले अपि तेनावभासेन स्फुटा अभुन्सुः॥ ये पि तत्र सत्वा उपपन्ना
ते पि अन्यमन्यं संजल्येषु॥ अन्ये पि किल भो इह सत्वा उपपन्ना अन्ये पि किल
भो इह सत्वा उपपन्ना अन्ये पि किल भो इह सत्वा उपपन्ना॥ एकान्तसुखसमर्पि-
ता च पुनस्तत्क्षणं तत्मुहूर्तं सर्वे सत्वा अभुन्सुः ये पि अवीचीस्मिं महानरके उपपन्ना
अतिक्रम्य येव देवानां देवानुभावं नागानां नागानुभावं यक्षाणां यक्षानुभावं॥
ध्यामानि च अभुन्सुः मारभवनानि निस्तेजानि निरभिरम्यानि। क्रोशिकानि

(४१)

पि च खण्डानि प्रपतेन्सुः द्विक्रोशिकानि पि च त्रिक्रोशिकानि पि च खण्डानि प्रप-
तेन्सुः योजनिकानि पि च खण्डानि प्रपतेन्सुः द्वेपंचयोजनिकानि पि च खण्डानि
प्रपतेन्सुः॥ मारो च पापीमां दुःखी दुर्मनो विप्रतिसारी अन्तःशल्यपरिदाघजातो
अभूषि॥
अनुगीतगाथा॥

सो तं दानं दत्वा प्रणिधेसि लोकनायको अस्य।
देवमनुष्याचार्यो आर्यं धर्मं प्रकाशेयं॥
धर्मोल्कां विचरेयं पराहणे धर्मभेरीं सपताकां।
उच्छ्रेयं धर्मकेतुं आर्यं शंखं प्रपूरेयं॥
एवं च मह्यं अस्या प्रकाशना देशना च धर्मस्य।
एवं च बहू सत्वा आर्ये धर्मे निवेशेयं॥
एवं च मे श्रुणेन्सुः देवमनुष्या सुभाषितं वाक्यं।
एवं च धर्मचक्रं प्रवर्तये बहुजनहिताय॥
कृच्छ्रापन्नैः सत्वैः जातिजरापीडितैर्मरणधर्मैः।
भवचक्षुकैः अपाया प्रज्ञास्कन्धं निवेशेयं॥
संजीवे कालसूत्रे संघाते रौरवे अवीचिस्मिं।
षट्सु गतीहि विकीर्णां भवसंसारात्प्रमोचेयं॥

(४२)

नरके पक्वविपक्वा अपायप्रपीडितां मरणधर्मा।
अल्पसुखदुःखबहुलां भवसंसारात्प्रमोचेयं॥
अर्थं चरेयं लोके देवमनुष्याणां देशिय धर्मं।
एवं विनेय सत्वां यथा अयं लोकप्रद्योतो॥
एवं अहं लोकमिमं चरेयं
यथा अयं चरति असंगमानसो।
चक्रं च वर्तेय अनन्यसादृशो
सुसत्कृतो देवमनुष्यपूजितो॥
प्रणिधिं च ज्ञात्वा सुसमुद्गतो जिनो
सर्वेहि हेतूभि उपस्थितेहि।
अखण्ड-अच्छिद्रमव्रणं वियाकरे
अर्थदर्शी मतिमां॥
बुद्धो तुवं होहिसि लोकनायको
अनागते कल्पशतसहस्रे।
कपिलाह्वये  ऋषिवदनस्मिं शाकियो
तदा अयं प्रणिधि विपाकमेष्यति॥
अथ सागरावलिमही प्रकम्पते च दिवि देवसंघेषु।
व्याकरणं तस्य द्युतिमतो अभ्युद्गमि अभ्युद्गतं घोषं॥

(४३)

एष अभियो भगवता अत्यन्तसुभाषितगीतध्वजेन।
सर्वाभिभुना मुनिना वियाकृतो होहिसि जिनो त्वं॥
तं हितसुखाय होहिसि सब्रह्मसुरासुरस्य लोकस्य।
हायिष्यति असुरकायं नरमरुसंघो विवर्द्धन्ति॥

अथ खलु महामौद्गल्यायन ते दुवे गन्धिकमहत्तरका अभियस्य अनुत्तराये
सम्यक्संबोधये व्याकरणं श्रुत्वा हृष्टा तुष्टाः प्रमुदिताः प्रीतिसौमनस्यजाता एवं चि-
त्तमुत्पादेन्सुः॥ यदा अभियो भिक्षुः अनुत्तरां सम्यक्संबोधिमभिसंबुद्धो भवेय
तदा वयमेतस्य अग्रश्रावका भवेयाम अग्रयुगो भद्रयुगो यथायं भवति सर्वाभिभूस्य
श्रावकयुगो एको अग्रो प्रज्ञाये एको अग्रो ऋद्धीये॥ अश्रोषीत् महामौद्गल्यायन
उत्तियस्य श्रेष्ठिस्य धीता अभियो भिक्षुर्भगवता सर्वाभिभूना अनुत्तराये सम्यक्सं-
बोधये व्याकृतो॥ अथ महामौद्गल्यायन उत्तियस्य श्रेष्ठिस्य धीता तं भगवन्तं
सश्रावकसंघं सत्कृत्वा गुरुकृत्वा मानयित्वा पूजयित्वा अपचायित्वा एवं प्रणिधि-
मुत्पादेसि॥ मम अभियेन भिक्षुणा ईर्ष्याप्रकृतेन अभूतो अभ्याख्यानो दिन्नो॥
यन्मया भगवतो सर्वाभिभूस्य सश्रावकसंघस्य अधिकारं कृत्वा कुशलमर्जितमह-
मेतेन कुशलमूलेन यत्रयत्र अभियो भिक्षुरुत्पद्येय तत्रतत्र नं अभूतेन अभ्याख्यानेन

(४४)

अभ्याचिक्षेयं यावत्परमसंबोधिप्राप्तं॥ सिया ति पुनर्महामौद्गल्यायन एवमस्य
स्यात्। अन्यो सौ तेन कालेन तेन समयेन भगवतो सर्वाभिभूस्य अभियो नाम
श्रावको अभूषि॥ न एतदेवं द्रष्टव्यं॥ तत्कस्य हेतोः॥ अहं महामौद्गल्यायन
तेन कालेन तेन समयेन भगवतो सर्वाभिभूस्य अभियो नाम श्रावको अभूषि॥
सिया ति पुनः महामौद्गल्यायन एवमस्य स्यात्। अन्ये ते तेन कालेन तेन समयेन
वसुमते महानगरे दुवे गन्धिकमहत्तरका अभुन्सुः॥ न खल्वेतदेवं द्रष्टव्यं॥ तत्कस्य
हेतोः॥ यूयं ते शारिपुत्र महामौद्गल्यायन तेन कालेन तेन समयेन दुवे गन्धिक-
महत्तरका अभुन्सु॥ तं युष्माकं मूलप्रणिधिं॥ सिया ति पुनर्महामौद्गल्यायन
एवमस्य स्यात्। अन्या सा तेन कालेन तेन समयेन उत्तियस्य श्रेष्ठिस्य धीता अभूषि॥
.......॥ तेनैषा तीर्थिकांगना प्रणिधानेन यत्रयत्र उपपद्यामि तत्रतत्र
अभूतं अभ्याख्यानं देति यावत्परमसंबोधिप्राप्तस्य॥ सिया ति खलु पुनर्महामौद्गल्यायन
एवमस्य स्यात्। अन्यो सो तेन कालेन तेन समयेन वसुमते महानगरे
उत्तियो नाम श्रेष्ठि अभूषि॥ न खल्वेतदेवं द्रष्टव्यं॥ एषो सौ महामौद्गल्यायन
शुद्धावासकायिको देवपुत्रो तेन कालेन तेन समयेन वसुमते महानगरे उत्तियो
नाम श्रेष्ठि अभूषि॥ एतेषां कल्पानां शतसहस्रं स्मरति धर्मं समनुस्मरति॥
इति श्रीमहावस्तु-अवदाने अभियवस्तुं सानुगीतं समाप्तं॥

(४५)

इतो भो महामौद्गल्यायन अपरिमितासंख्येया कल्पा यं मया बोधाय प्रणि-
हितं॥ अप्रमेयास्तथागता अर्हन्तः सम्यक्संबुद्धाः पूजिता नो चाहं व्याकृतो॥
त्रीणि मौद्गल्यायन पुष्पनामकानां शतानि मया पूजितानि नो चाहन्तेहि व्याकृतो॥
अप्रमेया असंखेया कल्पा संधाविता संसरिता अप्रमेया च संबुद्धा पूजिता नो चाहं
तेहि व्याकृतो॥

चत्रस्रः इह महामौद्गल्यायन बोधिसत्वचर्याः॥ कतमाश्चतस्रः॥ तद्यथा प्रकृ-
तिचर्या प्रणिधानचर्या अनुलोमचर्या अनिवर्तनचर्या॥
कतमा च महामौद्गल्यायन प्रकृतिचर्या॥ इह महामौद्गल्यायन बोधिसत्वप्रकृ-
तिरेवं॥ भवन्ति मातृज्ञाः पितृज्ञा श्रामण्या ब्राह्मण्याः कुलज्येष्ठापचायकाः दश
कुशलां कर्मपथां समादाय वर्तन्ते परेषां च देशयन्ति दानानि देथ करोथ पुण्या-
नीति तिष्ठन्तां च बुद्धां पूजयन्ति श्रावकांश्च नो च तावदनुत्तराय सम्यक्संबोधये
चित्तमुत्पादेन्ति॥

पुजयन्ति प्रथमं तथागतां
गौरवेण महता महायशां।

(४६)

नैव ताव जनयन्ति मानसं
अग्रपुद्गलगतं नरोत्तमा॥
पूजयन्ति वशिभूतकोटियो
पुर्वमेव वशिपारमिं गता।
नैव ताव जनयन्ति मानसं
ज्ञानसागरतराय नायका॥
ते च प्रत्येकबुद्धकोटियो
पूजयन्ति परमार्थपुद्गला।
नैव ताव जनयन्ति मानसं
सर्वधर्मविदुताय पण्डिता॥

इयं महामौद्गल्यायन प्रकृतिचर्या॥

कतमा च महामौद्गल्यायन प्रणिधिचर्या॥ इतो महामौद्गल्यायन अपरिमिता
असंख्येया कल्पा यं शाक्यमुनिर्नाम तथागतोऽर्हं सम्यक्संबुद्धो लोके उदपादि
विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च
मनुष्याणां च॥ शाक्यमुनिस्य खलु पुनः महामौद्गल्यायन कपिलवस्तुं नाम नगरं
विस्तरेण॥ तदाहं श्रेष्ठि अभूषि॥ य्वागूपानं कृत्वा बोधाये प्रणिहितं॥

ते यदा विपुलपुण्यसंचया
भोन्ति भावितशरीरमानसा।

(४७)

ते उपेत्य वररूपधारिणो
बोधये उपजनेन्ति मानसं॥
यं मया कुशलमर्जितं पुरा
तेन मे भवतु सर्वदर्शिता।
मा च मे प्रणिधी अवसीदतु
यो यमेष प्रणिधिः प्रवर्ततु॥
यो ममं कुशलमूलसंचयो
सो महा भवतु सर्वप्राणिहि।
यच्च कर्म अशुभं कृतं ममा
तं ममैव कटुकं फलं भवेत्॥
एवं अहं लोकमिमं चरेयं
यथा अयं चरति असंगमानसो।
चक्रं प्रवर्तेय अनन्यसादृशं
सुसत्कृतं देवमनुष्यपूजितं॥

य्वागूपानं प्रथमं अदासि लोकोत्तरस्य बुद्धस्य शाक्यमुनिनो भगवतो कल्पस्मिं
इतो असंख्येये॥ प्रथमा प्रणिधि तदा आसि॥

इतो महामौद्गल्यायन अपरिमिते असंख्येये कल्पे समिताविर्नाम तथागतो र्हं स-
म्यक्संबुद्धो लोके उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसा-

(४८)

रथिः शास्ता देवानां च मनुष्याणां च॥ तेन खलु पुनस्समयेन बोधिसत्वो राजा
अभूषि चक्रवर्ती चातुर्द्वीपो विजितावी सप्तरत्नसमन्वागतो धार्मिको धर्मराजा
दशकुशलकर्मपथसमादायवर्ती॥ इमानि सप्त रत्नानि अभुन्सुः तद्यथेदं चक्ररत्नं
हस्तिरत्नमश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नमेव सप्तमं पूर्णं चास्य
पुत्रसहस्रं अभूषि शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानां॥ सो
इमानि चत्वारि द्वीपानि सय्यथिदं जम्बुद्वीपं पूर्वविदेहं अपरगोदानीयं उत्तरकुरुं
सागरगिरिपर्यन्तामखिलामकण्ठकामदण्डेनाशस्त्रेणानुत्पीडेनादण्डेन धर्मेणेमां
पृथिवीमभिजित्वा अध्यावसति॥ अथ खलु महामौद्गल्यायन राजा चक्रवर्ती
समिताविस्य सम्यक्संबुद्धस्य सश्रावकसंघस्य सर्वेण प्रत्युपस्थितो अभूषि चीवरपि-
ण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारेहि सप्तरत्नमयं च प्रासादं कारयेसि
सुवर्णस्य रूप्यस्य मुक्ताया वैडुर्यस्य स्फाटिकस्य मुसारगल्वस्य लोहितिकायाः चतु-
रशीतिहि स्तम्भसहस्रेहि एकमेकञ्च स्तम्भं आबद्धहिरण्यकोटिहि
निर्मितो उपार्धस्य।
चतुरशीति कूटागारसहस्राणि कारयेसि चित्राणि दर्शनीयानि सप्तानां रत्नानां
तद्यथा सुवर्णस्य रूपस्य मुक्ताया वैडूर्यस्य स्फाटिकस्य मुसारगल्वस्य लोहितिकाये॥
तावल्लक्षणं च महामौद्गल्यायन प्रासादं कारयित्वा राजा चक्रवर्ती समिताविस्य
सम्यकसंबुद्धस्य निर्यातेसि एवं च प्रणिधेसि॥ अहो पुनरहमनागतमध्वानं भवेयं

(४९)

तथागतोऽर्हं सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्य-
सारथिः शास्ता देवानां च मुनुष्याणां च यथापीदं भगवान्समिताविरेतरहिं द्वात्रिं-
शतीहि महापुरुषलक्षणेहि समन्वागतो अशीतिहि अनुव्यंजनेहि उपशोभितशरीरो
अष्टादशावेणिकेहि बुद्धधर्मेहि समन्वागतो दशहि तथागतबलेहि बलवां चतुर्हि
वैशारद्येहि सुविशारदो यथायं भगवान्समितावी सम्यक्संबुद्धो एतरहिं एवञ्च
तीर्णो तारयेयं आश्वस्तो आश्वासयेयं परिनिर्वृतो परिनिर्वापयेयं। तं भवेयं बहु-
जनहिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय सुखाय हिताय
देवानं च मनुष्याणां च॥ एवं महामौद्गल्यायन तथागतस्य अयं प्रणिधिः॥

एवं अहं लोकमिमं चरेयं
यथा अयं चरति असंगमानसो।
चक्रं प्रवर्तेय अनन्यसादृशो
भवेयमहं देवमनुष्यपूजितो॥

अथ खलु समिताविनो सम्यक्संबुद्धस्य एतदभूषि॥ किं नु खलु मयि परिनिर्वृते
इमेहि च श्रावकेहि परिनिर्वृतेहि इमस्मिं धर्माख्याने न्तरहिते इतो केत्तकस्य नु
खलु कालस्य बुद्धो भगवान्लोके उपपदिष्यति॥ एकस्मिं कल्पे नाद्राक्षीत्।

(५०)

द्विहि कल्पेहि नाद्राक्षीत्। कल्पसहस्रेण बुद्धं लोके पश्यति॥ अथ खलु महामौ-
द्गल्यायान समिताविस्य सम्यक्संबुद्धस्य महता कारुणेन समन्वागतस्य सत्वेषु महा-
कारुणं ओक्रमि॥ पंच च बुद्धकार्याणि अवश्यं कर्तव्यानि॥ कतमानि पंच॥
धर्मचक्रं प्रवर्तयितव्यं माता विनेतव्या पिता विनेतव्यो बौद्धवैनेयका सत्वा विनेतव्या
युवराजा अभिषिंचितव्यो॥ एषो ममात्ययेन बुद्धो लोके भविष्यति यथा एतर्हि
अहं तथा एष अजितो बोधिसत्वो ममात्ययेन बुद्धो लोके भविष्यतीति अजितो
नामेन मैत्रेयो गोत्रेणे बन्धुमायां राजधान्यां॥ यं नूनाहं कल्पानां शतसहस्रं
तिष्ठेहं॥ अथ खलु समितावी सम्यक्संबुद्धो भिक्षूनामन्त्रेसि॥ इह मह्यं रहोगतस्य
एकस्य प्रतिसंलीनस्य अयमेवरूपो चेतसो परिवितर्को उदपादि॥ किं नु खलु
मयि परिनिर्वृते इमेहि च श्रावकसंघेहि परिनिर्वृतेहि इमस्मिं धर्माख्याने अन्तर्हिते
इतो केत्तकस्य नु कालस्य बुद्धो लोके उपपदिष्यति॥ एकस्मिं कल्पे नाद्राक्षीत्।
द्वीहि कल्पेहि नाद्राक्षीत्। त्रीहि कल्पेहि नाद्राक्षीत्। कल्पशतसहस्रेण बुद्धं
लोके पश्यामि॥ पंच मे बुद्धकार्याणि अवश्यं कर्तव्यानि यो च सो सत्वो युवरा-
जाभिषिंचितव्यः सो दीर्घायुकेहि देवेहि उपपन्नो॥ यं नूनाहं कल्पानां शतसहस्रं
स्थातुमिच्छाम्यहं इच्छथ भिक्षवो कल्पानां शतसहस्रं स्थातुं को वा मया सार्धं

(५१)

स्थास्यति। तत्र महामौद्गल्यायन चतुरशीतिहि भिक्षुशतसहस्रेहि सो लोको उद्गृ-
हीतो सर्वेहि बलवशीभावप्राप्तेहि॥ वयं भगवं स्थास्यामः वयं सुगत स्थास्यामः॥
अथ खलु समितावी सम्यक्संबुद्धो ते च श्रावका चिरं दीर्घभध्वानं तिष्ठेन्सुः॥
संवर्तकालसमये मनुष्या कालगता आभास्वरे देवनिकाये उपपद्यन्ति राजापि काल-
गतो आभास्वरे देवनिकाये उपपद्यति भववान्भिक्षुसंघेन सार्धं आभास्वरं देवनिकायं
गच्छति॥ विवर्तनीयकालसमये संस्थिते लोकसन्निवेशे सत्वा आयुःक्षयाय आभा-
स्वराद्देवनिकायतो च्यवित्वा इच्छत्वमागच्छन्ति॥ बोधिसत्वो पि आभास्वराद्दे-
वनिकाया च्यवित्वा इच्छत्वमागत्वा राजा भवति चक्रवर्ती चातुर्द्वीपो विजितवी
याव इमानि चत्वारि महाद्वीपानि धर्मेणैव अभिनिर्जिनित्वा अध्यावसति॥ यदा
मनुष्या परिमितायुष्का भवन्ति जराव्याधिमरणा च प्रज्ञायन्ति तदा भगवान्समि-
तावी सश्रावकसंघो जम्बुद्वीपमागच्छति॥ आगत्वा सत्वानां धर्मं देशयति॥ तथैव
राजा चक्रवर्ती समिताविस्य सम्यक्संबुद्धस्य सर्वेण प्रत्युपस्थितो चीवरपिण्डपात्रश-
यनासनग्लानप्रत्ययभैषज्यपरिष्कारेहि॥ सप्तरत्नमयं प्रासादं तादृशमेव कारा-
पयित्वा भगवतः सम्यक्संबुद्धस्य निर्यातेसि॥ एतेन उपायेन कल्पशतसहस्रं समि-
तावी सम्यक्संबुद्धो स्थितो सश्रावकसंघो कल्पशतसहस्रं बोधिसत्वेन उपस्थितो
सर्वत्र च कल्पे सप्तरत्नमयं प्रासादं तादृशमेव कारापयित्वा निर्यातेसि समिताविस्य

(५२)

सम्यक्संबुद्धस्य॥ अनुत्तरां सम्यक्संबोधिं प्रार्थयमानो प्रासादशतसहस्रं रत्नमयं
अहं चक्रवर्ती सन्तो समिताविनो अदासि॥ कल्पस्मिं इतो असंख्येये

सो तं दानं दत्वा प्रणिधेसि लोकनायको अस्यां।
देवमनुष्याचार्यो आर्यं धर्मं प्रकाशेय्यं॥
एवं च मह्यं अस्या प्रकाशना देशना च धर्मस्य
एवं च बहुं सत्वं आर्ये धर्मे निवेशेय्यं॥
एवं च मे श्रुणेन्सुः देवमनुष्या सुभाषितं वाक्यं।
एवं च धर्मचक्रं प्रवर्तये बहुजनहिताय॥
धर्मोल्कां विचरेयं पराहणे धर्मभेरीं सपताकां।
उच्छ्रेयं धर्मकेतुमार्यं शंखं प्रपूरेयं॥
कृच्छ्रापन्ने लोके जातिजरापीडिते मरणधर्मे।
भवचक्षुके अपाया प्रज्ञास्कन्धं निवेशेयं॥
संजीवे कालसूत्रे संघाते रौरवे अवीचिस्मिं।
षट्सु गतीषु विकीर्णां भवसंसारात्प्रमोचेयं॥
नरके पक्वविपक्वां अपायप्रपीडितां मरणधर्मा।
अल्पसुखदुःखबहुलां भवसंसारात्प्रमोचेयं॥

(५३)

अर्थं चरेयं लोके देवमनुष्याणां देशिय धर्मं।
एवं विनेय सत्वां यथा अयं लोकप्रद्योतो॥

द्वितीयो प्रणिधि तदासि॥ अशीतिं चन्दनविमानानि अदासि लोकोत्तरस्य
बुद्धस्य गुरुणो॥ अहं भगवानस्यां इतो असंख्येये॥ तृतीयो प्रणिधिः तदासीत्॥
सप्तरतनमयानां गुहानां अशीति सहस्राणि अर्को राजा अदासि पर्वतनामस्य॥
चतुर्थी तदा प्रणिधिः आसीत्॥ षड्वर्षाणि चरति अनित्यसंज्ञानिमित्तकामेहि
रतनेन्द्रेणानुशासितो॥ पंचमा प्रणिधिः तदा आसीत्॥

इति श्रीमहावस्तु-अवदाने बहुबुद्धसूत्रं समाप्तं॥

एवं मया श्रुतमेकस्मिं समये भगवां राजगृहे विहरति स्म गृध्रकूटे पर्वते॥ अथ
खल्वायुष्मान्महामौद्गल्यायनो काल्यमेव निवासयित्वा पात्रचीवरमादाय राजगृहं
नगरं पिण्डाय प्रक्रमि॥ अथ खल्वायुष्मतो महामौद्गल्यायनस्य अचिरप्रक्रान्त-
स्यैतदभवत्॥ अतिप्रागस्तावदेतरहिं राजगृहं नगरं पिण्डाय चरितुं। यं नूनाहं
येन शुद्धावासं देवनिकायं तेनोपसंक्रमेयं॥ अथायुष्मान्महामौद्गल्यायनः तद्य-

(५४)

थापि नाम बलवान्पुरुषः संमिंजितं बाहुं प्रसारेयेत्प्रसारितं च बाहुं संमिंजयेत्
एकक्षणेन पदवीतिहारेण राजगृहाद्वैहायसमम्युद्गम्य शुद्धावासदेवनिकाये प्रत्य-
स्थात्॥ अद्राक्षीत्शुद्धावासकायिका देवपुत्रा आयुष्मन्तं महामौद्गल्यायनं दूरत
एवागच्छन्तं॥ दृष्ट्वा च पुनर्येनायुष्मान्महामौद्गल्यायनस्तेनोपसंक्रमित्वा आयुष्मतो
महामौद्गल्यायनस्य पादौ शिरसा वन्दित्वा एकान्ते अस्थासि॥ एकान्ते स्थित्वा
च ते संबहुला शुद्धावासकायिका देवपुत्रा आयुष्मन्तं महामौद्गल्यायनं गाथाभिर-
ध्यभाषसि॥

कल्पान शतसहस्रं संधावित्वान बोधिपरिपाकं।
सुचिरस्यनन्तरतनो बुद्धो लोकस्मिं उपपन्नो॥

इत्थं वदित्वान ते संबहुला शुद्धावासकायिका देवपुत्रा आयुष्मतो महामौद्गल्या-
यनस्य पादौ शिरसा वन्दित्वा एकान्ते अस्थासि। एकान्ते स्थित्वा अन्तर्हिता॥
अथ खल्वायुष्मतो महामौद्गल्यायनस्यैतदभवत्॥ एवं दुर्लभा बोधिर्यत्र हि नाम
कल्पानां शतसहस्रेण॥ अथ खल्वायुष्मान्महामौद्गल्यायनस्तद्यथा बलवान्पुरुषः
संमिञ्जितां बाहां प्रसारयेत्प्रसारितां वा बाहां संमिञ्जयेत् एत्तकेन क्षणवीतिहारेण
शुद्धावासतो देवनिकायातो अन्तर्हितः राजगृहे नगरे प्रत्यस्था॥ अथायुष्मा-

(५५)

न्महामौद्गल्यायनो राजगृहे नगरे पिण्डाय चरित्वा पश्चाद्भक्तो पिण्डपात्रप्र-
तिक्रान्तः पात्रचीवरं प्रतिशामयित्वा पादौ प्रक्षालयित्वा येन भगवांस्तेनोपसंक्र-
मित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते न्यषीददेकान्ते निष्णाश्च पुनः
आयुष्मान्महामौद्गल्यायनो भगवन्तमेतदवोचत्॥ इहाहं भगवन्काल्यस्यैव निवा-
सयित्वा पात्रचीवरमादाय राजगृहं महानगरं पिण्डाय प्रक्रमि॥ तस्य मे भगवन्
अचिरप्रक्रान्तस्यैतदभवत्॥ अतिप्रागस्तावदेतरहि राजगृहे महानगरे पिण्डाय
चरितुं। यं नूनाहं येन शुद्धावासं देवनिकायं तेनोपसंक्रमेयं। चिरं मे देवनि-
कायं शुद्धावासं उपसंक्रान्तस्य॥ अथाहं बलवां तद्यथा पुरुषः संमिंजितां बाहां
प्रसारयेय प्रसारितां वा बाहां संमिंजयेत् एत्तकेन क्षणवीतिहारेण राजगृहाद्वैहा-
यसमभ्युद्गम्य शुद्धावासे देवनिकाये प्रत्यस्थासि॥ अद्राक्षीत् मे भगवन्संबहुलाः
शुद्धावासकायिका देवपुत्रा दूरत एवागच्छन्तं दृष्ट्वा च पुनर्येनाहं तेनोपसंक्रमित्वा
मम पादौ शिरसा वन्दित्वा एकान्ते स्थान्सु। एकान्तस्थिता संबहुला ते शुद्धा-
वासकायिका देवपुत्रा मम गाथाये अध्यभाषेरन्॥

कल्पान शतसहस्रं संधावित्वान बोधिपरिपाकं।
सुचिरस्यनन्तरतनो बुद्धो लोकस्मिं उपपन्नो॥

इत्थं वदित्वान ते संबहुलाः शुद्धावासकायिका देवपुत्रा मम पादौ शिरसा

(५६)

वन्दित्वा प्रक्रामि॥ तस्य मे भगवन्नेतदभवत्॥ यावद्दुःखसमुदानीया अनुत्तरा
संबोधिर्यत्र हि नाम कल्पानां शतसहस्रेण। यं नूनाहं येन भगवांस्तेनोपगमित्वा
भगवन्तमेतमर्थं परिपृच्छेयं। यथा मे भगवां व्याकरिष्यति तथा नं धारयिष्यामि॥
इह भगवां किमाह॥ एवमुक्ते भगवानायुष्मन्तं महामौद्गल्यायनमेतदवोचत्॥
परीत्तकं खलु पुनर्महामौद्गल्यायन शुद्धावासकायिकानां देवपुत्राणां शतसहस्रन्ति॥
अप्रमेयेहि महामौद्गल्यायन कल्पेहि असंख्येयेहि अप्रमेयेहि तथागतेहि अर्हन्तेहि
सम्यक्संबुद्धेहि कुशलमूलान्यवरोपितानि आयतिसंबोधिं प्रार्थयमानेहि॥ अभि-
जानामि खलु पुनरहं महामौद्गल्यायन त्रिंशद्बुद्धकोटियो शाक्यमुनिनामधेयानां
ये मया सश्रावकसंघाः सत्कृता गुरुकृता मानिताः पूजिता अपचिता राज्ञा चक्र-
वर्तिभूतेन आयतिसंबोधिमभिप्रार्थयमानेन च मे ते बुद्धा भगवन्तो व्याकरेन्सुः॥
भविष्यसि त्वमनागतमध्वानं तथागतोऽर्हं सम्यक्संबुद्धो विद्याचरणसंपन्नो सुगतो
लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च॥ अभिजा-
नाम्यहं खलु पुनर्महामौद्गल्यायन अष्ट बुद्धशतसहस्राणि दीपंकरनामधेयकानां ये
मया सश्रावकसंघाः सत्कृता गुरुकृता मानिता पूजिताः अपचिता चक्रवर्तिभूतेन
आयतिं संबोधिमभिसंप्रार्थयमानेन च मे ते बुद्धा भगवन्तो व्याकरेन्सुः। यथा
प्रथमे परिवर्ते तथा सर्वत्र कर्तव्यं॥ भविष्यसि त्वमनागतमध्वानं॥ अभिजाना-

(५७)

म्यहं महामौद्गल्यायन पंच बुद्धशतानि पद्मोत्तरनामधेयानां॥ सर्वत्र कर्तव्यं।
भविष्यसि त्वमनागतमध्वानं॥ अभिजानाम्यहं महामौद्गल्यायन अष्ट बुद्धसह-
स्राणि प्रद्योतनामधेयानां॥ अभिजानाम्यहं महामौद्गल्यायन त्रयो बुद्धकोटीयो
पुष्पनामधेयानां॥ अभिजानाम्यहं महामौद्गल्यायन अष्टादश बुद्धसहस्राणि
मारध्वजनामधेयानां यत्र मया ब्रह्मचर्यं चीर्णं आयतिं बोधिं प्रार्थयमानेन च मे
ते बुद्धा भगवन्तो व्याकरेन्सुः॥ अभिजानाम्यहं महामौद्गल्यायन पंच बुद्धशतानि
पद्मोत्तरनामधेयानां ये मया सश्रावकसंघाः सत्कृताः॥ अभिजानाम्यहं महा-
मौद्गल्यायन नवति बुद्धसहस्राणि काश्यपनामधेयानि॥ अभिजानाम्यहं महामौ-
द्गल्यायन पंचदश बुद्धसहस्राणि प्रतापनामधेयानि॥ अभिजानाम्यहं महामौद्ग-
ल्यायन द्वौ बुद्धसहस्रौ कौण्डिण्यनामधेयौ॥ अभिजानाम्यहं महामौद्गल्यायन
चतुरशीति प्रत्येकबुद्धसहस्राणि॥ अभिजानाम्यहं महामौद्गल्यायन समन्तगुप्तं
नाम तथागतमर्हन्तं सम्यक्संबुद्धं॥ अभिजानाम्यहं महामौद्गल्यायन बुद्धसहस्रं
जम्बुध्वजनामधेयानां॥ अभिजानाम्यहं महामौद्गल्यायन चतुरशीति बुद्धसह-
स्राणि इन्द्रध्वजनामधेयानां॥ अभिजानाम्यहं महामौद्गल्यायन पंचदश बुद्धस-
हस्राणि आदित्यनामधेयानां॥ अभिजानाम्यहं महामौद्गल्यायन द्वाषष्टि बुद्ध-
शतानि अन्योन्यनामधेयानां। अभिजानाम्यहं महामौद्गल्यायन चतुर्षष्टि बुद्धान

(५८)

समिताविनामधेयानां॥ सुप्रभासो नाम महामौद्गल्यायन तथागतोऽर्हं सम्यक्सं-
बुद्धो यत्र मैत्रेयेण बोधिसत्वेन प्रथमं कुशलमूलान्यवरोपितानि राज्ञा वैरोचनेन
चक्रवर्तिभूतेन आयतिं संबोधिं प्रार्थयमानेन॥ सुप्रभासे खलु पुनर्महामौद्गल्यायन
तथागतभूते चतस्रः चतुरशीतिकोटिवर्षसहस्राणि मनुष्याणामायुषः प्रमाणमभूषि
अन्तरा च उच्चावचता आयुषः॥ सुप्रभासस्य खलु पुनर्महामौद्गल्यायन तथाग-
तस्यार्हतः सम्यक्संबुद्धस्य तयः सन्निपाताभूत्। प्रथमो श्रावकसन्निपातो षणवति
कोटीयो अभूषि सर्वेषां अर्हन्तानां क्षीणाश्रवाणामुषितव्रतानां सम्यगाज्ञाविमु-
क्तानां परिक्षीणभवसंयोजनानामनुप्राप्तस्वकार्थानां। द्वितीयो श्रावकसन्निपातो
चतुर्नवति कोटियो अभूत्सर्वेषामर्हन्तानां क्षीणाश्रवाणामुषितव्रतानां सम्यगाज्ञा-
विमुक्तानां परिक्षीणभवसंयोजनानां अनुप्राप्तस्वकार्थानां। तृतीयो श्रावकसन्नि-
पातो द्वानवति कोटियो अभूषि सर्वेषामर्हन्तानां क्षीणाश्रवाणामुषितव्रतानां
सम्यगाज्ञाविमुक्तानां परिक्षीणभवसंयोजनानां अनुप्राप्तस्वकार्थानां॥ अथ खलु
महामौद्गल्यायन राज्ञो वैरोचनस्य तं भगवन्तं सुप्रभासं दृष्ट्वा उदारहर्षं उदारवे-
गप्रीतिप्रामोद्यं उत्पद्ये॥ सो तं भगवन्तं सश्रावकसंघं दश वर्षसहस्राणि सत्करेसि

(५९)

गुरुकरेसि मानेसि पूजेसि अपचायेसि॥ सत्कृत्वा गुरुकृत्वा तां च समितिमनु-
गृह्नन्तो तं च श्रावकसंघमनुगृह्नन्तो तं चायुःप्रमाणमनुगृह्नन्तो एवं चित्तमुत्पादे-
सि॥ अहो पुनरहं भवेयमनागते ध्वाने तथागतोऽर्हं सम्यक्संबुद्धो विद्याचरण-
संपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च
यथायं भगवान्सुप्रभासो एतरहि। एवं सर्वाकारसंपन्नं सर्वाकारप्रतिपूरं धर्मं
देशेयं यथापीह भगवान्सुप्रभासो एतरहि। एवं समग्रं श्रावकसंघं परिहरेयं
यथापि भगवान्सुप्रभासो एतरहि। एवं च मे देवाश्च मनुष्याश्च श्रोतव्यं श्रद्धातव्यं
मन्येन्सुः यथापीदं भगवतो सुप्रभासस्य एतरहिं। तं भवेयं बहुजनहिताय बहुज-
नसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनु-
ष्याणां च॥ एवं चाह महामौद्गल्यायन अतो च भूयो अन्यं॥ चतुरचत्वारिंश-
त्कल्पसंप्रस्थितस्य खलु पुनर्महामौद्गल्यायन मैत्रेयस्य बोधिसत्वस्य पश्चा ताये बोधये
चित्तमुत्पादितं॥ अपराजितध्वजो नाम महामौद्गल्यायन तथागतोऽर्हं सम्यक्सं-
बुद्धो यो मये सश्रावकसंघो वर्षसहस्रं सत्कृतो गुरुकृतो मानितो पूजितो पचितो
राज्ञा दृढधनुना चक्रवर्तिभूतेन आयतिं संबोधिं प्रार्थयमानेन महन्तेहि च पंचेहि

(६०)


दुष्ययुगशतेहि अभिच्छादितो। परिनिर्वृतस्य च स्तूपं कारितं योजनमुच्चत्वेन यो-
जनमभिनिवेशेन॥ एषा च महामौद्गल्यायन प्रणिधि सततसमिता अभुषि॥
यस्मिं समये सत्वा भवेन्सुः अलेना अत्राणा अशरणा अपरायणा उत्सदलोला
उत्सददोषा उत्सदमोहा अकुशलान्धर्मा समादाय वर्तेन्सुः योभूयेन च अपायप्र-
तिपूरका भवेन्सु तस्मिं काले तस्मिं समये अहमनुत्तरां सम्यक्संबोधिमभिसंबुद्ध्येहं।
तं भवेय बहुजनहिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय
हिताय सुखाय देवानां च मनुष्याणां च॥ दुष्करकारका महामौद्गल्यायन तथा-
गतार्हन्तो सम्यक्संबुद्धा लोकस्यार्थं चर्यां चरन्ति॥ इदमवोचद्भगवानात्तमनो
आयुष्मान्महामौद्गल्यायनो भगवतो भाषितमभ्यनन्दत्॥

शाक्यमुनिनामकानामुपस्थितास्त्रिंश कोटियो जिनानां।
अष्टशतसहस्राणि दीपंकरनामधेयानां॥
षष्टिं च सहस्राणि प्रद्योतनामधेयानां.....।
तथ पुष्पनामकानां त्रयो कोटियो वादिसिंहानां॥
अष्टादश सहस्राणि मारध्वजनामकानां सुगतानां।
यत्र चरे ब्रह्मचर्यं सर्वज्ञतामभिलाषाय॥
पूजयि पंच शतानि पद्मोत्तरनामकानां सुगतानां।

(६१)

कौण्डिण्यनामकानामपराणि द्वि सहस्राणि॥
अपरिमितासंख्येया प्रत्येकजिनान कोटिनयुतां च।
पूजयि बुद्धसहस्रं जम्बुध्वजनामधेयानां॥
चतुरशीति सहस्राणि इन्द्रध्वजनामकानां सुगतानां।
नवतिं च सहस्राणि काश्यपसहनामधेयानां॥
पंचदशं बुद्धसहस्राणि प्रतापनामकानां सुगतानां।
पंचदश च सहस्राणि आदित्यनामधेयानां॥
द्वाषष्टिं च शतानि सुगतानां अन्योन्यनामधेयानां।
चतुषष्टिं च सहस्राणि समितावीनामधेयानां॥
एते च कोलितशिरी अन्ये च दशबला अपरिमाणा।
सर्वे अनित्यताय समिता लोकप्रद्योता॥
यानि च बलानि कोलित तेषां महापुरुषलक्षवराणां।
सर्वे अनित्यताय कालं न उपेन्ति संख्यां च॥
ज्ञात्वानानित्यबलं सुदारुणं सत्कृतस्य अनन्तरं।
वीर्यारम्भो योजितो अनित्यबलस्य विघाताय॥

इतो मौद्गल्यायन अपरिमिते असंख्येये कल्पे रत्नो नाम सम्यक्संबुद्धो अभूषि
तथागतो र्हं सम्यक्संबुद्धो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्य-
सारथिः शास्ता देवानां च मनुष्याणां च॥ अहं तदा राजा चक्रवर्ति अभूषि॥
ततो मयैतस्य भगवतो रतनवतो चतुरशीति कूटागारसहस्राणि  कारितानि चि-

(६२)

त्राणि दर्शनीयानि सप्तानां रत्नानां सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फाटिकस्य
मुसारगल्वस्य लोहितिकायाः॥ तानि मया तस्य भगवतो निर्यातेत्वा बोधाय
अनुप्रणिहितं॥ न तावद्बुद्धा भगवन्तो परिनिर्वायन्ति यावद्युवराजा अनभि-
षिक्तो भवति। एषो मम अनन्तरं बुद्धो लोके भविष्यति। यथैतर्हि मया
मैत्रेयो व्याकृतो एषो ममानन्तरं बुद्धो भविष्यतीति॥ सो भगवां चतुरशीतिहि
श्रावकसहस्रेहि सार्धं चतुरशीतिसंवर्तविवर्तस्थितो संवर्तमाने लोके भगवाञ्चतुरशी-
हिहि श्रावकसहस्रेहि सार्धं आभास्वरं देवनिकायं गच्छति विवर्तमाने लोके इहा-
गच्छति इह धर्मं देशयति। अहं भूयो राजा चक्रवर्ती भवामि। चतुरशीति-
कूटागारसहस्राणि कारापयित्वा भगवतो रतनवतो निर्यातेमि॥ इयं महामौद्गल्यायन प्रणिधिचर्या॥

कतमा च अनुलोमचर्या॥ इह महामौद्गल्यायन बोधिसत्वो महासत्वो बो-
धाय अनुलोमताये स्थितो भवति॥ इयं महामौद्गल्यायन ....
...... अविवर्तचर्या॥ विवर्तन्ति संसरन्ति विवर्तचर्या॥ अवैवर्तिया
बोधाय भवन्ति अविवर्तचर्या॥

अत्र दशभूमिको कर्तव्यो दीपंकरवस्तु च॥

नमो स्तु बुद्धानां नमोऽर्हतां॥ दशभूमिकस्यादि

वत्ते अप्रतिम धर्मदर्शनं

(६३)

नैककल्पशतसंचितात्मनां।
भूमयो दश जिनान श्रीमतां
यैर्विकुर्विषु सदा पण्डिता॥
मानदर्पमदमोहमोचिता
सर्वशः समियमार्दवान्विता।
गौरवं जनिय सर्वदर्शिषु
श्रूयतां जिनवरस्य शासनं॥
निर्वृते कनकराशिसन्निभे
शाक्यनन्दिजनने तथागते।
कंपि मेदिनि सशैलकानना
सागरांबरधरा सपर्वता॥
कम्पितं परमरोमहर्षणं
भूमिकंपमनुदृश्य दारुणं।
काश्यपो धुतगुणाग्रपारगो
चित्तमभ्युपगतः तदा अभूत्॥
किं नु अद्य धरणी सपर्वता
सागराम्बरधरा वसुन्धरा।
कम्पते परमदारुणस्वरं
नूनं निर्वृतिं गतस्तथागतः॥
सो च दिव्यनयनस्तथागतं
देवकिन्नरवरेहि वन्दितं।

(६४)

दृश्य सर्वभवबन्धनान्तकं
निर्वृतं यमकशाल-अन्तरे॥
न खलु मे समुचितं तथागतं
ऋद्धिये समनुगन्तु गौतमं।
पद्भिरेव वदतां वरं मुनिं
द्रष्टुमप्रतिमं प्रव्रजाम्यहं॥
सो च मत्व त्वरमाणो सूरी
काश्यपो मथितमानसो भिक्षुः।
भिक्षुभिर्बहुभिरुत्तमो परि-
निर्वृतभुवमनुपूर्वमागमि॥
तस्य च प्रणिधिरासि उत्तमा
काश्यपस्य जिनपादवन्दने।
तौ .... चरणौ महामुने
मूर्धिना उपनिपीड्य वन्दितुं॥।
संगृह्योल्कां विपुलां अथ चतस्रो
मल्लका उपगता बलवन्तः।
वीजितां परममल्लविनीतां
दग्धडल्कां अभिप्राणमयेन्सुः॥
तैश्चितामभिमुखं उपनीता
तैः पराक्रमबलै रथशूरैः।

(६५)

निर्वृता च ..... सा समकालं
प्राप्य वारिपरिषेकमिवोल्का॥
संशयं विमतिमध्यमुपेत्य
मल्ला दिव्यनयनं अनिरुद्धं।
गौरवा नतशिरा सुविनीता
प्रश्नम् ..... इदं परिपृच्छे॥
को नु हेतुरिह प्रत्ययो च को
येनिमा जिनसुता उपनीता।
निर्वृतिं उपगता सहसोल्का
ब्रूहि कारणमिहार्य यथावत्॥
देवता खलु प्रसन्ना काश्यपे
तस्य एष खलु ऋद्धिभावना।
नैव ताव ज्वलनो ज्वलिष्यति
याव नागतो अग्रपारगः॥
तस्य चैष प्रणिधिः समृध्यति
काश्यपस्य धुतधर्मधारिणः।
तौ क्रमौ दशबलस्य श्रीमतः
वन्दितुं हि शिरसा महामुने॥
सो च भिक्षुगणसंपुरस्कृतः
काश्यपो धुतरजो जिनात्मजः।
प्रांजली जिनचितामुपागतो
गौरवा प्रणतशीर्षमानसः॥

(६६)

दृश्य तं प्रवररूपधारिणं
काष्ठसंचयगतं तथागतं।
धिग्भवानिति गिरामुदीरयी
दर्शितप्रकृतिभावलक्षणां॥
को नु सो भवमुपेत्य प्राणको
यो न मृत्युवशमागमिष्यति।
यत्रयं ज्वलनकांचनोपमो
निर्वृतो शिखिरिवेन्धनं विना॥
कृत्व अंजलिपुटं महायशो
पादतो जिनवरस्य काश्यपो।
मूर्धिना निपतितो महर्षिणो
पश्चिमं इदं नमस्यते मुने॥
तौ च चक्रवरलक्षितौ क्रमौ
देवदानववरेहि वन्दितौ।
निःसृतौ तथ विदार्य तां चितां
देवयक्षभुजगानुभावितौ॥
तौ क्रमौ शिरसि सन्निपातिय
पाणिभिः समनुगृह्य चा मुने।
आलपे श्रुतिधरं महर्षिणं
अन्तिकावचरः काश्यपस्तदा॥

(६७)

किं त्विमौ श्रुतिधर क्रमौ मुने
ध्यामतामुपगतौ न सुप्रभौ।
ब्रूहि कारणमशेषमाह्वय
येनिमौ न नयनाभिनन्दिनौ॥
एतं श्रुत्व श्रुतसंचयंधरो
काश्यपं इदमुवाच पण्डितो।
अश्रुवेगदुषिता व शोचतां
रोदितेहि मथिता हिमौ क्रमौ॥
तेनिमौ क्रमवरौ महामुनेः
रोदनेन जनताभिपीडितौ।
नो विभान्ति मुनिनो यथा पुरा
एवमेतदनुपश्य सुव्रत॥
सो निपत्य शिरसा पुनः पुनः
तौ क्रमौ प्रवरचक्रलक्षणौ।
करतलेहि अभिपीडयेत्मुने
शास्तु गौरवपराय बुद्धिये॥
वन्दितौ च धुतधर्मधारिणा
तौ क्रमौ गुणधरेण शास्तुनो।
लोकनाथचितकाष्ठ तेजसा
वायुवेगविधुतेन दीप्यति॥

(६८)

दह्यमाने जिनचन्द्रशरीरे
पंच तानि वशिभूतशतानि।
मन्त्रयन्ति सहिता समुपेत्य
निर्वृतीसमयकाले संगीतिं॥
निर्वृतो प्रवरलक्षणधारी
यो नु शास्तु ससुरासुरनेता।
को गुणो इह चिरंपरिवासे
वयमप्यद्य विजहामथ देहं॥
सर्वथा सुपरिनिष्ठितकार्याः
प्राप्य अच्युतमशोकमनन्तं।
सर्वभावभववीतिगता स्म
एष निर्वृतिमुपेम इहैव॥
एवमुक्ते धुतधर्मविशुद्धो
काश्यपो ब्रवि तदा वशिभूतां।
न खु भवद्भिरनुपादिविमुक्ति
निर्वृती समनुगम्य इहैव॥
तीर्थिका च बहिधानुगताश्च
क्रेयुरप्रतिमशासनदोषं।
धूमकालिकमिति श्रमणस्य
एतदेव च तु रक्षणियं नो॥
लोकनाथ बहवो नरसिंहा

(६९)

ये चनागत महामतिशूरा।
ते हि नो उपपदेयुरुदग्रा
यदि न संकलिये शासनं शास्तुः॥
तेन अप्रतिहताः  सुसमग्राः
गायथा सुगतशासनमग्य्रं।
यथ इदं सुपरिगीत यथार्थं
चिरतरं नरमरूषु विरोचे॥
एवमस्तु इति ते वशिभूता
काश्यपस्य वचनं प्रतिपूज्य।
चित्तमप्युपगता क्व इदानीं
देशि धर्मधरसंगणना स्यात्॥
रम्यकाननवने सुसमृद्धे
मागधस्य मगधाधिपतिस्य।
पुरवरे भवतु राजगृहस्मिं
सप्तपर्ण-अभिधानगुहायां॥
पर्वतस्य वैहायवरस्य
उत्तरस्मि तीरे वरपार्श्वे।
विविधपादपे शिलातलभूमेः
भागे यं भवतु धर्मसमास्या॥
ते च ऋद्धिवशिभावबलस्था

(७०)

उद्गताः खगपथे जिनपुत्रा।
तत्क्षणान्तर .... प्रपलाना
मानसं सरो यथा हंसयूथो॥
ते प्रतिष्ठिता नगाग्रवरस्य
पार्श्वे तद्वनमुपेत्य निषणा।
शासने च सुगतस्य सूगीते
देवदुन्दुभिगणानि नदेन्सुः॥
ते च दुन्दुभिन नादं नदन्तं
श्रुत्व शासनकरा सुगतस्य।
भूमिकम्पमनुदृश्य च घोरं
काश्यपं धुतरजं इदमूचुः॥
किन्तु भोः धुतधरा समकंपि
मेदिनी ससरिता ससमुद्रा।
देवदुन्दुभिरवाश्च मनोज्ञा
दिव्यमाल्यविकिरणं च भवन्ति॥
तानुवाच धुतधर्मसमंगी
काश्यपो जिनसुतां वशिभूतां।
एते सन्निपतिता मरुसंघा
श्रुत्व शासनवरं सुसमग्य्रं॥
ते समग्रवरलक्षणधारी
गौरवात्प्रमुदिता मरुसंघाः।
पूजां अप्रतिमकस्य करोन्ति

(७१)

शासनं शृणुयु सर्वसमग्य्रं॥
सो हि नैकभवकल्पशतेहि
हितसुखाय नरदेवगणानां।
एवमभ्युपगतो चिररात्रं
मोक्षयिष्ये हं प्रजां परिमुक्तः॥
सो लभित्व परमार्थमशोकं
सर्वभावभवदुःखनिरोधं।
काशिपुर्यां नरदेवहितार्थं
वर्तयिष्यि वरचक्रमद्भुतं॥
पंचकेहि सह तेहि मुनीहि
मरुगणां विनयवादिनां वरो।
सत्वकोटिनयुतानि नायको
जातिजन्ममरणात्समुद्धरे॥
सो विमोक्षयि भवाभिनन्दिनो
तोषयं नरमरू नरसिंहो।
मथिय सर्वपरवादि सांप्रतं
निर्वृतो तु भगवां निरपेक्षो॥
एत श्रुत्व वचनं मनोरमं
काश्यपस्य धुतधर्मधारिणो।
देवसंघा मुदिता नभे स्थिता
व्याहरन्ति वचनं मनोरमं॥
साधु साधु धुतधर्मकोविदा

(७२)

शास्तु शासनकरा अनन्यथा।
भाषसे गुणमनन्तबुद्धिनो
जेतवने नरमरू सुतोषिता॥
सो हि देवमनुजान उत्तमो
सो हि अग्रपुरुषो महामुनिः।
सो हि निःशरणमुत्तमं प्रभुः
दृष्टदर्शनो हिताय प्राणिनां॥
तेन स्कन्धा तडिबुद्बुदोपमा
फेनपिण्डकमिव प्रभास्वरं।
देशिता दशबलेन जानता
यस्यियं गुणकथा प्रवर्तते॥
कृष्णसर्पशिरसन्निभास्तथा
काम अग्रपुरुषेण देशिता।
शस्त्ररुच्छविषकुम्भसन्निभा
यस्यियं गुणकथा प्रवर्तते॥
तेन दृष्टमचलं परं सुखं
दृष्टिभिः परमसाधुदृष्टिभिः।
तं अमत्सरवता प्रकाशितं
संविभागरुचिना यदद्भुतं॥
उद्गते दिनकरे यथा किमि

(७३)

निष्प्रभो भवति नो च भ्राजति।
उद्गते जिनदिवाकरे तथा
निष्प्रभा परगणी असंयता॥
ऋद्धिपादबलपारमिं गतो
ईश्वरो जिनबलेन चक्षुमां।
लोचनं भगवतस्य पश्यथ
निर्वृतो कनकबिम्बसन्निभो॥
धिग्भवां सरद-अभ्रसन्निभा
वालिकानगररूपसन्निभा।
यत्र नाम कुशलान संचयो
निर्वृतो परमबुद्धिसागरो॥
हेतुकारणशतेहि नायको
नर्दते पुरुषसिंहनर्दितं।
भवमनन्यमरणं निरीक्ष्य
तस्य उक्तमन्तरं न विद्यते॥
दिव्यपुष्पवरमण्डितं नभं
शोभते सुगतवर्णभाषणे।
दिव्यचन्द्रनरसानुवासितं
शोभते अमृतगन्धिकं नभमिति॥

अथ खल्वायुष्मान्महामौद्गल्यायनो आयुष्मन्तं महाकाश्यपमामन्त्रयति॥ व्य-
वस्थापय जिनपुत्र वशिभूता ये परिषायां संशयगतानि मानसानि विजानेयुरि-

(७४)

ति॥ अथानिरुद्धं उपालिं च स्थविरं च अलकुण्डलभट्टियं सुन्दरनन्दं च काश्यप
उवाच॥

अवलोकेथ जिनात्मजाश्चित्तानि या परिषायां।
संशयं च परिपृच्छथ यस्य यत्र तथा भवेदिति॥
साधूति ते प्रतिश्रुत्वा जिनशास्त्रविशारदाः।
पश्यन्ति परचितानि करे वामलकं यथा॥
प्रलम्बबाहुं वशिभूतं काश्यपो इदमब्रवीत्।
गृध्रकूटस्य शिखरे निर्मिणे वसुधां लघुं॥
अष्टादश सहस्राणि परिषायां समागता।
यथा सर्वाभिजानेया ऋद्धिं संजनया तथा॥
विचिन्तचूतं वशिभूतं काश्यप इदमब्रवीत्।
गंगोदकमया मेघा निर्मिणे गगने लघुं॥
विविधगन्धपुष्पाश्च उपवायन्तु सर्वतः।
मानुषाणामामगन्धा च शीघ्रमन्तरहापय॥
हर्यक्षं नाम वशिभूतं काश्यप इदमब्रवीत्।
तथा उत्पादय शीघ्रं समाधिं सुगतात्मज।
यथा गृहीणां द्रव्याणि न गच्छेयुः परां गतिं॥
वरुणं नाम वशिभूतं काश्यपो इदमब्रवीत्।
अरतिदंशमशका मनुष्याणां निवर्तये॥

(७५)

अजकर्णं वशिभूतं काश्यपो इदमब्रवीत्।
क्षुधां पिपासां व्याधिं च मनुष्याणां निवर्तय॥
साधूति ते प्रतिश्रुत्वा काश्यपस्य जिनात्मजाः।
यथाज्ञप्तानि स्थानानि यथोक्तं परिजाग्रिषु॥

ततः काश्यपस्थविरः कात्यायनमुवाच स।
समुदीरय महात्मनां चरितं धर्मराजिनां॥
एवमुक्ते महाप्राज्ञो कात्यायनकुलोद्गतः।
उवाच चर्या बुद्धानां काश्यपस्यानुपृच्छतः॥
श्रुयतां भो जिनसुता बुद्धानां सर्वदर्शिनां।
चर्या चरणशुद्धानां यथावदनुपूर्वशः॥
दश खलु भो जिनपुत्रा बोधिसत्वान भूमयो।
.................... भवन्ति कतमा दश॥
दुरारोहेति प्रथमा भूमी समुपदिश्यते।
द्वितीया बद्धमाना नाम तृतीया पुष्पमण्डिता॥
चतुर्थी रुचिरा नाम पंचमी चित्तविस्तरा।
षष्टी रूपवती नाम सप्तमी दुर्जया स्मृता॥
अष्टमा जन्मनिदेशो नवमी यौवराज्यतो।
दशमी त्वभिषेकातो इति एता दश भूमयः॥

(७६)

एवमुक्ते तु गाथाभिः काश्यपोऽब्रवि पण्डितः।
कात्यायनमतो त्यर्थं वाक्यमप्रतिमं इदं॥
भूमीनां परिणामानि यथावदनुकीर्तय।
यथा च ते विवर्तन्ते संसरन्तो महायशा॥
यथा चापि संवर्तन्ते सत्त्वसाराः तथा वदे।
यथैवाध्याशया तेषां भवन्ति तां उदाहरे॥
यथा च परिकल्पेन्ति सत्वा सत्वसमन्विता।
यथा च देन्ति दानानि तत्सर्वमनुकीर्तये॥
तथा च दृष्ट्वा संबुद्धा भाषन्तो च मनोजनं।
संज्ञोत्पादं तथा ब्रूहि काश्यपो इदमब्रवीत्॥
इदं ते वचनं श्रुत्वा वशिभूता उपस्थिता।
गौरवेण महासत्वा संबुद्धानां महात्मनां॥

एवमुक्ते कात्यायनो काश्यपमुवाच॥ न खलु भो जिनपुत्र शक्यं बोधिसत्वानां
भूमीः प्रमातुं एत्तककल्पा वा अनन्ता भवन्ति। सर्वं संसारो बोधिसत्वानां
खण्डसंज्ञया भूमिरिति परिकल्पितं तेन भूमिरिति स्मृता॥ एवमुक्ते आयुष्मा-
नानन्द आयुष्मन्तं कात्यायनमुवाच॥ यदि भो जिनपुत्र एका भूमि अप्रमेया

(७७)

कथमिदानीं परिशेषाणां भूमीनां ग्रहणं भविष्यति इति॥ एवमुक्ते आयुष्मान्का-
त्यायनो आयुषमन्तमानन्दं गाथाभिरध्यभाषे॥

कल्पो यथा अपरिमितः प्रकाशितः
प्रजानता अवितथवादिना स्वयं।
कल्पेषु च भवति बहूसु देशना
इदं नु भो पुरुषवरस्य शासनं॥
भूमिस्तथा अपरिमिता प्रजानता
प्रकाशिता स्वयमनिवृत्तबुद्धिना।
प्रवर्तते तथ परिशेषभूमिषु
सामान्यसंकेतानां निरूपणं॥

प्रथमायां भो जिनपुत्र भूमौ वर्तमाना बोधिसत्वा पृथग्जना इति प्राप्तफला
भवन्ति इति दक्षिणीयाश्च लोकानां विरोचेन्ति भवन्ति चात्र

त्यागेन त्यागसंपन्ना बोधिसत्वा महायशाः।
लोकां च अभिरोचन्ते चन्द्रभानुरिवांशुमां॥

प्रथमायां भूमौ बोधिसत्वानां वर्तमानानामष्ट समुदाचारा भवन्ति॥ कतमे
अष्ट॥ तद्यथा त्यागः करुणा अपरिखेदः अमानो सर्वशास्त्राध्ययिता विक्रमं
लोकानुज्ञा धृतिरिति॥ भवन्ति चात्र

(७८)

ते संविभागसुचयः करुणायमाना
दुःखसंहती भगवतां मधुरस्वराणां।
वचनैः गुणैश्च परितोषमुपेन्ति धीराः
एवं चरन्ति धरणी प्रथमाये सत्वा॥
शास्त्राणि यानि पसरन्ति असारकानि
एता विचार्य जनता-अनुरागबुद्धी।
निष्क्रम्य तं तृणसमं च विचार्य लोकं
तीव्रां वेदेन्ति वेदना कुशलं चिनोन्ति॥

एकेन कारणेन बोधिसत्वा विवर्तन्ति द्वितीयायां भूमौ॥ कतमेन एकेन॥
भवेषु आस्वादसंज्ञिनो भवन्ति॥ द्विहि कारणेहि बोधिसत्वा विवर्तन्ति द्विती-
यायां भूमौ॥ कतमेहि द्विहि॥ कामगुणेहि अभिलाषिणश्च भवन्ति कुशीदाश्च॥
पुनस्त्रिभिराकारैर्बोधिसत्वा द्वितीयायां भूमौ विवर्तन्ति॥ कतमेहि त्रिहि॥
स्पृहालवश्च भवन्ति उत्त्रासबहुला दुर्बलाध्याशयाश्च॥ षड्भिराकारैः बोधिसत्वा
प्रथामायां भूमौ स्थिता द्वितीयायां भूमौ विवर्तन्ति॥ कतमैः षड्भिः॥  न च
अनित्यसंज्ञाबहुला विहरन्ति। आघातबहुलाश्च भवन्ति। दृधवैराश्च भवन्ति।
स्त्यानमिद्धबहुलाश्च भवन्ति। लोककार्यपरायणाश्च भवन्ति॥ ये भो जिनपुत्र

(७९)

बोधिसत्वा विवर्तेन्सु विवर्तन्ति विवर्तिष्यन्ति सर्वे ते इमेहि द्वादशभिराकारैर्वि-
वर्तेन्सु विवर्तन्ति विवर्तिष्यन्ति नातो भूय इति॥

एवमुक्ते आयुष्मान्महाकाश्यपः आयुष्मन्तं महाकात्यायनमुवाच॥ इमे भो
जिनपुत्र बोधिसत्त्वा विवर्तियाश्च अविवर्तियाश्च ये प्रथमं चित्तमुत्पादयन्ति सम्य-
क्संबुद्धा भवेम इति केत्तकं पुण्यं प्रसवन्त इति॥ एवमुक्ते आयुष्मान्कात्यायन
आयुष्मन्तं महाकाश्यपमुवाच॥ पश्य भो जिनपुत्र यो दद्या जम्बुद्वीपं सप्तरत्नसंचयं
दशबलानां अतो बहुतरकं पुण्यं प्रसवति बोधाये प्रणिधेन्तो। यश्च भो जिनपुत्र
चत्वारो द्वीपां दद्यात् रत्नाचितां दशबलानां अतो बहुतरकं पुण्यं प्रसवति बोधाये
प्रणिधेन्तो। यश्च भो जिनपुत्र दद्यात्त्रिसाहस्रां बहुरत्नधरां महागुणधराणां
अतो बहुतरकं पुण्यं प्रसवति बोधाय प्रणिधेन्तो। यश्च भो जिनपुत्र गंगानदी-
वालुकासमा लोकधातुयो अनेकरत्नाचितपूर्णा लोकनाथान पूजयेत् अतो बहु-
तरकं पुण्यं प्रसवति बोधाये प्रणिधेन्तो। यश्च भो जिनपुत्र सागरवालुकासमा
लोकधातूयो बहुविधरत्नाचिता पूर्णा अग्रपुद्गलान पूजया दद्यात् अतो बहुरतकं
पुण्यं प्रसवति बोधाये प्रणिधेन्तो॥

किं कारणं न ह्येते प्राकृतपुरुषाणां भवन्ति संकल्पाः।
बहुजनहिताय यत्र ते जनयन्ति मनोरथां वीराः॥

एवमुक्ते आयुष्मान्महाकाश्यपः आयुष्मन्तं कात्यायनमब्रवीत्॥ ये पुनर्भो जि-

(८०)

नपुत्र बोधिसत्वा अवैवर्तिकतायै परिणामेन्ति किन्तु खलु तेषामुपचितकुशलपु-
ण्यानां प्रथमा प्रणिधिरुत्पद्यति आहोस्विदुपचितकुशलमूलानामिति॥ एवमुक्ते
आयुष्मान्महाकात्यायन आयुष्मन्तं महाकाश्यपं गाथाभिरध्यभाषति॥

पूजयन्ति प्रथमं तथागतां
गौरवेण महता महायशा।
नैव ताव जनयन्ति मानसं
अग्रपुद्गलगतं नरोत्तमा॥
ते च प्रत्येकबुद्धकोटियो
पूजयन्ति परमार्थपुद्गलां।
नैव ताव जनयन्ति मानसं
सर्वधर्मविदुताय पण्डिताः॥
पूजयन्ति वशिभूतकोटियो
पूर्वमेव वशिपारमिं गता।
नैव ताव जनयन्ति मानसं
ज्ञानसागरतराय नायकाः॥
ते यदा विपुलपुण्यसंचया
भोन्ति भावितशरीरमानसाः।
ते समेत्य वररूपधारिणां
बोधये उपजनेन्ति मानसं॥
यं मया कुशलमूलमर्जितं
तेन मे भवतु सर्वदर्शिता।

(८१)

मा च मे प्रणिधि तच्चिरंतरो
एवमेष प्रणिधिः प्रवर्ततु॥
यश्च मे कुशलमूलसंचयो
सो महा भवतु सर्वप्राणिभिः।
यच्च कर्म अशुभं कृतं मया
तत्फलं कटुकं निस्तराम्यहमिति॥

एवमुक्ते आयुष्मान्महाकाश्यपः आयुष्मन्तं महाकात्यायनमेतदुवाच॥ कथं च
भो जिनपुत्र बोधिसत्वा ढृढविक्रमा भवन्ति ये ते अवैवर्तिका भवन्ति॥ एवमुक्ते
आयुष्मान्महाकात्यायन आयुष्मन्तं काश्यपं गाथाभिरध्यभाषे॥

येनान्तरेण परमार्थविदुर्भवामि
तं अन्तरं यदि अवीचिगतो वसामि।
तं अभ्युपेमि न च तं प्रतिसंहरामि
सर्वज्ञताये प्रणिधिं इति निश्चयो मे॥
जातीजरामरणशोक-उपद्रवांश्च
त्यक्तुं प्रभुः न हि विवर्तयि मानसानि।
दुःखसंहति जगतो अर्थकरो प्रजानाम्
इत्येतं विक्रमबलं पुर्षर्षभानामिति॥

एवमुक्ते आयुष्मान्महाकाश्यप आयुष्मन्तं महाकात्यायनमब्रवीत्॥ यं पुनर्भो
जिनपुत्र अवैवर्तियो बोधिसत्वो प्रथमं चित्तमुत्पादयति कतमेषां तदा अद्भुतानां

(८२)

धर्माणां प्रादुर्भावो भवति॥ एवमुक्ते आयुष्मान्महाकात्यायनो आयुष्मन्तं महा-
काश्यपं गाथाभिरध्यभाषति॥

सनगरनिगमसरिता रणति वसुमती प्रभूतरत्नवती।
प्रभवति यदा प्रथमतो प्रणिधानं जगत्प्रधानानां॥
दिवसकरसदृशतेजश्चाभासो विकसते दिशः सर्वा।
यदा पुरुषसिंहताये आद्यप्रणिधिः समुद्भवति॥
सुरवरगणश्च उदग्राः परंपरानभि गिरामुदीरेन्ति।
एष नरसिंहताये प्रणिधेति अनन्तवूदग्रो॥
अस्माभिः रक्षितव्य एष हि जगतोर्थं अतितेजस्वी।
चिनोति शुभं शुभकरो इदमाश्चर्यं तदा भवति॥

एवमुक्ते आयुष्मां काश्यप आयुष्मन्तं महाकात्यायनमुवाच॥ ये इमे भो
जिनपुत्र अविवर्तिका बोधिसत्वा केवत्तकानि तैः प्रथमायां भूमौ स्थितैः दुष्कराणि
कृतानीति॥ एवमुक्ते आयुष्मान्महाकात्यायन आयुष्मन्तं महाकाश्यपं श्लोकानु-
वाच॥

भार्यां प्रियां हृदिसुखांश्च सुतां शिरांसि
नेत्राणि चाभरणवाहनविस्तरांश्च।
दत्त्वा न विश्रममुपेन्त्यथ दैन्यतां वा

(८३)

सर्वज्ञतामभिमुखाः पुरुषर्षभास्ते॥
आधर्षिता च वधबन्धनताडनेभ्यो
रौद्रैर्नरैरशुभकर्ममतिप्रवणैः।
तानेव दृष्ट्व परमार्दवमैत्रचित्ता
श्लक्ष्णाभि वाग्भिरनघाः समुदाचरन्ति॥
दृष्ट्वा च याचनक मानप्रमादुपेतं
हर्षं परं प्रतिलभन्ति महामनुष्याः।
दत्त्वा च वर्धितगुणात्तमना भवन्ति
पश्चात्तपो न तु तपन्ति तपोनिराशा इति॥

इति श्रीमहावस्तु-अवदाने प्रथमा भूमिः समाप्ता॥

ततश्च काश्यपस्थविरः महाकात्यायनमब्रवीत्।
निर्दिष्टा प्रथमा भूमि महासत्व मनोरमा॥
द्वितीयां संक्रमन्तानां भूमिं नरवरात्मजा।
किं चित्तं बोधिसत्वानां जायते समनन्तरं॥
के च अध्याशया सन्ति द्वितीयायां जिनात्मज।
भूमिन्तां बोधिसत्वानां यथाभूतमुदीरयेदिति॥
ततः कात्यायनः स्थविरः काश्यपमिदमब्रवीत्।
निर्देशं बोधिसत्वानां कीर्तयिष्ये मनोरमं॥

(८४)

द्वितीयां संक्रमन्तानां प्रथमतो नुजायते।
अरती बोधिसत्वानां भवेष्विति न संशयं॥

बोधिसत्वानां भो जिनपुत्र द्वितीयायां भूमौ वर्तमानानां इमे अध्याशया
भवन्ति। तद्यथा कल्याणाध्याशया भवन्ति स्निग्घाध्याशयाश्च भवन्ति मधुरा-
ध्याशयाश्च भवन्ति तीक्ष्णाध्याशयाश्च भवन्ति विपुलाध्याशयाश्च भवन्ति विचित्रा-
ध्याशयाश्च भवन्ति गम्भीराध्याशयाश्च भवन्ति अपर्यादिन्नाध्याशयाश्च भवन्ति
अनुपहताध्याशयाश्च भवन्ति असाधारणाध्याशयाश्च भवन्ति उन्नताध्याशयाश्च
भवन्ति अकृपणाध्याशयाश्च भवन्ति अनिर्वताध्याशयाश्च भवन्ति अकृत्रिमाध्याश-
याश्च भवन्ति शुद्धाध्याशयाश्च भवन्ति दृढाध्याशयाश्च भवन्ति स्वभावाध्याशयाश्च
भवन्ति तृप्ताध्याशयाश्च भवन्ति पुद्गलाध्याशयाश्च भवन्ति अनन्ताध्याशयाश्च भवन्ति॥
कथं भो धतधर्मधर बोधिसत्वाः कल्याणाध्याशयाः भवन्ति॥ उच्यते॥

बुद्धे धर्मे च संधे च न कांक्षन्ति कथं चन।
इति अध्याशयस्तेषां कल्याण उपदिश्यते॥

कथं भो धुतधर्मधर बोधिसत्वाः स्निग्धाध्याशया भवन्ति॥ उच्यते॥

अङ्गेषु छिद्यमानेषु मनस्तेषां न कुप्यते।
एवमध्याशयस्तेषां स्निग्धमृदूपदिश्यते॥

कथं च भो धुतधर्मधर बोधिसत्वाः मधुराध्याशया भवन्ति॥ उच्यते॥

(८५)

अन्तः कुशलकर्माणि सेवन्ति पुरुषोत्तमाः।
एवमध्याशया मधुरा भवन्ति धुतबुद्धिनामिति॥

कथं भो धुतधर्मधर बोधिसत्वाः तीक्ष्णाध्याशया भवन्ति॥ उच्यते॥
बुध्यन्त्याशयसंयुक्ता लोके लोकोत्तरे तथा।
एवमध्याशया तीक्ष्णा भवन्ति शुद्धकर्मणामिति॥

कथं च भो धुतधर्मधर बोधिसत्वा विपुलाध्याशया भवन्ति॥ उच्यते॥
सर्वभूतान हितार्थं संचिनोन्ति शुभं बहुं।
एवमध्याशया विपुला भवन्ति परमर्षिणामिति॥

कथं भो धुतधर्मधर बोधिसत्वा विचित्राध्याशया भवन्ति॥ उच्यते॥
विचित्राणि मनोज्ञानि देन्ति दानान्यमत्सराः।
एवमध्याशया विचित्रा भवन्त्युत्तमदर्शिनामिति॥

कथं च भो धुतधर्मधर बोधिसत्वा अपर्यादिन्नाध्याशया भवन्ति॥ उच्यते॥
अपर्यादिन्नचित्तास्ते प्रतिवेधपराक्रमाः।
एवमध्याशयस्तेषामपर्यादिन्न उच्यते॥

कथं च भो धुतधर्मधर बोधिसत्वा अनुपहताध्याशया भवन्ति॥ उच्यते॥
न ते शक्यन्ति संहर्तुं दुष्टचित्तेन केनचित्।
एवमध्याशयस्तेषां न जातु उपहन्यते॥

(८६)

कथं च भो धुतधर्मधर बोधिसत्वा असाधारणाध्याशया भवन्ति॥ उच्यते

यं नान्यः प्रणिधिः कश्चित् एवं सत्वस्योपजायते।
सर्वसत्वसुखार्थाय तदसाधारणं विदुरिति॥

कथं च भो धुतधर्मधर बोधिसत्वा उन्नताध्याशया भवन्ति॥ उच्यते॥
अपरतीर्थिकमतं श्रुत्वावज्ञा प्रतिष्ठते।
उन्नताध्याशयास्तेन नरसिंहा भवन्ति ते ति॥

कथं च भो धुतधर्मधर बोधिसत्वा अकृपणाध्याशया भवन्ति॥ उच्यते॥

न कामगुणभोगार्थं संचिन्वन्ति शुभं विढूः।
ततश्चाकृपणास्तेषां भवन्त्यध्याशया सदेति॥

कथं च भो धुतधर्मधर बोधिसत्वा अनिवर्तियाध्याशया भवन्ति॥ उच्यते॥

कामैः ते नावकीर्यन्ते बुद्धत्वे कृतनिश्चयाः।
तेनानिवर्तियास्तेषामध्याशया इति स्मृताः॥

कथं च भो धुतधर्मधर बोधिसत्वा अकृत्रिमाध्याशया भवन्ति॥ उच्यते॥

वशिप्रत्येकबुद्धानां न स्पृहेन्ति कथं चन।
एवं चाकृत्रिमो भवति तेषामध्याशयः सदेति॥

कथं च भो धुतधर्मधर बोधिसत्वाः शुद्धाध्याशया भवन्ति॥ उच्यते॥

(८७)

लाभसत्कारमुत्सृज्य परमार्थाभिकांक्षिणो।
शुद्ध अध्याशयस्तेषामित्येवमुपदिश्यते॥

कथं च भो धुतधर्मधर बोधिसत्वा दृढाध्याशया भवन्ति॥ उच्यते॥

नसंहरन्ति वीरियं धर्मे लोकैरभिद्रुता।
एवमध्याशयास्तेषां दृढा सन्ति महर्षिणामिति॥

कथं च भो धुतधर्मधर बोधिसत्वाः स्वभावाध्याशया भवन्ति॥ उच्यते॥

मुर्छितास्ते न भुंजन्ति परान्नान्यवस्रुता।
स्वभावाध्याशयस्तेषामेवमार्य प्रशंस्यते ति॥

कथं च भो धुतधर्मधर बोधिसत्वाः तृप्ताध्याशया भवन्ति॥ उच्यते॥

नात्र प्रस्यन्दन्ति कामेषु निष्क्रम्याभिरताः सदा।
एवमध्याशयो तृप्तो बोधिसत्वे प्रशंस्यते ति॥

कथं च भो धुतधर्मधर बोधिसत्वाः पुद्गलाध्याशया भवन्ति॥ उच्यते॥

स्वयंभूसर्वदर्शित्वमभिकांक्षन्ति पण्डिताः।
पुड्गलाध्याशया भवन्ति चैवमप्रतिमा ध्रुवाः॥

(८८)

कथं च भो धुतधर्मधर बोधिसत्वा अनन्ताध्याशया भवन्ति॥ उच्यते॥

न प्रार्थयन्ति महाभोगानदानगुणसंपदा।
अनन्ताध्याशयाश्चैवं भवन्ति पुरुषोत्तमा इति॥
सर्वेहि एतेहि विंशद्भिः सर्वधर्मविशारदा।
समन्विता सत्पुरुषा शुभैरध्याशयैर्वरा इति॥

इमेहि खलु भो धुतधर्मधर बोधिसत्वा विंशद्भिरध्याशयैः समन्वागता भव-
न्तीति।

एवमुक्ते आयुष्मान्महाकाश्यप आयुष्मन्तं महाकात्यायनमुवाच॥ कतिहि भो
जिनपुत्र आकारेहि बोधिसत्वा द्वितीयायां भूमौ वर्तमानास्तृतीयायां भूमौ विव-
र्तन्ति॥ एवमुक्ते आयुष्मान्महाकात्यायनो आयुष्मन्तं महाकाश्यपमुवाच॥ अष्टा-
विंशद्भिः भो धुतधर्मधर कारणेहि बोधिसत्वा द्वितीयायां भूमौ वर्तमानाः तृतीयायां
भूमौ विवर्तन्ते॥ कतमैरष्टाविंशद्भिराकारैः॥ तद्यथा लाभगुरुकाश्च भवन्ति।
सत्कारगुरुकाश्च भवन्ति। कीर्तिश्लोकपराश्च भवन्ति। शठाश्च भवन्ति। वि-
षमेण च वृद्धिं कल्पयन्ति। गुरुकोपनभाषणपराश्च भवन्ति। त्रिषु रतनेष न च
चित्रिकारबहुला वितरन्ति। दक्षिणीयेषु बोधिसत्वचरितं च न पर्येषन्ति। यतश्च
बोधिसत्वचरितभूमिं प्राप्नुवन्ति तां न पूजयन्ति। अतिरेकपूजाये प्राप्यं च भारं
न उपादियन्ति। अप्राप्यं च भारं उपादियित्वा वितरन्ति। आकीर्णविहारेण
न नार्तीयन्ति। माल्यवस्त्रालंकाराभारणानुलेपनधराश्च भवन्ति। अल्पगुणप-

(८९)

रितुष्टाश्च भवन्ति। अभीक्ष्णं लोकरमणीयाभिरताश्च भवन्ति। न च सर्वधातू
अनित्या संकल्पयन्ति। स्वेन च वर्णरूपेण परमभिमन्यन्ति। न च विपरीतद-
र्शनत्यागं करोन्ति। न च यथोद्दिष्टं पदव्यंजनं परिपूर्णं करोन्ति। देशनामत्स-
रिणश्च भवन्ति। अपात्रदर्शिनश्च भवन्ति। पात्रे च न प्रतिपादयन्ति। कठि-
नसन्तानाश्च भवन्ति। असमीक्षकारिणश्च भवन्ति॥  ये केचि भो धुतधर्मधर
बोधिसत्वा द्वितीयायां भूमौ वर्तमाना तृतीयायां भूमौ विवर्तन्ति सर्वे ते इमेहिर-
ष्टाविंशद्भिराकारैर्विवर्तन्ति॥

तत्रेदमिति उच्यते॥

इत्येषा द्वितीया भूमि बोधिसत्वानमुच्यते।
नानाकुशलकोशानां लोकार्थसुखचारिणां॥
ये हि दोषेहि संयुक्ता विवर्तन्ति तथाविधा।
ये चैवं परिवर्तन्ता न विवर्तन्ति पण्डिताः॥
दुरारोहां धुरधीराः प्रतिपद्यन्ति शूरतां।
तां च लोकानुकम्पार्थं बहुदुःखा चरन्ति ते॥
ते ते देवमनुष्याणां पूज्याः सर्वे तथागताः।
तथा हि विविधं दुःखं उपेन्ति ज्ञानपूर्वकं॥
नानाधातुमिमं लोकमनुवर्तन्ति पण्डिताः।
तेन तेषां गता कीर्ति लोके समरुमानुषे इति॥

इति श्रीमहावस्तु-अवदाने द्वितीयभूमिः समाप्ता॥

(९०)

एवमुक्ते आयुष्मान्महाकाश्यपः आयुष्मन्तं महाकात्यायनमुवाच॥ द्वितीया
भूमितो तृतीयां भूमिं संक्रमन्तानां बोधिसत्वानां नरवरात्मज कीदृशं जायते चि-
त्तमिति॥

