Digital Sanskrit Buddhist Canon

सर्वबुद्धविषयावतारज्ञानालोकालंकार

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2020
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

सर्वबुद्धविषयावतारज्ञानालोकालंकार
नाम महायानसूत्र

नमो बुद्धाय॥ एवं मया श्रुतम् एकस्मिन् समये
भगवान् राजगृहे विहरति स्म। गृध्रकूटे पर्वते ऽनन्त-
रत्नशिखरे धर्मधातुगर्भे प्रासादे महता भिक्षु-
संघेन सार्धं पञविंशतिभिर् भिक्षुसहस्रैः। सर्वैर्
अर्हद्भिः क्षीनास्रवैर् निःक्लेशैर् वशीभूतैः सुविमुक्तचित्तैः
सुविमुक्तप्रज्ञैर् आजानेयैर् महानागैः कृतकृतयैः कृत-
करणीयैर् अपहृतभारैर् अनुप्राप्तस्वकार्थैः परिक्षीण-
भवसंयोजनैः सम्यगाज्ञासुविमुक्तचित्तैः सर्वचेतोवशि-
परमपारमिप्राप्तैः। आज्ञातकौण्डिन्यप्रमुखैश् चाष्ट-
षष्टिभिर् महाश्रावकैः, द्वासप्ततिभिर् बोधिसत्त्वकोटीनियु-
तशतसहस्रैः। तद्यथा मञ्जुश्रिया कुमारभूतेन, धन-
श्रिया च बुद्धिश्रिया च भैषज्यराजेन च भैषज्यसमु-
द्गतेन च बोधिसत्त्वेन महासत्त्वेन। सर्वैर् अवै-
वर्तिकधर्मचक्रप्रवर्तकैः, सर्वै रत्नकूटवैपुल्यसू-
त्रपरिपृच्छाकुशलैः, धर्ममेघभूमिप्रतिलब्धैः, सु-
मेरुभूतैः प्रज्ञया, सर्वैः शून्यतानिमित्ताप्रणिहितानुत्-
पादाजाता भावधर्मपरिभावितैः, महागंभीरधर्म-

(१)

निर्भासैः, तथागतेर्यापथैः, अन्योन्यलोकधातुषु तथाग-
तकोटीनियुतशतसहस्रसंप्रेषितैः, सर्वैर् अभिज्ञापरिकर्-
मनिर्जातैः सर्वधर्मस्वभावप्रकृतिप्रतिष्ठितैः॥

तेन खलु पुनः समयेन भगवत एतद् अभूत्। यन्
न्व्। अहं बोधिसत्त्वानां महासत्त्वानां महाजवबल-
वेगस्थामसंजननार्थं धार्मीं कथां कथयेयम्,
यद् गङ्गानदीवालिकासमेभ्यो लोकधातुभ्यो महौजस्क-
महौजस्कान् बोधिसत्त्वान् महासत्त्वान् संनिपातेयम्। यन्
न्व् अहं महाधर्मनिर्देशस्य परिदीपनायै निमित्तम्
आदर्शयेयम्, महान्तम् अवभासं कुर्याम्। यन् मे बोधिसत्त्वा
महासत्त्वा आगत्य महाधर्मनिर्देशं परिपृच्छेयुर् इति।

अथ खलु भगवांस् तस्यां वेलायां दशसु दिक्ष्व् असं-
ख्येयाचिन्त्यत्रिसाहस्रमहासाहस्रलोकधातुपरमाणुरजः-
समं लोकधातुं महारश्मिमेघैर् अवभासयति स्म।

तेन खलु पुनः समयेन दशभ्यो दिग्भ्य एकैकस्माद्
दिग्भागाद् दशबुद्धक्षेत्रानभिलाप्यकोटीनियुतशतसहस्र-
परमाणुरजःसमा बोधिसत्त्वा महासत्त्वा आगच्छन्ति स्म।

(२)

तेषाम् एकैको बोधिसत्त्वो महासत्त्वोऽचिन्त्याभिर् बोधिसत्त्व-
विकुर्वणाभिर् आगत्य भगवतो ऽनुरूपाम् अचिन्त्यां पूजां
कृत्वा स्वकस्वकप्रणिधानबलनिर्जातेषु पद्मासनेषु
भगवतः पुरतो न्यषीदन्। भगवन्तम् अनिमिषं
निरीक्षमाणा स्थिता अभूवन्॥