ततः कात्यायनस्थविरः काश्यपमिदमब्रवीत्।
श्रुयतां बोधिसत्वानां सन्धिचित्तमनुत्तमं॥
त्यागे प्रवर्तते चित्तं बोधिसत्वानमावुसो।
तृतीयां संक्रमन्तानां द्वितीयातो जिनात्मज॥
सुखेन्ति सर्वसत्वानां संस्थितानि नरेश्वराः।
तं च नात्मसुखार्थाय नापि बोधेः कथं चन॥
क्रिणन्ति पुत्रदारेण एकगाथां सुभाषितां।
.......................................................................
साधुना बोधिसत्वेन राज्यं कारयता पुराः।
......................................................................
वनगहनं बलगहनं गिरिगहनानि त्यागग्रहणानि।
विषमाप्रतिसन्निषणवनानि तु मनुष्यगहनानि॥
तृणगुल्मकण्ठकलताकुलानि वृक्षग्रहणा गहनानि।
शठनिकृतिपैशुन्यानि तु मनुष्यगहनानि॥
.......................................................................
........................... भण्डिना ब्रूहि ब्राह्मण॥

(९१)

.......... बोधिसत्वेन एका गाथा सुभाषिता।
बोधिसत्वेन सा क्रीता परमार्थाभिकांक्षिता॥
अहितुण्डिकातो हस्तातो यत्नात्क्रीतं सुभाषितं।
यावज्जीवन्ते अमुष्यां पेलायां दुष्कृतं कृतं॥
ब्राह्मणो अभ्युपगम्य ऋषिदेवं नरेश्वरं।
इदमुवाच प्रीतात्मा अस्ति एषा सुभाषिता॥
तस्य मूल्यं तव शीर्षं त्यक्त्त्वा शीर्षमित्यब्रवीत्।
ब्रूहि ब्राह्मण शीघ्रं मे गाथामेतां सुभाषितां॥
यदि अपि किञ्चिदशुभं समुदाचरन्ति
संबोधिसत्वचरितान्यभिकांक्षमाणाः।
तैलप्रदीप इव सूर्यमरीचिच्छन्नः
न भ्राजते विपुलपुण्यबलाभिभूतं॥
सुरूपं नाम भूमिपतिं राक्षसो इदमब्रवीत्।
अस्ति सुभाषिता गाथा क्रेया यदि क्रिणासि तां॥
तस्या मूल्यं कुमारं च देवीं त्वां चैव भक्षयेत्।
गृह्यतां यदि ते कृत्यं गाथा हि धर्मसंहिता॥
सो ब्रवीद्राजा सुरूपो निःसंगो धर्मगौरवात्।
गृह्यतां दीयतां गाथा युक्तं भवतु मा चिरं॥

(९२)

तत्रेमां गाथां सुभाषितां राक्षसो अब्रवीत्॥

परिदेवितकंपनेषु अनिष्टसंयोगप्रियहीनेषु।
उषितं नरकेषु वरं न च कुपुरुषसंश्रयनिकेतः॥
अमात्यं संजयं नाम पिशाचो इदमब्रवीत्।
स्वकं मे हृदयं देहि शृणु गाथां सुभाषितां॥
स्वकन्ते हृदयं देमि ब्रूहि गाथां सुभाषितां।
पिशाचमब्रवीद्वीरो संजयो विगतव्यथो॥

तत्रेमां गाथां सुभाषितां पिशाचोऽब्रवीत्॥
न जातु तृणकाष्ठेहि ज्वलनं शाम्यते ज्वलन्।
न जातु उपभोगेभ्यः तृष्णा कामेषु शाम्यति॥
श्रेष्ठिं वसुन्धरं नाम दरिद्रो इदमब्रवीत्।
इयं सुभाषिता गाथा सर्वस्वेन तु दीयते॥

बोधिसत्त्वोऽब्रवीत्॥

सर्वस्वं ददामि एषां ब्रूहि गाथां सुभाषितां।
एतं सन्तः प्रशंसन्ति धर्मेषु यत्सुभाषितं॥
तत्रेमां गाथां सुभाषितां दरिद्रोऽब्रवीत्॥

आकीर्णान्यपि शून्यानि बालिशा यत्र जन्तवः।

(९३)

शून्यान्याकीर्णा च सन्ति एकेनापि प्रजानता॥
सुरूपं नाम राजानं पुरुषो एतदब्रवीत्।
जम्बुद्वीपेन मूल्येन शक्यं श्रोतुं सुभाषितं॥

बोधिसत्व उवाच॥

जम्बुद्वीपं च ते देमि सर्वं यत्किंचि इच्छसि।
शीघ्रं सुभाषितं ब्रूहि ब्रूहि सत्यं यदिच्छसि॥

तत्रेमां गाथां सुभाषितां पुरुषोऽव्रवीत्॥

अहंकारममकारा नाना यत्र समुपस्थिता।
मानं यत्र निरोधाय उत्पद्यन्ते तथागताः॥
सत्वरं नाम हरिणं लुब्धक इदमब्रवीत्।
इयं सुभाषिता गाथा देहि मान्सं शृणोहि तां॥
यदि विनाशधर्मेण मान्सेनाहं सुभाषितं।
शृणोमि देमि ते मान्सं क्षिप्रं ब्रूहि सुभाषितं॥

तत्रेमां सुभाषितां गाथां लुब्धकोऽब्रवीत्॥

सतां पादरजः श्रेयो न सुवर्णमयो गिरिः।
सो पान्सु शोकहाराय सो गिरि शोकवर्धन इति॥

(९४)

राजानं नागभुजं नाम तद्दासो इदमब्रवीत्।
चातुर्द्वीपेन राज्येन शक्यं प्राप्तुं सुभाषितं॥

बोधिसत्वोऽब्रवीत्॥

चातुर्द्वीपं च ते राज्यं देमि क्षिप्रमुदीरय।
एतां सुभाषितां वाचां मा विलम्ब ब्रवीहि मे ति॥

तत्र इमं श्लोकं सुभाषितं तद्दासोऽब्रवीत्॥

लामोत्पाटनतुल्यमाहु विदुषः प्रज्ञस्य या विक्रिया
तस्मा ज्ञानबलं समेतिय पुनर्दोषां समूलां नया।
छित्त्वा दोषविवर्जितेन मनसा संभाति संघः शुचिः
भाति लोकगुरुः सतामनुगतोऽनिक्षिप्तभारो शुचिरिति॥
एवं सुभाषितार्थाय प्रपाते पतितः पुनः।
भूयः सुभाषितार्थाय पोतस्त्यक्तो महार्णवे॥
भूयो अक्षीणि त्यक्तानि श्रुत्वा गाथां सुभाषितां।
अग्निस्कन्धे पुनः पतितः श्रुत्वा गाथां सुभाषितां॥
बहूनि एवमादीनि दुष्कराणि जिनर्षभाः।
सुभाषितानामर्थाय प्रतिपद्यन्ते महायशा॥

(९५)

एवमुक्ते आयुष्मान्महाकाश्यपः आयुष्मन्तं महाकात्यायमनुवाच। ये पुनर्भो
जिनपुत्र बोधिसत्वाः तृतीयायां भूमौ वर्तन्ते कथं चतुर्थायां भूमौ विवर्तन्ति इति॥
एवमुक्ते आयुष्मान्महाकात्यायन आयुष्मन्तं महाकाश्यपमुवाच॥ चतुर्दशभिर्भो
दुतधर्मधर आकारैर्बोधिसत्वाः तृतीयायां भूमौ वर्तमानाः चतुर्थायां भूमौ विव-
र्तन्ते॥ कतमेहि चतुर्दशेहि॥ अक्षवंकद्यूतक्रीडानुयोगमनुयुक्ताश्च भवन्ति।
अत्यभीक्ष्णं विवेकं सेवन्ति। राज्यं च कारापयमाणा लोभेनाभिभूता अत्रान्तर-
विजितवासिनां सर्वस्वहारिणो भवन्ति। अपराधं च अननुयुज्या वधमाक्षेपय-
न्ति। बध्यांश्च न संगोपायन्ति। पुरुषांश्च वध्रयन्ति। विप्रतिपन्नाश्च भवन्ति।
न च भोगयात्रायां संविभजन्ति विद्यमानेषु विभवेषु। प्रव्रजित्वा च सम्यक्संबु-
द्धानां भाषतां वा बाहुश्रुत्यं न पर्याप्नुवन्ति। पुरा प्रणिधित्वा च बाहुश्रुत्यं न
देशयन्ति। आमिषप्रतिबद्धांश्च सेवन्ति न धर्मप्रतिबद्धा। न चाभीक्ष्णं बुद्धवर्णं
भाषन्ति। सम्यक्संबुद्धांश्च लोकसमताये देशेन्ति। न च सम्यक्संबुद्धां लोकोत्तरा
इति बोधयन्ति॥ इमेहि भो धुतधर्मधर चतुर्दशभिराकारैः बोधिसत्वाः तृती-
यायां भूमौ वर्तमानाश्चतुर्थायां भूमौ विवर्तन्ति॥ ये हि केचिद्भो धुतधर्मधर
बोधिसत्वाः तृतीयायां भूमौ वर्तमानाः चतुर्थायां भूमौ विवर्तेन्सुः विवर्तन्ति विव-
र्तिष्यन्ति वा सर्वे ते इमेहि चतुर्दशेहिराकारैर्नातो भूय इति॥

(९६)

एवमुक्ते आयुष्मान्महाकाश्यप आयुष्मन्तं महाकात्यायनमुवाच॥ ये पुनर्भो
जिनपुत्र बोधिसत्वा अवैवर्तिया प्रथमं चित्तमुत्पादयन्ति बोधाय केवरूपेण सुखेन
युज्यन्ति केवत्तकाश्च सत्वा सुखसातसंगता भवन्तीति। एवमुक्ते आयुष्मान्महाका-
त्यायन आयुष्मन्तं महाकाश्यपं गाथाभिरध्यभाषि॥

सर्वसत्व सुखसातसंगता
संभवन्ति यदचिन्त्यमद्भुतं।
जायते यद् मनो महर्षिणां
बोधिमार्गपरिभावनात्मकं॥
सप्तरात्रमितिनिश्चयाश्च ये
ये पि ते निरयदारुणालया।
ये च प्रेतभवनेषु प्राणिनो
ते भवन्ति सुखिताश्च नाम॥
सप्तरात्रं न च्यवन्ति प्राणिनो
बोधिसत्वकुशलानुकंपया।
क्षुभ्यते च वसुधा ससमुद्रा।
सप्रभो भ्रमति मेरुमस्तकः॥
भूमि सन्धिषु अयं प्रवर्तते
निश्चत नभसि नात्र संशयः।
तेषु सर्वशुभकर्मराशिनां
तेजसा भ्रमति सर्वसंततं॥

(९७)

अथ खलु नामतिदेवी नाम त्रायस्त्रिंशको बोधिसत्वो भूतो एकांसमुत्तरासङ्गं
कृत्वा येन भगवन्तो दृष्टो तेनांजलिं प्रणमय्य भगवन्तमभिस्तुतः संमुखं वशीभूत-
गणस्य इमैः श्लोकैः॥

यस्य रूपं हेमाभासं तरुणरवि-अविहतवपुं विराजिततेजसा
द्वात्रिंशद्भिः पूर्णैः पूर्णं कुशलचरपुरुषकथितैः सुलक्षणलक्षणैः।
शीलेनाग्य्रं संपूर्णाभं धरणिनगगुरुतरबलं बलोत्तमधारिणं
ते वन्दे शान्तं ते दान्तं .... स्मृतिविनयकुशलं सुरासुरसत्कृतं॥
दीर्घं कालं चित्राचारो कुशल अतिविपुलफलदो भवक्षयकांक्षया
श्लाध्यैर्नानैः मैत्रीपूर्वैर्बहुविविधजनितकुशलैः शमाभिमुखो मुनिः।
त्यक्त्वावासं नित्यं विद्वानसुरसुरमहितं सुखितं सत्वप्रतिबोधने
इक्ष्वाकूनां वंशोद्भूतो धरणितलमवतरि यशःस्थितो अचलाधृतिः॥
मायाया देव्याः कुक्षिस्मिं प्रविशिषु स कुमुदसदृशो वरो गजरूपवां
एवं ....... लोकालोकः तुषितवरभवननिलयं विहाय इहागतः।
सत्वां मत्तां अन्धां दृष्ट्वा विमतिपथविषमपतितां समुद्धरितुं प्रजाः

(९८)

तस्मिं काले रत्नाकीर्णा विविधनिधिनिचयभरिता चचाल वसुन्धरा
तं शाक्येन्द्रं चारित्राढ्यं स्मृतिनिभृतमधिगुणचितं अवन्दि महामुनिं॥
प्रासादाग्रे देवी माया सुरपतिप्रवरभवने वा सुखैः प्रविचार्यते
नृत्यैर्गीतैर्लास्यैर्वाद्यैः श्रवणहृदिनयनसुभगैः सुरेष्विव देवता।
सा देवी राजानं खिन्नं वदति वरवरं महिपते व्रजेयं यदिच्छसि
लुम्बोद्यानं पुष्पाकीर्णं मधुमधुरपरभृतरुतं मनोहृदिनन्दनं॥
गत्वा तस्मिं स्त्रीभिः सार्धं प्रविचरति मुदितसुखिता वने वनलोलया
सा चोद्यानं पर्यण्वन्ती तरुणलतकिशलयधरां ददर्शथ लुम्बिनीं।
तस्याः शाखां .... गृह्यान परमरतिसुखमुदिता सलील-अवस्थिता
सा तत्र शाखां रक्षन्ती जनयि जिनमजितमनसं महामुनिमुत्तमं॥
शीतोष्णे च द्वे वारिधारे प्रवरकुसुमभरिते जिनं यत्र स्नपयिंसु तं
देवा जायन्तं जातमात्रं नृपतिं सुरभुवनमहितं त्रिलोकमहेश्वरं।
सानुक्रोशं लोकातीतं शरणमिह दिवि च भुवि चा जरामरणान्तकं
अप्राप्तं तं भूमौ धीरं कमलदलसदृशनयनं सुरासुरनन्दनं॥
हृष्टा तुष्टा देवा सर्वे त्रिदशप्रभृतिभवनच्युता प्रतिस्थिहिषुर्वनं

(९९)

इक्ष्वाकूनां वंशोद्भूतो धरणितलमवतरि यशस्थितो अचलाधृति।
विक्रमांश्च सप्त पूर्णं मृगवृषराजामतिरिव रसमानीकं
ज्येष्ठो श्रेष्ठो लोकाग्रो हं न च मम पुन जरमरणा हतो भवुपद्रवः॥
छत्रं दैवं रत्नाकीर्णं स्फटिकरुचिरकुसुमचित्रं सिताभ्रसितप्रभं
हस्ता मुक्तं स्थाये सामं समभिच्छदि नृपतितनयं विहायसे उत्थितं।
वालैश्चोग्रैः शंखाजाभैर्मृदुभिरुपचितमनुपमं दिवौकसनिर्मितं
उच्चैर्दण्डं मुक्ताश्वेतं भ्रमति मणिकनकविकृतं सुचामरवीजनं॥
दुन्दुभ्यो चा मेघोन्नादा पवनखगगगणपरिगा नदन्ति महत्स्वराः
पुष्पौघाश्चा दिव्या सृष्टा मरुभि जिनबलवरमुखे सचन्दनचूर्णिताः।
संतोषातीशययुक्तेभिः सुरमरु जयति सुखकरो रसे रवणीशतैः
क्षुब्धासन्ना नानारत्ना उदधिभुवि तलसलिलयोस्तथागततेजसा इति॥

इति श्रीमहावस्तु-अवदाने तृतीया भूमिः समाप्ता॥

(१००)

एवमुक्ते आयुष्मान्महाकाश्यपो आयुष्मन्तं महाकात्यायनमुवाच॥ ये पुनर्भो
जिनपुत्र बोधिसत्वा अविवर्तिकताये सन्स्थिहन्ति केवत्तकानि कर्माणि अस्थानताये
समुपचरन्ति इति॥

ततः कात्यायनस्थविरो जिनशास्त्रविशारदः।
काश्यपं धुतधर्माणं गाथाभिरध्यभाषत॥
यानि कर्माणि सेवन्ते बोधिसत्वा विजानथ।
अस्थानताये न सेवन्ते यानि तानि विजानथ॥
मातरं पितरं चैवाप्यरहन्तं तथैव च।
जीविता न विरोपेन्ति बोधिसत्वा महायशाः॥
संघं च ते न भिन्दन्ति न च ते स्तूपभेदका।
न ते तथागते चित्तं दूषयन्ति कथं चन॥
न ते पापानि सेवन्ति विपरीताये पृष्ठिये।
अल्पं कृतं न नाशेन्ति किं मम पुनर्यं बहुः॥
संसरन्ता च संसारे न जातु दृष्टिपूर्वेके।
प्रतिरज्यन्ति धर्मार्थे पुण्ये वा ज्ञानपूर्वके॥
यस्य वृक्षस्य छायायां सीदन्ति च शयन्ति च।
न तस्य पत्रहिंसा च न घातेन्ति च रोषिताः॥
दश कर्मपथां कुशलां सेवन्ति पुरुषोत्तमा।

(१०१)

न च मन्त्रं प्रयोजेन्ति परस्य देहघातकं॥
कर्मसंनिश्रिताः सन्तः कौतूहलविनिःश्रिताः।
आपत्सु न विषीदन्ति न च मोदन्ति वृद्धिषु॥
कायकर्म वचीकर्म मनोकर्म तथैव च।
अध्याशयाश्च परिशुद्धाः दानपारमिता च या॥
अष्टमीप्रभृतिं भूमीं गता ते अनिवर्तिया।
एकांशेन शुभं कर्म सेवन्ते लोकपूजिताः॥
प्रथमां च उपादाय भूमीं यावच्च सप्तमी।
व्यामिश्रं कर्म सेवन्ते भूमीष्वेतासु जनोत्तमा॥
एवमादीनि कर्माणि सेवमाना महानराः।
लोकानामनुकंपार्थं पूरेन्ति भूमयो दशेति॥

एवमुक्ते आयुष्मां महाकाश्यपो आयुष्मन्तं महाकात्यायनमुवाच॥ ये पुनः
भो जिनपुत्र बोधिसत्त्वा अवैवर्तिका सामन्ते पृथग्जनताये अपायां यान्ति आहो-
स्विदं नेति। सामन्ते पृथग्जनताये अवरावराश्च गतियो गच्छन्ति आहोस्विदं
नेति॥ एवमुक्ते आयुष्मां महाकात्यायन आयुष्मन्तं महाकाश्यपमुवाच॥ ये
इमे भो धुतधर्मधर बोधिसत्वा अवैवर्तिकधर्मा ते सप्तसु भूमिषु न कथंचित्किंचि-
त्कदाचित् यदृच्छया निरयं पि गच्छन्ति तिर्यग्योनिं वा गच्छन्ति दरिद्रा वा भवन्ति

(१०२)

दुर्बला वा। अथ खलु ब्राह्मणा भवन्ति प्रत्येकब्राह्मणा वा इन्द्राश्च उपेन्द्राश्च
यक्षाधिपतयश्च यक्षाश्च नागाश्च नागराजानश्च गन्धर्वा
गन्धर्वाधिपतयश्च चक्रव-
र्तिनश्च प्रादेश्याश्च राजानः अग्रामात्याश्च श्रेष्ठिनश्च जनपदप्रधानाश्च राजपुत्राश्च
श्रेष्ठिपुत्राश्च अग्रमहिषीपुत्राश्च नायकाश्च सर्वशौर्यवीर्याश्च भवन्ति बलसम्पन्नाः च
भवन्ति उल्लोकनीयाश्चावलोकनीयाश्चाभिवन्दनीयाश्चादेयवाक्याश्च बहुजनप्रियाश्च
बहुजनकान्ताश्च बहुजनमनापाश्च संकीर्तनीयाश्च प्रल्हादनीयाश्च महाधनाश्च महा-
विभवाश्च महापरिवाराश्च महोत्साहा महातेजाश्च भवन्ति॥ यदि केचित्कथंचि-
दार्यापवादहेतोः सप्तसु भूमिषु वर्तमाना अवीचिं महानिरयं गच्छन्ति अथ खलु
प्रयेकनिरयं गच्छन्ति। प्रेतेषु अत्यन्तकायेषु नोपपद्यन्ति। असुरेषु नोपपद्यन्ति।
क्षुद्रतिर्यग्योनिं न गच्छन्ति। उत्तरकुरुषु नोपपद्यन्ति। स्त्रीत्वं न गच्छन्ति।
विपण्डकत्वं न गच्छन्ति॥ अथ खलु सर्वासु दशभूमिषु पुरुषा भवन्ति सर्वांगप्र-
त्यंगोपेताः अविकलेन्द्रिया। यश्च बोधिसत्त्वो बोधिसत्वं जीविताद्व्यपरोपयति
सम्यक्संबुद्धश्रावकं वा श्रोतापन्नं वा ये वा सत्वा प्रत्येकबुद्धत्वाय विनिष्ठास्तथारूपं

(१०३)

पुद्गलं जीविताद्व्यपरोपयित्वा निरयं गच्छति॥ यं बोधिसत्वाः सप्तसु भूमिषु
प्राणातिपातं वा करोन्ति अदन्तं वा हरन्ति सर्वपरिपूर्णं वा अकुशलकर्म न समर्थं
बोधिसत्वं निरयं नयितुं॥ यानि च कर्माणि बोधिसत्वैः पुरतो प्रणिधानस्यो-
पचितानि अकुशलानि तानि च प्रथमचित्तोत्पादाय आवृतानि तिष्ठन्ति यथा
महता शैलेन मृगसंघो॥ असंप्राप्तस्य प्रणिधिचित्तं द्वितीयतृतीयचतुर्थपंचमषष्ठस-
प्तमासु जातिषु विपच्यति अन्तशो शीर्षपरितापेनापि॥
एवमुक्ते आयुष्मान्महाकाश्यप आयुष्मन्तं महाकात्यायनमुवाच॥ ये पुनर्भो
जिनपुत्र बोधिसत्वा अवैवर्तिका सम्यक्संबुद्धानाराधयित्वा अगारस्था अनगारियं
प्रव्रजन्ति ते तथागताः केवरूपेण ओवादेन ओवन्दन्तीति॥

ततः कात्यायनस्थविरः काश्यपं इदमब्रवीत्।
दृष्टान्तेहि विविक्ताभिः कथाभिरनुपूर्वशः॥

बोधिसत्वचरितं महापकं
जातकापरमतेषु कोविदा।
देशयन्ति दमदानसंवरं
बोधिसत्वपरिषाय ईश्वरा॥
यो महाजनहिताय सेवते
कर्ममप्रतिसमं नरोत्तमः।
इत्येव तं च मतिमां तथागतो
बोधिसत्वपरिषास भाषति॥
सो प्रभुः भगवतो प्रवुच्यति
ज्ञानपूर्वकमुपेति दुष्करं।

(१०४)

तस्य लोकि सदृशो सुदुर्लभो
बोधिसत्व इति शासने जिनः॥

एवमादिकं भो धुतधर्मधर सम्यक्संबुद्धा बोधिसत्वपर्षायं धर्मं देशयन्तीति॥
एवमुक्ते आयुष्मान्महाकाश्यप आयुष्मन्तं महाकात्यायनमिदमुवाच॥ यानी-
मानि भो जिनपुत्र जातकानि जिनभाषितानि इमानि कुतःप्रभृतिकानि विज्ञेया-
नीति॥ एवमुक्ते आयुष्मान्महाकात्यायन आयुष्मन्तं महाकाश्यपमिदमुवाच॥
यानीमानि भो धुतधर्मधर जातकानि जिनभाषितानि इमां अष्टमां भूमीं प्रपद्य-
न्तीति॥

एवमुक्ते आयुष्मान्महाकाश्यप आयुष्मन्तं महाकात्यायनमिदमुवाच॥ कुतः
प्रभृति भो जिनपुत्र बोधिसत्वाः सर्वस्वपरित्यागांश्च परित्यजन्ति दुष्करपरित्यागां-
श्चेति॥ एवमुक्ते महाकात्यायन आयुष्मन्तं महाकाश्यपमुवाच॥ अष्टमां भूमिं
प्रभृति भो धुतधर्मधर बोधिसत्वाः सर्वस्वपरित्यागांश्च परित्यजन्ति दुष्करपरित्या-
गांश्च कुर्वन्ति इति॥ अष्टमां भूमिं प्रभृति भो धुतधर्मधर बोधिसत्वाः सम्यक्संबु-
द्धपूजया पूजयितव्या इति॥ तत्रेदमुच्यते॥

अष्टमां प्रभृति भूमिं बोधिसत्वा जिनात्मज।
सम्यक्संबुद्धा इति द्रष्टव्या अतः प्रभृत्यनिवर्तियाः॥
अतः प्रभृति ध्यानानि गम्भीराणि लभन्ति ते।

(१०५)

अतः प्रभृति उत्तप्तं ज्ञानं तेषां प्रवर्तते॥
अतः प्रभृति भाषन्ति वाचां ज्ञानपुरोगमां।
अतः प्रभृति कुच्छत्ता आयुं मुञ्चन्ति पण्डिताः॥
अतः प्रभृति या शुद्धा तां जातिमनुयान्ति ते।
अतः प्रभृति यं शुद्धं तद्रूपमनुभवन्ति ते॥
अतः प्रभृति यं लिङ्गं इच्छन्ति भवन्ति तथा॥
अतः प्रभृति यं देवं इच्छन्ति भवन्ति तथा॥
अतः प्रभृति तीर्थिका वा भवन्ति भवसूदनाः।
अतः प्रभृति कुच्छन्ति कामां शंसन्ति निर्वृतिं॥
अतः प्रभृति भूयिष्ठा भवन्ति वदतां वराः।
शिष्या देवातिदेवानां संबुद्धानां यशस्विनां॥
अध्येष्यन्ति ततः परेत्य बुद्धैर्धर्मप्रकाशनैः।
धर्मं देशयथ प्राज्ञा प्रतिगृह्नथ ऋषिध्वजं॥
अतः प्रभृति विनयन्ति अर्हत्वे सुबहुं जनं।
अतः प्रभृति विनयन्ति शैक्षभूमौ बहुं जनं॥
अतः प्रभृति अनुबद्धा देवा यक्षा सगुह्यकाः।
बोधिसत्वं महासत्वं यावत्प्राप्ता स्वयंभुता॥
अतः प्रभृति तद्रूपं अग्य्रं सदेवके लोके।
अतः प्रभृति वर्णो पि तेजोकीर्तियशोबलं।

(१०६)

लोकेन विषमं भवति बोधिसत्वानमुत्तमं॥
अनुत्पादाच्च बुद्धानां पंचाभिज्ञा भवन्ति ते।
नैष्क्रम्यमनुवर्णयन्ति कामेषु दोषदर्शिनः॥
अतः प्रभृति देवाश्च असुरा ब्रह्मणा सह।
गुणैः तेषां अनुरज्यन्ता आगच्छन्ति कृतांजली॥
वशीभूतान या चेष्टा बोधिसत्वान तादृशी।
अष्टमाभूमिं या चेष्टा भवन्ति तादृशी तथा॥

एवमुक्ते आयुष्मान्महाकाश्यप आयुष्मन्तं महाकात्यायनमुवाच॥ ये इमे भो
जिनपुत्र बोधिसत्वा अवैवर्तिकाः चक्रवर्तिराज्यानि कारयन्ति केवरूपं धर्मं देश-
यन्ति सत्वानां अनुत्पादे च बुद्धानां केवरूपेण संग्रहेण सत्वा संगृह्नन्ति केवरूपां च
जनतां उपेक्षन्त इति॥ एवमुक्ते आयुष्मान्महाकात्यायन आयुष्मन्तं महाकाश्यप-
मुवाच॥ ये इमे भो धुतधर्मधर बोधिसत्वा अवैवर्तिका चक्रवर्तिराज्यानि
कारयन्ति ते सत्वानामेवं धर्मं देशयन्ति॥ दशकुशलकर्मपथसमायुक्ता सत्वाना-
मनुदर्शयन्ति॥ मा भवन्तु प्राणिवधमदत्तहरणं रक्षितव्यानि परदाराणि अनृतपि-
शुनपरुषमबद्धप्रलापाभिध्याव्यापादमिथ्यादर्शनानि वर्जयितव्यानीति देशेन्ति॥
हिरण्यसुवर्णस्य धनस्य अग्रतो निवेशनस्य राशयो उपस्थापयित्वा एवं च वन्दन्ति

वैकलियं यस्य येन इतो स गृह्नतु धनं।

(१०७)

धर्मलब्धा मम भोगा मा भवन्तो विषीदय॥
अहं माल्यं च गन्धं च धूपं चूर्णं मनोरमं।
ददामि मा विषीदन्तु भवन्तो रम्यतामिति॥

एवमुक्ते महाकाश्यप आयुष्मन्तं महाकात्यायनमुवाच॥ केवरूपैः कर्मभिर्बोधि-
सत्वानां चक्रवर्तिराज्यानि कारयमाणानां सप्तरत्नानि भवन्ति॥ एवमुक्ते आयु-
ष्मान्महाकात्यायन आयुष्मन्तं महाकाश्यपं गाथाभिरध्यभाषे॥

यथ लभति मनुजवृषभो चातुर्द्वीपो प्रभूतधनकोशो।
सप्त रतनानि राजा अहं इदमुदीरयिष्यामि॥
तरुणरविमण्डलनिभं प्रवरदशशतारसंचयमनोज्ञं।
चक्ररतनं नरवरो पुरिमकुशलसंभवं लभति॥
परिचारविधिसंयुक्तं ददाति दानमनवद्यसंकल्पे।
अजितजयमप्रतिहतं तेन नरवरो लभति चक्रं॥
हिमनिचयकुमुदवर्णं सप्ताङ्गप्रतिष्ठितं महानागं।
अनिलबलतुल्यवेगं हस्तिरतनमद्भुतं लभति॥
दुर्गेषु च विषमेषु च संक्रममरिसूदनो प्रतिष्ठपिय।
तेन खगपथेगामिं गजवररतनं ..... लभति॥
तद भृंगनीलं सुवर्णमनिलजवकेशरिं समुद्यतपादं।
प्रतिलभति तुरगरतनं सुकृतकुशलसंचयो राजा॥

(१०८)

हयनवरेहि परिवही मातापितरं गुरुं तथाचार्यं।
तेन कुशलेन राजा अश्वरतनं अद्भुतं लभति॥
मणिरतनमनुपमवर्णं वैडूर्येण शीरमनुपसंपन्ना
.................................................................................
लभति प्रमदां मनापां रतनवरमनन्तबलवीर्यैः॥
पूर्वभवे हि निवासे स्वदारसन्तोषसंयमाभिरतो।
आसीच्च नराधिपती स्त्रीरतनं तेन सो लभति॥
आढ्यं विविधधनवरं प्रभूतनिधिनिचयसंचयोपेतं।
गृहपतिरतनमुदार प्रतिलभति महावशी राजा॥
विविधधनसंचयानां दाता गुरुषु गुरुगौरवोपेतो।
तेन स गृहपतिरतनं प्रतिलभति प्रभूतधनकुशलं॥
नयनयज्ञं मेघाविं व्यक्तं नायकध्यजं चातुर्द्वीपं।
परिणायकरतनवरं प्रतिलभति महीपतिः विरतो॥
मार्गगतो प्रणष्टानां हतहतनयनानां देशयि मार्गं।
तेन परिणायकवरं लभति रतनं उत्तमनायकं॥
एतैर्धुतधर्मधरा कर्मेहि समुत्थितानि रतनानि।
तेन च एव नरेन्द्रो धर्मेण महीं प्रशासयति॥

(१०९)

एवमुक्ते आयुष्मान्महाकाश्यप आयुष्मन्तं महाकात्यायनमुवाच॥ ये इमे हि
भो जिनपुत्र बोधिसत्वाः प्रथमचित्तमुत्पादयन्ति ते कतिभिराकारैश्चतुर्थ्यां भूमौ
वर्तमानाः पंचमायां भूमौ विवर्तन्ते॥ एवमुक्ते आयुष्मान्महाकात्यायन आयुष्मन्तं
महाकाश्यपमेतदुवाच॥ ये इमे भो धतधर्मधर बोधिसत्वाः प्रथमचित्तोत्पादा
सप्तभिराकारैश्चतुर्थ्यां भूमौ वर्तमानाः पंचमायां भूमौ विवर्तन्ते॥ कतमेहि सप्तहि॥
भिक्षुणीदूषकाश्च भवन्ति। पुरुषदूषकाश्च भवन्ति। पण्डकदूषकाश्च भवन्ति।
मन्त्रबलेन चापि परस्य असन्तं रोगमुत्पादयन्ति। सुशीलवन्तांश्च शीलाच्च्यावयन्ति।
अहिरीकाश्च भवन्ति। अनोत्रापिणश्च भवन्ति॥ ये केचिद्भो धुतधर्मधर बो-
धिसत्वाः प्रथमं चित्तमुत्पादयन्ति ते इमेभिः सप्तभिराकारैश्चतुर्थायां भूमौ वर्त-
मानाः पंचमायां भूमौ विवर्तन्ति॥

इत्येषा भूमिरुपदिष्टा चतुर्थी सुगतात्मज।
रमणीया बोधिसत्वानां ये ते बोधिपरायणा इति॥
इति श्रीमहावस्तु-अवदाने चतुर्थी भूमिः समाप्ता॥

एवमुक्ते आयुष्मान्महाकाश्यपो आयुष्मन्तं महाकात्यायनमेतदुवाच॥ भो जि-
नपुत्र बोधिसत्वा अवैवर्तिका चतुर्थीभूमितो ये पंचमां भूमिं संक्रामन्ति तेषां कतमं
सन्धिचित्तं भवतीति॥ एवमुक्ते आयुष्मान्महाकात्यायन आयुष्मन्तं महाकाश्यप-
मुवाच॥ आदीप्तां सर्वभवां पश्यन्ति रागद्वेषमोहेभ्यः। अशरण्यं निरानन्दं
सन्धिचित्तं चतुःपंचमानन्तरं भवतीति॥
एवमुक्ते आयुष्मान्महाकाश्यप आयुष्मन्तं महाकात्यायनमुवाच॥ ये पुनर्भो

(११०)

जिनपुत्र सम्यक्संबुद्धेन भगवता पंचमायां भूमौ सम्यक्संबुद्धाः पूजितास्तेषां सम्य-
क्संबुद्धानां कानि नामानि गोत्राणि केवत्ता श्रावकसन्निपाता केवत्तिका प्रभा
केवत्तिकमायुःप्रमाणमिति॥ एवमुक्ते आयुष्मान्महाकात्यायन आयुष्मन्तं महा-
काश्यपं गाथाभिरध्यभाषि॥

शाक्यमुनि नाम जिनवरो अभूषि वशिभूतकोटिपरिवारो।
व्यामप्रभो गिरिघनो कनकगिरिनिभो निहतशत्रुः॥
षड्वर्षसहस्राणि आयुः पुरुषोत्तमस्य तत्कालं।
नामं तस्य यशव्रतो अभूषि अतिसुन्दरो बुद्धो॥
गोत्रेण गोतमो सौ अयं च भगवान्तदासि श्रेष्ठिसुतो।
यागूदानं दत्वा बुद्धप्रमुखे कृता प्रणिधिः॥
यं मये कुशलमुपचितं संश्लिष्य संघे अर्हन्ते दत्त्वा।
तेन परमार्थदर्शी भवेयमखिलं ममं पुण्यं॥
अन्तिमवतरणगामी सुन्दरो सुदर्शनो नाम नरसिंहः।
भारद्वाजसगोत्रो प्रभा च दशयोजना तस्य॥
वशिभूतानां कोटी परिवारो तस्य सत्वसारस्य।
दशवर्षसहस्राणि आयुः तद मारदमकस्य॥

(१११)

राजा च चक्रवर्ती अभूषि धरणींधरो ति नामेन।
सो तं जिनं सुदर्शनं सशिष्यसंघं इदमुवाच॥
सर्वं हितोपधानं अहं ति देमीति पण्डितो अवची।
एवं च भवेयमहं प्रणिधेसि परं प्रणिधि राजा॥
जरामरणस्य सागरगतां अलीनो जनतां तारेय्यं।
....................................................................................
अनुपहतकुशलमूलो अभूषि भगवां नरेश्वरो नाम।
गोत्रेण च वासिष्ठो आभा दशयोजना तस्य॥
वशिभूतानां कोटी परिवारो तस्य द्वादश आसि।
नव न वर्षसहस्राणि मनुजान तदा अभूष्यायुः॥
राजा च चक्रवर्ती अभूषि अपराजितो ति नामेन।
सो दशबलं नरेन्द्रं प्रसन्नचित्तो इदमुवाच॥
सप्तरतनाङ्गचित्रा इमां अनेकरतनसम्पत्तीयो।
शीति चतुरुत्तरा तव विभू विहारानहं देमि॥
सो तं दानं दत्त्वा तस्मिं नरेश्वरके अनुप्रणिधिं।
प्रणिधेसि एवं भवेयमधिगच्छेयं जिनबलानि॥
विजयो नाम अमात्यो अभूषि पूर्वं जिनः सुप्रभो नाम।

(११२)

गोत्रेण काश्यपो सौ प्रभा च दशयोजना तस्य॥
तस्य च शिष्यसंघो अष्टादश कोटी धूतरजानां।
विंशन्नराण आयुः वर्षसहस्राणि तत्कालं॥
सो वन्द्य जिनवरं तं विजयो निमन्त्रयी भवनिर्घातिं।
अधिवासयति दशबलो अथ विजयो हर्षितो आसि॥
अग्रेण प्रणीतेन च अधिगतस्वादेन भक्ष्यभोज्येन।
संन्तर्पयित्वानुगतं प्रणिधेसि तदा अनुप्रणिधिं॥
सो हमपि भवेयमेवं नरवरमहितो नरमरुण हितकरो।
तेनापि नायकवरो दशबलो भवे वादिशार्दूलो॥
आसीत्पूर्वं बुद्धस्तथागतो रतनपर्वतो नाम।
गोत्रेण गौतमोऽसो प्रभा च दशयोजना तस्य॥
त्रिंशत्मनुष्यकोट्यो परिवारो आसि दान्तचित्तानां।
वर्षसहस्राणि विंशं आयुः तदासि मनुष्याणां॥
राजा च चक्रवर्ती अभूषि तत्कालमच्युतो नाम।
जिनक्रमाणि निपीडिय इदमवचि वरं नरमरूणां॥
प्रासादसहस्राणि मह्यं नरनागा चतुरशीतिं।

(११३)

तानि समलंकृतानि सशिष्यसंघस्य अहं देमि॥
अधिवासनां विदित्वा राजा  .......... प्रीतमनो।
अनुप्रणिधिं प्रणिधेसि पुरतो वरलक्षणधरस्य॥
कुशलेन अनेन अहं कुशलोपचितवराणां चरितानां।
दुरन्तकवीर्यकर्मो भवेय नाथो अनाथानां॥
गगनतलविमलचित्तो संबुद्धो कनकपर्वतो नाम।
अभूषि नरतामहितो कौण्डिन्यो नाम गोत्रेण॥
तस्य शुभकर्मजाता शरीरप्रभा अभू योजनानि षट्।
पंच वशीभूतानां कोटीयो च परिवारो ऽस्य॥
दश षड्वर्षा आयुं तदा अभूषि मनुजानां च चतुर्दश सहस्राणि।
वर्षाणां सप्तत्रिंश वर्षसहस्राणि इत्येव॥
आसि तद चक्रवर्ती राजा प्रियदर्शनो ति नामेन।
सप्तरतनद्युतीमान् चातुर्द्वीपः पृथिविपालो॥
सो कनकवर्णपर्वतं संबुद्धं क्रमवरेषु निपतित्वा।
याचति सामात्यगणो मुक्ताहारान्तपुरो प्राह॥
मम नगरनिगमभरितं राज्यं चतुरो महाधनद्वीपाः।
तान्तव ददामि वीरा सशिष्यसंघस्य निरपेक्षः॥

(११४)

यद्भोजनं ऋषीणां यद्वस्त्रं या च ओषधिविधीयो।
यानि शयनासनानि च प्रासादवरे तथा येव॥
निःसृष्टमेव सर्वं परिभोज्यं यस्य द्वादशाकारं।
मम प्रवररूपधारि अनुकम्पार्थं कुरुहि करुणां॥
एतद्दत्त्वा दानं सो पार्थिवलम्बको अनुप्रणिधिं।
प्रणिधेसि प्रीतिमानसो पुरतो संपूर्णकुशलस्य॥
परमार्थं शूक्ष्मदर्शि वैशारद्यवरपारमिप्राप्तः।
तेनाहं नायकवरो भवेय सर्वोपधिक्षयकरो॥
द्वात्रिंशलक्षणधरो भगवान्नामेन पुष्पदन्तो ति।
अभूत्परमार्थदर्शि वत्सो गोत्रेण संबुद्धो॥
तस्यापि योजनानि नव शरीरप्रभा जिनप्रवरस्य।
वशिभूतकोटियो चतुस्त्रिंशद्दशबले समनुबद्धाः॥
पंचाशं च अभूषि वर्षसहस्राणि आयुःपरिमाणं।
मनुजान एवं न विमति कार्या तत्रोपदेशस्मिं॥
पार्थिवो चैव नरपती तं कालं आसि दुर्जयो नाम।
उपगम्य पुष्पदन्तं वन्दति पादां सपरिवारः॥

(११५)

कृतकरपुटो प्रसन्नः नरप्रभो पुष्पदन्तमिदमाह।
अधिवासयतु मे दशबलो सप्ताहं भोजनविधानं॥
अधिवासनं विदित्वा राजास्य दुर्जयोर्ध्वबल एव।
छादयति मेदिनितलं सुवर्णपट्टेहि सुचिरेहि॥
तत्र रतनामयानि विनिक्षिपति आसनानि चित्राणि।
भोजनविधिं च चित्रां स्थापयति सुगन्धिप्रत्यग्रां॥
सप्तरतनामयानि छत्राणि नरमरूणां अष्टशतं।
धारेन्ति भूषणधरा चित्राभरणधारिणो पुष्पा॥
एवं एकैकस्य वशिभूतस्य धारेन्ति हृदिमनो।
छत्ररतनं विचित्रं शशिशंखतलोपमं विमलं॥
सन्तर्पयित्व राजा सपरिवारं पुष्पसाह्वयं सुगतं।
अथ मनसा प्रणिधेति तदा व सो तं अनुप्रणिधिं॥
त्वमिवमहं संबुद्धो धर्मं प्रकाशयेय नरमरूणां।
.............................................................................................
द्वात्रिंशल्लक्षणधरो नामेन ललितविक्रमो संबुद्धो।
आसि भगवां भवनुदो वासिष्ठगोत्रो धुतकिलेशो॥
तस्य च स्वशरीरजाता प्रभा अभू योजनानि त्रिंश दुवे।

(११६)

वशिभूतकोटियो च त्रिंश नरवरस्य परिवारो॥
आयुं तदा नराणां वर्षसहस्राणि आसि चतुरशीतिं।
राजा च तदा आसी चतुरंगबलो प्रियो मनापो॥
प्रासादकोटियो च चत्वारिंशं अनेकरतनानां।
कारयति भूमिपालो प्रवरं एकं च प्रासादं॥
शय्यासनं च विपुलं कारयते पार्थिवो निरुपवद्यं।
भोजनगिलानप्रच्चयमृषियोग्यं सन्निवेशेति॥
भगवतो निर्यातित्वा सशिष्यसंघस्य सो अनुप्रणिधिं।
प्रणिधेति हृष्टचित्तो राजा पुरतो दशबलस्य॥
दुर्लभसदृशो असमः दशबलो च जरामरणविमतिमथनो।
भवेय श्रेष्ठो नरमरुणां कुगणीगणवचनमथनो॥
द्वात्रिंशलक्षणधरो भगवां आसी महायशो नाम।
गोत्रेण काश्यपो सो विस्तीर्णयशो अमितकीर्तिः॥
शरीरभासा तस्य पंचाशं योजनानि पुण्यवतो।
वशिभूतकोटियो च तस्यासी पंचपंचाशं॥
वर्षसहस्राणि तदा चतुरशीतिं आयुःपरिमाणं।

(११७)

आसि तदा मनुजानां चतुर्गुण एष चतुरशीति॥
राजा तदा अभूषी नामेन सो मृगपतिस्वरो नाम।
चातुर्द्वीपाधिपतिर्विपुलबलवरो अजितचक्रो॥
सो रत्नस्कन्धशाखां वनखण्डां योजनानि षणवति।
कारापयि भूमिपति प्रवरां वरवस्त्रसंछन्नां॥
वैडूर्यमणितलां च कृत्वान वसुधां विभूषणविचित्रां।
अगुरुवरधूपगन्धां सुगन्धपुष्पावकीर्णतलां॥
तं तत्र वादिसिंहं ऋषभं सो भोजनेन सप्ताहं।
तर्पयति भूमिपालो प्रसन्नचित्तो प्रणीतेन॥
तं सुरवरवन-उपमं दिवाविहारं दशबलस्य॥
दत्त्वा स राजा .... महायशस्य सशिष्यसंघस्य।
राजा उदग्रचित्तो प्रणिधेति तदा अनुप्रणिधिं॥
बहुजनमहितो स्वयंभु अनन्यनेयो भवेय सर्वज्ञो।
कुशलेन हि मे तेन तथागतबलो विभू भोमि॥
विपुलबलपुण्यकोशो नयानयज्ञो जिनो रतनचूडो।

(११८)

आसि अभिनीलनेत्रो निरुपमगुणसंचयो धीरी॥
तस्य च प्रभा शरीरे योजनशतविस्तरा समन्तेन।
भारद्वाजसगोत्रो स सर्वदर्शी तदा आसि॥
तस्य संघो आसी नवनवति कोटियो धूतरजानां।
वर्षाणां च सहस्राणि चतुराशीतिं तदा आयुं॥
राजा तद चक्रवर्ति अभूषि चातुर्द्वीपो महिस्थामो।
नामेन मणिविषाणो शासति धर्मेण यो जनतां॥
द्वानवति कोटिनयुतां प्रासादानामनेकरूपाणां।
कारयति भूमिपालो तं रतनजिनं समुद्दिश्य॥
सो प्रवरकाञ्चननिभं नरमरुगणसत्कृतं रतनचूडं।
भोजयति सपरिवारं वर्षाणि दश अविश्रामं॥
प्रथमदिवसं च सुगतं भोजेत्वा सार्धं शिष्यसंघेन।
निर्यातेति नरवरो प्रासादवरां गुणधरस्य॥
सो तं दानं दत्वा तस्य महापुद्गलस्य राजवरो।
अनुप्रणिधेति प्रणिधिं प्रसन्नचित्तो जिनसकाशं॥
उच्छिन्नमोहजालो पसन्नचित्तो असंगप्रतिभानो।
तारेय्य सर्वजनतां संसारमहार्णवे पतितां॥
एवमेव अप्रमेया पंचम्यां भूमियां पुरुषसिंहाः।

(११९)

प्रेत्येकजिना तथापि शैक्षाशैक्षा च जिनपुत्राः॥
संपूजिता भगवता इमे तथान्ये तथागताः सर्वे।
समुपचित कुशलमूलं अर्थे जगतस्य सर्वस्य॥

एवमुक्ते आयुष्मान्महाकाश्यप आयुष्मन्तं महाकात्यायनमुवाच॥ ये भो जि-
नपुत्र बोधिसत्वा बोधाये प्रणिधेन्ति ते कतिभिराकारैः पंचमायां भूमौ वर्तमानाः
षष्ठायां भूमौ विवर्तन्ति॥ एवमुक्ते आयुष्मान्महाकात्यायनः आयुष्मन्तं महाका-
श्यपमुवाच॥ चतुर्भि भो जिनपुत्र आकारैर्धुतधर्मधर बोधिसत्त्वा बोधाये ये
प्रणिधेन्ति पंचमायां भूमौ वर्तमानाः षष्ठ्यां भूमौ विवर्तन्ति॥ कतमेहि चतुर्हि॥
सम्यकसंबुद्धानुशासने प्रव्रजित्वा योगाचारेहि सार्धं सम्भुवं कुर्वन्ति। अष्टमके धुत-
देवनागृद्धा भावना उत्त्रसन्ति। शमथविपश्यनाभावनाबहुलाश्च अभिक्ष्णं विह-
रन्ति। आलंबणालंबणचित्तं हेतुशो परिकल्पेन्ति॥ ये हि केचि भो धुतधर्मधर
बोधिसत्वा बोधाय प्रणिधेन्तो पंचमायां भूमौ वर्तमाना षष्ठ्यां भूमौ विवर्तन्ति
सर्वे ते इमेहि चतुर्हि आकारेहि विवर्तेन्सुः विवर्तन्ति विवर्तिष्यन्ति वा॥

इत्येषा पंचमी भूमी व्याकृता संनिदर्शिता।
तेषां बहुविधपुण्यानां बोधिसत्वान मारिष इति॥

इति श्रीमहावस्तु-अवदाने पंचमी भूमिः समाप्ता॥

(१२०)


ततः स्थविरः काश्यपः कात्यायनमथाब्रवीत्।
विं चित्तं बोधिसत्वानां पंचमायां विपश्चितां॥

ततः कात्यायनस्थविरः मुनिकाश्यपं धुतधर्मधरं गाथयाध्यभाषि॥
अल्पास्वादनिबद्धो यं लोकावर्तोऽतिदारुणः।
.............................................. जायते॥

एवमुक्ते आयुष्मान्महाकाश्यपः आयुष्मन्मन्तं महाकात्यायनमुवाच॥ क्षेत्रमिति॥

ततः स्थविरः कात्यायनः महाकाश्यपमथाब्रवीत्।
श्रुयतां लोकनाथानां क्षेत्रं तत्वार्थनिश्रितं॥
उपक्षेत्रं च वक्ष्यामि तेषां परमवादिनां।
तानि निशम्य वाक्यानि शासनं च नरवर॥
एकंषष्टिं त्रिसहस्राणि बुद्धक्षेत्रं परीक्षितं।
अतो चतुर्गुणं ज्ञेयमुपक्षेत्रं तथाविधं॥

एवमुक्ते आयुष्मां महाकाश्यपं आयुष्मन्तं महाकात्यायनमुवाच॥ किं पुनर्भो
जिनपुत्र सर्वेषु बुद्धक्षेत्रेषु उत्पद्यन्ति सम्यक्संबुद्धा उताहो केषुचिदेव उत्पद्यन्ति॥
एवमुक्ते आयुष्मान्महाकात्ययन आयुष्मन्तं महाकाश्यपं गाथाभिरध्यभाषे॥

किंचिदेव भवति अपरिशून्यं

(१२१)

क्षेत्रमप्रतिमरूपधरेहि।
क्षेत्रकोटिनयुतानि बहूनि
शून्यकानि पुरुषप्रवरेहि॥
दुर्लभो हि वरलक्षणधारी
दीर्घकालसमुदागतबुद्धी।
सर्वधर्मकुशलो अतितेजः
सर्वसत्वसुखताधरसत्वो इति॥

एवमुक्ते आयुष्मान्महाकाश्यप आयुष्मन्तं महाकात्यायनमुवाच॥ खलु भो
जिनपुत्र को हेतुः कः प्रत्ययः यं एकस्मिं क्षेत्रे द्वौ सम्यक्संबुद्धौ नोपपद्यन्ति इति॥
एवमुक्ते आयुष्मान्महाकात्यायन आयुष्मन्तं महाकाश्यपं गाथाभिरध्यभाषते॥

यत्कार्यं नरनागेन बुद्धकर्म सुदुःकरं।
तत्सर्वं परिपूरेति एषा बुद्धान धर्मता॥
असमर्थो यदि सियाद्बुद्धधर्मेषु चक्षुमां।
ततो दुवे महात्मानौ उत्पद्येते तथागतौ॥
तं चासमर्थसद्भावं वर्जयन्ति महर्षिणां।
तस्माद्दुवे न जायन्ते एकक्षेत्रे नरर्षभौ॥
न जातु सावशेषेषु बुद्धधर्मेषु श्रुय्यते।
निर्वृताः पुरुषश्रेष्ठा अतीताध्वे जिनात्मजा॥

(१२२)

अनागता अतिक्रान्ता संबुद्धा ये च सांप्रतं।
कृतेन बुद्धधर्मेण निर्वायन्ति नरोत्तमा इति॥

एवमुक्ते आयुष्मान्महाकाश्यपः आयुष्मन्तं महाकात्यायनमुवाच॥ कतमानि
भो जिनपुत्र सम्प्रति अन्यानि बुद्धक्षेत्राणि यत्रैतर्हि सम्यक्संबुद्धा धर्मं देशयन्तीति॥
एवमुक्ते आयुष्मान्महाकात्यायन आयुष्मन्तं महाकाश्यपं गाथाभिरध्यभाषे॥

पुरस्तिमे दिशो भागे बुद्धक्षेत्रं सुनिर्मितं।
तत्र मृगपतिस्कन्धो नामेन जिनपुङ्गवः॥
पुरस्तिमे दिशो भागे बुद्धक्षेत्रं कृतागदं।
तत्र सिंहहनुर्नाम जिनो द्वात्रिंशलक्षणः॥
पुरस्तिमे दिशो भागे बुद्धक्षेत्रं विभूषितं।
तत्र लोकगुरुर्नाम सर्वदर्शी महामुनिः॥
पुरस्तिमे दिशो भागे बुद्धक्षेत्रमकण्ठकं।
तत्र ज्ञानध्वजो नाम शास्ता शासति प्रणिनां॥
पुरस्तिमे दिशो भागे बुद्धक्षेत्रमवेक्षितं।
तत्र कनकबिम्बाभो जिनो नामेन सुन्दरः॥
दक्षिणस्मिं दिशो भागे बुद्धक्षेत्रं द्रुमध्वजं।
तत्र अनिहतो नाम संबुद्धो देवनन्दितः॥
दक्षिणस्मिं दिशो भागे बुद्धक्षेत्रं मनोरमं।
तत्र नामेन संबुद्धो चारुनेत्रो महामुनिः॥

(१२३)

दक्षिणस्मिं दिशो भागे बुद्धक्षेत्रमकर्दमं।
तत्र नामेन संबुद्धो मालाधारी विनायकः॥
पश्चिमस्मिं दिशो भागे बुद्धक्षेत्रमविग्रहं।
तत्र नामेन संबुद्धो अम्बरो भवसूदनः॥
उत्तरस्मिं दिशो भागे बुद्धक्षेत्रं मनोरमं।
तत्र नामेन संबुद्धो पूर्णचन्द्रो विधिश्रुतः॥
हेष्टिमस्मिं दिशो भागे बुद्धक्षेत्रं सुनिष्ठितं।
तत्र नामेन संबुद्धो दृढबाहुस्तथागतः॥
उपरिष्टा दिशो भागे बुद्धक्षेत्रमनुद्धृतं।
तत्र बुद्धो महाभागो नामेन अरिसूदनः॥
बुद्धक्षेत्रसहस्राणि अनेकानि अतः परं।
बुद्धक्षेत्रसहस्राणां कोटी न प्रज्ञायतेऽपरा॥
बुद्धक्षेत्राणां शून्यानां कोटी न प्रज्ञायतेऽन्तरा।
लोकधातूसहस्राणां कोटी न प्रज्ञायतेऽन्तरा॥
यथा संसारचक्रस्य पूर्वा कोटी न प्रज्ञायते।
तथैव लोकधातूनां पूर्वा कोटी न प्रज्ञायते॥
अतिक्रान्तानां बुद्धानां पूर्वा कोटी न प्रज्ञायते।
प्रणिधेन्तान बोधाय पूर्वा कोटी न प्रज्ञायते॥
अवैवर्तिकधर्माणां पूर्वा कोटी न प्रज्ञायते।
अभिषेकभूमिप्राप्तानां पूर्वा कोटी न प्रज्ञायते॥

(१२४)

तुषितेषु वसन्तानां पूर्वा कोटी न प्रज्ञायते।
तुषितेभ्यश्च्यवन्तानां पूर्वा कोटी न प्रज्ञायते॥
मातु कुक्षौ शयन्तानां पूर्वा कोटी न प्रज्ञायते।
स्थितानां मातुः कुक्षौ तु पूर्वा कोटी न प्रज्ञायते॥
जायमानानां वीराणां पूर्वा कोटी न प्रज्ञायते।
जातानां लोकनाथानां पूर्वा कोटी न प्रज्ञायते॥
अङ्केषु गृह्यमाणानां पूर्वा कोटी न प्रज्ञायते।
पादानि विक्रमन्तानां पूर्वा कोटी न प्रज्ञायते॥
महाहासं हसन्तानां पूर्वा कोटी न प्रज्ञायते।
दिशां विलोकयन्तानां पूर्वा कोटी न प्रज्ञायते॥
अङ्केन धारियन्तानां पूर्वा कोटी न प्रज्ञायते।
उपनीयमानानां गन्धर्वैः पूर्वा कोटी न प्रज्ञायते॥
पुरेभ्यो निष्क्रमन्तानां पूर्वा कोटी न प्रज्ञायते।
बोधिमूलमुपेन्तानां पूर्वा कोटी न प्रज्ञायते॥
प्राप्नुवन्तानां तथागतज्ञानं पूर्वा कोटी न प्रज्ञायते।
धर्मचक्रं प्रवर्तेन्तानां पूर्वा कोटी न प्रज्ञायते॥
सत्वकोटी विनेन्तानां पूर्वा कोटी न प्रज्ञायते।
सिंहनादं नदन्तानां पूर्वा कोटी न प्रज्ञायते॥
आयुःसंस्कारं उत्सृजन्तानां पूर्वा कोटी न प्रज्ञायते।
निर्वायन्तानां वीराणां पूर्वा कोटी न प्रज्ञायते॥

(१२५)

निर्वृतानां शयन्तानां पूर्वा कोटी न प्रज्ञायते।
ध्यापियन्तानां वीराणां पूर्वा कोटी न प्रज्ञायते॥
एवमेतं यथाभूतं शास्तुपूगं विजानथ।
क्वचित्क्वचिच्च संबुद्धो बुद्धक्षेत्रेषु दृश्यते॥

एवमुक्ते आयुष्मान्महाकाश्यपो आयुष्मन्तं महाकात्यायनमुवाच॥ यदि भो
जिनपुत्रा एत्तका सम्यक्संबुद्धा एको च सम्यक्संबुद्धो अपरिमितान् सत्वा परिनि-
र्वापयति ननु अचिरेण कालेन सर्वसत्वान्परिनिर्वापयिष्यन्ति। एवमयं लोकः
सर्वेण सर्वशून्यं भविष्यति सर्वसत्वविरहित इति॥ एवमुक्ते आयुष्मान्महाकात्यायन
आयुष्मन्तं महाकाश्यपं गाथाभिरध्यभाषे॥

समनन्तरसंपूरं शून्यं भवतु सर्वदा।
अप्रतिष्ठमनालम्बनं निविष्टं भवतु सर्वदा॥
यत्तिका पृथिवीधातु सत्वा बहुतरका अतो।
पृथग्जना खु निर्दिष्टा तेन परमदर्शिना॥
शृण्वतां पुरुषवरस्य शासनं बहुनां कुतः।
पर्यन्तो भेष्यति सत्वानामिति उक्तं महर्षिणेति॥

एवमुक्ते आयुष्मान्महाकाश्यपो आयुष्मन्तं महाकात्यायनमुवाच॥ ये इमे भो

(१२६)

जिनपुत्र सत्वा सम्यक्संबोधाये प्रणिधेन्ति ते कतिभिराकारैः षष्ट्यायां भूमौ वर्त-
मानाः सप्तमायां भूमौ विवर्तन्त इति॥ एवमुक्ते आयुष्मान्महाकात्यायन आयु-
ष्मन्तं महाकाश्यपमुवाच॥ दुभि खलु भो धुतधर्मधर आकारैर्बोधिसत्वा बोधाय
प्रणिधेन्तो षष्ठ्यायां भूमौ वर्तमानाः सप्तमायां भूमौ विवर्तन्ति॥ कतमेहि दुभि॥
संज्ञादेवयितनिरोधसमापत्तियो च स्पृहयन्ति यस्मिंश्च काले सम्यक्संबुद्धा सत्वपरि-
ज्ञया अहं महात्मा शमीकरो त्ति देवतां सत्कृत्य अवहितश्रोता शृण्वन्ति॥ ये
हि केचिद्भो धुतधर्मधर बोधिसत्वाः षष्ठ्यायां भूमौ वर्तमानाः सप्तमायां भूमौ वि-
वर्तेन्सु विवर्तन्ति विवर्तिष्यन्ति वा सर्वे इमेहि दुभि आकारेहि विवर्तन्ति विवर्तेन्सु
विवर्तिष्यन्ति इति॥

एवं एषा षष्ठी भूमिर्भवति तेषां गुणवराणां।
हरिणपतीनां हितान महर्षिणां बोधिसत्वानामिति॥

इति श्रीमहावस्तु-अवदाने षष्ठी भूमिः समाप्ता॥

एवमुक्ते आयुष्मान्महाकाश्यप आयुष्मन्तं महाकात्यायनमुवाच॥ ये इमे भो
धुतधर्मधर बोधिसत्वाः अवैवर्तिकाः षष्ठातो भूमितो सप्तमां भूमिं संक्रमन्ति तेषां
केवरूपं सन्धिचित्तं भवतीति॥ एवमुक्ते आयुष्मान्महाकात्यायन आयुष्मन्तं महा-
काश्यपं गाथाभिरध्यभाषत॥

आत्मदमथे प्रवर्तयते चित्तं परममहाजनहितान।
यत्सप्तमां भूमि संक्रमन्ति तथा भूमिषु तत्सन्धिचित्तमिति॥

(१२७)

एवमुक्ते आयुष्मान्महाकाश्यप आयुष्मन्तं महाकात्यायनमुवाच॥ ये इमे भो
जिनपुत्र बोधिसत्वा अवैवर्तिकाः ते प्रथमायां भूमौ उपादाय केवरूपेण कायकर्मेण
समन्वागता भवन्ति केवरूपेण वाचाकर्मेण समन्वागता भवन्ति केवरूपेण मनकर्मेण
समन्वागता भवन्ति केवरूपेण सत्त्वेन समन्वागता भवन्ति॥ एवमुक्ते आयुष्मान्म-
हाकात्यायन आयुष्मन्तं महाकाश्यपमुवाच॥ ये इमे भो धुतधर्मधर बोधिसत्वा
अवैवर्तिकास्तेषां प्रथमां भूमिमुपादाय इमानि कर्माणि भवन्ति॥ प्राणातिपात-
वैरमणं प्राणातिपातवैरमणस्य च वर्णं भाषन्ति तदध्याशयान्भूमिषु सत्वान्प्रशं-
सन्ति ये न परं च किंचित्पापमित्रसंयोगेन प्राणां जिविताद्व्यपरोपयन्ति॥ परं
सप्तहि भूमीहि तेहि विक्रोशमानेहि सत्वेहि करुणां प्रतिलभित्वा शीलं समादियि-
त्वा राज्यं वा परित्यज्य यद्वा तद्वा ऐश्वर्यं त्यक्त्वा अगारेभ्यो नगारियं प्रव्रजित्वा
प्राणातिपातवैरमणस्य बहुलं धर्मं देशयन्ति॥

भूतपूर्वं च भो धुतधर्मधर सप्तमायां भूमौ वर्तमानो अयं परमपुरुषो राजा
कुशो नाम बभूव॥ तस्य देवी अप्रतिमा नाम अभूषी येयं यशोधरा राहुलशिरिस्य
माता॥ यो चायं एतरहि कलिपुरुषो देवदत्तः सो तदा जठरो नाम प्रदेशराजा
बभुव॥ तां श्रुत्वा देवीमप्रतिमां कामरागो मानसं पर्यादिन्नवां॥ सो राज्ञः
कुशस्य दूतमप्रेषये॥

देहि अप्रतिमां देवीं मम भार्या भविष्यतीति।
अथ न दासि युद्धं ते सज्जं सज्जय वाहनं॥
यत्ते व्यवसितं राज तदनुप्रेषयस्व मे।

(१२८)

अथ नानुप्रषयसि मे सराज्यो वसमेष्यसि॥
एतं श्रुत्वा कुशो राजा भारियामिदमब्रवीत्।
शृणोहि देवि जठरस्य वचनं ब्रूहि निश्चयं॥

ततो देवी अश्रुवेगं प्रमुंचित्वा राजानं कुशमुवाच॥

भद्र वत अहं छेद्ये अहं भेद्ये नराधिप।
त्वया अनतिरिच्चापि शस्त्रेहि पारमिं गता॥
जठरस्य शिरं राज पश्य समकूटं मया।
छिन्नं रुधिरसंक्लिन्नं तव पादेषु वेष्टतु॥
मया तु जन्तुना त्यक्तः सोनाहारीकृतं शरः।
जठरस्य भिक्त्वा स्वदेहं भूयो भेत्स्यति मेदिनीं॥
अश्वपृष्ठे रथे स्कन्धे वारणस्य कृतं मया।
योधनरवराग्रे च जठरस्यान्तं कृतं महं॥
अहं मन्त्रे अहं सन्ध्या अहं वचनकर्तृमे।
अघात्यमपि घातये हेतुभिः कारणैः तथा॥
द्वाभ्यांश्च परिमोक्षेयं अहमेव निरोपम।
मम माया ह्यसंख्येया लोकः तृणमयो मम॥

(१२९)

गन्धमाल्यधरो राजा प्रासादतलगोचरः।
स्त्रीसहस्रांकमासृत्य यथा च निरुत्सुको सिया इति॥

अथ भो जिनपुत्र देवी अप्रतिमा तथारूपं उपायमादेशयि येनोपायेन राजा
जठरो विश्वस्त अन्तःपुरं राज्ञः कुशस्य प्रविशि वशमुपागतो देव्या अप्रतिमाया॥
अथ सा देवी अप्रतिमा राज्ञो जठरस्य हृदये पदं दक्षिणं कृत्वा सव्यं पादं गुल्फे
प्रतिष्ठाप्य श्लोकानिमानगासि॥

यां पुष्पितां वनलतां भ्रमराः पिबन्ति
पुष्पागमे कुसुमरेणुविचित्रपक्षा॥
नैव त्वया कुपुरुष श्रुतपूर्वरूपं
नात्रापरे मधुकराः प्रणयं करोन्ति॥
यां पद्मिनीं वनगजो अरुहे कदाचित्
पंके जलप्रलुलितां मदनातुराङ्गः।
नैव त्वया कुपुरुष श्रुतपूर्वरूपं
नात्रापरे वनगजाः प्रणयं करोन्ति॥
या भूमिपालमहितस्य उरे वितीर्णा
मुक्ताकलाप इव संरमते निशायां।
कमलां तुवं व्यवसितो अनवद्यगात्रीं
प्राप्तुं महीतलगतो इव पूर्णचन्द्रमिति॥

(१३०)

अथ खलु भो धुतधर्मधर राजा जठरो तस्मिं काले विक्रोशति॥ प्रसीद देवि
शरणं प्रयच्छथेति॥ तां देवीमप्रतिमां कुशो राजा उवाच॥

अभयं ददाहि देवी कापुरुषस्य शरणं उपगतस्य।
तस्य कृतांजलिपुटस्य यावं एषु हि सतां धर्म इति॥

भूतपूर्वं भो धुतधर्मधर एषो भगवानुग्रो नाम नागराजा अहितुण्दिकेन मन्त्रौ-
षधिबलैर्वशनीतः सम्बाधमापन्नो बभूव॥ सो च प्रमादात् अहितुण्डिको भ्रष्टमन्त्रो
बभूव॥ अथ तस्य उग्रस्य नागराज्ञो एतदभवत्॥ प्राप्यो खल्वयं मम कापुरुषो
भस्मीकर्तुमिति। अपि तु नैतदस्माकमनुरूपं धर्मरक्षानुरक्तानामिति॥ श्लोकानु-
वाच॥

यो पि तुवं मम प्राप्यो भस्मीकर्तुं स्वतेजसा।
भ्रष्टमन्त्रस्य ते देमि अभयं जीव मे चिरमिति॥

भूतपूर्वं भो धुतधर्मधर एष एव भगवान्सिंहो मृगराजा एष चायं कुपुरुषदेवदत्तो
लुब्धको बभूव॥ अथैनं सिंहयोग्यावस्थोपवने वनविचारिं एकचरं उपासीनं
विश्वस्तं निर्विचेष्टं निर्वृतमपरिपश्यन्तं पूर्वाशयोपचितबद्धवैरः लुब्धको दिग्धेषुणा
अविद्ध॥ सो च विद्धः स्तिमितो गम्भीरधैर्योपपन्नः स्वबले पर्यवस्थितः असन्त्रस्त

(१३१)

ईषदुन्नतशिरोधरो तदा तमसत्पुरुषं भीतं लयनमुपगतं निशाम्य चिन्तामापन्नः॥
प्राप्यो खल्वयं मम अधमपुरुषो गिरिशिखरगुहावृक्षरसातलगतो पि हन्तुं। अपि
तु न वैरेण वैराणि शाम्यन्ते इति कृत्वा इमं श्लोकमुवाच॥

विषलिप्तेन विद्धो हं शरेण मर्मघातिना।
अद्यैवं न भवेत्तस्य भीतस्य नास्ति ते भयमिति॥

भूतपूर्वं भो धुतधर्मधर एषैव भगवान्सार्थवाहो बभूव संमतः॥ सार्थो चानेनैव
असत्पुरुषेण देवदत्तेन देशिकेन सार्थचौरैरुपस्कृतेन कान्ताराध्वानमार्गप्रतिपन्नः॥
पूर्ववैरानुषङ्गप्रतिबद्धमानसस्तं सार्थचौरैर्घातापयितुमुपसंक्रान्तः॥ तैश्च वाणिजैः
सार्थवाहप्रमुखैस्ते चौरा निगृहीता देशिकपूर्वंगमाश्च वधमुपनीयन्ता विक्रोशन्ता
अशरणाः सार्थवाहमेव शरणमुपगताः देशिकश्च पराधापराद्धः कृतांजलिपुटः
सार्थवाहमभयं याचि॥ तस्य भवशतसहस्रपरिचिता करुणाविहारिणो करुणा
समुत्थिता प्राणहरेष्वपि तेषु अभयं दत्त्वा देशिकमुवाच॥
अनुवातं मया मुक्तः धूमो देशं विनाशयेत्।
देशिकं सह चौरेभ्यः अनुजानामि जीवितमिति॥
भूयश्च भो धुतधर्मधर इमिना एव च भगवता राज्ञा सता अग्रमहिष्याः महा-

(१३२)

पराधापराद्धाया वधस्थानप्राप्तायाः याचिन्त्या अभयं दत्तं। पुर्वोपचितमार्दवा-
र्जवसंपन्न अग्रमहिषीं शान्त्वयित्वा इमं श्लोकमुवाच॥

हन्तास्या आमपात्रेण शस्त्रं कायेन पातयेत्।
अभयन्ते अहं देमि तच्च स्थानं यथापुरमिति॥

एवमादीनि भो धुतधर्मधर दुष्करशतसहस्राणि कृतानि बोधिसत्वेहि ये अवै-
वर्तिका एवं कायेन एवं वाचा एवं मनसा॥ बहुविधगुणयुक्ता संसारं संसरन्ता
बोधिसत्वाश्च भवन्ति। अपि तु कर्मवशमुपागम्य गुणसंक्षेपकिर्तितक्रिया ते बो-
धिसत्वा भवन्ति। दृढविक्रमा धृतियुक्ताः सत्यप्रतिज्ञा आर्जवा अशठा भवन्ति।
अकृपणाश्च भवन्ति। अलोलाश्च भवन्ति। मार्दवाश्च भवन्ति। सानुक्रोशाश्च
विमर्दसहाश्च अपर्यादिन्नचित्ताश्च अलोलितचिताश्च दुर्धर्षाश्च दुर्जयाश्च सत्वयु-
क्ताश्च त्यागसंपन्नाश्च प्रतिज्ञासंपन्नाश्च भवन्ति। प्रतिभानवन्ताश्च विचित्रप्रतिभान-
वन्ताश्च नयनसंपन्नाश्च अतित्तिगाश्च भवन्ति। परमार्थाभिनिविष्टाश्च भवन्ति।
संगृहीतग्राहिणश्च भवन्ति। शुचिसमाचाराश्च भवन्ति। आनिंज्यचित्ताश्च भवन्ति।
अतीव बहुमानयुक्ताश्च भवन्ति। गुरुजनसज्जन-उपचारसंपन्नाश्च भवन्ति। उपाय-
कुशलाश्च भवन्ति। सर्वकार्येषु सन्धिग्रहसंयोजकाश्च भवन्ति। राजकार्येषु पद-
सन्धिविदुषश्च भवन्ति। परिषास्खलितवचना उग्रवचनमर्षयितारश्च भवन्ति।
ज्ञानकेतवो बहुजनसंग्रहकुशलाश्च भवन्ति। समचित्ता अनुपक्रुष्टवृत्तिद्वाराश्च
भवन्ति। प्रसिद्धकर्मान्ता अभ्युपपत्तिकुशलाश्च भवन्ति। परदुःखेषु परिकरणकु-

(१३३)

शलाश्च भवन्ति। आस्वादादीनवेषु अशिथिलमधुराश्च कुत्सितदर्शनेषु दोषसमु-
द्घातकुशलाश्च भवन्ति। परकोपीनच्छादनेषु अपरिखिन्नाश्च भवन्ति। फलनिर्वृ-
त्यपरिकांक्षिणं रागद्वेषमोहविवेककुशलमूलाश्च भवन्ति। क्लेशव्ययशमाभ्युपकार-
कुशलाश्च भवन्ति। सर्वोपकारिषु विचिकित्सापरिवर्जिताश्च भवन्ति। सर्वधर्मेषु
अपरिखिन्नसंकल्पाश्च भवन्ति। गम्भीरबुद्धधर्मेषु ईहोपसंपन्नाश्च भवन्ति। पर-
मार्थाधिगमे अनुपलिप्तकायकर्मवाक्कर्ममनोकर्माश्च भवन्ति। भवसज्जीवतत्वे अप-
रामृष्टशुभकर्माश्च भवन्ति। ज्ञानपरमा असंक्लिष्टप्रतिभानाश्च भवन्ति। बुद्धविष-
याभिलाषिणः अप्रत्यादेशनपराश्च भवन्ति। ज्ञानकेतव अखिन्नवचनाः प्रवर्जना-
कुशलाश्च भवन्ति। अदुष्टस्वभावगता पराभवापगताश्च भवन्ति। विगतसावद्याश्च
भवन्ति। त्रिविधौद्धत्यपरिवर्जिताश्च भवन्ति। स्थितलपा अकामकामिनश्च
भवन्ति। अमैथुनगामिनः सर्वसत्वसंग्रहणविदुषकाश्च लोकमनुप्रविष्टाः कृतनि-
श्चयबलाधानाश्च भवन्ति। सर्वकर्मेषु नानास्थानास्थानकुशलाश्च भवन्ति सत्वाद्याश्च
इत्येवं गुणसंपन्ना भवन्ति। पुङ्गवा असंख्येयगुणधीरा सत्वेषु समबुद्धिनो भवन्ति
च॥ अत्र उच्यते॥

न शक्यं गगणस्यान्तं गन्तुं सर्वविहंगमैः।
न शक्यं सर्वसत्वेहि गुणा ज्ञातुं स्वयम्भुवामिति॥

ये च भो धुतधर्मधर लोकहितसुखार्थं मन्त्रा वा अगदा वा सत्वानामुपकाराये

(१३४)

कल्पेन्ति सर्वे ते बोधिसत्वेहि प्रणीता॥ यानि च भैषज्यानि लोके प्रचरन्ति
सत्वानां हितसुखार्थं सर्वाणि तानि बोधिसत्वेभ्यः उपशिष्टानि॥ यानि च
शास्त्राणि तत्त्वनिश्चययुक्तानि लोके प्रचरन्ति सर्वाणि तानि बोधिसत्वनीतानि॥
यच्चेह लोके संख्यागणनं मुद्रास्थानानि च सर्वा एषा बोधिसत्वानां नीति॥ या
वा इमा लोके संज्ञा ब्राह्मी पुष्करसारी खरोस्ती यावनी ब्रह्मवाणी पुष्पलिपी
कुतलिपी शक्तिनलिपी व्यत्सस्तलिपी लेखलिपी मुद्रालिपी उकरमधुरदरदचीणहू-
णापीरा वङ्गा सीफला त्रमिदा दर्दुरा रमठभयवैच्छेतुका गुल्मला हस्तदा कसूला
केतुका कुसुवा तलिका जजरिदेषु अक्षबद्धं सर्वा एषा बोधिसत्वानां नीति॥ कन-
करजतत्रपुताम्रसीसमणिरतनक्षेत्राणि सर्वाण्येतानि बोधिसत्वानां नीतिः॥ यानि
यानि च कारणानि लोकस्य उपकाराये कल्पेन्ति सर्वाण्येतानि बोधिसत्वनीतानि॥
तत्रेदमुच्यते॥

लोकस्य अर्थविदुषः पुरुषप्रधानाः
संसारमप्रतिसमाः परिवर्तमानाः।
श्रेयश्चरन्ति मरुमानुषगुह्यकानां
परमो हि समुदागम ईश्वराणामिति॥

(१३५)

एवमुक्ते आयुष्मान्महाकाश्यप आयुष्मन्तं महाकात्यायनमुवाच॥ ये ते भो
जिनपुत्र अवैवर्तिकास्तेषां किं चित्तमुत्पद्यते॥ एवमुक्ते आयुष्मान्महाकात्यायन
आयुष्मन्तं महाकाश्यपमुवाच॥ ये ते भो धुतधर्मधर बोधिसत्वा अवैवर्तिका-
स्तेषां सप्तमातो भूमीतो अष्टमां भूमिं संक्रमन्तानां महाकरुणासंप्रयुक्तं चित्तमु-
त्पद्यते॥

इत्येषा सप्तमा भूमि बोधिसत्वानमुच्यते इति॥
इति श्रीमहावस्तु-अवदाने सप्तमा भूमिः समाप्ता॥।

एवमुक्ते आयुष्मान्महाकाश्यप आयुष्मन्तं महाकात्यायनमुवाच॥ भगवता भो
जिनपुत्र सम्यक्संबुद्धेन शाक्यमुनिना प्रथमाद्वितीयातृतीयाचतुर्थापंचमाषष्ठासप्तमासु
भूमिषु वर्तमानेन येषु सम्यक्संबुद्धेषु कुशलमवरोपितं तेषां सम्यक्संबुद्धानां कानि
नामानीति॥ एवमुक्ते आयुष्मान्महाकात्यायन आयुष्मन्तं महाकाश्यपमुवाच॥
येषु भो धुतधर्मधर सम्यक्संबुद्धेषु भगवता शाक्यराजवंशप्रसूतेन कुशलमूलमुपचितं
तेषां विपुलबलवरकीर्तिनां नामानि शृणु॥ प्रथमतः सत्यधर्मविपुलकीर्तिः ततः
सुकीर्तिः लोकाभरणः विद्युत्प्रभः इन्द्रतेजः ब्रह्मकीर्तिः वसुन्धरः सुपार्श्वः अनुपवद्यः
सुज्येष्ठः सृष्टरूपः प्रशस्तगुणराशिः मेघस्वरः हेमवर्णः सुन्दरवर्णः मृगराजघोषः
आशुकारी धृतराष्ट्रगतिः लोकाभिलाषितः जितशत्रुः सुपूजितः यशराशिः अमि-
ततेजः सूर्यगुप्तः चन्द्रभानुः निश्चितार्थः कुसुमगुप्तः पद्माभः प्रभंकरः दीप्ततेजः सत्व-

(१३६)

राजा गजदेवः कुञ्जरगतिः सुघोषः समबुद्धिः हेमवर्णलम्बदामः कुसुमदामः रत्नदामः
अलंकृतः विमुक्तः ऋषभगामी ऋषभः देवसिद्धयात्रः सुपात्रः सर्वबन्धः रत्नमुकुटः
चित्रमुकुटः सुमुकुटः वरमुकुटः चलमकुटः विमलमुकुटः लोकंधरः विपुलोजः
अपरिभिन्नः पुण्डरीकनेत्रः सर्वसहः ब्रह्मगुप्तः सुब्रह्मः अमरदेवः अरिमर्दनः चन्द्रपद्मः
चन्द्राभः चन्द्रतेजः सुसोमः सुमुद्रबुद्धिः रतनशृङ्गः सुचन्द्रदृष्टिः हेमक्रोडः अभिन्न-
राष्ट्रः अविक्षिप्तांशः पुरंदरः पुण्यदत्तः हलधरः ऋषभनेत्रः वरबाहुः यशोदत्तः
कलमाक्षः दृष्टशक्तिः नरंप्रवाहः प्रनष्टदुःखः समदृष्टिः दृढदेवः यशकेतुः चित्रच्छदः
चारुच्छदः लोकपरित्राता दुःखमुक्तः राष्ट्रदेवः रुद्रदेवः भद्रगुप्तः उदागतः अस्ख-
लितप्रवराग्रः धनुनाशः धर्मगुप्तः देवगुप्तः शुचिगात्रः प्रहेतिः प्रथमशतमार्यपक्षस्य॥
भगवान्धर्मधातुः गुणकेतुः ज्ञानकेतुः सत्यकेतुः पुष्पकेतुः वज्रसंघातः दृढहनुः
दृढसन्धिः अत्युच्चगामी विगतशत्रुः चित्रमालः ऊर्ध्वसध्निः गुणगुप्तः ऋषिगुप्तः
प्रलम्बबाहुः ऋषिदेवः सुनेत्रः सागरधरपुरुषः सुलोचनः अजितचक्रः उन्नतः
अजितपुष्यलः पुराषः मङ्गल्यः मुभुजः सिंहतेजः तृप्तवसन्तगन्धः अवध्यपरमबुद्धिः
नक्षत्रराजः बहुराष्ट्रः आर्याक्षः सुगुप्तिः प्रकाशवर्णः समृद्धराष्ट्रः कीर्तनीयः दृढशक्तिः
हर्षदत्तः यशदत्तः नागबाहुः विगतरेणुः शान्तरेणुः दानप्रगुरुः उदात्तवर्णः बल-

(१३७)

बाहुः अमितौजः धृतराष्ट्रः देवलोकाभिलाषितः प्रत्यग्ररूपः देवराजगुप्तः दामोदरः
धर्मराजः चतुरस्रवदनः योजनाभः पद्मोष्णीषः स्फुटविक्रमः राजहंसगामी स्वल-
क्षणमण्डितः शितिचूडः मणिमकुटः प्रशस्तवर्णः देवाभरणः कल्पदुष्यगुप्तः साधुरूपः
अक्षतबुद्धिं लोकपद्मः गम्भीरबुद्धिः शक्रभानुः इन्द्रध्वजः दानवकुलः मनुष्यदेवः
मनुष्यदत्तः सोमच्छत्रः आदित्यदत्तः यामगुप्तः नक्षत्रगुप्तः सुमित्ररूपः सत्यभानुः
पुष्यगुप्तः वृहस्पतिगुप्तः गगणगामी शुभनाथः सुवर्णः कनकाक्षः प्रसन्नबुद्धिः अविप्र-
नष्टराष्ट्रः उदग्रगामिः शुभदन्तः सुविमलदन्तः सुवदनः कुलनन्दनः जनक्षत्रियः
लोकक्षत्रियः अनन्तगुप्तः धर्मगुप्तः सूक्ष्मवस्त्रः द्वितीयं शतमार्यपक्षस्य॥ प्रत्यासन्न-
बुद्धिः सत्वसहः मनुष्यनागः उपसेनः सुवर्णचारी प्रभूतवर्णः सुभिक्षाकान्तः भिक्षुदेवः
प्रबुद्धशीलः नहीनगर्भः अनालम्भः रतनमुद्रः हारभूषितः प्रसिद्धवेदनः सुगन्धिवस्त्रः
सुविजृम्भितः अमितलोचनः उदात्तकीर्तिः सागरराजः मृगदेवः कुसुमहेस्थः रत्न-
शृङ्गः चित्रवर्णः पद्मरजवर्णः समन्तगन्धः उदारगुप्तः प्रशान्तरोगः प्रदक्षिणार्थः
संक्षिप्तबुद्धिं अनन्तच्छत्रः योजनसहस्रदर्शी उत्पलपद्मनेत्रः अतिपुरुषः अनिवर्ति-
कबलः स्वगुणशाखः संचितोरः महाराजः चारुचरणः प्रसिद्धरंगः त्रिमङ्गलः

(१३८)

सुवर्णसेनः वर्तितार्थः असंकीर्णः देवगर्भः सुप्रीत्यरतिः विमानराजा परिमण्डनार्थः
देवसत्वः विपुलतरांशः सलीलगजगामी विरूढभूमिरिति॥

इति श्रीमहावस्तु-अवदाने अष्टमा भूमिः समाप्ता॥

ततो भूयो धुतधर्मधर अतो नन्तरं भगवाञ्चित्रभानुः चारुभानुः दीप्तभानुः
रुचितभानुः असितभानुः हेमरथः चामीकरगौरः रजकरथः सुयक्षः अक्षोभ्यः
अपरिश्रोतवाहनः देवालंकृतः सुभूषितखण्डः शिथिलकुण्डलः मणिकर्णः सुलक्षणः
सुविशुद्धः विमलजेन्द्रः देवचूडः मन्दारवगन्धः पतंगचरः चारुगन्धः इन्द्रचूर्णः
शैलराजकेतुः अरिमर्दनः मणिचक्रः विमलोत्तरीयः सत्याभरणः दृढवीर्यः नन्दिगुप्तः
आनन्दमालः चक्रवालगुप्तः दृढमूलः आनन्दचन्द्रः ब्रह्मध्वंसदेवः सौम्भवत्सबाहुः
समीक्षितवदनः सत्यावतारः सुप्रतिष्ठितबुद्धिः हारशीतलांगः सुखप्रभः भूरिसत्वः
भद्रगुप्तः चन्द्रशुभः भद्रतेजः इष्टरूपः चक्रवर्तिदत्तः सुविचक्षणगात्रः वैश्रावणराजा
समृद्धयज्ञः संमतरश्मिः दर्शनक्षमः स्रजमालाधारी सुवर्णविषाणः भूतार्थकेतुः रत्न-
रुधिरकेतुः महार्षचूडः तेजगुप्तः वरुणराजः उदात्तवस्त्रः वज्रगुप्तः धन्यभानुः उत्त-
प्तराष्ट्रः विशालप्रभः लोकसुन्दरः अभिरूपः हिरण्यधन्यशिरिकः प्रभूतदेहकर्णः

(१३९)

प्रागजितः विचित्रमुकुटः दानवगुप्तः राहुवमी पुण्यराशिः सलिलगुप्तः शमितशत्रुः
रत्नयूपः सुविकल्पाङ्गः अजितबलः सत्यनामः अविरक्तराष्ट्रः वैश्वानरगुप्तः मधुर-
वदनः कुसुमोत्पलः उत्तरकुरुराजः अञ्जलिमालाधारी धनपतिगुप्तः तरुणार्कभानुः
अनुरूपगात्रः रत्नकरण्डकेतुः महाकोशः बहुलकेशः पुष्पमंजरिमण्डितः अनपवि-
द्धकर्णः अनाविद्धवर्णः सितासितलोचनः अरक्तप्रवाडः सिंहोरस्कः अरिष्टनेमिः
बहुराजा॥ नवमायां भूमौ प्रथमं शतमार्यपक्षे॥ भूमिदेवः पुण्डरीकाक्षः
साधुप्रभः ज्योतिगुप्तः बहुप्रभः सत्यंवचः भवदेवगुप्तः संवृत्ततेजः निरुपघातः जानु-
त्रस्तः रत्नशयनः कुसुमशयनः चित्रशयनः दन्तशयनः सुप्रतिष्ठितचरणः सर्वदेवगुप्तः
अरजोत्तरीयः स्वायंभवेन्द्रः प्रसन्नवर्णः भवकेतुः क्षीरपूर्णाम्भः अनन्तबुद्धिः कनक-
नागराजतेजः बन्धनान्तकरः अनुग्रवर्णक्षेमगुप्तः जिनकान्तारः विमलः मरीचिजालः
अजितसेनराजा कनकराशिः गौरः पद्ममालः राजक्षेत्रगुप्तः समपक्षः चातुर्देवः
देवगुप्तः पुष्कलाङ्गः द्विजातिराजः बहुसेनः कुमुदगन्धः शवलाश्वः षड्विषाणपातः
सुरभिचन्दनः राजा सहस्रदाता अभयदेवः अरिनिहन्ता विमलशिखरः दुरारो-
हबुद्धिः यज्ञकोटिगुप्तः रत्नचंक्रमः जालान्तरः परिशुद्धकर्मः कामदेवः गुरुरत्नः

(१४०)

शतसहस्रमाता शुचिप्ररोहः स्तिमितराजा वृद्धदेवः गुरुजनपूजितः जयन्तदेवः सुजा-
तबुद्धिः समीक्षितार्थ उजितपरः देवाभिकः असुरदेवः गन्धर्वगीतः वीणारवघोषः
शुद्धदन्तः सुदन्तः चारुदन्तः अमृतफलः मार्गोद्योतयिता मणिकुण्डलधरः हेमजा-
लप्रभः नागभोगबाहुः कमलधरः अशोकसत्वः लक्ष्मीपुत्रः सुनिर्मितरूपः ईश्वरगुप्तः
लोकपालराजा सुनिध्यानः अग्रपुरुषः अनिहतवर्णः कुन्दपुष्पगन्धः अंकुशः आर्द्र-
वल्लिप्रतिरूपः कार्यताविचारः स्वतेजदीप्तः प्रकाशधर्मः आर्यवंशकेतुः देवराजप्रभः
प्रत्यक्षदेवः अहिभानुरागः कुसुमोत्तरीयः अविरसः प्रथमराजा पुण्डरीकराजा
सुभिक्षराजः॥ द्वितीयो आर्यपक्षः नवमायां भूमौ॥ स्निग्धगात्रः परमार्थसत्वः
अक्लिन्नगात्रः धर्मशूरः सुतीर्थः लोकालोकनिहतमल्लः कुन्दपुष्पगन्धः निरंकुशः
अनोतप्तगात्रः उपाध्यायराजा प्रवराग्रमतिः अनभिभूतयशः अनुपच्छिन्नालम्भः
देवगुरुः रत्नपुष्पः शुद्धसत्वः वैडूर्यशिखरः चित्रमाल्यः सुगन्धकायः अनन्तकोशः
सममथितः सत्यप्रभः अदीनगामी सुविक्रान्तः असंभ्रान्तवचनः गुरुदेवः नरदेवः
नरवाहनः रत्नहस्तः लोकप्रियः परिन्दितार्थः अविशुष्कमूलः अपरितृषितः सर्व-
शिल्पराजः ग्रहकोशः अनुरक्तराष्ट्रः शिवदत्तमालः शिखरदत्तः चित्रमालः महावि-
मानः अनोतप्तगात्रः चित्रहेमजालः शान्तरजः संगृहीतपक्षः अप्रकृष्टः रक्तचन्द्रनगन्धः
अचलितसुमनः उपचितहनु ज्वलितयशा रचितमालः शिरमकुटः तेजगुप्तराजा॥

इति श्रीमहावस्तु-अवदाने नवमी भूमिः समाप्ता॥

(१४१)

एवमुक्ते आयुष्मान्महाकाश्यप आयुष्मन्तं महाकात्यायानमुवाच। ये पुनर्भो
जिनपुत्र बोधिसत्वाः परिपिण्डितकुशलमूलाः कृतकर्माणः नवमां भूमिं समतिक्रम्य
दशमां भूमिं परिपूरयित्वा तुषितभवनमुपगम्य मनुजभवमभिकांक्षमाणाः मातुः
कुक्षिमवतरन्ति अपुनावर्तमेवमादीनि कृत्वा संकीर्तय परमपुड्गलानामाश्चर्याद्भुत-
धर्मा असाधारणा प्रत्येकबुद्धादिभिः वशिभूतगणादिभिश्च शैक्षपृथग्जनादिभिश्चेति॥
एवमुक्ते महाकात्यायन आयुष्मन्तं महाकाश्यपमुवाच॥ गर्भावक्रान्तिसंपन्नाश्च सम्य-
क्संबुद्धा भवन्ति। गर्भस्थितिसंपन्नाश्च जातिसंपन्नाश्च। जनेत्रीसंपन्नाश्च भवन्ति
सम्यक्संबुद्धा। अभिनिष्क्रमणसंपन्नाश्च भवन्ति सम्यक्संबुद्धाः। वीर्यसंपन्नाश्च
भवन्ति सम्यक्संबुद्धाः। ज्ञानाधिगमनसंपन्नाश्च भवन्ति सम्यक्संबुद्धाः॥
कथं भो धुतधर्मधर गर्भावक्रान्तिसंपन्नाः सम्यक्संबुद्धा भवन्ति॥

तुषितभवना शिरिघनो पुरिमकुशलमूलसंचयो वीरः।
अवलोकयति अतिशयेनोलोकितानि च्यवनकाले॥
चिन्तयति एवं हितकरो चिन्तामर्थावहां नरमरूणां।
अमरवरसंपरिवृतो देवगणगुरुर्महापुरुषो॥
च्यवितुं समयो खु दानि मे संप्रति सत्वा महान्धकारगता।
हतनयना कलुषनयना मां प्राप्य तस्माद्विमुच्यन्ते॥

(१४२)

का दानि शीलसंवरे एवं नारी रता उपशमे च।
अग्रकुलीना सुवचा त्यागरुचिमार्दववती च॥
तेजस्विनी च ...... का नु खलु हततमरागदोषा च।
रूपगुणपारमिगता अहीनवृत्ता विपुलपुण्या॥
का मां समर्था धारयितुं दश मासां का च प्रत्यरहसौख्या।
भवे मम का नु जननी कुक्षिमहमुपैमि कस्याद्य॥
पश्यति विलोकयन्तो राज्ञो शुद्धोदनस्य ओरोधे।
नारीममरवधुनिभां विद्युल्लतानिभां अथ मायां॥
सो तां निशाम्य जननीमामन्त्रयति अमरान् च्यविष्यामि।
अन्तिममुपेत्य वासं गर्भे सुरमानुषहितार्थं॥
तं अवच देवसंघो कृतांजलिपुटो वराभरणधारी।
ऋध्यतु उत्तमपुद्गल प्रणिधि तव अहीनगुणपुण्या॥
वयमपि लोकहिता बहु मनोरमां ओशिरित्वा कामरतिं।
पूजार्थमनिन्दितस्य मनुष्यलोके वसिष्यामो॥
किं चापि विप्रयोगं त्वया न इच्छाम भूतसंघगुरु।
अपि तु अरविन्दनयना भविष्यसि गती नरमरूणां॥

(१४३)

एवं खलु भो धुतधर्मधर सम्यक्संबुद्धा गर्भावक्रान्तिसंपन्नाश्च भवन्ति॥
कथं च भो धुतधर्मधर सम्यक्संबुद्धा गर्भस्थितिसंपन्ना भवन्ति॥ बोधिसत्वाः
खलु भो धुतधर्मधर मातुः कुक्षिगता मातुर्योनिं निश्राय तिष्ठन्ति। मातुः पृष्ठं
निश्राय तिष्ठन्ति। मातुरुदरं निश्राय तिष्ठन्ति। मातुः पार्श्वं निश्राय तिष्ठन्ति॥
विष्टम्भितया भो धुतधर्मधर कुसूत्रं प्रवाडवैडूर्यमणिमुपालम्ब्य न क्वचिदुपलभ्यते
प्रदेशस्तु अस्ति सर्वशस्तथा बोधिसत्वा मातुः कुक्षौ न तिष्ठन्ति तिष्ठन्ति च। बो-
धिसत्वं पुनः खलु भो धुतधर्मधर मातुः कुक्षिगतं देवसंघाः उपसंक्रम्य पृच्छन्ति
प्रव्हाः कृतांजलिपुटाः सुमुहूर्तं सुदिवसं प्रीतमनसः। तां च देवसंघान्तथा पृच्छ-
मानां बोधिसत्वा प्रत्यभिनन्दन्ति दक्षिणकरमुत्कृष्य मातरं च न बाधन्ति॥ न
खो पुनर्भो धुतधर्मधर बोधिसत्वा मातुः कुक्षिगता उत्कुटकेन पार्श्वेन वा यथा
कथंचिद्वा स्थिता भवन्ति। अथ खलु भो धुतधर्मधर बोधिसत्वाः पर्यङ्कमाभुं-
जित्वा निषणा भवन्ति मातरं च न बाधन्ति॥ बोधिसत्वाः खो पुनर्भो धुतधर्मधर
मातुः कुक्षिगता व सन्तो भववादिकथां कथयन्ति कुशलमूलत इति॥ बोधिस-
त्वस्य खलु पुनर्भो धुतधर्मधर मातुः कुक्षिगतस्य पूजार्थं सततसमितं दिव्यानि
तूर्याणि वाद्यन्ति न कदाचिद्दिवा वा रात्रौ वा तिष्ठन्ति॥ बोधिसत्वं च भो धुत-

(१४४)

धर्मधर मातुः कुक्षिगतं पूजार्थं अप्सरशतसहस्राणि सन्दर्शयन्ति दिव्यं पुष्पवर्षं दिव्यं
चूर्णवर्षं नोपरमन्ते कदाचित्॥ मातुः कुक्षिमादौ कृत्वा बोधिसत्वानां यावत्परि-
निर्वृता दशबला च दिव्या च अगुरुधूपा नोपरमन्ति॥ न खलु भो धुतधर्मधर
बोधिसत्वा मातापितृनिर्वृत्ता भवन्ति। अथ खलु स्वगुणनिर्वृत्ता उपपादुका
भवन्ति॥ तत्रेदमुच्यते॥

अथ सा कमलदलनयन अनुबद्धा गन्धर्वबहुभि श्यामा।
सहितं पि तं सुमधुरं शुद्धोदनमब्रवीत् माया॥
एषा समाधियामि प्राणेहि अहिंसं ब्रह्मचर्यं च।
विरमामि चाप्यदिन्ना मद्यादनिबद्धवचनाच्च॥
परुषवचनाच्च नरवर प्रतिविरमामि तथैवं पैशुन्या।
अनृतवचनाच्च नरपति विरमामि अयं मम छन्दो॥
परकामेषु च ईर्ष्यां न संजनेष्यं नापि अभिद्रोहं।
भूतेषु मैत्रचित्ता मिथ्यादृष्टिं च विजहामि॥
एकादशप्रकारं शीलं सेवाम्यहं पृथिविपाल।
रजनीमिमामनूनामेवं मे जायते छन्दो॥
अपि च खलु भूमिपाला कामवितर्को मा मां प्रतिकांक्षि।
प्रेक्षस्व मा ति अधर्मो भवेय मयि ब्रह्मचारिणिये॥
संकल्पं प्रपूरेष्यन्ति पार्थिवो भारियामिदमवोचत्।

(१४५)

अभिरम भवनवरगता अहं च राज्यं च ते वश्यं॥
सा स्त्रीसहस्रमग्य्रं अनुरक्तं गृह्य तं विमानवरं।
अभिरुह्य सन्निषीदे मनापपरिपूर्णपरिवारा॥
सा कंचिदेव कालं तस्मिं हिमपाण्डुपुण्डरीकनिभे।
शयने प्रशमदमरता तुष्णीभावेन क्षेपयते॥
अथ कौतूहलमनो संजनिया बहुदेवकन्या वरमाल्यधराः।
जिनमातुः उपगता द्रष्टुमना प्रासादसुन्दराग्रेण स्थिता॥
उपसंक्रमित्व शयनोपगतां मायां निशाम्य वरविद्युनिभां।
प्रीतिसुखं विपुलं संजनिया अथ संप्रवर्षि दिविजं कुसुमं॥
मानुष्यकं पि किल ईदृशकं रूपं सुजातमिदमाश्चर्यं।
कंचित्कालं स्थिहिय अन्तरतो नायं समा मरुवधूहि भवे॥
लीलां निशामयथ हे सखिका प्रमदाये यादृशीं यथोपयिकां।
शयने विरोचति मनं हरति विभ्राजते कनकरीतिरिव सा॥
इयं तं धरेष्यति महापुरुषं अत्यन्तदानदमशीलरतं।

(१४६)

सर्वाश्रवान्तकरणं विरजं किं हायते तव नरेन्द्रवधू॥
चापोदरे करतलप्रतिमे वररोमराजिनि चित्रस्तवने।
इह वासमभ्युपगतो वरदो अविम्रक्षितो अशुचिना भगवां॥
अनुरूपा त्वं च प्रमदा प्रवरा माता स चैव पुरुषप्रवरो।
पुत्रो भवान्तकरणो भगवां किं हायते तव नरेन्द्रवधू इति॥

यस्यां खलु भो धुतधर्मधर जातीयां बोधिसत्वमातरो चरमभविकं बोधिसत्वं
धारयन्ति तस्यां जातौ प्रमदावराणां परिशुद्धं परिपूर्णमखण्डं ब्रह्मचर्यं भवति॥
मनसापि तासां प्रमदोत्तमानां रागो नोत्पद्यते सर्वपुरुषेषु भर्तारमादौ कृत्वा॥
बोधिसत्वे च भो धुतधर्मधर मातुः कुक्षिगते बोधिसत्वमता दिव्यवस्त्रसंवृतशरीरा
च भवति दिव्याभरणधारिणी च सुस्नातोच्छादनपरिमर्दनपरिषेकं च अप्सरोगणाः
बोधिसत्वमातुः प्रतिजागरन्ति॥ बोधिसत्वे मातुः कुक्षिगते बोधिसत्वमातुः देवक-
न्याशतसहस्रेहि सार्धं हास्यं भवति॥ तथा प्रसुप्तां च बोधिसत्वमातरं देवकन्या
मन्दारवपुष्पदामैः परिवीजयन्ति अग्रयौवनमण्डप्राप्ता॥ यदा च तस्या प्रमदो-
त्तमायाः बोधिसत्वः कुक्षिमवतरति न बोधिसत्वमाता कानिचिद्दुःखान्यनुभवति
यथान्या प्रमदा॥ तुषितभवनमादौ कृत्वा सर्वेषां बोधिसत्वानां पंच नीवरणानि

(१४७)

विष्कम्भितानि भवन्ति अप्राप्ते धर्मराज्ये॥ परिपूर्णेहि च दशहि मासेहि सर्वे बो-
धिसत्वाः मातुः कुक्षौ प्रादुर्भवन्ति दक्षिणेन पार्श्वेन न च तं पार्श्वं भिद्यते। न चात्र
किंचिद्विलम्बं भवति जात इत्येवं भवति॥ तत्रेदमुच्यते॥

अथ प्रतिपूर्णे दशमे मासे माता प्रभूतपुण्यस्य।
शुद्धोदनं उपगम्य इदमब्रवीत् दृष्टसंकल्पा॥
उद्यानगमनबुद्धी उत्पन्ना मे नराधिपा शीघ्रं।
सज्जेहि वाहनं मे यथोचितां चैवमारक्षां॥
एतं श्रुत्वा वचनं राजा शुद्धोदनो सुप्रीतमनो।
आलपति साभिलाषं परिवारवरं पृथिविपालो॥
शीघ्रं गजतुरगवतीं सेनां पदातिसमाकुलां विपुलां।
प्रासशरशक्तिचित्रां सज्जिय प्रतिवेदयध्वं मम॥
चतुघोटान तथ अश्वरथान दशशतसहस्रा युज्यन्तु।
प्रवरा काञ्चनघण्टारवाणि मधुरानुनादानि॥
अंजनघनसदृशानां नागानां वर्मधारिणां शीघ्रं।
प्रतिधेयथ अधिमात्रा सज्जानि दशशतसहस्राणि॥
आयुक्तवर्मकवचा शूरा सज्जीभवन्तु अनिवर्त्या।
सज्जीभवन्तु चपलं विंशत्साहस्रियो तेषां॥

(१४८)

विपुल सकिंकिणिरणितं सहेमजालं उडार-अश्वरथं।
वरमाल्यवस्त्रधारिणो प्रमदा धारेन्तु देवीये॥
लुम्बिनिवनं च शीघ्रं व्यपगततृणरेणुपत्रसंकारं।
सुशोधितं मनोज्ञं कुरुत देवीये देवभुवनं वा॥
एकैकं च द्रुमवरं दुकूलपट्टोर्णकोशिकारेहि।
कल्पयथ कल्पवृक्षां यथा दिवि देवप्रवरस्य॥
साधूति प्रतिश्रुत्वा तस्य वचनेन नरेन्द्रगर्भस्य।
नचिरेण यथाज्ञप्तं कृतमिति प्रतिवेदितं राज्ञः॥
सा सलीलचारुवदना माता मारबलसंप्रमथनस्य।
अभिरूहि सपरिवारा तानि मनोज्ञानि यानानि॥
सा विविधाभरणवती पादौधरथौघसंकुला ......।
शोभति सुसंप्रयाता सेना मनुजप्रधानस्य॥
अवगाह्य तद्वनवरं माया सखिसंवृता जिनजनेत्री।
विचरति चित्ररथे इव अमरवरवधू रतिविधिज्ञा॥
सा क्रीडार्थमुपगता प्लाक्षां शाखां भुजेभिरवलम्ब्य।
प्रतिजृम्भिता सलीलं तस्य यशवतो जननकाले॥
अथ विंश सहस्राणि अप्रतिमानि तदाप्सरवराणां।
दशनखकृतांजलिपुटा मायामभिनन्दिय भणन्ति॥

(१४९)

अद्य जराजातिमथनं जनयिष्यसि अमरगर्भसुकुमारं।
देवी दिवि भुवि महितं हितं हितकरं नरमरूणां॥
मा खु जनयी विषादं परिकर्म वयं तवं करिष्यामः।
यत्कर्तव्यमुदीरय दृश्यतु कृतमेव मा चिन्ता॥
मातरमबाधमानो प्रादुर्भूतो मनापो मायाये।
दक्षिणपार्श्वेन मुनिः सुसंप्रजानो परमवादी॥
अथ विविधरतननिचया नगरनगरा अनेकसहस्राणि।
प्रज्वलि प्रभा च विमला प्रादुर्भूते नरवरेन्द्रे ति॥

न खलु भो धुतधर्मधर सो अस्ति सत्वो सत्वनिकाये यो चरमां जातिं समन-
न्तरजातं बोधिसत्वं समर्थो व्याकर्तुं अन्यत्र शुद्धावासेभ्यो देवेभ्यः॥ तत्रेदमुच्यते॥

अंशुकसुवेष्टितशिरा अष्ट सहस्रा महेश्वरवराणां।
ब्राह्मणवेषधराणां अभिगच्छि पुरं कपिलवस्तु॥
ते राजकुलद्वारे वरवसनधरा वराभरणधारी।
उपगम्य मुदितमनसा प्रतिहारमुवाच सत्ववरा॥
शुद्धोदनमुपगम्य ब्रूवीहि इमे लक्षणगुणविधिज्ञा॥
तिष्ठन्ति अष्टसहस्रं प्रविशेदिति यद्यनुमतन्ते॥
एतं श्रुत्वा वचनं प्रतिहाररक्षो उपेत्य राजवरं।

(१५०)

कृतांजलिपुटः प्रणम्य इदं उवाच नराधिपतिं॥
सुखं अतुलबल दीप्तिद कारय राज्यं चिरं निहतशत्रुः।
द्वारे ते अमरसदृशा तिष्ठन्ति प्रवेष्टुमिच्छन्ति॥
प्रतिपूर्णविमलनयना मधुरस्वरमत्तवारणविचारी।
भवति मम तेषु संका न ते मनुष्या मरुसुतास्ते॥
परिचंक्रमतां तेषां धरणिरजः क्रमवरा न संकिरति।
न च तेषु सन्धिशब्दः चंक्रमतां श्रुय्यति कदाचित्॥
गम्भीरमधुरचेष्टा आर्याकारा प्रशान्तदृष्टिपथा।
विपुलां जनेन्ति प्रीतिं जनस्य समुदीक्षमाणस्य॥
निःसंशयं नरवरा पुत्रवरं उपगता तवं द्रष्टुं।
देवगणपुरुषप्रदेवं अभिवाद्य नन्दितुं नरसिंहं॥
एतं श्रुत्वा वचनं प्रतिहाररक्षं नराधिपोवाच।
मयि भो कृताभ्यनुज्ञा प्रविशन्तु निवेशनमुदारं॥
अमरप्रवरगणास्ते गगनसमनिभा विशुद्धकर्मान्ता।
प्रविशेन्सुः पार्थिवकुलमहीनकुलवंशमुख्यस्य॥
शुद्धोदनो पि राजा महेश्वरां दूरतो निशामेत्वा।

(१५१)

प्रत्युत्थित आसनातो सपरिजनो गौरवबलेन॥
अभिवादते नरपतिः स्वागतमनुरागतं च सर्वेषां।
प्रीता स्म दर्शनेन प्रशमदमबलेन च भवतां॥
संविद्यन्ते इमानि वरासनानि वररूपविकृतानि।
आस्तां ताव भवन्तो अस्माकमनुग्रहार्थाय॥
अथ तेष्वासनवरेषु कनकरजतवर्णचित्रपादेषु।
विगतमदमानदर्पाः ते तत्र सुखं निषीदेन्सुः॥
ते किंचिदेव कालं निषणमात्रा नराधिपमुवाच।
शृण्वतु भवां प्रयोजनं यं अस्माकमिह गमनाय॥
सर्वानवद्यगात्रो पुत्रस्तवं अनुजातो....................।
लक्षणपारमिप्राप्तो....................................................॥
वयमपि लक्षणकुशला दोषगुणां लक्षणैर्विजानाम।
यदि न गुरु तव सुतन्ते पश्येम महापुरुषरूपं॥
सो वदति एथ पश्यथ सुव्यपदेशक्षेमं मम पुत्रं।
मरुमनुजकीर्तियशसं लक्षणगुणपारमिप्राप्तं॥
अथ मृदुककाचलिन्दिकप्रवेणिशयितं च कनकवर्णाभं।
उपनयति पार्थिववरो नरमरुपरिवन्दितं सुगतं॥
आलोकयित्व दूरा महेश्वराः क्रमवरान्नरवरस्य।

(१५२)

मूर्ध्ना विगलितमकुटा धरणिवरतले प्रणिपतेन्सुः॥
गोक्षीरविमलचन्द्रं महीतले मूर्ध्नं प्रतिष्ठापेत्वा।
दशबलमभिनन्दन्ताः स्थिता सुचिरकालमभिकांक्षितं इति॥

जाता खलु भो धुतधर्मधर बोधिसत्वाः सर्वाणि मानुष्यकानि शिल्पानि अना-
चार्यका प्यनुतिष्ठन्ति॥

न खलु भो धुतधर्मधर बोधिसत्वाः तुषितभवनात्प्रभृति कामां प्रतिसेवन्ति॥
भो जिनपुत्र को हेतुः कः प्रत्ययः यं अप्रहीणेहि क्लेशेहि बोधिसत्वाः कामा न
प्रतिसेवन्ति राहुलश्च कथमुत्पन्न इति। एवमुक्ते आयुष्मान्महाकात्यायन आयुष्मन्तं
महाकाश्यपमुवाच॥ परिपिण्डत्वात्कुशलस्य बोधिसत्वा कामां न प्रतिसेवन्ति
कल्याणाध्याशयत्वात् अग्राध्याशयत्वात्प्रणीताध्याशयत्वाच्च बोधिसत्वा कामा न
प्रतिसेवन्ति। अकामकामित्वात् ज्ञानध्वजत्वात् अतत्परायणत्वा स्पृहानुपस्थित-
त्वाद्बोधिसत्वाः कामां न प्रतिसेवन्ति। आर्यत्वात् अनीचत्वात्कुशलपरिभावितत्वाच्च
बोधिसत्त्वाः कामान्न प्रतिसेवन्ते परमपुरुषसंभावितत्वाच्च लोकस्य
सम्यक्संबुद्धो
भविष्यतीति॥ अथ राहुलस्तुषितकायाच्च्यवित्वा मातुः यशोधरायाः क्षत्रियक-
न्यायाः कुक्षिमवतीर्ण इति। एवमनुश्रुयते भो धुतधर्मधर॥ राजानश्चक्रवर्तिनः
औपपादुका बभूवु॥ तद्यथा कुसुमचूडः हेमवर्णः गान्धर्वः सुमालः रत्नदण्डः सुवि-

(१५३)

मानः आर्जवः मान्धाता सुनयः सुवस्त्रः बहुपक्षः तोरग्रीवः मणिविरजः पवनः
मरुदेवः सुप्रियः त्यागवां शुद्धवंशः दुरारोह इति इत्येवमादयश्चक्रवर्तिगणाः
औपपादुका आसन्नतथा राहुलभद्र इति॥

कथं भो धुतधर्मधर बोधिसत्वा अभिनिष्क्रमणसंपन्ना भवन्ति॥ भूतपूर्वं भो
जिनपुत्र बोधिसत्वो अभिनिष्क्रान्तः॥ राजकुलगतः छन्दकं गाथयाध्यभाषते॥

क्षिप्रं छन्दक कण्ठकमुपनीत्वा मा चिरं विलम्बाहि।
संग्राममहं दुर्जयं जयिष्ये अद्य भव वूदग्रो॥
सो वाष्पपूर्णवदनो परिनिःश्वसन्तो
छन्दकः सशोकरवितानि समुत्थितानि।
वाष्पाणि मुञ्चति इमानि प्रबोधनार्थं
सुप्तस्य पार्थिवजनस्य....................॥
किं दानि आविगलिता वरकोशभारा
वाष्पौघसंस्तरगता मदनाभिभूता।
लालस्यसोकपरिदेवितकाल एव
सुप्ता इदानि यद जाग्रणदेशकालः॥
देवी पि नाम सुचिरं प्रतिजागरित्वा
सौदामनीप्रतिमरूपनिभा शयाना।
निर्याणकालसमये नरलम्बकस्य
वरसुरपुरे सुरवधूप्रतिमा सलीला॥

(१५४)

सा दानि तस्य महिषी मनुजेश्वरस्य
माता सवत्सलविशालसुचारुनेत्रा।
संप्रश्यमान करुणं प्रियविप्रयोगं
निद्राभिभूत न विजानति आलपन्तं॥
सा दानि कुञ्जरवराश्वसमाप्तयोधा
नाराचप्रासशरशक्तिविचित्रवर्मा।
सेना कहिं वसति कं वा गुणं करोति
या शाक्यपुङ्गवं न बुध्यति निष्क्रमन्तं॥
कं बोधयामि मम को नु भवे सहायो
किं वा करोमि देवसे अपि विप्रनष्टे।
हा हेमकाञ्चननिभेन किल विहीनो
राजा जहिष्यति सबन्धुजनो शरीरं॥
तं देवसंघ अवची मधुरप्रलापी
किं छन्दका लपसि किं ति विहन्यितेन।
नैतस्य मारकपुत्राण्यपि उद्यतानि
विघ्नं समर्थ जनयेयु कुतो पुनस्त्वं॥
भेरिमृदङ्ग यदि शंखसहस्रशब्दं
कुर्यात्कोचित्कपिलवस्तुनि बोधनार्थ।
नैतद्विबुद्धि अमरेश्वरमादिकेहि
तं सोपितं पुरवरं हि समृद्धवारं॥
पश्यासि ताव गगने मणिरत्नचूडा

(१५५)

देवा दिवि गुरुकृतस्य वसानुवर्ती।
प्रह्वा कृतांजलिपुटा प्रणिपत्य मूर्घ्ना
त्वं बन्धु त्वं च शरणं ति नमस्यमाना॥
तत्साधु कण्ठकमुपानय नायकस्य
गोक्षीरहेमवपुषं सहजं तुरंगं।
न ह्यस्ति सो भुवि दिवि नरलम्बकस्य
यो विघ्नं कुर्या उपनेहि तुरंगश्रेष्ठं॥
सो तं प्रफुल्लकुमुदाकरकुन्दगौरं
संपूर्णचन्द्रवपुषं सहजं तुरङ्गं।
तस्य महागुणधरस्य वचाभितुन्नो
सुश्रूषकारि उपनामयते रुदन्तो॥
एषो ति नाथ वरलक्षणभूषिताङ्गो
सज्जः सुद्योतचरणो ललिताग्रगामी।
यं दानि ते ध्यवसितं वररूपधारि
तन्ते समृध्यतु विशालभुजान्तरांशा॥
शत्रुश्च ते ग्रबल दुर्बलभग्नशूको
शीघ्रं तपेतु तव तेजवराभिभूतः।
आसा च ते नरलम्बक महार्थयुक्ता
संपूर्यतां कनकपर्वतसन्निकाशा॥
ये तुभ्य विघ्नकरा ते तु अपक्रमन्तु

(१५६)

श्रेयावहा तु ति बलं विपुलं लभन्तु।
यं च व्रतं समुपगच्छसि तस्य पारं
गच्छासि मत्तवरवारणखेलगामि॥

मणिकुट्टिमा च वसुधा राजकुले कण्ठकस्य पादेहि।
समनिहता रसति मधुरं निशां स्फुरति अद्भुतं शब्दं॥
चतुरश्च लोकपाला विगलितमकुटा प्रलम्बवरमालाः।
कण्ठकपादेषु करां न्यसन्ति रक्तोत्पलसकाशां॥
अग्रतो वज्रवरधरो त्रिदशगुरू आबद्धमणीचूडो।
इन्द्रो सहस्रनयनो गच्छति पुरतो नरवरस्य॥
संज्ञाकृतमात्रमिदं कण्ठको वहतीति वादिशार्दूलं।
देवा प्रवरकरहृतं वहन्ति अंशुप्रवरवर्षं॥
निष्क्रम्य नगरवरातो अवलोकयि पुरवरं पुरुषसिंहो।
न तं पुनरहं प्रवेक्ष्यमप्राप्य जरामरणपारमिति॥

एवमभिनिष्क्रमणसंपन्ना खलु भो धुतधर्मधर सम्यक्संबुद्धा इति। न प्रतिबलो
खल्वहं भो धुतधर्मधर बोधिसत्वस्य गर्भावक्रान्तिमादौ कृत्वा यावदभिनिष्क्रमणतो
विस्तरेण भाषितुं कल्पं कल्पावशेषं वा न च गुणा समन्ता शक्यमभिगन्तुं॥
इत्यपि बहुगुणसंपन्ना सम्यक्संबुद्धा इति॥

(१५७)

बोधिमूलमुपगम्य चाप्राप्तायां सर्वाकारज्ञतायां पंचचक्षुसमन्वागता भवन्ति॥
एवमुक्ते आयुष्मान्महाकाश्यप आयुष्मन्तं महाकात्यायनमुवाच॥ विस्तरेण भो
जिनपुत्र पंच चक्षूणि परिकीर्तय अवहितश्रोता देवमनुष्यसंकुला परिषा सर्वभूतगणा
इति॥ एवमुक्ते आयुष्मान्महाकात्यायन आयुष्मन्तं महाकाश्यपमुवाच॥ पंच
इमानि भो धुतधर्मधर सम्यक्संबुद्धानां चक्षूणि भवन्ति॥ कतमानि पंच॥ मा-
न्सचक्षुः दिव्यचक्षुः प्रज्ञाचक्षुः धर्मचक्षुः बुद्धचक्षुः॥ इमानि भो धुतधर्मधर पंच
चक्षूणि सम्यक्संबुद्धानां भवन्ति असाधारणानि प्रत्येकबुद्धेभ्यः अर्हन्तेभ्यः शैक्षेभ्यः
सर्वबालपृथग्जनेभ्य इति। तत्र भो धुतधर्मधर मान्सचक्षुस्तथागतानां॥ याये
प्रभाये समन्वागतं याये शूक्ष्मदर्शनाये समन्वागतं याये तत्त्वदर्शनाये समन्वागतं
तन्मान्सचक्षु अन्यस्य सत्वस्य सत्वकाये नास्ति॥ प्राप्ते च सर्वदर्शित्वे बोधिसत्वा
यावत्तकमवकाशमवलोकयितुमिच्छन्ति तं दर्शनं तत्र अप्रतिहतं प्रवर्तते। किं
कारणं॥ विपुलकुशलसंचितत्वात्॥ तद्यथापि नाम ऋद्धिबलेन राजा चक्रवर्ति
सार्धं चतुरंगिनीया सेनाये वैहायसं द्वीपातो द्वीपं संक्रामति तथेदं पि द्रष्टव्यं॥
सम्यक्संबुद्धानां चरिते ऋद्धिबलेन अनाकांक्षमाणानां निश्चलां वसुमतिं प्रतिक्र-
मन्तानां उन्नता च ओनमति ओनता न उन्नमति तथैतदपि द्रष्टव्यमित्येवमादिना

(१५८)

लक्षणमात्रेण सम्यक्संबुद्धानां मान्सचक्षुः निरुपदिश्यते॥ न च कल्पेन सम्यक्सं-
बुद्धानां मान्सचक्षुस्य शक्यं गुणपर्यन्तमधिगन्तुं॥ किं कारणं॥ न हि किंचित्स-
म्यक्संबुद्धानां लोकेन समं॥ अथ खलु सर्वमेव महर्षिणां लोकोत्तरं॥ तथा हि
सम्यक्संबुद्धानां समुदागमः सो पि लोकोत्तरो॥ तच्च सम्यक्संबुद्धानां मान्सचक्षुषः
वर्णं प्रवृत्तं स्थानं च यथान्येषां सत्वानां सत्वकाये॥ येन चक्षुषा भौम्या देवाश्च
यक्षाश्च राक्षसाश्च कामावचराश्च रूपावचराश्च देवाः ततो विशिष्टतरं च विपुलतरं
च स्फुटतरं च सम्यक्संबुद्धानां दिव्यचक्षुः॥ तत्प्रवृत्तं मनोमयेषु रूपेषु॥

येनेह प्रज्ञाचक्षुषा समन्वागता चक्षुत्वपरीक्षया अष्टमकादिका पुड्गला यावदर्ह-
त्पुद्गला इति अतो परिव्यक्ततरं सम्यक्संबुद्धानां प्रज्ञाचक्षुः॥ तत्र कतमं सम्यक्सं-
बुद्धानां धर्मचक्षुः॥ स दशानां बलानां मनोविभुता। तत्र कतमानि दश
बलानि॥ तद्यथा

स्थानास्थानं वेत्ति प्रथमं बलं अप्रमेयबुद्धीनां।
सर्वत्रगामिनीं च प्रतिपदं वेत्ति बलं द्वितीयं॥
नानाधातुकं लोकं विदन्ति ख्यातं बलं तृतीयं।
अधिमुक्तिनानात्वं वेत्ति चतुर्थं बलं भवति॥
परपुरुषचरितकुशलानि वेत्ति तत्पंचमं बलं च।

(१५९)

कर्मबलं प्रतिजानन्ति शुभाशुभं तद्बलं षष्ठं॥
क्लेशव्यवदानं वेत्ति सप्तमं बलं ध्यानसमापत्तिं वेत्ति।
अष्टमं बलं पूर्वनिवासं वेत्ति बहुप्रकारं॥
बलं नवमं भवति परिशुद्धदिव्यनयना भवन्ति।
सर्वक्लेशविनाशं प्राप्नोन्ति दशमं बलं भवति॥

एतानि मनोविभुबलानि यैः सर्वदर्शी दिवि भुवि च जातकीर्तिः दशबल इत्येव-
माख्यातो॥ यं एतेषु दशबलेषु मनोविभुज्ञानं इदमुच्यते धर्मचक्षुरिति॥ तत्र
कतमं बुद्धचक्षुः॥ अष्टादशावेणिका बुद्धधर्माः॥ तद्यथा अतीते
अंशे तथागतस्य
अप्रतिहतं ज्ञानदर्शनं। अनागते अंशे अप्रतिहतं ज्ञानदर्शनं। प्रत्युत्पन्ने अंशे
अप्रतिहतं ज्ञानदर्शनं। सर्वं कायकर्म ज्ञानपूर्वंगमं ज्ञानानुपरिवर्ति। सर्वं वाचाकर्म
ज्ञानपूर्वंगमं ज्ञानानुपरिवर्ति। सर्वं मनोकर्म ज्ञानपूर्वंगमं ज्ञानानुपरिवर्ति।
नास्ति छन्दस्य हानिः। नास्ति वीर्यस्य हानिः। नास्ति स्मृतिये हानिः। नास्ति
समाधीये हानिः। नास्ति प्रज्ञाये हानिः। नास्ति विमुक्तीये हानिः। नास्ति
खलितं। नास्ति रवितं। नास्ति मुषितस्मृतिता। नास्ति असमाहितं चित्तं।
नास्ति अप्रतिसंख्याय उपेक्षा। नास्ति नानात्वसंज्ञा। यं इमेषु अष्टादशस्वावे-
णिकेषु बुद्धधर्मेषु ज्ञानमिदमुच्यते बुद्धचक्षुरिति॥

(१६०)

एवमुक्ते आयुष्मान्महाकाश्यप आयुष्मन्तं महाकात्यायनमुवाच॥ किं पुनर्भो
जिनपुत्र भगवतो एतदधिवचनं यादृशानां भूमीनां व्याकरणं उताहो सम्यक्संबुद्धा-
नामेतदिति॥ एवमुक्ते आयुष्मान्महाकात्यायन आयुष्मन्तं महाकाश्यपमुवाच॥
एकस्मिं समये भो धुतधर्मधर भगवां वाराणस्यां विजहार ऋषिवदेने मृगदावे
अष्टाविंशतीनां वशीभूतशतानां पुरस्कृतः॥ तत्र भगवता अष्टादश बुद्धधर्मा वि-
भक्ताः अतीते अंशे अप्रतिहतं ज्ञानदर्शनमेव सम्यक्संबुद्धानां भवतीति दश भूमयो
समुत्कीर्तये॥ शाक्यमुनिं सम्यक्संबुद्धं आदौ कृत्वा दश भूमयो देशिता॥ तत्रेदे-
मुच्यते॥

प्रियाणि वस्तूनि ददाति चक्षुमां
चिरं प्रसन्नेन मनेन संसरन्।
ततो प्रियं बुध्यति ज्ञानमुत्तमं
स्वयं महीमण्डगतो तथागतो॥
विचित्रवस्त्राभरणैरलंकृताः
स्त्रियो ददाति परितुष्टमानसो।
विचित्रमस्य प्रतिज्ञानमद्भुतं
उदीर्यते तस्य फलेन कर्मणः॥
न शक्तिनाराच न प्रासतोमरा
प्रासेसि सत्वेषु भवेषु संसरन्।
तथास्य मार्गोऽतृणखण्डकण्टको

(१६१)

अघाति ग्रामां नगरां च संसरन्॥
स्वकस्य दासस्य पि धर्मवादिनः
शृणोति सत्कृत्य कथां न च्छिन्दति।
ततो स्य धर्मं ब्रुवतो महाजने
न कश्चि नो रम्यति नो च तुष्यति॥
प्रणीतदानानि ददाति.........
विनेति कांक्षाञ्च तथैव संशयं।
ततो स्य कायात् ज्वलनार्चिसन्निभा
प्रभा समुत्तिष्ठति शीतलप्रभा॥
न कस्यचिद्याचनकस्य याचना
भवन्ति बन्ध्या नरदेववेशिता।
ततो अबन्ध्या भवि तस्य देशना
तदद्भुतं मारबलप्रमर्दने॥
मनोरमां काञ्चनतालपर्णियो
जिनेषु देन्ति परितुष्टमानसाः।
ततो अनालोकिया लोकबान्धवा
सदा च लोकेषु .. एतदद्भुतं॥
उपानहा रत्नमया च पादुका
ददाति नित्यं परितुष्टमानसः।

(१६२)

ततः सदा चंक्रमते नरोत्तमः
असंस्पृशन्तो चतुरंगुलं महीं॥
परेहि उक्तो परुषं पुनः पुनः
प्रभुः समानो क्षमते न ऊहते।
ततो पियं चंक्रमतो सपर्वता
समुन्नतान्तोनमति वसुन्धरा॥
करोति दीनान नयेन संग्रहं
पतन्तमभ्युद्धरते महाजनं।
ततो स्य रत्नामयरत्नसंचया
समोनता उन्नमते वसुंधरा॥

स्वगुणपरिकीर्तनेन च सम्यक्संबुद्धेन बुद्धानुस्मृतिर्नाम धर्मपर्यायो भाषितः॥
तस्य पर्यवसाने आयुष्मता वागीसेन सम्यक्संबुद्धो संमुखमभिस्तुतो॥

नमो स्तु ते बुद्ध अनन्तदर्शन
समन्तचक्षुः शतपुण्यलक्षण।
हितानुकम्पी परमार्थकोविद
नमामि त्वां वल्गुगिराहि गौतम॥
तारेसि तीर्णो जनतां महामुने
न भायसि क्षेमकराग्रपुद्गल।

(१६३)

यथातथं स्थानमभिप्रकाशयं
विनेसि सत्ये अमृते बहुं जनं॥
शीलं महर्षिस्य अनन्तदर्शिनः
गम्भीरमार्यं विपुलं सुभाषितं।
शीले विशिष्टो त्वमरिप्रमर्दनः
इमस्मिं लोके परतश्च सुव्रतः॥
अखण्डमच्छिद्रमकाचमव्रणं
अनाश्रवन्ते चरणं महामुने।
शुचि विशुद्धिं परमां गतो सदा
विरोचसे नगशिखरे यथानलो॥
चित्तस्थितित्वे असि पारमिंगतो
वशी समाधिस्मि तथापि पुद्गल।
चित्ते वशी त्वं वशितां परां गतः
वंकावकाशा विगतो विरोचसे॥
यथेच्छकं अरणसमाधि शान्तर
............ देवनरेषु अर्चित।
निवेशसन् काञ्चनदामप्रभः
नमो स्तु ते गौतम सत्यविक्रम॥
विरोचनो नभसि यथा महाप्रभो
शुद्धे नभे पंचदशीय चन्द्रमा।

(१६४)

तथा समाधिस्मि स्थितो विरोचसे
सुवर्णमुत्तप्तमिवात्र पुद्गला॥
आकांक्षमाणा विगता विपण्डिता
सत्वा न जानन्ति समन्त-उद्यमां।
सुखं समाधिं अरणानि सेवतो
नमो स्तु ते देवमनुष्यपूजित॥
यदा च आलोकसि नागगामि
यदा च आगत मरणाय पारं।
मतीस्मृतीमां विमलेन चेतसा
तदा अयं भूतधरा प्रकम्पते॥
सत्या अभिसमेतिय दर्शनं तथा
स्वयं अभिज्ञाये अनुश्रुतं पुरा।
इमां गिरां व्याहर अग्रपुद्गल
सहस्रनेत्रो मघवां व शोभसे॥
इदं समाप्तं व्यसनं महद्भयं
इतो न भोति अग्रे अस्य संभवो।
तस्यावरोधानमधो प्रवर्तते
निर्वाति वातान स्वरो व पाकः॥
विमुक्तिचित्तस्य विमुक्तिदर्शना
अचिन्तिया तर्कपथेन निश्रिता।

(१६५)

p. 166

असंकिया वीरगिरा विरोचते
या सा सुवेला मृदु सत्यसंभवा॥
अनुद्धतां तां च गिरां प्रकाशय
त्वं...........हि जनस्य् सन्निधौ।
ते तुह्य श्रुत्वा मदुरां सुभाषितां
पिबन्ति तृष्णार्त इवाम्भसार्णवे॥
हतेषु त्वं प्राणिषु मैत्रं चिन्तय
ऐश्वर्यऋद्धिं प्रतिभानमुत्तमं।
श्रेष्ठेषु धर्मेषु हि पारमीगतो
यथा न कोची इह लोकधातुये॥
प्रज्ञा च ते अस्ति अनुत्तरा मुने
सर्वस्मि लोकेऽप्रतिमा अनोपमी।
त्वमेव श्रेष्ठो सकलस्य प्राणिनो
शिलोच्चयानां यथ मेरुपर्वतः॥
न ते स्ति तुल्यो सदृशो समानो
कुतोत्तरो गुणेषु गुणंधरस्य।
त्वमेव श्रेष्ठो परमार्थपुद्गलो
धर्माण निर्वाणमिवाचलं सुखं॥
रागं च मोहं च प्रहाय दोषं
मानं च म्रक्षं तसिणां च जालिनीं।

p. 167

विराजसे दोषविमुक्तमानसो
यथा शशी पूर्ण इव नभे शुभे॥
यदत्र सत्यं तुवं मार्गसे ऋजुः
सेतुर्महा सत्पुरुषेण सेवितः।
इमां गिरं व्याहर अग्रपुद्गल
सहस्रनेत्री मघवां व शोभसे॥
क्लेशैर्विमुक्तं विमलं सुशान्तं
निषेव सत्वशरणं समाधिं।
हिताय भूतानभिभुर्विराजसे
रवी यथा देवमनुष्यपूजितः॥
अनिश्रितः त्वं इह च परत्र च
ध्यायन्तो ध्याने रमसे प्रतिष्ठितः।
वन्दन्ति देवा बहवो समागता
नमस्कृतं प्रांजलियो महामुनिं॥
बहुधा बहुप्रकारं चक्षुं भवते विशुद्धचक्षूणां।
जरामरणमर्दनान बुद्धान अदान्तदमकानां॥
लोकोत्तरा भगवतो चर्या लोकोत्तरं कुशलमूलं।
गमनं स्थितं निषणं शयितं लोकोत्तरं मुनिनो॥
यत्तत्सुगतशरीरं भवते भवस्य बन्धनक्षयकरणं।

p.168
लोकोतरं तदपि भो इत्यत्र न संशयः कार्यो॥
चीवरधरणं मुनिनो लोकोत्तरं अत्र संशयो नास्ति।
आहाराहरणमथो लोकोत्तरमेव सुगतस्य॥
देशना नरनागानां सर्वलोकोत्तरा मता।
यथातथं प्रवक्ष्यामि माहात्म्यं वरबुद्धिनां॥
देशकालवशं प्राप्य परिपाकं च कर्मणः।
सत्यं वा अभिनिवृतं धर्मं देशेन्ति नायकाः॥
लोकानुवर्तनां बुद्धा अनुवर्तन्ति लौकिकीं।
प्रज्ञप्तिमनुवर्तन्ति यथा लोकोत्तरामपि॥
ईर्यापथां दर्शयन्ति चत्वारः पुरुषोत्तमाः।
नो च परिश्रमस्तेषां जायते शुभकर्मिणां॥
पादां च नाम धीवन्ति न चैषां सज्जते रजः।
पादाः कमलपत्राभा एषा लोकानुवर्तना।
स्नायन्ति नाम संबुद्ध न चैषां विद्यते मलो।
बिम्बे कनकबिम्बाभे एषा लोकानुवर्तना॥
दन्तधोवञ्च सेवन्ति मुखं चोत्पलगन्धिकं।
निवसनं निवासेन्ति प्रावारं च त्रिचीवरं॥
चैलं वातानि वायित्वा विकोपेन्ति न देहकं।

p. 169
वस्त्रं पुरुषसिंहानां एषा लोकानुवर्तना॥
छायायां च निषीदन्ति आतपश्च न बाधति।
बुद्धानां शुभनिष्यन्दानां एषा लोकानुवर्तना॥
औषधं प्रतिसेवन्ति व्याधि चैषां न विद्यते।
नायकानां फलं महन्तं एषा लोकानुवर्तना॥
प्रभूश्च कर्म वारयितुं कर्मं दर्शयन्ति च जिना।
ऐश्वर्यं विनिगूहन्ति एषा लोकानुवर्तना॥
करोन्ति नाम आहारं न चैषां बाधते क्षुधा।
जनताया उपदार्थं एषा लोकानुवर्तना॥
पिबन्ति नाम पानीयं पिपासा च न बाधते।
तदद्भुतं महर्षिणां एषा लोकानुवर्तना॥
चीवराणि निवासेन्ति सदा च प्रावृतो जिनः।
यथारूपो भवे देवो एषा लोकानुवर्तना॥
क्लेशां च ओरूपयन्ति न चैषां छिन्दते क्षुरः।
केशां नीलाञ्जननिभां एषा लोकानुवर्तना॥
जरां च उपदेशेन्ति न चैषां विद्यते जरा।
जिना जिनगुणोपेता एषा लोकानुवर्तना॥
कल्पकोटीमसंख्येयां पुण्येषु पारमिंगता।
आरब्धमुपदेशेन्ति एषा लोकानुवर्तना॥

p. 170
न च मैथुनसंभूतं सुगतस्य समुच्छ्रितं।
मातापितृञ्च देशेन्ति एषा लोकानुवर्तना॥
दीपंकरमुपादाय वीतरागस्तथागतः।
राहुलं पुत्रं दर्शेति एषा लोकानुवर्त्तना।
कल्पकोटीमसंख्येयां प्रज्ञापारमितां गता।
बालभावं च दर्शेन्ति एषा लोकानुवर्तना॥
असन्मन्त्रा विभाषित्वा अस्मिं लोके सदेवके।
पुनः पर्येषन्ति तीर्थे एषा लोकानुवर्तना॥

बोध्यित्वामतुलां बोधिं सर्वसत्वान कारणा।
अल्पोत्सुकत्वं प्रदेशेन्ति एषा लोकानुवर्तना॥

परमगुणसंपन्ना वचनसंपन्नाश्च सर्वे सम्यक्संबुद्धा॥ षष्टिभिः गुणैः सम्यक्संबुद्धानां वाचा समन्वागता भवति॥ कतमेहि षष्टिभिः॥

गीतरवमधुरवादी नरवरवचना विनिश्चरति वाचा।
वीणारववेणुरवा हंसरवरुता सुगतवाचा॥
जीमूतरसितमधुरा परभृतरथनेभितुल्यनिर्घोषा।
सागरनर्दितसारसप्रभावा वरबुद्धिनो वाचा॥
किन्नरकलविंकरुता मेघवरस्वररवा वरगजरुता। थिस्मुच्

p. 171
ऋषभमृगराजरसिता वाचा वरलक्षणधराणां॥
दुन्दुभिरवबम्भीरा वनदेव‍अनिलविधूतस्वरप्रपाता।
भूमीविक्षोभनरवा गिरा नरमरुप्रधानानां॥
पंचांगिकतुल्यरवा प्रलुलितकलहंसबर्हिणनिवाता।
बिम्बोष्ठसुतनुजिह्वा जिनवदना निश्चरति वाचा॥
गन्धर्वगीतमधुरा जलधाराणां निपाततुल्यरवा।
अविस्तरपिण्डितरवा गिरा गुणवरप्रधानानां॥
वरकिंकणीकसलीलसुसंचिता हेमजालतुल्यरवा।
आभरणघट्टितरवा भुवि दिवि च गिराप्रधानानां॥
नातिद्रुता अनमन्ती अनुपच्छिन्ना विवर्तते मधुरा।
गलितपदसंचयवती वाचा वरलक्षणधराणां॥
सर्वामेवानुचरति परिषां यदि लोकधातुनयुतानि।
विज्ञापयते सर्वां परिषां सुमधुरा वाचा दशबलानां॥
शकयावनचीणरमठपल्हवदरदेषु दस्युपरिषायां।
एकविधमुच्यमाना सर्वविषयचारिणी भवति॥
परिषां नातिक्रमते निश्चरमाणा गिरा नरवराणां।

p. 172
न वर्धते न च हायति गिरा स्थितलया दशबलानां॥
न च भिद्यते न नुद्यति न च उपतप्यते ..........।
न च विखलखलखलायति अभिस्वररुता सुगतवाचा॥
न च सा अपशब्दवती शब्दभ्रष्टा अशेषं अनुयुक्तशब्दा।
शब्देषु कुशलाकुशलां सर्वां जनतां प्रहर्षयति॥
वदना सुविमलदशना निश्चरति गिरा यदा गुणधराणां।
माद्यन्ति शकुनसंघा गगणतलगता वनगताश्च॥
यो यस्य स्वर अभिमतः सा तं पूरयति तस्य संकल्पं।
सुगतवचनप्रभूता वाचा परिषदि विचरमाणा॥
वरवासनसहितघोषा गिरिनदिनिर्घोषसन्निभा शुद्धा।
उत्क्रोशकुरररुतनया प्रभवति वाचा वररुतानां॥
शकुन्तजीवंजीवक जिनवाचा कनकतालपत्ररवा।
पटुपटहप्रवदमृदंगचाटुस्वरतुल्यनिर्घोषा॥
आज्ञेया विज्ञेया गम्भीरभीष्मरूपा कर्णसुखा।
हृदयंगमा च नित्यं वाचा वरपारमिगतानां॥
वल्लकिश्रवणीया च प्रेमणिया च गिरा गुणधारीणां।
विपुलशुभसंचयानां सर्वेषां अनन्तयशसानामिति॥

p. 173
यथाभूतं देशिता वाचा॥ सम्यक्संबुद्धा एवं धर्मं देशयन्ति॥ नाहं भिक्षवो ये धर्मा अनित्यास्ते नित्यतो देशयामि। नापि ये धर्मा नित्या ते अनित्यतो देशयामि। नापि ये धर्माः दुःखास्ते सुखातो देशयामि। नापि ये धर्मा सुखा ते दुःखातो देशयामि। नापि ये धर्मा अनात्मीया ते आत्मतो देशयामि। नापि ये धर्मा आत्मीयास्ते अनात्मतो देशयामि। नापि ये धर्मा अशुभास्ते शुभतो देशयामि। नापि ये धर्माः शुभास्ते अशुभातो देशयामि। नापि ये धर्मा रूपिणस्ते अरूपिणो देशयामि। नापि ये धर्माः कुशलास्ते अकुशलातो देशयामि। नापि ये धर्मा अकुशलास्ते कुशलातो देशयामि। नापि ये धर्मा अनाश्रवाः ते साश्रवा ति देशयामि। नापि ये धर्माः साश्रवास्ते अनाश्रवा ति देशयामि। नापि ये धर्माः व्याकृतास्ते अव्याकृता इति देशयामि। नापि ये धर्मा अव्याकृतास्ते व्याकृतास्ते व्याकृता इति देशयामि। नापि ये धर्मा हीनास्ते प्रणीता इति देशयामि। नापि ये धर्मा प्रणीतास्ते हीना इति देशयामि। नापि ये धर्माः गृहाश्रितास्ते नैष्क्रम्याश्रिता इति देशयामि। नापि ये धर्मा नैष्क्रम्याश्रितास्ते गेहाश्रिता इति देशयामि॥ अथ खलु भो धुतधर्मधर सम्यक्संबुद्धाः सत्यवादि कालवादि भूतवादि अर्थवादि तथावादि अनन्यथावादि अवितथवादि धर्मवादि विनयवादि इति॥

p. 174
भूतपूर्वं भो धुतधर्मधर तुषितभवनकायिको देवपुत्रो शिखरधरो नाम बोधिसत्त्वः सम्यक्संबुद्धं ऋषिवदनगतआं वानारस्यां वनवरे वरचक्रप्रवर्तनदिवसे भगवन्तं संमुखाभिरध्यभाषे सगौरवः सप्रतीसः प्रह्वः कृतांजलिपुटः॥

साधु ते साधुरूपस्य वाचा न प्रतिहन्यते।
साधु अर्थान्विता साध्या वाचा तव मनोरमा॥
साधु सुस्वरसंयोगा वर्णसन्धिगुणान्विता।
साधु सत्यानि चत्वारि प्रवदसे महामुने॥
साधु ते देवगन्धर्वा पिबन्ति मधुरां गिरां।
साध्विहाप्रतिमं चक्रं प्रवर्तेसि अनिवर्तिकं॥
तुभ्यं लोके समो नास्ति रूपे वर्णे कुले बले।
ईर्यापथे च वीर्ये च ध्याने ज्ञाने शमे दमे॥
अद्य हृष्टा दश वीर कोट्यो ते प्रथमे फले।
विनीता देवपुत्राणां शासने प्रथमे मुने॥
त्रिंश कोट्यो प्रभो वीर विनेसि प्रथमे फले।
द्वितीये शासने नर देवपुत्राण एव च॥
पञ्चाश कोटीयो भूयो शासने तृतिये मुने।
विनीता देवपुत्राणां अपायेहि विमोचिता॥

p. 175
अशीति कोटीयो भूयो श्रोतापत्तिफले विभू।
चतुर्थे शासने दमेत्वा दुर्गतीहि विमोक्षिताः॥
तस्मात्ते सदृशो नास्ति मैत्राय पुरुषोत्तम।
करुणाये कारुणिको भूतो भूयो नरर्षभ॥
हृष्टा पुरुषशार्दूला उत्पन्ना लोकसुन्दरा।
हिताय सर्वसत्वानां विचरन्ति महामुने॥
अतिचिरस्य राजसुत उत्पन्नो सि नरर्षभ।
प्रणेता विप्रनष्टानां आर्त्तानां नयनन्दनं॥
मा च कदाचिद्भूतगुरु नाथो अन्तरहायतु।
अपर्यन्तं तव स्थानं भवति लोकबान्धव॥
अपाया तनुकीभूता स्वयम्भू तव तेजसा।
अनोकाशा कृता स्वर्गा त्वां प्राप्य पुरुषोत्तम॥
यस्य मिथ्यात्वनियतो राशिः पुरुषपुद्गल।
एष वानियतं राशिं त्वां प्राप्य पूरयिष्यते॥
यस्याप्यनियतो राशिः त्वां प्राप्य सुरवन्दित।
पूरयिष्यति सो राशिं सम्यक्तेजकुलोदित॥
अद्भुतानां च धर्माणां विशुद्धिरुपलभ्यते।
त्वां प्राप्य पुरुषादित्य तमोन्तकरमुच्यतं॥

p. 176
तस्य ते भाषमाणस्य भूतां धर्मां जिनर्षभ।
अभिनन्दन्ति वाक्यन्ते सेन्द्रा लोका महामुने॥
इति स्तुवन्ति देवगणा वरदं प्रीतिमानसा।
अनन्तगुणसंपन्नं संस्तवार्हं नरोत्तममिति॥

उपचारविधिसंपन्ना भो धुतधर्मधर सम्यक्संबुद्धा कालज्ञानसमर्थका विशुद्धनेत्रा अनुच्चावचदर्शना पूर्वान्तनयसंपन्ना उच्छ्रापितधर्मध्वजा निष्प्रतिमानध्वजा कलहरणनिशातका प्रवचनविदुषो अनवसानज्ञानाः समये च आवुसादयन्तो अनयनानां प्रवर्तकाः अपमार्गककुत्सका इति॥ तत्रेदमुच्यते॥

सर्वाकारगुणोपेता सर्वे सर्वार्थनिश्चिता।
प्रनेतारो विनेतारो बुद्धा बुधजनार्चिताः॥
असंकीर्णेन ज्ञानेन विशुद्धेन मनेन च।
त्रिषु लोकेषु भ्राजन्ते पूर्णचन्द्र इव नभे॥
चरणेन मनोज्ञेन सतां कान्तेन नायकाः।
नदन्ति च महानादं सम्यक्कुशलसंभवाः॥
शासन्ति जनतां वीरा उपचारेषु निश्चिताः।
विवादं परसत्वानां मथन्ति तत्त्वदर्शिनः॥
लोके जाता नरश्रेष्ठा न च लोकेन लिप्यथ।
प्रज्ञप्तिसमतिक्रान्ता गम्भीरविषया विभूः॥

p. 177
गुरुं धुरं समारोप्य न विषीदन्ति पण्डिता।
यथावादीतथाकारी अनुपक्रुष्टचारणा॥
दृष्टिविषं तं घोरं च दग्ध्वा ज्ञानाग्निना प्रभूः।
अनुत्त्रासितासन्त्रस्ता परं प्रदन्ति प्राणिनां॥
कान्तारं समतिक्रम्य क्षेमं प्राप्य नरर्षभाः।
आह्वायन्ति जनधीरा इहैव निर्भयं इदं॥
जरामरणरोगाणां उत्पत्ति नेह विद्यते।
इह आयासशोकानां प्रवृत्तिर्नोपलभ्यते॥
ते तस्य वचनं श्रुत्वा मधुरं देवमानुषा।
अनुशास्तिं तथा कृत्वा प्रतिपद्यन्ति तत्सुखं॥
तेनास्ति कीर्तिविस्तीर्णाः त्रिषु लोकेषु चोत्तमाः।
चरन्ति अर्चिता सद्भि न चैव प्रशमन्ति ते इति॥

परोपहारांश्च भो धुतधर्मधर उपहरन्ति सम्यक्संबुद्धाः सत्वानामनुग्रहार्थं॥ तद्यथा कलिंगराज्ञः कुसुमाये देव्या परोपहारं भगवां वृत्तवां ध्रुवस्य श्रेष्ठिनो वचनोपहारं भगवां वृत्तवां॥

तथैव च राजगृहे परोत्तमे
परोपहारं भगवां प्रवृत्तवां।

p. 178
समुत्कर्षेसि स्वविधानकोविदो
उपालिनो तं वचनोपहारं॥
तथा परं मेरुतटे समागतां
स वादिसिंहो वशिनां वशी वशी।
परोपहारं भगवां स भिक्षु-
संघस्य तं इदमवचा महामुनिरिति॥
एतां सर्वां प्रवक्ष्यामि उपहारां मनोरमां।
तस्य सत्वप्रधानस्य शृणु विक्रीडितं शुभं॥
उत्पन्ने पुरुषश्रेष्ठे धर्मचक्रे प्रवर्तिते।
कलिंगराजा कारयति राज्यं स्फीतमकण्टकं॥
नामेन अभयो नाम तस्येदं दर्शनं अभूत्।
शुभाशुभानां कर्माणां फलं नास्तीति निश्चयः॥
परलोको तथा नास्ति दानफलं क्वचिद्यत्र।
वीतरागो वीतदोषो वीतमोहो न विद्यते॥
सो तं च दर्शनं प्राप्य जनतां सन्निपातयेत्।
स्वकां दृष्टिं समाख्याति पश्चाच्च न निवर्तते॥
यदि मह्यं पिता ब्रूयात्प्रत्यक्षं मम अग्रतः।
स्वयमुपगम्य एवन्तच्छ्रद्दधे तदा तथा॥
सर्वदा स तदा आसि शीलवां मैत्रमानसो।

p. 179
यदि तस्य फलमस्ति तस्य देवपुरं गतिः।
देवभूतो मम ज्ञात्वा इमां दृष्टिं विमोचयेत्।
इत्युत्क्रास्ति परलोको दृष्टिं मुञ्चाहि पापकां॥
यस्य च परलोकस्य प्रवृत्तिर्नोपलभ्यते।
तस्मात्पिता ममागत्वा संप्रहर्षयतु मानसं॥
ततो लोकानुकंपार्थं कारुणो महद्विशारदः।
कलिंगराजस्य रूपं निर्मिणति स्वयं मुनिः॥
प्रासादवरमारुह्य अन्तःपुरगतो तथा।
अन्तःपुरस्य दर्शेति यत्तं प्रकृतिदर्शनं॥
ततो स निर्मितो राजा अन्तरीक्षगतस्थितः।
राजानमभयं धीरो उवाच पुरुषोत्तमः॥
परित्यज्य स्वकार्याणि परकार्येषु व्यापृतः।
मिथ्यादर्शनसंयुक्तं अराज्यं राज्यसंज्ञितं॥
अद्य भवे गती तुभ्यं नरको दारुणो महत्।
ये च ते दर्शयिप्यन्ति तेषामपि च सा गति॥
अन्यान् हि विहतो हन्ति नष्टो नाशयते परां।
अन्धीकरोति अन्या पि स्वयमन्धव्यपत्रपो॥
समुष्टो मुषसे अन्या मृतो च मारसे परां।
सुखितानपि सत्वा त्वं दुःखापयसि दुर्मते॥
निमग्नो कामपंकस्मिं गृद्धु कामेषु मूर्च्छितः।

p. 180
परलोकं द्रष्टुकामो धर्माणां नयनं नृपः॥
अस्थानमेतं भूमिपति यस्त्वं कामपरायणः।
असमर्थो तर्हिः गन्तुं परलोकमिमं प्रभो॥
आस्वादं पि तु कामेषु बुद्ध्वा दोषन्तथैव च।
कामे निःसरणज्ञस्य ते वै जाने परंपरां॥
एतच्छ्रुत्वा नरश्रेष्ठो अभयो कम्पितो भयात्।
प्रह्वो इदमुवाच तं अन्तरिक्षे सुदर्शनं॥
श्रद्दधामि तं ते देव एवमेतं न अन्यथा
प्रसीद भव मे नाथ अभयं परिमोचय॥
तद्वसान्तःपुरामात्यः शास्ता मे अप्रतिपुद्गलः।
विनयवशी तवास्मि तथान्या जनता बहु॥
परोपहार इत्येषस्तेन परमबुद्धिना
वृत्तो अनुग्रहार्थाय सत्वानां वरबुद्धिना।
देवी कुसुम्भराजस्य कुसुमा इति विश्रुता।
इष्टा कुसुम्भराजस्य स्त्रीसहस्राणमुत्तमा॥
तस्य माता पिता चैव जीर्णा दण्डपरायणा।
धीतरमेवमाहन्सु कुसुमे पुत्रि हे शृणु॥
वयं जीर्णा तुवं बाला कामप्रलुलिता असि।

p. 181
इच्छेम प्रतिसृज्यन्तौ इच्छेम मरणमात्मनः॥
एतच्च वचनं श्रुत्वा कुसुमा लभते मतं।
अवर्णो यं मम अस्या य्द्यम्बातातो प्रघात्यते॥
दास्यामि विषसंयुक्तं भक्तमेषां सुदारुणं।
भुक्त्वा येन उभावेतौ मरिष्यन्ति न संशयः॥
यदास्या निश्चिता बुद्धि मातापितृषु दारुणा।
ततो उत्पादये शास्ता कारुण्यं कुसुमां प्रति॥
ततः कुसुमाये शास्ता मातरं पितरं तथा।
अपनामयति संबुद्धो अन्यौ स्थापेति निर्मितौ॥
कुसुमा विषसंयुक्तं तं भोजनमापद्यति।
निर्मितानाह भुंजन्तु अम्बा तातो च भोजनं॥
अविकम्पमाना भुंजन्ति भोजनं जिननिर्मिताः।
न चैषां बाधते किंचित्कायं निर्मितका हि ते॥
द्वितीयं दिवसं चैव तृतीयं चतुर्थं पंचमं।
विषसंयुक्तं भुक्त्वान सुधां व यापेन्ति निर्मितौ॥
ततः कृतांजली भूत्वा कुसुमा निर्मितां ब्रवीत्।
आत्मानं मे निवेदयथ अनुग्राह्या यदि अहं॥
तां याचमानां प्राञ्जलिकां कुसुमां निर्मिता ब्रवीत्।

p. 182
या तवापत्ति जानाथ तथा च अनुतिष्ठथ॥
बुद्धः पुरुषशार्दूलः द्वात्रिंशवरलक्षणः।
उत्पन्नः कुलसंपन्नः सर्वविद्यागुणान्वितः॥
तस्य सर्वआं गुणाभूतं अतीतानागतस्थितं।
विदितं वादिसिंहस्य अत्र विजह संशयं॥
प्रासादवरमारुह्य सस्त्र्यागारो स पार्थिवः।
याचेद्दर्शनमिच्छाम वयं सर्वार्थदर्शिनः॥
तं सर्वगुणसम्पन्नं वन्दित्वा शरणं व्रजे।
ततो अस्माकं यं तत्रैव पृच्चसि वक्ष्यते जिनो॥
साधूति प्रतिश्रुत्वान निर्मितां प्रति सो तदा।
राजा सान्तःपुरो शीघ्रं प्रासादमभिरूढवां॥
सत्वरं स प्रह्वो राजा सस्त्र्यागारो कृतांजलिः।
इमां व्याहरते राजा वाचां कुसुमया सह॥
ये सर्वगौणसंपन्ना लोकानामनुकम्पका।
गृहीता अत्यन्तं तेषां सांजली सौमनस्यका॥
ततो अमन्त्रये शास्ता श्रावकांछासने रतां।
चारुवर्णं सिंहहनुं दृढबाहुं अनिन्दितं॥
कीर्तिमन्तं महानागं च चातुरन्तं महाबलं।
नीलकेशं च वृद्धं च शान्तं शास्त्रविशारदं॥
तथा शारसमतुल्यं गुप्तकाममनिन्दितं।

p. 183
सिंहनन्दिं विशालाक्षं लक्षणेयमनुत्तमं॥
एष भिक्षवो गच्छामि शास्तारमनुबन्धथ।
कुसुमां प्रमुखां कृत्वा विनेष्यामि बहुं जनं॥
साधूति ते प्रतिश्रुत्वा वशीभूता स्वयंभुवः।
परिवारयित्वा संबुद्धं इदं वचनमाहु ते॥
अस्माकं पि पादो वीरा विहंगमध्यमक्रमः।
अनुयास्याम संबुद्धं यत्र गच्छति चक्षुमां॥
निमेषान्तरेण संप्राप्तो भगवां शिष्यसंवृतः।
नगरं कुसुमायास्तु अनुकम्पाय प्राणिनां॥
आकारं वज्रपाणिस्य नायको अभिनिर्मिणे।
देवसंघं च मनसा ध्याये ध्यानविशारदः॥
प्रभामण्डलमुत्सृजे योजनानि चतुर्दश।
देवता च अभिवादेन्ति यात्रां परमबुद्धिनः॥
ततो च कुसुमा देवी प्रह्वी सुगतमब्रवीत्।
एषा ते प्राञ्जली नाथ पादां इच्छामि वन्दितुं॥
ततः प्रतिष्ठितो शास्ता प्रासादवरमूर्धनि।
प्रभया च दिशा सर्वा अभिभूय यस्यस्करः॥
ततो च कुसुमा देवी सह राज्ञा जिनक्रमां।
वन्दते परिवारो च देविये नरपुङ्गवं॥
शरणं त्वां नरश्रेष्ठ गच्छाम सुरवन्दित।
मातरं पितरं हत्वा कीदृशं लभते फलं॥

p. 184
शृणोहि कुसुमे सत्यं मातापितृवधे फलं।
अनन्तरं महावीचिं नरकं उपपद्यते॥
ततो बुद्धानुभावेन शास्ता वदथकोविदः।
कुसुमाया महावीचिं उपदर्शेति नायकः॥
ततो च कुसुमा देवी निरयं त्रस्य दारुणं।
अश्रुवेगं प्रमुञ्चन्ती इदं वचनमब्रवीत्॥
मातापितृभ्यां कारुणिका दुष्टचित्तस्य कीदृशं।
परलोके फलं भवति यत्सत्यं तदुदीरय॥
दुष्टचित्तस्य कुसुमे तं चित्तं स्यादमुञ्चियं।
तदेव परलोकस्मिं फलं सद्यं च हिंसया॥
ततो च प्रतिनिःसृजति कुसुमा दारुणं मनं।
पुरतो धर्मराजस्य प्रीतिसुखसमर्पिता॥
ततो कामान आस्वादं भाषते सर्वकोविदः।
आदीनवं च कामानां भाषते पुरुषोत्तमः॥
ततो कामानां निःसरणं भाषते चिन्त्यविक्रमः।
गुणान्वदति निर्वाणे अद्भुतां भूतदर्शिमान्॥
कुसुमां प्रमुखां कृत्वा कोटीयो द्वादश मुनिः।
मानुषाणां विनयति उपहारो अयं इति॥
ध्रुवो नाम अभूच्छ्रेष्ठी नगरे काशिवर्धने।
तस्येदं दर्शनं पापं मातापितृसमागमे॥
यो मातरं च पितरं च जीर्णकं गतयौवनं।

p. 185
ज्ञातिपक्षं समानेत्वा भक्ष्यभोज्येन तर्पयेत्॥
अग्निस्कन्धे च ज्वलिते दाहयेय पितॄनुभौ।
उपहारो विधातव्यो तस्य पुण्यमनन्तकं॥
राक्षसीनां सहस्राणि नायको अभिनिर्मिणि।
प्रासादवरसुप्तस्य ध्रुवस्य पुरतः स्थिता॥
दण्डहस्ता कशाहस्ता शक्तिहस्ता तथैव च।
कुठारहस्ता असिहस्ता उल्काहस्ता तथैव च॥
अथ तोमरहस्ता च नाराचशतपाणियो।
कुन्तमुद्गरहस्ताश्च श्रेष्ठिस्य पुरतः स्थिताः॥
धिक्कृतां धिकृतां दृष्टिं प्राप्तो सि पुरुषाधमा।
धिकृतं मिथ्यात्वमासाद्य न श्रद्दधितुमर्हसि॥
ये ते दुष्करकर्तारः ये ते पूर्वोपकारिणः।
मैत्रचित्ता आपन्नेषु तेषु त्वं वधमिच्छसि॥
येषां न शक्यं प्रतिकर्तुं अपत्येन कथं चन।
सर्वरत्नं पि ददता तेषां त्वं वधमिच्छसि॥
जीवितात्ते मृतं श्रेयो न च दर्शनमीदृशं।
यः त्वं सुपुरुषाचीर्णं दर्शनं प्रतिबाधसे॥
अद्य ते जीवितं नास्ति सभार्यस्य सबन्धुनः।
सभृत्यस्य सपुत्रस्य प्रेत्य च निरयं गतिः॥
इमंहि नाम एवं वा मारिष भद्रमस्तु वः।
मिथ्यादर्शनसम्पन्नं मूढापण्डितमानसं॥

p. 186
परां अन्यां पि जनतां ग्राहेन्तं पापदर्शनं।
ध्रुवं श्रेष्ठिं विनाशेम आर्यदर्शनकुत्सकं॥
एतन्तु वचनं श्रुत्वा ध्रुवो उद्विग्नमानसः।
स्वस्विन्नगात्रो प्रह्वश्च बभूव त्रस्तमानसः॥
भ्रान्तचित्तो दिशोवेक्षी त्रस्तो भवति मानसः।
कृतांजलिपुटो भूत्वा इदं वचनमब्रवीत्॥
रक्षोगणो प्रसीदंतु परिवारस्य मह्य च।
युष्मे गतिश्च लेनश्च मम शरणमेव च॥
आज्ञापयथ किं कृत्वा मह्याद्य अभयं भवे।
मम सबन्दुवर्गस्य न चागच्छेय दुर्गतिं॥
ते च ब्रवीन्सु भूतगणा ध्रुवं श्रेष्ठिं नभे स्थिता।
मा अस्माकं शरणं गच्छ तमेव शरणं व्रज॥
हितैषिणं सर्वभूतानां बुद्धं धुतजनार्चितं।
सर्वलोकोत्तरं वादिं शाक्यसिंहं मनोरमं॥
कहिन्नु सो........ भगवां भूतवन्दितो।
वयं पि तं नरश्रेष्ठं गच्छेम शरणं मुनिं॥
एषो सर्वगुणोपेतः पुरे रतनखोलके।
नानाकुसुमसंछन्ने उद्याने गन्धमादने॥
वशीभूतसहस्राणां नवतीहि पुरस्कृतो।
विहारकुशलो धीरो तत्र विहरते मुनिः॥

p. 187
तं त्वं शरणं गच्छाहि सर्वेहि ज्ञातिभिः सह।
तं च पश्य नरादित्यं तां च दृष्टिं परित्यज॥
यं च सो देशते धर्मं दृष्टान्तविहितं शुभं।
तं च प्रज्ञाय पश्याहि एवन्ते जीवितं भवेत्॥
अगत्वा च तुवं श्रेष्ठि न ध्रुवं प्रतिपत्स्यसे।
इदन्ते मरणं सद्यं तं श्रद्धानो समाचर॥
ततः श्रेष्ठि सबन्धुजनो भूत्वा सुदीनमानसो।
मूर्ध्निना पतितो भूमौ यतो सो पुरुषोत्तमः॥
सर्वाकारगुणोपेतो महाकारुणिको मुनि।
सबन्धुपक्षो शरनं उपेमि त्वा महायशा॥
भीतस्य भयान्तकर अभयं दातुर्महसि।
सपक्षो भो महासत्व अहं भयपरायणो॥
इच्छामि चरणं शास्तुः वन्दितुं वादिनां वर।
द्रष्टुमिच्छामि सत्पुरुषं अनुग्राह्या यदि वयं॥
ततो अभ्युद्गतो शास्ता वशीभूतपुरस्कृतः।
निमेषान्तरेण संप्राप्तो सत्वानुकंपाय नायकः॥
तं दृष्ट्वा गगणे स्थितं दान्तं क्षान्तं पुरस्कृतं।

p. 188
सौमनस्यं समुत्पन्नं श्रेष्ठिस्य सह बन्धुभिः॥
शरणं वादिशार्दूलं श्रेष्ठी यत्र उपागतः
सुजातदर्शनत्वं च श्रेष्ठी पर्यधिगच्छसि॥
तस्यात्ययं नरश्रेष्ठो परिगृह्य तथागतो।
सत्यवादी उदीरेति सत्यानि चतुरो मुनिः॥
शुभाशुभानां कर्माणां फलं विस्तरशो विभुः।
प्रकाशये नरादित्यो सिंहो वा नदते वने॥
सिंहनादं इमं श्रुत्वा श्रेष्ठि परिजनैः सह।
प्राप्नोति मधुरं सत्यं फलं प्रथमके क्षणे॥
यत्तस्य परिकर्म तत्कृतं पन महर्षिणा।
तमाहुरुपहारो ति सर्वधर्मविशारदाः॥
तरुर्नाम अभू राजा द्वीपे कस्मिं चि सागरे।
तस्य दर्शनमुत्पन्नं पापकं बालिशप्रियं॥
यो ब्राह्मणं वा श्रमणं वा अन्यं वापि वनीयकं।
आमन्त्रेत्वा न भोजयते तमाहुः श्रेष्ठलक्षणं॥
महाजनं निमन्त्रेत्वा बहूं च शूद्रब्राह्मणां।
यो बुभुक्षायमानेति कृत्वा कारानिबन्धनं॥

p.189
उत्तरागमने कुलुवा महेशाख्यो महायशाः।
प्रभूतवस्त्राभरणो तत्र सो चोपपद्यते॥
ग्राहेति जनतां राजा एवं पापेन चेतसा।
ते तस्य वचनं श्रुत्वा श्रद्दधाति महाजनः॥
एतं दर्शनं विज्ञाय देवगन्धर्ववन्दितः।
पंच भिक्षुसहस्राणि क्षणेन निर्मिणे मुनिः॥
ते तं द्वीपमुपागम्य तरुर्यत्र जनाधिपः।
राज्यं पालयते तत्र चंक्रमिषु वशीगणा॥
ते तु नराधिपो दृष्ट्वा निर्मिता भिक्षुवर्णिता।
वाहनतोतरित्वान वन्दित्वा पादमब्रवीत्॥
निमन्त्रयामि ऋषयो प्रीतो भक्तेन तत्त्वतः।
अधिवासेन्तु मे ऋषयो अनुग्राह्या यदि वयं॥
अधिवासितं विदित्वा ततो निर्धावते पुनः।
पादां वन्दित्वा ऋषीणां गतो राजकुलं स्वकं॥
रात्रिं प्रभातां विज्ञाय राजपुरुषमब्रवीत्।
गच्छ त्वं ऋषयोपगम्य सिद्धेन त्वं निमन्त्रय॥
ते च प्रवेशिता राज्ञा ऋषि वेशमत्यद्भुतं।
शरण्यं गुणसंपन्नं दृढार्गलसुयन्त्रितं॥
सप्ताहे समतिक्रान्ते राजा तां प्रत्यवेक्षते।

p.190
अदीनमुखवर्णाश्च ध्यायन्ते भिक्षुवर्णिता॥
सो भूयः परिवर्जेत्वा निर्मित मनुजाधिपः।
द्वितीयं समतिक्रम्य द्वितीये प्रत्यवेक्षते॥
तृतीये च चतुर्थे च पंचमे षष्ठसप्तमे।
नवमे दशमे सप्ताहे इदं वचनमब्रवीत्॥
देवा च नागा गन्धर्वा यक्षा च गुह्यकासुरा।
आगता ऋषिरूपेण मम संवेगकारणात्॥
निवेदयथ आत्मानमनुग्राह्या यदि वयं।
अथास्माकमनुग्राह्यो आत्मानं परिवेदये॥
अनुग्राह्यो सि भूमिपते इदं वचनमुवाच ते।
यद्वयं वचनं ब्रूम तथा तमनुतिष्ठत॥
एषो काशीपुरे शास्ता वाराणस्यां वने शुभे।
पारगः सर्वधर्माणां सर्वसंशयसूदनः॥
प्रासादवरमारुह्य याचे प्रहूः सबान्धवः।
इच्छाम पुरुषश्रेष्ठं द्रष्टुमप्रतिपुद्गलं॥
स एतद्वचनं श्रुत्वा तथेति उदपादयि।
अथ वैहायसं शास्ता तं द्वीपमुपसंक्रमीत्॥
वशीभूताश्च चत्वारो कुंजरो करभोगजः।

p.191
वारणो थ महाध्यायि मनापो थ समागता॥
ते पश्यितून संबुद्धं विरोचन्तं शशिप्रभं।
तथा स्तुवन्ति प्रांजलियो भूतधर्मगुरुं गुरु॥
प्रसन्नचित्ता सुमना सर्वाकारगुणान्विता।
नाथ मरुमनुष्याणां नमस्ते नरलम्बक॥
को नाम त्वं महासत्व महातेजा महाद्युते।
महाबुद्धि महाबाहु यथातथमुदीरय॥
राजवंशसमुत्पन्नो धर्मराज्यप्रतिष्ठितः।
शरणं सर्वभूतानां अहं बुद्ध इति विदुः॥
अहं मरुमनुष्याणां नाथो नेता विचित्सकः।
अहं संशयान्तकरः संबुद्धो देववन्दितः॥
एतच्छ्रुत्वा तरु राजा संबुद्धमिदमब्रवीत्।
नमस्ते वादिशार्दूल सर्वसंशयसूदन॥
प्रासादवरमारुह्य सबन्धुपक्षो सज्जना।
सराष्ट्रो शरणं गच्छामि तस्य नो शरणं भव॥
स्वकं च दर्शनं राजा समाख्याति महर्षिणः।
तच्छ्रुत्वा नरशार्दूलो राजानमिदमब्रवीत्॥
न ते लाभा भूमिपते यस्त्वं दुर्गतिगामिनं।

p.192
पापं श्रद्दधसे मार्गन्तां दृष्टिं प्रतिनिःसृज॥
तां दृष्टिं प्रतिनिःसृज्य राजा वचनमब्रवीत्।
धर्ममाख्याहि मां धीर यत्र दुःखं निरुध्यते॥
तस्य च धर्मसंयुक्तं भावये पुरुषोत्तमः।
कुशलं सर्वसत्वानां बुद्धधर्मविशारदः॥
सो तं धर्मं विजानित्वा राजा परिजनैः सह।
त्रीणि संयोजनां त्यक्त्वा प्राप्तवां प्रथमं फलं॥
असंख्येया च जनता प्राप्तवान्प्रथमं फलं।
पश्य सत्पुरुषा राजं मैत्रिया बलमुत्तमं॥
ये तत्र निर्मिता भिक्षुः न चैते भिक्षुणो मता।
उपहारं वदन्त्येतं जिना शास्त्रविशारदाः॥