तेन खलु पुनः समयेन धर्मधातुगर्भे प्रासाद-
मध्ये महारत्नपद्मगर्भसिंहासनं प्रादुरभूत्।
असंख्येययोजनकोटीविस्तारम्, अनुपूर्वसमुच्छ्रितम्,
सर्वप्रभासमणिरत्नमयम्, विद्युत्प्रदीपम्, मणिरत्न-
वेदिकापरिवृतम्, अचिन्त्यप्रभासमणिरत्नदण्डम्, अन्-
उपममणिरत्नपरिवारम्, अनुपमातिक्रान्तप्रभावमणि-
रत्नदामकृतशोभम्, वशिराजमणिरत्नजालसंछन्नम्,
नानामणिरत्नप्रत्युप्तम्, समुच्छ्रितच्छत्रध्वजपता-
कम्। तस्य च महामणिरत्नपद्मगर्भसिंहासनस्योपरि
समन्ताद् दशासंख्येयानि रश्मिकोटीनियुतशतसहस्राणि
निश्चरन्ति स्म। ते च रश्मयो दशसु दिक्ष्व् अन्योन्यान्
लोकधातून् महतावभासेन स्फरन्ति स्म।

तेन खलु पुनः समयेन दशदिश्य् एकैकस्माद् दिग्भागाद्
दशबुद्धक्षेत्रानभिलाप्यकोटीनियुतशतसहस्रपरमाणु-
रजःसमा देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहो-
रगशक्रब्रह्मलोकपाला आगच्छन्ति स्म। तत्र केचिद् रत्न-

(३)

कूटागारनिषण्णासंख्येयाचिन्त्याप्सरःकोटीनियुतशतसहस्-
रसंगीतिसंप्रवादितैर् आगच्छन्ति स्म। केचित् पुष्पमयैः,
केचिद् उरगसारचन्दनमयैः, केचिद् मुक्तामयैः, केचिद्
वज्रमयैः, केचिद् वज्रप्रभासमणिरत्नमयैः, केचिज् जाम्-
बूनदसुवर्णमयैः, केचित् सर्वप्रभाससमुच्चयमणि-
रत्नराजमयैः, केचिद् वशिराजमणिरत्नमयैः, केचिच् चिन्ता-
मणिरत्नमयैः, केचिच् छक्राभिलग्नमणिरत्नमयैः, के-
चित् सागरप्रतिष्ठानविशुद्धरत्नव्यूहसमन्तरश्मि-
प्रभामणिमहारत्नमयकूटागारनिषण्णासंख्येयाचिन्त्या-
प्सरःकोटीनियुतशतसहस्रसंगीतिसंप्रवादितैर् आगच्छन्ति
स्म। आगत्य च भगवतो ऽचिन्त्यातुल्यामाप्यां परिमाणा-
भिक्रान्तां पूजां कृत्वा, एकान्ते स्वप्रणिधाननिर्जातेष्व्
आसनेषु निषीदन्ति स्म। निषीद्य भगवन्तम् अनिमिषं
निरीक्षन्तः स्थिता अभूवन्।

तेन खलु पुनः समयेनायं त्रिसाहस्रमहासाहस्रो
लोकधातुर् जाम्बूनदसुवर्णमयः संस्थितो ऽभूत्। नाना-
महामणिरत्नवृक्षैर् दिव्यैः पुष्पवृक्षैर् वस्त्रवृक्षैर्
उरगसारचन्दनगन्धवृक्षैर् अलंकृतः, चन्द्रसूर्यवि-
द्युत्प्रदीपमणिरत्नजालसंच्छन्नः, उच्छ्रितच्छत्रध्व-
जपताकः। सर्ववृक्षाश् चासंख्येयाप्सरःकोटीनियुतशत-
सहस्रार्धकायिका मुक्ताहारपरिगृहीता महामणिरत्नदाम-
परिगृहीताः स्थिता अभूवन्॥

(४)

तेन खलु पुनः समयेन ततो महामणिरत्नपद्म-
गर्भात् सिंहासनाद् इमा गाथा निश्चरन्ति स्म।

आगच्छ निषीद नरेन्द्रराजा
अहं हि ते पुण्यबलेन उद्गतः।
संपूर्णसंकल्प अहं त्वम् अद्य
संधारयिष्ये द्विपदोत्तमं जिनम्॥१॥

ममात्मभावो रतनामयो ह्य् अयं
रत्नैकपद्मं मम मध्यसंस्थितम्।
मनोरमं तुभ्य कृतेन नायकाः
संकल्प पूरेहि ममाद्य तायिनः॥ २॥