अस्थानमेव जिनपुत्र यदा स्थूलाहि भूमिहि।
तत्पुरे अधिगच्छेयुः सर्वज्ञत्वं तथागताः॥
कालं व नातिनामेन्ति परिपूर्णाहि भूमिहि।
दर्शेन्सु वादिशार्दूला इत्येवं पुरुषोत्तमा॥
वाराणसीं वनं गत्वा बुद्धधर्मपुरस्कृतो।
विस्तरेण प्रकाशयति नायको भूमयो दश॥
नयानयज्ञाः संबुद्धाः सर्वपरमतं विदुः।
अध्याशयं परीक्षन्ति जातका सर्वप्राणिनां॥
मधुरेण सुगीतेन नयेन गुणदर्शिनः।

p.193
सुविनीता बहु जनता संबुद्धेन प्रजानता॥
न जायन्ति न जीर्यन्ति न मृयन्ति कथं चन।
परमं मित्रमासाद्य विनीता वरबुद्धिना॥
गम्भीरचरितं धीरा प्रजानन्ति परस्परं।
अनन्तप्रतिभानं च सर्वे सर्वाङ्गशोभना इति॥

इति श्रीमहावस्तु अवदाने अभिषेकवती नाम
दशमा भूमिः समाप्ता॥

शिखरे गृद्धकूटस्मिं पंचानां वशीभूतशतानां समवाये दशभूमिकं नाम उपदेशमुखं भाषितं॥ समाप्तं दशभूमिकं॥ ये सत्वा बुद्धत्वाय प्रणिधेन्ति तेहि उद्देशितव्यं दशभूमिकं बोधिसत्वानां च दृष्टसत्यानां श्रद्दधानानां दातव्यं नान्येषां एते ह्यत्र श्रद्दधाना अन्ये विचिकित्सेयुः॥

समाप्ता आदिभूमी यावद्दशमा दशभूमयः महावस्तुपरिसरं॥

दीपंकरवस्तुस्यादिः। इतो महामौद्गल्यायन अपरिमिते असंख्येये कल्पे राजा अर्चिमां नाम अभूषि चक्रवर्ती कृतपुण्यो महेशाख्यो सप्तरत्नसमन्वागतो चातुर्द्वीपो विजितावी अनुरक्तपौरजानपदो धार्मिलो धर्मराजा दश कुशला कर्मपथा समादायवर्ती॥ तस्य सप्त रतनानि अभूत्। तद्यथा चक्ररत्नं हस्तिरतनं अश्वरत्नं मणिरतनं स्त्रीरतनं गृहपतिरत्नं परिणायकरतनं एवं सप्तरत्नं॥ पूर्णं चास्य पुत्र सहस्रं अभूषि शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानां॥ सो इमां चत्वारि महाद्वीपां सागरगिरिपर्यन्तां अखिलां अकण्टकां अदण्डेनाशास्त्रेणानुत्पीडेन धर्मेणेमां अभिनिर्जिणित्वा अध्यावसि॥ अर्चिमतो खलु पुनः महा

p.194
मौद्गल्यायन राज्ञो दीपवती नाम राजधानी अभूषि द्वादश योजनानि आयामेन पुरस्तिमेन च पश्चिमेन च सप्त योजनानि विस्तारेण दक्षिणेन च उत्तरेण च सप्तहि प्राकारेहि परिक्षिप्ता अभूषि सौवर्णेहि सुवर्णप्रच्छन्नेहि॥ दीपवती खलु पुनर्महामौद्गल्यायन राजधानी सप्तहि तालपंक्तिहि परिक्षिप्ता अभूषि चित्राहि दर्शनीयाहि सप्तानां रत्नानां सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फटिकस्य मुसारगल्वस्य लोहितिकायाः॥ सर्वर्णस्य तालस्कन्धस्य रूप्यमयं पत्रं च फलं च अभूषि। रूप्यमयस्य तालस्कन्धस्य मुक्ताया पत्रा च फला च अभूषि। मुक्तामयस्य तालस्कन्धस्य वैडूर्यमया पत्रा च फला च अभुषि। वैडूर्यमयस्य तालस्कन्धस्य स्फटिकस्य पत्रा च फला च अभूषि। स्फटिकमयस्य तालस्कन्धस्य मुसागल्वमया पत्रा च फला च अभूषि। मुसागल्वमयस्य तालस्कन्धस्य लोहितिकामया पत्रा च फला च अभूषि। लोहितिकामयस्य तालस्कन्धस्य मुक्तामया पत्रा च फला च अभूषि॥ तेषां खलु पुनः महामौद्गल्यायन तालानां वातेरितानां वातसंघट्टितानां घोषो निश्चरति वल्गु मनोज्ञः आसेचनको अप्रतिकूलो श्रवणाय॥ तद्यथापि नाम पंचाङ्गिकस्य तूर्यस्य कुशलेहि वादकेहि सम्यक्सुप्रवादितस्य घोषो निश्चरति वल्गु वल्गु मनोज्ञो आसेचनकः अप्रतिकूलो श्रवणाय॥ एवमेव...........भो महामौद्गल्यायन तेन कालेन तेन समयेन दीपवतीये राजधानीये मनुष्या अभूषि शुण्डापेया ते तेन तालपत्रनिर्घोषेण पंचहि कामगुणेहि समर्पिता समङ्गीभूता क्रीडेन्सु रमेन्सु प्रविचारेन्सु॥
दीपवती खलु पुनर्महामौद्गल्यायन राजधानी सप्तहि वेदिकाजालेहि परिक्षिप्ता अभूषि चित्राहि दर्शनीयाहि सप्तानां वर्णानां सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फटिकस्य मुसागल्वस्य लोहितिकाया॥ सौवर्णस्य पादकस्य रूप्यमयी सूचिका

p.195
आलम्बनमधिष्ठानकं चाभूषि। रूप्यमयस्य पादकस्य मुक्तामया सूचिका आलम्बनमधिष्ठानकं च अभूषि। मुक्तामयस्य वैडूर्यमयी वैडूर्यमयस्य स्फटिकमयी स्फटिकमयस्य मुसारगल्वमयी मुसारगल्वमयस्य लोहितिकामयी। लोहितिकामयस्य पादकस्य सौवर्णिका सूचिका आलम्बनमधिष्ठानकं च अभूषि॥ ते च खलु पुनर्महामौद्गल्यायन वेदिकाजाला द्विहि हेमजालेहि प्रतिच्छन्ना अभूषि सुवर्णमयेन च हेमजालेन रूप्यमयेन च॥ सौवर्णस्य हेमजालस्य रूप्यमयीयो किंकिणियो अभूषि। रूप्यमयस्य हेमजालस्य सौर्वर्णिका किंकिणिका अभूषि॥ दीपवतीयं खलु पुनः राजधानीयं समन्ततो त्रीणि त्रीणि द्वाराणि अभूषि चित्राणि दर्शनीयानि सप्तानां रत्नानां सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फटिकस्य मुसागल्वस्य लोहितिकायाः॥ तेषां खलु पुनर्महामौद्गल्यायन द्वाराणां द्विन्नां वर्णानां व्यामोत्संगा अभूषि सुवर्णस्य च रूप्यस्य च। द्विन्नां वर्णानां तुला अभुन्सुः सुवर्णस्य च रूप्यस्य च। द्विन्नां वर्णानां अनुवर्गा अभुन्सुः सुवर्णस्य च रूप्यस्य च। द्विन्नां वर्णानां फटिकफलकानि अभुन्सुः सुवर्णस्य च रूप्यस्य च। द्विन्नां वर्णानां फलकस्तारा अभुन्सुः सुवर्णस्य च रूप्यस्य च। चतुर्णां वर्णानां पटिमोदका अभुन्सुः सुवर्णस्य च रूप्यस्य मुक्ताया वैडूर्यस्य॥ तेषां खलु पुनर्महामौद्गल्यायन द्वाराणां द्विन्नां वर्णानां एकूका अभुन्सुः सुवर्णस्य रूप्यस्य च॥ तेषां खलु पुनर्महामौद्गल्यायन द्वाराणां चतुर्णां वर्णानां इन्द्रकीलका अभुन्सु सुवर्णस्य च रूप्यस्य च मुक्ताया वैडूर्यस्य च। द्विन्नां वर्णानां कपाटानि अभुन्सुः सुवर्णस्य च रूप्यस्य च। द्विन्नां वर्णानां अर्गलपाशा अभुन्सुः सुवर्णस्य च रूप्यस्य

p.196
च॥ तेषां खलु पुनर्महामौद्गल्यायन द्वाराणां पुरतो इषिकानि मापितानि अभुन्सुः त्रिपौरुषनेखान्यानि त्रिपौरुषपरिगोह्यानि द्वादशपौरुषा उद्वेधेन चित्राणि दर्शनीयानि सप्तानां वर्णानां सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फटिकस्य मुसारगल्वस्य यानि सप्तानां वर्णानां सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फटिकस्य मुसारगल्वस्य लोहितिकायाः। ते खलु पुनर्महामौद्गल्यायन द्वारा द्विहि द्विहि हेमजालेहि प्रतिच्छन्ना अभून्सुः सौवर्णिकेन हेमजालेन रूप्यमयेन हेमजालेन॥ सुवर्णस्य हेमजालस्य रूप्यमयीयो किंकिणीयो अभुन्सुः रूप्यमयस्य हेमजालस्य सौवर्णिका किंकिणीयो अभून्सुः॥ तेषां खलु पुनर्महामौद्गल्यायन हेमजालानां वातेरितानां वातसंघट्टितानां घोषो निश्चरति वल्गु मनोज्ञः आसेचनको अप्रतिकूलो श्रवणाय। .........एवमेव महामौद्गल्यायन तेषां हेमजालानां वातेरितानां वातसंघट्टितानां घोषो निश्चरति वल्गु मनोज्ञः आसेचनको अप्रतिकूलो श्रवणाय॥ दीपवती खलु पुनर्भो महामौद्गल्यायन राजधानी अशून्या अभूषि इमेहि एवंरूपेहि शब्देहि सय्यथापि हस्तिशब्देहि रथशब्देहि पत्तिशब्देहि भेरीशब्देहि मृदङ्गशदेहि पणवशब्देहि शंखशब्देहि वेणुशब्देहि वीणाशब्देहि गीतशब्देहि वादित्रशब्देहि अश्नुथ खादथ पिबथ देथ दानानि करोथ पुण्यानि धर्मे चरथ श्रमणब्राह्मणेषु भद्रमस्तु वः ति शब्देहि॥ दीपवतीयं खलु पुनः राजधानीयं मध्ये वल्गुया नाम यष्टि अभूषि चित्रा दर्शनीया सप्तानां वर्णानां सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फटिकस्य मुसागल्वस्य लोहितिकाया द्वादशयोजनानि उद्वेधेन चत्वारि योजनानि अभिनिवेशेन॥
अर्चिमतो खलु पुनः महामौद्गल्यायन राज्ञः सुदीपा नाम अग्रमहिषी अभूषि प्रासादिका दर्शनीया अक्षुद्रावकाशा परमाये शुभाये वर्णपुष्कलताये समन्वागता॥
द्वादशेहि महामौद्गल्यायन वर्षेहि दीपंकरः बोधिसत्वो तुषितभवनातो च्यविष्यति

p.197
शुद्धावासा देवा प्रत्येकबुद्धानां आरोचयन्ति॥ बोधिसत्वो च्यविष्यति रिंचथ बुद्धक्षेत्रं॥

तुषितभवनादतिशयो च्यविष्यति अनन्तज्ञानदर्शावी।
रिंचथ बुद्धक्षेत्रं......वरलक्षणधरस्य॥
ते श्रुत्व बुद्धशब्दं प्रत्येकजिनाः महेश्वरवराणां।
निर्वांसु मुक्तचित्ता स्वयंभुनो चित्तवशवर्ती॥

द्वादशेहि महामौद्गल्यायन वर्षेहि दीपंकरो बोधिसत्वो तुषितभवनातो च्यविष्यति शुद्धावासा देवा ब्राह्मणवेषं निर्मिणित्वा मन्त्रांश्च वेदांश्च द्वात्रिंशच्च महापुरुषलक्षणानि ब्राह्मणानां वाचेन्ति यथा बोधिसत्वे इहागते व्याकरेन्सुः॥
अथ खलु महामौद्गल्यायन बोधिसत्त्वो च्यवनकाले तुषितभवनातो चत्वारि महाविलोकितानि विलोकयति। तद्यथा कालविलोकितं देशविलोकितं द्वीपविलोकितं कुलविलोकितं॥ द्विहि कुलेहि महामौद्गल्यायन बोधिसत्त्वा जायन्ति क्षत्रियकुले ब्राह्मणकुले वा॥ यस्मिं कुले महामौद्गल्यायन बोधिसत्त्वा जायन्ति तं कुलं षष्टीहि अङ्गेहि समन्वागतं भवति॥ कतमेहि षष्टीहि अङ्गेहि समन्वागतं भवति॥ अभिज्ञातं च महामौद्गल्यायन तं कुलं भवति। परिज्ञातं च तं कुलं भवति॥ अक्षुद्रावकाशं च तं कुलं भवति। जातिसम्पन्नं च भवति। गोत्रसम्पन्नं च पूर्वपुरुषयुगसम्पन्नं च। अभिज्ञातपूर्वयुगसम्पन्नं च। महेशाख्यपूर्वयुगसम्पन्नं च। बहुस्त्रीकं च। बहुपुरुषं च। अलोलं च। अलुब्धं च। अभीतं च। अदीनं च। प्रज्ञावन्तं च। शीलवन्तं च। स्वापतेयमप्रेक्षमाणं च। तं कुलं भोगां च भुंजति। दृढमित्रं च तं कुलं भवति। कृतज्ञं च। विधिज्ञं च। अच्छन्दगामि च। अदोष-

p.198
गामि च। अमोहगामि च। अभयगामि च। अवद्यभीरु च। स्थूलभिज्ञं च। पुरुषकारमतिं च। दृढविक्रमणं च। चेतियपूजकं च। देवपूजकं च। पूर्वपितृपूजकं च। क्रियाधिमुक्तं च। त्यागाधिमुक्तं च। व्रताधिमुक्तं च। लब्धपूर्वापरं च। अभिदेवघोषघुष्टं च। कुलज्येष्ठं च। कुलश्रेष्ठं च। कुलप्रवरं च। कुलवशिप्राप्तं च। महेशाख्यां च। महापरिवारं च। अश्रमपरिवारं च। अनुरक्तपरिवारं च। अभेद्यपरिवारञ्च मातृज्ञं च। पितृज्ञं च। श्रामण्यं च। ब्राह्मण्यं च। कुलज्येष्ठापचायकं च। प्रभूतधनधान्यं च। प्रभूतकोशकोष्ठागारं च। प्रभूतहस्त्यश्वगवेडकं च। प्रभूतदासीदासकर्मकरपौरुषेयं च। दुष्प्रधर्षं च तत्कुलं भवति परेहि प्रत्यर्थिकेहि प्रत्यमित्रेहि॥ यस्मिं कुले महामौद्गल्यायन बोधिसत्वा जायन्ति तत्कुलं इमेहि षष्टीहि अंगेहि समन्वागतं भवति॥ ये ते सत्वा कुलसम्पन्ना भवति एवंरूपा सत्वा महाकरुणां प्रतिलभन्ति॥
अथ महामौद्गल्यायन बोधिसत्वो च्यवनकाले महासंविधानं करोति॥ देवपुत्रसहस्राणि देवपुत्रेण उक्ता॥ षोडशहि महाजनपदेहि मध्यदेशेहि उपपद्यथ क्षत्रियमहाशालेषु च कुलेषु गृहपतिमहाशालेषु कुलेषु च राजकुलेषु च राजामात्यकुलेषु च। युष्मेहि विनीतेहि महाजनकायो विनयं आगमिष्यति॥
बोधिसत्वो च्यवनकाले अवलोकयति कहिमुपपद्यामि॥ अयं अर्चिमो राजा कतपुण्यो महेशाख्यो च चक्रवर्ती चतुर्द्वीपाधिपतिः एषो मम पिता योग्यो॥ मा-

p.199
तरमन्वेषति या प्रासादिका भवेय कुलीना च शुचिगात्रा च मन्दरागा च अल्पायुष्का च यस्या शेषा ससप्तरात्रा दश मासा आयुष्प्रमाणतो अवशिष्टा भवेन्सः॥

सर्वेषां बोधिसत्वानां जनेत्वा पुरुषोत्तमां।
चरमे सप्तमे दिवसे माता जहति जीवितं॥
अत्र किं कारणं भवति यदि सर्वज्ञमातरो।
जनेत्वा पुरुषश्रेष्ठं शीघ्रं जहन्ति जीवितं॥
वसन्तो तुषितो काये बोधिसत्वो महास्मृतिं।
लभते शुभकर्मेण परीक्षन्तो जनेत्रियं॥
यस्येह परिशेषं स्या नारीये जीवितं भवेत्।
दिवसानि सप्त मासा च दश तस्या उरमोतरेत्॥
किं कारणं अयुक्तं हि अस्मद्विधमनुत्तरं।
धारेत्वा उत्तरे काले मैथुनं परिसेवितुं॥
अथापि प्रतिसेवेयुः कामां सुगतमातरि।
न पिता देवसंघानां भिन्नवृत्तो ति वक्ष्यते॥
भगवां च नाम कामानां दोषां सततं भाषति।
अथ च लोकनाथस्य माता कामां निषेवति॥
ये च नृपतिनां वेश्मस्थानि रत्नकरण्डका।
रतनं पुरुषश्रेष्ठा भाजनं जिनमातर इति॥

समन्वेषन्तो महामौद्गल्यायन बोधिसत्वो अद्राक्षीत्॥ दीपवतीये राजधानीये

p.200
राज्ञो अर्चिमस्य सुदीपा देवी प्रासादिका च कुलीना शुचिगात्रा च मन्दरागा च अल्पायुष्का च ससप्तरात्राणि चास्या दश मासानि आयुष्प्रमाणतो अवशिष्टा॥

पश्यति विलोकयन्तो लोकं अथ अर्चिमस्य ओरोधे।
नारीं अमरवधुनिभां विद्युल्लतानिभां इव सुदीपां॥
सो तां निशाम्य जननीं आमन्त्रयते अमरां च्यविष्यामि।
अन्तिममुपेष्यि वासं गर्भे मरुमानुषसुखार्थं॥
तं अवच देवसंघो कृतांजलिपुटो वराभरणधारी।
ऋध्यतु उत्तमपुद्गल तव प्रणिधि अहीनगुणरूप॥
वयं अपि लोकहिताय मनोरमामोशिरित्व कामरतिं।
पूजार्थं तव अतिदेव मनुष्यलोके वसिष्यामो॥
ते विमलरुचिरवर्णं मन्दारवपुष्पवर्षमाकाशे।
प्रवर्षिन्सु उदग्रचित्ताः शुचिं सुमधुराहि वाचाहि॥
यममरवसना प्रशमनमनोरमा शोकदुःखविनिमिश्रा।
न नन्दसि न च निषेवसि कामानिदमद्भुतं तुभ्यं॥
यं पि अभिभूय मरुगणं जम्बूनदपर्वतोपमप्रकाशो।
उद्योतयसि दश दिशां सुरर्षभ इदं पि आश्चर्यं॥
अभिभवसि देवसंघां समहेश्वरदानवां समारगणां।
तारागणां खगचरां अमितमति इदं पि आश्चर्यं॥
किं चापि विप्रयोगं त्वया न इच्चाम भूतसंघगुरु।

p.201
अपि त्वरविन्दनयना भविष्यसि गतिर्नरमरूणां॥
अथ च्यवनकालसमये विशुद्धशतपत्रपद्मनयनस्य।
आनन्दितो मरुगणः घोषेति दिशाहि सर्वाहि॥
एषा च वर्तति कथा तुषितपुरे सा च अप्रतिमा सुदीपा।
राज्ञोऽर्चिमस्य महिषी राजानुपेत्य इदमाह॥
सा हरिणवत्सनयना विशुद्धगन्धर्ववधुनिभा श्यामा।
सहितमिदं अर्चिमस्य सुमधुरमिदमब्रवि सुदीपा॥
आभरणस्तम्भितभुजा प्रवरवसनधारिणी सखीहि सह।
त्वया विना राजर्षभ रजनीमिनां क्षपयितुं छन्दो॥
शतरश्मिस्य नरवरा प्रासादवरस्य उत्तमां भूमिं।
शयनवरमारुहे यत्र कुमुदवसनसन्निभं विमलं॥
तेन वचनेन तुष्टो देवीये अर्चिमां मनापेन।
आमन्त्रयति नरवरो परिवारमुदग्रसंकल्पो॥
प्रतिवेदयन्तु मे लघु शतरश्मिं प्रवरकुसुमसंछन्नं।
मुक्तकुसुमावकीर्णं करोथ दिवि देवभुवनं वा॥
ओसक्तपट्टदामं शतरश्मिं शोभतां चपलमेव।
वरहेमजालच्छन्नं सुमेरुवरशृंगसंकाशं॥
चतुरंगिनी च सेना सशूलनाराचतोमरविचित्रा।
परिवारयतां चपलं शतरश्मिमनोज्ञसंघातं॥
ओसृष्टा येवाज्ञा नरपतिना सज्जं एव च सर्व।
कृत्वा तत्र स्वकुलं राजानमुपेत्य इदमाहु॥

p.202
वर्षसहस्रमनूनं आयुः परिपालेतु महीपालो।
सज्जं ति विमानवरं शोभति तव हर्षसंजननं॥
अथ सा अमरवधुनिभा देवी उत्थाय आसनवरातो।
अब्रवीत् महीपतिवरं आदित्ये अस्तमितमात्रे॥
एषा समादियामि प्राणिषु अविहिंसं ब्रह्मचरियं च।
विरमामि चाप्यदिन्नान्मद्यादनिबद्धवचनाच्च॥
अखिलवचनाच्च नरवर प्रतिविरमामि तथैवं पैशुन्यात्।
परुषवचनाच्च नरपति विरमामि अयं मम च्छन्दो॥
परकामेषु च ईर्ष्यां न संजनेष्यं नापि अभिद्रोहं।
भूतेषु उपजनेष्यं विपरीतमतिं च विजहामि॥
एकादशप्रकारं शीलं सेवाम्यहं पृथिविपाल।
रजनीमिमामनूनामेवं मम जायते छन्दः॥
अपि चक्खु भूमिपाला कामवितर्को मा मां प्रतिकांक्षि।
प्रेषय मा ते अपुण्यं भवेय मम ब्रह्मचारिणिये॥
सर्वे तव संकल्पां परिपूरेमीति पार्थिवो अवचि।
अभिरम भवनवरगता अहं च राज्यं च ते वश्यं॥
सा स्त्रीसहस्रमग्र्यं अनुरक्तं गृह्य तं विमानवरं।
अभिरुह्य अभिनिषीदे मनापपरिपूर्णसंकल्पा॥
सा कञ्चिदेव कालं तस्मिं हिमकुमुदपुण्डरीकनिभे।
शयने प्रसमदमरता तुष्णींभावेन क्षेपयति।ल्

p.203
सा दानि दक्षिणेन पार्श्वेन परिन्यासे शरीरवरं।
कुसुमलता व द्रुमवरं शयनं परिवेल्लियाशयिता॥
अथ तां निशाम्य शयनोपगतां देवीं दिवि प्रमदारूपनिभां।
तुषितालया च्यविय देवगणाः प्रासादमूर्ध्नि प्रतिस्थिहिंसु॥
ते मूर्धना अभिनता सर्वे हृष्टा कृतांजलिपुटाः अमरा।
वन्दन्ति तां विपुलपुण्यधरां देवीं जिनस्य जननीं शयने॥
अथ कौतूहलपरं संजनिया बहुदेवकन्या शुचिमाल्यधरा।
जिनमातुरुपगता द्रष्टुमना प्रासादमूर्ध्नि प्रतिष्ठिहिंसु॥
उपसंक्रमित्वा शयनोपगतां देवीं निशाम्य वरविद्युनिभां।
प्रीतिसुखं विपुलं संजनिया अथ संप्रवर्षि दिविजं कुसुमं॥
मानुष्यकं पि किल एदृशकं रूपं सुजातमिदमाश्चर्यं।
कंचित्कालं स्थिहियमन्तरो नायं समा मरुवधूहि भवे॥
लीलां निशामयथ हे सखिका प्रमदायिमस्य यथ ओपयिकां।
शयने विरोचति मनं हरति विभ्राजते कनकमरीचिरिव॥
अयन्तं धरेष्यति महापुरुषं अत्यन्तदानदमशीलरतं।
सर्वाश्रवान्तकरणं विरजं किं हायते तव नरेन्द्रवधू॥
चापोदरे करतलप्रतिमे वररोमराजिविचित्रे रुचिरे।
इह सो भविष्यति अनन्तमतिः सततं अलिप्त अशुभेन शुचि॥
बहुदीर्घरात्रनिचितं कुशलं प्रमदायिमस्य विपुलं परमं।

p.204
या तं धरेष्यति अनन्तगुणं चिररात्रसन्निचितपुण्यबलं॥
अनुरूपा त्वं च प्रमदा प्रवरा माता स चैष पुरुषप्रवरो।
पुत्रो प्रहीनवनथो विरजो किं हायते तव नरेन्द्रवधू॥
अथ राक्षसा विविधरूपधरा आणत्ता दिवि परितो चपलं।
तिष्ठन्तु भो प्रवरशस्त्रधराः सर्वदिशा कुरुथ असंवरणा॥
तेषामनन्तर द्विजिह्वगणा आरक्षहेतु दिशतासु स्थिताः।
वातं पि येष चलितं श्रुणिय क्रोधं समुत्पतति अग्निसमो॥
तेषामनन्तरगताः थपिता यक्षाः प्रदीप्तशिखरा विकृता।
ये दुष्टचित्ता विनिवारयाथ मा च वधं कुरुथ कस्यचापि॥
तेषामन्तन्तरस्थिता बलवां गन्धर्वसंघो शुभरूपधराः।
आरक्षहेतु शुभचापधरा वरलक्षणा विपुलबुद्धिमतो॥
चत्वारि लोकपतिनो स्थपिता गगने स्वयंपरिवारेण सह।
अद्य च्यविष्यति किल भगवां लोकस्य अर्थसुखवृद्धिकरो॥
त्रिदशेहि सार्धं त्रिदशप्रवरो स्थितु अन्तरीक्षे वरचक्रधरो।
अचिरं च्यविष्यति च्युतिं चरमां आकांक्षमाण सुखं अप्रतिमं॥
देवीय मूले बहु देवगणा कृत्वा दशांगुलिं नताभिमुखा।
समुदीरयन्ति वचनं मधुरं उल्लोकयन्ति तुषितेषु जिनं॥
व्यवदानसन्निचितपुण्यबला समयो खु अन्तिममुपेतु भवं।
सज्जा ताव भवति ते जननी अनुकम्प दानि दुःखितां जनतां॥

p.205
एषो च्यवामि इति मुंचि गिरां शुभं वचनं उदीरयि........।
अथ सुपिनं जननि जिनस्य तस्मिं क्षणे पश्यते वरविपाकफलं॥
हिमरजतनिभो से षड्विषाणो सुचरणचारुभुजो सुरक्तशीर्षो।
उदरमुपगतो गजप्रधानो ललितगतिः अनवद्यगात्रसन्धिः॥

न खलु पुनर्महामौद्गल्यायन बोधिसत्त्वा कालपक्षे मातुः कुक्षिमवक्रामन्ति। अथ पूर्णायां पूर्णमास्यां पुष्यनक्षत्रयोगयुक्तायां बोधिसत्वा मातुः कुक्षिमवक्रामन्ति॥ उपोषधिकायां आरोहसम्पन्नायां परिणाहसम्पन्नायां व्यक्तायां अग्रयौवनमण्डप्राप्तायां विनीतायां बहुश्रुतायां स्मृतायां सम्प्रजानायां सर्वाकारप्रदक्षिणचित्तायां सर्वाकारप्रतिरूपायां प्रमदोत्तमायां बोधिसत्वा मातुः कुक्षिमवक्रामन्ति॥ बोधिसत्वेन महामौद्गल्यायन तुषितभवनगतेन च्यवनकाले प्रभा ओसृष्टा याये प्रभाये सर्वं बुद्धक्षेत्रं ओभासितं॥
देवपुत्रो देवपुत्रं पृच्चति॥

किं कारणं सुरवरेण प्रभा प्रमुक्ता
चन्द्रांशुशीतलतरा कनकावदाता।
येनासुरेश्वरगणा मनुजेश्वराश्च
प्रह्लादिता च नरका ज्वलनार्चिकल्पा॥

सो दानि आह॥

ये तत्र तत्र जनतां प्रतिपालयन्ति
संसारपंजरगतां मदनाभिभूतां।
तेषां विमोक्षकरणेन महायशेन
आमन्त्रणार्थं अनघेन प्रभा प्रमुक्ता॥

p.206
बोधिसत्वो आह॥

मुंचथ अमरा पुराणि न किल प्रामोद्यस्य अयं कालः।
जरामरणपुरं भेत्तुं कालो ज्ञानप्रहारेण॥

बोधिसत्वो स्मृतो संप्रजानो प्रदक्षिणचित्तो मातुः कुक्षिमवक्रान्तो इति॥

सो नदीय सिंहनादं नरसिंहो च्यवनकालसमयस्मिं।
अन्तरहितो क्षणेन नरेन्द्रभवने समुत्पद्ये॥
यो सो तुषितं कायं ओभासेति शुभेन वर्णेन।
देवपुराच्च्यवमानो अनतिवरो लोकप्रद्योतः॥
सब्रह्मकं च लोकं सश्रमणब्राह्मणा प्रजा सर्वा।
वर्णेनोभासेति अनतिवरः लोकप्रद्योतो॥
आस्चर्यमद्भुतमिदं पश्यथ यावत् महर्द्धिकः शास्ता।
स्मृतिमां सुसंप्रजानो मातुः कुक्षिस्मिं ओक्रान्तो॥
यावच्च नरवरप्रवर उत्तमलक्षणसमंगि अस्थासि।
माताये कुष्किस्मिं स्मृतिमतिमां संप्रजानो च॥

समनन्तरौक्रान्ते च महामौद्गल्यायन बोधिसत्वे महासत्वे मातुः कुक्षिस्मिं इयं महापृथिवी अतीव षड्विकारं कम्पे संकम्पे प्रकम्पे संहर्षणीयं च कम्पे दर्शनीयं च हर्षणीयं च मोदनीयं च प्रेमणीयं च प्रह्लादनीयं च निर्वर्णनीयं च उल्लोकनीयं च 

p.207
आसेचनकं च अप्रतिकूलं च प्रासादिकं च प्रसरणीयं च निरुद्वेगं च निरुत्त्रासं च॥ कम्पमाना च पुनर्न कंचित्सत्वं व्याबाधति यमिदं जंगमं स्थावरं वा॥

ततो अयं सागरमेरुमण्डला
प्रकम्पिता षड्विधमासि मेदिनी।
कृतो च लोको विमलो मनोरमो
महान्धकारापनुदस्य तेजसा॥
सो यं महानुभावो स्मृतिमां तुषितभवनाच्च्यवित्वान।
पाण्डरवराहकनिभो भवित्व गजरूपि षड्डन्तो॥
वीरशयने शयन्तिये पोषधिकाये विशुद्धवसनाये।
स्मृतो संप्रजानो कुशलो मातुः कुक्षिस्मिं ओक्रान्तः॥
सा च रजनीप्रभाते आख्यासो भर्तुनो मनापस्य।
राजवर पाण्डरो मे गजराजा कुक्षिमोक्रान्तो॥
तं शृणुय भर्तु राजा वैपंचनिकां समागतां अवचि।
सुपिनस्मिं अस्या सर्वे भणाथ भूतं फलविपाकं॥
ते तत्रापि अवचिंसु निमित्तिका पृच्छिता स्वयं राज्ञा।
द्वात्रिंशल्लक्षधरो कुक्षिं देवीय ओक्रान्तो॥
हृष्टो भवासि नरवर यस्य तव कुलस्मिं प्रत्युत्पन्नो।
पृथिवीधर वरगर्भो अनुपमसत्वो महासत्वो॥
यथ मय पौराणानामाचार्याणां स्वयं समुपाहृतं।

p.208
द्वे स्य गतयो अनन्या भवन्ति नरवीरशार्दूल॥
यदि आसिष्यति अगारे महीपति होति सरतनो महर्द्धिको।
नित्यानुबद्धविजयो राजशतसहस्रपरिवारो॥
अथ खलु प्रव्रजिष्यति चातुर्द्वीपां महीं विजहियान।
होहिति अनन्यनेयो बुद्धो नेता नरमरूणां॥

यावत्तका नागराजानो नागाधिपतयो ते सर्वे बोधिसत्वस्य रक्षावरणगुप्तीये औत्सुक्यमापद्येन्सुः॥ बोधिसत्वे खलु पुनर्महामौद्गल्यायन मातुः कुक्षिगते यावन्तो सुवर्णराजानो सुवर्णाधिपतयो ते सर्वे बोधिसत्वस्य रक्षावरणगुप्तीये औत्सुक्यमापद्येन्सुः॥ चत्वारो पि महाराजानो बोधिसत्वस्य रक्षावरनगुप्तीये औत्सुक्यमापद्येन्सुः॥

चतुरो पि लोकपाला रक्षामकरिन्सु लोकनाथस्य।
मा कोची अहितैषी नमुचिबलनुदं विहिंसेय॥

शक्रो देवानामिन्द्रो सुयामो पि देवपुत्रो संतुषितो पि देवपुत्रो सुनिर्मितो पि देवपुत्रो वशवर्ती पि देवपुत्रो महाब्रह्मा पि शुद्धावासो पि देवपुत्रो बोधिसत्वस्य मातुः कुक्षिगतस्य रक्षावरणगुप्तीये औत्सुक्यमापद्येन्सुः॥

सहस्राणि देवानामर्चिमपुरमुपगतानि तुष्टानि।
आरक्षार्थं......वरबुद्धिनो अमरपुरमिव॥
मनोरमं दीपवतीपुरमुत्तमं कृतमनुविशन्तेहि।
मनोमयविक्रमगतेहि अमरगणेहि अभिविरोचति॥

p.209
देवीं परिवारेत्वा महेश्वरगणानां किल सहस्राणि।
अष्टौ गगणतलगता आकाशगता अभिनिषणा॥
तेषां दानिं पृष्ठतो इन्द्रसहस्राणि विमलशिखराणि।
सुबहुनि बहुगुणस्य आरक्षार्थं निषणानि॥
तेषां दानिं पृष्ठतो देवेन्द्राणां सहस्रनयुतानि।
कामावचरा देवा निषणा गगने निरालम्बे॥
तेषां देवगणानां पृष्ठतो असुरा असुराणां च द्विजिह्वगणा।
यक्षाश्च विकृतरूपा राक्षससंघाश्च सन्निषणा॥
एताये विधिये गगणं अमरशतसहस्रसंकुलं श्रीमं।
अत्यन्तसुपरिशुद्धं कुशलपुमचितं हि विरजेन॥

महाब्रह्मा आह॥

स्वप्नान्तरे या प्रमदा ददर्श
सूर्यं नभा कुक्षिमनुप्रविष्टं।
प्रसूयते सा वरलक्षणांगं
सो भवति राजा बलचक्रवर्ति॥
स्वप्नान्तरे या प्रमदा ददर्श
चन्द्रं नभा कुक्षिमनुप्रविष्टं।
प्रसूयते सा नरदेवगर्भं
सो भवति राजा वरचक्रवर्ती॥
स्वप्नान्तरे या प्रमदा ददर्श
श्वेतं गजं कुक्षिमनुप्रविष्टं।
प्रसूयते सा गजसत्त्वसारं
सो भवति बुद्धो बुधितार्थधर्मो॥

p.210
देवीं स पृच्चति॥ किं धरेसि॥ सा आह॥ चक्रवर्तिन्ति॥

कुक्षिं प्रभासयन्तं कनकवपुं प्रवरलक्षणसमंगिं।
धारेमि चक्रवर्तिं वरपुरुषं राजशार्दूलं॥

देवा नभे भगवतो घोषमुदीरयेन्सुः॥ बुद्धो भविष्यति न राजा बलचक्रवर्ती॥ महाब्रह्मा गाथां भाषति॥

गजं रत्नश्रेष्ठं मदनबलवेगापनयनं
प्रदीपं लोकस्य तमतिमिरमोहापनयनं।
गुणानां कोषं त्वं अपरिमितरत्नाकरधरं
धरेषि राजर्षिं अप्रतिहतचक्रं अमररुचिं॥

देवी आह॥

यथ मम न रागदोषा प्रसन्ति नरेन्द्रगर्भमुपलभ्य।
निःसंशयं भविष्यति समरुचि यथ निश्चरति वाचा॥

बोधिसत्वे खलु पुनर्महामौद्गल्यायन मातुः कुक्षिगते बोधिसत्वमाता सुखं गच्छति तिष्ठति पि निषिदति पि शय्यामपि कल्पयति बोधिसत्वस्यैव तेजेन। शस्त्रं काये न क्रमति न विषं नाग्निर्नाशनिः प्रसहति बोधिसत्वस्यैव तेजेन॥ बोधिसत्वे खलु पुनर्महामौद्गल्यायन मातुः कुक्षिगते बोधिसत्वमातरं देवकन्या दिव्येहि उच्छादनपरिमर्दनपरिष्कारेहि परिजागरन्ति॥ दिव्यवस्त्रसंवृतशरीरा दिव्याभरणधारिणी भवति बोधिसत्वस्यैव तेजेन॥ लाभिनी भवति दिव्यानां गन्धानां दिव्यानां माल्यानां दिव्यानां विलेपनानां दिव्यानां ओजानां बोधिसत्वस्यैव तेजेन॥ बोधिसत्वे


p. 211
खलु पुनर्महामौद्गल्यायन मातुः कुक्षिगते यो स्या अभ्यन्तरपरिवारो सो स्या अतीव शुश्रूषितव्यं श्रोतव्यं श्रोतव्यं मन्यति बोधिसत्वस्यैव तेजेन॥ बोधिसत्वे खलु पुनर्महामौद्गल्यायन मातुः कुक्षिगते बोधिसत्वमातरं ये पश्यन्ति ते तामुपसंक्रमित्वा किंकरणियकप्रतिसंयुक्तेहि व निमन्त्रेन्ति बोधिसत्वस्यैव तेजेन॥ न किंचिदुपरिमेन गच्छति अन्तमशतो पक्षी पि बोधिसत्वस्यैव तेजेन॥ बोधिसत्वे खलु पुनर्महामौद्गल्यायन मातुः कुक्षिगते बोधिसत्वमाता अल्पाबाधा भवति अल्पातंका। समाये विपाकनीयग्रहणीये समन्वागता नाप्यशीताये नाप्यति उष्णाये सम्मापरिणामाये बोधिसत्वस्यैव तेजेन॥ बोधिसत्वे खलु पुनर्महामौद्गल्यायन मातुः कुक्षिगते बोधिसत्वमाता अल्पाबाधा भवति अल्पातंका। समाये विपाकनीयग्रहणीये समन्वागता नाप्यतिशीताये नाप्यति उष्णाये सम्मापरिणामाये बोधिसत्वस्यैव तेजेन॥ बोधिसत्वे खलु पुनर्महामौद्गल्यायन मातुः कुक्षिगते बोधिसत्वमाता लाभिनी प्रणीतानां खादनीयभोजनीयानामग्ररसानां प्रत्यग्ररसानां बोधिसत्वस्यैव तेजेन॥ बोधिसत्वे ख्लौ पुनर्महामौद्गल्यायन मातुः कुक्षिगते बोधिसत्वमाता वीतरागा भवति। अखण्डमच्छिद्रमशबलमकल्माषं परिशुद्धं परिपूर्णं ब्रह्मचर्यं चरति॥ मनसापि तस्याः प्रमदोत्तमाया रागो न उत्पद्यति सर्वपुरुषेहि अन्तमसतो राज्ञापि अर्चिमता॥ बोधिसत्वे खलु पुनर्महामौद्गल्यायन मातुः कुक्षिगते बोधिसत्वमाता पञ्च शिक्षापदानि समादाय वर्तते। तानि न सपूर्वसमादिन्नानि भवन्ति। बोधिसत्वे खलु पुनर्महामौद्गल्यायन मातुः कुक्षिगते यावता नागराजानो नागराजाधिपतयो अण्डयो वा जरायुजा वा संस्वेदजा वा औपपादुका वा ते निवेशनमुपसंक्रमित्वा दिव्यानि चन्दनचूर्णानि प्रकिरन्ति॥ एवमगुरुचूर्णानि मुक्तकुसुमानि च प्रकिरेन्सुः समाप्ताये च न अर्चनाये अर्चयेन्सुः परिपूर्णाये च नमर्चनाये अर्चयेन्सुः परिशुद्धाये न नमर्चनाये अर्चयेन्सुः॥ ते दिव्यानि चन्दनचूर्णानि प्रकिरित्वा केशरचूर्णानि तमालपत्रचूर्णानि मुक्तकुसुमानि प्रकिरेन्ति।

p. 212
समाप्ताये नं अर्चनाये अर्चयेन्सुः परिपूर्णाये च नमर्चनाये अर्चयेन्सु परिशुद्धाये च नं अर्चनाये अर्चयेन्सुः॥ परिपूर्णाये अर्चनाये अर्चयित्वा परिशुद्धाये अर्चनाये अर्चयित्वा दिव्येहि चन्दनचूर्णेहि प्रकिरित्वा दिव्येहि अगुरुचूर्णेहि केशरचूर्णेहि तमालपत्रचूर्णेहि मुक्तकुसुमेहि ओकिरित्वा अध्योकिरित्वा अभिप्रकिरित्वा बोधिसत्वमातां त्रिखुत्तं अभिप्रदक्षिणं कृत्वा येनकामं प्रक्रमिन्सुः बोधिसत्वस्यैव तेजेन॥ बोधिसत्वे खलु पुनर्महामौद्गल्यायन मातुः कुक्षिगते यावता सुवर्णराजानो सुवर्णाधिपत अण्डजा वा जरायुजा वा संस्वेदजा वा उपपादुका वा ते निवेशनं प्रविशित्वा दिव्यानि चन्दनचूर्णानि प्रकिरन्ति दिव्यान्यनेकचूर्णानि प्रकिरन्ति दिव्यानि केशरचूर्णानि प्रकिरन्ति दिव्यानि तमालपत्रचूर्णानि प्रकिरन्ति दिव्यानि कुसुमचूर्णानि प्रकिरन्ति। समाप्ताये च नं अर्चनाये अर्च्येन्सु परिपूर्णाये च नं अर्चनाये अर्चयेन्सु परिशुद्धाये च नं अर्चनाये अर्चयेन्सुः॥ दिव्यानि चूर्णानि प्रकिरित्वा अगुरुचूर्णानि केशरचूर्णानि तमालपत्रचूर्णानि प्रकिरित्वा दिव्यानि च मुक्तकुसुमानि प्रकिरित्वा बोधिसत्वमातां त्रिष्खुत्तं प्रदक्षिणं कृत्वा येनकामं प्रक्रमेन्सुः बोधिसत्वस्यैव तेजेन॥ बोधिसत्वे खलु पुनर्महामौद्गल्यायन मातुः कुक्षिगते बोधिसत्वमातां चतुर्महाराजकायिका देवाः त्रायस्त्रिंशा यामा तुषिता निर्माणरतिपरनिमितवशवर्ती ब्रह्मकायिका शुद्धावासकायिका देवा तस्य निवेशनं प्रविशित्वा दिव्येहि चन्दनचूर्णेहि प्रकिरेन्सुः दिव्येहि अगुरुचूर्णेहि केशरचूर्णेहि तमालपत्रचूर्णेहि दिव्येहि च मुक्तकुसुमेहि प्रकिरेन्सुः समाप्ताये च नं अर्चनाये अर्चनयेन्सुः संपरिपूर्णाये च

p. 213
नमर्चनाये अर्चयेन्सुः परिशुद्धाये च नं अर्चनाये अर्चयेन्सुः॥ ते दिव्येहि चन्दनचूर्णेहि ओकरित्वा दिव्येहि अगुरुचूर्णेहि दिव्येहि केशरचूर्णेहि दिव्येहि तमालपत्रेहि दिव्येहि मुक्तकुसुमेहि प्रकिरित्वा समाप्ताये च नं अर्चनाये अर्चयित्वा परिपूर्णाये च नं अर्चनाये अर्चयित्वा परिशुद्धाये च नं अर्चनाये अर्चयित्वा बोधिसत्वमातां त्रिष्क्ऱ्त्वो प्रदक्षिणीकृत्य येनकामं प्रक्रमेन्सुः बोधिसत्वस्यैव तेजेन॥
बोधिसत्वो खलु पुनर्महामौद्गल्यायन मातुः कुक्षिगतो न चातिनीचं तिस्ठति न चाति उच्चं तिष्ठति न च अवकुब्जको न उत्तानको न वामपार्श्वे तिष्ठति न उत्कुटिको॥ अथ खलु मातुर्दक्षिणे पार्श्वे पर्यङ्कमाभुंजित्वा तिष्ठति॥ बोधिसत्वो खलु पुनर्महामौद्गल्यायन मातुः कुक्षिगतो न पित्तेन वा श्लेष्मेण वा रुधिरेण वा अन्येन वा पुन केनचिदशुचिनापरिशुद्धो तिष्ठति॥ अथ खलु उच्छादितस्नापितविशदगात्रो बोधिसत्वो मातुः कुक्षिस्मिं तिष्ठति॥ बोधिसत्वो खलु पुनर्महामौद्गल्यायन मातुः कुक्षिगतो मातरं पश्यति॥ बोधिसत्वमातापि कुक्षिगतं बोधिसत्वं पश्यति विग्रहमिव जातरूपस्य दृष्ट्वा च भवति आत्तमना [कुक्षिं ओभासेन्तं विग्रहमिव जातरूपस्य]॥ यथा वेरुलियस्य मणि स्फाटिकसमुद्गस्मिं निहितो अस्या एवमेव बोधिसत्वं पश्यति माता कुक्षिमोभासेन्तं विग्रहमिव जातरूपस्य॥

p. 214
बोधिसत्वे खलु पुनर्महामौद्गल्यायन मातुः कुक्षिगते देवसंघाः सुखरात्रिं सुखदिवसं पृच्छका आगच्छन्ति। तां च बोधिसत्वो अभिनन्दति दक्षिणकरमुत्क्षिप्य मातरमबाधमानो॥ बोधिसत्वं खलु पुनर्महामौद्गल्यायन मातुः कुक्षिगतं देवा नागा यक्षा दानवा राक्षसा पिशाचा न जहन्ति दिवा वा रात्रिं वा न चात्र आसंगकथा कथीयति कामोपसंहिता वा अन्या वा असत्या कथा। नान्यत्र बोधिसत्ववर्णमेव भाषन्ति रूपतः सत्त्वतः तेजतः वर्णतः यशतः कुशलमूलतः॥ बोधिसत्वस्य मातुः कुषिगतस्य पूजा नोपरमति॥ दिव्यानि तूर्याणि वाद्यन्ति दिव्यानि अगुरुधूपानि धूपेन्ति दिव्यं पुष्पवर्णं वर्षति दिव्यं चूर्णं वर्षति॥ अप्सरसहस्राणि च उपगायन्ति उपनृत्यन्ति पि॥ बोधिसत्वे खलु पुनर्महामौद्गल्यायन मातुः कुक्षिगते बोधिसत्वमातां देवकन्यासहस्रेहि सार्धं अभ्याभवति हास्यं च कथा च॥ प्रसुप्तां च पुनर्बोधिसत्वमातरं देवकन्या मान्दारवदामेन परिवीजेन्ति बोधिसत्वस्य तेजेन॥ अयं च पुनर्महामौद्गल्यायन त्रिसाहस्रमहासहस्रायां लोकधातूयमनुत्तरा गर्भाक्रान्तिपारमिता॥

अन्यं च दानि पश्यथ आश्चर्यं तस्या देवपर्षाये।
ताव विपुलाये या कथा अभू परमहर्षसंजननी॥
न च कामकथान्या वा नाप्यप्सरसां कथा न गीतकथा।
न च वाद्यकथा तेषां न पि बुक्तकथा न पानकथा॥
नाभरणकथा तेषां न पि वस्त्रकथा प्रवर्तति कदाचित्।

p. 215
यानोद्यानकथा वा मनसापि न जायते तेषां॥
साधू पुण्यबलवतो द्युती अनुपमा सदेवकं लोकं।
अभभवति नायकस्य विकसति एषा कथा तत्र॥
साधुं गर्भावक्रमणमनोपमं रूपपारमिगतस्य।
इति विकसति बहुविधा कथा परिषामध्ये एतस्मिं॥
साधूहि निरामिषेहि संज्ञापदेहि क्षपेन्ति तं कालं।
वरबुद्धिनो इयं अपि कथा विकसति परिषामध्ये॥
एवं च बहुप्रकारां कथां कथेन्ता रमन्ति देवगणा।
रूपं वर्णं तेजं बलं च विरजस्य कथयन्ता॥

सर्वेषां बोधिसत्वानां मातरो परिपूर्णे दशमे मासे प्रसूयन्ति॥ दशमे मासे पूर्णे सुदीपा नाम देवी राजानमर्चिमं आह। देव अभिप्रायो मे प्रद्मवनं य्द्यानं निर्गन्तुं॥ राजा देवीये सुदीपाये श्रुत्वा अमात्यानाह॥ पद्मवनमुद्यानं सान्तःपुरो निष्क्रमिष्यामि क्रीडार्थमिति॥

पद्मिनिवनं सुचपलं अपगततृणखण्डपत्रसंस्कारं।
वरसुरभिकुसुमनिकरं करोथ गन्धोदकसुगन्धं॥
पद्मिनिवने च वाता तमालपत्रगन्धवासितशरीरा।
सिञ्चन्तु अमृतगन्धां मदजनना च पलायन्तु॥
अगरुवरधूपगर्भा समोनमन्तु नभतो जलधरा तं।
पद्मिनिवनं छादेतुं वरचूर्णरसाकुलं क्षिप्रं॥

p. 216
एकैकं च द्रुमवरं दुकूलपट्टोर्णकोशिकारेहि।
कल्पयथ कल्पवृक्षान् यथ दिवि देवप्रधनस्य॥

देवा च देवकन्या च गन्धमाल्यां गृह्य पद्मिनिवनौद्यानमर्चिमतो आगच्छन्ति॥

स्फटिकमणिकुण्डधरा विगलितवसना प्रलम्बमणिहारा।
आदाय गन्धमाल्यं गगनपथगता ओलीयन्ति॥
मान्दारवाण भरिता काचित्संगेरियो भरित्वान।
हरिचन्दनस्य कचित्काचि पुनः कल्पदुष्याणां॥
स्थलजजलजं च माल्यं गृहीत्वा अप्सरा मुदितचित्ता।
रतना आभरणानि च जम्बुद्वीपं अभिमुखीयो॥
चतुरशीतिमनूनं चत्रसहस्राणि देवकन्यायो।
कनकरतनामयानि आदाय नभे प्रलीयन्ति॥
कूटागारशतेहि स्फटिकमणिचित्रेहि लेपनेलेपितैः।
भरितमपि अन्तरिक्षं दुष्यशतसमुच्छ्रितपताकं॥
गजश्वसनसन्निकाशा शारदमेघा चाभिविरोचन्ति।
वरसुरभिकुसुमगन्धा कमलोत्पलचम्पकविमिश्रा॥
भुजगपतिनो पि मुदिता मेघेहि सुगन्धतोयभरितेहि।
अभ्योकिरन्ति गगणं अन्यानि च अद्भुतशतानि॥

अथ महामौद्गल्यायन राजा अर्चिमो महता राजानुभावेन महता राजऋद्धिये महतीये विभूषाये सान्तःपुरो पद्मिनीवनमुद्यानं निर्यासि॥

p. 217
अवगाह्य तं वनवरं देवी सखिपरिवृता जिनजनेत्री।
विचरति वित्ररथे देवि अमरवधु यथा रतिविधिज्ञा॥

अथ महामौद्गल्यायन सुदीपा देवी सखीहि संपरिवृता पद्मिनीये पुरिमपश्चिमवेदिहि विततवितानेहि विचित्रदुष्यपरिक्षिप्तेहि ओसक्तपट्टदामकलापेहि लेपनलेपितेहि धूपनधूपितेहि मुक्तपुष्पावकीर्णेहि वेदिकाजालसंप्रतिक्षिप्तेहि उच्छ्रितच्छत्रध्वजपताकेहि नावायानेहि प्रकीडिता॥ अथ सुदीपाये देवीये नावायानेन कड्ढीयन्तिये किल चित्तं उत्पन्नं। नावातो ओतरिष्यामीति॥ बोधिसत्वानुभावेन च मध्ये तडागस्य द्वीपो प्रादुर्भूतो समो अविषमो सुवर्णवालिकासंस्तृतो तृणानि च जातानि मृदूनि नीलानि तूलसंस्पर्शोपमानि मयूरग्रीवासन्निकाशानि चतुरङ्गुलं पृथिवीतो निक्षिप्तो पदे ओनमन्ति वृक्षाणि चात्र प्रादुर्भूतानि फलोपेतानि सुमनोज्ञानि॥ देवी तम्हि द्वीपे प्रतिष्ठिता॥ न खलु पुनर्महामौद्गल्यायन बोधिसत्वमाता शयाना निषणिका वा बोधिसत्वं जनेति। न खलु महामौद्गल्यायन बोधिसत्वमाता बोधिसत्वं पित्तेन वा श्लेष्मेण वा रुधिरेण वा अन्यतरान्यतरेण वा अशुचिनापरिशुद्धं जनेति अथ खलु उच्छादितस्नापितविशदगात्रं येव बोधिसत्वं जनेति॥

सा परिकिलन्तकाया द्रुमस्य शाखां भुजाय अवलम्ब्य।
प्रविजृम्भिता सलीला तस्य यशवतो जननकाले॥
अथ विंशतिं सहस्रा मरुकन्या आशुरेव सन्निपतिता।

p. 218
देवीं कृतांजलिपुटाः इदमवच प्रसन्नसंकल्पाः॥
अद्य जराव्याधिमथनं जनयिष्यसि अमरगर्भसुकुमारं।
देवी दिवि भुवि महितं हितं हितकरं नरमरूणां॥
मा खु जनयी विषादं परिकर्म वयं तवं करिष्यामः।
यं कर्तव्यमुदीरय दृश्यतु कृतमेव तत्सर्वं॥
अथ चतुरि लोकपाला सपरिवारा आशुरेव सन्निपतिता।
दिव्यप्रवेणिहस्ता देविमुपगता प्रदक्षिणतो॥
सर्वे पि देवसंघा देवीं परिवारयित्व आकाशे।
स्थिता माल्यगन्धहस्ता स्वपरिवारेणोपशोभन्ति॥

बोधिसत्वो स्मृतो संप्रजानो मातरमबाधमानो दक्षिणेन पार्श्वेन प्रादुर्भवति॥

दक्षिणेन हि पार्श्वेन जायन्ते पुरुषोत्तमाः।
सर्वे पुरुषशार्दूला भवन्त्यत्रविहारिणः॥
किन्तं न भिद्यते पार्श्वं तस्या जिनजनेत्रिये।
जनेन्तिये नरश्रेष्ठं वेदना च न जायति॥
मनोमयेन रूपेण प्रादुर्भोन्ति तथागता।
एवं न भिद्यते पार्श्वं वेदना च न जायते॥
गर्भावासपरिश्रान्तो सप्तधा विक्रमते भुवि।
दिशां च प्रविलोकेति महाहासं च ऊहति॥
अत्र किं कारणमुक्तं यं सप्त क्रमते क्रमान्।
न च अष्ट न च षष्टि अत्र आगमनं शृणु॥

p. 219
गर्भासपरिश्रान्तो सर्वलोकहितो मुनिः।
पश्चिमो गर्भावासो यं अथ वेगेन प्रक्रमि॥
भूमौ सप्तक्रमे न्यस्ते देवसंघा निलीयथ।
सहसा लोकपालानामंकेहि धरितो मुनिः॥
अथ वर्षं समुत्पद्यि दिव्यकुसुमशीकरः।
मन्दारवरजाकीर्णं दिव्यचन्दनसंकुलं॥
दीर्घकालं उदग्राश्च सुरमुख्याग्रधूपनं।
प्रमुंचिषु विभूषार्थं तस्य उत्तमबुद्धिनः॥
यदर्थञ्च विलोकेति दिशां अप्रतिपुद्गलः।
तत्राहमागमं वक्ष्ये उपदेशं मनोरमं॥
न सो विद्यति सत्वानां देवेषु मनुजेषु च।
यस्यैवं संभवो भवेत् गर्भोक्रमणमेव च॥
खद्योतकनकनिर्भासं पार्श्वं जिनजनेत्रिये।
जायते यदा सर्वज्ञः जायन्तो चरमे भवे॥
जातमात्रस्य तच्चित्तं अभूत्प्रवरवादिनो।
अस्ति कश्चित्समबुद्धि मे च्चेत्तं तर्कं निवर्तितुं॥
केचित्संसारपाशेन अर्त्तियन्त्ये यथा अहं।
इत्यर्थं पुरुषादित्यो दिशां सर्वां निरीक्षति॥
अथ दिशा विलोकेन्तो पश्यति वदतां वरो।
देवकोटिसहस्राणि तस्मात् हासं प्रमुंचति॥

p. 220
तं जातमात्रमित्याहु देवता मारकायिका।
चातुर्द्वीपो महाकोशो चक्रवर्ती भविष्यसि॥
अथास्य हासो संभवति न मम सत्वाभिजानथ।
सर्वज्ञो सर्वदर्शी च भविष्यं पुरुषोत्तमः॥
एवेमेतं प्रशंसन्ति विशेषा उपदेशकाः।
तथा हि नरसिंहानां शासनं संप्रकाशितं॥
यं तिष्ठन्ती जनये वीरं संकुसुमितेषु शालेषु।
शरीरमवलम्ब्यमाना तं अनतिवरं जिनं वन्दे॥
संप्रतिजातो सुगतो समेहि पदेहि धरणिं अवतिष्ठेत्।
सप्त च पदानि अगमा सर्वां च दिशां विलोकेसि॥
तं सामं चंक्रमन्तमन्वागमि वीजनं च च्छत्रं च।
मा वरविदुनो काये दंशा मशका च निपतेन्सुः॥
संप्रतिजातं सुगतं देवा प्रथमं जिनं प्रतिगृह्णे।
पश्चाच्च तं मनुष्याः अनतिवरं अङ्के धारेन्सुः॥
प्रत्यग्रहेन्सु देवाः सुगतं द्वात्रिंशलक्षणप्रदर्शिं।
पश्चाच्च तं मनुष्या अनतिवरं अंके धारेन्सुः॥
निर्वायेन्सु प्रदिपा मानुषका ओभासितभूल्लोकं।
संप्रतिजाते सुगते ज्ञाती उदकर्थिका प्रधाविन्सुः॥
अथ पुरतो उदुपाना पूरा मुखतो विष्यन्देन्सु॥

p. 221
द्वि वारिधारा उद्गमि एका शीतस्य एका उष्णस्य।
यत्र स्नपयेन्सु सुगतं विग्रहं इव जातरूपस्य॥

संप्रतिजाते सुगते बोधिसत्वमाता अक्षता चैव अभूषि अव्रणा च बोधिसत्वस्यैव तेजेन॥ संप्रतिजाते खलु पुनर्महामौद्गल्यायन बोधिसत्वे बोधिसत्वमातुः कुक्षि प्रतिपूर्णा येव अभूषि अनारब्धा च बोधिसत्वस्यैव तेजेन॥ संप्रतिजाते खलु पुनर्महामौद्गल्यायन बोधिसत्वे अन्तरद्वीपे चन्दनवनं प्रादुर्भवे बोधिसत्वस्य उपभोगपरिभोगमागच्छे बोधिसत्वस्यैव तेजेन॥ तत्र देवपुत्रशतसहस्राणि सह गच्छन्ति गन्धमाल्याहस्ता बोधिसत्वस्य पूजार्थं॥ देवपुत्रो देवपुत्रं पृच्छति कहिं गमिष्यसीति॥ सो तानाह॥

एषा प्रसूष्यति नरेन्द्रवधूत्तमं तं
वत्सं विबुद्धवरपुष्करगर्भगौरं।
यो प्राप्स्यते धरणिमण्डतोत्तमार्थं
मारं निहत्य सबलं तमुपेमि वीरं॥
अम्रक्षिता गर्भमलेन गात्रा
जातं जले पंकजमुत्तमं वा।
वपुष्मतो बालरविप्रकाशो
सब्रह्मकानमरानभिभोति॥
ततो जातमात्रो कुले अर्चिमस्य
अतिक्रम्य धीरो पदानीह सप्त।
समोलोकयित्वा दिशां ऊहसासि
अयं दानिमेको भवो पश्चिमो ति॥

p. 222
ततश्च च्छत्रं एकं विभ्राजमानं
मणीमुक्तश्रेष्ठं पराभाविभ्राजं।
विधूतेन दामेन मन्दारवाणां
बहू देवपुत्रा नभे धारयेन्सुः॥
सबालार्कशंखप्रतीकाशवर्णं
वरं हेमच्छत्रं नभे धारयेन्सुः॥
ततो वीजनीयो विसृष्टा भ्रमेन्सुः
करेण गृहीत्वा जिनं वीजयेन्सुः॥
ततो पुण्यगन्धा सुखोष्णा प्रभूता
लहुं प्रेमणीया हिता मानुषाणां।
शिवा नन्दनीया तुषारानुबद्धा
दुवे वारिधारा नभे उद्गतासुः॥
ततो मेरुशृगादनेकप्रकारा
प्रमुक्तोत्तरीया समन्तोर्मिजाता।
भृशं विश्वगन्धाधिवासानुवाता
दृढं षड्विकारं महीं कम्पयेन्सुः॥
सुवर्णस्य रूप्यमणीनां शुभाना
विमानेषु देवा सतूर्याविघुष्टा।
सुजातानुजातं जिनं प्रेक्षमाणा
सचन्द्रार्कतारं नभं शोभयेन्सुः॥
अयं सो सदेवं सनागं सयक्षं

p. 223
महोघं महर्षी जगं उत्तरित्वा।
ततः क्षेममेकां दिशं प्राप्स्यतीति
प्रहृष्टास्य देवा नभे व्याहरेन्सुः॥

राजा अर्चिमो आणापेसि॥ कुमारं इमाये व देवीये पादवन्दनं नेथ॥ कीदृशेन यानेन कुमारो अभिनिषीदतीति॥ देवेहि रतनामयी शिविका निर्मिता॥ को इमां शिविकां वहिष्यतीति॥ चत्वारो महाराजा उपस्थिता॥ वयं सत्वसारं वहिष्याम बोधिसत्वं सुदीपां च देवीं धात्रीं च बोधिसत्वस्य॥ शिविकामारूढा शक्रो च देवानामिन्द्रो महाब्रह्मा च उत्सारणं करोन्ति॥ एवं बोधिसत्वो महतीये विभूषाये महतीये समृद्धीये महतीये देवऋद्धीये महतीये राजऋद्धीये पद्मिनीवनातो उद्यानातो दीपवतीं राजधानीं प्रवेशीयति देवीये कलमुपनीतः॥

नरो चेतियेषु प्रविष्टो अकामो
महालोकनाथो नरेन्द्राण शास्ता।
यदा उत्तमांगेन वन्दापयेन्सुः
ततो अस्य पादानि प्रादुर्भवेन्सु॥
ततो देवता देवतां इत्यवोचत्
न एषो नुरूपो ममं वन्दमानो।
प्रणामं च एषो यद्यन्यस्य कुर्यात्
दृढं सप्तधा अस्य मूर्ध्नं फलेया इति॥

जातमात्रे कुमारेर्थसिद्धी सुखी सर्वे सत्वा अभूद्यावदवीचिं। प्रणामं च कुर्वी देवाः। तस्य सर्वे प्रहृष्टाः॥

p. 223
राजकुलं च कुमारे प्रविष्टे उवाच पुरोहितं नृपतिः।
लक्षणविधिगुणकुशलां विप्रान्पर्येषथ शीघ्रं॥
तं विज्ञाय च देवा महेश्वरा नाम चित्तवशवर्ती।
मा लक्षणा अकुशला विकल्पयिष्यन्ति द्विजसंघा॥
विगतमदमानदर्पाः अष्ट सहस्रा महेश्वरवराणां।
देवगणेहि गुरुकृतं संप्रतिजातं उपगमेन्सुः॥
ते राजकुलद्वारे शुचिवसनवरस्थिता स्तिमितशब्दा।
प्रतिहाररक्षमब्रवीत्सुमधुरकरविंकरुतघोषाः॥
राजवरं उपगम्य ब्रूवीहि इमे लक्षणगुणविधिज्ञाः।
तिष्ठन्ति अष्टसहस्रं प्रविशेन्सुः यदि अनुमतन्ते॥
साधूति प्रतिश्रुत्वा प्रतिहाररक्षो प्रविश्य राजकुलं।
अब्रवीत्कृतांजलिपुटो प्रीतिमनसो पृथिवीपालं॥
अतुलबल दीप्तयशसा कारय राज्यं चिरं निहतशत्रुः।
द्वारे ते अमरसदृशास्तिष्ठन्ति प्रवेष्टुमिच्छन्ति॥
प्रतिपूर्णविमलनयना मधुरस्वरमत्तवारणविचारी।
भवति मम तेषु संका न ते मनुजा देवपुत्रा ते॥
परिचंक्रमतां तेषां धरणिरजो क्रमवरा न संकिरति।
न च सान पश्यामि पदं पृथ्यामिदं अपि आश्चर्यं॥
गम्भीरस्तिमितचेष्टा आर्याकारा प्रशान्तदृष्टिपथा।
विपुलां जनेन्ति प्रीतिं जनस्य समुदीक्षमाणस्य॥
अन्यं च दानि अद्भुतं शरीरच्छाया न दृश्यते तेषां।

p. 225
न च तेषु सन्धिशब्दो चंक्रमतां श्रूयते कश्चित्॥
निःसंशयं उपगता पुत्रवरं तव नरवराधिप द्रष्टुं।
अभिनन्द्य च अभिवन्द्य च पश्यासि अयोनिजां देवां॥
वरमाल्यगन्धहस्ता लीलाचेष्टा मनोरमशरीरा।
दीप्यन्ता इव शिरिये असंशयं प्रवरमरुतस्ते॥
तं अर्चिमो निशाम्य वचनमिदं हर्षकम्पितशरीरो।
अब्रवीद्भणे सुचपलं प्रविशन्तु निवेशनमुदारं॥
किं कारणं न एदृशाः प्राकृतपुरुषाण भोन्ति आकाराः।
न पि मानुषाण एदृशी ऋद्धि भवति यादृशीं भणसि॥
अथ सो प्रतिहाररक्षो उपगम्य महेश्वरानिदमवोचत्।
प्रह्वो कृतांजलिपुटो प्रणम्य हृष्टो मुदितचित्तो॥
अभिनन्दते नरपतिः प्रविशन्तु भवन्तो देवपुरकल्पं।
राजवृषभस्य वेश्मं नराधिपतिना अनुज्ञाताः॥
एतं श्रुत्वा वचनं अष्टसहस्रं महेश्वरवराणां।
प्रविशन्ति पार्थिवकुलं अनिहतकुलवंशमुख्यस्य॥
अथ अर्चिमो पि राजा महेश्वरां दूरतो निशामेत्वा।
प्रत्युत्थितो सपरिवारो गौरवबलभावितशरीरो॥
तानवच राजवृषभो स्वागतमनुरागतं वः सर्वेषां।
प्रीतो स्मि दर्शनेन प्रशमदमबलेन च भवतां॥
संविद्यन्ते इमानि अस्माकं आसनप्रधानानि।
आस्तां ताव भवन्तो अस्माकमनुग्रहार्थाय॥
अथ ते तेष्वासनेषु बहुरतनविशुद्धचित्रपादेषु।

p. 226
विगतमदमानदर्पा निषीदि अनवद्यकर्मान्ताः॥
ते कंचिदेव कालं आगमयित्वा नराधिपमवोचत्।
शृण्वतु भवां प्रयोजनं यं अस्माकमिह गमनाये॥
सर्वानवद्यगात्रः उत्पन्नो लोकसुन्दरो तुह्यं।
पुत्रो किल मनुजपते लक्षणगुणपारमीप्राप्तो॥
वयमपि लक्षणकुशलाः समर्था गुणदोषलक्षणं ज्ञातुं।
यदि न गुरुत्वं भवतो पश्येम महापुरुषरूपं॥
सो अवच हंत पश्यथ सुव्यपदेशक्षेमं मम पुत्रं।
मरुमनुजहर्षजननं लक्षणगुणपारमिप्राप्तं॥
अथ स मृदुकाचिलिन्दिकप्र्वेणियं गुणधरं ग्रहेत्वान।
अंकेन वादिचन्द्रं उपनामयति सुरवराणां॥
आलोकयित्व दूरात् महेश्वराः वरक्रमान्दशबलस्य।
मूर्ध्नि विगलितमुकुटा निपतेन्सु महीतले हृष्टा॥

ते दानि राजानमारोचेन्ति॥ लाभा ते महाराज सुलब्धा यस्य ते यं महापुरुषो कुले उत्पन्नो द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागतो॥ तद्यथा॥

समा हेष्टा च दीर्घा च आयता च उच्छंग पंचमा।
एणि बृहच्च तिष्ठन्तो कोश न्यग्रोध ते दशा॥
मृदु जाला च प्रतिपूर्णा एका ऊर्ध्वाग्र पंचमा।
श्लक्ष्णच्छवि हंसान्तरा च उत्सदा च ते दश॥

p. 227
रसं सुवर्ण सीहो च समा शुक्ला च पंचमा।
समा प्रभूता ब्रह्मा च नीला गोपक्ष्म ते दश।
ऊर्णा उष्णीष शीर्षं च नाथो द्वात्रिंशलक्षणो॥

ते दानि ब्राह्मणा राज्ञा अर्चिमेन उच्यन्ति॥ यं कुमारस्य नामं अनुरूपं तं करोथ॥ ते ब्राह्मणा आहन्सु॥ महाराज कुमारे जायमाने दीपो प्रादुर्भूतो महां ओभासो तस्मात्कुमारो दीपंकरो नाम भवतु॥ एवं कुमारस्य शुद्धावासेहि देवेहि ब्राह्मणवेषं निर्मिणित्वा दीपंकरो ति नाम कृतं॥

तस्य सदृशीयो धात्रीयो कुमारं उपस्थिहन्ति संवर्धयन्ति॥ यदा च बोधिसत्वो यौवनप्राप्तो राज्ञा त्रयो प्रासादा कारिता कुमारस्य क्रीडार्थं परिचारार्थं विस्तीर्णं च अन्तःपुरं उपस्थापितं॥ बोधिसत्वो महता राजानुभावेन महता राजऋद्धीये महता राजविभूषाये सान्तःपुरो पद्मिनीवनमुद्यानभूमिं निर्गतो क्रीडार्थं॥ राज्ञा अर्चिमेनान्तःपुरमाणत्तं। सुष्ठु कुमारं क्रीडापेथ॥ बोधिसत्वो नावायानेहि पुरिमपश्चिमवेदिहि वेदिकाजालेहि वेदिकाजालपरिक्षिप्तेहि विततवितानेहि चित्रदुष्यपरिक्षिप्तेहि ओसक्तपट्टदामकलापेहि धूपनधूपितेहि मुक्तपुष्पावकीर्णेहि हाराधहारचन्द्रसुचित्रेहि उच्छ्रितच्छत्रध्वजपताकेहि नावायानेहि निष्पुरुषे तटे ओतरति॥ किलान्तं अन्तःपुरमासुप्तं काचि हनुकामुपग्रहियुआण काचित्पणवमुपगुह्य काचिद्वेणुं काचिद्वीणां काचिद्वल्लकीं काचित्सुघोषकीं काचिन्नूपुरं काचित् मृदंगं काचिल्लालाघरन्ति॥ बोधिसत्वस्य तां दृष्ट्वा शम्शानसंज्ञा प्रादुर्भूता॥ मध्ये पुष्करणीये पद्मं प्रादुर्भूतं रथचक्रमात्राहि कर्णिकाहि अपरेहि पद्मसहस्रेहि अनुपरिवारितं॥

p. 228
बोधिसत्वो तत्पदुमे पर्यङ्केन निषणो तं च पदुमं संकुचितं कूटागारे संस्थितं॥ बोधिसत्वस्य सर्वं गृहिलिंगमन्तर्हितं काषायाणि प्रादुर्भूतानि॥ अथ खलु महामौद्गल्यायन दीपंकरो बोधिसत्वो विविक्तं कामेहि विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसंपद्य विहरेसि॥ सवितर्कविचाराणां व्युपसमादध्यात्मसंप्रसादाच्चेतसः एकोतीभावादवितर्कमविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानमुपसंपद्य विहरेसि॥ स प्रीतेर्विरागादुपेक्षकश्च विहरति स्मृतः संप्रजानं सुखं च कायेन प्रतिसंवेदयति। यत्तं आर्या आचक्षते उपेक्षकः स्मृतिमां सुखविहारी निष्प्रीतिकं तृतीयं ध्यानमुपसंपद्य विहरति॥ सुखस्य च प्रहाणा दुःखस्य च प्रहाणात्पूर्वं च सौमनस्यदौर्मनस्ययोरस्तंगमात् अदुःखासुखमुपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसंपद्य विहरेसि॥ सो तथा समाहितेन चित्तेन परिशुद्धेन पर्यवदातेन अनंगणेन विगतोपकिलेशेन मृदुना कर्मण्येन स्थितेनानिंज्यप्राप्तेन रात्रीये पुरिमे यामे दिव्यचक्षुदर्शनप्रतिलाभाय चित्तमभिनिर्हरेसि निर्णामेसि॥

सो दिव्येन चक्षुषा सत्वान्पश्यति च्यवन्तां उपपद्यन्ता सुवर्णां दुर्वर्णां सुगतां दुर्गतान्यथाकर्मोपगान्सत्वान्प्रजानाति। सो तथा समाहितेन चित्तेन परिशुद्धेन पर्यवदातेन अनंगणेन विगतोपक्लेशेन मृदुना कर्मण्येन स्थितेनानिंज्यप्राप्तेन रात्रिये मध्यमे यामे अनेकविधं पूर्वनिवासं समनुस्मरेत्। सय्यथीदं एकां वा जातिं द्वौ वा जातिं त्रयो वा जातिं चत्वारि वा जातिं पंच वा जातिं दश वा विंशद्वा त्रिंशच्चत्वारिंशं वा पंचाशं वा जातीशतं वा जातीसहस्रं वा अनेकानि च जातीशतानि

p. 229
अनेकानि जातीसहस्राणि अनेकान्यपि जातीशतसहस्राणि संवर्तकल्पां वा विवर्तकल्पां वा संवर्तविवर्तकल्पां वा अनेकां पि संवर्तां अनेकां पि विवर्तां अनेका पि संवर्तविवर्तानि कल्पानि॥ अमुत्राहं आसिं एवंनामो एवंगोत्रो एवंजात्यो एवमाहारो एवमायुःपर्यन्तो एवंसुखदुःखप्रतिसंवेदी इति साकारं सोद्देशं अनेकविधं पूर्वनिवासं समनुस्मरति॥ सो तथा समाहितेन चित्तेन परिशुद्धेन पर्यवदातेन अनंगणेन विगतोपकिलेशेन स्थितेनानिंज्यप्राप्तेन रात्रीये पश्चिमे यामे नन्दीमुखायां रजन्यां अनुणोपघाटकालसमये यत्किंचित्पुरुषनागेन पुरुषसिंहेन पुरुषर्षभेण पुरुषपदुमेन पुरुषपुण्डरीकेण पुरुषधौरेयेण पुरुषेण सत्पुरुषेण पुरुषाजानेयेन अनुत्तरेण पुरुषदम्यसारथिना गतिमेन स्मृतिमेन धृतिमेन मतिमेन सर्वशो सर्वत्रताये ज्ञातव्यं प्राप्तव्यं बोद्धव्यं अभिसंबोद्धव्यं सर्वन्तमेकचित्तक्षणसमायुक्तया प्रज्ञया अनुत्तरां सम्यक्संबोधिमभिसंबुद्धो॥ इयं च महापृथिवी षड्विकारं कम्पे संप्रकम्पे भूम्या च देवा घोषमुदीरयेन्सुः शब्दं नभे श्रावयेन्सु। एष मारिष भगवां दीपंकरो अनुत्तरां सम्यक्संबोधिमभिसंबुद्धो भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च॥ भूम्यानां देवानां घोषं श्रुत्वा अन्तरीक्षेचरा देवा त्रायस्त्रिंशा यामा तुषिता निर्माणरतयः परनिर्मितवशवर्तिन इति तत्क्षणन्तन्मुर्हूतं यावद्ब्रह्मकायं घोषमभ्युद्गच्छेत्॥ एष मारिष भगवां दीपंकरो सम्यक्संबुद्धो भविष्यति तं भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च॥ अप्रमेयस्य उदारस्य महतो वभासस्य लोके प्रादुर्भावो अभूषि॥ यावता लोके लोकान्तरिका अन्धकारा अन्धकारार्पिता तमिस्रा तमसार्पिता अघा

p. 230
अघसंभूतपूर्वा यत्र इमे पि चन्द्रसूर्या एवं महर्द्धिका एवं महानुभावा आभया आभां नाभिसंभुणन्ति आलोकेन वा आलोकं न स्फरन्ति ते पि तेन ओभासेन स्फुटा अभून्सुः॥ ये पि तत्र सत्वा उपपन्ना ते पि अन्यमन्यं संजानेन्सुः अन्ये पि किल इह भो सत्वा उपपन्ना अन्ये पि किल भो सत्वा उपपन्ना अन्ये पि किल भो सत्वा उपपन्नाः॥ एकान्तसुखसमर्पिता च पुनस्तत्क्षणं तं मुहूर्तं सर्वे सत्वा अभून्सु॥ ये पि अवीचे महानरके उपपन्ना अतिक्रमे व देवानां देवानुभावं नागानं नागानुभावं यक्षाणां यक्षानुभावं॥ ध्यामानि च अभून्सुः मारभवनानि निष्प्रभाणि निस्तेजानि निरभिरम्याणि। क्रोशिकान्यपि तत्र खण्डानि प्रपतेन्सुः द्विक्रोशिकान्यपि तत्र खण्डानि प्रपतेन्सु ध्वजाग्राण्यपि प्रपतेन्सु॥ मारो च पापीमां दुःखी दुर्मनो विप्रतिसारी अन्तोशल्यपरिदाघजातो अभूषि॥

तत्रैव च मौद्गल्यायन पद्मकूटागारे भगवां दीपंकरो चतुर्हि महाराजेहि शक्रेण च देवानामिद्रेण सुयामेन च देवपुत्रेण संतुषितेन च देवपुत्रेण वशवर्तिना च देवपुत्रेण महाब्रह्मणा च अनेकदेवसंघपरिवारेहि संवृतो॥ भगवतो दीपंकरस्य उदारा पूजा कृता॥ दिव्येहि मन्दारवेहि कुसुमेहि महामन्दारवेहि कर्णिकारेहि रोचमानेहि भीष्मेहि महाभीष्मेहि समन्तगन्धेहि महासमन्तगन्धेहि चन्दनचुर्णेहि अगुरुचूर्णेहि केशरचूर्णेहि तमालपत्रचूर्णेहि भगवन्तं दीपंकरं ओकिरित्वा प्रकिरित्वा अभिप्रकिरित्वा दिव्येहि तूर्यसहस्रेहि संपूजयित्वा तत्रैव महाब्रहमणा याचितो अनुत्तरं धर्मचक्रं प्रवर्तनाय॥ अधिवासयति महामौद्गल्यायन भगवां दीपंकरो महाब्रह्मणो तूष्णीभावेन॥ देवा अधिवासनां विदित्वा हृष्टा तुष्टा आत्तमना प्रमुदित-

p. 231
प्रीतिसौमनस्यजाता भगवतो दीपंकरस्य पादां शिरसा वन्दित्वा त्रिष्कृत्यो प्रदक्षिणीकृत्वा तत्रैवान्तर्हायेन्सु॥

भगवान्तस्यैव रात्र्या अत्ययेन प्रतिसंलयनाद्व्युत्थाय जनपदेषु चारिकां प्रक्रमेत्॥

आदित्यो वरवर्णो बालो अभ्युद्गतो यथाकाशे।
योजनशतं प्रभाये दीपंकरो भरित्व अस्थासि॥

भगवां दीपंकरो चारिकां चरमाणो महतो जनकायस्य देवानां मनुष्याणां च अर्थचर्यां चरमाणो अशीतिहि भिक्षुसहस्रेहि सार्धं दीपवतीं राजधानीं आगच्छति पितुः अर्चिमतो ज्ञातीनां च अनुकम्पार्थं॥ राज्ञा अर्चिमेन श्रुतं॥ भगवां दीपंकरो अशीतिहि भिक्षुसहस्रेहि सार्धं दीपवतीं राजधानीं आगच्छति ज्ञातीनामनुकम्पायेति॥ ते च यावद्दीपवती याव च पद्मिनीवनमुद्यानं दशक्रोशमार्गं प्रतिजागृहन्सुः अष्टापदसमं अविषमं पाणितलसमं सिक्तं संमृष्टं विततवितानं विचित्रदुष्यपरिक्षिप्तं ओसक्तपट्टदामकलापं धूपनधूपितं दशदिशेहि च नटनर्तकऋल्लमल्लपाणिस्वर्यालंकृतं चक्रवर्तिपुर भूयस्य च शतपत्रालंकृतं॥ राज्ञा अर्चिमेन प्रभूतं गन्धमाल्यं गृहीतं तथा गृहीतं महाजनकायेन समन्ताद्द्वादशयोजनातो गन्धमाल्यं समुदानीतं॥ राजा अशीतिहि कोट्टराजसहस्रेहि सार्धं अन्याये च जनताये भगवन्तं दीपंकरं प्रत्युद्गतो॥

अपरो श्रोत्रियो षडङ्गवित्त्रयाणां वेदानां पारगो साक्षरप्रभेदानामितिहासपंचमानां सनिघण्टकैटभानां माणवकानां आचार्यो कुशलो ब्राह्मणकेषु देवेषु पंच माणवकशतानि वेदमन्त्रा वाचयति॥ तहिं द्वे माणवका संमोदिका प्रियमाणा

p. 232
मेघो च नाम माणवको मेघदत्तो च॥ मेघमाणवको पण्डितो धीरो मेधावी तीक्ष्णबुद्धिको॥ तेन नचिरस्यैव सर्वे मन्त्रा अधीता॥ सो दानि अधीतवेदाध्ययनो अनुहिमवन्ता जनपदं ओकस्तो आचार्यस्य आचार्यधनं पर्येषयिष्यामि इति॥ यष्टिकमण्डलुच्छत्रं उपानहांश्च स्नानशाटिं आदाय यस्य ग्रामस्य वा नगरस्य वा निगमस्य वा सीमामाक्रामति तं निरीतिकं निरुपद्रवं च भवति मेघस्य माणवकस्य तेजोधातुभावेन॥ तेन यायिना पुरुषो विज्ञप्तो॥ तेनैवं पंच पुराणशतानि दिन्नानि॥ तस्य दानि एतदभूषि॥ यं नूनाहं आगतको येन दीपवती राजधानी चक्रवर्तिपुरं सप्तरतनामयं अभिरमणीयं पश्येयन्ति॥ सो दानि दीपवतीं राजधानीं प्रविष्टो पश्यति च दीपवतीं राजधानीं अलंकृता॥ तस्य एतदभूषि॥ किमिदं अद्य दीपवतीये राजधानीये पर्वं वा प्रयोगं वा उत्सवं वा॥ अथ राज्ञो अर्चिमस्य श्रुतं मेथो माणवको अधीतवेदाध्ययनो अनुहिमवन्तातो जनपदमोकस्तो सो दीपनतीं राजधानीं आगमिष्यति। ततो इमं नगरवरमलआंकृतं ति॥ सो पुरेगामी योजनो प्रविशति सो तं कंचित्पृच्छति॥ तहिं अपरा माणविका प्रासादिका दर्शनीया अचपला अनुद्धता अप्रगल्भा उदकघटमादाय सप्त च उत्पलानि गच्छति॥ सा तेन पृच्छता भवति॥ अद्य नगरे उत्सवो॥ अथ खलु प्रकृति माणविका मेघं माणवकं गाथाभिरध्यभाषे॥

अपि तु नासि माणवा इतो अन्यपुरादसि त्वं इहागतो।
यो लोकहितं प्रभंकरं दीपवतीं प्राप्तं न बुध्यसे॥

p. 233
दीपंकर लोकनायको अर्चिमतो तनयो महायशो।
बुद्धो नगरं प्रवेक्ष्यति तस्य कृते नगरं अलंकृतं॥

सा तेन पृच्छिता॥ कथं ते भवति इमा उत्पलानि क्रीतानि॥ सा तं आह॥ पंचहि पुराणशतेहि पंच उत्पलानि क्रीतानि द्वे च मे मैत्राय लब्धानि॥ मेघो माणवो आह॥ अहन्ते पंच पुराणशतानि देमि देहि मे तानि पंच उत्पलानि। अहं एतेहि पंचहि उत्पलेहि भगवन्तं दीपंकरं पूजयिष्यामि। त्वं हि द्वीहि पिं अर्चय॥ सा आह॥ समयतो ते पंच उत्पलानि ददेहं। यदि मम भार्यामुपादियसि यत्रयत्र उपपद्यसि अहं च तव भार्या भवेयं त्वं च मम स्वामिको भवेसि॥ मेघो माणवो आह॥ अनुत्तराये सम्यक्संबोधये चित्तमुत्पादयिष्यामि कथं संयोगे चित्तमुत्पादयिष्यामि॥ सा आह॥ उत्पादेहि तुवं तव न अन्तरायं करिष्यामि॥ तेन मेघेन मानवकेनाभ्युपगता॥ उपादियामि तव भार्यां तेषामुत्पलानामर्थाये॥ भगवन्तं दीपंकर पूजयिष्यामि अनुत्तराये च सम्यक्संबोधये चित्तमुत्पादयिष्यामि॥ तेन पंच पुराणशतानि दत्त्वा पंचोत्पलानि गृहीता उदारं च से प्रीतिप्रामोद्यं काये उत्पन्नं बुद्धशब्दं प्रकृतिये माणविकाये श्रुत्वा॥

यदिच्छसि पूजितुं लोकनायकं
जलजेहि माल्येहि मनोरमेहि।
उपादियाहि मममद्य भार्यां
प्रेम्नानुरक्ता सततं ति भेष्यं॥
उदुम्बरस्य यथ पुष्पं दुल्लभं
कदाचिदुत्पद्यतिं लोके माणव।

p. 234
एमेव बुद्धान महाशयान
कदाचिदुत्पादं तथागतानां॥
पूजेहि बुद्धं नरदम्यसारथिं
जलजेहि माल्येहि मनोरमेहि।
बोधाय ते भेष्यति हेतुभूतं
भार्या च ते भेष्यि अहं तहिंतहिं॥

मेघ आह॥

उपादियामि तव अद्य भार्यां
जलजान अर्थाय मनोरमाणां।
पूजेष्यि बुद्धं नरदम्यसारथिं
बोधाय मे भेष्यति हेतुभूतं॥
सा हृष्टा संवृत्ता अदासि उत्पलां
स्नेहन प्रेम्णानुगतं विदित्वा।
गच्छन्तमेनं अनुगच्छि चारिकां
शृंगाटके यत्र स्थितो हि माणवो॥

भगवानशीतिहि भिक्षुसहस्रेहि परिवृतो राज्ञा च अर्चिमेन अशीतिहि च कोट्टराजान सहस्रेहि अनेकेहि च क्षत्रियमहाशालसहस्रेहि श्रमणब्राह्मणतीर्थकरेहि दीपवतीं राजधानीं संस्प्रस्थितो॥

गमनसमये भगवतो देवसहस्राणि सन्निपतितानि।
सप्तरतनामयानि च्छत्रसहस्राणि आदाय॥
अथ सो महागुणधरो संप्रस्थितो अग्रतो गणवरस्य।
मत्तगजखेलगामी मरीचिजालावततकायो॥

p. 235
वेरुलिकस्फाटिकमयकांचनधनकनकसुकृतदण्डानि।
छत्राणि देवपुत्रा धारेन्ति विशुद्धदेवस्य॥
देवाभिनिर्मितानि नभे तरुणादित्यमण्डलनिभानि।
तपनीयकिंकिणीयारुचिरा वरनन्दिघोषाणि॥
सप्तरतनामयं पि च दिव्यं दिव्यकुसुममण्डितच्छत्रं।
छत्राधरस्य लोके धारयि च्छत्रं त्रिदशराजा॥
त्रिसहस्राधिपतिं पि च कांचनघनकनकसुकृतदण्डाये।
वरचामराये विरजं वीजेन्ति नरेन्द्रं चानुगताः॥
अत्युन्नता च नमति नतापि अत्युन्नता भवति भूमिः।
प्रविशन्तस्य भगवन्तो समं दशबलानुभावेन॥
समन्तन्तरं च भगवां दक्षिणमेव चरणं कनककमलं।
परिहरति इन्द्रकीले तत्र भवति अद्भुतो घोषो॥
आडम्बरा मृदङ्गा पटहा असंघट्टिता प्रवाद्यन्ति।
शंखा पणवा च वेणु प्रविशन्तिस्मं नरवरस्मिं॥
यानि रतनानि नगरे निहितानि पेटककरण्डगतानि।
तानि पि संघट्टेन्सुः रतनवरविदुस्मिं प्रविशन्ते॥
अथ महारहाणि मृदूनि वस्त्रयुगा मार्गे संस्तरयेन्सु।
भगवतो नानाविधानि रंगरक्ता काशिकदुकूला॥

अलंकृतो लोकनायको कोशिकारकं क्षौमं यं तूला काचिलिन्दिक अजिनप्रवेणिं

p. 236
च वनरुस्ता तमकूटातपकोट्टवकसुभूमि तोषलकोलमचिरावोकोद्भव आमं रक्तक पंचविधा नय ल्लं॥

याव च अग्रोद्यानं याव च अन्तःपुरं महिपतिस्य।
शोभति नरेन्द्रमार्गो दुष्यशतसहस्रसंस्तीर्णो॥
अथ च वनखण्डरगता प्रमदा अध्योकिरन्ति नरसिंहं।
कुसुमनिकरकं ग्रहेत्व कनकगिरिनिभं अभिकिरन्ति॥
यथयथ महानुभावो दीपवतीमभ्युपेति कारुणिको।
तथातथा कुसुमनिकरं मुंचन्ति यशस्विनो भवतो॥
तानि च करप्रमुक्ता सुरभीणि पंचवर्णो.......।
संस्थिहति पुष्पकंचुको भगवतो लोकनाथस्य॥
गगनपथे निरालम्बे अभ्यन्तरकण्टकानि सुरभीणि।
स्थातु प्रादक्षणिये अभिदक्षिणं कुर्वि कुसुमानि॥
गच्छति अनुगच्छन्ति तिष्ठन्ति स्थाति लोकप्रद्योते।
ईर्यापथमृद्धिमतो सर्वाभिभुनो न विजहन्ते॥
संवर्तका पि वाता यदि विवहेन्सुः इमां त्रिसाहस्रां।
न विकोपये कुतो पुन वहेन्सु तं पुष्पकंचुककं॥
भगवन्तं कनकनिभं कनकवरमुच्छुसमवर्णं दृष्ट्वा।
दिवि मरुण गणा तद उदीरयेन्सुः अहो धर्मं॥

p. 237
प्रमुक्तपुष्पावकीर्णं च अम्बरं धरणियं च कुसुमोघा।
शोभन्ति जानुमात्रा पुष्पं च कञ्चुकमाकाशे॥
हिक्कारा तूर्यमिश्रा समन्ततो वर्तन्ति अहो धर्मं।
ओनादेन्ति पुरवरं नरवृषभस्मिं प्रविशन्तस्मिं॥
हंसकरविंकवर्हिणपरभृतसुरवा च भृंगनिर्घोषा।
दीपवतीये निशाम्यति निध्रतनध्वनितविमिश्रा॥

अद्दशासि महामौद्गल्यायन मेघो माणवो भगवन्तं दीपंकरं दूरतो येव आगच्छन्तं द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागतमशीतिहि अनुव्यंजनेहि उपशोभितशरीरं अष्टादशेहि आवेणिकेहि बुद्धधर्मेहि समन्वागतं दशहि तथागतबलेहि बलवं चतुर्हि वैशारद्येहि समन्वागतं। नागो विय कारितकारणो अन्तोगतेहि इन्द्रियेहि अवहिर्गतमानसेन स्थितो धर्मावस्थाप्राप्तः शान्तेन्द्रियो शान्तमानसो उत्तमदमशमथपारमिप्राप्तो गुप्तो नागो जितेन्द्रियो ह्रदमिव अच्छो अनाविलो विप्रसन्नो प्रासादिको दर्शनीयो आसेचनको अप्रतिकूलो दर्शनाये योजनगताये प्रभाये ओभासयन्तो॥ दृष्ट्वा च पुनरस्य अद्वयसंज्ञा उदपासि॥ अहमपि बुद्धो लोके भविष्यामि॥ अथ खलु मौद्गल्यायन मेघो माणवो ताये वेलाये इमां गाथामभाषि॥

चिरस्य चक्षुं उदपासि लोके
चिरस्य उत्पादो तथागतानां।
चिरस्य मह्यं प्रणिधिः समृद्धा
बुद्धो भविष्यामि न मे त्र संशयः॥

p. 238
अथ महामौद्गल्यायन मेघो माणवो उदारं हर्षसंवेगं उदारं प्रीतिप्रामोद्यं संजनयित्वा तानि पंचोत्पलानि भगवतो दीपंकरस्य क्षिपि। तानि पि प्रभाजालं मुखमण्डलमनुपरिवारेत्वा अस्थासु॥ प्रकृत्ये पि माणविकाये तानि दुवे उत्पलानि क्षिप्तानि। तानि पि अन्तरीक्षे अस्थान्सु॥ त्रीहि प्रातिहार्येहि बुद्धा भगवन्तो सत्वां विनेन्ति ऋद्धिप्रातिहार्येण आदेशनाप्रातिहार्येण अनुशासनीप्रातिहार्येण॥ भगवतो दीपंकरस्य या च मेघेन माणवेन पंच उत्पलानि क्षिप्ता या च प्रकृतीये माणविकाये या च अन्याये जनताये क्षिप्ता तं भगवतो पुष्पवितानमधिष्ठितं सत्वानां वैनेयवशेन मेघस्य च माणवस्य प्रीतिप्रामोद्यसंजननार्थं प्रासादिको दर्शनीयो चतुःस्थूणो चतुःद्वारो ओसक्तपट्टदामकलापो॥

मेघस्य तानि जलजानि भगवतो प्रभामण्डलस्योपरि समन्तेन स्थितानि दृष्ट्वा प्रासादिकानि प्रसदनियानि प्रीतिप्रामोद्यं काये उत्पद्ये उदारो च चेतनाप्रादुर्भावो॥ सो कमण्डलुमेकान्ते निक्षिपित्वा अजिनं च प्रज्ञपेत्वा भगवतो दीपंकरस्य क्रमेषु प्रणिपतित्वा केशेहि पादतलानि संपरिमार्जन्तो एवं चित्तमुत्पादेति॥ अहो पुनरं पि भवेयं अनागतमध्वानं तथागतोऽर्हं सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च यथायं भगवां दीपंकरो एतरहिं॥ एवं द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागतो भवेयं अशीतिहि अनुव्यंजनेहि उपशोभितशरीरो अष्टादशहि आवेणिकेहि बुद्धधर्मेहि समन्वागतो दशहि तथागतबलेहि बलवां चतुर्हि वैशारद्येहि सुविशारदो यथायं भगवां दीपंकरो एतरहिं॥ एवं च अनुत्तरं धर्मचक्रं प्रवर्तेयं यथायं भगवां दीपंकरो एतरहिं॥ एवं समग्रं श्रावकसंघं परिहरेयं। एवं च देवमनुष्याः श्रोतव्यं

p. 239
श्रद्धातव्यं मन्येन्सुः। एवं तीर्णो तारयेयं मुक्तो मोचयेयं आश्वस्तो आश्वासयेयं यथायं भगवां दीपंकरो एतरहि॥ भवेयं बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च॥ अथ महामौद्गल्यायन भगवान्दीपंकरो मेघस्य माणवस्य अनुत्तरेण बुद्धज्ञानेन महासमुदागमनं च ज्ञात्वा कुशलमूलसम्भारं च चेतोप्रणिधानं ज्ञात्वा अखण्डमच्छिद्रमकल्माषमव्रणं अनुत्तराये सम्यक्संबोधये व्याकार्षीत्॥ भविष्यसि त्वं माणव अनागतमध्वानं अपरिमिते असंख्येये कल्पे शाक्यानां कपिलवस्तुस्मिं नगरे शाक्यमुनिर्नाम तथागतोऽर्हं सम्यक्संबुद्धो विद्याचरसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च यथाप्यहमेतर्हिं द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागतो अशीतिहि अनुव्यंजनेहि उपशोभितशरीरो अष्टादशेहि आवेणिकेहि बुद्धधर्मेहि समन्वागतो दशहि तथागतबलेहि बलवां चतुर्हि वैशारद्येहि सुविशारदो॥ एवं तीर्णो तारयिष्यसि मुक्तो मोचयिष्यसि आश्वस्तो आश्वासयिष्यसि परिनिर्वृतो परिनिर्वापयिष्यसि यथापि अहमेतर्हि। एवं चानुत्तरं धर्मचक्रं प्रवर्तयिष्यसि। एवं च समग्रं श्रावकसंघं परिहरिष्यसि। एवं च देवमनुष्या श्रोतव्यं श्रद्धातव्यं मनिष्यन्ति। यथापि अहमेतर्हिं तं भविष्यसि बहुजनहिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च॥ समन्तरव्याकृतो च महामौद्गल्यायन भगवता दीपंकरेण मेघो माणवो अनुत्तराये समय्क्संबोधये तालमात्रं वैहायसमभ्युद्गम्य एकांशीकृतो प्राञ्जलीकृतो भगवन्तं दीपंकरं सश्रावकसंघं नमस्यमानो॥ इयं च महापृथिवी तत्क्षणं तत्मुर्हूतं अतीव षड्विकारं कम्पे संकम्पे। भूम्या च देवा घोषद्

p. 240
श्रावयेन्सुः॥ एवं मेघो माणवो भगवता दीपंकरेण अनुत्तराये सम्यक्संबोधये व्याकृतो तद्भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च॥ भूम्यानां देवानां घोषं श्रुत्वा अन्तरीक्षेचरा देवा चातुर्महाराजिका देवा त्रास्त्रिंशा यामा तुषिता निर्माणरतिनो परनिर्मितवशवर्तिनो इति हि तत्क्षणं तत्मुर्हूतं याव ब्रह्मकायं घोषमभ्युद्गमे॥ एवं मार्ष मेघो माणवो भगवता दीपंकरेण अनुत्तराये सम्यक्संबोधये व्याकृतो तं भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च॥ अप्रमेयस्य च उदारस्य महतो ओभासस्य लोके प्रादुर्भावो आसि॥ या पि ता लोके लोकान्तरिका अन्धकारा अन्धकारार्पिता तमिस्रा तमसार्पिता अघा अघसंभूतपूर्वा यत्र इमे पि चन्द्रमसूर्या एवं महर्द्धिका एवं महानुभावा आभया आभां नाभिसंभुणन्ति आलोकेन वा आलोकं न स्फरन्ति ते पि तेन ओभासेन स्फुटा अभून्सुः। ये पि तत्र सत्वा उपपन्नाः ते पि अन्योन्यं संजानेन्सुः॥ अन्ये पि किल भो इह सत्वा उपपन्नाः अन्ये पि किल भो सत्वाः इहोपपन्ना। एकान्तसुखसमर्पिता च तत्क्षणं तत्मुहूर्तं सर्वसत्वा अभून्सु॥ ये पि अवीचे महानरके उपपन्ना अतिक्रमे व देवानां देवानुभावं नागानां नागानुभावं यक्षाणां यक्षानुभावं॥ ध्यामानि च अभून्सुः मारभवनानि निष्प्रभाणि निस्तेजानि निरभिरम्याणि। क्रोशिकान्यप्यस्य खण्डानि प्रपतेन्सु। द्विक्रोशिकान्यप्यस्य खण्डानि प्रपतेन्सु। त्रिक्रोशिकान्यप्यस्य खण्डानि प्रपतेन्सु। योजनिकान्यप्यस्य खण्डानि प्रपतेन्सु। ध्वजाग्राण्यप्यस्य प्रपतेन्सुः॥ मारो च पापीमां दुःखी दुर्मना विप्रतिसारी अन्तोशल्यपरिदाघजातो अभूषि॥


p. 241
अजिनं प्रज्ञपयित्वा कमण्डलुं निक्षिपयित्व एकान्ते
क्षिपियानुत्पलहस्तं निपते क्रमवरेहि चक्षुमतो॥
तानि च करप्रमुक्ता सुरभीणि पंचवर्णो........।
संस्थिहति पुष्पकंचुको भगवतो लोकनाथस्य॥
गगनपथे निरालम्बे अभ्यन्तरकण्टकानि सुरभीणि।
स्थातु प्रादक्षिणिये अभिदक्षिये अभिदक्षिणं कृत्व कुसुमानि॥
गच्छति अनुगच्छन्ति तिष्ठन्ति स्थाति लोकप्रद्योते।
ईर्यापथमृद्धिमतो सर्वाभिभुनो न विजहन्ते॥
संवर्तका पि वाता यदि विवहेन्सुः इमां त्रिसाहस्रां।
न विकोपये कुतो पुन वहेन्सु तं पुष्पकंचुककं॥
भगवन्तं कनकनिभं कनकवरमुच्छुसमवर्णं दृष्ट्वा।
दिवि मरूण गणा तद उदीरयेन्सुः अहो धर्मं॥
अथ सागराम्बरमही संकम्पे च दिवि देवसंघेषु।
व्याकरणस्मिं व्याकृते अभ्युद्गमि अद्भुतो घोषो॥
एषो मेघो भवता एकान्तसुभाषितोच्छ्रितध्वजेन।
दीपंकरेण मुनिना व्याकृतो भविष्यसि जिनो तुवं॥
तं हितसुखाय काहसि सब्रह्मसुरासुरस्य लोकस्य।
हायिष्यन्ति अपाया नरका मरु संविवर्धन्ति॥

p. 242
दीपं च लेनं च परायणं च
दीपंकरो नाम अभूषि शास्ता।
इतो असंख्येयतरस्मिं कल्पे
स्वाख्यातधर्मो भगवां नरेशो॥
सो उत्तमार्थं अभिगम्य पण्डितो
विशारदं वर्तयि धर्मचक्रं।
सत्ये न धर्मे च स्मृतो प्रतिष्ठितो
महद्भयाद्विषमादुद्धरे प्रजां॥
मेघोऽन्द्दशा श्रमणगणस्य नायकं
दीपंकरं परमविचित्रलक्षणं।
चित्तं प्रसादेत्व जिनं अवन्दि च
सो वन्दमानो प्रैणिधिं अकासि॥
एवं अहं लोकमिमं चरेयं
यथा अयं चरति असंगमानसो।
चक्रं प्रवर्तेयमनन्यसादृशं
सुसंस्कृतं देवमनुष्यपूजितं॥
अर्थं चरेय लोके देवमनुष्या देशेयं धर्मं।
एवं विनेय सत्वा यथा अयं लोकप्रद्योतो॥
प्रणिधिं च ज्ञात्वान असंगसंगतं
सर्वेहि हेतूहि उपस्थितं जिनो।
अखण्डमच्छिद्रमकल्माषाव्रणं
मतिमां...व्याकरे अर्थदर्शी॥

p. 243
बुद्धो तुवं भेष्यसि मेघ माणव
अनागते अपरिमितस्मिं कल्पे।
कपिलाहूये ऋषिभवनस्मिं शाकियो
तदा त्वं पि प्रणिधिविपाकमेष्यसि॥

तेन अपराणि पंच पुराणशतानि प्रेषितानि आचार्यस्य॥ निर्यातेत्वा एवंविधं सर्वं मेघदत्तस्य आचिक्षति॥ एवं मये भगवां दीपंकरः पूजितो अनुत्तराये सम्यक्संबोधये व्याकृतो॥ गच्छाम तहिं भगवतो दीपंकरस्य सन्तिके ब्रह्मचर्यं चरिष्याम तां च समितिमनुभविष्यामः॥ सो आह॥ अहं ताव असमाप्तवेदो तत्र न शक्यामि गन्तुं॥

गथा काष्ठं विवह्यते महन्ते उदकार्णवे।
संघट्टितो विनश्यति एवं प्रियसमागमो॥

मेघो गत्वा भगवतो दीपंकरस्य सन्तिके प्रव्रजितो॥ ते तादृशा कल्याणमित्राणागम्य बुद्धसहस्रकोटियो अपरिमेयां असंख्येयां आराधेत्वा पूजयित्वा च सश्रावकसंघां अप्रमेयानि च प्रत्येकबुद्धकोटिनियुता पूजयित्वा दिव्यमानुषिकां संपत्तिमनुभवन्ति यावदनुत्तरां सम्यक्संबोधिमभिसंबुद्धा॥ यो रूपं नरदम्यसारथिं श्रुत्वा न रूपं न उपादिं गच्छेहं उपादेहं च॥ सो त्वाह॥ शिरःप्रणामाये एष अतीव प्रवणो मेघो वर्तते॥ मेघस्य माणवस्य सकाशातो बुद्धशब्दं श्रुणित्वा न हृष्टो। पापमित्रसमंगिताये पंचानन्तर्याणि कृतानि॥ परदारे प्रसक्तो तत्र काले वा वि-   

p. 244
काले वा गच्छति॥ तं माता पुत्रस्नेहेन निवारेति मा तत्र पारदारिको ति कृत्वा घातयिष्यति॥

रक्तो अर्थं न जानाति रक्तो धर्मं न पश्यति।
अन्धकारे तदा भवति यं रागो सहते नरः॥

सो तां मातरं घातयित्वा तस्या इस्त्रिकाये सकाशं गतो यत्र प्रसक्तो हस्यैव तां प्रकृतिमाचिक्षति॥ एवं त्वं मम इष्टा यं मया तव कारणा माता जीविताद्यपरोपिता॥ सा स्त्री उद्विग्ना संवृत्ता॥ ताय उक्तो॥ मा मे भूयो आगच्छसि॥ अपरमातरं प्रसक्तो॥ ततो तं सा अपरमाता आह॥ एथ पितरं जीविताद्व्यरोपेहि त्वं च मे स्वामिको भविष्यसीति॥ तेन दानि सो पिता जीविताद्व्यपरोपितो॥ सो तत्र अधिष्ठाने जुगुप्सितो संकृत्तो॥ मित्रज्ञातिका परिवर्जेन्ति॥ सो ततो अधिष्ठानातो अन्यमधिष्ठानं संक्रान्तो अत्र मे न कोचि जानिष्यति॥ तस्य यो मातापितॄणां भिक्षु कुलोपको आसि अरहा महानुभावो सो जनपदचारिकां चरमाणो तमधिष्ठानमनुप्राप्तो॥ तेन दानि सो दानपतिपुत्रो भिक्षुणा तहिं अधिष्ठाने दृष्टो॥ सो पि तं भिक्षुं दृष्ट्वा शंकी संवृत्तो मा मे भिक्षु इमंहि अधिष्ठानंहि दूषयतीति॥ तेन दानि सो पि अरहा भिक्षु जीविताद्व्यपरोपितो॥ सो दानि यो तदा आसि सम्यक्संबुद्धो तस्य शासने प्रव्रजितो॥ तेन दानि शासने प्रव्रजित्वा संघो च भिन्नो बुद्धस्य रुधिरं उत्पादितं॥ एतानि पंचानन्तर्याणि कर्माणि कृत्वा महानरकेषुपपन्नो॥    

सो अष्टसु महानरकेषु षोडशोत्सदेषु सुचिरं दीर्घमध्वानं संधावित्वा संसरित्वा  

p.245  
यदा भगवता शाक्यमुनिना अनुत्तरा सम्यक्संबोधिरभिसंबुद्धा प्रवृत्तः सो महासमुद्रे तिमितिमिंगिलो नाम मत्स्यजाति आयामतो बहुयोजनशतिकेन आत्मभावेन॥ यदा थपकर्णि गृहपति सयानपात्रो पंचशतपरिवारो तेन महासमुद्रं ओकस्तो तदा तेन मकरभूतेन बुभुक्षितेन मुखं उच्छ्वासितं भोजनार्थिकेन॥ ततो यानपात्राणि स्थपकर्णिकस्य गृहपतिस्य येन तं मकरमुखं तेन प्रधाविता॥ निर्यातमुख आह॥ गृहपति इमानि यानपात्राणि बडवामुखे पतितानि यं दानि करणीयं तं करोथ नास्ति दानि वो जीवितं॥ ते दानि देवदेवतां नमस्यन्ति स्वकस्वकानि। केचिच्छिवं केचिद्वैश्रवणं केचित्स्कन्धं केचिद्वरुणं केचिद्यमं केचिद्धृतराष्ट्रं केचिद्विरूढकं केचिद्विरूपाक्षं केचिदिन्द्रं केचिद्ब्रह्मं केचित्समुद्रदेवतां। यावदायुष्मां पूर्णको समन्वाहरति पश्यति स्थपकर्णिकं गृहपतिं पंचशतपरिवारं संशयप्राप्तं॥ सो तुण्डतुरिकातो पर्वतातो वैहायसमभ्युद्गम्य महासमुद्रे थपकर्णिकस्य यानपात्रं उपरि वैहायसमन्तरीक्षे अस्थासि॥ ते सर्वे पंच वाणिजशतानि प्राञ्जलिं कृत्वा उत्थिता भगवं भगवं तव शरणगता स्म॥ स्थविरो आह॥ नाहं भगवां श्रावकोऽहमस्मि। सर्वे एककण्ठा नमो बुद्धस्येति उदीरेथ॥ तेहि सर्वेहि पञ्चेहि वणिजशतेहि नमो बुद्धस्येति विघुट्ठं॥ तस्य तिमितिमिंगिलस्य बुद्धशब्दः कर्णपथं गतो॥ तस्य तं शब्दं श्रुत्वा यो अप्रमेये असंख्येये कल्पे मेघस्य माणवस्य सकाशातो दीपंकरबुद्धशब्दो श्रुतो तं महासमुद्रे तिमितिमिंगिलभूतस्य आमूखीभूतो॥ अमोघो बुद्धशब्दो ति॥ तस्य दानि तिमितिमिंगिलस्य भूतस्य एतदभूषि॥ बुद्धो लोके प्रादुर्भूतो वयं च अपायगता॥ तेन दानि संविग्नेन पुनरपि मुखं संमीलितं॥ अनाहारो कालगतो तं बुद्धशब्दं समनुस्मरन्तो समनन्तरकालगतो श्रावस्त्यां महा-                                                                                                                                                                                                                         
p.246
नगर्यां ब्राह्मणकुले उपपन्नो तेन कालेन तेन समयेन प्रजातो दारको जातो॥ यथोक्तं भगवता नाहं भिक्षवो कर्मतो न्यद्वदेमि इति॥
तस्य दानि दारकस्य धर्मरुचिनाम कृतं॥ यदा महन्तो संवृत्तो तदा भगवतः शासने प्रव्रजितो॥ प्रयुज्यन्तेन घटन्तेन व्यायमन्तेन तिस्रो विद्या षडभिज्ञा बलवशीभावं साक्षात्कृतं॥ त्रिखुत्तो दिवसस्य भगवतः पादवन्दने उपसंक्रमति। यत्तकमुपसंक्रमति तत्तकं भगवां चोदेति स्मारेति चिरस्य धर्मरुचि सुचिरस्य धर्मरुचि॥ सो पि आह॥ एवमेतं भगवं एवमेतं सुगत। चिरस्य भगवं सुचिरस्य सुगत॥ भिक्षु संशयेन भगवन्तं पृच्चन्ति॥ त्रिखुत्तो दिवसस्य धर्मरुचिर्भगवन्तमुपसंक्रमति भगवाञ्च तमेवमाह चिरस्य धर्मरुचि सुचिरस्य धर्मरुचीति भगवन्तमेवमाह एवमेतं भगवं एवमेतं सुगत चिरस्य भगवं सुचिरस्य सुगत न च पुनर्भगवं वयमिमस्य भाषितस्य अर्थमाजानाम॥ तेषां भगवां भिक्षूणां एतां प्रकृतिं विस्तरेणारोचयति दीपंकरमुपादाय॥ अहं च मेघो माणवो नामेन आसि एषो च धर्मरुचि मेघदत्तो॥ एवं भिक्षवो अमोघो बुद्धशब्दो यावद्दुःखक्षयाय संवर्तति॥

तेन समयेन स्थविरो धर्मरुचि उपागमेसि शास्तारं।
पादौ जिनस्य वन्दति आह पि सुचिरस्य धर्मरुचि॥
सुचिरस्य लोकनायक धर्मरुचि प्रतिभणाति शास्तारं।
जानन्तं पृच्छति जिनो किंकारणं ब्रुसि सुचिरस्य॥
सो पुनराह पुरे अहं लवणजले तिमितिमिंगिलो आसि।
क्षुधादौर्बल्यपरिगतो विपरिमुषं भोजनार्थाये॥

p.247
तत्र बहु प्राणनयुता प्रविशेन्सुः तद शरीरदेहं मे।
वाणिजकशतानि पंच प्रविशेन्सु तथैव यानेन॥
पात्रे च प्रविशमाने अत्राणभयार्दिता व्यसनप्राप्ता।
सर्वे एकवाचमवचि नमो दशबलस्य बुद्धस्य॥
बुद्धेति श्रुत्व घोषं अश्रुतपूर्वमभूषिमहं प्रीतो।
हृष्टो उदगरचित्तो त्वरितं संमीलयेसि मुखं॥
सनेन्सु प्राणनयुतानि तिर्यग्योनिगता वणिजशतान।
घोषेण दशबलस्य व्युत्थितो तदाहमपायेषु॥
तेन कुशलेन भगवं इदं मे आरोपितं मनुष्यत्वं।
सुचरितफलेन तेन धर्मरुचीति मम समाज्ञा॥
तेनैवाहं हेतुना प्रव्रजितो तव स्वयंभु प्रावचने।
नचिरस्य प्रव्रजित्वा अभूषि अरहां धुतक्लेशो॥
बहुकल्पकोटिनयुता संसारं संसरित्वान अनन्तं।
अनुस्मारेन्तो सुगतं भणामि सुचिरस्य लोकहित॥
सुचिरस्य धर्मचक्षुर्विशोधितं धर्मसंशयं छिन्नं।
मोहतिमिरावजद्धं उषितो स्मि चिरं अपायेषु॥
तेन कुशलेन तिमिरं प्रहीनं रागद्वेषा च ऊहता।
अशेषा भवनेत्रिसरिता उच्छोषिता अयमिह जातिः॥
अस्य पि तिमितिमिंगिलस्य बुद्धश्रवणं महत्फलं आसि।
किं पुन इदानि भगवं इदं श्रुतं नावहेदमृतं॥

p.248
तस्माद्विवर्जयित्वा नीवरणा पंच चेतसावरणा।
श्रोतव्यं बुद्धवचनं दुल्लभसंज्ञामुपजनेत्वा॥
कृच्छ्रो मनुष्यलाभो विवर्जना च असाररूपवनात्।
बुद्धान च उत्पादो श्रद्धा च भवेय च निर्वृतिः॥

इति श्रीमहावस्तु अवदाने दीपंकरवस्तु समाप्तं॥

इतो महामौद्गल्यायन भद्रकल्पातो अपरिमिते अप्रमेये असंख्येये कल्पे दीपंकरातो अनन्तरं मङ्गलो नाम तथागतोऽर्हं सम्यक्संबुद्धो उदपासि॥ मङ्गलस्य महामौद्गल्यायन सम्यक्संबुद्धस्य वर्षकोटीशतसहस्रं मनुष्याणामायुःप्रमाणभूषि॥ मङ्गलस्य महामौद्गल्यायन सम्यक्संबुद्धस्य त्रयः श्रावकसन्निपाता अभून्सुः॥ प्रथमे श्रावकसन्निपाते कोटीशतसहस्रमभूषि सर्वेषामर्हतां क्षीणाश्रवाणामुषितव्रतानां सम्यगाज्ञासुविमुक्तचित्तानां परिक्षीणभवसंयोजनानामनुप्राप्तस्वकार्थानां। द्वितीयो श्रावकसन्निपातो नवति कोटीयो अभुन्सुः सर्वेषां अर्हतां क्षीणाश्रवाणां उषितव्रतानां सम्यगाज्ञासुविमुक्तचित्तानां परिक्षीणभवसंयोजनानां अनुप्राप्तस्वकार्थानां। तृतीयो श्रावकसन्निपातो अशीति कोटीयो अभुन्सु सर्वेषामर्हतां क्षीणाश्रवाणामुषितव्रतानां सम्यगाज्ञासुविमुक्तचित्तानां परिक्षीणभवसंयोजनानां अनुप्राप्तस्वकार्थानां॥ मङ्गलस्य खलु पुनर्महामौद्गल्यायन सम्यक्संबुद्धस्य सुदेवो च धर्मदेवो च नाम श्रावकयुगो अभूषि अग्रयुगो च भद्रयुगो च। एको अग्रो प्रज्ञाये अपरो अग्रो ऋद्धीये॥ मङ्गलस्य खलु पुनर्महामौद्गल्यायन सम्यक्संबुद्धस्य शीवाली च नाम भिक्षुणी अशोका च अग्रश्राविका अभुन्सुः। एका अग्रा प्रज्ञाये अपरा ऋद्धीये॥ मङ्गलस्य खलु महामौद्गल्यायन सम्यक्संबुद्धस्य पालितो नाम

p.249
भिक्षु पुस्थायको अभूषि॥ मङ्गलस्य खलु पुनर्महामौद्गल्यायन सम्यक्संबुद्धस्य नागवृक्षो अभूषि बोधि॥ मङ्गलस्य खलु महामौद्गल्यायन सम्यक्संबुद्धस्य उत्तरं नाम नगरं अभूषि। द्वादश योजनानि आयामेन पुरस्तिमेन पश्चिमेन च सप्त योजनानि विस्तारेण दक्षिणेन उत्तरेण च। सप्तहि प्राकारेहि परिक्षिप्तं सौवर्णेहि सौवर्णच्छदनेहि॥ सप्तहि दीर्घिकाहि परिक्षिप्तं अभूषि चित्राहि दर्शनीयाहि सप्तानां वर्णानां सुवर्णस्य रूप्यस्य मुक्तायाः वैडूर्यस्य स्फटिकस्य मुसागल्वस्य लोहितिकाया॥ तासां खलु पुनर्महामौद्गल्यायन दीर्घिकानां द्विन्नां वर्णानां सोपाना अभून्सुः सुवर्णस्य रूप्यस्य। चतुर्णां वर्णानां सोपानफलका अभुन्सु सुवर्णस्य रूप्यस्य च मुक्ताया वैडूर्यस्य च॥ तायो दीर्घिकायो छन्नायो अभून्सुः उत्पलपदुमकुमुदपुण्डरीकनलिनीसौगन्धिकेहि॥ तायो दीर्घिकायो इमेहि एवंरूपेहि वृक्षेहि प्रच्छन्नायो अभुन्सुः। सय्यथीदं अम्रजम्बुपनसलकुचभव्यपालेवतप्रच्छन्नायो॥ तासां खलु पुनर्दीर्घिकानां तीरेषु इमानि एवंरूपाणि स्थलजजलजानि माल्यानि अभुन्सु। सय्यथीदं अतिमुक्तकचम्पकवार्षिकावातुष्कार‍इन्दीवरदमनकदेवोपसंहिता॥ उत्तरं खलु पुनर्महामौद्गल्यायन नगरं सप्तहि तालपंक्तिहि परिक्षिप्तमभूषि॥ विस्तरेण दीपवती राजधानी यथा वर्णयितव्यं॥ मङ्गलस्य खलु पुनर्महामौद्गल्यायन सम्यक्संबुद्धस्य सुन्दरो नाम क्षत्रियो पिता अभूषि राजा चक्रवर्ती॥ मङ्गलस्य खलु पुनर्महामौद्गल्यायन सम्यक्संबुद्धस्य शिरी नाम देवी माता अभूषि॥ तदाहं महामौद्गल्यायन अतुलो नाम नागराजा कृतपुण्यो महेशाख्यो उत्सदकुशलसंचयो॥

p.250
ततो मया सो भगवां मङ्गलो सश्रावकसंघो.........सत्कृत्वा गुरुकृत्वा मानयित्वा पूजयित्वा दुष्ययुगमाछादं दत्त्वा बोधाय अनुप्रणिहितं॥ तेनाप्यहं व्याकृतो भविष्यसि त्वमनागताध्वाने अपरिमिते असंख्येये कल्पे शाक्यमुनिर्नाम तथागतो र्हं सम्यक्संउद्धो॥

दीपंकरस्य ओत्तरेण मङ्गलो नाम नायको।
तमं लोके निहत्वान धर्मोल्कामभिज्वालयेत्॥
अतुला आसि प्रभा तस्य जिनेहि अन्येहि उत्तरा।
कोटिसूर्यप्रभां हत्वा सहस्रारैः विरोचते॥
सो च बुद्धो प्रकाशेति चत्वारि सत्या उत्तमां।
ते तं सत्यरसं पीत्वा विनोदेन्सु महातमं॥
बोधिं बुद्ध्वा अतुलां देवा प्रथमे धर्मदेशने।
कोटिशतसहस्राणां प्रथमाभिसमयो अभूत्॥
यदा............................।
तदा आहनि संबुद्धो धर्मभेरीं वरमुत्तमां॥
पुनरपि देवसमये यदा सत्यां प्रकाशयेत्।
द्वितीये नवति कोटी द्वितीयाभिसमयो अभूत्॥
यदा सुनन्दो चक्रवर्ती बुद्धधर्ममुपागमि।
तदा आहनि संबुद्धो धर्मभेरीं वरमुत्तमां॥
सुनन्दानुचरा जनता नवतिं आसि कोटियो।
सर्वे ते निरवशेषा अभूद्बुद्धस्य श्रावका॥

p.251
पुनरपि देवसमये यदा सत्यां प्रकाशयेत्।
अशीतिं तृतीये कोटी तृतीयाभिसमयो अभूत्॥
यदा उत्तरो गृहपति बुद्धदर्शनमुपागमि।
तदा आहनि संबुद्धो धर्मभेरीं वरमुत्तमां॥
उत्तरानुचरा जनता अशीतिं आसि कोटियो।
सर्वे ते निरवेशेषा अभू बुद्धस्य श्रावकाः॥
सन्निपाताः त्रयो आसि मङ्गलस्य महर्षिणो।
क्षीणाश्रवाणां विरजानां शान्तचित्तानुतापिनां॥
कोटीशतसहस्राणां प्रथमो आसि समागमो।
द्वितीयो नवतिं कोटी अशीतिं तृतीयो अभूत्॥
अहं तेन समयेन नागराजा महर्द्धिको।
अतुलो नाम नामेन उत्सदकुशलसंचयो॥
नागानां दिव्येहि तूर्येहि मङ्गलस्य महर्षीणो।
अर्चये दुष्याणि दत्त्वान शरणं तमुपागमि॥
सो मे बुद्धो वियाकार्षीत् मङ्गलो लोकनायको।
अपरिमेये इतो कल्पे बुद्धो लोके भविष्यसि।
शाक्यानां नगरे रम्ये स्फीते कपिलसाह्वये॥
तस्य ते जननी माता माया नामेन भेष्यति।
पिता शुद्धोदनो नाम तव भविष्यति गौतमः॥
कोलितो उपतिष्यो च अग्रा भेष्यन्ति श्रावकाः।
क्षेमा उत्पलवर्णा च अग्रा भेष्यन्ति श्राविका।
आनन्दो नाम नामेन उपस्थायको भविष्यति।

p.252
बोधि भविष्यति तुह्यं अश्वत्थो वरपादपः॥
तस्य व्याकरणं श्रुत्वा मङ्गलस्य महर्षिणः।
विरियं प्रग्रहेत्वान दृढं कृत्वान मानसं।
चरन्तो बोधिचर्याणि नाहं कंचित्परित्यजे॥
उत्तरं नाम नगरं सुन्दरो नाम क्षत्रियो।
शिरिका नाम जनिका मङ्गलस्य महर्षिणो॥
सुदेवो धर्मदेवो च अभून्सुः अग्रश्रावकाः।
शीवाली च अशोका च अभून्सु अग्रश्राविका॥
पालितो नाम उपस्थाको मंगलस्य महर्षिणो।
बोधि तस्य नागवृक्षो बोधिवृक्षं सुपुष्पितं॥
कोटीशतसहस्राणां संघो आसि महर्षिणो।
तिष्ठमानो महावीरो तारेसि जनता बहुं॥
तारयि बहुजनतां वैस्तारिकं कृत्व शासनं।
ज्वलितो अग्निस्कन्धो वा सुरियो वा समुद्गतो॥
यथा सागरस्य ऊर्मियो न शकियं गणयितुं।
तथैव भगवतो पुत्रा न शकियं गणयितुं।
सो च बुद्धो महाभागो सद्धर्मो च गणोत्तमो।
सर्वे समनन्तरातीता अनुरिक्ता एव संस्काराः॥

इति श्रीमहावस्तु अवदाने मंगलस्य वस्तुं समाप्तं॥

p.253
अथ च्छत्रवस्तुके आदि॥ अनुहिमवन्ते कुण्डला नाम यक्षिणी प्रतिवसति॥ सा दानि समं समं च पुत्रशता पंच प्रजायति। पुत्रसहस्रं प्रजाता सा कालं करोति॥ ते पि वैशालिं ओजोहारका प्रेषिता॥ वैशालिं गत्वा मनुष्याणामोजं हरन्ति॥ रोगजाता आर्द्धा मण्डलको च अधिवासो च। मण्डलको रोगजातो यहिं कुले निपतति न किंचि शेषेति सर्वं हरति। अधिवासो नाम रोगजातो प्रदेशं हरति॥ तदानि वैशालिका अधिवासेन रोगजातेन स्पृष्टा मरन्ति॥ ते देवदेवां नमस्यन्ति॥ तेषामेतदभूषि॥ कस्मिन्नु खव्लागते वैशालकानामाबाधो प्रतिप्रशाम्येया॥ तेहि दानि काश्यपस्य पूरणस्य प्रेषितं॥ आगच्छाहि वैशालकानाममनुष्यव्याधि उत्पन्नो त्वयि आगते प्रतिप्रश्रब्धो भविष्यति॥ काश्यपपूरणो वैशालिमागतो न च तं व्याधिं प्रतिप्रस्रभ्यति॥ तेषामेतदभूषि॥ आगतो काश्यपो नैव च वैशालकानाममनुष्यव्याधिः प्रतिप्रस्रभ्यति॥ तेहि दानि मस्करिस्य गोशालिपुत्रस्य प्रेषितं॥ सो पि आगतो न च वैशालिकानाममनुष्यव्याधिः प्रतिप्रस्रभ्यति॥ तेहि दानि ककुदस्य कात्यायनस्य प्रेषितं॥ सो पि आगतो न च वैशालिकानामन्मनुष्यव्याधिः प्रतिप्रस्रभ्यति॥ तहि दानि अजितस्य केशकम्बलस्य प्रेषितं॥ सो पि आगतो न च वैशालकानाममनुष्यव्याधि प्रतिप्रस्रभ्यति॥ तेहि दानि संजयिस्य वेरट्टिपुत्रस्य प्रेषितं। सो पि आगतो न च वैशालकानाममनुष्यव्याधि प्रतिप्रस्रभ्यति॥ तेहि दानि निर्ग्रन्थस्य ज्ञातिपुत्रस्य प्रेषितं॥ सो पि आगतो न च वैशालकानाममनुष्यव्याधिः प्रतिप्रस्रभ्यति॥ तेषां वैशालकानां ज्ञातिसालोहिता कालगता देवेहि उपपन्ना॥ तेषामन्यतरा देवता वैशालकानामारो-

p.254
चयति॥ ये एते तुभ्येहि आनीता अशास्तारो अशास्तारवादिनो न एते शक्ता वैशालकानाममनुष्यव्याधिं प्रतिप्रस्रंभयितुं॥ एष बुद्धो भगवां असंख्येहि कल्पेहि समुदागतो अर्हन्सम्यक्संबुद्धो अपरिशेषज्ञानदर्शनो महर्द्धिको महानुभावो सर्वज्ञो सर्वदर्शावी यत्र ग्रामक्षेत्रसीमायां प्रतिवसति सर्वं तत्र ईतिकलहं कलकलं उपद्रवा उपसर्गा प्रशाम्यन्ति॥ तमानेथ। तेन आगतेन वैशालकानाममनुष्यव्याधिः प्रतिप्रस्रभ्यते इति॥

राजगृहे मन्दिरपुरे विहरति वरकमलगर्भसुकुमारो।
सर्वा कलिकलहानि प्रशमयितानि जितक्लेशेन॥
सोपद्रवं काञ्चननिभो यं प्राप्तो ग्रामनिगमं नगरं वा।
शामयति तत्र ईतयो रजमिव बलवां सलिलवृष्टि॥
पाण्डरवर्णं काञ्चननिभं दिनकरपरिपूर्णचारुमुखं।
वरसुरभिशीलगन्धं आनेथ शाम्यति तु व्याधि॥

वैशाल्यां तोमरो नाम लेच्छविमहत्तरको महापक्षो महापरिवारो पण्डितो च॥ सो गणेन अध्येष्य प्रेषितो॥ गच्छ राजगृहं तहिं बुद्धो भगवां प्रतिवसति। श्रेणियस्य बिम्बिसारस्य याचितवासो प्रतिवसति॥ तं गत्वा वैशालकानां लिच्छवीनां वचनेन वन्दनां वदेसि सपरिवारस्य अल्पाबाधतां च अल्पातंकतां च सुखस्पर्शविहारतां च पृच्छेसि एवं च वदेसि॥ वैशालकानां भगवं लिच्छवीनाममनुष्यव्याधि उत्पन्नो बहूनि प्राणसहस्राणि अनयव्यसनमापद्यन्ति। साधु भगवानर्थकामो हि-

p.255
तैषी वैशालिमागच्छेया अनुकम्पामुपादाय॥ अथ तोमरो लेच्छविगणस्य प्रतिश्रुत्वा यथानुरूपेण परिवारेण सार्धं भद्राणि यानानि आरुहित्वा वैशालितो नगरातो नर्गम्य येन राजगृहं नगरं तेन प्रयासि॥ अथ खलु तोमरो लेच्छवि राजगृहनगरं गत्वा प्रविशित्वा राजगृहनगरं येन वेणुवनं कलन्दकनिवापं तेन प्रक्रमि भगवन्तं दर्शनाय उपसंक्रमणाय पर्युपासनाय॥ तेन खलु पुनः समयेन भगवान्तदहो पोषधे पंचदश्यां पूर्णायां पूर्णमास्यां पञ्चानां भिक्षुशतानां अन्याये च जनताये अनेकसहस्राये परिषाये धर्मं देशयति आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं स्वर्थं सुव्यञ्जनं केवलपरिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं प्रकाशयति॥ अथ तोमरो लेच्छवी यावत्तका यानस्य भूमिः तावद्यानेन गत्वा यानादवतीर्य पद्मामेव येन भगवांस्तेनोपसंक्रमि॥ सो दानि महेशाख्यां परिषां सन्निपतितां न शक्नोति प्रसह्य भगवन्तमुपसंक्रमितुं॥ सो दानि एकांसमुत्तरासंगं कृत्वा येन भगवांस्तेनांजलिं प्रणामेत्वा भगवन्तं गाथाये अध्यभाषि॥

उपोषधे पंचदशीविशुद्धये
उपासितुं ते ऋषयो समागता।
शक्रो च देवो त्रिदशान इन्द्रो
पुरस्कृतो तेषु असह्यसाहि॥
विरोचमानो भाषसि उत्तमं पदं
धर्मेण तर्पेसि बहुं इमां प्रजां।
महां व मेघः सलिलेन मेदिनीं
ते तुह्य श्रुत्वा मधुरामिमां गिरां॥
अनेलिकां धरयतो महामुने
नमस्कृत्वा अंजलिं वन्दमाना।

p.256
शरणन्ते गच्छाम असह्यसाहि
तेषां सुलब्धं च सु‍आगतं च॥
स तोमराणामहन्तिके भवं
ये ते प्रसन्ना शरणं उपेन्ति।
अथ अप्रमत्ता सुगतस्य शासने
काहिन्ति जातीमरणस्य अन्तं॥

गाथापर्यवसाने महता जनकायेन अन्तरो दिन्नो॥ अथ खलु तोमरो लेच्छवी येन भगवांस्तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा भगवन्तमेतदवोचत्॥ वैशालिका भगवं लेच्छवियो सवृद्धबाला अभ्यन्तरवैशालका च बाहिरकवैशालका च भगवतः पादा शिरसा वन्देन्ति सश्रावकसंघस्य सुखं च स्पर्शविहारतां च पृच्छेन्ति एवं च वदेन्ति॥ वैशाल्यां भगवन्नमनुष्यव्याधि उत्पन्नः बहूनि प्राणिसहस्राणि अनयव्यसनमापद्यन्ति भगवां च अनुकम्पको कारुणिको सदेवकस्य॥ साधु भगवां वैशालिमागच्छेय वैशालिकानामनुकम्पामुपादाय॥ भगवानाह॥ तथागतो तोमर राज्ञो श्रेणियस्य बिम्बिसारस्य याचितवासो वसति गच्छमनुजानापेहि॥ अथ खलु तोमरो लेच्छवी भगवतो पादौ शिरसा वन्दित्वा भगवन्तं च त्रिष्खुत्तं प्रदक्षिणीकृत्वा भिक्षुसंघं च येन राजगृहं तेन प्रक्रामि॥ अथ खलु तोमरो लेच्छवी येन राजा श्रेणियो बिम्बिसारस्तेनोपसंक्रमित्वा राजानं श्रेणियं बिम्बिसारं साधु च सुष्ठु च प्रतिसंमोदेत्वा एतदुवाच॥ वैशालीयं महाराज अमनुष्यव्याधि उत्पन्नो बहूनि प्राणिसहस्राणि अनयव्यसनमापद्यन्ति॥ तहिं षच्छास्तारो संमता आनीता काश्यपो च पूरणो मस्करी च गोशाली अजितो च केशकम्बली ककुदो च कात्या-

p.257
यनो संजयी च वेरट्टिकपुत्रो निर्ग्रन्थो च ज्ञातिपुत्रो॥ एतेहि आगतेहि वैशालकानाममनुष्यव्याधि नोपशाम्यति॥ ततो महाराज लेच्छवीनां देवताहि आरोचितं॥ एष उद्धो भगवानसंख्येये धर्मानुभावेन हि समुदागतो सदेवकस्य लोकस्य लेनो त्राणो शरणो परायणो देवातिदेवो शास्ता देवमनुष्याणां नागानामसुराणां यक्षाणां राक्षसानां पिशाचानां कुम्भाण्डानां॥ यो यं ग्रामक्षेत्रसीममाक्रमति तत्र सर्वे ईतिकलिककालकर्णी प्रशाम्यन्ति बुद्धानुभावेन धर्मानुभावेन संघानुभावेन॥ तमाथेन तेन आगतेन वैशाल्यानाममनुष्यव्याधिः प्रशाम्यतीति॥ साधु महाराज भगवन्तमनुजानाहि वैशालिं गमनाये अनुकम्पामुपादाय॥ एवमुक्तो राजा श्रेणियो बिम्बिसारो तोमरं लेच्छविमेतदुवाच॥ सचे वासिष्ठ वैशलका लेच्छवयो भगवतो राजगृहातो वैशालिं गच्छन्तस्य एवं प्रत्युद्गमनं करोन्ति यावत्स्वकं विजितं यथाहमनुयानं करोमि यावत्स्वकविजितमेत्स्ये हं भगवन्तमनुजानये राजगृहातो वैशालिं गमनाय॥ अथ खलु तोमरो लेच्छवी राज्ञो श्रेणियस्य बिम्बिसारस्य प्रतिश्रुत्वा वैशालिं गणस्य दूतां प्रेषयसि॥ एवं वासिष्ठाहो राजा श्रेणियो बिम्बिसारो जल्पति॥ अथ खलु ते दूता तोमरस्य लेच्छविस्य प्रतिश्रुत्वा वैशालिं गत्वा लेच्छविगणस्य आरोचेसि॥ एवं वासिष्ठाहो राजा श्रेणिको बिम्बिसारो तोमरस्य लेच्छविस्य जल्पति। सचे वैशालका लेच्छवयो भगवतो राजगृहातो वैशालिं गच्छन्तस्य एवं प्रत्युद्गमनं करोन्ति यावत्स्वकं विजितं यथा अहमनुयानं करोमि यावत्स्वकं विजितं एत्स्ये हं भगवन्तमनुजानेयं राजगृहातो वैशालिं गमनाय॥ एवमुक्ते वैशालेयका लेच्छवयः तादूतां........॥ एतद्वक्तव्यो वासिष्ठाहो राजा श्रेणियो बिम्बिसारो लेच्छविगणस्य वचनेन॥ करिष्यन्ति महाराज वैशालका लेच्छ-

p.258
वयो भगवतः प्रत्युद्गमनं यावल्लेच्छवीनां विजितं॥ अथ खलु ते दूता लेच्छविगणस्य प्रतिश्रुत्वा राजगृहं गत्वा तोमरस्य आरोचेन्सुः॥ अथ खलु तोमरो लेच्छविः दूतानां वचनं प्रतिश्रुत्वा येन राजा श्रेणिको बिम्बिसारो तेनुपसंक्रमित्वा राजानं श्रेणिनं बिम्बिसारमेतदुवाच॥ करिष्यन्ति महाराज वैशालका लेच्छवयो भगवतः प्रत्युद्गमनं॥ साधु भगवन्तमनुजानाहि वैशालिं गमनाय अनुकम्पामुपादाय॥ भगवां दानि राज्ञा श्रेणियेन बिम्बिसारेण अनुज्ञातो वैशालिं गमनाय अमात्या च आणत्ता याव च राजगृहं याव च गंगायाः तीर्थं मार्गं प्रतिजागृथ अष्टपदसममविषमं पाणितलजातं विततवितानं चित्रदुष्यपरिक्षिप्तं ओसक्तपट्टदामकलापं धूपितधूपनं सिक्तसंमृष्टं मुक्तपुष्पावकीर्णं। नावासंक्रमं बन्धापेथ येन भगवां सश्रावकसंघो गंगायां तरिष्यति वैशालिं गमनाय। अर्धयोजनिके च अन्तरे मण्डपसंविधानं का[रापेथ अन्नपान]संविधानं कारापेथ शय्यासनसंविधानं च भगवतः सश्रावकसंघस्य सर्वं सुखोपधानं यथा भगवां सश्रावकसंघो राजगृहातो सुखं वैशालिं गच्छेय भिक्षुसंघश्च॥

मनसा देवानां वचसा पार्थिवानां।
नचिरेणाढ्यानां कर्मणा दरिद्राणामिति॥

राज्ञा च आणत्तं अमात्येहि च सर्वं प्रतिजागृतं यथा आणत्तं॥

भगवां संप्रस्थितो सार्धं भिक्षुसंघेन॥ राजा श्रेणियो बिम्बिसारो सयुग्यबलवाहनो सदेवीकुमारामात्यपरिजनो राजार्हेहि पंचहि च्छत्रशतेहि धार्यमाणेहि ओसक्तपट्टदामकलापेहि सध्वजपताकेहि महता राजानुभावेन महता राजऋद्धीये महताये विभूषाये भगवन्तं वैशालिं गच्छन्तं समनुयाति अर्धयोजनिकेनान्तरावासेन यावत्स्वकं विषयं गंगायाः तीरः॥ अश्रोषुः वैशालका लेच्छविका एदृशाये वि-

p.259
धीये राजा श्रेणियो बिम्बिसारो भगवतो अनुयानं करोति राजगृहातो वैशालिमागच्छन्तस्येति॥ श्रुत्वा च पुनः याव च वैशाली याव च गंगातीर्थं वैशालकानां लेच्छवीनां विजितमत्रान्तरे मार्गं प्रतिजाग्रंसु अष्टपदसममविषमं पाणितलजातं सिक्तसंमृष्टं मुक्तपुष्पावकीर्णं विततवितानं चित्रदुष्यपरिक्षिप्तं ओसक्तपट्टदामकलापं धूपितधूपनं॥ देशदेशेहि न नटनर्तनऋल्लमल्लपाणिस्वर्या स्थापयेन्सु। अर्धयोजनिकेन च अन्तरेण मण्डपसंविधानं च कारयेन्सु शय्यासनसंविधानं च पानीयसंविधानं च भक्तसंविधानं च भगवतः सश्रावकसंघस्य॥ अभ्यन्तरवैशालीतो चतुरशीति रथसहस्राणि यजापयित्वा द्वेचतुरशीति रथसहस्राणि योजापयित्वा सवैजयन्तिकानि सनन्दिघोषाणि सपुष्पमालानि सच्छत्रध्वजपताकानि प्रथूतं च गन्धमाल्यमादाय स्वकस्वकानि भद्राणि यानान्यभिरुहित्वा महता राजानुभावेन महता राजऋद्धीये महतो जनकायस्य हक्कारहिक्कारभेरीमृदंगमरुपणवंशखसन्निनादेन वैशालीतो नगरातो निर्याता भगवन्तं प्रत्युद्गच्छेन्सु यावद्गंगातीर्थं भगवतः पजार्थं॥ तेषां पि तं एवं संविधानरूपं अभूषि॥ सन्त्यत्र लेच्छवयः नीलाश्वा नीलरथा नीलरश्मिप्रतोदा नीलयष्टी नीलवस्त्रा नीलालंकारा नील‍उष्णीषा नीलच्छत्रा नीलखड्गमणिपादुकवालव्यंजनाः॥ तत्रेदमिति उच्यते॥

नीलाश्वा नील रथा नीला रश्मिप्रतोदमुष्णीषा।
नीला च पंच ककुदा नीला वस्त्रा अलंकारा॥

सन्त्यत्र लेच्छवयः पीताश्वाः पीतरथा पीतरश्मिप्रतोदयष्टी पीतवस्त्राः पीतालंकारा पीतोष्णीषा पीतच्छत्रा पीतकड्गमणिपादुका॥ तत्रेदमुच्यते॥

p.260
पीताश्वा पीत रथा पीता रश्मिप्रतोदमुष्णीषा।
पीता च पंच ककुदा पीता वस्त्रा अलंकारा॥

सन्त्यत्र लेच्छवयो मंजिष्टाश्वा मंजिष्ठरथा मंजिष्ठाप्रतोदयष्टी मंजिष्ठवस्त्रा मंजिष्ठ‍अलंकारा मंजिष्ठ‍उष्णीषा मंजिष्ठच्छत्राः मंजिष्ठमणिपादुकवालव्यंजनाः॥ तत्रेदमुच्यते॥

मंजिष्ठा अश्वरथा मञ्जिष्ठ रश्मिप्रतोदयष्टी च।
मंजिष्ठ पंच ककुदा मंजिष्ठ वस्त्र‍अलंकाराः॥

सन्त्यत्र लेच्छवयो लोहिताश्वा लोहितरथा लोहितप्रतोदयष्टी लोहितवस्त्रा लोहितालंकारा लोहित‍उष्णीषा लोहितच्छत्राः लोहितखड्गमणिपादुकवालव्यंजनाः॥ तत्रेदमुच्यते॥

लोहिता अश्वा रथा च लोहित रश्मिप्रतोदयष्टी च।
लोहित च पंच ककुदा लोहित वस्त्रा अलंकाराः॥

सन्त्यत्र लेच्छवयो श्वेताश्वा श्वेतरथा श्वेतप्रतोदयष्टी च श्वेतवस्त्राः श्वेतालंकाराः श्वेतोष्णीषाः श्वेतच्छत्राः श्वेतखड्गाः श्वेतमणिपादुकवालव्यंजनाः॥ तत्रेदमुच्यते॥

श्वेताश्वा श्वेत रथा श्वेत रश्मिप्रतोदयष्टी च।
श्वेता च पंच ककुदा श्वेता वस्त्रा अलंकाराः॥

सन्त्यत्र लेच्छवयो हरिताश्वा हरितरथाः हरितरश्मिप्रतोदयष्टी च हरितवस्त्रा

p.261
हरितालंकारा हरितोष्णीषा हरितच्छत्रा हरितखड्गा हरितमणिपादुकवालव्यंजनाः॥ तत्रेदमुच्यते॥

हरिताश्वा हरित रथा हरिता रश्मिप्रतोदयष्टी च।
हरिता च पंच ककुदा हरिता वस्त्रा अलंकाराः॥

सन्त्यत्र लेच्छवयो व्यायुक्ताश्वा व्यायुक्तरथा व्यायुक्तरश्मिप्रतोदयष्टी व्यायुक्तवस्त्रा व्यायुक्तालंकारा व्यायुक्त‍उष्णीषा व्यायुक्तच्छत्रा व्यायुक्तखड्गा व्यायुक्तमणिपादुकवालव्यंजनाः॥ तत्रेदमुच्यते॥

व्यायुक्ता अश्वरथा व्यायुक्त रश्मिप्रतोदयष्टी च।
व्यायुक्त पंच ककुदा व्यायुक्त वस्त्र‍अलंकाराः॥

सन्त्यत्र लेच्छवयो सुवर्णच्छत्रेहि कुंजरेहि नानालंकारभूषितेहि॥ सन्त्यत्र लेच्छवयो सुवर्णशिविकाहि सर्वरतनभूषिताहि॥ सन्त्यत्र लेच्छवयो सुवर्णमयेहि रथेहि सवैजयन्तेहि सनन्दिघोषेहि सखुरप्रवाशीहि उच्छ्रितच्छत्रध्वजपताकेहि॥ एवंरूपेण अनुभावेन एवंरूपाये विधिये एवंरूपेण समुदयेन एवंरूपाये राजऋद्धीये एवंरूपाये समृद्धीये एवंरूपाये संवृत्ताये एदृशाये विभूषाये वैशालका लेच्छवयो द्वेचतुरशीतिहि यानसहस्रेहि गोशृंगी च आम्रपालिका च तद्यथा सो पि महाजनकायो भगवन्तं प्रत्युद्गता यावद्गंगाया तीर्थं॥

भगवां गंगाये पारिमे कूले राज्ञो श्रेणियस्य बिम्बिसारस्य मागधकानां ब्राह्मणकानां धर्मया कथया संदर्शयित्वा समुत्तेजयित्वा संप्रहर्षयित्वा मागधकानां ब्राम्हणकानां चतुरशीति सहस्राणि धर्माभिसमये प्रतिष्ठापेत्वा येन वैशालका लेच्छ-

p.262
वयो तेन विलोकेत्वा भिक्षूणां आमन्त्रेति॥ भिक्षवो न दृष्टपूर्वा देवा त्रायस्त्रिंशाः सुदर्शनातो नगरातो उद्यानभूमिमभिनिष्क्रमन्ता। ते एतरहि वैशालका लेच्छवयो पश्यथ॥ तत्कस्य हेतोः॥ तादृशाये व भिक्षवो ऋद्धीये देवा त्रायस्त्रिंशा सुदर्शनातो नगरातो उद्यानभूमिमभिनिष्क्रमन्ति॥

स्फीतानि राज्यानि प्रशाम्यमाना
सम्यक् राज्यानि करोन्ति ज्ञातयो।
तथा इमे लेच्छविमध्ये सन्तो
देवेहि शास्ता उपमामकासि॥
त्रायस्त्रिंशा येहि न दृष्टपूर्वा
उद्यानभूमिं अभिनिष्क्रमन्ता।
एतादृशी समिति अभूषि तेषां
यथा इयं समृद्धि लेच्छवीनां॥
सुवर्णच्छत्रेहि च कुंजरेहि
शिविकाहि सौवर्णमयीहि चान्ये।
रथेहि सौवर्णमयेहि चान्ये
प्रत्युद्गमं लेच्छविनो करोन्ति॥
सर्वे समेत्वा सह ज्ञातिबन्धवो
दहरा च मध्या च महल्लका च।
अलंकृता लक्तकरक्तवस्त्रा
प्रत्युद्गता ते च विचित्रचारी॥

तहिं दानि गंगायां राज्ञो श्रेणियस्य बिम्बिसारस्य नावासंक्रमं अभ्यन्तरवैशा-

p.263
लकानां नावासंक्रमं बाहिरवैशालकानां नावासंक्रमं गांगेयेहि नागेहि कम्बलाश्वतरेहि नावासंक्रमो कृतो॥ भगवानस्मदीयेन उत्तरिष्यतीति॥