निषद्य रत्नामयि पद्मि अस्मिं
शोभेहि मां सर्वम् इमं च लोकम्।
देशेहि धर्मं बहुप्राणिकोटिनां
यं श्रुत सिंहासन ईदृशं लभेत्॥३॥

रश्मी सहस्रा तव गात्रसंभवाः
प्रभासयन्तो बहुलोकधातुम्।
प्रामोद्यजातस्य हि लक्षणम् इमं
समाक्रमा मह्य कृतेन नायकाः॥४॥

(५)

क्षिप्रं निषीदस्व कुरुष्व ऽनुग्रहं
पूर्वं मया धारित अष्टकोटियः।
अस्मिन् प्रदेशे मुनिनां स्वयंभुवां
भगवन् पीहाद्य करोत्व् अनुग्रहम्॥५॥

अथ खलु भगवान् उत्थाय पूर्वकाद् आसनात् तत्र
महारत्नपद्मगर्भे सिंहासने निषद्य पर्यङ्कंबद्धी
सर्वावन्तं बोधिसत्त्वगणं स्ववलोकयति स्म। सामुत्कर्-
षिकायाश् च धर्मदेशनायास् तेषां बोधिसत्त्वानां महा-
सत्त्वानां निमित्तम् अकार्षीत्।

तेन खलु पुनः समयेन सर्वावान् बोधिसत्त्वगण
एवं चिन्तयति स्म। यन् न्व् अयं मञ्जुश्रीः कुमारभूतो
ऽनुत्पादानिरोधं तथागतम् अर्हन्तं सम्यक्संबुद्धं
परिपृच्छेत्, चिरश्रुतो ऽयम् अस्माभिर् धर्मपर्याय इति।

अथ खलु मञ्जुश्रीः कुमारभूतो भगवतो ऽन्तिकान्
निमित्तं विदित्वा तेषां च बोधिसत्त्वानां महासत्त्वानां
चेतसैव चेतःपरिवितर्कम् आज्ञाय भगवन्तम् एतद् अवोचत्
। अनुत्पादो ऽनिरोध इति भगवन्न् उच्यते, कतमस्यैतद्
भगवन् धर्मस्याधिवचनम् अनुत्पादो ऽनिरोध इति।
इमाश् च गाथा अभाषत्।

अनिरोधम् अनुत्पादं
ब्रवीषि त्वं विनायक।

(६)

तत् कीदृशं महाप्राज्ञ
तस्य निरुक्तिलक्षणम्॥१॥

अनिरोधम् अनुत्पादं
कथम् एष निगद्यते।
दृष्टान्तैर् हेतुभिश् चैव
कथयस्व महामुने॥२॥

समागतेमे बहुबोधिसत्त्वा
ज्ञानार्थिनस् त्वां च विभो ऽभिवन्दितुम्।
संप्रेषिता लोकविनायकेभिर्
देशेहि सद्धर्मम् उदारम् उत्तमम्॥३॥

एवम् उक्ते भगवान् मञ्जुश्रियं कुमारभूतम् एतद्
अवोचत्। साधु साधु मञ्जुश्रिः, साधु खलु पुनस् त्वं
मञ्जुश्रीस् तथागतम् एतम् अर्थं परिप्रष्टव्यं मन्यसे
। बहुजनहिताय त्वं मञ्जुश्रीः प्रतिपन्नो बहुजनसुखाय
लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय
देवानां च मनुष्याणां चैतर्ह्य् आगतानां च बोधि-
सत्त्वानां महासत्त्वानां बुद्धभूमिप्रापणार्थम्। अन्-
उत्त्रासस् ते मञ्जुश्रीर् अस्मिन् स्थाने योगः करणीयो न

(७)

भयं न स्तम्भितत्वम्। ज्ञानप्रतिसरणेन च ते
मञ्जुश्रीर् भवितव्यम्। तथागतस्यैतम् अर्थं निर्देश-
तः। अनुत्पादो ऽनिरोध इति मञ्जुश्रीस् तथागतस्यैतद्
अधिवचनम्। तद्यथा मञ्जुश्रीर् इयं महापृथिवी
महावैडूर्यमयी संस्थिता भवेत्। एवं च संस्थिता
भवेद् यथा तस्यां वैडूर्यमयां महापृथिव्यां
त्रयस्त्रिंशद्भवनस्य, शक्रस्य देवानाम् इन्द्रस्य,
वैजयन्तस्य च प्रासादस्य प्रतिभासः संदृश्येत्। शक्रश्
च देवानाम् इन्द्रस् तत्र दिव्यैः पञ्चभिः कामगुणैः
क्रीडन् रममाणः परिचारयन् संदृश्येत्।

अथ तस्मिन् समये देवाः सर्वजम्बूद्वीपकाः स्त्रीपु-
रुषदारकदारिकाः संचोदयेयुः। आगच्छथ भो नरनार्यः।
पश्यतेमं शक्रं देवानाम् इन्द्रं वैजयन्ते प्रासादे
दिव्यैः पञ्चभिः कामगुणैः क्रीडन्तं रमन्तं परि-
चारयन्तम्। आगच्छथ भो नरनारिगणाः। दानानि ददत
पुण्यानि कुरुत। शीलं च समादाय वर्तयत। ईदृशेषु
वैजयन्तेषु प्रासादेषु क्रीडिष्यथ रमिष्यथ परिचार-
यिष्यथ शक्रत्वानि च करिष्यथ। ईदृश्या च रिद्ध्या
समन्वागता भविष्यथ। यादृश्या च शक्रो देवानाम् इन्द्रो
दिव्यैः परिभोगैः समर्पितः समन्वङ्गीभूत इति।

अथ मञ्जुश्रीस् ते स्त्रीपुरुषदारकदारिकास् तस्यां वै-
डूर्यमयां महापृथिव्यां त्रयस्त्रिंशद्भवनस्य, वै-
जयन्तस्य प्रासादस्य, शक्रस्य देवानाम् इन्द्रस्य प्रति-
भासं दृष्ट्वाञ्जलिप्रगृहं कुर्युः। पुष्पाणि च क्षिपेरन्

(८)

गन्धांश् च क्षिपेरन्न् एवं वाचं भाषन्ते। वयम् अप्य्
एवंरूपा भवेम यादृशः शक्रो देवानाम् इन्द्रः, वयम्
अप्य् एवं वैजयन्ते प्रासादे क्रीडेम रमेम परिवारयेम
यथायं शक्रो देवानाम् इन्द्र इति।

न च ते सत्त्वा एवं संजानन्ति स्म। प्रतिभासो ऽयं
वैडूर्यमयां महापृथिव्यां यत्र त्रयस्त्रिंशद्भव-
नम्, वैजयन्तश् च प्रासादः, शक्रश् च देवानाम् इन्द्रः
परिशुद्धत्वाद् महावैडूर्यस्य प्रतिभासः संदृश्यत इति।
ते शक्रत्वम् अभिनन्दन्तो दानानि च ददति, पुण्यानि च कुर्वन्ति,
शीलं च समादाय वर्तन्ते। तत्र च त्रयस्त्रिंशद्भवने
प्रतिभास उपपत्तये कुशलमूलानि च परिणामयन्ति।

यथा मञ्जुश्रीः तत्र च वैडूर्यमयां महा-
पृथिव्यां नास्ति तत्र त्रयस्त्रिंशद्भवनम्, न वैजयन्तश्
च प्रासादः, न च शक्रो देवानाम् इन्द्रः। अपि तु परि-
शुद्धत्वाद् महावैडूर्यस्य संदृश्यते त्रयस्त्रिंशद्भ-
वनम्, वैजयन्तश् च प्रासादः, शक्रस्य देवानाम् इन्द्रः।
स चासन् नोत्पन्नो न निरुद्धः परिशुद्धत्वाद् महा-
वैडूर्यस्य प्रतिभासः संदृश्यते।

एवम् एव मञ्जुश्रीः परिशुद्धत्वाच् चित्तस्य सुभावितत्वाद्
भावनायाः सत्त्वानां तथागतात्मभावदर्शनं भवति।
तथागतानुभावेन मञ्जुश्रीः सत्त्वास् तथागतं पश्यन्ति।
स चाभूतो ऽनुत्पन्नो ऽनिरुद्धो न भावो नाभावो न दृश्यो
नादृश्यो न लोक्यो नालोक्यो न चैत्यो नाचैत्यो न सन् नासन्।