शुकेन गोशृंगीये वचनेन भगवां सश्रावकसंघो शुवेतनाय भक्तेन उपनिमन्त्रितो तस्य च भगवता तूष्णीभावेनाधिवासितं॥ तेन शुकेन भगवतस्तूष्णीभावेनाधिवासना बुद्धानुभावेन विज्ञाता। सो बह्गवतः पादा शिरसा वन्दित्वा भगवन्तं भिक्षुसंघं च प्रदक्षिणीकृत्वा प्रत्यागतो॥ येन गोशृंगी भगवती तेनोपसंक्रमित्वा आह॥ निमन्त्रितो सो भगवां तथागतोऽर्हं सम्यक्संबुद्धो सश्रावकसंघो शुवेतनाये भक्तेन त्वद्वचनेन अधिवासितं तेन भगवता तूष्णीभावेन॥

भगवां नावासंक्रमे आरूढो॥ राजा श्रेणियो बिम्बिसारो स्वके नावासंक्रमे भगवन्तं पश्यति। अभ्यन्तरवैशालका च स्वके नावासंक्रमे भगवन्तं पश्यन्ति सश्रावकसंघं। बाहिरवैशालका स्वके नावासंक्रमे भगवन्तं पश्यन्ति सश्रावकसंघं। कम्बलाश्वतरा पि गांगेयमहानागा स्वके नावासंक्रमे भगवन्तं पश्यन्ति सश्रावकसंघं तरमाणं॥ तेहि कम्बलाश्वतरेहि गांगेयकेहि राज्ञो श्रेणियस्य बिम्बिसारस्य पंच च्छत्रशतानि दृष्ट्वा वैशालकानां पि पंच च्छत्रशता दृष्ट्वा तेहि भगवतो तरन्तस्य पंच च्छत्रशतानि प्रगृहीतानि। यक्षेहि पि पंच च्छत्रशतानि प्रगृहितानि। चातुर्महाराजकेहि पि पंच च्छत्रशतानि प्रगृहितानि। सुनिर्मितेनापि देवपुत्रेण ततो विशिष्टतरं छत्रं प्रगृहीतं। परनिर्मितवशवर्तिहि पि चतुर्हि पि महाराजेहि पंच च्छत्रशतानि प्रगृहीतानि। त्रायस्त्रिंशेहि पि देवेहि पंच च्छत्रशतानि प्रगृहीतानि। शक्रेणापि देवानामिन्द्रेण च्छत्रं प्रगृहीतं। सुयामेनापि देवपुत्रेण च्छत्रं प्रगृहीतं। तुषितेहि देवेहि पंच च्छत्रशता प्रगृहीता। संतुषितेन देवपुत्रेण ततो विशिष्टतरं छत्रं प्रगृहीतं। ब्रह्मकायिकेहि देवेहि पंच च्छत्रशतानि प्रगृहीतानि। महाब्रह्मणापि ततो विशिष्टतरं

p.264
छत्र प्रगृहीतं। शुद्धावासेहि देवेहि भगवतो गंगाये तरन्तस्य च्छत्रपंचशतानि प्रगृहीतानि। महेश्वरेणापि देवपुत्रेण च्छत्रं प्रगृहीतं भगवतो गंगाये तरन्तस्य॥ केन तानि सर्वाणि देवमनुष्यकाणि च्छत्रसहस्राणि समभिभूतानि॥

आह्निककर्मिकपार्थिवराजान वंशनिर्वृत्तार्हन्ति।
अर्हन्ति च महाभागो स एष पुरुषर्षभो छत्रं॥
ये बाहिरा जयित्वा रिपुसंघा अश्नन्ति अजितराज्या।
......संपन्ना ते पि नरा छत्रमर्हन्ति॥
किं पुन येन समन्ता सर्वक्लेशा जिता निरवशेषा।
अपि न नमुचि ससैन्यो न तु च्छत्रशतारहो भगवां॥
तारकतरलप्रकाशान्तारकरूपानप्रतिभासां।
वैडूर्यरतनदण्डां छत्रशतां पंच आदाय॥
राजा बिम्बिसारो अण्वति पृष्ठतो दशबलस्य।
संप्रस्थितो च भगवां वज्जि अभिमुखो सह गणेन॥
नावाय समभिरूढो भगवां भवति भवौघं उत्तीर्णो।
पारे च लेच्छविगणाः छत्राशतां पंच धारेन्सुः॥
अथ पश्यिया महीपतिं महामहीधरमहाबलनिकेता।
नागा पि गंगनिलया छत्रशता पंच धारेन्सु॥
ऋद्धिमन्तो द्युतिमन्तो धरणिपथगता महाबलनिकेता।
यक्षा पि तत्र असुरा मुदिता छत्रशता पंच धारेण्सु॥
आगलितमाल्यमुक्ता उडुपतिपरिपूर्णचारुचन्द्रमुखा।

p.265
देवा पि तत्र मुदिता छत्रशतां पंच धारेण्सुः॥
चतुरो पि लोकपाला प्रमुदितमनसा विगतमदनमाना।
नटकरजविधमनकरा धारेन्सु धरणिधरसमस्य॥
अथ सो त्रिदशाधिपतिः कांचनमणिरत्नसुकृतवरजालं।
रक्तकुसुमसुकृतदामं छत्रं जगाग्रस्य धारेसि॥
यमवरुणनागवन्दितं यामाधिपतिं उपेत्य वसुयामा।
शरदजलाभ्रपाण्डरं धारयि धनपवनगतिस्य॥
तुषितभवनाधिवासी पुन भगवतो उपगतो अप्रोमोहो।
संवर्तितखरसमवपु धारयि च्छत्रं प्रसन्नमनो॥
वैडूर्यसुकृतदण्डं प्रावाडदशशतशलाकाचित्रं।
फुल्लकुसुमास्थिततलं सुनिर्मितो धारये छत्रं॥
परनिर्मितवशवर्ती निर्मिणे वरकनकभारसंछन्नं।
रत्नहारलम्बदामं छत्रं त्रैलोक्यकीर्तिस्य॥
ब्रह्मा प्रसन्नमनसो पवनपथविशुद्धहृदयस्य।
धारेसि चन्द्रसन्निभं छत्रं परवादिमथनस्य॥
सप्तरतनामयं पुन दिव्यकुसुमामयं दाममण्डितं।
छत्रं छत्रारहस्य महेश्वरो धारये छत्रं॥
इत्येष सुराधिपेन कामावचरो संघो सन्निपतितो।
महा अभु महेश्वरेण अतुलबलधरस्य पूजार्थं॥


266
भगवता यत्तकानि तानि च्छत्राणि तत्तका बुद्धा निर्मिता॥ ते अन्यमन्यस्य न पश्यन्ति॥ तेषां प्रत्येकंप्रत्येकं एतदभूषि॥ मम येव च्छत्रे नाथो तिष्ठति सुंगतो निष्ठति ध्वजो तिष्ठति॥ देवा च मनुष्या च याव अकनिष्ठभवनं पश्यन्ति बुद्धानुभावेन॥
अथ भगवां पुरुषचन्द्रो तानभिनिर्मिणे संबुद्धानृद्धिं।
भगवां विदर्शये न च अन्यमन्यस्य पश्यन्ति॥
अकनिष्ठभवनगता तु दशबलबुद्धा अम्बरं प्रसदनियं।
शोभेन्ति गगणतलगता यूपमिव यथा रतनचित्रं॥
सर्वे सुवर्णवर्णा सर्वे द्वात्रिंशलक्षणसमंगी।
सर्वे कनकगिरिनिभाः सर्वेषां शोभते प्रभाजालं।
सर्वे मनापाकाराः सर्वेषां शोभते प्रभाजालं।
सर्वे अमितगुणधराः सर्वे प्रामोद्यसंजननाः॥
ऱ्ओष्ट्वान देवमनुजा गगनतलं शोभन्तं दशबलेहि।
अतिरिव उद्वल्यहर्षा हाहाकारं उदीरेन्सुः॥
आस्फोटितप्रक्ष्वेडितकलकलसमाकुला अभिवर्तन्ति।
मुंचेन्सु अम्बरगता वरचूर्णरजाकुलं सुरभिं॥
तं भगवतस्तादृशं बुद्धविकुर्वितं ऋद्धिप्रातिहार्यं दृष्ट्वा अतीव देवा भगवतः पूजां करेन्सुः मान्दारवेहि महामान्दारवेहि कर्कारवेहि महाकर्कारवेहि रोचमानेहि

267
महारोचमानेहि भीष्मेहि महाभीष्मेहि समन्तगन्धेहि महासमन्तगन्धेहि पारियात्रकपुप्पेहि सुवर्णपुष्पेहि रूप्यपुष्पेहि रजतपुष्पेहि चन्दनचूर्णेहि अगरुचूर्णेहि केशरचूर्णेहि भगवन्तमोकिरेन्सु अभ्योकिरेन्सु समन्तात्षष्टि योजनां दिव्येहि च गन्धचूर्णेहि जानुमात्रमोघो संवृत्तो॥ भिक्षू भगवन्तमाहन्सुः। किमयं भगवन्देवानुभावो नागानुभावो यक्षानुभावो येन इमानि दानि च्छत्रसहस्राणि देवेहि च नागेहि च राजानेहि च प्रगृहीतानि॥ भगवानाह॥ तथागतस्यैष भिक्षवः पौराणस्य कुशलधर्मस्य अनुभावो॥ यदि तथागतोऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धो न भविष्यति संसारे संसरन्तो भगवन्तो यत्तका एतानि च्छत्राणि तत्तकानि चक्रवर्तिराज्यानि कारयिष्येत्। अथ च पुनस्तथागतस्य सर्वपुण्यपापक्षयतो परिनिर्वाणं भविष्यत्॥
भगवान्दानि आयुष्मन्तं वागीशमामन्त्रेसि। प्रतिभातु ते वागीश तथागतस्य पूर्वयोगो। साधु भगवन् आयुष्मां वागीशो भगवतः प्रतिश्रुत्वा ताये वेलाये इमां गाथां बभाषे।
अभूच्छास्ता अतीतस्मिं ब्राह्मणो अकुतोभयो।
प्रहीणजाति ब्राह्मणो ब्रह्मचर्यस्मिं केवली॥
सत्वां दुःखिता दृष्ट्वान दुःखधर्मसमर्पितां।
धर्मचक्रं प्रवर्तेसि आभां कासि अनुत्तरां॥
धर्मचक्रं प्रवर्तित्वा आभां कृत्वा अनुत्तरां।
संबुद्धो परिनिर्वायेत् महर्षिः क्षीणपुनर्भवो।
तस्य स्तूपमकरेन्सु श्रावका अकुतोभया।
शैक्षा उत्तमा दान्ताश्च अकरेन्सु कीर्तिहेतवे॥
क्षत्रियब्राह्मणवैश्या पूजां कासि महर्षिणो।

268
नृत्यवादित्रगीतेन नानामाल्यसमागता॥
ब्राह्मणो पि विचिन्तेति पिता बुद्धस्य पण्डितो।
यं नूनं छत्रं कारेयं रत्नाकृतं शुभपाण्डरं॥
विमलं छत्रं स्तूपस्मिं अधिरोपिय संचिते।
अश्रूणी च प्रवर्तेन्तो पिता पुत्रमपूजयि॥
सो तं कर्म करित्वान कल्याणं बुद्धवर्णितं।
ब्राह्मणो अकरि कालं जातानामेव धर्मता॥
संवर्ताञ्च विवर्ताञ्च अशीतिन्तेन कर्मणा।
दुर्गतिं नोपलभते एतच्छत्रस्य तत्फलं॥
मनुष्येषु तदा राज्यं धर्मेण अनुशासयं।
पृथिव्यां चक्रवर्त्यासि विजितावी महाबलो।
चित्रा जनपदा आसि अनुयात्रासि क्षत्रिये।
तमेव अपचायेसि श्वेतच्छत्रं ददत्सुखं॥
ततो चापि च्यवित्वान देवेषु उपपद्यिथ।
मरूणां प्रवरो आसि देवकायान पूजितो॥
पूजितो मरुसंघानामैश्वर्यकम्बलस्थितो।
वसन्तचापि वर्तेसि श्वेतच्छत्रस्य तत्फलं॥
देवानामुत्तमो आसि मनुष्याणां पि उत्तमो।
सर्वत्र उत्तमो आसि देवानां मनुजान च॥
देवानामुत्तमः भूत्वा मनुष्याणां च उत्तमो।
तं भवञ्च विजहित्वान आगत्वा पश्चिमं भवं।

269
संबुद्धो पि प्रजायासि ऋषि क्षीणपुनर्भवो॥
सो तं मार्गं वाभिज्ञाये दुःखप्रशमगामिनं।
यस्य मार्गस्य प्रतिलाभा दुःखस्यान्तं करीयति॥
तं चात्र अतीता बुद्धा तं च वीरो प्रतापवां।
सर्वे समशीलप्रज्ञा नास्ति बुद्धान अन्तर॥
ये च ते हि कालेकाले संबुद्धा नात्र संशयं।
सर्वे ते सुगतिं यान्ति आत्मकर्मफलोपगाः॥
चक्षुमां ब्राह्मणो आसि अन्तेवासिश्च ते अहं।
त्वयाहं चोदितो वीर पूर्वां जातिमनुस्मरेत्॥
 एवमेव एतदासि यथा भाषसि वागीश।
ब्राह्मणो हं तदा आसि अन्तेवासी च मे भवं॥
मया त्वं चोदितः सन्तो पूर्वां जातिमनुस्मरेत्।
तस्मा ध्वजपताकां च श्वेतच्छत्रं च कारयेत्॥
वेदिकां चैव स्तूपेषु कुर्यात्पंचांगुलानि च।
साधु पुण्यवरं विपुलं दायकमधिवर्तति॥
एषां चान्या च या पूजा बुद्धमुद्दिश्य क्रियते।
सर्वा अबन्ध्या सफला भवति अमृतोपगा॥
न हि अर्चनां समां लोके पश्यामि विशिष्टतरां कुतो।
यं च अन्यं पूजयन्तो पुण्यं यासि महत्तरं॥
कचे कोचिमस्मिं लोकस्मिं सर्वा पि देवता सदा।

270
पूजेय सर्वरतनैः नैवं से  प्रतिकृतं सिया॥
एवं महायशा महाकारुणिका अनुकम्पाहितामिता।
ओदुम्बरमिव कुसुमं न हि सुलभदर्शना संबुद्धाः॥
अथ ये मे भणन्ति वर्णं समाधितो च शीतो च प्रज्ञातो च अधिगमनतो च निष्क्रमणतो च प्रयोगतो च जात्यतो च भुततो च भवन्ति महेशाख्या च कृतपुण्या तासुतासु जातीषु आदेयवचना च भवन्ति कीर्तनीया च बहुजनस्य॥
तेनैव कुशलमूलेनारोपितेन उत्तरिं।
प्रावरणं अल्पकिसरं तेषां भवति कायिकं॥
तस्मात्पुण्यानि कुरियात् निचयं सांपरायिकं।
पुण्यानि परलोकस्मिं निष्ठा भवति प्राणिनां॥
भगवां गंगामुत्तीर्णो वैशालीये च सीमामाक्रान्तो॥ भगवता ते अमनुष्यका पलाना॥ मारेण पापीमता भगवतो गच्छन्तस्य यत्तं लेच्छवीहि मार्गं मुक्तपुष्पावकीर्णं सिक्तसंमृष्टं प्रतिजाग्रितं तं सर्वं प्राणकेहि स्फुटं॥ निर्मितो कुण्डलो नाम परिव्राजको॥ सो भगवतो तेन मार्गेण गच्छन्तस्य आह॥ निवर्ताहि॥
बहूहि प्राणेहि मही संवृता
अणुहि स्थूलेहि च मध्येहि च।
बुद्धो यदा गच्छति भूतसंस्तृते
व्यथा ततो उपपद्यति आक्रमे।

271
भगवानाह॥
मृदु संस्पर्श्ः यो तथागतानां
तूर्णं यथा ओतरितमारुतानां।
न हि बुद्धश्रेष्ठान तथागतानां
शरीरमागम्य वधो प्रजायति॥
भयचेतना नास्ति विहेठना वा
प्राणेषु सो गच्छति अप्रतिघो भगवान्।
सर्वेहि भूतेहि निवापषण्डं
भगवता हरितशाद्वलं निर्मितं॥
भगवां उपविष्टो भिक्षुसंघो च। ते लेच्छवयो भगवन्तं पृच्छन्ति॥ कस्य भगवता शुवे आगारमधिवासितं अभ्यन्तरवैशालकानां बाहिरवैशालकानां वा॥ भगवानाह॥ न हि वासिष्ठाहो अभ्यन्तरवैशालकानां तथागतेनाधिवासितं न बाहिरवैशालकानां॥ गोशृंगीये मनुष्यालापिको शुको प्रेषितो गंगाये पारं। तेन तथागतो सश्रावकसंघो गोशृंगीये वचनेन शुवेतनाथ भक्तेन उपनिमन्त्रितो। तथागतेनाधिवासितं। ते दानि लेच्छवयो अभ्यन्तरवैशालका च दुवेचतुरशीति राजान सहस्राणि अन्यो च महाजनकायो क्षत्रियमहाशाला गृहपतिमहाशाला विस्मयसम्पन्नाः कथं शुको जल्पतीति॥ भगवानाह॥ किमत्राश्चर्यं गोशृगीये शुको जल्पति मानुषिकाय वाचाय। अन्येहि पि वासिष्ठाहो पक्षिभूतेहि राज्यं व्यवहरितं॥
भूतपूर्वं वासिष्ठाहो अतीतमध्वाने नगरे वाराणसी काशिजनपदे ब्रह्मदत्तो नाम राजा राज्यं कारयति कृतपुण्यो महेसाख्यो महाकोशो महावाहनो। तस्य च राज्यं ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णजनमनुष्यं च बहुजनम

272
नुष्याकीर्णं च सुखितजनमनुष्यं च प्रशान्तदण्डडमरं सुनिगृहीततस्करं व्यवहारसम्पन्नं॥ विस्तीर्णो च अन्तःपुरो अपुत्रो च॥ तस्य राज्ञो भवति॥कथं मे पुत्रो भवेया॥ स शृणोति अमात्यानां॥ अनुहिमवन्ते आश्रमे ऋषयो महानुभावा प्रतिवसन्ति पंचाभिज्ञा चतुर्ध्यानलाभिनो ते पृच्छतव्या कथं पुत्रो भवेय। ते महानुभावा ऋषयो आचिक्षिष्यन्ति यथा देवस्य पुत्रो भविष्यति॥ सो दानि राजा सान्तःपुरो सकुमारामात्यो सबलवाहनो येन तेषामृषीणामाश्रमस्तेन संप्रस्थितो॥ अन्तरमार्गे वासमुपगतो राजा सबलवाहनो सान्तः पुरो॥ तेन तहिं दृष्टा साम्बलीकोटरातो त्रयो पक्षियो निर्यान्तायो उलूकी शरिका शुकी॥ तस्य दानि राज्ञो दृष्ट्वा कौतूहलं संजातं॥ तेन पुरुषो आणत्तो गच्छ जानाहि किमत्र कोटरे॥
सो आरुह्य निध्यायति पश्यति त्रीणि अण्डकानि॥ सो आह॥ देव त्रीणि अण्डकानि। राजा आह॥ पृथक्पृथक्पुटके बन्धिय ओतारेहि यथा न विपद्यन्ते॥ तेन पुरुषेण पुटकस्मिं पृथक्पृथग्बन्धिय ओतारिता अविपन्नाः॥ अमात्या पृच्छीयन्ति॥ कस्येमानि अण्डकानि॥ अमात्या आहुः॥ एतेषां खु शाकुन्तिका पृच्छीयन्ति। एतेषांमत्र विषयो॥ शाकुन्तिका श्ब्दापिता॥ शाकुन्तिका राजा पृच्छीयन्ति॥ राजा आह॥ भो भणे जानाथ कस्य इमान्यन्डकानि॥ ते तत्र चरिता शाकुन्तिकाः सर्वेषां पक्षीजातीनां अण्डकानां विधिज्ञा पक्षिणां पि विधिज्ञा यो यादृशो पक्षीति॥ ते आहन्सु॥ महाराज इमानि त्रीण्यण्डकानि एकमुलूकीये द्वितीयं शरिकाये तृतीयं शुकीये। राजा आह॥ किं भव्यान्येतानि अण्डकानि अभिनिर्भेदाय॥ ते आहन्सुः॥ भव्यानि महाराज ओतारितानि

273
अविपन्नानि॥ राजा पृच्छति॥ को एतेषामण्डकानामुपचारो यथैते उपचीर्णा विद्येन्सुः स्वस्तिना च अभिनिर्भेदं गच्छन्ति॥ शाकुन्तिका आहन्सुः॥ महाराज विहतं कार्पासं उभयत्राश्रये संस्तरितव्यं॥ तत्र एतानि अण्डकानि मधुसर्पिषा म्रक्षित्वा निक्षप्तव्यानि उपरि विहतं कार्पासन्तमेते मातृकार्थं पोषिष्यति॥ यथा तेहि शाकुन्तिकेहि आणत्तं तथा तानि अण्डकानि निक्षिप्तानि॥ राजा तं ऋषीणामाश्रममनुपूर्वेणानुप्राप्तो॥ एकान्तेन बलवाहनं स्थापयित्वा सान्तःपुरो ऋषीणामाश्रममुपसंक्रान्तो॥ ऋषयो राजानं दृष्ट्वा प्रत्युद्गताः यथा ऋषीणां समुदाचारो॥स्वागतं महाराज अनुरागतं महाराज निषीदतु महाराजा इमान्यासनानि॥ राजा सान्तःपुरो ऋषीणां पादा वन्दित्वा निषस्मो॥ ऋषीणां महत्तरको कुलपती॥ सो तं राजानं प्रतिसंमोदेत्वा पृच्छति॥ किं महाराज आत्मनो प्रयोजनं ऋषीणां सकाशातो॥ राजा आह॥ मम विस्तीर्णो अन्तःपुरो न कस्याचित्पुत्रो अपुत्रो स्मि यं इच्छामि संदिश्यतु यथा मे पुत्रो भवेय॥ ऋषीणां महत्तरको आह॥ महाराज यात्नि तानि त्रीणि अण्डकानि अमुकातो शम्बलीकोटरतो ओतारितानि तानि वेष्टावेहि ततो ते पुत्रा भविष्यन्ति॥ राजा विस्मितो। महाभागा इमे ऋषयो यन्तं नाम यं इमानि अमुकातो शाम्बलीकोटरातो त्रीणि अण्डकानि ओतारापितानि इमेषामिह आश्रमे प्रतिवसन्तानां विदितं। महाभागा इमे ऋषयो। सो ऋषीणां पादा वन्दित्वा भूयो वाराणसीं संप्रस्थितो। अनुपूर्वेण वाराणसीं प्रविष्टो॥ तानि अण्डकानि कालेन समयेन सर्वाणि त्रीणि प्रभिन्नानि॥

274
एकतो उलूकपोतको जातो द्वितीयातो शारिकपोतको जातो तृतीयातो शुकपोतको जातो॥ राजाणत्तीये उन्नीयन्ति वर्धीयन्ति॥ यत्र वेलाये संवृद्धा सर्वे त्रयो पण्डिता मेघाविनो मनुष्यालापिनो मनुजाये वाचाये आलापसंलापं करोन्ति परस्परं॥ सो दानि राजा ब्रह्मदत्तो तेषां बुद्धिबलं ज्ञात्वा पृथक्पृथक् राजधर्मं पृच्छति॥ ते च ज्ञात्वा व्याकरोन्ति॥ तेषां व्याकरणं श्रुत्वा सर्वेषां त्रयाणां राजा ब्रह्मदत्तो प्रीतो संवृत्तो॥
 वाराणस्यामभूद्राजा ब्रह्मदत्तो प्रतापवान्।
तस्य राज्ञो अभूत्पुत्रा सकुना त्रीणि पण्डिताः।
प्रथमो कौशिको आसि द्वितीयो आसि शारिको ।
तृतीयो च शुको आसि सर्वे पण्डितजातिकाः॥
तेषां बुद्धिबलं ज्ञात्वा तुष्टो राजा जनाधिपः।
राजधर्माणि पृच्छेयं सर्वां प्रत्येकशो रहे॥
कौशिकं ताव पृच्छामि शकुन्त भद्रमस्तु ते।
राज्यं प्रशासमानस्य किं कृत्यं पुत्र मन्यसे॥
कौशिको आह।
चिरस्य वत मां तातो राजधर्माणि पृच्छति।
हन्त ते हं प्रवक्ष्यामि एकाग्रमनसो शृणु॥
न क्रोधस्य वसं गच्छे स तु क्रोधं निवारयेत्।
न हि क्रुद्धस्य अर्थो वा धर्मो वाक्रमति पार्थिव॥
अक्रुद्धस्य हि राजस्य अर्थो धर्मो जनाधिप।
प्रज्ञाक्रमति सर्वत्र तस्मा क्रोधं निवारयेत्॥

275
ततो विवादे उत्पन्ने उभौ पक्षौ समाहितः।
उभाभ्यां वचनं श्रुत्वा यथाधर्मं समाचरेत्॥
मा च च्छन्दा च दोषा च भया मोहा च पार्थिव।
उभाभ्यां वचनं श्रुत्वा यथाधर्मं समाचरेत्॥
न च गच्छति सो हानिं पण्डितो ह्यर्थकारणात्।
यशकीर्तिञ्च रक्षन्तो स्वर्गं मार्गेति पार्थिव॥
ततो अधर्मं वर्जेत्वा राजधर्मेहि पार्थिव।
अनुशास महीपाल एवं तत्र गमिष्यसि॥
रञ्जनीयेषु कामेषु मातिवेलं प्रमोद्यहि।
प्रमत्तस्य हि कामेहि परशत्रु बलीयत्॥
ततो नगरवृत्तानि सर्वाणि अनुवर्तये।
अथ जानपदवृत्तं धर्मेण अनुवर्तयेत्॥
पौरजानपदं राष्ट्रं गुणेहि अभिधारयेत्।
भोगद्रव्यप्रदानेन कृत्यानां करणेन च॥
ततः परिजनं सर्वं वट्टेन अभिधारयेत्।
भोगद्रव्यप्रदानेन अभेद्यपुरुषो भवे॥
अनुरक्तं विरक्तं च सर्वं जानेसि पार्थिव।
बलाग्रे उपजीविषु पौरजानपदेषु च॥
प्रत्यवेक्षित्वा कर्मान्ता भूतां हर्षाणि दापयेत्।
सर्वेषु हिंसां वर्जेत्वा धर्मेण फलमादिश्त्॥
यथा पूर्वकेहि राजेहि आगतां जनतां बहुं।
यता राष्ट्रं निवेशेय तथा कुरुहि पार्थिव॥
अनुग्रहं च दीनानां आढ्यानां परिपालनं।

276
सदा विजितवासीनां करोहि मनुजाधिप॥
धनक्रीडारतो राजा परदारनिरतस्सदा।
राष्ट्रस्य अप्रियो भवति क्षिप्रं जहति जीवितं॥
अलुब्धो पुनर्मेधवी परदारविरतः सदा।
राष्ट्रस्य प्रियो भवति सुचिरं तात जीवति॥
वैरबन्धं च मा कुर्या पाटिराजेहि पार्थिव।
यो वैरी हि महीपाल वैरमर्पेन्ति वैरिणः॥
मित्रबन्धं च कुर्यासि पाटिराजेहि पार्थिव।
दृढमित्रां हि राजानो पूजेन्ति अपरा प्रजा॥
प्रकीर्णोच्चारणो मासि सर्वार्थेहि जनाधिप।
हेतुकारणसंयुक्तं मन्त्रं कालेन व्याहरे॥
गुह्यमर्थं च धारेहि सदा वारोहि पार्थिव।
भिन्नमन्त्रा हि राजेन्द्रा अनुभोन्ति व्यसनं बहुं॥
गुह्यमर्थं धारयित्वा लभते विपुलां शिरिं।
न चामित्रवसमेति पश्चाच्च नानुतप्यति॥
ये ऽ मूहमन्त्रा अविकीर्णवाचा
युक्ताश्च कार्यार्थे जना नरेन्द्र।
न तेषु शत्रू जनयन्ति क्रोधं
मणिविषाणां यथा शतघ्नीयो॥
गुह्यकमर्थसंबन्धं संधारयति यो नरः।

277
सत्रु भेदभयात्तस्य दासभूतो व वर्तति॥
धर्मस्थितेषु आरक्षां सदा कुर्यासि पार्थिव।
बलचक्रं हि निश्राय धर्मचक्रं प्रवर्तते॥
धर्मस्थितानां तेजेन सर्वा शाम्यन्ति ईतयो।
समयेन वर्षन्ति देवा शस्यं निवर्तते तहिं॥
दृष्टधर्मे हितार्थं च संपराये सुखानि च।
एवं भोति महाराज गुणवन्तेषु यत्कृतं॥
तस्मात्तं परिरक्षेया राजा धर्मेण पार्थिव।
तं हि राज हित तुह्यं राष्ट्रस्यापि च तं हितं॥
समीक्षाकारी अस्या हि सर्वार्थेहि जनाधिप।
कोष्ठागारे च कोष्ठे च अप्रमत्तश्च संभव॥
एतावती अर्थवती एषा मह्यानुशासनी।
तं सर्वमोगृहीत्वान एवं कुरुहि पार्थिव॥
एवं ते प्रतिपन्नस्य यशो किर्तिश्च भेष्यति।
क्षेमं भविष्यते राष्ट्रं ऋद्धिं स्फीतं जनाकुलं॥
कौशिकस्य श्रुत्वा वाक्यं श्रेष्ठं धर्मार्थसंहितं
तथा शारिक पृच्छामि राजधर्मा ब्रबीहि मे॥
सारिकपोतो आह॥
चिरस्य वत मां तात राजधर्माणि पृच्छसि।
हन्त ते हं प्रवक्ष्यामि एकाग्रमनसो शृणु॥
द्विभिस्तु पादकैस्तात अत्र लोकः प्रतिष्ठितः।
अलब्धलाभो अर्थस्य लब्धस्य परिरक्षणं॥
तस्मादर्थस्य लाभार्थं लब्धस्य परिरक्षणे।

278
दृढं कुर्यासि व्यायामं धर्मेण मनुजाधिप॥
यो वै भूमिपतिर्देव अधर्मेणानुशासति।
राष्ट्रं स्य दुब्बलं भोति च्छिद्रभुतं समन्ततः॥
यो च भुमिपतिर्देव धर्मेण अनुशासति।
राष्ट्रं स्य स्थावरं भवति ऋद्धं स्फीतं जनाकुलं॥
निगृह्ले निगृहीतव्यं प्रग्रहार्हां च प्रगृह्ले।
संगृह्ले संगृहीतव्यां अनुग्रहरुचिर्भव॥
यो निग्रहं न जानाति प्रग्रहं वा जनाधिपः।
संग्रहानुग्रहं चापि सो अर्था परिहायति॥
पुत्रांश्च भ्रातरां चापि शूरां साहसिकां छवां।
मा त्वन्ते ईश्वरां कासि ग्रामे जनपदेषु वा।
अनुग्रहं कुर्या भूपो मातापितार्थं पार्थिव।
विमानिता हि दायद्या उद्भ्रान्ता भोन्ति शत्रवः॥
पंच राष्ट्रा भवे राज्यं कुटिलशत्रुसेवितं।
मा तां च विश्वसे तत्र मा च प्रतिपद्ये उत्पथे॥
उत्पथे च प्रतिपन्नो क्षत्रियो च वसानुगो।
अमित्राणां वसमेति पश्चाच्च अनुतप्यति॥
आत्मना बललाभार्थं अमित्राणां पि निग्रहे।
राष्ट्रस्य अनुकम्पार्थं संतुलेहि जनाधिप।
समीक्षियान कथय रात्रौ वा यदि वा दिवा।
उपश्रोता हि तिष्ठन्ति ते श्रुत्वा विकरेन्सु ते॥

279
शूरो व्यावर्त्यते क्षिप्रं आढ्यः संगृह्लते बलं।
अर्थवशी मन्त्रबली कुपितो करे ऽ र्थं न ते॥
तस्मादर्थवसं विप्रं सपुत्रदारं प्रवासयेत्।
आढ्यं मन्त्रवरं वैश्यं तनु वापि शठंशठं॥
आमात्यं देव कुर्यासि पण्डितमर्थचिन्तकं।
अलुब्धमनुरक्तं च राष्ट्रस्य परिणायकं॥
दुष्प्रज्ञानाममात्यानां प्रज्ञाविकल्पकारिणां।
राष्ट्राणि दुःखमेधन्ति राष्ट्राधिपतिना सह॥
पण्डितानाममात्यानां प्रज्ञातेजेन पार्थिव।
राष्ट्राणि सुखमेधन्ति राष्ट्राधिपतिना सह॥
लुब्धो च अल्पबुद्धी च अमात्यो मनुजाधिप।
नैव राज्ञो हितो भोति राष्ट्रस्यापि न सो हितः॥
तस्मादलुब्धमेधाविं अमात्यं मनुजाधिप।
मन्त्रस्यानुयुक्तं कुर्या राष्ट्रस्य परिणायकं॥
नास्ति चारसमं चक्षुः नास्ति चारसमो नयो।
तस्माच्चारं प्रयोजेय्या सर्वार्थेषु जनाधिपः॥
सर्वं परिजनं राष्ट्रं संपरिगृह्ल पार्थिव।
बलाग्रमुपजीविञ्च कृत्याकृत्येहि पार्थिव॥
तस्माद्धीरं प्रतीहारं प्रतिपद्यासि पार्थिव।
अप्रमादं स कुर्या च तवमेतत्सुखावहं॥
एतावती अर्थवती एषा मह्यानुशासनी।

280
तं सर्वमोग्रहेत्वान एवं कुरुहि पार्थिव॥
एवन्ते प्रतिपन्नस्य यशो कीर्तिश्च भेष्यति।
क्षेमं भविष्यति राष्ट्रं ऋद्धं स्फीतं जनाकुलं॥
कौशिको चापि पृच्छितो ते पृष्टा व्याकरेन्सु मे।
राजधर्मं यथातथा त्वं दानि शुक पृच्छसि॥
बलं कतिविधं राज्ञो पण्डित अर्थचिन्तक।
राजधर्मं यथातथा इच्छितव्यं ब्रवीहि मे॥
शुको आह॥
बलं पंचविधं राज्ञः इच्छितव्यं नराधिप।
एकाग्रम्नसो भूत्वा शृणोहि वचनं मम॥
प्रथमं बलं सहजं द्वितियं पुत्रबलं तथा।
ज्ञातिमित्रबलं चापि तृतीयं मनुजाधिप।
चतुरंगबलं चापि चतुर्थं भवति पार्थिव।
पंचमं च बलं क्रुहि प्रज्ञाबलमनुतरं।
एतं बलं पंचविधं यस्य चापि जनाधिप।
राष्ट्रो स्य स्थावरो भोति ऋद्धं स्फीतं जनाकुलो।
बलवं पुनरेतेषां प्रज्ञाबलमनुत्तमं।
प्रज्ञाबलेन संग्रहे कृत्याकृत्यं जनाधिप।
अकृत्यं परिवर्जेति कृत्यं च अनुतिष्ठति।
आत्मनो ज्ञातिमित्राणां राष्ट्रस्य च सुखावहं॥
कुलीनो पि हि दुष्प्रज्ञो राजार्थे मनुजाधिप।
नैव राज्ञो हितो भोति राष्ट्रस्यापि न सो प्रियः।

281
क्षिप्रं तु नश्यते राज्य प्रतिराजेहि पार्थिव।
विरक्ता प्रकृतियो च अन्य मार्गन्ति स्वामिकं॥
अतीव सत्कृतो भवति पण्डितो अर्थचिन्तकः।
वरान्यो च स्थापयति शुरां वीरां विचक्षणां॥
यशं च इह लोकस्मिं संपराये च स्वर्गति।
अधर्मं परिवर्जेत्वा धर्ममाचरते सदा॥
धर्मं चर महाराज मातापितृषु पार्थिव।
इह धर्मं चरित्वान राजा स्वर्गं गमिष्यति॥
धर्मं चर महाराज पुत्रदारे जनाधिप।
इह धर्मं चरित्वान राजा स्वर्गं गमिष्यति॥
धर्मं चर महाराज मित्रामात्ये जनाधिप।
इह धर्मं चरित्वान राजा स्वर्गं गमिष्यति॥
धर्मं चर महाराज श्रमणे ब्राह्मणे तथा।
इह धर्मं चरित्वान राजा स्वर्गं गमिष्यति॥
धर्मं चर महाराज पुरे जानपदेषु च।
इह धर्मं चरित्वान राजास्वर्गं गमिष्यति॥
धर्मं चर महाराज अस्मिं लोके परत्र च।
इह धर्मं चरित्वान राजा स्वर्गं गमिष्यति॥
एतावती अर्थवती एषा मह्यानुशासनी।
तं सर्वमोग्रहीत्वान एवं कुरुहि पार्थिव॥
एवन्ते प्रतिपन्नस्य यशो कीर्ति च भेष्यति।
क्षेमं भविष्यते राष्ट्रं ऋद्धं स्फीतं जनाकुलं॥
तानेवमुवाच राजा ब्रह्मदत्तो प्रतापवान्।

282
समन्तपण्डिता पुत्रा निपुणा अर्थचिन्तका॥
सर्वेषां वो करिष्यामि वचनमनुशासनीं।
दृष्टो धार्मिकथया वो अर्थो यं सांपरायिकः॥
पूर्वेनिवासं भगवं पूर्वेजातिमनुस्मरन्।
जातकमिदमाख्यासि शास्ता भिक्षूणमन्तिके॥
अनवराग्रस्मिं संसारे यत्र मे उषितं पुरा।
शुको अहं तदा आसि शारिपुत्रो च सारिको।
आनन्दो कौशिको आसि ब्रह्मदत्तो शुद्धोदनो॥
एवमिदमपरिमितं बहुदुःखम्
उच्चनीचं चरितं पुराणं।
विगतज्वरो विगतभयो अशोको स्वजातकं
भगवां भाषति भिक्षुसंघमध्ये॥
इति श्रीमहावस्तुवदाने त्रिशकुनीयं नाम जातकं समाप्तं।
अथ् बोधिसत्वस्तं शुकभवं जहित्वा कुमारो संवृत्तः दश कुशलां कर्मपथाम् देशेति॥
दश वशिता आख्याता बुद्धेनादित्यबन्धुना।
बोधिसत्वान शूराणां भाषतो तं शृणोथ मे॥
वशी आयुष्मन्तो धीरो प्रतिभाने तथैव च।
उपपत्तिया च कर्मे च चित्ते च वशितां गतो॥
धर्मे च ऋद्धिवशिता अभिप्रायवशिस्तथा।
कालदेशे वशी धीरो इत्येते वशिता दश।

283
वशितादशसु एतासु प्रतिष्ठाय विशारदाः।
सत्वकोटिसहस्राणि परिपाचेन्ति नरर्षभाः॥
बुद्धक्षेत्रं विशोधेन्ति बोधिसत्वा च नायका।
बोधिसत्वा द्युतिमन्तो महाकारुणलाभिनो॥
जातकपर्यवसाने तहिं च परिपाचिता।
चतुरशीतिहि प्राणिसहस्रेहि धर्मो अभिसंमतो॥
बुद्धेन भगवता वैशालीये सीमं आक्रमन्तेन सर्वे अमनुष्यका पलानाः॥ महन्तो जनकायो प्रीतो भगवन्तं पृच्छति॥ पश्य भगवन्कथं भगवता वैशालीये सीमामाक्रमन्तेनैव सर्वे अमनुष्यकाः पलानाः॥ भगवानाह॥ किमत्र वासिष्ठाहो आश्चर्य यन्तथागतेन परमसंबोधिप्राप्तेन देवातिदेवेन सीमामाक्रमन्तेनैव सर्वे अमनुष्यका पलानाः॥ अन्यदापि मया ऋषिभूतेन कम्पिल्ले नगरे सीमामाक्रमन्तेनैव सर्वे अमनुष्यका पलानाः॥ लेच्छविका आहन्सु॥ अन्यदापि भगवन्॥ भगवानाह॥ अन्यदापि वासिष्ठा॥
भूतपूर्वं वासिष्ठा अतीतभध्वाने पांचाले जनपदे कम्पिल्ले नगरे राजा ब्रह्मदत्तो नाम राज्यं कारेसि सुगंगृहीतपरिजनो दानसंविभागशीलो॥ तस्य तं कम्पिल्लं जनपदं ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च सुखितमनुष्य च प्रशान्तदण्डडमरं सुनिगृहीततस्करं व्यवहारसंपन्नं॥ तस्य दानि राज्ञो ब्रह्मदत्तस्य रक्षितो नाम पुरोहितपुत्रो महेशाख्यो दशकुशलकर्मपथसमादायवर्ती कामेषु आदीनवदर्शावी निःशरणप्रज्ञो संवेगबहुलो नैष्क्रम्याभिप्रायो। सो कामेषु आदीनवं दृष्ट्वा अनुहिमवन्तं गत्वा ऋषिप्रव्रज्यां प्रव्रजितो। तेन दानि तहिं हिमवन्ते आश्रमं

284
मापेत्वा तृणकुटीपर्णकुटीनि कृत्वा मूलपत्रपुष्पफलभक्षेण बाहिरकेण मार्गेण पूर्वरात्रं अपररात्रं जागरिकायोगमनुयुक्तेन विहरन्तेन चत्वारि ध्यानानि उत्पादितानि पंच च अभिज्ञा साक्षीकृता॥ सो दानि चतुर्ध्यानलाभी पंचाभिज्ञो दशकुशलकर्मपथसमादायवर्ती कुमारो ब्रह्मचारी स्वयमाश्रमे पर्यंकेन निषस्मो चन्द्रमण्डलं च सूर्यमण्डलं च पाणिना परामृषति। यावद्ब्रह्मकायिककायान्वशे वर्तेति उग्रतपो ऋषि महाभागो॥  कदाचित्कम्पिल्ले महानगरे सजनपदे अमनुष्यव्याधि दारुणो उत्पन्नो॥ तेन अमनुष्यव्याधिना स्पृष्टा बहूनि प्राणिसहस्राणि अनयव्यसनमापद्यन्ते॥ राजा ब्रह्मदत्तेन तं कंपिल्ले महान्तमादीनवं दृष्ट्वा अनुहिमवन्ते रक्षितस्य दूतो प्रेषितः॥ कम्पिल्ले एदृशो अमनुष्यव्याधि उत्पन्नो वहूनि प्राणिसहस्राणि अनयव्यसनमापद्यन्ति॥ साधु भगवान्कम्पिल्लमागच्छेया अनुकम्पामुपादाय॥ ऋषिर्दुतवचनं श्रुत्वा अनुहिमवन्तातो कंपिल्लमागतो॥ तेन ऋषिणा कंपिल्लस्य सीमामाक्रमन्तेन सर्वे ते अमनुष्यका पलानाः॥ ऋषिणा तहिं कम्पिल्ले स्वस्त्ययनं कृतं दश कुशलाः कर्मपथा देशिता चतुरशीतिनां प्राणिसहस्राणां॥
किं सो नरो जल्पमचिन्त्यकालं।
कतमास्य विया कतमं स्य दानं।
सौख्याध्वगो अस्मिं परे च लोके
कथंकरो रक्षितो स्वस्त्ययनं तदाहु।
यो सिद्धदेवां च नरांश्च सर्वा
ज्ञातिं च भूतानि च नित्यकालं।
अवजानति प्रज्वलनं च तीक्ष्णं
भूतानुकम्पि रक्षितो स्वस्त्ययनं तदाहुः॥

285
यो वा दुरुक्तं वचनं क्षमेया
क्षान्तीबलेन अधिवासयन्तो।
परुषं श्रुत्वा वचनं अनिष्टं
अधिवासनारक्षितो स्वस्त्ययनं तदाहुः॥
यो वा दुरुक्तं वचनं क्षमेय
जाता च ये स्निग्धमित्रा सततं भवन्ति।
विशारदा अबिसंवादका च
तां मित्रद्रोहीसमसंविभागी।
धनेन मित्रां सदामनुकम्पि
सो मित्रमध्ये रक्षितो स्वस्त्ययनं तदाहुः॥
यो ज्ञातिमध्ये च सहायमध्ये
शीलेन प्रज्ञाय वशीतया च।
अभिरोचति सर्वं हि नित्यकालं
सो ज्ञातिमध्ये रक्षितो स्वस्त्ययनं तदाहुः॥
यस्मिं राजा भूमिपती प्रसन्ना
जानन्ति सत्ये च पराक्रमे च।
अभव्य एषो इह च पुरा च
स राजमध्ये रक्षितो स्वस्त्ययनं तदाहुः॥
यं स्निग्घभावा॥॥।
माता प्रजायामनुकम्पिता च।
प्रजायते रूपवती सुशीला
घरवासरक्षितो स्वस्त्ययनं तदाहुः।

286
ये आर्यधर्मेण स्तुवन्ति बुद्धं
उपस्थिता परिचरियाये सन्तो।
बहुश्रुता तीर्णकांक्षा विमुक्ता
अर्हन्तमध्ये रषितो स्वस्त्ययनं तदाहुः॥
अन्नं पानं काशिकचन्दनं च
गन्धं च माल्यं च ददन्ति काले।
प्रसन्नचित्ता श्रमणब्रह्मेहि
ग्रामस्य मध्ये रक्षितो स्वस्त्ययनं तदाहुः।
पौशुन्यं मृषावाद परेषु दारं
प्राणातिपातं च तथैव मद्यं।
एतं प्रहाय स्वर्गतिं गमिष्यथ
ग्रामस्य मध्ये रक्षितो स्वस्त्ययनं तदाहुः।
स्यात्खलु पुनर्वो वासिष्ठाहो एवमस्यास्यादन्यो स तेन कालेन समयेन रक्षितो नाम ऋषि अभूषि ंअ खल्वेवं द्रष्टव्यं। तत्कस्य हेतोः। अहं सो वासिष्ठा तेन कालेन तेन समयेन रक्षितो नाम ऋषि अभूषि। अन्यो सो तेन कालेन तेन समयेन कम्पिल्ले नगरे ब्रह्मदत्तो नाम राजा अभूषि। न खल्वेतदेवं द्रष्टव्य॥ एषो राजा श्रेणीको बिम्बिसारो तदा कल्पिल्ले नगरे ब्रह्मदत्तो नाम राजा अभूषि॥ तदापि मये ऋषिभूतेन कम्पिल्ले सीमामाक्रमन्तेनैव सर्वे अमनुष्यका पलानाः। एतरहिं पि मये वैशालीये सीमामाक्रमन्तेनैव सर्वे अमनुष्यआ पलानाः॥
अपि च न एतरहिं येव मये सीमामाक्रमन्तेनैव सर्वे अमनुष्यका पलानाः। अन्यदापि मये सीमामाक्रमन्तेनैव अमनुष्यका पलानाः।
भूतपूवं वासिष्ठाहो अतीतमध्वानं नगरे वाराणसी काशिजनपदे राजा राज्यं कारयति कृतपुण्यो महेशाख्यो महाबलो महाकोशो महावाहनो सुसंगृहीतपरिजनो

287
दानसंविभागशीलो॥ तस्य तं नगर वाराणसी काशिजनपदो ऋद्धो च स्फीतो च क्षेमो च सुभिक्षो च आकीर्णजनमनुष्यो च॥ तस्य दानि राज्ञो हस्तिनागो कृतपुण्यो महेशाख्यो महातेजो महानुभावो यस्य तेजानुभावेन वाराणसी काशिजनपदो निरीतिको निरुपद्रवो येनान्येषामपि ग्रामजनपदानां सीमामाक्रमन्तेनैव निरीतिका निरुपद्रवा भोन्ति॥ कदाचित् मिथिलायां विदेहनगरे अमनुष्यव्याधिरुत्पन्नो बहूनि प्राणिसहस्राणि अनयव्यसनमापद्यन्ति॥ ते शृण्वन्ति काशिराज्ञो हस्तिनागो कृतपुण्यो च महेशाख्यो च महातेजो च महानुभावो च यस्य ग्रामस्य वा नगरस्य वा सीमामाक्रमति निरीतिको निरुपद्रवो सो ग्रामो वा नगरो वा भवति॥ तेन दानि वैदेहकराज्ञा अपरो ब्राह्मणो उक्तो॥ गच्छ वाराणसीं सो काशिराजा सर्वंददो च दानसंविभागशीलो च॥ तस्य इमा प्रकृतिं आरोचेहि तं च हस्तिनागं याचेहि॥ तेन नागेन इह आगतेन सर्वो अमनुष्यव्याधि प्रशमिष्यति॥ सो ब्राह्मणो राज्ञो वचनं श्रुत्वा अनुपूर्वेण वाराणसिमनुप्राप्तो॥ ब्राह्मणो च वाराणसिं प्रविशति॥ अयं च काशिराजा वाराणसीतो बहिर्नगरं निर्याति महता राजानुभावेन महतीये राजऋद्धीये तं च हस्तिनागं सर्वालंकारविभूषितं हेमजालसंछन्नं शिरीज्वलन्तं पुरतो गच्छति। तेन ब्राह्मणेन सो काशिराजा पुरतः स्थित्वा जयेन वर्धापितो॥ राजा तं ब्राह्मणेन तं मिथिलायाममनुष्यं उपसर्गं सर्वं काशिराज्ञो आरोचितं॥ एतं महाराज हस्तिनागं देहि मिथिलायामनुकम्पामुपादाय॥ राजा सकृपो परानुग्रहप्रवृत्तो च॥ तेन तं हस्तिनागं तस्य ब्रह्मणो यथालंकृतं दिन्नं॥ ददामि ते ब्राह्मण नागमिममलंकृतं हेमेजालेन च्छन्नं राजां राजभोग्यं उदारं

288
ससारथिं । गच्छहि येनकामं॥ स्यात्खलु पुनर्वो वासिष्ठाहो एवमस्यास्या अन्यः स तेन कालेन तेन समयेन वाराणस्यां राजा अभूषि॥ न एतदेवं द्रष्टव्यं॥ एष राजा श्रेणिको बिम्बिसारो तेन कालेन तेन समयेन काशिराजा अभूषि॥ स्यात्खलु पुनर्वो वासिष्ठाहो एवमस्यास्या अन्यो सो तेन कालेन तेन समयेन मिथिलायां राजा भवति॥ न एतदेवं द्रष्टव्यं॥ तत्कस्य हेतोः॥ एष सिंहसेनापतिः तेन कालेन तेन समयेन राजा अभूषि॥ अन्यो सो ब्राह्मणो भवति। एषो तोमरो लेच्छविः॥ अन्यो सो हस्तिनागो भवति॥ न खलु पुनरेवं द्रष्टव्यं॥ अहं सो तेन कालेन तेन समयेन राज्ञो हस्तिनागो अभूषि॥ तदापि मये हस्तिनागभूतेन मिथिलायां सर्वे अमनुष्यक्ः पलानाः। एतरहिं पि मये वैशालीये सीमामाक्रमन्तेनैव सर्वे अमनुष्यका पलानाः॥
अपि तु वासिष्ठाहो न एतरहिमेव मये सीमामाक्रमन्तेनैव सर्वे अमनुष्यकाः पलानाः। अन्यदापि ऋषभभूतेनसीमामाक्रमन्तेनैव सर्वे अमनुष्यकाः पलानाः॥ भूतपूर्वं वासिष्ठाहो अतीतमध्वानं राजगृहे नगरे राजा राज्यं कारयति कृतपुण्यो महेशाख्यो सुसंगृहीतपरिजनो दानसंविभागशीलो महाबलो महाकोशो महाबलवाहनो। तस्य तं राज्यं ऋद्धं च स्फीतं चक्षेमं चसुभिक्षं च आकीर्णमनुष्यञ्च बहुजनमनुष्यं च सुखितजनमनुष्यं च प्रशान्तदण्डडमरं सुनिगृहीततस्करं व्यवहारसम्पन्नं॥ तहिं अमनुष्यव्यादि उत्पन्नो बहूनि प्राणिसहस्राणि अमनुष्यव्याधिना अनयव्यसनमापद्यन्ति॥ अङ्गराज्ञो च ऋषभो अभूषि प्रासादिको दर्शनीयो कृतपुण्यो महेशाख्यो॥ तस्य तेजानुभावेन सर्वमङ्गविषयं निरीतिकं निरुपद्रवं॥ राजगृहका ब्राह्मणगृहपतिका शृण्वन्ति॥ अङ्गराज्ञो ईदृशो ऋषभो प्रासादिको दर्शनीयो कृतपुण्यो महेशाख्यो। तस्य तेजानुभावेन सर्वमंगविषयं निरीतिकं

289
निरुपद्रवं भवति॥ तेहि राज्ञो आरोचितं॥ महाराज शृणोम अंगराज्ञो एदृशो ऋषभो प्रासादिको दर्शनीयो कृतपुण्यो महेशाख्यो महानुभावो। यस्य ग्रामस्य वा नगरस्य वा सीमामाक्रमति तं निरीतिकं निरुपद्रवं भवति॥ महाराज ऋषभं आनय यथा तेन आनीतेन राजगृहे अमनुष्यव्याधि प्रशमिष्यति॥ राजगृहकेन राज्ञा अंगराज्ञो ब्राह्मणो प्रेषितो॥ गच्छ अंगराज्ञ इमं राजगृहे आदीनवं वेदयित्वा तं ऋषभं याचाहीति॥ सो दानि राज्ञो ब्राह्मणो तथेति प्रतिश्रुणित्वा राजगृहातो अनुपूर्वेण अङ्गराजस्य नगरमनुप्रातः ॥ तेन अङ्गराज्ञो उपसंक्रमित्वा अङ्गराजानं जयेन वर्धापेत्वा एवं राजगृहकममनुष्यव्याधिं सर्वं विस्तरेण आरोचेत्वा ऋषभं याचितं॥ सो पि च राजा सकृपो च परानुग्रहप्रवृत्तो च॥ तेन तं राजगृहकानां महन्तमादीनवं श्रुत्वा सो ऋषभो तस्य ब्राह्मणस्य दिन्नः॥ गच्छ ब्राह्मण सुखी भवन्तु राजगृहका मनुष्या सर्वे सत्वाश्च॥ ब्राह्मणो तं ऋषभं गृह्य अंगविषयातो मगधविषयमागच्छति॥ समनन्तरं च वासिष्ठाहो ऋषभेण राजगृहस्य सीमा आक्रान्ता सर्वे च ते अमनुष्यका पलाना निरीतिको च निरुपद्रवो राजगृहस्य जनपदो संवृत्तो॥ स्याद्वो पुनरेव वासिष्ठाहो एवमस्यास्यादन्यः स तेन कालेन तेन समयेन अंगनगरे अंगराजा अभूषि॥ न खलु पुनरेवं द्रष्टव्यं॥ तत्कस्य हेतोः॥ एष वासिष्ठाहो राजा श्रेणियो बिम्बिसारो तेन कालेन तेन समयेन अङ्गराजा अभूषि॥ अन्यो स तेन कालेन तेन समयेन राजगृहे राजा अभूषि॥ न एतदेवं द्रष्टव्यं॥ तत्कस्य हेतोः॥ एष सिंहसेनापतिः॥ अन्यः स तेन कालेन तेन समयेन राजगृहको ब्राह्मणो अभूषि येन तं ऋषभं आनीतं॥ न एतदेवं द्रष्टव्यं॥ तत्कस्य

290
हेतोः॥ एष वासिष्ठाहो तोमरो लेच्छविस्तेन कालेन तेन समयेन राजगृहे ब्राह्मणी अभूषि येन तं अङ्गराज्ञो सकाशातो ऋषभो राजगृहमानीतो॥ स्यात्खलु पुनर्वो वासिष्ठाहो एवमस्यास्या अन्यः स तेन कालेन तेन समयेन संगराज्ञो ऋषभो अभूसि॥ न खल्वेतदेवं द्रष्टव्यं॥ तत्कस्य हेतोः॥ अहं सो वासिष्ठाहो तेन कालेन तेन समयेन अंगराज्ञो ऋषभो अभूषि॥ तदापि मये ऋषभभूतेन राजगृहस्य सीमामाक्रमन्तेनैव सर्वे अमनुष्यका पलाना एतरहिं पि मये परमसंबोधिप्राप्तेन वैशालीयं सीमामाक्रमन्तेनैव सर्वे अमनुष्यका पलानाः॥

इति श्रीमहावस्तुवदाने ऋषभस्य जातकं समाप्तं॥
अथ भगवाननुपूर्वेण वैशालीमनुप्राप्तः॥ भगवां दानि वैशालीये साभ्यन्तरबाहिराये स्वस्त्ययनं करोति। स्वस्त्ययनगाथां भाषति॥
नमो स्तु बुद्धाय नमो स्तु बोधये
नमो विमुक्तय नमो विमुक्तये।
नमो स्तु ज्ञानस्य नमो स्तु ज्ञानिनो
लोकाग्रश्रेष्ठाय नमो करोथ॥
यानीह भूतानि समागतानि
भूम्यानि वा यानि वान्तरीक्षे।
सर्वाणि वा आत्तमनानि भूत्वा
शृण्वन्तु स्वस्त्ययनं जिनेन भाषितं॥
इमस्मिं वा लोके परस्मिं वा पुनः
स्वर्गेषु वा यं रतनं प्रणीतं।
न त समं अस्ति तथागतेन

291
देवतिदेवेन न्रोत्तमेन्।
इमं पि बुद्धे रतनं प्रणीतं
एतेन सत्येन सुस्वस्ति भोतु
मनुष्यत् बा अमनुष्यतो वा॥
इदं पि धर्मे रतनं प्रणीतं
एतेन सत्येन सुस्वस्तिभोतु
मनुष्यतो वा अमनुष्यतो वा।
यं बुद्धश्रेष्ठो परिवर्णये शुचिं
यमाहु आनन्तरियं समाधिं
समाधिनो तस्य समो न विद्यते।
इदं पि धर्मे रतनं प्रणीतं
एतेन सत्येन सुस्वस्ति भोतु
मनुष्यतो वा अमनुष्यतो वा॥
ये पुद्गला आष्ट सदा प्रशस्ता
चत्वारि एतानि युगानि भोन्ति।
ते दक्षिणीया सुगतेन उक्ताः
एतानि दिन्नानि महत्फलानि।
इदं पि संघे रतनं प्रणीतं
एतेन सत्येन सुस्वस्ति भोतु
मनुष्यतो वा अमनुष्यतो वा॥
सर्वैव यस्य दर्शनसंपदायो

292
त्रयो स्य धर्मा जहिता भवन्ति।
सत्कायदृष्टीविचिकित्सितं च
शीलव्रतं चापि यदस्ति किंचित्।
इदं पि संघे रतनं प्रणीतं
एतेन सत्येन सुस्वस्ति भोतु
मनुष्यतो वा अमनुष्यतो वा॥
किंचापि शैक्षो प्रकरोति पापं
कायेन वाचा अथ चेतसापि।
अभव्यो सो तस्य निगूहनाय
अभव्यता दृष्टपथेषु उक्ता।
इदं पि संघे रतनं प्रणीतं
एतेन सत्येन सुस्वस्ति भोतु
मनुष्यतो वा अमनुष्यतो वा॥
यथेन्द्रकीलो पृथिवीसन्निश्रितो स्या
चतुर्भि वातेहि असंप्रकम्पि।
तथोपमं सत्पुरुषं वदेमि
यो आर्यसत्यानि सुदेशितानि
गम्भीर अर्थानि अवेत्य पश्यति।
इदं पि संघे रतनं प्रणीतं
एतेन सत्येन सुस्वस्ति भोतु
मनुष्यतो वा अमनुष्यतो वा॥
ये आर्यसत्यानि विभवयन्ति
गम्भीरप्रज्ञेन सुदेशितानि।
किंचापि ते भोन्ति भृशं प्रमत्ता

293
न ते भवां अष्ट उपादियन्ति।
इदं पि संघे रतनं प्रणीतं
एतेन सत्येन सुस्वस्ति भोतु
मनुष्यतो वा अमनुष्यतो वा॥
ये युक्तयोगी मनसा सुच्छन्दसा
नैष्क्रम्यिणो गौतमशासनस्मिं।
ते प्राप्तिप्राप्ता अमृतं विगाह्य
विमुक्तचित्ता निर्वृतिं भुंजमाना।
इदं पि संघे रतनं प्रणीतं
एतेन सत्येन सुस्वस्ति भोतु
मनुष्यतो वा अमनुष्यतो वा॥
क्षीणं पुराणं नवो नास्ति संचयो
विमुक्ता आयतिके भवस्मिं।
ते क्षीबीजा अविरूढिधर्मा
निर्वान्ति धीरा यथ तैलदीपा।
इदं पि संघे रतनं प्रणीतं
एतेन सत्येन सुस्वस्ति भोतु
मनुष्यतो वा अमनुष्यतो वा॥
अग्निर्यथा प्रज्वलितो निषीदे
इन्धनक्षया शाम्यति वेगजातो।
एवंविधं ध्यायिनो बुद्धपुत्राः
प्रज्ञाय रागानुशयं ग्रहेत्वा
अदर्शनं मृत्युराजस्य यान्ति।

294
इदं पि संघे रतनं प्रणीतं
मनुष्यतो वा अमनुष्यतो वा॥
ग्रीष्माणमासे प्रथमे चैत्रस्मिं
वने प्रगुल्मा यथ पुष्पिताग्रा
वातेरिता ते सुरभिं प्रवान्ति।
एवंविधं ध्यायिनो बुद्धपुत्राः
शीलेनुपेता सुरभिं प्रवान्ति।
इदं पि संघे रतनं प्रणीतं
एतेन सत्येन सुस्वस्ति भोतु
मनुष्यतो वा अमनुष्यतो वा॥
यानीह भूतानि समागतानि
भूम्यानि वा यानि व अन्तरीक्षे।
मैत्रीकरोन्तु सद मनुष्यका प्रजा
दिवं च रात्रिं च हरन्ति वो बलिं॥
तस्माद्धि तं रक्षथ अप्रमत्ता
माता व पुत्रं अनुकम्पमाना।
एतेन सत्येन सुस्वस्ति भोतु
मनुष्यतो वा अमनुष्यतो वा॥
विपश्यिस्मिं विश्वभुवि क्रकुच्छन्दे
भामकनकमुनिस्मिं काश्यपे
महायशे शाक्यमुनिस्मि गौतमे।
एतेहि बुद्धेहि महर्द्धिकेहि
या देवता सन्ति अभिप्रसन्ना।

295
वाढं पि तं रक्षयन्तु च करोन्तु
स्वस्त्ययनं मानुषिकप्रजाये॥
तस्मा हि तं रक्षथ अप्रमत्ता
माता व पुत्रं अनुकम्पमाना।
[ एतं पि संघे रतनं प्रणितं]
एतेन सत्येन सुस्वस्ति भोतु
मनुष्यतो वा अमनुष्यतो वा॥
यो धर्मचक्रं अभिभूय लोकं
प्रवर्तयति सर्वभूतनुकम्पितं।
एतादृशं देवमनुष्यश्रेष्ठं
बुद्धं नमस्यामि सुस्वस्ति भोतु।
धर्मं नमस्यामि सुस्वस्ति भोतु
संघं नमस्यामि सुस्वस्ति भोतु
मनुष्यतो वा अमनुष्यतो वा॥
गोशृंगीये बुद्धप्रमुखे भिक्षुसंघे भक्तं कृत्वा शालवनं निर्यातितं। लेच्छवोनामेतदभूषि॥ प्रतिबलो अस्माकमेकको भगवन्तं सश्रावकसंघं यावज्जीवमुपस्थिहितं चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारेहि॥ अपि तु तथा क्रियतु यथा महाजनो पुण्येन संयुज्येया॥ मनुष्यतण्डुलो ओहारीयतु॥ तेहि मनुष्यतण्डुलो ओहारितो पंचविंशमुत्तरं वा तण्डुलजाता॥ एवं तेहि भगवां सश्रावकसंघो सप्ताहमुपस्थितो॥
शिरिमन्तं महेशाख्यं वर्नवन्तं यशस्विनं।

296
संबुध्ं पर्युपासन्ति चन्द्रं तारागणा यथा।
पीतालंकारवसनाः कर्णिकारा व पुष्पिता।
संबुद्धं पर्युपासन्ति घनकेयूरधारिणः।
हरिचन्दनलिप्तांगा काशिकोत्तमधारिणः।
॥॥।
तां देवसंघां परिषां समागआं
शुचिं सुजातां शतपुण्यलक्षणां।
सर्वेण बुद्धो अभिभोति तेजसा
नक्षत्रराजा इव तारकाणां॥
चन्द्रो यथा विगतवलाहके नभे
अभिरोचते तारगणां प्रभांकरो।
एवं हिमां क्षत्रियभूमिपालां
सर्वेण बुद्धो अभिभोति जेजसा॥
सूर्यो यथा प्रभवति अन्तरीक्षे
आदित्यमार्गस्मिं स्थितो विरोचति।
एवं हिमां क्षत्रियबुमिपालां
सर्वेण बुद्धो अभिभोति तेजसा।
सूर्यो यथा प्रतपति अन्तरीक्षे
आदित्यमार्गस्मिं स्थितो विरोचति।
एवं हिमां क्षत्रियभूमिपालां
सर्वेण बुद्धो अभिभोति तेजसा॥
पद्मं यथा कोकनदं सुजातं
प्रभासितं फुल्लमुपेतगन्धं।

297
एवं पिमां क्षत्रियभूमिपालां
सर्वेण बुद्धो अभिभोति तेजसा
शक्रो यथा असुरगणप्रमर्दको
सहस्रनेत्रो त्रिदशाभिरोचते।
एवं इमां क्षत्रियभूमिपालां
सर्वेण बुद्धो अभिभोति तेजसा॥
ब्रह्मा यथा भूतनुकम्पि सर्वां
मरुप्रभां अभिरोचति तेजसा।
एवं इमां क्षत्रियभूमिपालां
सर्वेण बुद्धो अभिभोति तेजसा॥
दशांगुपेतं प्रमुंचि शिरिं शुचिं
ततश्च बुद्ध्वा अमृतप्रसादं।
विनेसिमां क्षत्रियभूमिपालां
धर्मं इमं पाणितले व दर्शये॥
एवमायुष्मता आनन्देन भगवानभिस्तुतो॥
भगवां बैशालकानां लेच्छवीनां धर्मया कथया संदर्शयित्वा समुत्तेजयित्वा संप्रहर्षयित्वा बहुनि च प्राणिशतसहस्राणि अभिविनेति॥ वैशालकानां लेच्छवीनां तावद्दानं देयधर्मं इमाये अनुमोदनाये॥
यथापि ते मधुकरका समेत्वा
नानाविधां कुसुमरसां ग्रहेत्वा।
तुण्डेहि पादेहि च संहरित्वा
॥॥॥।॥

298
सामग्रिये भवति रसगन्धयोसो
तं संस्तृतं भवति मधु प्रणीतं।
वर्णेन गन्धेन रसेनुपेतं
भैषज्यभक्तेषु च तं उपेति॥
एमेव ग्रामे निगमेषु वा पुनः
महाजनो भवति यदि स आगतो।
सपुत्रदारा पुरुषस्त्रियो च
कल्याणकार्येषु समानच्छन्दा॥
समोहरित्वान ददन्ति पानं
संघस्य भक्तानि करोन्ति यागुं।
पानानि सम्यक्सुखखादनीया
रसां च आर्यानुमतां ददन्ति॥
यथाप्रसादं च यथानुभावं
कल्पं बहुं चापि समोहरित्वा।
पुनर्पुनः देन्ति प्रसन्नचित्ता
समुच्चयं गच्छति पुण्यराशिः॥
अभिवादनांजलिकर्मणो च
प्रत्युत्थानमासनतां ततो च।
वैयावृत्यं धर्मनुमोदनां च
महाजनो प्रीतो करोति पुण्यं॥
ते दिन्नदाना कृतपुण्यकर्मका
येनैव वाचाथ समोहरित्व वा।

299
यैनैव च कर्मसभागताये
सर्वे पि ते स्वर्गमुपेन्ति स्थानं॥
दिव्येहि रूपेहि समंगिभूता
परिचारियन्त्यप्सरसां गणेहि।
प्रभूतभक्षा प्रवरान्नपाना
विमानशेष्ठोपगता रमन्ति॥
यदा च ते एन्ति मनुष्यलोकं
सर्वे पि आढ्यकुलेषु जाता।
ऋद्धेषु स्फीतेषु महाधनेषु
प्रभूतनारीनरसंकुलेषु॥
मधुं कृतं सत्पुरुषप्रशस्तं
सर्वेहि पुष्पेहि सुखावहाय।
यं किंचिदर्थो मनसा चप्रार्थितः
सर्वो स ऋद्ध्येय यथामनो च।
सर्वार्थं संगम्य उपेथ निर्वृतिं
ससर्वसंस्कारकिलेशसूदनां।
संवर्णये लोकहितो महाप्रभुः
सपुत्रदारा सहज्ञातिबान्धवा॥
ते दानि लेच्छवयो भगवन्तमाहन्सुः॥ अयमस्माकं भगवनुद्यानानां महाद्यानं यदिदं महावनं सकूटागारशालं। तं च भगवतो सश्रावकसंघस्य देम निर्यातेम॥ भगवां दानि भिक्षूनामन्त्रेसि॥ तेन हि भिक्षवो अनुजानामि आरामार्थं विहरार्थं कल्पार्थं॥ भगवां दानि महावनातो चापालं चेतियं आगतः॥ लेच्छ-


300
वयो पृच्छन्ति॥ कहिं भगवां॥ भिक्षवो आहन्सुः॥ एष वासिष्ठाहो भगवां महावनातो येन चापालं चेतियं तेनोपसंक्रान्तो दिवाविहाराय। ते दानि लेच्छवयो आहन्सुः॥ देम भगवतो चापालं चेतियं सश्रावकसंघस्य निर्यातेम॥ अपरकाले लेच्छविका महावनमागता भगवतो पादवन्दका भगवां च कृतभक्तकृत्यो सप्ताम्रचेतियं गतो दिवाविहाराय॥ लेच्छवयो भिक्षूणां पृच्छन्ति॥ आर्या कहिं भगवान्॥ भिक्षू आहन्सुः॥ एष वासिष्ठाहो भगवां कृतभक्तकृत्यो येन सप्ताम्रचेतियं तेनुपसंक्रान्तो दिवाविहाराय॥ ते दानि लेच्छवयो येन सप्ताम्रचेतियं तेनुपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा भगवन्तमेतदवोचत्॥ देम भगवं सप्ताम्रचेतियं भगवतो सश्रावकसंघस्य निर्यातेम॥ एवं बहुपुत्रचेतियं गौतमकं चेतियं कपिनह्यं चेतियं॥ भूयो चापि भगवान्कृत्यभक्तकृत्यो महावनातो येन मर्कटह्दतीरं चेतियन्तेनुपसंक्रान्तो दिवाविहाराया॥ लेच्छवयो आगता महावनं भगवतो पादवन्दकाः॥ भिक्षूणां पृच्छन्ति॥ आर्या कहिं भगवान्॥ भिक्षू आहन्सु॥ एष वासिष्ठाहो भगवां कृतभक्तकृत्यो ये मर्कटह्दतीरं तेनुपसंक्रान्तो दिवाविहाराय॥ ते दानि येन मर्कटह्दतीरं चेतियन्तेनुपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा भगवन्तमेतदुवाच॥ देम मर्कटह्दतीरं चेतियं भगवतः सश्रावकसंघस्य निर्यातेम॥ आम्रपालीये भगवतः सश्रावकसंघस्य भक्तं कृत्वा आम्रवनं निर्यातितं॥ बालिकाये भगवतः सश्रावसंघस्य भक्तं कृत्वा बालिकाछवी निर्यातिता॥
इति शीमहावस्तुवदाने छत्रवस्तुं समाप्तं।
अथ अपरिमितयशधर्मराज्ञो
नवविधशासनधर्मकोशरक्षो।

301
भवतु गणवरो चिरस्थितिको
शिरिप्रवरो अचलो यथा सुमेरू॥
बुद्धानामनुत्पादे प्रत्येकबुद्धा लोके उत्पद्यन्ति॥ तृष्णीकशोभना महानुभावा एकचरा खड्गविषाणकल्पा एकमात्मानं दमेन्ति परिनिर्वायन्ति॥ अपरो दानि प्रत्यकबुद्धो काशिभूमिषु पूर्वाह्ले ग्रामं पिण्डाय प्रविशति प्रासादिकेन अभिक्रान्तप्रतिक्रान्तेन आलोकितविलोकितेन संमिञ्जितप्रसारितेन संघाटीपात्रचीवरधारणेन नागो विय कारितकारणो अन्तर्गतेहि इन्द्रियेहि अबहिर्गतेन मानसेन स्थितेन धर्मताप्राप्तेन युगमात्रं प्रेक्षमाणः॥ ग्रामिको च ग्रामतो अरण्यं निर्धावति कर्मान्तं प्रत्यवेक्षणाये प्रासादिको अभिप्रसन्नदेवमनुष्यो॥ प्रत्यकबुद्धो तं ग्रामं सावदानं पिण्डाय चरित्वा यथाधौतेन पात्रेण ततः ग्रामातो निर्धावति॥ प्रायोन्नकालो वर्तति न च केनचिद्भिक्षा दिन्ना॥ ग्रामिको कर्मान्ता प्रत्यवेक्षयित्वा पुनर्ग्रामं प्रविशति पश्यति च नं प्रत्येकबुद्धं ग्रामतो निर्धावन्तं॥ तस्य भवति॥ प्रायोन्नकालो वर्तति। जानामि तावं किं इमेन प्रव्रजितेन भैक्षं लब्धमिति॥ ग्रामिकः प्रत्यकबुद्धमुपसंक्रम्य पृच्छति॥ आर्य लब्धं भैक्षं ति॥ प्रत्येकबुद्धो तूष्णीकशोभनो तुच्छकं पात्रं ग्रामिकस्य दर्शयति॥ ग्रामिको प्रत्येकबुद्धस्य तुच्छकं पात्रं दृष्ट्वा नमाह॥ यावदसंविभागशीलो जनो यत्र नाम एवरूपो दक्षिणीयो एवं महन्तातो ग्रामातो यथाधौतेन पात्रेण निर्धावति इमे किं उद्दीपयं परिभुंजन्ति॥ सो आह॥ भगवं आगच्छ अहं ते आहारं दास्यामि॥ सो तं प्रत्येकबुद्धं गृहीत्वा त ग्रामं प्रविष्टो॥ सो चतुःमहापथे स्थित्वा अविधाविधाति क्रन्दति॥ अवस्थितग्रामिकस्य अविधाविधन्ति शब्दं श्रुत्वा सस्त्रीमनुष्यो ग्रामो सन्निपतितः॥ ग्रामिकस्य

302
उपसंक्रमित्वा पृच्छन्ति॥ किं क्षेमं किं अविधाविधं ति क्रन्दसि॥ ग्रामिक आह॥ क्रन्दामि येनैते न संविभागरता न संविभागशीलाः यत्र नाम एवं महन्तातो ग्रामातो एको भिक्षु यथाधौतेन पात्रेण निर्धावति॥ ते दानि ग्रामे महल्लका तस्य ग्रामिकस्य श्रुत्वा तं प्रत्येकबुद्धं सत्कर्तव्यं मन्येन्सु॥ ग्रामिकेन प्रत्येकबुद्धं गृहं प्रवेशेत्वा आहारेण प्रतिमानेत्वा यावज्जीवमुपनिमन्त्रितो॥ अहमार्यस्य निमन्त्रेमि यावज्जीवं सर्वसुखोपधानेन॥ स्वयंधीता संवेदिता॥ एवन्तुवं आर्यं तं दिवसमाहारेण उपस्थिहिसि॥ दारिका प्रीता तुष्टा संवृत्ता॥ शोभनं मे कल्याणं कर्म सेवितं॥ सा दानि तं प्रत्येकबुद्धं दिवसमाहारेण उपस्थिहति प्रासादिकाभिप्रसन्नदेवमनुष्या॥ प्रत्यकबुद्धो परिज्ञातभोजनो सर्वाशुचिपरिक्षीणो महाभागो॥ तस्य दानि ग्रामिकस्य धीतुः तां प्रत्येकबुद्धस्य ईर्यां पश्यित्वा उदारं पसादं जातं। तथा अन्ये पि जना प्रसन्न॥ सो दानि प्रत्येकबुद्धो तस्य ग्रामिकस्य प्रसादेन तत्रैव ग्रामक्षेत्रे अनुपादाय परिनिर्वृतो॥ ततो ग्रामिकेन तं प्रत्येकबुद्धं ध्यायेत्वा स्तूपं कृतं न चातिखुड्डाकं न चातिमहन्तं सुधामृत्तिकालेपनं॥ सा दानि ग्रामिकस्य धीता तं स्तूपं दैवसिकं कांस्यपात्रेण पूजेति गन्धेन माल्येन च धूपेन च॥ पश्चात्ततो स्तूपातो तं नानाप्रकारं माल्यं वातेन अपकर्षीयते॥ ताये दानि तं माल्यं संकडित्वा चेटीहि सार्धं दीर्घमालागुडिका निचितोपचिता नानापुष्पाणां॥ तत्र ताये मालाये तं प्रत्येकबुद्धस्य स्तुपं सर्वं परिवेठितं॥। तस्या तां मालां तहिं स्तूपे स्थितां च माला च सर्वा रूपेण च तेजेन च अभिभवित्वा तिष्ठन्तीं देवेषु दिव्यमायुःप्रमाणं क्षपेत्वा शोभन्तीं दृष्ट्वा अतिरिव चित्तप्रसादमुत्पन्नं॥ सा दानि प्रसन्नचित्ता प्रणि

303
धानमुत्पादेति॥यादृशेषा माला अत्र स्तूपे शोभति एतादृशा मे माला मूर्ध्नि प्रादुर्भवेया यत्रयत्र उपपद्येयं॥
सा दानि तं कल्याणं कर्मं कृत्वा तत्र च्यवित्वा देवेषूपपन्ना रतनमालाये आबद्धा तस्या तहिं उपपन्नाये अप्सरसां शतसहस्रं परिवारेसि॥
ततो पि च्युता वाराणसीयं कृकिस्य राज्ञो अग्रमहिषीये कुक्षिस्मिं उपपन्ना॥ नवानां वा दशानां वा मासानामत्ययेन देवीये दारिका प्रजाता प्रासादिका दर्शनीया रतनमालाये आबद्धा। तस्या मालिनीति नामं कृतं॥ राज्ञो कृकिस्य प्रिया मनपा तथा सर्वस्य परिजनस्य सम्मता सर्वस्याधिष्ठानस्य यावत्कृतपुण्या दारिका॥
प्रतियेकबुद्धो ग्रामं पुण्डाय उपसंक्रमे।
यथाधौतेन पात्रेण ततो ग्रामातो निष्क्रमेत्॥
तमेनं ग्रामिको दृट्वा संबुद्धमिदमब्रवीत्।
किञ्चि अरोगो भगवां लभ्यते पिण्डयापनं॥
ततो स्य भगवन्पात्रं ग्रामिकस्य प्रणामये।
न चात्र अदर्शी भिक्षां दौर्मनस्यं ग्रामिकस्यभूत्॥
अन्धभूतो अयं लोको मिथ्यादृष्टिहतो सदा।
एतादृशं दक्षिणीयं न पूजेन्ति यथारहं॥
ग्रामान्तं उपसंक्रम्य स्थिहित्वान चतुष्पथे।
अविधाविधं ति क्रन्दति ततो सन्निपते जनाः॥
महाजनो समागत्वा इस्त्रियो पुरुषा पि च।
ग्रामिकं उपसंक्रम्य किं करोम अविधाविधं ति॥