अथ च मञ्जुश्रीः सत्त्वास् तथागतप्रतिभासम् आरम्ब-
णीकृत्वा पुष्पाणि क्षिपन्ति, गन्धान् वस्त्राणि रत्नानि च क्षिपन्ति।
एवं च वाचं भाषन्ते। वयम् अप्य् एवंरूपा भवेम
यादृशस् तथागतो ऽर्हन् सम्यक्संबुद्ध इति। ते बुद्ध-
ज्ञानाभिलाषिणो दानानि च ददति, पुण्यानि च कुर्वन्ति, शीलं
च समादाय वर्तन्ते। तच् च कुशलमूलं तथागतज्ञान-

(९)

प्रतिलम्भाय परिणामयन्ति। तद्यथा मञ्जुश्रीस् तत्र महा-
वैडूर्यमयां महापृथिव्यां शक्रस्य देवानाम् इन्द्रस्य
प्रतिभासो नेञ्जति, न मन्यते, न प्रपञ्चयति, न कल्पयति,
न विकल्पयति। अकल्पो ऽविकल्पो ऽचिन्त्यो ऽमनसिकारः
शान्तः शीतीभूतो ऽनुत्पादो ऽनिरोधो ऽदृष्टो ऽश्रुतो ऽनाघ्रातो
ऽनास्वादितो ऽस्पृष्टो ऽनिमित्तो ऽविज्ञप्तिको ऽविज्ञापनीयः।

एवम् एव मञ्जुश्रीस् तथागतो ऽर्हन् सम्यक्सम्बुद्धो
नेञ्जति, न मन्यते, न प्रपञ्चयति, न कल्पयति, न
विकल्पयति। अकल्पो ऽविकल्पो ऽचिन्त्यो ऽमनसिकारः शान्तः
शीतीभूतो ऽनुत्पादो ऽनिरोधो ऽदृष्टो ऽश्रुतो ऽनाघ्रातोऽनास्वादितो
ऽस्पृष्टोऽनिमित्तोऽविज्ञप्तिको ऽविज्ञापनीयः। अनुत्पादगतिको हि
मञ्जुश्रीस् तथागतः। अथ च प्रतिबिम्ब इव लोकेषु दृश्यते।
यथाधिमुक्तिकानां च सत्त्वानां दर्शनवैमात्रतया,
आयुःप्रमाणवैमात्रतां दर्शयति। परिपाचनाधिमुक्ति-
बलाधानतया बोधिभाजनेषु सत्त्वेषु प्रतिभासप्राप्तो
भवति। यथाशयाधिमुक्त्या च सत्त्वा धर्मं शृण्वन्ति।
यथाशयेन त्रियानम् इति संजानन्ति, यथाशयेन चाधि-
मुच्यन्ते॥

तद्यथा मञ्जुश्रीर् देवानां त्रयस्त्रिंशानां पुण्यबल-
परिनिष्पन्नानां धर्मशब्दानां महाधर्मदुन्दुभिर्
उपरि वैजयन्तस्य प्रसादस्यान्तरीक्षगता चक्षुःपथ-
समतिक्रान्ता, अदृश्या, अनालोक्या सर्वदेवपुत्रैः।
अथ च पुनर् मञ्जुश्रीः सा महाधर्मदुन्दुभिः। यस्मिन्

(१०)

समये देवास् त्रयस्त्रिंशत्कायिका तीव्रसततसमितं दिव्यैः
कामक्रीडारतिपरिभोगैः प्रमत्ता भवन्ति, न भूयः
सुधर्मायां देवसभायां प्रविश्य धर्मं संगायन्ति,
शक्रश् च यदा देवानाम् इन्द्रो दिव्यैः कामक्रीडरतिपरि-
भोगैः प्रमत्तो भवति, न धर्मासने निषद्य धर्मं
भाषते।

तस्मिन् समये मञ्जुश्रीः सा महाधर्मदुन्दुभिर् अदृष्या
चा नालोक्या चक्षुःपथसमतिक्रान्तान्तरीक्षगता तादृशं
धर्मशब्दं निश्चारयति। येन च धर्मशब्देन सर्वांस्
त्रयस्त्रिंशत्कायिकान् देवान् स्वरेण विज्ञपयति। अनित्या मार्षा
रूपशब्दगन्धरसस्पर्शा मा प्रमत्तचारिणो भवथ।
मा क्षिप्रम् अस्माद् भवनाच् च्यविष्यथ। दुःखा मार्षाः
सर्वसंस्काराः, अनात्मनो मार्षाः सर्वसंस्काराः, शून्या
मार्षाः सर्वसंस्कारा मा प्रमादम् आपद्यथ। दुःखम्
इतश् च्यवितानां पुनर् अत्रोपपत्तिर् भविष्यति। संगायत
मार्षा धर्मम्, धर्मारामरतिरता भवथ धर्मसाराः,
धर्मनिम्नाः, धर्मप्रवणाः, धर्मानुस्मृतिमनसिकाराः।
मार्षा विहरथ यूयं पुनर् एभिर् एवं दिव्यैः काम-
क्रीडारतिपरिभोगैः, अविरहिता भविष्यथेति।

तेन खलु पुनर् मञ्जुश्रीः समयेन तस्या अदृश्या
अरूपिण्या अकल्प्याया अविकल्पायाश् चक्षुःपथसमतिक्रान्ताया
अनुत्पन्नानिरुद्धाया वाक्पथसमतिक्रान्तायाश् चित्तमनो-
विज्ञानापगताया महाधर्मदुन्दुभेः शब्देन सर्वे
त्रयस्त्रिंशत्कायिका देवाः संचोदिता भीतास् त्रस्ता उद्वि-

(११)

ग्नोद्विग्नाः सुधर्मायां देवसभायां प्रविश्य धर्मा-
रामरतिरता विहरन्ति। धर्मसाराः, धर्मनिम्नाः, धर्म-
प्रवणाः, धर्मानुस्मृतिमनसिकारा भवन्ति। ते ततश् च्युता
विशेषगामिनो भवन्ति। शक्रश् च देवानाम् इन्द्रस् तस्मिन्
समये सुधर्मायां देवसभायां प्रविश्य धर्मासने
निषद्य धर्मं देशयति।

यदा च मञ्जुश्रीर् असुरा देवैः सार्धं संग्रामयन्ति।
तत्र यदा त्रयस्त्रिंशा देवाः पराभवं गच्छन्ति। तदा सा
धर्मदुन्दुभी तादृशशब्दं निश्चारयति। येन शब्देनासुरा
भीतास् त्रस्ता उद्विग्नोद्विग्नाः पलायन्ति।

न च मञ्जुश्रीस् तस्या महाधर्मदुन्दुभेः कश्चित्
संपादयिता वात्मभावो वा संविद्यते। अदृश्या मञ्जुश्रीः
सा महाधर्मदुन्दुभिर् अनालोक्या सत्याभूताचित्ताचेतना-
निमित्तारूपिण्यरुतानात्म भावाद्वया चक्षुःपथसमति-
क्रान्ता।

अथ च मञ्जुश्रीस् त्रयस्त्रिंशत्कायिकानां देवपुत्राणां
पूर्वपरिकर्मकृतानां महाधर्मदुन्दुभेः शब्दो निश्-
चरति। त्रायस्त्रिंशानां देवपुत्राणां सर्वोपद्रवोपाया-
सोपक्लेशोपशान्तये संवर्तते।

यथा मञ्जुश्रीस् तस्या महादुन्दुभेर् अदृश्यो ऽनात्म-
भावो ऽनालोक्यो ऽसन्न् अभूतो ऽचिन्तो ऽचेतनो ऽनिमित्तो

(१२)

ऽरूप्य् अरुतो ऽभावो ऽद्वयश् चक्षुःपथसमतिक्रान्तः, पूर्व-
कर्मविपाकेन त्रयस्त्रिंशत्कायिकानां देवपुत्राणां सर्वो-
पद्रवोपायासोपक्लेशोपशान्तये शब्दो निश्चरति। प्रमत्तांश्
च द्वपुत्रान् धर्मशब्देन संचोदयति। स च धर्म-
शब्दस् त्रयस्त्रिंशत्कायिकानां देवपुत्राणां सर्वोपद्रवो-
पायासोपक्लेशोपशान्तये संवर्तते।

एवम् एव मञ्जुश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धो
ऽदृश्यो ऽनालोक्यो ऽनात्मभावो ऽसन्न् अभूतो ऽचित्तो ऽचेतनो ऽनिमित्तो
ऽरूप्य् अरुतो ऽद्वयो ऽभावश् चक्षुःपथसमतिक्रान्तः।

अथ च मञ्जुश्रीः सत्त्वाः पूर्वकर्मविपाकेन यथाशया-
धिमुक्त्या धर्मशब्दं निश्चरन्तं संजानन्ति। स च
धर्मशब्दः सर्वसत्त्वानां सर्वोपद्रवोपायासोपक्लेशो-
पशान्तये संवर्तते। धर्मस्वरनिर्घोषेण तथागत-
घोषस्वर इति लोके संख्यां गच्छति।