304
ग्रामिको आह॥
यं नूनं कोटि युष्माकं न संविभागरतो जनो।
एषो हि एतस्मिं ग्रामस्मिं एको भिक्षु विहन्यति॥
ग्रामिकस्य वचनं श्रुत्वा सर्वे ग्रामो सैस्त्रियो।
सारायणीयं करेन्सु संबुद्धस्य पुनः पुनः॥
तमेनं ग्रामिको वच सभार्या सपुत्रको।
सर्वसुखविहारेण निमन्त्रेमि तथागतं॥
ग्रामिकस्य स्वका धीता शुचिवस्त्रा सुवासना।
आचारगुणसम्पन्ना उपस्थीय तथागतं॥
ग्रामिकस्य प्रसादेन तस्मिं ग्रामस्मिं सुव्रतो।
संबुद्धो परिनिर्वायि ऋषि क्षीणपुनर्भवः॥
तं निर्वृतं ध्यायेत्वान स्तूपं कारेसि ग्रामिको।
नृत्यवादितगीतेन पूजां कारेसि महर्षिणो॥
समासाद्य सितं पुष्पं वातेन अपकर्षितं।
एकाध्यं संहरित्वान दीर्घमालां वगूहयेत्॥
सा यादृशी तत्रैव मह्यं माला चित्रा उपनिश्रिता।
एतादृशी मे शिरसि भोतु माला यथा अयं॥
यत्रयत्रोपपद्येहं तत्रमेतं समृध्यतु॥
सा तं कर्मं करित्वान कल्याणं बुद्धवर्णितं।
त्रायस्त्रिंशेषु देवेषु उपपद्यिथ अप्सरा॥
अप्सराशतसहस्रं च पुरस्कृत्वान तां स्थिता।
तासां सा प्रवरा श्रेष्ठा नारी सर्वाङ्गशोभना॥

305
ततो तासां च्यवित्वान देवकन्या महर्द्धिका
राज्ञो कृकिस्य भार्याय कुक्षिस्मिं उपपद्यिथ।
निर्गते द्वादशमासे राजभार्या प्रजायत।
मालिनीं नाम नामेन नारीं सर्वाङ्गशोभनां॥
    अतिवर्णा अतिरूपवती अभूत्।
श्रेष्ठा च राजकन्यानां धीता सा काशिराजिनो॥
आचारगुणसम्पन्ना शुचिवस्त्रा सुवासना।
राज्ञो कृकिस्य अन्तिके तिष्ठते प्रांजलीकृता॥
तमेनमवदद्राजा तिष्ठन्तीं प्रांजलीकृतां।
ब्राह्मणां मे तुवं भद्रे भोजापेहि अतन्द्रिता॥
पितुः सा वचनं श्रुत्वा ब्राह्मणानामनूनकां।
विंशत्सहस्रां भोजेति सर्वकामेह् मालिनी।
तमेनं ब्राह्मणा दृश्य मालिनीमप्सरोपमां।
रागग्रसितचित्ताश्च उल्लपन्ति पुनर्पनः॥
उद्धतां उन्नतां दृष्ट्वा चपलां प्राकटेन्द्रियां।
मालिनी संविचिन्तेति न इमे दक्षिणारहा॥
सा आरुहित्वा प्रासादं समन्तेन विलोकये।
अदर्शी भगवतो सिष्यं संबुद्धस्य शिरीमतो॥
सा प्रासादवरगता काशिकवरचन्दनेन आलिप्ता।
राज्ञो कृकिस्य धीता सर्वा दिशता विलोकेति॥
सा अद्दशासि॥ प्रासादिकेनिंजितेन प्रविशन्तां।
बुद्धस्य श्रावकान्बाहितपापां अन्तिमशरीरां॥

306
सा दासीं प्रेषेति एतेषां ऋषीणां वन्दनं ब्रुहि।
वन्दित्वा च भणाहि प्रविशथ भदन्त निषीदाथ॥
सा दासी उपगम्य पादां वन्दित्वा भावितात्मनां।
प्राञ्जलिकृता अवोचत्प्रविशथ भदन्त निषीदाथ॥
रागा उपातिवृत्ता विशारदा अग्रपण्डिता लोके।
बुद्धस्य श्रावका बाहितपापा अन्तिमशरीराः॥
तं पाण्डरं च सुकृतं सुतोरणं खड्ग असिगुप्तं।
प्रविशेन्सुः अन्तःपुरं राज्ञो धीतुर्मनापाये॥
काशिकप्रत्यास्तरणं सुविचित्रकलापकं मणिविचित्रं।
विचित्रपुष्पावकिर्णं प्रज्ञप्तं आसनं आसि॥
पद्ममिव शुभाभासं जलेरुहं यथा जले अनुपलिप्तं।
तथ अनुपलिप्तचित्ता तत्र निषीदे विगतमोहा॥
शालीनामोदनविधिमकालकमनेकव्यंजनमुपेतं।
स्वहस्तमुपनामयते यथा भदन्तान अभिरोचे॥
ते भिक्सू अवचेन्सुः शास्ता मो अग्रपण्डितो लोके।
तस्य प्रथमं भक्तं सो भुजये वमहावीरो॥
बुद्धो ति श्रुणित्वा घोषं लोके कुतूहलं अश्रुतपूर्वं।
अधिकतरं सा प्रसीदे इमेहि किल सो विशिष्टतरो॥
सा मालिनी अवोच भुञ्जित्वा शास्तुनो हरथ भक्तं।

307
अभिवादनं च ब्रुथ मम वचनातो लोकनाथस्य॥
अधिवासे भक्तं भगवां सुवेतना सार्धं भिक्षुसंघेन।
अन्तः पुरस्य मध्ये राज्ञो धीतुर्मनापाय॥
ते दानि भगवतो काश्यपस्य अग्रश्रावका तिष्यो च भारद्वाजो मालिनीये भक्तं परिभुंजित्वा भगवतो काश्यपस्य भक्तमादाय ऋषिवदनं निर्धाविता॥ भगवतो काश्यपस्य पिण्डपात्रमुपनामेत्वा मालिनीये वचनेन भगवन्तं काश्यपं वन्दनं वदेन्सु॥ कृकिस्य भगवं काशिराज्ञो धीता भगवतो वन्दनं पृच्छति सश्रावकसंघस्य शुवेदानि च भक्तेन निमन्त्रेति सार्धं भिक्षुसंघेन राज्ञो कृकिस्य अन्तःपुरे तस्या भगवां अधिवासेतु अनुकम्पामुपादाय॥ भगवता काश्यपेन वैनेयवशेन अधिवासितं॥ ये तेहि महाश्रावकेहि सार्धं पुरुषा गता भगवतो काश्यपस्य ओवादमादाय तेहि गत्वा मालिनीये निवेदितं ॥ अधिवासितं तेन भगवता काश्यपेन शुवेदानि भक्तं सार्धं भिक्षुसंघेन॥ मालिनीये तेषां पुरुषाणां श्रुत्वा तामेव रात्रिं प्रभूतं खादनीयं भोजनीयं प्रतिजागरित्वा भगवतो काश्यपस्य कालमारोचापितं॥ भगवां कालज्ञो वेलाज्ञो समयज्ञो पुद्गलज्ञो पुद्गलपरापरज्ञो॥ काल्यमेव निवासयित्वा पात्रचीवरमादाय येन चारिकाविकालो संप्राप्तो सायं मागधे प्रातराशे वर्तमाने सार्धं विंशतीहि भिक्षुसहस्रेहि वाराणसिं नगरं प्रविशेत्॥ हंसप्रडीनकमिव बुद्धा भगवन्तो नगरं प्रविशन्ति॥ दक्षिणपार्श्वे तिष्यो महाश्रावको। वामे पार्श्व भारद्वाजो महाश्रावकः॥ तेषां पृष्ठतो चत्वारो महाश्रावका चतुर्णां अष्ट अष्टानां षोडश षोडशानां द्वात्रिंश द्वात्रिंशतानां चतुषष्टि॥ एवं भगवां विंशतिहि भिक्षुसहस्रेहि पुर

308
स्कृतो राज्ञो कृकिस्य अन्तःपुरं प्रविशति॥ भगवतो नगरं प्रविशन्तस्य ओनता भूमिरुन्नमति समं भूमितलं जातं संस्थापि। अशुचिपाषाणशर्करकठल्ला भूमिं प्रविशन्ति मुक्तपुष्पावकीर्णा मही संस्थापि। पुष्पोगा वृक्षा पुष्पन्ति फलोपगा वृक्षा फलन्ति। ये तत्र मार्गे वामदक्षिणेन वापीयो वा पुष्करिणीयो वा शीतलस्य वारिस्य भरिता भवन्ति उत्पलपदुमकुमुदपुण्डरीकनलिनीसौगन्धिकाप्रच्छन्ना। उदुपानमुखा तोयं प्रस्यन्दति। अश्वा हीष्यन्ति ऋषभा नर्दन्ति हस्तिकुंजरा नर्दनं मुंचन्ति॥ समनन्तरं इन्द्रकीलं पादेन चोक्रमति सर्वं च नगरं प्रकम्पति। अन्धा आलोकेन्ति  बधिराः शब्दं शृण्वन्ति उन्मत्तकाः स्मृतिं प्रतिलभन्ते व्याधिता व्याधितो मुचन्ति गुर्वुणीयो अरोगाः प्रसूयन्ति नग्नानां चैलाः प्रादुर्भवन्ति बन्धनबद्धानां बन्धनानि स्फुटन्ति पेडाकरण्डावृतानि रतनानि संघट्टन्ति भाजनानि रणन्ति। ये भवन्ति नगरे परिवादिनीयो वल्लकीयो वेणुवीणामृदंगभेरीपणवा असंखतान्यपि अघट्टितानि संप्रवाद्यन्ति। शुकसारिककोकिलहंसमयूराः स्वकस्वकानि रुतानि मुंचन्ति॥ चतुरङ्गुलेन च भूमिं असंस्पृशन्तो गच्छति धरणितले च पदचक्राणि प्रादुर्भवन्ति सहस्राराणि सनाभिकानि सर्वाकारपरिपूर्णानि अन्तरीक्षे च देवा दिव्यानि तुर्यसहस्राणि प्रवादयन्ति दिव्यानि पुष्पवर्षाणि प्रवर्षन्त्॥ भगवां कश्यपो सश्रावकसंघो एदृशाये वुधीये एदृशाये विभूषाये एदृशेन समुदयेन एदृशाये ऋद्धीये एदृशेन विभवेन देवमनुष्येहि सत्क्रियन्तो सश्रावकसंघो राज्ञो कृकिस्य अन्तःपुरं प्रविष्टो॥ भगवां मालिनीये सश्रावकसंघो तहिं अभ्यन्तरिमे चतुःशाले महासत्कारेण परिविष्टो प्रभूतेन खादनीयेन भोजनीयेन ऋजुरसेन अग्र

309
रसेन अविगतरसेन प्रत्यग्ररसेन॥ भगवां भुक्तावी सश्रावकसंघो धौतहस्तो अपनीपात्रो मालिनीं धर्मया कथया संदर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्षयित्वोत्थायासनातो प्रक्रमे॥
यानि तानि कृकिस्य काशिराज्ञो विंशति ब्राह्मणसहस्राणि नित्यभोजिका ते कुपिता यं मालिनीये भगवां काश्यपो सश्रावकसंघो राजकुले परिविष्टो महता सत्कारेण महता सन्मानेन॥ तेहि सर्वा ब्राह्मणपरिषा सन्निपातिता अनेकानि ब्राह्मणसहस्राणि॥ तेन कालेन तेन समयेन ब्राह्मणाक्रान्ता पृथिवी भवति॥
संनिपतिता मालिनीं घातेतुकामा॥ एषा येव अत्र राजकुले ब्राह्मणानां कण्टको उत्पन्नो। कृकिश्च राजा ब्राह्मणेषु अभिप्रसन्नो तस्य विंश ब्राह्मणसहस्रा दैवसिकं भुंजन्ति एषा च पितृणा ब्राह्मणानां नियोजिता एतानि ब्राह्मणानि दैवसिकं भोजेहीति। एताये ब्राह्मणानां अवमन्यित्वा श्रमणा राजकुले प्रवेशिता एषां च एदृशो पूजासत्कारो कृतो। सा एषा यत्तं ब्राह्मणानां उपजीव्यं राजकुलातो पूजासत्कारार्थं श्रमणानां परिणामेति मानयन्तीति॥ तेहि ब्राह्मणेहि एषो व्यवसायो कृतो मालिनी मारेतव्या। कृकी च काशिराजा जनपदं प्रत्यवेक्षको व गतो॥ तेहि ब्राह्मणेहि कृकिस्य राज्ञो दूतो प्रेषितो॥ एदृशं मालिनीये ब्राह्मणानां मूले अबहुमानमुत्पन्नं। काश्यपस्य श्रावकसंघस्य राजकुलं प्रवेशित्वा एदृशो च पूजासत्कारो कृतो ब्राह्मणानां दर्शनं पि न देति। यथा महाराजेन संदिष्टं तथा न करोति। यन्तु ब्राह्मणानां राजकुले नित्यकं विंशतीनां ब्राह्मणशस्राणां तं पि न वर्तति। मालिनी ब्रह्मणानां दर्शनं पि न देति॥ राजा श्रुतमात्रेणैव जनपदात्

310
वाराणसिमागतो पश्यति अनेकां ब्राहणानां सहस्रियो समागतानि॥ सो येन ब्राह्मणास्तेनैव गतो॥ ब्राह्मणा पि राज्ञो प्रत्युद्गता जयेन वर्धापयित्वा एतां प्रकृतिं मालिनीये तं सर्वं कृकिस्य राज्ञो निवेदेन्ति। महाराज एषा मालिनी
ब्राह्मणानां कण्टको उत्पन्ना न शक्यं ग्राह्मणेहि राज्ञो नित्यकं प्रतीच्छितुं यावन्न मालिनी घातिता। एष समग्राये ब्राह्मणपर्षाये निश्चयो उत्पन्नो॥ राजा पि ब्राह्मण्यो। एषा ब्राह्मणपरिषाय क्रिया अनुपरिवर्तितव्या। यदि ते ब्राह्मण्यं अपरित्यक्तं मालिनीं परित्यजाहि। अथ ते मालिनी अपरित्यक्ता नास्ति ते ब्राह्मण्यं ॥ ब्राह्मणपरिषाया क्रियामनुप्रिवर्तन्तस्य तस्य राज्ञो एतदभूषि। इमा ब्राह्मणाक्रान्ता पृथिवी बहुब्राह्मण्या। यदि मालिनीं न परित्यजिष्यामि डिम्बं भबिष्यति। नैवं मालिनी भविष्यति नैवमहं॥
त्यजेदेकं कुलस्यार्थं ग्रामार्थं तु कुलं त्यजेत्।
ग्रामं जनपदस्यार्थं आत्मार्थं पृथिवीं त्यजे॥
तेन दानि काशिराज्ञा मालिनी परित्यक्ता। यथा ब्राह्मणपरिषाये अभिप्रायन्तता भवतु॥ ते दानि ब्राह्मणा आहन्सु॥ यदि परित्यक्ता मालिनी आणापियतु राज्ञा॥ ततो तेन बाहिरे नगरातो ब्राह्मणानां मूले स्थितकेन दूतो प्रेषितो। आगच्छथ मालिनीमानेथत्ति॥ राजवचनेन दूतो राजकुलमनुप्राप्तः॥ आगच्छ मालिनी परित्यक्तासि पितरि ब्राह्मणानां। ब्राह्मणेहि जीविताद्व्यपरोप्यसि। मालिनोये मातरं आगत्वां आरावो मुक्तो सर्वेण च अन्तःपुरेण। नगरे सर्वजनो तेन आरावशब्देन उत्कण्ठितो आकुलीभूतो। महं आसि रोदनं॥

311
मालिनी वाराणसीतो दूतेन निष्कास्यति पितुः सकाशं॥ सा दानि दूतेहि निष्कासिता पितुह् अल्लीपिता। इयं महाराज मालिनी॥ राज्ञा अश्रुकण्ठेन रुदन्मुखेन महतो जनकायस्य मालिनी ब्राह्मणानां दत्ता परित्यक्ता पितरे॥ सा दानि मालिनी यत्र काले पितरि परित्यक्ता ब्राह्मणानामाज्ञाकृता॥ ततः मालिनी प्रांजलीकृता ब्राह्मणपरिषाये प्रणिपतित्वा॥ इच्छामि एकां प्रज्ञप्तिं ब्राह्मणपरिषा यदि प्रमाणन्ति॥ ते आहन्सु॥ जल्प या ते विज्ञप्ति॥ आह॥ अहं पितरि ब्राह्मणानां परित्यक्ता युष्माकं अहं वशगता॥ ब्राह्मणपरिषाये एवमेव निययो मालिनी मारेतव्या॥ तदिच्छामि ब्राह्मणपरिषायमेव सकाशातो सप्ताहं जीवितुं दानं दास्यामि पुण्यं च कारिष्यामि॥ अहं च ब्राह्मणानां कृतोपस्थाना मयापि ब्राह्मणा उपस्थापिता पितुर्वचनेन॥ ततो मे सप्ताहस्यात्ययेन मारेथ यं। वा वो क्षमति तं करोथ। तेषां ब्राह्मणानां महत्तरकानामुत्पन्नं॥ एवमेतं यथा मालिनी जल्पति चिरकालमेताये ब्राह्मणां उपस्थापिता पितुर्वचनेन भोजापिताः। पश्चा एताये पापकंचित्तमुत्पन्नं यं मेल्लित्वा श्रमणानामभिप्रसन्ना। ततो नाविति भूयो श्रमणानां दानं दातुं उत्सृष्टा न तेषां ब्राह्मणानामेव एषा सप्तरात्रं दानं दास्यति। तद्दीयतु एताय विज्ञप्तिः मुच्यतु सप्तरात्रं सप्ताहस्यात्ययेन हनिष्यनि॥ यं कारणं ब्राह्मणपरिषाये एष निश्चय उत्पन्नः तं मालिनीये जीवमानाय कार्य॥ तस्या तेहि ब्राह्मणेहि दत्ता विज्ञप्तिः॥ सप्तरात्रमुत्सृष्टा महतो जनकायथ ब्राह्मणानां सकाशातो अप्रमादा भवेया सप्तरात्रं पि न विलुपे त्ति॥ सा दानि ओसृष्टा समानापि नूनं सार्धं महता जनकायेन परिवृता पुनः राजकुलं प्रविष्टा पितरं विज्ञापेति॥ इच्छामि इमानि सप्त दिवसानि दानं च दातुं पुण्यं

312
च कर्तुं यत्र मम अभिप्रायो॥ राजा आह॥ एवमस्तु करोहि पुत्रि पुण्यं यत्र ते अभिप्रायो॥ सा आह॥ भगवन्तं काश्यपं सम्यक्संबुद्धं सश्रावकसंघं सप्ताहमिह राजकुले परिवेषेयं॥ राजा आह॥ अनुमोदाहि त्वं॥ भगवां काश्यपो सश्रावकसंघो राजकुले सप्ताहं भक्तेन उपनिमन्त्रितो॥ अनुकम्पामुपादाय भगवता काश्यपेन वैनेयवशेन महाजनकायं विनयमागमिष्यतीति अधिवासितं॥ ते ब्राह्मणा परिकुपिता इच्छन्ति हनितुं जीवन्तीं॥ मालिनी प्रांजलीकृता। क्षमथ तावत्सप्ताहं यावद्ददामि दानं॥ ददन्तो ब्राह्मणा कामकारो वः॥
ताये प्रथमस्मिं दिवसस्मिं शास्ता भोजापितो सह गणेन अन्तःपुरस्य मध्ये मातुश्च पितुश्च मध्यगताये॥ शास्ता च प्रसादनीयां कथये कथां॥ विनीवरणे च धर्मे अभिसमेति राजा अन्तःपुरेण सह॥ द्वितीयस्मिं दिवसस्मिं विनेसि पंच पुत्रशता॥ तृतीयस्मिं दिवसस्मिं यो तेषामभूषि परिवारो च॥ चतुथस्मिं दिवसे राजामात्यां विनेति संबुद्धः॥ पंचमे यं च बलाग्रं प्रथमफले निवेशये शास्ता॥ षष्ठस्मिं दिवसस्मिं राजाचार्यं विनेति संबुद्धः॥ निगमां च सप्तमे श्रोतापत्तिफले विनये॥ राजापि हृष्टचित्तो संबुद्धं पश्यिय सह गणेन भगवन्तं काश्यपं निमन्त्रयेदग्रभक्तेन॥ मालिनीये सप्तमे दिवसे भगवन्तं काश्यपं भुक्ताविं विदित्वा अपनीतपात्रं प्रणिधानमुत्पादितं॥ अनन्तरेणाहं दुःखस्यान्तं करेयं। एदृशो मे पुत्रो भवेया यथायं भगवन्तो काश्यपो देवमनुष्याणां अर्थचर्यां चरति॥ एवं मम पुत्रो अनुत्तरां सम्यक्संबोधिमभिसंबोधित्वा देवमनुष्याणामर्थचर्यां चरतु॥ मा

313
लिनीये भ्राता अनियवन्तो नाम कुमारो। तेनापि प्रणिहितं॥ एदृशो मे पिता भवेया यथायं भगवां काश्यपो एतरहिं। तत्र च अहं दुःखस्यान्तं करेयं॥ एवं भगवता काश्यपेन कृकी च काशिराजा सान्तःपुरो पंच कुमारशता अमात्या च भट्टबलाग्रं योभुयेन च नैगमा सर्वे आर्यधर्मेहि विनीता॥ तेषामेतदभूषि॥ अस्माकं मालिनी कल्याणामित्रा मालिनीमागम्य अस्माकं सर्वधर्मेषु धर्मचक्षुर्विशुद्धं। तां ब्राह्मणा जीविताद्व्यपरोपयिष्यन्ति॥ अपि नाम वयं आत्मानं  परित्यजेयाम न मालिनीं॥ तेहि तेषां ब्राह्मणानां संदिष्टं॥ एते वयं मालिनीये सह आगच्छामः मालिनी अस्माकं कल्याणमित्रा न युष्मे शक्ता अस्मेहि ईवन्तेहि मालीनीं जीविताद्व्यपरोपयितुं॥ यदा वयं सर्वे न भवाम एवं युष्मे शक्नोथ तां मालिनीं जीविताद्व्यपरोपयितुं॥ ते दानि सपरिवाराः सबलवाहनाः मालिनीमग्रतो कृत्वा वाराणसीतो निर्गम्य येन तानि ब्राह्मणसहस्राणि तेन प्रणता॥ ते ब्राह्मणास्तं अनन्तं बलाग्रं दृष्ट्वा मालिनीये सह आगच्छन्तं भीता त्रस्ता॥ तेहि दूतो प्रेषितो राज्ञो च॥ निर्गम्यतु मुक्ता भवतु मालिनी तं दिवसं या चैषा उद्धृतदण्डा एषा पितरे आलोकं निसृष्टा भवतूद्धृतदण्डा॥ एषा न अस्माकं मालिनी अपराध्यति। काश्यपो अस्माकं सपरिवारो अपराध्यति तस्य वयं दण्डं करिष्यामः॥
तेहि दानि सन्नद्धकवचिताः सहस्रयोगा दश पुरुषा ऋषिवदने प्रेषिताः काश्यपं श्रमणं सश्रावकसंघं जीविताद्व्यपरोपयथ। ते भगवता काश्यपेन मैत्र्या स्फारित्वा आर्वयधर्मेहि प्रतिष्ठापिता। तेहि ब्राह्मणेहि अपरे विंश पुरुषाः सन्नद्धकवचिताः प्रेषिताः काश्यपं श्रमणं जीविताद्व्यपरोपयथ॥ ते पुरुषा ऋषिवदनं गताः सन्नद्धाः सप्रहरणाः॥ ते पि भगवता मैत्र्या स्फारित्वा आर्ये धर्मे प्रतिष्ठापिताः॥ एवं

314
त्रिंशच्चत्वारिंश पंचाशं यत्तका प्रेषिता तत्तका काश्यपेन भगवता मैत्र्याय स्फारित्वा आर्यधर्मेहि प्रतिष्ठापिताः॥ आकर्षणा एषा बुद्धानां॥ भगवता वैनेयसत्वानां आकर्षणतायै यत्तका तहिं बुद्धवैनेया आसि तेन ब्राह्मणसहस्रेहि तत्तका तेहि विसर्जिताः ते च भगवता सर्वे आर्यधर्मेहि विनीताः॥ मिथ्याप्रतिपन्ना अवशिष्टा अनेकप्राणसहस्रियो॥ तेषामार्यधर्मेहि विनीतानां भवति॥ न एते ब्राह्मणा बुद्धमाहात्म्यं जानन्ति। यदि एते भगवन्तं काश्यपमुपसंक्रमेन्सुः महता अर्थेन संयुज्येन्सु॥ तेहि तेषां ब्राह्मणानां दूतो प्रेषितो॥ भगवां काश्यपो संम्यक्संबुद्धो महात्मा महाकारुणिका लोकस्यानुग्रहप्रवृत्तो। मा भवन्तो भगवतो काश्यपस्यान्तिके भिक्षुसंघस्य बाधितुं प्रदूषेथ॥ एवं मानं च मदं च जहित्वा आगच्छथ सर्वे भगवतो काश्यपस्य पादवन्दनं महता अर्थेन संप्रयुज्यथ॥
सत्य अपिशुनवर्णा नं च अर्थवती शुची।
अन्येषां मधुरा व्यक्ता बुद्धस्य सखिला गिरा।
तर्पणीया निर्वम्हणी सर्वदाहविनाशनी।
नेलवर्णा सुखवर्णा बुद्धस्य सखिला गिरा।
अगद्गदा अविकला अवितथा अनन्यता।
यथातथा अविकल्पिता बुद्धस्य सखिला गिरा॥
ज्ञेयज्ञाना अनुत्पन्ना अनोसाना असादिशा।
नरवशा सुविभक्ता च वाचा अमितबुद्धिनो॥
सत्यं चापिशुनं चभाषति
स सर्वतः पुन मैत्रचित्तो।

315
उपकारे परमार्थसंहितं
एतं वा परमं सुभाषितं॥
आविष्टं गदितं स भाषति
उच्चनीचमथापि मध्यमं।
अनुपदं अन्वक्षरं विशुद्धं
एतं वा परमं सुभाषितं॥
परमकरुणमुदितयुक्तां
गिरां भाषति दशफलयुक्तां।
अष्टांगुपेतचतुष्प्रकारां
एतं वा परमं सुभाषितं॥
वाचां भाषति पंचपुण्यां
सुनिश्चितां वा पुन छिन्नसंशयां।
न च कर्म किंचि करोति पापं
तथाविधं उत्तमपौरुषत्वं॥
एवं उपेतं वरलक्षणेहि
महाद्युतिगणमनुशासते।
वरं ज्ञातीरतन्ं प्रहाय
रतिं च स्फीतां अभिनिष्क्रमे॥
अमृतपदं जिगीषुं नन्दजाता
द्रुमसारं वरगन्धमुत्तमं।
लोचेत्वान कृतविकृतं तं
अथ तेनैव पचेसि ओदनं॥

316
एवमिह काश्यपं महर्षिं
परिभाषन्ति जना परीत्तप्रज्ञाः।
स्वाख्यातपदं अनिन्दितं
पुरुषाजानियमनतिक्रमं॥
शमिताविं प्रहाय पुण्यपापं
भ्वसंयोजनसंक्षये रतं।
शान्तं सुविभक्तमानसं
तं जनो गरह्ति अनंगनं।
भिक्षु च उपासका इमे
बहु काश्यपशासने रता।
ज्वलितं व हुताशनं शिखिं
एथ वन्दाम समेत्य काश्यपं॥
एषो द्विपदानमुत्तमो
सो चक्षुददो विनायको।
मानं च मदं च विप्रहा
एथ वन्दाम समेत्य काश्यपं॥
ते ब्राह्मणा सर्वे नित्यत्वनियतराशी बुद्धसहस्रमपि यदि धर्मं देशेय अभव्या ते धर्ममाजानितुं बुद्धे च धर्मे च संघे च प्रसादयितुं॥ ते दानि दण्डलगुडहस्ता येन भगवान्काश्यपो तेन प्रधाविता॥ भगवता पृथिवीदेवता आबाष्टा॥ सा दानि तालमात्रेण आत्मभावेन भगवतो पुरतो स्थिता॥ भगवां तां पृथिवीदेवतामाह॥ के च ते तत्र ब्राह्मणा भवन्ति॥ सा दानि आह॥ एते मम पृथिवीनिसृता दासा॥ भगवानाह॥ तेन हि यथा दासा पराक्रम्यने तथा प्राक्रम॥ सा दानि महान्तं

317
तालस्कन्धमुन्मूलेत्वा येन ते ब्राह्मणा तेन प्रत्युद्गता। तं तालस्कन्धं पृथिवीये छटाछटाये उपरिपतितं॥ ते ब्राह्मणा भीता नाशनष्टाः॥
इति श्रीमहावस्तु अवदाने मालिनीये वस्तु समाप्तं॥
एवं मया श्रुतं एकस्मिं समये भगवां कोशलेषु चारिकां चरमांओ महता भिक्षुसंघेन सार्धं पचहि भिक्षुशतेहि येन कोशलानां मारकरण्डो निगमो तदवसारि तदनुप्राप्तो तत्रैव विहरति अन्यतरस्मिं वनषण्डे॥ अथ खलु भगवान् सायाहूकालसमने प्रतिसंलयनाद्व्युत्थाय विहारातो निर्गम्य ऊर्ध्वं च उल्लोकेत्वा दिशाभागां च अभिविलोकेत्वा समं च भूभिभागं समवेक्षित्वा स्मितं प्रादुष्करित्वा दीर्घं चंक्रमं चंक्रमे॥ अद्राक्षीत् अथ खल्वायुष्मानानन्दो भगवन्तं सायाहूकालसमये प्रतिसंलयनाद्व्युत्थाय ऊर्ध्वं च उल्लोकेत्वा दिशाभागां च अभिविलोकेत्वा अधो च आलोकेत्वा समं च भूमिभागं समवेक्षित्वा स्मितं प्रादुष्करित्वा दीर्घं चंक्रमं चंक्रमन्तं। दृष्ट्वा पुनर्येन संबहुला भिक्षवस्तेनोपसंक्रमित्वा भिक्षूनेतदवोचत्॥ एषो बुद्धो भगवान्सायाहूसमये प्रतिसंलयनाद्व्युत्थाय उर्ध्वं च उल्लोकेत्वा दिशाभागां च अभिविलोकेत्वा अधो च अवलोकेत्वा समं भूमिभागं समवेक्षित्वा स्मितं च प्रादुष्करित्वा दीर्घं चंक्रमं चंक्रमति॥ न च पुनरावुसावो तथागता अर्हन्तः सम्यक्संबुद्धाः अहेतु अप्रत्ययं स्मितं प्रादुष्कुर्वन्ति॥ किं पुनर्वयं आवुसावो येन भगवांस्तेनोपसंक्रमित्वा भगवन्तमेतमर्थं पृच्छेम॥ यथा तं भगवां व्याकरिष्यति तथा तं धारयिष्याम॥ साध्वायुष्मन्निति ते भिक्षू आयुष्मतो आनन्दस्य प्रत्यश्रोषि॥ अथ खलु आयुष्मानानन्दो तेहि भिक्षुहि सार्धं येन भगवांस्तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थासि। एकान्ते स्थितः आयुष्माना -

318
नन्दो भगवन्तमेतदवोचत्॥ इहाहं भगवन्तं अद्दशामि सायहूसमये प्रतिसंलयनाद्व्युत्थाय विहारान्निष्क्रम्य ऊर्ध्वं च उल्लोकेत्वा अधो च अवलोकेत्वा दिशाभागां च अभिविलोकेत्वा समं च भूमिभागां समवेक्षित्वा स्मितं च प्रादुष्कुर्वन्तं दीर्घं चंक्रमं चंक्रमन्तं॥ न च पुनस्तथागता अर्हन्तः सम्यक्संबुद्धा अहेतु अप्रत्ययं स्मितं प्रादुष्करोन्ति॥ को भगवन् हेतुः कः प्रत्ययः स्मितस्य प्रादुष्करणाय॥ एवमुक्ते भगवानायुष्मन्तमानन्दमेतदुवाच॥ पश्यसि त्वं च आनन्द एतं पृथिवीप्रदेशं॥ एवं ह्येतं भगवन्॥ एतस्मि आनन्द पृथिवीप्रदेशे भगवतो काश्यपस्य आगमवस्तुं अभूषि॥ पश्यसि त्वमानन्द एतं पृथिवीप्रदेशं॥ एवं ह्येतं भगवन्॥ एतस्मिन्नानन्द पृथिवीप्रदेशे भगवतो काश्यपस्य कुटीवस्तु अभूषि॥ पश्यसि त्वमानन्द एतं पृथिवीप्रदेशं॥ एवं ह्येतद्भगवं एतस्मिन्नानन्द पृथिवीप्रदेशे भगवतो काश्यपस्य चंक्रमषष्टिः अभूषि॥ पश्यसि त्वमानन्द एतं पृथिवीप्रदेशं॥ एवं ह्येतं भगवं॥ एतस्मिन्नानन्द पृथिवीप्रदेशे त्रयाणां तथागतानामर्हतां सम्यक्संबुद्धानां निषद्या अभूषि भगवतो क्रकुच्छन्दस्य भगवतो च कनकमुनिस्य भगवतो च काश्यपस्य॥ अथ खल्वायुष्मानानन्दो अश्चार्याद्भुतसंविग्नरोमहृष्टजातो शीघ्रंशीघ्रं त्वरमाणरूपो येन सो पृथिवीप्रदेशो तेनोपसंक्रमित्वा तस्मिं पृथिवीप्रदेशे चतुर्गुणसंघाटिं प्रज्ञपेत्वा येन भगवां तेनांजलिं प्रणामेत्वा भगवन्तमेतदवोचत्॥ इह भगवां निषीदतु प्रज्ञप्त एव आसने॥ अयं पृथिवीप्रदेशो चतुर्हि तथागतेहि अर्हन्तेहि सम्यक्संबुद्धेहि परिभुक्तो भविष्यति भगवता क्रकुच्छन्देन भगवता च कनकमुनिना भगवता च काश्यपेन भगवता चैहर्हि॥ निषीदतु खलु भगवां प्रज्ञप्त एव आसने॥ आयुष्मां पि आनन्दो भगवतः पादौ

319
शिरसा वन्दित्वा एकान्ते निषीदि। ते पि भिक्षू भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषीदेन्सुः॥ एकान्ते निषस्ममायुष्मन्तमानन्दं भगवानेतदवोचत्॥ इच्छसि पुनस्त्वमानन्द तथागतस्य पूर्वनिवाससंयुक्तां धर्मीकथां भाषतो श्रोतुं इममेव मारकरण्डं निगममारभ्य॥ एवमुक्ते आयुष्मानानन्दो भगवन्तमेतदवोचत्॥ एतस्य दानि भगवं कालो एतस्य दानि सुगत समयो यं भगवां भिक्षुणामेतमर्थं भाषे॥ भिक्षू भगवतो संमुखा श्रुत्वा संमुखा प्रगृहीत्वा तथत्वाये धारयिष्यन्ति॥ एवमुक्ते भगवानायुष्मन्तमानन्दमेतदवोचत्॥
भूतपूर्वमानन्द भगवति काश्यपे अयं मारकरण्डो निगमो वेरुडिङ्गो नाम ब्राह्मणग्रामो अभूषि॥ वेरुडिङ्गे खलु आनन्द ब्राह्मणग्रामे घटिकारो नाम कुम्भकारो अभूषि भगवतो काश्यपस्य उपस्थायको॥ घटिकारस्य खलु पुनरानन्द कुम्भकारस्य। ज्योतिपालो नाम माणवको अभूषि दारकवयस्यको सहपांशुक्रीडनको प्रियो मनापो अजन्यस्य व्राह्मणस्य पुत्रो॥ अथ खल्वानन्द भगवां काश्यपो कोशलेषु चारिकां चरमाणो महता भिक्षुसंघेन सार्धं सप्तहि भिक्षुसहस्रेहि येन कोशलानां वेरुडिङ्गो ब्राह्मणग्रामो तदवसारि तदनुप्राप्तः तत्रैव विहरति इमस्मिं एव वनखण्डे॥ अश्रो खल्वानन्द घटिकारो कुम्भकारो भगवां किल काश्यपो कोशलेषु चारिकां चरमाणो येन कोशलानां वेरुडिङ्गो ब्राह्मणग्रामं तदवसारि तदनुप्राप्तो तत्रैव विहरति अन्यतरस्मिं वनखण्डे॥ अथ खल्वानन्द घटिकारो कुम्भकारो येन ज्योतिपालो माणवो तेनुपसंक्रमित्वा ज्योतिपालं माणवमेतदवोचत्। श्रुतमिदं सम्यग्ज्योतिष्पाल। भगवां किल काश्यपो कोशलेषु चारिकां चरमाणो महता भिक्षुसंघेन सार्धं सप्तहि भिक्षुसहस्रेहि येन कोशलानां वेरुडिङ्गो ब्राह्मणग्रामो तदवसारि तद

320
नुप्राप्तः तत्रैव विहरति अन्यतरस्मिं वनखण्डे॥ किं पुनर्वयं सम्यग्ज्योतिपाल येन भगवां काश्यपो तेनोपसंक्रमेम भगवन्तं काश्यपं दर्शनाये वन्दनाये पर्यपासनाये॥ एवमुक्ते ज्योतिपालो माणवो घटिकारं कुम्भकारमेतदवोचत्॥ किं मे भणे घटिकार तेहि मुण्डिकेहि श्रमणेहि दर्शनाये उपसंक्रान्तेहि पर्युपासनाये। द्वितीयं तृतीयं पि आनन्द घटिकारो कुमभकारो ज्योतिस्पालं माणवमेतदुवाच॥ ॥॥॥॥॥
किं मे भणे घटिकार तेहि मुण्डेहि श्रमणेहि दर्शनाथे उपसंक्रान्तेहि पर्युपासनाये॥ अथ खल्वानन्द घटिकारस्य कुम्भकारस्य एतदभूषि॥ को नु खलु स्यादुपायो यं ज्योतिपालो माणवो भगवन्तं काश्यपं दर्शनाय उपसंक्रमेय पर्युपासनाय॥ अथ खल्वानन्द घटिकारस्य कुम्भकारस्य एतदभूषि। अस्ति खलु तस्यैव वनखण्डस्य अविदूरे सुमुका नाम पुष्करिणी यं नूनाहं ज्योतिपालेन माणवेन सार्धं येन सुमुका नाम पुष्करिणी गच्छेयं शीर्षस्नापनाय॥ अथ खल्वानन्द घटिकारो कुम्भकारो येन ज्योतिपालो माणवो तेनुपसंक्रमित्वा ज्योतिपालं माणवमेतदुवाच॥ किं पुनर्वयं सम्यग्ज्योतिपाल येन सुमुका नाम पुष्करिणी तेनोपसंक्रमेम शीर्षस्नापनाय॥ एवमुक्ते आनन्द ज्योतिपालो माणवो घटिकारं कुम्भकारमेतदुवाच॥ तेन हि भणे घटिकार सुखी भव यस्येदानि कालं मन्यसे॥ अथ खल्वानन्द घटिकारो कुम्भकारो शीर्षस्नानीयशाटिमादाय ज्योतिपालेन माणवेन सार्धं येन सा पुष्करिणी तेनोपसंक्रमेन्सु स्नानाय॥ अथ खल्वानन्द ज्योतिपालो माणवो शीर्षस्नातो उदकतीरे अस्थासि केशां सन्थापयमानो॥ अथ खल्वानन्द घटिकारो कुम्भकारो ज्योतिपालं माणवमेतदवोचत्॥ अयं सम्यग्ज्योतिपाल भगवां काश्यपो इमस्मिं येन वनखण्डे किं पुनर्वयं सम्यग्ज्योतिपाल येन भगवां काश्यपो तेनुपसंक्रमेम भगवन्तं काश्यपं दर्शनाय पर्युपासनाय॥ एवमुक्ते ज्योतिपालो माणवो घटिकारं कुम्भका

321
रमेतदवोचत्॥ किं मे भणे घटिकार तेहि श्रमणकेहि दर्शनाये उपसंक्रमन्तेहि पर्युपासनाये॥ अथ खल्वानन्द घटिकारो कुम्भकारो ज्योतिपालं माणवं कृकाटिकायां गृह्य एतदवोचत्॥ अयं सम्यग्ज्योतिपाल भगवां काश्यपो इमस्मिं एव वनखण्डे किं पुनर्वयं सम्यग्ज्योतिपाल येन भगवां काश्यपो तेनुपसंक्रमेम भगवन्तं काश्यपं दर्शनायोपसंक्रमन्तं पर्युपासनाय॥ अथ खल्वानन्द ज्योतिपालो माणवो घटिकारं कुम्भकारं अपधुनित्वा प्रयाति॥ तमेनं घटिकारो कुम्भकारो अनुजवित्वा प्रवेणिकेशेहि गृहीत्वा एतदवोचत्॥ अयं सम्यग्ज्योतिपाल भगवां काश्यपो इमस्मिं एव वनखण्डे विहरति किं पुनर्वयं सम्यग्ज्योतिपाल येन भगवां काश्यपस्तेनोपसंक्रमेम भगवन्तं काश्यपं दर्शनाय पर्युपासनाय॥ अथ खल्वायुष्मनानन्द ज्योतिपालमाणवस्य एतदभूषि॥ न खल्वप्रत्ययं वा तं यं मे घटिकारो कुम्भकारो शीर्षस्नातं मूर्ध्नि केशेषु परामृषति नुदन्तकं हीनाय जात्या समानो॥ तेन हि भणे घटिकार सुखी भव यस्य दानि कालं मन्यसे॥
अथ् खल्वानन्द घटिकारो कुम्भकारो ज्योतिपालेन माणवेन सार्धं येन भगवां काश्यपो तेनुपसंक्रमित्वा भगवतः काश्यपस्य पादौ वन्दित्वा एकान्ते अस्थासि॥ एकान्तस्थितः आनन्द घटिकारो कुम्भकारो भगवन्तं काश्यपमेतदवोचत्॥ अयं मे भगवन् ज्योतिपालमाणवो दारकवयस्यो सहपांशुक्रीडनको प्रियो मनापो अजन्यस्य ब्राह्मणस्य पुत्रो तं भगवां ओवदतु अनुशासतु॥ अथ खल्वानन्द भगवां काश्यपो ज्योतिपालं माणवं त्रिहि च श्रणगमनेहि पंचहि च शिक्षापदेहि समादापये॥ अथ खल्वानन्द ज्योतिपालो माणवो भगवन्तं काश्यपमेतदवोचत्॥ न तावदहं भगवन्सर्वाणि पंच शिक्षापदानि समादापयिष्यं॥ अस्ति ताव मे एको पुरुषो विहेठको रोषको जीविताद्व्यपरोपयितव्यो॥ एवमुक्ते भगवां ज्योतिपालं माणवमेतदवोचत्॥ कतमो पुनर्ज्योतिपाल एको पुरुषो विहेठको रोषको जीवि

322
ताद्व्यपरोपयितव्यो॥ एवमुक्ते आनन्द ज्योतिपालो माणवो भगवन्तं काश्यपमेतदवोचत्॥ अयं भगवं घटिकारो कुम्भकारो यो मे तदा एवं शीर्षस्नातं मूर्ध्नि केशेहि परामृषै॥ तदाहं एवमाह॥ उपसंक्रमेम भगवन्तं काश्यपं दर्शनायो पसंक्रमन्तं पर्युपासनाये॥      अपि च भवां सुखी भवतु घटिकारो कुम्भकारो एषो हं सर्वाणि एवं पंच शिक्षापदानि समादियामि॥ अथ खल्वानन्द भगवां काश्यपो घटिकारं कुम्भकारं ज्योतिपालं च माणवं धार्म्यया कथया संदर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्षयित्वा उद्योजयि॥ अथ खल्वानन्द घटिकारो ज्योतिपालो च माणवो भगवतो काश्यपस्य पादौ शिरसा वन्दित्वा प्रक्रामि॥
अथ खल्वानन्द ज्योतिपालमाणवो अचिरप्रक्रान्तो घटिकारं कुम्भकारमेतदवोचत्॥ त्वं पि भणे घटिकार भगवतो काश्यपस्य सम्यग्धर्मं देशितमाजानासि यथैव अहं॥ एवमुक्ते आनन्द घटिकारो कुम्भकारो ज्योतिपालं माणवमेतदवोचत्॥ एवमेतं सम्यग्ज्योतिपाल। अहं पि भगवतो काश्यपस्य एवं सम्यग्धर्मं देशितमाजानामि यथैव त्वं॥ एवमुक्ते आनन्द ज्योतिपाले माणवो घटिकारं कुम्भकारमेतदुवाच॥ कस्मात्पुनः त्वं घटिकार भगवतो काश्यपस्य सन्तिके न अगारस्यानगारियं प्रव्रजसि॥एवमुक्ते आनन्द घटिकारो कुम्भकारो ज्योतिपालं माणवमेतदवोचत्॥ अस्ति मे सम्यग्ज्योतिपाल मातापितरौ जीर्णवृद्धो दुर्बलचक्षू तेषां नास्त्यन्यो उपस्थायको॥ तेनाहं भगवतो काश्यपस्य अन्तिके न अगारस्यानगारियं प्रव्रज्यायै॥ अथ खल्वानन्द ज्योतिपालस्य माणवस्य नचिरस्यैव गृहवासे अरतिरुत्पद्येत् प्रव्रज्यायै चित्तं नमे॥ अथ खल्वानन्द ज्योतिपा माणवो येन घटिकारो तेनुपसंक्रमित्वा घटिकारं कुम्भकारमेतदवोचत्॥ एहि सम्यग्घटिकार

323
भगवतो काश्यपस्य सन्तिके अनुप्रणिधेमि प्रव्रज्यायै प्रव्रजिष्यामि अगारस्यानगारियं॥ अथ खल्वानन्द घटिकारो कुम्भकारो ज्योतिपालं माणवमुपादाय येन भगवान्काश्यपो तेनुपसंक्रमित्वा भगवतः काश्यपस्य पादौ शिरसा वन्दित्वा एकान्ते अस्थासि॥
एकमन्ते स्थितो आनन्द घटिकारो कुम्भकारो भगवन्तं काश्यपमेतदवोचत्॥
अयं मे भगवं ज्योतिपालो माणवो दारकवयस्यको सहपांशुक्रीडनको प्रियो मनापो अजन्यस्य ब्राह्मणस्य पुत्रो। तं भगवां प्रव्राजेतु उपसंपादेतु च॥ अथ खल्वानन्द भगवां काश्यपो भिक्षू आमन्त्रेसि॥ प्रव्राजेथ भिक्षवो ज्योतिपालं माणवं उपसंपादेथ॥ अथ खल्वानन्द खल्वानन्द भिक्षवो ज्योतिपालं माणवं प्रव्राजेन्सुः॥ अथ कल्वानन्द भगवां काश्यपो ज्योतिपालस्मिं भिक्षुस्मिं अचिरोपसंपन्ने कोशलेहि काशीषु चारिकां प्रक्रामि॥
अथ खल्वानन्द भगवान्काश्यपो काशीषु चारिकां चरमाणो महता भिक्षुसंघेन सार्धं सप्तहि भिक्षुसहस्रेहि येन काशीनां वाराणसी नगरं तदवसारि तदनुप्राप्तः तत्रैव विहरति ऋषिवदने मृगदावे॥ अश्रोषीत्खल्वानन्द कृकी राजा भगवां किल काश्यपो काशीषु चारिकां चरमाणो महता भिक्षुसंघेन सार्धं सप्तहि भिक्षुसहस्रेहि येन काशीनां वाराणसी नगरं तदवसारि तदनुप्राप्तः तत्रैव विहरति ऋषिवदने मृगदावे॥ अथ खल्वानन्द कृकी काशिराजा अन्यतरं पुरुषमामन्त्रेसि॥ एहि त्वं भो पुरुष येन भगवां काश्यपो तेनोपसंक्रमित्वा मम वचनेन भगवन्तं काश्यपं वन्दनं वदेसि॥ कृकी काशीराजा भगवतो काश्यपस्य पादौ शिरसा वन्दित्वा अल्पाबाधतां च अल्पातंकतां च बलं सुखतां स्पर्शविहारतां च पृच्छति सुवेतनानि च निवेशनं भक्तेन निमन्त्रेति सार्धं भिक्षुसंघेन सचास्य भगवां काश्यपः अधिवासयति॥ एवमुक्ते आनन्द भगवां काश्यपो तं पुरुषमेतदुवाच॥ सुखी भवतु कृकी

324
काशिराजा सकुमारो सपरिजनो।यस्य दानि कालं मन्यसे॥ अथ खलु स पुरुषो भगवतो अधिवासनां विदित्वा येन वाराणसी नगरं तेन प्रक्रामि॥ अथ खल्वानन्द सो पुरुषो येन कृकी काशिराजा तेनुपसंक्रामि॥ कृकिं काशिराजमिदमवोचत्॥ उक्तं मे महाराज तव वचनेन भगवतो काश्यपस्य वन्दनं॥ अल्पाबाधतां च अल्पातंकतां च सुखं च बलं च स्पर्शविहार्तां च पृच्छितो सुवेतनानि च भक्तेन निमन्त्रितो सर्धं भिक्षुसंघेन॥ अधिवासेति च भगवां काश्यपो यस्येदानि कालं मन्यसे॥ अथ खल्वानन्द कृकी काशिराजा इमामेव रात्रिं प्रभूतं प्रणीतं खादनीयं भोजनीयं प्रतिजागरयित्वा तस्या एव रात्रिये अत्ययेनान्यतरं पुरुषमामन्त्रेसि॥
एहि त्वं भो पुरुष येन भगवां काश्यपो तेनोपसंक्रमित्वा भगवन्तं काश्यपमेवं वदेहि॥ समयो भगवं कृकिस्य काशिराज्ञो निवेशने भक्ताये यस्य भगवं कालं मन्यसे॥ साधु महाराज त्ति सो पुरुषो कृकिस्य काशिराज्ञो प्रतिश्रुत्वा वाराणसीतो नगरातो निर्गम्य येन ऋषिवदनो मृगदावो तेन प्रक्रामि॥ अथ खल्वानन्द स पुरुषो येन भगवां काश्यपो तेनुपसंक्रमित्वा भगवतो काश्यपस्य पादौ शिरसा बन्दित्वा भगवन्तं काश्यपमेतदुवाच॥ समयो भगवं कृकिस्य राज्ञो निवेशने भक्ताय यस्य दानि भगवं कालं मन्यसे॥ अथ खल्वानन्द भगवां काश्यपो तस्य पुरुषस्य प्रतिश्रुत्वा काल्यस्यैव निवासयित्वा पात्रचीवरमादाय भिक्षुसंघपरिवृतो भिक्षुसंघपुरस्कृतः येन वाराणसीनगरं तेन प्रक्रमते। तेन खलु पुनरानन्द समयेन कृकी काशिराजा कुमारामात्यपरिवृतः स्वकस्य निवेशनस्य प्रतिद्वारे अस्थासि भगवन्तं काश्यपं सश्रावकसंघं प्रतिपालयमानो॥ अद्राक्षीत्खल्वानन्द कृकी काशिराजा भगवन्तं काश्यपं सश्रावकसंघं दूरतो एव आगच्छन्तं॥ दृष्ट्वा पुनर्येन भगवां काश्यपो सश्रावकसंघो तेनोपसंक्रमित्वा भगवतो काश्यपस्य सश्राकसंघस्य पादौ शिरसा वन्दित्वा भगवन्तं काश्यपं सश्रावकसंघं पुरस्कृत्वा स्वकं

325
निवेशनं प्रवेशिते॥ तेन खलु पुनः समयेन कृकिस्य काशिराज्ञो निवेशने कोकनदो नाम प्रासादो नवो अचिरनिष्ठितो अपरिभुक्तपूर्वो केनचित्श्रमणकेन वा ब्राह्मणेन वा॥ अथ खल्वानन्द कृकी काशिराजा भगवन्तं काश्यपमेतदवोचत्॥ अयं मे भगवन्निवेशने कोकनदो नाम प्रासादो नवो अचिरनिष्ठितो अपरिभुक्तपूर्वो केनचिच्छ्रमणे वा ब्राह्मणेन वा तं भगवां प्रथमं परिभुंजतु॥ भगवता परिभुक्तं पश्चाद्वयं परिभुंजिष्यामः॥ एवमुक्ते भगवा काश्यपो कृकिं काशिराजं एतदुवाच॥ तेन हि महाराज सुखी भव यस्येदानीं कालं मन्यसे॥ अथ खलु कृकी काशिराजा कोकनदे प्रासादं आसनानि प्रज्ञापयेत्खाद्यभोज्यमभिनामयेत्॥ अथ खलु भगवां कोकनढं प्रासादं अभिरुहित्वा निषीदे प्रज्ञप्त एव आसने यथासने च भिक्षुसंघः॥ अथ खलु आनन्द कृकी काशिराजा भगवन्तं काश्यपं स्वहस्तेनिव खादनीयभोजनीयेन् सन्तर्पयेत्संप्रवारयेत्॥ एकमेकं च सप्तसप्त पुरुषा सप्तप्तेहि निष्ठानेहि पर्णकुलकेन च शालिना॥
अथ खलु कृकी काशिराजा भगवन्तं काश्यपं भुक्ताविं घौतपाणिं अपनीतपात्रं विदित्वा अन्यतरं नीचकमासनमादाय येन भगवां काश्यपो तेनुपसंक्रमित्वा भगवतो काश्यपस्य पादौ शिरसा वन्दित्वा एकान्ते निषीदि॥ एकाते निषणो आनन्द कृकी काशिराजा भगवन्तं काश्यपमेतदवोचत्॥ अधिवासेतु भगवां वाराणसीये नगरे वर्षावासं॥ अहं भ्गवं आरामं कारापयिष्यं इमस्मिं च सप्त कूटागारसहस्राणि सप्त च पीठसहस्राणि सप्त च वीथिसहस्राणि सप्त च तुरगसहस्राणि सप्त च आरामिकसहस्राणि उपस्थापयिष्यन्ति यानि भिक्षुसंघं प्रत्येकंप्रत्येकं उपस्थिहिष्यन्ति॥ एवंरूपेण उपस्थानेन भगवन्तं च उपस्थिहिष्यन्ति भिक्षुसंघं च॥ एवमुक्ते

326
आनन्द भगवां काश्यपो कृकिं काशिराजानमेतदवोचत्॥ न हि महाराज शक्यं वज्जिषु मे वर्षावासो भविष्यति॥ द्वितीयं पि तृतीयं पि एवमेव कर्तव्यं॥ अथ खल्वानन्द कृकी काशिराजा नैवं भगवां काश्यपो अधिवासेति वाराणसीयं नगरे वर्षावासं ति प्रारोदीदश्रुकानि च प्रवर्तयि॥ अथ खल्वानन्द कृकी काशिराजा भगवन्तं काश्यपमेतदवोचत्॥ अस्ति पुनर्भगवतो अन्यो पि एवंरूपो उपस्थायको यथैवाहं॥ एवमुक्ते आनन्द भगवां काश्यपो कृकिं राजानमेतदवोचत्॥ अपरिपूणो खलु मे त्वं महाराज उपस्थायको॥ एवमुक्ते आनन्द कृकी काशिराजा भगवन्तं काश्यपमेतदुवाच॥ कतमो पुनर्भगवतो मम पूर्णतरो परिपूर्णत्रो उपस्थायको॥ एवमुक्ते आनन्द भगवां काश्यपो कृकिं काशिराजानमेतदवोचत्॥ अस्ति महाराज तुह्यं एव विजिते वेरुडिङ्गं नाम ब्राह्मणग्रामो। तत्र घटिकारो सो मे उपस्थायको॥ एवमुक्ते आनन्द कृकी काशिराजा भगवन्तं काश्यपमेतदवोचत्॥ केवरूपा पुनर्भगवं घटिकारस्य भोगा येहि भगवन्तुमुपस्थिहति संघं च॥ एवमुक्ते आनन्द भगवां काश्यपो कृकिं काशिराजानमेतदवोचत्॥ घटिकारो महाराज कुम्भकारो यावज्जीवं प्राणातिपातातो प्रतिविरतो यावज्जीवमदत्तादानातो प्रतिविरतो यावज्जीवं अब्रह्मचर्यातो प्रतिविरतो यावज्जीवं मृषावादात्प्रतिविरतो यावज्जीवं सुरामैरेयमद्यप्रमदस्थानातो प्रतिविरतो यावज्जीवं नृत्यगीतवादिता प्रतिविरतो यावज्जीवं गन्धमाल्यवर्णकधारणात्प्रतिविरतो यावज्जीवं उच्चशयना महाशयनात्प्रतिविरतो यावज्जीवं विकारभोजनात्प्रतिविरतो यावज्जीवं जातरूपरजतप्रतिग्रहणत्प्रतिविरतो॥ नखलु महाराज घटिकारो कुम्भकारो सामं पृथिवीं खनति इति। अथ खलु ये ते भवन्ति मूषोत्किरा वा वारिप्ररोपिता व

327
वारुच्छिन्ना वा मृत्तिका ततो मृत्तिकामादाय भाजनकानि कृत्वा चतुर्महापथे निक्षिपति॥ ये तेहि भाजनेहि अर्थिका भवन्ति ते तानि भाजनानि मुग्दप्रभिन्नं वा माषप्रभिन्नं वा तण्डुलप्रभिन्नं वा पूरेत्वा उत्किरित्वा भाजनकान्यादाय अनपेक्षा येव प्रक्रमन्ति॥ एवंरूपा महाराज घटिकारस्य कुम्भकारस्य भोगाः येहि तथागतश्च उपस्थितो संघश्च॥ मातापितरौ च जीर्णौ वृद्धौ दुर्बलचक्षू॥
एकमिदमहं महाराज समयं वेरुडिङ्गे ब्राह्मणग्रामे विहरामि॥ सो हं महाराज कल्यमेव निवासयित्वा पात्रचीवरमादाय वेरुडिङ्गं ब्राह्मणग्राम पिण्डाय प्रक्रामि॥ सो हं महाराज वेरुडिङ्गे ब्राह्मणग्रामे सावदानं पिण्डाय चरन्तो येन घटिकारस्य कुम्भकारस्य निवेशनं तेनोपसंक्रमित्वा उद्देशे अस्थासि॥ तेन खलु पुनः समयेन घटिकारो कुम्भकारो स्वकान्निवेशनान्निष्क्रान्तो अभूषि॥ अथ खलु महाराज घटिकारस्य कुम्भकारस्य मातापितरौ ततागतमेतदवोचत्॥ निष्क्रान्तो ते भगवं उपस्थायको॥ एषो उपरिकोष्ठके सूपश्च ओदनश्च अतो भगवां परिभुंजतु॥ सो हं महाराज उपरिकोष्ठकात्सूपं ओदनं च देवताहि प्रतिग्राहेत्वा परिभुंजित्वा प्रक्रामि॥ अथ खलु महाराज घटिकारो कुम्भकारो येन स्वकं निवेशनं तेनोपसंक्रमि॥ अद्राक्षीत्खलु महाराज घटिकारो कुम्भकारो उपरिकोष्ठका सूपं च ओदनं च परिभक्तं दृष्ट्वान पुनर्मातापितरौ एतदवोचत्॥ केनिमा तात घटिकारस्य उपरिकोष्ठका सूपो च ओदनं च परिभुक्ता॥ एवमुक्ते महाराज घटिकारस्य कुम्भकारस्य मातापितरौ घटिकारं कुम्भकारमेतदवोचत्॥ भगवता पुत्र काश्यपेन॥ अथ खलु महाराज घटिकारस्य कुम्भकारस्य एतदभवत्॥ लब्धा पुनर्मे सुलब्धा लाभा यस्य मे भगवां काश्यपो यावदेको पि अतिविश्वस्तो॥ तस्य चैवमर्धमासं प्रीतिसुखं कायं न विजहति सप्ताहं च मातापृतृणां जीर्णवृद्धानां दुर्बलचक्षूणां॥

328
एकमिदं महाराज समयं तथागतस्य अरण्यकुटिकाये छाद्यमानाये तृणानि न संभुणान्ति॥ सो हं महाराज भिक्षूणामामन्त्रयेसि॥ गच्छथ भिक्षवो घटिकारस्य कुम्भकारस्य निवेशनं तृणानि आनेथ॥ अथ खलु महाराज ते भिक्षूः येन घटिक्रारस्य कुम्भकारस्य निवेशनं तेनोपसंक्रमेन्सुः॥ तेन खलु पुनर्महाराज समयेन घटिकारो कुम्भकारः स्वकातो निवेशनातो निष्क्रान्तो अभूषि॥ ते तत्र नादृशेन्सु तृणानि अद्दशेन्सु नवच्छदनां आवेशनशालां॥ अथ खलु महाराज ते भिक्षूः येन तथागतो तेनोपसंक्रमित्वा तथागतस्य पादौ शिरसा वन्दित्वा तथागतं च एतदवोचत्॥ निष्क्रान्तो ते भगवं उपस्थायको नास्ति चात्र कानिचि तृणानि अस्ति चात्र नवच्छदना आवेशनशाला॥ एवमुक्ते महाराज तां भिक्षुं एतदवोचत्॥ गच्छथ भिक्षवो घटिकारस्य कुम्भकारस्य नवच्छदनां आवेशनशालां उत्तृणीकृत्वा तृणानि आनेथ॥ अथ खलु महाराज ते भिक्षू येन घटिकारस्य कुम्भकारस्य निवेशनं तेनोपसंक्रमित्वा घटिकारस्य कुम्भकारस्य नवच्छदनामावेशनशालामुत्तृणीकरेन्सु॥ अथ खलु महाराज घटिकारस्य कुम्भकारस्य मातापितरौ तां भिक्षूनेतदवोचत्॥ को एष घटिकारस्य कुम्भकारस्य नवच्छदनामावेशनशालामुत्तृणीकृत्वा तृणानि हरति॥ एवमुक्ते महाराज ते भिक्षू घटिकारस्य कुम्भकारस्य मातापितरौ एतदुवाच॥ यत्र आयुष्मं भिक्षूणां भगवतो काश्यपस्य च अरण्यकुटिकाये छाद्यमानाये तृणा न संभुणन्ति तत्र एतानि तृणानि नीयन्ति॥ एवमुक्ते महाराज घटिकारस्य कुम्भकारस्य मातापितरौ तां भिक्षूनेतदवोचत्॥ हरथ हरथ स्वकानि व॥ अथ खलु महाराज घटिकारो कुम्भकारो येन स्वकं निवेशनं तेनोपसंक्रमेसि॥ अद्राक्षीत्खलु महाराज घटिकारो कुम्भकारो नवच्छदनामावेशनशालामुत्तृणीकृतां तृणानि हृतानि दृष्ट्वा च पुनर्मातापितरौ एतदवोचत्॥ केनिमा तात घटिकारस्य

329
कुम्भकारस्य नवच्छदना आवेशनशाला उत्तृणीकृता तृणानि हृतानि॥ एवमुक्ते घटिकारस्य कुंभकारस्य मातापितरौ घटिकारं कुम्भकारमेतदवोचत्॥ भगवतो पुत्र काश्यपस्य अरण्यकुटिकाये तृणानि न प्रभवन्ति तत्र एतानि भिक्षुभिस्तृणानि नीतानि॥ अथ खलु महाराज घटिकारस्य कुम्भकारस्य एतदभवत्॥ लब्धा मे सुलब्धा लाभा यत्पुनरस्य मे भगवां काश्यपो यावदेको पि अतिविश्वस्तो॥ तस्य चैकमासं प्रीतिसुखं कायं न विजहे अर्धमासं च अन्धानां मातापितृणां॥ न खलु पुनरहं महाराज अभिजानामि घटिकारस्य कुम्भकारस्य इदमेवरूपं दौर्मनस्यप्रतिलाभं यथैव महाराजे न मे भगवां काश्यपो अधिवासेसि वाराणसीये नगरे वर्षावासन्ति॥
   अथ खल्वानन्द कृकिस्य काशिराज्ञो एतदभवत्। लाभा पुनर्मे सुलब्धा यस्य मे एवंरूपो ब्रह्मचारी विजिते प्रतिवसति द्विपादकानि पुण्यक्षेत्राणि॥ अथ खल्वानन्द कृकी काशिराजा घटिकारस्य कुम्भकारस्य पर्णकुलशालिस्य शत वाहां प्रेषयेत् नवोदकं च तैललवणक्वथनं॥ अथ खल्वानन्द काश्यपो कृकि काशिराजानं धर्म्यया कथया संदर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्षयित्वा उत्थायासनातो प्रक्रामि॥
अथ खल्वानन्द भगवां काश्यपो पश्चाद्भक्तं पिण्डपात्रप्रतिक्रान्तो भिक्षुणामामन्त्रेसि॥ निषीदथ भिक्षवो सन्निपतिथ भिक्षवो बन्धथ् पर्यंकं एषो हि पर्यङ्क्रं बन्धामि तावद्न भिन्दामि यावन्न इमेषां सप्तानां भिक्षुसहस्राणामेतेहि एवं आसनेहि निषणानां अनुपादायाश्रवेभ्यश्चित्तानि विमुक्तानि॥ साधु भगवन्निति ते भिक्षु भगवतो काश्यपस्य प्रतिश्रुत्वा सन्निषीदेन्सुः संनिपतेन्सुः बन्धेन्सुः पर्यङ्कं॥ अत खल्वानन्द ज्योतिपालस्य भिक्षुस्य एकरहोगतस्य प्रतिसंलीनस्य अयमेवरूपश्चेतसो परिवितर्को

330
उत्पद्ये॥ अहो पुनरहं भवेयमनागतमध्वानं तथागतो अर्हं सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च॥ सो इमं च लोकमभिज्ञाय सदेवकं लोकं समारक सब्रह्मकं सश्रमणं प्रजां सदेवमनुष्यां इहैव वाराणस्यां ऋषिवदने मृगदावे धर्मचक्रं प्रवर्तेयं द्वादशाकारं अप्रवर्तियं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा केनचिद्वा पुनर्लोके सह धर्मेण॥ एवं सर्वाकारसंपन्नं सर्वाकारपरिपूर्णं च धर्मं देशयेयं यथापि भगवां काश्यपो एतरहिं॥ एवं च देवमनुष्या श्रोतव्यं श्रद्धातव्यं मन्येन्सु यथा भगवतो काश्यपस्य एतरहिं॥ तं भवेयं बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च॥ हायेन्सु आसुरा काया दिव्या काया अभिवर्धेन्सु। अथ खल्वानन्द भगवां काश्यपो ज्योतिपालस्य भिक्षुस्य इदमेवरूपं चेतसा एव चेतोपरिवितर्कमाज्ञाय अन्यतरं भिक्षुमामन्त्रयसि॥ एहि त्वं भिक्षु येन ज्योतिपालो भिक्षुस्तेनोपसंक्रमित्वा ज्योतिपालं भिक्षुमेवं वदेहि॥ शास्ता ते आयुष्मां आमन्त्रेति। उपसंक्रमे येन तथागतो॥ भगवतो काश्यपस्य प्रतिश्रुत्वा येन ज्योतिपालो भिक्षुस्तेनोपसंक्रमित्वा ज्योतिपालं भिक्षुमेतदवोचत्। शास्ता आयुष्मं ज्योतिपाल आमन्त्रयति उपसंक्रमे येन भगवां॥ साध्वायुष्मन्निति आयुष्मां ज्योतिपालस्तस्य भिक्षुस्य प्रतिश्रुत्वा यन भगवान्काश्यपस्तेनोपसंक्रमित्वा भगवतः काश्यपस्य पादौ शिरसा वन्दित्वा एकान्ते निषीदि॥ एकान्ते निषणं आयुष्मन्तं ज्योतिपालं भिक्षुं भगवां काश्यप एतदवोचत्॥ ननु ज्योतिपाल एकस्य ज्योतिपालस्य रहोगतस्य प्रतिसंलीनस्य अयमेवंरूपश्चेतसो परिवितर्क उत्पद्ये॥ अहो पुनरहं भवेयं अनागतमध्वानं तथागतो र्हं सम्यक्संबुद्धो विद्याचरणसम्पन्नो सुगतो

330
उत्पद्ये॥ अहो पुनरहं भवेयमनागतमध्वानं तथागतो अर्हं सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च॥ सो इमं च लोकमभिज्ञाय सदेवकं लोकं समारक सब्रह्मकं सश्रमणं प्रजां सदेवमनुष्यां इहैव वाराणस्यां ऋषिवदने मृगदावे धर्मचक्रं प्रवर्तेयं द्वादशाकारं अप्रवर्तियं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा केनचिद्वा पुनर्लोके सह धर्मेण॥ एवं सर्वाकारसंपन्नं सर्वाकारपरिपूर्णं च धर्मं देशयेयं यथापि भगवां काश्यपो एतरहिं॥ एवं च देवमनुष्या श्रोतव्यं श्रद्धातव्यं मन्येन्सु यथा भगवतो काश्यपस्य एतरहिं॥ तं भवेयं बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च॥ हायेन्सु आसुरा काया दिव्या काया अभिवर्धेन्सु। अथ खल्वानन्द भगवां काश्यपो ज्योतिपालस्य भिक्षुस्य इदमेवरूपं चेतसा एव चेतोपरिवितर्कमाज्ञाय अन्यतरं भिक्षुमामन्त्रयसि॥ एहि त्वं भिक्षु येन ज्योतिपालो भिक्षुस्तेनोपसंक्रमित्वा ज्योतिपालं भिक्षुमेवं वदेहि॥ शास्ता ते आयुष्मां आमन्त्रेति। उपसंक्रमे येन तथागतो॥ भगवतो काश्यपस्य प्रतिश्रुत्वा येन ज्योतिपालो भिक्षुस्तेनोपसंक्रमित्वा ज्योतिपालं भिक्षुमेतदवोचत्। शास्ता आयुष्मं ज्योतिपाल आमन्त्रयति उपसंक्रमे येन भगवां॥ साध्वायुष्मन्निति आयुष्मां ज्योतिपालस्तस्य भिक्षुस्य प्रतिश्रुत्वा यन भगवान्काश्यपस्तेनोपसंक्रमित्वा भगवतः काश्यपस्य पादौ शिरसा वन्दित्वा एकान्ते निषीदि॥ एकान्ते निषणं आयुष्मन्तं ज्योतिपालं भिक्षुं भगवां काश्यप एतदवोचत्॥ ननु ज्योतिपाल एकस्य ज्योतिपालस्य रहोगतस्य प्रतिसंलीनस्य अयमेवंरूपश्चेतसो परिवितर्क उत्पद्ये॥ अहो पुनरहं भवेयं अनागतमध्वानं तथागतो र्हं सम्यक्संबुद्धो विद्याचरणसम्पन्नो सुगतो

331
लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च। सो इमं च लोकमभिज्ञाय परं च लोकमभिज्ञा सदेवकं च लोकं समारकं सश्रमणब्राह्मणं प्रजां सदेवमनुष्यां इहैव वाराणसीये ऋषिवदने मृगदावे धर्मचक्रं प्रवर्तेयं त्रिपरिवर्तं द्वादशाकारं अप्रवर्तियं श्रमणेन वा ब्राह्मणेन वा मारेण वा ब्रह्मणा वा केनचिद्वा पुनर्लोके सह धर्मेण॥ एवं च सर्वाकारसंपन्नं सर्वाकारपरिपूर्णं धर्मं देशयेयं यथापि भगवां काश्यपो एतरहिं॥ एवं च समग्रं भिक्षुसंघं परिहरेयं यथा भगवां काश्यपो एतर्हि॥ एवं च मे देवा च मनुष्या च श्रोतव्यं श्रद्धातव्यं मन्सेन्सु यथापि भगवतो काश्यपस्य एतरहि॥ तं भवेय्या बहुजनहिताय बहुजनसुखाय लोकानुकंपायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च॥ हायेन्सु आसुरा काया दिव्या काया अभिवर्द्धन्सु॥ एवमुक्तो आनन्द  ज्योतिपालं भिक्षुर्भगवन्तं काश्यपमेतदवोचत्॥ एवमेतं भगवन्॥ एवमुक्ते आनन्द भगवां ज्योतिपालं भिक्षुमेतदवोचत्॥ तस्माद्धि ज्योतिपाल इदं सुवर्णपीठकं दुष्ययुगं बुद्धप्रमुखे भिक्षुसंघे देहि कृतपुण्यास्ते देवा च मनुष्याश्च श्रोतव्यं श्रद्धातव्यं मनिष्यति॥ अदासि खल्वानन्द

332
ज्योतिपालो भिक्षुः सुवर्णपीठकं दुष्ययुगं बुद्धप्रमुखे भिक्षुसंघे॥ अथ खल्वानन्द भगवां काश्यपो स्मितं प्रादुष्करित्वा ज्योतिपालं भिक्षुं व्याकार्षीत्॥ भविष्यसि त्वं ज्योतिपाल अनागतमध्वानन्तथागतो ऽ र्हन्सम्यक्संबुद्धो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च॥ सो इमं च लोकं अभिज्ञाय परं च लोकमभिज्ञाय सदेवकं च लोकं समारकं सब्रह्मकं सश्रमणब्राह्मणीं प्रजां सदेवमनुष्यां इहैव वाराणसीये ऋषिवदने मृगदावे धर्मचक्रं प्रवर्तयिष्यसि त्रिपरिवर्तं द्वादशाकारं अप्रवर्तितं केनचिच्छ्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा केनचिद्वा पुनर्लोके सह धर्मेण॥ एवं च सर्वाकारसम्पन्नं सर्वाकारपरिपूर्णं धर्मं देशयिष्यसि यथापि भगवां काश्यपो एतरहिं॥ एवं च समग्रं श्रावकसंघं परिहरिष्यसि यथापि भगवां काश्यपो एतरहिं ॥ एवं समग्रं श्रावकसंघं परिहरिष्यसि यथापि भगवां काश्यपो एतरहिं॥ एवं च ते देवा च मनुष्या च श्रोतव्यं श्रद्धतव्यं मन्येन्सु यथापि भगवतो काश्यपस्य व एतरहि॥ तं भविष्यसि बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च॥ हायिष्यन्ति आसुरा काया अभिवर्धिष्यति॥
अथ खल्वानन्द भगवता काश्यपेन ज्योतिपालस्मिं व्याकृते भूम्या देवा घोषमुदीरयेन्सु॥ एसो मारिषा भगवता काश्यपेन ज्योतिपालो नाम भिक्षुर्व्याकृतो सो भविष्यति अनागतमध्वानं तथागतो र्हं सम्यक्संबुद्धो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च॥ सो इमं लोकमभिज्ञाय परं च लोकमभिज्ञाय सदेवकं च लोकं समारकं सब्रह्मकं सश्रमणब्राह्मणीं प्रजां सदेवमनुष्यां अभिज्ञाय इह एव वाराणसीये ऋषिवदने मृगदावे धर्मचक्रं प्रवर्तयिष्यति त्रिपरिवर्तं द्वादशाकारं अपरिवर्तितं श्रमणेन ब्राह्मणेन वा देवेन वा

333
मारेण वा ब्रह्मणा वा केनचिद्वा पुनर्लोके सह धर्मेण॥ एवं सर्वाकारसम्पन्नं सर्वाकारपरिपूर्णं धर्मं देशयिष्यति यथापि भगवां काश्यपो एतरहिं॥ तद्भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुंपाये महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च॥ हयिष्यन्ति आसुरा काया दिव्या काया अभिवर्द्धिष्यन्ति॥ भूम्यानां देवानां घोषं श्रुत्वा चातुर्महाराजकायिका देवाः त्रायस्त्रिंशा यामाः तुषिता निर्माणरतयः परनिर्मितवशवर्तिन इति ॥ तुत्मुहूर्तं यावद्ब्रह्मकायिका देवनिकाया घोषमम्युद्गच्छेत्॥ एषो मारिष भगवता काश्यपेन ज्योतिपालो नाम भिक्षु व्याकृतो सो भविष्यति अनागतमध्वानं तथागतोऽर्हिं सम्यकसंबुद्धो विद्याचरणसंपन्नो सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च। सो इमं च लोकमभिज्ञाय परं च लोकं अभिज्ञाय सदेवकं च लोकं च सब्रह्मकं सश्रमणब्राह्मणीं प्रजां सदेवमनुष्यामभिज्ञाय इह एव वाराणसीयं ऋषिवदने मृगदावे धर्मचक्रं प्रवर्तयिष्यति त्रिपरिवर्तं द्वादशाकारं अप्रवर्तियं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद्वा पुनर्लोके सह धर्मेण॥ एवं च सर्वाकारसम्पन्नं च सर्वाकारपरिपूर्णं धर्मं देशयिष्यति यथापि भगवां काश्यपो एतरहिं॥ एवं च देवा च मनुष्या च श्रोतव्यं श्रद्धातव्यं मनिष्यन्ति यथापि भगवतो काश्यपस्य एतरहिं॥ तद्भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकंपायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च॥ हायिष्यन्ति आसुरा काया दिव्या काया अभिवर्द्धष्यन्ति॥
अथानन्द भगवां काश्यपस्तिस्मिं घोषे न्तर्हिते तां भिक्षून्धर्मया कथया संदर्शय्

334
समादापये समुत्तेजये संप्रहर्षये॥ एवं भिक्षवो वितर्केथ एवं मा वितर्केथ एवं मनसिकरीथ एवं मा मनसिकरीथ॥ आत्मद्वीपा भिक्षवो विहरथ अनन्यद्वीपाः आत्मशरणाः अनन्यशरणाः धर्मद्वीपा अनन्यद्वीपाः धर्मशरणा अनन्यशरणाः॥ अथ खलु भगवां आदीप्तेन कायेन संप्रज्वलितेन सज्योतिभूतेन एकं तालं वैहायसमभ्युद्गतो भिक्षूं धर्मया कथया संदर्शयेत्समादापयेत्समुत्तेजयेत्संप्रहर्षयेत्॥ एवं  भो भिक्षवो वितर्केथ एवं मा वितर्केथ एवं मनसिकरोथ एवं मा मनसिकरोथ आत्मद्वीपा आत्मशरणाः अनन्यशरणाः धर्मद्वीपा अनन्यद्वीपाः धर्मशरणा अनन्यशरणाः॥ अथ खलु भगवां आदीप्तेन कायेन संप्रज्वलितेन सज्योतिभूतेन एकं तालं वैहायसमभ्युद्गतो भिक्षूं धर्मया कथया संदर्शयेत्समादापयेत्समुत्तेजयेत्संप्रहर्षयेत्॥ एवं भो भिक्षवो वितर्केथ एवं मा वितर्केथ एवं मनसिकरोथ एवं मा मनसिकरोथ आत्मद्वीपा भिक्षवो विहरथ अनन्यद्वीपा आत्मशरणा अनन्यशरणाः धर्मद्वीपा अनन्यद्वीपा धर्मशरणा अनन्यशरणाः॥ अथ खल्वानन्द भगवां काश्यपो एकतालाद्दूतात वैहायसमभ्युद्गम्य द्वितालात्त्रितालं त्रितालातो चतुतालंतो पंचतालं पंचतालातो षट्तालं षट्तालातो सप्ततालं सप्ततालसंस्थितो तां भिक्षूं धर्मया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति॥ एवं भिक्षवः वितर्केथ एवं मा वितर्केथ एवं मनसिकरोथ एवं मा मनसिकरोथ। आत्मद्वीपा भिक्षवो विहरथ अनन्यद्वीपा आत्मशरणा अनन्यशरणा धर्मशरणा अनन्यशरणाः॥ अथ खल्वानन्द भगवां काश्यपो सप्ततालातो षट्तासंस्थितो षट्तालात्पंचतालं पंचतालातो चतुतालं चतुतालातो त्रितालं त्रितालातो द्वितालं द्वितालातो एकतालं एकतालातो स्वके आसने निषणो तां भिक्षूं धर्मया कथया संदर्शयेत्समादापयेत्समुत्तेजयेत्संप्रहर्षयेत्॥ एवं भिक्षवो वितर्केथ एवं मा वितर्केथ एवं मनसिकरोथ एवं मा मनसिकरोथ॥ आत्मद्वीपा भिक्षवो विहरथ अनन्यद्वीपा आत्मशरणा अनन्यशरणा धर्मद्वीपा अनन्यद्वीपा धर्मशरणा अनन्यशरणाः॥ अथ खल्वानन्द भगवां काश्यपः पर्यङ्कं