नास्ति च मञ्जुश्रीस् तथागतः, अथ च धर्मस्वर-
घोषेन तथागत इति प्रज्ञप्तिर् लोके संभवति। सत्त्वानाम्
एव पूर्वकुशलकर्मविपाकेन तथागतशब्दं निश्चरन्तं
सत्त्वाः संजानन्ति। सर्वसत्त्वानां सर्वसुखजननार्थं
प्रमत्तानां च संचोदनार्थं शब्दो निश्चरति। ते
मञ्जुश्रीः सत्त्वाः शब्दं श्रुत्वा तथागतं संकल्पयन्ति।
अयं तथागतस्यात्मभाव इति।

आदिकर्मिकाणां च बोधिसत्त्वानां सर्वबालपृथग्जना-
नां च तथागतारम्बणकुशलमूलसंजननार्थं तथा-
गतवाक् श्रूयते। अपि त्व् अनुत्पन्नो ऽनिरुद्धो मञ्जुश्रीस्
तथागतो वेदितव्यः॥

(१३)

तद्यथा मञ्जुश्रीर् निदाघकालावसाने वर्षाणां प्रथमे
मास्य् आगते सत्त्वानां पूर्वकर्मविपाकेन पृथिवीगतानां
बीजग्रामभूतग्रामस्य सर्वतृणगुल्मौषधिवनस्पतीनां
संजननार्थम् उपरि वैहायस्य् आन्तरीक्ष आकाशे तादृशा
वयावो वान्ति। येनोदकं संभवति। संभूतं च
महापृथिव्यां प्रपतति। तेन च सर्वी महापृथिवी
संतर्पिता भवति। सर्वे जम्बूद्वीपकाश् च सत्त्वास् तस्मिन्
समये प्रमुदिता भवन्ति। सौमनस्यजातास् तस्य मेघ
इति। संज्ञा लोके संभवति।

यस्मिन् खलु पुनर् मञ्जुश्रीः समय उपर्य् अन्तरीक्षाद्
महान् उदकस्कन्धो न निपतति, तस्मिन् समये सर्वजम्-
बूद्वीपकाः सत्त्वा एवं चिन्तयन्ति। नात्र मेघः संभवति।
यदा तु मञ्जुश्रीर् उपर्य् अन्तरीक्षाद् महान् वारिस्कन्धो
महापृथिव्यां निपतति, सत्त्वा एवं वदन्ति। अहो महामेघो
वारि प्रमुञ्चति संतर्पयति महापृथिवीम् इति। न पुनर्
अत्र मञ्जुश्रीर् मेघो वा मेघप्रज्ञप्तिर् वा विद्यते। वात-
संजनितो मञ्जुश्रीर् उपर्य् अन्तरीक्षाद् महान् उदकस्कन्धो
निपतति। सोऽप्स्कन्धो मञ्जुश्रीस् तत्रैवान्तरीक्षे ऽन्तर्-
धीयते। सत्त्वानां पूर्वकर्मविपाकेन।

यथा मञ्जुश्रीस् तस्य वारिस्कन्धस्योपर्य् अन्तरीक्षे वात-
संक्षोभेण संवार्यमाणस्य मुञ्चतो वारि मेघ इति प्र-
ज्ञप्तिर् भवति। सत्त्वानां पूर्वकर्मविपाकेन। न पुनर्
अत्र मञ्जुस्रीर् मेघः संविद्यते, न मेघप्रज्ञप्तिः।

(१४)