335
भिन्दन्तो तां भिक्षू आमन्त्रयसि॥ अहं भिक्षवो पर्यङ्कं भिन्दामि सर्वेषमिमेषा सप्तानां भिक्षुसहस्राणां एतेहि एव आसनेहि निषस्मानामनुपादाश्रवेभ्यश्चित्तानि विमुक्तानि स्थापयित्वा ज्योतिपालस्य भिक्षुस्य॥ सो पि मह्यं व्याकृतो व अनुत्तराये सम्यक्संबोधये॥ स्यात्खलु पुनरानन्द एवमस्यास्यात् अन्यो सो तेन कालेन तेन समयेन ज्योतिपालो नाम भिक्षुः अभूषि॥ नैतदेवं द्रष्टव्यं॥ अहं सो तेन कालेन तेन समयेन ज्योतिपालो नाम भिक्षु अभूषि॥ इदमवोचद्भगवानात्तमना आयुष्मानन्दो तानि सप्त च भिक्षुसहस्राणि भगवतो भाषितमभिनन्देन्सुः॥
इति श्रीमहावस्तुवदाने ज्योतिपालसूत्रं समाप्तं॥
ज्योतिपालेन् भिक्षुणा भगवतो काश्यपस्य सश्रावकसंघस्य य्वागूपानं कृत्वा शतसहस्रेण केशरं क्रीणित्वा भगवन्तं काश्यपं सश्रावकसंघं अभ्योकिरेसि सुवर्णपीठकं च दुष्ययोगं भगवतो काश्यपस्य अदासि॥ एवं च अनुप्रणिधेसि॥ यथायं भगवां काश्यपो सम्यक्संबुद्धो द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागतो अशीतिहि अनुव्यंजनेहि उपशोभितशरीरो अष्टदशेहि आवेणिकेहि बुद्धधर्मेहि समन्वागतो दशहि तथागतबलेहि वलवां चतुर्हि वैशारद्येहि विशारदो अहो पुन अहं पि अनागतमध्वानं भवेयं तथागतो ऽ र्हं सम्यक्संबुद्धो विद्याचरणसंपन्नो सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च यतायं भगवां काश्यपो एतरहि॥ एवं च त्रिपरिवर्तं द्वादशाकारं अनुत्तरं धर्मचक्रं प्रवर्तेयं यथापि भगवान्काश्यपो एतरहिं॥ एवं च श्रावकसंघं परिहरेयं यथायं भगवां काश्यपो एतरहि॥ एवं च मे ते देवा च मनुष्या च श्रोतव्यं श्रद्धातव्यं मन्येन्सुः यथापि भगवतो काश्यपस्य एतरहि॥ एवं तीर्णो तारयेयं मुक्तो मोचयेयं आश्वस्तो आश्वासयेयं परिनिर्वृतो

336
परिनिर्वापयेयं यथायं भगवां काश्यपो एतरहिं॥ तं भवेयं बहुजनहिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च॥ ज्योतिपालः काश्यपेन अनुत्तराये सम्यक्संबोधये व्याकृतो॥ भविष्यसि त्वं ज्योतिपाल अनागतमध्वानं तथागतो र्हं सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च इमस्मिं एव भद्रकल्पे समनन्तरं द्वांत्रिशतीहि महापुरुषलक्षणेहि समन्वागतो अशीतिहि अनुव्यजनेहि उपशोमितशरीरो अष्टादसेहि आवेणिकेहि बुद्धधर्मेहि समन्वागतो दशहि तथागतबलेहि बलवां चतुर्हि वैशारद्येहि विशारदो॥ एवं तीर्णो तारयिष्यसि मुक्तो मोचयिष्यसि आश्वस्तो आश्वासयिष्यसि परिनिर्वृतो परिनिर्वापयिष्यसि यथापि अहं एतरहिं॥ तं भविष्यसि बहुजनहिताय बहुजनसुखाय महतो जनकायस्यार्थाय हिताय सुखाय लोकानुकंपायै देवानां च मनुष्याणां च॥ समनन्तरव्याकृतो पुनर्ज्योतिपालो भिक्षुर्भगवता काश्यपेन सम्यक्संबुद्धेन इयं महापृथिवी अतीव षडिकरं कम्पे प्रकम्पे संप्रकम्पे भूम्या च देवा घोषमुदीरयेन्सुः शब्दमनुश्रावयेन्सु॥ यथान्येषु व्याकरणेषु विस्तरेण कर्तव्यं यथापि अयं भगवतो अनुप्रणिधिः॥ काश्यपमनुप्रव्रजित्वा शोधये चारामं पानीयं चोपस्थाये ज्योतिपालो बोधिसत्वो संबुद्धेन अनुशिष्टो॥
य्वागूपानं अदासि सुवर्णपीठकं च वस्त्रयुगं च।
बोधिसत्वो ज्योतिपालो प्रार्थयमानो भवनिरोधं॥
सो तं दानं दत्त्वा प्रणिधेसि लोकनायको अस्यां।
देवमनुष्याचर्यो आर्यं धर्मं प्रकाश्य्या।

337
एवं च मह्यं अस्यात्प्रकाशना धर्मस्य एवं च बहूं सत्वा आर्यधर्मेहि निवेशेय्या॥ एवं च मे श्रुणेन्सु देवमनुष्या वाक्यं एवं च धर्मचक्रं प्रवर्तेयं बहुजनहिताय धर्मोल्कां प्रज्वालेयं पराहणेयं धर्मभेरीं सपताकां उच्छ्रपयेयं धर्मकेतुं धर्मशंखं प्रपूरयेयं कृच्छ्रापन्नैः जातिजरापीडितैर्मरणधर्मैः भवचक्षुकैः अपायेहि प्रज्ञाचक्षु निवेशेय्यं॥ संजीवे कालसूत्रे संघाते रौरवे अवीचिस्मिं षट्सु गतिषु विकीर्णां भवसंसारात्परिमोचयेयं नरके पक्वाविपक्वां अपायनिपीडिता मरणधर्मां अल्पसुखदुःखबहुलां भवसंसारात्परिमोचयेयं॥ अर्थं चरेयं लोकस्य देवमनुष्याणां देशेयं धर्मं॥ एवं विनेयं सत्वां यथायं लोकप्रद्योतो॥
बुद्धो तुवं होहिसि लोकनायको
अनागते इमस्मिं भद्रकल्पे।
कपिलाहूये ऋषिवदनस्मिं शाकियो
तदा तव प्रणिधिविपाको भष्यति॥
अखण्डं अच्छिद्रमशबलकल्माषं परिपूर्णं परिशुद्धं व्रह्मचर्यं चरित्वा कालगतो तुषिते नाम देवनिकाये श्वेतकेतुर्नाम देवपुत्रो महर्द्धिको महानुभावो सो न्यां देवां दिव्येहि दशहि स्थानेहि अभिभवति दिव्येनायुषा दिव्येन वर्णेन दिव्येन सुखेन दिव्येन ऐश्वर्येण दिव्येन परिवारेण दिव्येन रूपेण दिव्येहि शब्देहि दिव्येहि गन्धेहि दिव्येहि रसेहि दिव्येहि प्रष्टव्येहि॥ [अन्ये पि देवपुत्रा नं आपृच्छे यं परिपृच्छनीयं इति।] अयं श्वेतकेतुर्नाम देवपुत्रो पण्डितो व्यक्तो विशारदो कुशलो मेधा चत्वारिंशतीहि बुद्धसहस्रेहि अनुप्रव्राजितो। पंचाशीतीनां बुद्धसहस्राणामधिकारकर्माणि कृतानि षस्मवतीहि प्रत्येकबुद्धकोटीहि को पुनर्वादो श्रावकमहेशाख्येहि॥

338
चत्वारिंशं बुद्धसहस्राणि निर्वृता लोकनायका बुद्धा।
येषु जिनो अचरि ब्रह्मचर्यं प्रार्थयमानो भवनिरोधं॥
पंचाश बुद्धसहस्राणि निर्वृता लोकनायका बुद्धा।
येहि जिनो अकासि कालं प्रार्थयमानो भवनिरोधं॥
षस्मवति प्रत्येकबुद्धकोटीनि निर्वृतानि स्वयंभुनो।
येषु जिन अकासि कालं प्रार्थयमानो भवनिरोदधं॥
अपरिमिता अर्हन्तकोटी निर्वृता येषु महाध्ययीषु।
जिनो अकासि कालं प्रार्थयमानो भवनिरोधं॥
एतेषु पूर्वयोगा प्रकीर्तिता शास्तुनो दशबलस्य॥
अल्पा भणिता भू अभणिता येषु जिनो अकासि कालं प्रार्थयमानो भवनिरोधं॥
इति श्रीमहावस्तु अवदाने ज्योतिपालस्य व्याकरणं समाप्तं॥
राजवंशे आदि॥ भवति भिक्षः स कालो भवति स समयो यदयं लोको दीर्घस्वाध्वनो त्ययेन संवर्तति। संवर्तमाने च पुनर्भिक्षवो लोके योभूयेन सत्वा आभास्वरे देवनिकाये उपपद्यन्ति॥ भवति भिक्षवः स कालो भवति स समयो यदं लोको दीर्घस्याध्वनो अत्ययेन विवर्तति॥ विवर्तमाने खलु पुनर्भिक्षवो लोके संस्थिते लोकसन्निवेशे अन्यतरा सत्वा आयुःक्षयाय च कर्मक्षयाय च आभास्वरातो देवनिकायातो च्यवित्वा इच्छत्वमागच्छन्ति॥ ते भवन्ति सत्वा स्वयंप्रभाः अन्तरीक्षचरा मनोमया प्रीतिभक्षाः सुखस्थायिनो येनकामंगताः॥ धर्मता खलु पुनर्भिक्षवो यं तेषां सत्वानां स्वयंप्रभाणा अन्तरीक्षचराणां मनोमयानां प्रीतिभ

339
क्षाणां सुखस्थायिनां येनकामंगतानां॥ इमे चन्द्रमसूर्या लोके न प्रज्ञायेन्सुः। चन्द्रमसूर्येहि लोके अप्रज्ञायन्तेहि तारकरूपा लोके न प्रज्ञायेन्सुः। तारकरूपेहि लोके अप्रज्ञायन्तेहि नक्षत्रपथा लोके न प्रज्ञायेन्सुः नक्षत्रपथेहि लोके न प्रज्ञायन्तेहि रात्रिंदिवा लोके न प्रज्ञायेन्सुः। रात्रिंदिवेहि लोके न प्रज्ञायन्तेहि मासार्धमासा लोके न प्रज्ञायेन्सुः। मासार्धमासेषु लोके अप्रज्ञायमानेषु ऋतुसंवत्सरा लोके न प्रज्ञायन्ते॥ धर्मता खलु भिक्षवो यं तेषां सत्वानां स्वयंप्रभाणामन्तरीक्षचराणां यावद्येनकामंगतानां॥ अयमपि महापृथिवी उदकह्दं विय समुदागच्छेत्॥ सा चाभूद्वर्णसम्पन्ना रससम्पन्ना सय्यथापि नाम क्षुद्रं मध्वनेडकं एवमास्वादो सय्यथापि नाम क्षीरसन्तानं वा सर्पिसन्तानं वा एवं वर्णप्रतिभासो॥ अथ खलु भिक्षवो अन्यतरः सत्वः चपलो लोलुपजातीयो तं पृथिवीरसं अंगुलीये आस्वादेसि॥ तस्य तं स्वादयति वर्णेनापि गन्धेनापि रसेनापि॥ अन्ये पि सत्वा तस्य सत्वस्य दृष्ट्वानुकृतिमापद्यन्ते॥ ते पि पृथिवीरसमंगुल्यास्वादयेन्सु॥ तेषामपि तं स्वादयति यावत् रसेनापि॥ अथ खलु भिक्षवः सो सत्वो अपरकालेन तं पृथिवीरसं आलोपकारमाहारं आहारेसि॥ अन्ये पि सत्वा तस्य सत्वस्य दृष्ट्वानुकृतिमापद्यन्ते॥ ते पि  तं पृथिवीरसं आलोपकारकमाहारमाहारेन्सुः॥ यतो च भिक्षवस्ते सत्वा तं पृथिवीरसमालोपकारकमाहारमाहरेन्सुः  अथ तेषां काये गुरुत्वं च खरत्वं च कक्खटत्वं च उपनिपते॥ यापि चाभूत्पूर्वं सानं स्वयंप्रभता अन्तरीक्षचरता मनोमयकायता प्रीतिभक्षता सुखस्थायिता येनकामंगमता सा अन्तरहाये॥

340
स्वयंप्रभताये अन्तरीक्षचरताये मनोमयताये प्रीतिभक्षताये येनकामंगमताये अन्तर्हिताये चन्द्रसूर्या लोके प्रज्ञायेन्सु॥ चन्द्रमसूर्येहि लोके प्रज्ञायन्तेहि तारकरूपा लोके प्रज्ञायेन्सु। तारकरूपेहि लोके प्रज्ञायन्तेहि नक्षत्रपथा लोके प्रज्ञायेन्सु। नक्षत्रपथेहि लोके प्रज्ञायन्तेहि रात्रिंदिवा लोके प्रज्ञायन्ते। रात्रिंदिवसेहि लोके प्रज्ञान्तेहि मासार्धमासा लोके प्रज्ञायन्ते। मासार्धमासेहि प्रज्ञायन्तेहि ऋतुसंवत्सरा लोके प्रज्ञायेन्सु॥
अथ खलु भिक्षवस्ते सत्वा तं पृथिवीरसमाहारमाहरन्ता तंवर्णा तंभक्षा तदाहारा चिरं दीर्घमध्वानं तिष्ठेन्सुः॥ ये सानं बहु आहारमाहारेन्सु ते अभून्सु दुर्वार्णाः ये अल्पमाहारमाहारेसुः वर्णावन्ता॥ ये अभून्सुः वर्णवन्ता ते दुर्वर्णां सत्वा अवजानेन्सुः॥ वयमस्म वर्णवन्तो सत्वा इमे भवन्ति दुर्वर्णा॥ तेषां वर्णाभिवर्णप्रत्ययानां मानाभिमानजातीयानां विहरतां पृथिविरसो अन्तरहाये॥ भूमिपर्पटकं प्रादुर्भवेय सय्यथापि नाम च्छात्रकं एवं वर्णप्रतिभासो॥ सो च अभूद्वर्णसंपन्नो च गन्धसंपन्नो च सय्यथापि नाम क्षुद्रो मधु अनेडको एवमास्वादो॥ अथ खलु भिक्षवो ते सत्वा अस्मिं पृथिवीरसे अन्तरहिते इमं उदानमुदानयेन्सु॥ अहो रसो हरो रसेति॥ सय्यथापि नाम भिक्षव एतरहि मनुष्या सुभोजनखादिता सुखिता भुक्ताविनो एमं उदानमुदानेन्तीति॥ अहो रसो अहो रसो ति॥ तमेव पौराणमक्षरमग्निन्यं उपन्पते अर्थं चास्य न विभावयेन्सु। अथ खलु भिक्षवस्ते

341
सत्वास्तं भूमिपर्पटकं आहारं आहरन्ता तद्वर्णा तद्भक्षास्तदाहारा चिरं दीर्घमध्वानं तिष्ठेन्सु॥ ये सानं बहुं आहारं आहारेन्सु अभून्सु ये अल्पं आहारं आहारेन्सु ते अभून्सु वर्णवन्तो॥ ये सुवर्णवन्तो ते दुर्वर्णां सत्वां अवनानेन्सुः॥ वयमस्म वर्णवन्ता इमे भवन्ति सत्वा दुर्वर्णा॥ तेषां वर्णाभिवर्णप्रत्ययानां मानाभिमानजातीयानां विहरतां भूमिपर्पटकमन्तरहारे वनला प्रादुर्भूता॥ सय्यथापि नाम कलम्बुका एवं वर्णप्रतिभासापि अभू वर्णसम्पन्नापि गन्धसम्पन्नापि रससंपन्नापि तद्यथापि नाम क्षुद्रं मधुमनेळकं एवमास्वादा॥ अथ खलु भिक्षवो ते सत्वा भूमिपर्पटके अन्तर्हिते अनुस्तनयेन्सु॥ अहो वदि अहो वदीति॥ तद्यथापि नाम भिक्षव एतरहिं सत्वा केनचिदेवं दुःखधर्मेण स्पृष्टा अनुस्तनयेन्सु अहो वदि अहो वदीति तमेव पौराणमक्षरमग्निन्यं उपनिपते अर्थं च न विभावयेन्सुः। एवमेव भिक्षवस्ते सत्वास्तस्मिं भूमिपर्पटके अन्तर्हिते अनुस्तनयेन्सुः। अहो वदि अहो वदीति॥
अत खलु भिक्षवस्ते सत्वास्तस्मिं भूमिपर्पटके अन्तरहिते वनलतां आहारमाहरन्ता तंवर्णा तंभक्षा तदाहारा चिरं दीघमधानं तिष्ठेन्सु॥ ये सानं बहुं आहारं  आहारेन्सुः ते अभून्सुः दुर्वर्णा ये अल्पाहारं आहारेनु अभून्सु वणवनो। ते तां दुर्वर्णां सत्वा अवजानेन्सु। वयमस्म वर्णवन्तो इमे भवनि सत्वा दुवर्णा॥ तेषां वणाभिवर्णप्रत्ययानां मानाभिमानजातीयानां वनलता अन्तरहाये॥ शालि

342
अकणो अतुषः सुरभितण्डुलः प्रादुर्भवेया सायं लूनो सो काल्यं भवति जातो पक्वो विरूढो अवदानं पि से न प्रज्ञायति॥ सो पि काल्यं लूनो सायं भवति जातो पक्वो विरूढी अवदानं चास्य न प्रज्ञायति॥ अथ खलु भिक्षवो ते सत्वा तस्मिं वनलते अन्तर्हिते अनुस्तनयेन्सुः॥ अहो वेद अहो वेद ति॥ तद्यथापि नाम भिक्षवो एतरहिं सत्वा केनचिदेवं दुःखधर्मेण स्पृष्टा अनुस्तनयेन्सु। तमेव पौराणमक्षरमग्निन्थं उपनिपते अर्थं चास्य न विभावयेन्सु॥ अथ खलु भिक्षवस्ते सत्वा तस्मिं वनलते अन्तर्हिते तं शालिं अकणं अतुषं सुरभितण्डुलफलं आहारमाहरन्ता चिरं दीर्घमध्वानं तिष्ठेन्सु॥ यतो च भिक्षवस्ते सत्वास्तं शालिं अकणं अतुषं सुरभितण्डुलफलं आहारमाहारेन्सु अथ सानं स्त्रीणां स्त्रीव्यंजनानि प्रादुर्भवेन्सुः पुरुषाणां पुरुषव्यंजनानि प्रादुर्भवेन्सुः॥ अतिवेल रक्तचित्ता अन्योन्यं उपनिध्यायेन्सु॥ अन्योन्यं रक्तचित्ता अन्योन्यं उपैध्याय ते अन्यमन्यं संरञ्जेन्सु अन्यमन्यं संरक्ता अन्यमन्यं दूषयेन्सुः॥ ये खलु पुनर्भिक्षवः सत्वान्पश्येन्सु दूष्यमाणां ते तत्र दण्डं पि क्षिपेन्सु लेष्टुं पि क्षिपेन्सु पांशु क्षिपेन्सु॥ अधर्मो भवन्तो लोके प्रादुर्भूतो असड्वर्मो भवन्तो लोके प्रादुर्भूतः यत्र हि नाम सत्वो सत्वं दूषयति॥ तद्यथापि नाम भिक्षवः एतरहि दारिकाये वुह्यन्तीये दण्डं निक्षिपन्ति तेष्टुं पि निक्षिपन्ति तं एव पौराणमक्षरमग्निन्यं उपनिपते अर्थं चास्य न विभावयेन्सु॥ तदा खलु पुनस्तं भिक्षवः अधर्मसंमतं अयज्ञसंमतं च अविनयसंमतं च। एतरहिं खलु पुनस्तं भिक्षवः धर्मसंमतं च यज्ञसंमतं विनयसंमतं च॥ अथ खलु भिक्षवस्ते सत्वा तेन अधर्मेण

343
अर्तीयन्ता विजिगुप्सिता एकाहं पि विप्रवसेन्सु द्व्यहं पि विप्रवसेन्सु त्र्यहं पि विप्रवसेन्सु चतुरहिं पि विप्रवसेन्सु पंचाहं पि पक्षं पि मासं पि विप्रवसेन्सु गृहकर्मान्ता पि कारयेन्सु यावदेव तस्यैव अधर्मस्य प्रतिच्छदनार्थं॥
अथ खलु भिक्षव अन्यतरस्य सत्वस्य शालिहारकं गतस्य एतदभवत्॥ किमस्य नाम हं किलमामि कथं पुराहं किलमामि सायं सायमासाय प्रातं प्रातरासाय॥ यं नूनाहं सकृदेव दैवसं सायंप्रातिक शालिं हरेयं॥ आहरे खलु भिक्षवो सो सत्वो सकृदेव दैवसं सायंप्रातिकं शालिं॥ अथ खलु भिक्षवः अन्यतरो सत्वो तं सत्वमे तदुवाच॥ एहि भो सत्व शालिहारं गमिष्यामः॥ एवमुक्ते भिक्षवः सो सत्वो तं सत्वमेतदुवाच॥ गच्छ तुवं सत्व आनीतो मया सकृदेव सायंप्रातिको शालिः॥ अथ खलु भिक्षवस्तस्यापि सत्वस्य एतदभवत्॥ एवं पि क्रियमाणं शोभनं भवति। यं नूनाहं पि सकृदेव द्व्यहिकं त्रीहिकं तं शालिं हरेयं॥ आहरे खलु भिक्षवः सो पि सत्वो सकृदेव द्वीहिकं त्रीहिकं शालिं॥ अथ खलु भिक्षवः अन्यतरो सत्वो तं सत्वमेतदुवाच॥ एहि भो सत्व शालिहारं गमिष्याम॥ एवमुक्ते सो सत्वो तं सत्वमेतदुवाच॥ गच्छ त्वं भो सत्व आनीतो मया सकृदेव द्वीहिको त्रीहिको शालिः॥ अथ खलु भिक्षवस्तस्यापि सत्वस्य एतदभवत्॥ एवं पि दानि क्रियमाणं शोभनं भवति। यं नूनाहं पि चतुरहिकं पंचाहिकं शालिमाहरेयं॥ आहरे खलु भिक्षवो सो पि सत्वो सकृदेव चतुरहिकं पंचाहिकं शालिं॥ यतो च भिक्षवः ते सत्वा तं शालिं अकणं अतुषं सुरभितण्डुलफलं संनिधिकारं परिभुंजेन्सु अथ खलु तस्य शालिस्य कणो च तुषो च प्रादुर्भवति॥ सो पि सायं लूनो काल्यं न जातो भवति न पक्वो न विरूढो अवदानं चास्य प्रज्ञायति॥

344
अथ खलु भिक्षवस्ते सत्वा संधावेन्सुः संघावित्वा संनिपतित्वा मन्त्रां मन्त्रयन्सुः॥ वयं भवन्तो स्वयंप्रभा अन्तरीक्षचरा मनोमया प्रीतिभक्षा सुखस्थायिनो येनकामंगमाः॥ तेषामस्माकं स्वयंप्रभाणामन्तरीक्षचराणां मनोमयानां प्रीतिभक्षाणां सुखस्थायिनां येनकामंगमानां चन्द्रमसूर्या लोके न प्रज्ञायेन्सु॥ चन्द्रमसूर्येहि लोके अप्रज्ञायन्तेहि तारकसूपा न प्रज्ञायन्ते। तारकरूपेहि लोके अप्रज्ञायन्तेहि नक्षत्रपथा लोके न प्रज्ञायन्ते। नक्षत्रपथेहि लोके अप्रज्ञायन्तेहि रात्रिंदिवा न  प्रज्ञायेन्सु। रात्रिंदिवेहि अप्रज्ञायन्तेहि मासार्धमासा न प्रज्ञायन्सु॥ मासार्धमासेहि अप्रज्ञायन्तेहि ऋतुसंवत्सरा न प्रज्ञायेन्सु॥ अयमपि महापृथिवी उदकह्दं विय समुदागच्छति॥ तद्यथापि नाम सर्पिसन्तानं वा क्षीरसंतानं वा एवं वर्णप्रतिभासा अभूषि वर्णसंपन्ना च गन्धसंपन्ना च रससंपन्ना च तद्यथापि नाम क्षुद्रो मधु अनेलको एवमास्वादो॥ अथ खलु भवन्तो अन्यतरो सत्वो चपलो लोलुपजातीयो तं पृथिवीरसं अंगुलीये आस्वादयते॥ तस्य तमास्वादयति वर्णेनापि गन्धेनापि रसेनापि॥ अथ खलु भवन्तो सो सत्वो तं पृथिवीरसमपरकालेन आलोपकारकमाहारं आहारेसि॥ वयं तस्य सत्वस्य दृष्ट्वानुकृतिमापद्यन्ता तं पृथिवीरसं आलोपकारकमाहारं आहरेम॥ यतो च वयं भवन्तो पृथिवीरसमालोपकारकमाहारं आहरेम अथास्माकं काये गुरुत्वं च खरत्वं च कक्खटत्वं च उपनिपते॥ यापि सा पूर्वं अभूषि स्वयंप्रभता अन्तरीक्षचरता मनोमयकायता प्रीतिभक्षता सुखस्थायिता येनकामंगमता सा अन्तरहायि॥ तेषां भवन्तो स्वयंप्रभताये अन्तरीक्षचरताये मनोमयकायताये प्रीतिभक्षताये सुखस्थायिताये येनकामंगमताये अन्तरहिताये चन्द्रमसूर्या लोके प्रज्ञायेन्सुः। चन्द्रमसूर्येहि लोके प्रज्ञायन्तेहि

345
तारकरूपा प्रज्ञायेन्सुः। तारकरूपेहि प्रज्ञायन्तेहि नक्षत्रपथा प्रज्ञायेन्सुः। नक्षत्रपथेहि प्रज्ञायन्तेहि रात्रिंदिवा प्रज्ञायेन्सुः । रात्रिदिवेहि प्रज्ञायन्तेहि मासार्धमासा प्रज्ञायेन्सुः। मासार्धमासेहि प्रज्ञायन्तेहि ऋतुसंवत्सरा प्रज्ञायेन्सुः॥ ते वयं भवन्तो तं पृथिवीरसमाहारमाहरन्ता तंवर्णा तंभक्षा तदाहारा चिरं दीर्घमध्वानं तिष्ठेम॥ यतो च सानं केचित्पापका अकुशला धर्मा प्रज्ञायेन्सुः यतो च मो केचिद्भवन्तो पापका अकुशला धर्माः प्रज्ञायेन्सुः अथ सो पृथिवीरसो अन्तर्हाये भूमिपर्पटकं प्रादुर्भवे॥ तद्यथा छात्रकं एवं वर्णप्रतिभासो पि अभूषि वर्णसम्पन्नो च गन्धसंपन्नो च॥ तद्यथापि नाम क्षुद्रमधु अनेडको एवमास्वादो॥ ते वयं भवन्तो भूमिपर्पटकं आहारमाहरन्ता तंवर्णा तंभक्षा तदाहारा चिरं दीर्घमध्वानं तिष्ठेम॥ यतो च सानं केचित्पापका अनुशला धर्मा प्रज्ञायेन्सु अथ सो भूमिपर्पटक अन्तरहाये वनलता प्रादुर्भवेत्। तद्यथापि नाम कलम्बुका एवं वर्णप्रतिभासा सापि अभूषि वर्णसम्पन्ना च गन्धसम्पन्ना च रससंपन्ना च॥ सय्यथापि नाम क्षुद्रो मधु अनेडको एवमास्वादः॥ ते वयं भवन्तो तां वनलतामाहारमाहरन्ता तंवर्णा तंभक्षा तदाहारा दीर्घमध्वानं तिष्ठेम॥ यतो च सानं केचित्पापका अकुशला धर्मा प्रज्ञायेन्सुः यतो च मो भवन्तो केचित्पापका अकुशला धर्मा प्रज्ञापयेन्सुः अथ सा वनलता अन्तरहाये॥ शालिं अकणं अतुषं सुरभितण्डुलफलं प्रादुर्भवेया॥ सायं लूनो सो काल्यं भवति जातो पक्वो विरूढो अवदानं पि च से न प्रज्ञायति॥ ते वयं भवन्तो तं शालिं अकणं अतुषं सुरभितण्डुलफलं आहारमाहरन्ता तंवर्णा तंभक्षा

346
तदाहारा चिरं दीर्घमध्वानं हि तिष्ठेम॥ यतो च सानं केचित्पापका अकुशला धर्मा प्रज्ञायेन्सुः अथ से शालिस्य कणो च तुषो च पर्यवनहे॥ यो च सायं लूनो सो कास्यं न जातो न पक्वो न विरूढो अवदानं पि च से प्रज्ञायति॥ यो पि कास्यं लूनो सो सायं न जातो न पक्वो न विरुढो अवदानं पि च से प्रज्ञायति। यं नूनं वयं शालिक्षेत्राणि विभजेम सीमां नयेमः॥ इमं भवन्तानां शालिक्षेत्रं इममस्माकं मापयेमः॥ अथ खलु भिक्षवस्ते सत्वाः शालिक्षेत्राणां सीमा नयेन्सुः। इमं भवन्तानां शालिक्षेत्रं इममस्माकं॥

अथ खलु भिक्षवः अन्यतरस्य सत्वस्य शालिहारं गतस्य एतदभवत्॥ किं स्य नाम अहं भविष्यं केन स्य नाम जीवितं कल्पेष्यं स्वके शालिभागे क्षीणे॥ यं नूनाहं अदिन्नां अन्यातकं शालिमादियेयं॥ अथ खलु भिक्षवो सो सत्वो स्वकं शालिभागं परिरक्षनो अदिन्नमन्यातकं शालिभागमादियेय॥ अद्राक्षीद्भिक्षवो न्यतरः सत्वो तं सत्वमदिन्नमन्यातकं शालिं आदियन्तं दृष्ट्वा च पुनर्येन सो सत्वो तेनोपसंक्रमित्वा तं सत्वमेतदवोचत्॥ अपि आम त्वं भो सत्व अदिन्नमन्यातकं शालिमादियसि॥ एवमुक्ते भिक्षवः सो सत्वस्तं सत्वमेतदवोचत्॥ तेन हि भो सत्व न पुनरेवं भविष्यति॥ द्वितीयं पि भिक्षवस्तस्य सत्वस्य शालिहारं गतस्य एतदभवत्॥ किं स्य नाम अहं भविष्यं केन स्य नाम अहं जीविकां कल्पेष्यं स्वके शालिभागे क्षीणे॥ यं नूनाहं अदिन्नमन्यातकं शालिमादियेयं॥ द्वितीयं पि भिक्षवः सो सत्वो स्वकं शालिभागं परिरक्षन्तो अदिन्नमन्यातकं शालिमादियेत्॥ दृष्ट्वा च पुनर्येन सो सत्वो तेनोपसंक्रमित्वा तं सत्वमेतदवोचत्। अस्ति नाम त्व भो सत्व यावद्वितीयकं

347
पि अदिन्नमन्यातकं शालिमादियसि॥ द्वितीयं पि भिक्षवः सो सत्वो तं सत्वमेतदवोचत्॥ तेन हि भो सत्व न पुनरेवं भविष्यति॥ तृतीयकं पि भिक्षवः तस्य सत्वस्य शालिहारं गतस्यैतदभवत्॥ किं स्य नाम अहं भविष्यं केन स्य नाम जीविकां कल्पयिष्यं स्वके शालिभागे क्षीणे॥ यं नूनाहमदिन्नमन्यातकं शालिमादियेयं॥ तृतीयकं पि भिक्षवः सो सत्वो स्वकं शालिभागं परिरक्षन्तो अदिन्नमन्यातकं शालिमादियति॥ अद्राक्षीद्भिक्षवः सो सत्वो तं सत्वं तृतीयकं पि अदिन्नमन्यातकं शालिमादियन्तं॥ दृष्ट्वा च पुनर्येन सो सत्वो तेनपुसंक्रमित्वा तं सत्वं दण्डेन परिताडयन्तो एमाह॥अस्ति नाम त्वं भो सत्व यावत्तृतीयक पि अदिन्नमन्यातकं शालिमादियसि॥ अथ खलु भिक्षवः सो सत्वो उभौ बाहां प्रगृह्य विक्रन्दे विक्रोशे॥ अधर्मो भवन्तो लोके प्रादुर्भूतः असद्धर्मो लोके प्रादुर्भूतः यत्र नाम लोके दण्डादानं प्रज्ञायति॥ अथ खलु भिक्षवः सो सत्वो पृथिवीयं दण्डमावेष्टित्वा उभौ बाहू प्रगृह्य विक्रन्दे विक्रोशे॥ अधर्मो भवन्तो लोके प्रादुर्भूतो असद्धर्मो भवन्तो लोके प्रादुर्भूतः यत्र हि नाम अदिन्नादानं च मृषवादं च लोके प्रज्ञायति॥ एवं च पुनर्भिक्षवः इमेषां त्रयाणां पापकानां अकुशलानां धर्माणां प्रथम एवमेव लोके प्रादुर्भावो तद्यथादिन्नादानस्य मृषावादस्य दण्डादानस्य च॥
अथ खलु भ्क्षः ते सत्वा संधावेन्सुः संनिपतेन्सुः संधावित्वा संनिपतित्वा संमन्त्रेन्सुः॥ यं नूनं वयं भवन्तो यो अस्माकं सत्वो सर्वप्रासादिको सर्वमहेशाख्यो च तं संमन्येमः यो अस्माकं निग्रहारहं च निगृह्लीया प्रग्र्हारहं च प्रगृह्लेया देशये चायं स्वकस्वकेषु शालिक्षेत्रेषु शालिभागं॥ अथ खलु भिक्षवः ते सत्वा यो सानं

348
सत्वो अभूषि सर्वप्रासादिको च सर्वमहेशाख्यो च तं संमन्येन्सुः॥ भवानस्माकं सत्वं निग्रहारहं च निगृह्लातु प्रग्रहारहं च प्रगृह्लातु वयं ते सर्वसत्वानां अग्रताये संमन्येम स्वकस्वकेषु शालिक्षेत्रेषु षष्ठं शालिभागं ददाम॥ महता जनकायेन संमतो ति महासम्मतो ति संज्ञा उदपासि। अरहति शालिक्षेत्रेषु शालिभागे ति राजा ति संज्ञा उदपासि। सम्यक् रक्षति परिपालेति मूर्ध्नाभिषिक्ताः॥॥ संज्ञा उदपासिं। मातापितृसमो नैगमजानपदेषु त्ति जानपदस्थामवीर्यप्राप्तो ति संज्ञा उसपासि॥ तेनाहं राजा क्षत्रियो मूर्ध्नाभिषिक्तो जनपदस्थामवीर्यप्राप्तो ति॥ राज्ञो सम्मतस्य पुत्रो कल्याणो कल्याणस्य पुत्रो रवो रवस्य पुत्रो उपोषधो उपोषधस्य पुत्रो राजा मान्धातो॥ राज्ञो मान्धातस्य पुत्रपौत्रिकायो नप्तप्रनप्तिकायो बहूनि राजसहस्राणि। पश्चिमको शाकेते महानगरे सुजातो नाम इक्षाकुराजा अभूषि॥ सुजातस्य खलु इक्षाकुराज्ञो पंच पुत्रा अभूषि ओपुरो निपुरो करकण्डको उल्कामुखो हस्तिकशीर्षो। पंच च धीतरो कुमारियो शुद्धा विमला विजिता जला जली॥ जेन्तो नाम कुमारो वैलासिकाये पुत्रो॥ तस्य माता जेन्ती नाम॥ ताये राजा सुजातो स्त्रीधर्मेण आराधितो। तस्य राजा प्रीतो संवृत्तो॥ प्रीतेन राज्ञा जेन्ती वरेण प्रवारिता॥ जेन्ती वरेण प्रवारेमि। यं मे वरं याचसि तं ते वरं ददामि॥ सा दानि आह॥ महाराज यावता खु मातापितरं आपृच्छामि ततो देवस्य सकाशातो वरं याचिष्यामि॥ ताये मातापितृणां आरोचितं॥ राज्ञाहं वरेण प्रवारिता तद्युष्माकं किं वरमुच्यति किं राज्ञो वरं याचामि॥ तेहि

349
दानि यस्य यं मतं सो तं जल्पति॥ ग्रामवरं याचाहि त्ति॥ तर्हिं अपरा परिव्राजिका पण्डिता निपुणा मेधाविनी॥ सा आह॥ जेन्ति त्वं वैलासिकाये धीता तव पुत्रो न निंचित्पैतृकस्य द्रव्यस्य प्रभवति किं पुन राज्यस्य॥ एते पंच कुमारा क्षत्रियकन्यापुत्राः ते पैतृकस्य राज्यस्य च द्रव्यस्य च प्रभवन्ति॥ त्वं च राज्ञा वरेण प्रवारिता राजा च सुजातो अप्रतिवचनो सत्यवादी यथावादी तथाकारी तं तुवं राज्ञो वरं याचाहि॥ एते पंचं कुमारा राज्यातो विप्रवासेत्वा मम मुत्रं जेन्तं कुमारं युवराज्ये अभिषिंचाहीति॥ एष देवस्य अत्ययेन शाकेते महानगरे राजा भविष्यती॥ ततो तव सर्वं एवं भविष्यति॥ ताये राजा सुजातो एवं वरं याचितो॥  महाराज एतां पंच कुमारां राज्यातो विप्रवासेत्वा जेन्तं कुमारं युवराज्ये अभिषिंचाहि। अथैषो देवस्य अत्ययेन शाकेते महानगरे राजा भवेय॥ एतं मे वरं देतु राजा॥ सुजातो श्रुत्वा दुर्मना संवृत्तो तेषां कुमाराणां प्रेम्नेन न च शक्यं वरं दत्त्वा अन्यथा कर्तुं॥ राजा जेन्तीये देवीये आह॥एवमस्तु दिन्नं कुमारं वैलासिकाये पुत्रं युवराज्ये अभिषिंचिष्यतीति॥ तत्र जनकाये उत्कण्ठो कुमाराणां गुणमाहात्म्येन या कुमाराणां गतिः सा अस्माकं गतिः॥ राज्ञा सुजातेन श्रुतं महाजनकायो शाकेतातो जनपदातो कुमारेहि सार्धं विप्रवसिष्यन्ति इति॥ तेन शाकेते महानगरे घोषणा कारापिता॥ यो कुमारेहि सह शाकेतातो विप्रवसिष्यति तस्य येन कार्यं तं राजकृत्या कोशातो दीष्यति॥ येषां हस्तिहि कार्यं अश्वेहि रथेहि वा युग्येहि वा यानेहि वा शकटेहि वा प्रवहणेहि वा बलिवर्देहि वा मस्नियेहि वा अजेहि वा एडकेहि वा धनेहि वा चान्येन वा वस्त्रेण वा अलं 

350
कारेहि वा दासेहि वा दासीहि वा तं सर्वं राजकृत्या कोशातो दीष्यति॥ कुमारेहि सार्धं विप्रवसन्तानां राजाणत्तीये अमात्येहि एवं कोशकोष्ठागारा मुक्तं यो य याचति तस्य तं दीयति
एवं ते कुमारा शाकेतातो अनेकेहि जानपदसहस्रेहि सार्धं महता बलकायेन अनेकेहि शकटयुग्ययानसहस्रेहि शाकेतातो नगरातो निर्याता उत्तरामुखं प्रयाता॥ काशिकोशलेन राज्ञा प्रगृहीता॥ कुमारा कृतपुण्या च महेशाख्या च निवाता च सुखसंस्पर्शा च पुण्यवन्ता च धार्मिका च। तेषां सर्व काशिकोशलका मनुष्या मूलातो प्रीता॥ अहो याव कल्याणा कुमारा धार्मिका च॥ तस्य राज्ञो यथोक्तं भगवता शक्रप्रश्नेषु॥ ईर्ष्यामात्सर्यसंयोजनसंप्रयुक्ता देवमनुष्या असुरा गरुडा गन्धर्वा यक्षा राक्षसा पिशाचा कुम्भाण्डा ये वा पुनरन्ये सन्ति पृथुकायाः॥ तस्य काशिकोशलराज्ञो ईर्ष्याधर्मं संवृत्तं॥ यथैव एषो जनकायो इमेषां कुमाराणां गुणगृहीतो स्थानमेतद्विद्यति यं एते मम जीवितातो व्यपरोपेत्वा अतो कुमारां राज्ये अभिषिंचेन्सु॥ ते दानि तेनापि काशिकोशलेन राज्ञा विप्रवासिता॥
अनुहिमवन्ते कपिलो नाम ऋषिः प्रतिवसति पंचाभिज्ञो चतुर्ध्यानलाभी महर्द्धिको महानुभावो॥ तस्य तं आश्रमपदं महाविस्तीर्णं रमणीयं मूलपुष्पोपेतं पत्रोपेतं फलोपेतं पानीयोपेतं मूलसहस्र उपशोभितं महं चात्र शाकोटवनखण्डं॥ ते दानि कुमारा तहिं पि शाकोटवनखण्डे आवासिता॥ तत्र समनुक्रान्ता वाणिजका काशिकोशलां जनपदां गच्छन्ति व॥ ते वाणिजका जनेन पृच्छीयन्ति कुतो आगच्छथ त्ति॥ ते आहन्सुः। अमुकातो शाकोटवनखण्डातो॥ शाकेता अपि

351
कोशला वाणिजका तहिं पि गच्छन्ति शाकोटवनखण्डे॥ ते पि पृच्छीयन्ति॥ कहिं गमिष्यथ त्ति॥ ते पि आहन्सुः॥ शाकोटवनखण्डं अनुहिमवन्तं॥ तेहि दानि कुमारेहि मा मो जातिसंदोषं भविष्यतीति जातिसंदोषभयेन स्वकस्वका येव मातृयो भगिनीयो परस्परस्य विवाहिता॥ राजा सुजातो अमात्यानां पृच्छति॥ भो अमात्या कुमारा कहिं आवसन्ति॥ अमात्या आहन्सुः॥ महाराज अनुहिमवन्ते महाशाकोटकवनखण्डं तहिं कुमारा प्रतिवसन्ति॥ राजा अमात्यानां पृच्छति॥ कुतो कुमारेहि दाराणि आनीतानि॥ अमात्या आहन्सुः॥ श्रुतं मो महाराज कुमारेही जातिसंदोषभयेन स्वकस्वका येव मातृयो भगिनीयो परस्परस्य विवाहितायो मा मो जातिसंदोषं भविष्यतीति॥ राज्ञा दानि सुजातेन पुरोहितो च अन्ये च ब्राह्मणपण्डिता पृच्छिता॥ शक्या एतमेवं कर्तुं यथा तेहि कुमारेहि कृतं॥ ते पुरोहितप्रमुखा ब्राह्मणपण्डिता आहन्सुः॥ शक्यं महाराज कुमारा ततो निदानं दोषेण न लिप्यन्ति॥ राजा सुजातो ब्राह्मणपण्डितानां श्रुत्वा हृष्टो तुष्टो आत्तमना इमं उदानमुदानये॥ शक्या पुनर्भवन्तो कुमारा॥ तेषां दानि कमाराणां शक्यं शाकिया ति समाख्यासमाज्ञाप्रज्ञप्ति उदपासि॥
तेषां दानि कुमाराणां एतदभवत्। केवत्तकं वयं इह शाकोटकवनखण्डे निवासं कल्पेष्यामः। महांश्च अयं जनकायो आगच्छति॥ यं नूनं वयं नगरं मापयेमः॥ ते दानि कुमारा कपिलस्य ऋषिस्य सकाशं संक्रान्ता॥ ते ऋषिस्य पादौ वन्दित्वा आहन्सुः॥ यदि भगवां कपिलो अनुजानेय्या वयं इमस्मिं नगरं मापयेमः ऋषिस्य नामेन कपिलवस्तुं॥ ऋषि आह॥ यदि मम इदमाश्रमं रा -

352
जकुलं कृत्वा नगरं मापेथ ततो अनुजानामि॥ ते कुमारा ऋषिस्य आहन्सुः॥ यथा ऋषिस्य अभिप्रायो तथा करिष्यामः॥ इममाश्रमं राजकुलं कृत्वा नगरं मापेष्यामः॥ ऋषिणा तं वस्तुं तेषां कुमाराणां करकं गृह्य उदकेन दिन्नं॥ कुमारेहि पि तं ऋषिस्य आश्रमं राजकुलं कृत्वा नगरं मापितं॥ कपिलेन ऋषिणा वस्तु दिन्नं ति कपिलवस्तुसमाख्या उदपासि॥ एवं कपिलवस्तुमहानगरं ऋद्धो च स्फीतो च क्षेमो च सुभिक्षो च आकीर्णजनमनुष्यो च बहुजनमनुष्यो सुखितजनमनुष्यो विस्तीर्णजनपरिवारो च संवृत्तो दिशि विदिशि विश्रुतो च संवृत्तो उत्सवसमाजबहुलो वणिजप्रियो व्यवहारसम्पन्नो॥
तेषां दानि पंचानां कुमाराणां ओपुरस्य निपुरस्य करण्डकस्य उक्लामुखस्य हस्तिकशीर्षस्य च ओपुरो कुमारो ज्येष्ठो॥ सो कपिलवस्तुस्मिं राज्ये चाभिषिक्तो॥ ओपुरस्य राज्ञो पुत्रो निपुरो निपुरस्य राज्ञो पुत्रो करकण्डो करकण्डकस्य राज्ञो पुत्रो उल्कामुखो उल्कामुखस्य पुत्रो हस्तिकशीर्षो हस्तिकशीषस्य पुत्रो सिंहहनुः॥ सिंहहनुस्य राज्ञो चत्वारि पुत्राः शुद्धोदनो धौतोदनो शुक्लोदनो अमृतोदनो अमिता च नाम दारिका॥
तहिं दानि अपरस्य शाकियस्य महत्तरस्य धीता प्रासादिका दर्शनीया अक्षुद्रावकाशा परमपुष्करतया समन्वागता तस्या दारिकाये कुष्ठव्याधि उत्पन्नः॥ सा दानि तेन कुष्ठव्याधिना ग्रस्ता॥ वैद्या घटन्ति सर्वक्रिया क्रियन्ति न च वार्त्तोभवति आलेपनप्रत्यालेपनानि वमनविरेचनानि च क्रियन्ति न च कुष्ठव्याधि प्रशाम्यति॥ सर्वं शरमेकव्रणं॥ सर्वस्य जनस्य तां दृष्ट्वा घृणा उत्पद्यति॥ सादानि भ्रातृहि यानके आरूपिय अनुहिमवन्तं नीता॥ तत्र उत्संगपर्वते गुहां खनापयित्वा सा दारिक् प्रवेशिता प्रभूतं च खाद्यभोज्यं उदकं च उपस्तरणप्रावरणं

353
स्थापेत्वा गुहाये द्वारं सुष्ठु पिधित्वा महापांशुराशिं कृत्वा नगरं कपिलवस्तुं प्रविष्टाः॥ तस्या दानि दारिकाये तहिं गुहाये वसन्तीये तेन निवातेन च संरोधेन च तस्या गुहाये उष्मेण सर्वं च कुष्ठव्याधिं विस्रुतं शरीरं चौक्षं निर्व्रणं संवृत्तं उत्तमरूपसंजातं नापि ज्ञायते मानुषिका एषा ति॥ तहिं दानि उद्देशे व्याघ्रो पर्याहिण्डन्तो आगतो॥
घ्राणैः पश्यन्ति पशवः वेदैः पश्यन्ति ब्राह्मणाः।
चारैः पश्यन्ति राजानो चक्षुभ्यामितरा प्रजा इति॥
सो दानि व्याघ्रो तं मनुष्यगन्धमुपजिघ्रति॥ तेन दानि तं मनुष्यगन्धमुपजिघ्रित्वा तं महापांशुराशि पादेहि अपकर्षितं॥ तत्र च अविदूरे कालो नाम राजऋषिः प्रतिवसति पंचाभिज्ञो चतुर्ध्यानलाभी॥ तस्य तं आश्रमपदं मूलोपेतं पत्रोपेतं पुष्पोपेतं फलोपेतं पानीयोपेतं नानावृक्षसम्पन्नं रमणीयं॥ सो दानि ऋषि आश्रमपदं अनुचंक्रमन्तो अनुविचरन्तो तं देशमागतो यत्र सा शाक्यकन्या गुहायं निहितिका॥ तेनापि व्याघ्रेण सर्वं तं पांशुराशिं पादेन अपकर्षितं काष्ठावशेषं संवृत्तं॥ सो दानि व्याघ्रो तं  ऋषिं दृष्ट्वा ओसक्कितो ऋषिणा॥ व्याघ्रेण तत्पांशु अपकर्षितकं दृष्ट्वा ऋषिस्य कौतूहलं संजातं॥ तेन दानि ऋषिणा तानि काष्ठानि अपकर्षितानि तस्या गुहाये द्वारमपावृतं॥ तेन शाक्यकन्या दृष्टा उत्तमवीर्येण नापि ज्ञायति मानुषिका ति॥ एषो ऋषि पृच्छति॥ भद्रे का त्वं ति॥ मानुषिका सा आह॥ अहं कपिलवस्तुतो अमुकस्य शाक्यस्य धीता॥ साहं कुष्ठव्याधिना परिगता इह जीवन्तिका एवं विवर्जिता॥ तस्य तां शाक्यकन्यां दृष्ट्वा उत्तमरूपधरां तीव्रो रागो प्रादुर्भूतः॥

354
किंचापि तावच्चिरब्रह्मचारी
न चास्य रागानुशयो समूहतो।
पुनो पि सो रागविषो प्रकुप्यति
तिष्ठं यथा काष्ठगतं अनूहतं॥
सो दानि राजर्षिः ताये शाक्यकन्याये सार्धं संयोगं गतो ध्यानेहि च अभिज्ञाहि च अभिज्ञाहि च भ्रष्टो॥ सो दानि तां शाक्यकन्यां गृह्य आश्रमपदं गतो॥ सा दानि शाक्यकन्या तहिं आश्रमपदे कोलेन राजर्षिणा सार्धं संवसति॥ षोडश बालां यमलां पुत्रां प्रजाता॥ द्वात्रिंश ऋषिकुमारा प्रासादिका दर्शनीया अजिनजटाधराः॥ ते दानि यं कालं विवृद्धा ऋषिकुमारा ततो मातरे कपिलवस्तुं विसर्जिता॥ गच्छथ पुत्रा कपिलवस्तुं महानगरं अमुको नाम शाकियो मम पिता वो मातामहो। तस्य अमुकस्य पुत्रा ते वो मातुलका योभूयेन शाक्यमहत्तरका ज्ञातिका महन्तो वो कुलवंशो॥ ते युष्माकं वृत्तिं संविधेष्यन्ति॥ ताये शिक्षिता यथा शाक्यानां समुदाचारं॥ एवं वो शाक्यपरिषा उपसंक्रमितव्या। एवमभिवादनं कर्तव्यं। एवं निषीदितव्यं॥ सर्वे शाक्यसमुदाचारं संदिशित्वा विसर्जिता॥ ते मातापितृणामभिवादेत्वा प्रदक्षिणं कृत्वा गता अनुपूर्वेण कपिलवस्तुमनुप्राप्ताः॥
सर्वे यथायुष्काये पटिपाटिकाय् कपिलवस्तुं प्रविशन्ति। तानृषिकुमारां दृष्ट्वा महाजनकायो समन्वाहरति॥ अहो यादृशा ऋषिकुमाराः प्रासादिका दर्शनीया च अजिनजटाधारिणो॥ ते दानि महता जनकायेन परिवारिता शाक्यानां संस्थागारमुपसंक्रान्ताः॥ पंचमात्राणि च शाक्यशतानि संस्थागारे सन्निषस्मानि अभून्सु संनिपतितानि केनचिदेव करणीयेन॥ ते दानि यथा ताये मातरि संदिष्टा तेन समुदाचारेण शाक्यपरिषामुपसंक्रान्ता॥ शाक्यपरिषा ऋषिकुमाराणां तं

355
शाक्यसमुदाचारं दृष्ट्वा विस्मिता ॥ तेन दानि शाक्या ऋषिकुमाराणां पृच्छन्ति॥ कुतो यूयं ति॥ तेहि तं प्रकृतिं सर्वं आचिक्षितं यथा ताये मातरि संदिष्टा॥ अनुहिमवन्ते अमुकातो आश्रमपदातो कालस्य राजऋषिस्य पुत्राः अमुकस्य शाक्यस्य धीता सा मो माता॥ यथा सा शाक्यकन्या तत्र उद्देशे विसर्जिता तथा तेहि मातुः श्रुत्वा शाक्यानां सर्वमाचिक्षितं॥ शाक्या श्रुत्वा प्रीताः॥ सो पि सानं मातामहो शाक्यमहत्तरको जीवति महान्तं च कुलवंशं॥ सो पि कोलो राजर्षि वाराणसीतो ज्येष्ठकुमारं राज्याभिषिंचित्वा ऋषिप्रवजितो दिशासु अभिज्ञातपरिज्ञातो महात्मा राजर्षिः॥ ते दानि शाक्या प्रीता संवृत्ताः राजर्षिणा इमे जाता न प्राकृतेन पुरुषेण॥ तेषां शाक्यानां भवति॥ इमे कुमारा अस्माकं सुजाता पि इमेषां च शाक्यकन्या दीयन्तु वृत्तिश्च॥ तेहि तेषां कुमाराणां शाक्यकन्यायो च दिन्नायो कर्षणानि च दिन्नानि सजनपदानि। तद्यथा नामाश्रमं निगमं सुमुक्तं कर्करभद्रं अपराणि च कर्षणानि सजनपदानि प्रभूतं स्वापतेयं॥ कोलेन ऋषिणा जाता त्ति कोलिया त्ति समाज्ञा व्याघ्रापद्या समाज्ञा च॥
इति श्रीमहावस्तु अवदाने कोलियानामुत्पत्ति समाप्तं॥
अथ शाक्यानां देवडहो नाम निगमो॥ तहिं सुभूतिर्नाम शाक्यानां महत्तरको तेन अमुकातो निगमातो कोलियकन्या नाम भार्या आनीता॥ तस्या सप्त धीतरो जाता माया महामाया अतिमाया अनन्तमाया चूलीया कोलीसोवा महाप्रजापती॥ मायात्पत्ति॥
राज्ञो सिंहहनुस्य शाक्यराज्ञो चत्वारि पुत्रा दारिका च एका शुद्धोदनो शुक्लोदनो धुतोदनो अमृतोदनो अमिता च दारिका॥ राज्ञा सिंहहनुना कालगतेन

356
शुद्धोदनेन राज्यं प्रतिलब्धं॥ राज्ञा शुद्धोदनेन अमात्या आणत्ता सदृशां मे दारिकां आनेथ या भवेय प्रासादिका च कुलीना च॥ तेहि अमात्येहि समन्ततो ब्राह्मणा विसर्जिता पण्डिता च बहुश्रुता च स्त्रीलक्षणपुरुषलक्षणदारिकालक्षणाविधिज्ञा॥ गच्छथ दारिकां विजानथ या राज्ञो शुद्धोदनस्य योग्या भवेया॥
तेहि ब्राह्मणेहि ग्रामनिगमनगरजनपदेहि अण्वन्तेहि शाक्यानां देवडहे निगमे सुभूतिस्य शाक्यस्य सप्त धीतरो दृष्टा तासां सप्तानां धीतराणं माया सर्वप्रधाना कृत्स्ने च जबुद्वीपे तादृशा कन्या सुदुर्लभा॥ तेहि राज्ञो निवेदितं निगमे सुभूतिस्य शाक्यस्य सप्त धीतरो प्रासादिका दर्शनीया च एका चात्र सर्वासां सप्तानां भगिनीनां प्रधाना रूपेणापि तेजेनापि प्रज्ञाये पि सर्वगुणसम्पन्ना माया नाम॥ यत्तका अस्माभिः ग्रामनगरनिगमजनपदा अण्विता न खल्वस्माभिस्सदृशा कन्या दृष्टपूर्वा यादृशी माया सूभूतिस्य शाक्यस्य धीता। शुद्धोदनेन सुभूतिस्य प्रेषितं॥ मायां धीतां मम भार्यार्थं देहीति अग्रमहिषी भविष्यति॥ सुभूतिराह दूतानां॥ मायाये षड्दारिकायो ज्येष्ठतरिकायो याव तायो वुह्यन्ति ततो माया महाराजस्य दीयिष्यति। तेहि दूतेहि राज्ञो शुद्धोदनस्य निवेदितं॥ महाराज एवं सुभूति शाक्यो आह॥ यावदिमा ज्येष्ठतरिका षड्दारिकायो वुह्यन्ति ततो माया महाराजस्य दीयिष्यतीति। राजा शुद्धोदनेन भूयो दूतो सुभूतिस्य शाक्यस्य प्रेषितो। सर्वां मे सप्त धीतरां देहि॥ तेहि दूतेहि सुभूतिस्य शाक्यस्य आरोचितं॥ राजा शुद्धोदनो आह। सर्वां मे सप्त धीतरो देहीति॥ सुभूतिना शाक्येन राज्ञो शुद्धोदनस्य संदिष्टं॥ महाराज दिन्ना ते भवन्तु॥ ता दानि सर्वायो सप्त दारिकायो राज्ञा शुद्धोदनेन महता राजऋद्धीये महता राजानुभावेन महता राजसमृद्धीये

357
आनीता देवडहातो निगमातो कपिलवस्तुं॥ राजा शुद्धोदनेन द्वे दारिके स्वमन्तः- पुरं प्रवेशिता माया च महाप्रजापती च। पंच दारिका पंचभ्रतृणां दिन्ना॥ द्वादशेहि वर्षेहि बोधिसत्वो तुषितभवनातो च्यविष्यति॥ शुद्धावासा देवा जंबुद्वीपे प्रत्येकबुद्धानामारोचयन्ति बोधिसत्वो च्यविष्यति रिंचथ बुद्धक्षेत्रं॥
तुषितभवनादतियशो च्यविष्यति अनन्तज्ञानदर्शावी।
रिंचथ बुद्धक्षेत्रं    वरलक्षणधरस्य॥
ते श्रुत्व बुद्धशब्दं प्रत्येकजिना महेश्वरवराणां।
निर्वांसु मुक्तचित्ता स्वयंभुनो चित्तवशवर्ती॥
ते दानि प्रत्येकबुद्धाः स्वकस्वकानि व्याकरणानि व्याकरित्वा पांरनिवृताः॥ वाराणस्यां सार्धयोजने महावनखण्डं तत्र पंच प्रत्येकबुद्धशतानि प्रतिवसेन्सु॥
ते पि स्वकस्वकानि व्याकरणानि व्याकरित्वा परिनिर्वृता।
आलब्धवीर्या सततानुयोगी
उदग्रचित्ता अकुशीदवर्ती।
दृढविक्रमा वीर्यबलोपपेता
एकचरा खड्गविषाणकल्पा॥
वैहायसमभ्युद्गम्य तेजोधातुं समापद्यित्वा अनुपादाय परिनिर्वृता॥ स्वकाये तेजोधातूये मान्सशोणितं ध्यापितं। शरीराणि पतितानि।
॥।उपेक्षां करुणां च भाव्य
आसेवमानो मुदितां च काले।
मैत्रेण चित्तेन हितानुकंपि
एको चरे खड्गविषाणकल्पो

358
सर्वेषु प्राणेषु निधाय दण्डं
अविहेठको अन्यतरे पि तेषां।
निक्षिप्तदण्डो त्रसस्थावरेषु
एको चरे खड्गविषाणकल्पो॥
ओतारयित्वा गृहिव्यजनानि
संशीर्णपत्रो यथा पारिपात्रो।
काषायवस्त्रो अभिनिष्क्रमित्वा
एको चरे खड्गविषाणकल्पो॥
संदारयित्वा गृहिव्यजनानि
शिखिर्यथा भस्मनि एकचारी।
काषायवस्त्रो अभिनिष्क्रमित्वा
एको चरे खड्गविषाणकल्पो॥
संसेवमानस्य सियातिस्नेहो
स्नेहान्वयं दुःखमिदं प्रभोति।
संसेवमानं तु जुगुप्समानो
एको चरे खड्गविषाणकल्पो॥
संसेवमानस्य सियातिस्नेहो
स्नेहान्वयं दुःखमिदं प्रभोति।
प्रियातिस्नेहं विजिगुप्समानो
एको चरे खड्गविषाणकल्पो॥
संसेवमानस्य सियातिस्नेहो
स्नेहान्वयं दुःखमिद प्रभोति।
प्रिया वियोगं विजुगुप्समानो
एको चरे खड्गविषाणकल्पो॥
संसेवमानस्य सियातिस्नेहो

359
स्नेहान्वयं दुःखमिदं प्रभोति।
मित्रेषु आदीनवं संमृशन्तो
एको चरे खड्गविषाणकल्पो॥
संसेवमानस्य सियातिस्नेहो
स्नेहान्वयं दुःखमिदं प्रभोति।
पुत्रेषु आदीनव संमृशन्तो
एको चरे खड्गविषाणकल्पो॥
पुत्रां सहायानवलोकयन्तो
हापेति अर्थं प्रतिबद्धचित्तो।
न पुत्रमिच्छेय कुतो सहायान्
एको चरे खड्गविषाणकल्पो॥
ज्ञातीं सहायानवलोकयन्तो
हापेति अर्थं प्रतिबद्धचित्तो।
ज्ञाती न इच्छेय कुतो सहयां
एको चरे खड्गविषाणकल्पो॥
सर्वा खड्गविषाणगाथा विस्तरेण कर्तव्या॥ पम्चानां प्रत्येकबुद्धशतानामेकक गाथा॥ ऋषयो च पतिता ऋषिपतनं॥
तहिं वनखण्डे राहको नाम मृगराजा सहस्रमृगयूथं परिहरति॥ तस्य दुवे पुत्रा न्यग्रोधो च नाम विशाखो च॥ तेन दानि मृगराजेन एकस्यापि पुत्रस्य पंच मृगशतानि दिन्नानि अपरस्यापि पुत्रस्य पंच मृगशतानि दिन्नानि॥ ब्रह्मदत्तो काशिराजा अभीक्ष्णं मृगव्यं निर्धावति तं वनषाण्डं परिसमन्तं तत्र च मृगानि हन्ति॥ न तत्तकां मृगां स्वयं उपजीवति यत्तकानि आहतकानि वनगुल्मेषु च वनगहनेषु च शरहारेषु च नडकहारेषु च कण्टकहारेषु च प्रविशित्वा मरन्ति॥ ते तत्र काकश -

360
कुन्तेहि खज्जन्ति॥ न्यग्रोधो मृगराजा तं भ्रातरं विशाखं आह॥ विशाख एतं काशिराजं विज्ञापेम॥ न तत्तका त्वं मृगां स्वयं उपजीवसि यत्तका आहतका गहनेहि प्रदेशेहि प्रविशित्वा मरन्ति काकशकुन्तेहि खाद्यन्ति॥ वयं राज्ञो एकं मृगं दैवसिकं दास्यामः यो तव स्वयं महानसं प्रविशिष्यति॥ इमं च मृगयूथं न एवं अनयव्यसनमापद्यिष्यन्ति॥ तस्य भ्राता विशाखो आह॥ एवं भवतु विज्ञापेम॥ सो दानि राजा मृगव्यं निर्धावितो॥ तेहि यूथपतीहि मृगराजेहि सो राजा दृष्टो दूरत एव आगच्छन्तो सबलवाहनो असिधनुशक्तितोमरधरेहि संपरिवृत्तो॥ ते दानि दं राजानं दृष्ट्वा येन राजा तेन अभिमुखा प्रत्युद्गता अभीता अनुत्त्रस्ता आत्मानं परित्यजित्वा॥ तेन दानि काशिराज्ञा मृगराजानौ दृष्टा दूरत एव अभिमुखा आगच्छन्ता॥ तेन स्वकस्य बलाग्रस्य आणत्ति दिन्ना॥ न केनचिदेते मृगा आगच्छन्तो विहठयितव्या को जानाति किमत्र अन्तरं यथैते वलाग्रं दृष्ट्वा न पलायन्ति मम अभिमुखा आगच्छन्ति॥ बलाग्रेण तेषां मृगाणामन्तरो दिन्नो वामदक्षिणभूतो सो बलाग्रो॥ ते मृगा येन राजा तेनोपसंक्रमित्वा राज्ञो जानुहि प्रणिपतिताः। राजा तेषां मृगराजानां पृच्छति॥ का वो विज्ञप्तिः विज्ञापेथ यं वो कार्यं ॥ ते दानि मानुषाये वाचाये तं राजानं विज्ञापेन्ति॥ महाराज विज्ञापाम॥ वयं तव इह राज्ये अत्र वनखण्डे जाता संवृद्धा अन्ये पि बहूनि मृगशतानि॥ वयन्तेषां मृगाणां द्वे भ्रातरौ यूथपतिनौ इह महाराजस्य विजिते प्रतिवसामः॥ यथैव महाराजस्य नगरा पट्टना च ग्रामा च जनपदा च जनेन शोभन्ति गोबलिवर्देहि च अन्येहि पि प्राणसहस्रेहि द्विपदचतुष्पदेहि एवमेतानि वनखण्डान् आश्रमाणि च नदीयो च प्रस्रवणीयो च एतेहि मृगपक्षेहि शोभन्ति॥ एवं महाराज एतस्य अधिष्ठानस्य अलंकारो॥ सर्वे एते महाराज द्विपदचतुष्पदा यत्तका महाराजस्य विजिते

361
वसन्ति ग्रामगता वारण्यगता वा पर्वतगता वा महाराजस्य शरणं गताः सर्वे ते महाराज चिन्तनीया परिपालनीया च॥ महाराजा च तेषां प्रभवति अन्यो राजा न॥ यं वेलं महाराजा मृगव्यं निष्कासति ततः बहूनि मृगशतानि अनयव्यसनमापद्यन्ति। न तत्तका महाराजस्य उपजीव्या भवन्ति यत्तका शरेहि आहतका अत्र वनगहनेषु च नडगहनेषु शरहारेषु च काशहारेषु च प्रविशिय मरन्ति काक शकुन्तेहि खाद्यन्ते महाराजा च अधर्मेण लिप्यति॥ यदि महाराजस्य प्रसादौ भवेय वयं द्वे यूथपतिनो महाराजस्य दैवसिकं एकमृगं विसर्जयिष्यामः यो तव महानसं स्वयं प्रविशिष्यति॥ एकातो यूथातो एकं दिवसं द्वितीयातो यूथातो द्वितीयं दिवसं एकं मृगं विसर्जयिष्यामः महाराजस्य च मृगमान्सेन अविभक्षणं भविष्यति इमे च मृगा एवं अनयव्यसनं नोपपद्यिष्यन्ति॥ तेन दानि राज्ञा तेषां मृगयूथपतीनां विज्ञप्ति दिन्ना॥ यथा युष्माकमभिप्रायो तथा भवतु गच्छथ अभीता अनुत्त्रस्ता वसथ मम च एकं मृगं दिवसेदिवसे विसर्जेथ॥ राजा तेषां विज्ञप्तिं दत्त्वा अमात्यानामाह॥ न केनचित् मृगा विहेठयितव्या॥ एवमाज्ञां दत्त्वा नगरं प्रविष्टो॥ तेहि यूथपतीहि ते मृगा सर्वे समानीता आश्वासिता च॥ मा भायथ एवमस्माभिः राजा विज्ञापितो यथा राजा न भूयो मृगव्यं निर्धाविष्यति न क्वचित् मृगां विहेठयिष्यति राज्ञो च दिवसेदिवसे एको मृगो विसर्जेतव्यः एकं दिवसं एकतो यूथातो अपरं दिवसं अपरातो यूथातो॥ तेहि मृगेहि सर्वां च तां मृगां उभयेहि यूथेहि गणेत्वा यूथातोयूथातो ओसर कृतं॥ एकातो यूथातो एकं दिवसं मृगो गच्छति राज्ञो महानसं अपरातो यूथातो अपरं दिवसं गच्छति॥
कद्चि विशाखस्य यूथातो ओसरस्मिं गुविणीये मृगीये वारो राज्ञो महानसं गमनाय॥ सा दानि मृगी आणापकेन मृगेन वुच्यति। तव् अद्य ओसरो गच्छ

362
राज्ञो महानसं ति॥ सा आह॥ अहं गुर्विणी द्वे मे पोतका कुक्षिस्मिं अन्यं ताव आणापेहि यं वेलं प्रसूता भविष्यामि ततः गमिष्यामि। ते दानि एकस्यार्थे त्रिवर्गं चरिष्यामः॥ युष्माकं एवं चिरतरकेन वारो भविष्यति इमेहि दुवेहि पोतकेहि जातेहि॥ तेन आणापकेन मृगेन एतं कार्यं यूथपतिस्य आरोचितं॥ यूथपति आह॥ अन्यं मृगं आणापेहि यो एतस्या मृगीये अन्तरेण॥ एषा मृगी प्रसूता समाना पश्चाद्गमिष्यति॥ तेन आणापकेन मृगेन तां मृगीमतिक्रमित्वा यो तस्या मृगीये अन्तरेण सो आणत्तो गच्छ राज्ञो महानसन्ति॥ सो पि आह॥ न मम अद्य अद्य ओसरो अमुकाये मृगीये अद्य ओसरो एवं तावदन्तरं जीविष्यं॥ एवं अपरापरे पि वुच्यन्ति न च अनोसरा गच्छन्ति। सर्वे जल्पन्ति॥ अमुकाये मृगीये ओसरो सा गच्छतूति॥ सा मृगी वुच्यति॥ भद्रे न कोचिदिच्छति अनोसरेण गन्तुं। तव ओसरो त्वं एव गच्छाहि राज्ञो महानसं॥ सा दानि मृगी यां वेलां न मुच्यति सा तेषां पोतकानां प्रेम्नेन मम संनिपातेन एते पि घातयिष्यन्तीति तं द्वितीयं मृगयूथं गता॥ गच्चिय तस्य यूथपतिस्य प्रणिपतिता॥ सो नां यूथपतिः पृच्छति॥ किं एतं भद्रे किमाणापेसि किं कार्यं॥ सा आह॥ अद्य ततो यूथातो मम वारो राज्ञो महानसं गमनाये मम च दुवे पोतका कुक्षिस्मिं ततो मे सो विशाखो यूथपति विज्ञप्तो॥ मम अद्य ओसरो इमे च दुवे पोतका कुक्षिस्मिं। अन्यां प्रेषेहि यं वेलं प्रसूता भविष्यं ततो गमिष्यामि॥ तेन च यूथपतिना ये अन्ये आणापियन्ति ते पि न इच्छन्ति गन्तुं नास्माकमोसरो अमुकाये मृगीये ओसरो सा गच्छतूति॥ सा अहं तेहि न मुच्यामि ओसरातो वुच्यामि गच्छाहि तव ओसरो ति तदिच्छामि मृगराजेन अतो अन्यं मृगं विसर्जमानं यं वेलं अहं प्रसूता भविष्यामि

363
ततो गमिष्यामि॥ सो मृगराजा मृगीमाह॥ ताव मा भायाहि अन्यं विसर्जयिष्यं॥ तेन मृगराजेन आणापको मृगो आणत्तो इतो यूथातो यस्य मृगस्य ओसरो तं आणापेहि एताये मृगीये मया अभयं दिन्नं ॥ तेन आणापकेन यस्य मृगस्य ओसरो तं आणाप्यति॥ गच्छ राज्ञो महानसं॥ सो पि आह॥ न अस्माकं यूथस्य अद्य वारो विशाखस्य वारो यस्या मृगीये वारो सा गुर्विणी दुवे पोतका कुक्षिस्मिं। तेहि न मुच्यति तव ओसरो त्वं गच्छाहीति॥ ताये च मृगीये ततो अमुच्यन्तिये इह युथमागत्वा न्यग्रोधो यूथपति विज्ञप्तो॥ न्यग्रोधेन यूथपतिना तस्या मृगीये अभयं दिन्नं॥ यूथपतिना आणत्तं॥ यस्य इतो यूथातो ओसरो तं विसर्जेहि इति॥ तव इतो यूथतो ओसरो त्वं गच्छाहि॥ सो आह॥ द्वितीयस्य अद्य ओसरो तं नाहं अनोसरे गच्छेयं॥ एवं योयो आणाप्यति सोसो पि न इच्छति अनोसरे गन्तुं॥ तेन आणापकेन मृगेण न्यग्रोधस्य मृगपतिस्य आरोचितं॥ न कोचि इच्छति अनोसरेण गन्तुं जल्पन्ति नास्माकमद्य ओसरो द्वितीयस्य मृगयूथस्य अद्य ओसरो॥ मृगराजा आह॥ मिल्लेहि मये इमस्या मृगीये अभयं दिन्नं। न शक्या सैषा भूयो तत्र महानसं विसर्जयितुं। अहं स्वयं गमिष्यामि॥
सो मृगराजा ततो वनषण्डातो पन्थमोतरित्वा वाराणषीं गच्छति॥ योयो पुरुषो तं मृगराजं पश्यति गच्छन्तं सोसो एतमनुगच्छति॥ मृगो दर्शनीयो रूपेण चित्रोपचित्रो रक्तेहि खुरेहि अञ्जनेहि अक्षीहि प्रभास्वरेहि दर्शनीयेहि॥ महता जनकायेन अग्रतोकृतो गच्छति यावदभ्यन्तरं नगरं प्रविष्टो नागरेहि दृष्टो अभिज्ञातो सो मृगराजा महतो जनकायस्य॥ ते तं पश्यित्वा मृगराजमुत्कण्ठिता

364
तन्तत्तकं मृगयूथं सर्वं क्षपितं अयं यूथपतिः स्वयमागतो॥ गच्छाम राजानं विज्ञापेमः यथैषो मृगराजा मुच्येया न हन्येया अलंकारो इमस्य अधिष्ठानस्य चक्षुरमणीयो जातो निर्धावन्तो उद्याने च तडागे च॥ ते तं मृगं पश्यित्वा चक्षुःप्रीतिभनुभवन्ति॥ तेनैव समहत्तरकेन महता जनकायेन सार्धं मृगराजस्य अनुपृष्ठतो राजकुलं प्रविष्टम्॥ मृगराजा च महानसं प्रविष्टो इमेहि च नैगमेहि राजा अर्थकरणस्मिं उपविष्टो विज्ञप्तो॥ महाराज तत्तकं मृगयूथं सर्वं क्षीणं॥ अहेठका शुष्कार्द्राणि तृणानि भक्षयन्ति न कस्यचि अपराध्यन्ति ते च सर्वे क्षपिता अयं सो यूथपति स्वयमागतो॥ दुर्लभो महाराज एदृशो मृगराजा प्रासादिको दर्शनीयो जनस्य चक्षुरमणीयो॥ नगरातो जना निर्धावन्ति उद्यानं वा तडागं वा आरामं वा पुष्करिणीं वा च ते पि तं मृगराजं पश्यित्वा प्रीता भवन्ति अलंकारभूतं नगरोपवनस्य॥ यदि महाराजस्य प्रसादो भवेया एषो मृगराजा जीवन्तो मुच्येया॥ राज्ञा अमात्या आणत्ता॥ गच्छथ तं मृगराजं महाराजं महानसातो आनेथ॥ सो तेहि अमात्येहि गत्वा महानसातो आनीतो राज्ञो सकाशं॥ राजा तं मृगराजं पृच्छति॥ किं त्वं स्वयमागतो नास्ति भूयो कोचित् मृगो यं तुवं स्वयमागतो ति॥ सो मृगराजा आह॥ न हि महाराज नास्ति अपरे मृगाः॥ किं तु अद्य द्वितीयस्य मृग यूथस्य ओसरो॥ तत्र यस्या मृगीये वारो आपद्यति सा गुर्विणी दुवे पोतका कुक्षिस्मिं॥ सा मृगी वुच्यति गच्छ महानसं तव अद्य वारो॥ द्वितीयमृगयूथे विशाखो यूथपति अस्ति॥ सा तं गत्वा आह॥ मम अद्य ओसरो राज्ञो महानसं गन्तुं किन्तु अहं गुर्विणी दुवे मे पोतका कुक्षिस्मिं इच्छामि अन्यं विसर्जयितुं यं वेलं अहं प्रसूता भविष्यं ततो गमिष्यामि॥ ततो यो अन्यो मृगो आणाप्यति सो न इच्छति गन्तु जल्पति एतस्या मृगीये ओसरो एषा गच्छतूति तेहि मृगेहि न मुच्यति॥ तव अद्य ओसरो त्वं गच्छाहि सा तेहि अमुच्यन्ती मम मूले आगता॥ अहं  ताये

365
विज्ञप्तो मम अद्य ततो यूथातो ओसरो मे दुवे पोतका कुक्षिस्मिं न च तेहि मुच्यामि तदिच्छामि मृगराजेन इतो यूथातो अन्यमाणापयितुं यो राज्ञो महानसं गच्छेया। येन अन्तरेण अहं प्रसूता भविष्यं ततो गमिष्यं॥ तस्या मये मृगीये अभयं दिन्नं मयापि यो मृगो आणाप्यति सो न इच्छति। न अस्माक ओसरो द्वितीयस्य युथस्य ओसरो एवं योयो आणाप्यति सोसो न इच्छति अनोसरस्मिं इहागन्तुं॥ सो हं जानामि मया एतस्या मृगीये अभयं दिन्नं गच्छामि स्वयन्ति सो अहं स्वयमागतो॥ सो राजा तस्य मृगस्य श्रुत्वा विस्मितो सर्वो च जनकायो अहो यावद्धार्भिको मृगराजा॥ तस्य काशिराज्ञो भवति॥ नायं तिरिच्छो यः एषो मृगो परस्य कारणेन आत्मानं परित्यजति धर्मं जानाति। वयं तिरिच्छा ये वयं धर्मं न जानाम ये इमेषां एवरूपाणां सत्वरत्नानामहेठकानां हेठामुत्पद्येम॥ सो तं मृगराजामाह॥ प्रीतो स्मि तव सकाशातो सकृपो च महात्मा च त्वं यं मृगभूतेन ते तस्या आत्मभृत्याये मृगीये अभयं दिन्नं॥ अहं पि तव आगम्य त्वद्वचनात्सर्वमृगानां च अभयं देमि॥ अद्याग्रेण ये च तत्र उद्देशे तेषां सर्वेषां मृगाणां अभयं ददामि गच्छाहि वसथ अभीता अनुत्तस्ता॥ राज्ञा नगरे घण्ठाघोषणा कारापिता॥ न केनचित् मम विजिते मृगा विहेठयितव्या तस्य राज्ञो तेषां मृगानामभयदानप्रदानात्॥
यावद्देवेषु शब्दमभ्युद्गतं॥ शक्रेण देवानामिन्द्रेण राज्ञो जिज्ञासनार्थं अनेकानि मृगशतानि मृगसहस्राणि निर्मितानि॥ सर्वो काशिजनपदो मृगेहि आकीर्णो नास्ति सो क्षेत्रो यत्र न मृगाः॥ जानपदेहि राजा विज्ञप्तो॥
तेन दानि न्यग्रोधेन मृगराज्ञा सा मृगी वुच्यति॥ भद्रे गच्छ विशाखस्य युथं॥ सा आह॥ मृगराज न गमिष्यामि वरं तव मूले मृतं न विशाखमूले जीवितं॥ सा दानि मृगी गाथां भाषति॥

366

न्यग्रोधमेव सेवेया न विशाखमभिप्रार्थयेत्।
न्यग्रोधस्मिं मृतं श्रेयो न विशाखस्मिं जीवितं॥
जानपदा राजं विज्ञापेन्ति॥
उदज्यते जनपदो राष्ट्रं स्फीतं विनश्यति।
मृगा धान्यानि खादन्ति तं निषेध जनाधिप॥
उदज्यतु जनपदि स्फीतं राष्ट्रं विनश्यतु।
न त्वेवं मृगराजस्य वरं दत्त्वा मृषं भणे॥
मृगाणां दायो दिन्नो मृगदायो ति ऋषिपत्तनो॥
द्वादशेहि वर्षेहि बोधिसत्वो तुषितभवनातो च्यविष्यतीति शुद्धावासा देवा ब्राह्मणवेशं निर्मिणिय वेदां च मन्त्रां च द्वात्रिंश महापुरुषलक्षणां ब्राह्मणां वाचेन्ति यथा बोधिसत्वमिहागतं व्याकरेन्सुः॥



uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project