अनुत्पन्नो ऽनिरुद्धो मञ्जुश्रीर् मेघश् चित्तगत्यनवतार
आगतिगतिविनिर्मुक्तः।

एवम् एव मञ्जुश्रीः पूर्वकुशलमूलसंभारोपचितानां
बोधिसत्त्वानां महासत्त्वानां चान्येषां च सत्त्वानां श्राव-
कप्रत्येकबुद्धज्ञानाभिप्राणाम् अवरोपितकुशलमूलानां
च सत्त्वानां निर्वाणमार्गसंदर्शनहेतुकानाम् आसंग-
प्रतिभानस् तथागतो ऽर्हन् सम्यक्षंबुद्धो लोक उत्पन्न
इति संख्यां गच्छति। स यद् भाषते तत् सर्वं तथा-
वितथानन्यथा, तस्य देवमनुष्येषु तथागत इति नाम
कृतम्। अथ च मञ्जुश्रीः शब्दो निश्चरति देवमनुष्येषु
यदुत तथागत इति। न पुनर् मञ्जुश्रीस् तथागतः
संविद्यते। अनिमित्तो मञ्जुश्रीस् तथागतो निमित्तापगतो न
देशस्थो न विदेशस्थः, अभूतो ऽनुत्पन्नो ऽनिरुद्धः। तत्
खलु पुनर् मञ्जुश्रीस् तथागतप्रतिभासः सदेवकं लोकं
धर्मेण संतर्पयित्वा संप्रवारयित्वा, आदिकर्मिकाणां
च बोधिसत्त्वानां चान्येषां च सर्वबालपृथग्जनानां
निर्वाणवैनयिकानां पूर्वकर्मविपाकेनादर्शनाभासो
भवति।तेषाम् एवं भवति। परिनिर्वृतस् तथागत इति। न
मञ्जुश्रीस् तथागत उत्पद्यते वा निरुध्यते वा।

अनुत्पन्नो ऽनिरुद्धो मञ्जुश्रीस् तथागतः। आदिपरिनिर्वृतो
मञ्जुश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धः। यथा मञ्जु-

(१५)

श्रीर् उदकारम्बणेनाभूतस्य मेघस्यानुत्पन्नानिरुद्ध-
स्यासतो मेघप्रज्ञप्तिः स्थिता लोके मेघ इति। एवम् एव
मञ्जुश्रीर् धर्मदेशनारम्बणेनाभूतस्य तथागतस्यानुत्-
पन्नानुरुद्धस्यासत आदित एवाजातस्य नामप्रज्ञप्तिः स्थिता
लोके तथागतो ऽर्हन् सम्यक्संबुद्ध इति॥

तद्यथापि मञ्जुश्रीर् महाब्रह्मानभिभूर् दशत्रिसाह-
स्रमहासाहस्रवशवर्ती दिवसे दिवसे सर्वदेवनिकायान्
व्यवलोकयति, यावच् चातुर्महाराजिकदेवनिकायपर्यन्तान्।
तेन खलु पुनर् मञ्जुश्रीः समयेन तस्य महाब्रह्मणो
दशत्रिसाहस्रमहासाहस्रवशवर्तिनः सर्वदेवनिकायान्
व्यवलोकयतः, सर्वदेवनिकायेषु सर्वदेवपुत्राः स्वक-
स्वकान् कामक्रीडारतिपरिभोगांस् त्यक्त्वा सर्वतूर्यताडा-
वचरसंगीतिं शमयित्वा, कामक्रीडारतिमनसिकारोत्सृष्टाः
सगौरवा अञ्जलिं प्रगृह्य महाब्रह्माणम् अनिमिषं
व्यवलोकयन्ति। स च महाब्रह्मा सर्वदेवनिकायेषु
मुहुर्तं दर्शनं ददाति। ते च देवपुत्रास् तस्मिन् समये
महाब्रह्मलोकोपपत्तिम् आकाङ्क्षन्ति, महाब्रह्मलोकोप-
पत्तये च कुशलमूलानि परिणामयन्ति।

स च मञ्जुश्रीर् महाब्रह्माच्यवमानस् ततो ब्रह्म-
विमानाद् अन्यम् अधितिष्ठति महाब्रह्माणं दशत्रिसाहस्र-
महासाहस्रवशवर्तिनं पूर्वप्रणिधानाधिष्ठानेन तेषां
च देवपुत्राणां पूर्वकुशलमूलोपचयेन।

(१६)

स च  मञ्जुश्रीर् निर्मितो महाब्रह्मा दिवसे दिवसे सर्व-
देवनिकायान् व्यवलोकयति, यावच् चातुर्महाराजकायिकदेव-
निकायान्। तेन खलु पुनर् मञ्जुश्रीः समयेन सर्वेषु
देवनिकायेषु सर्वदेवपुत्राः स्वकस्वकान् कामक्रीडारति-
परिभोगांस् त्यक्त्वा सर्वतूर्यताडावचरसंगीतिं प्रश-
मयित्वा, कामक्रीडारतिमनसिकारोत्सृष्टाः सगौरवा अञ्जलिं
प्रगृह्य महाब्रह्माणम् अनिमिषं व्यवलोकयन्ति स्म।
स च महाब्रह्मा सर्वदेवनिकायेषु मुहूर्तं दर्शनं
ददाति, न च स्थानाच् चलति। ते च देवपुत्रास् तस्मिन् समये
महाब्रह्मलोकोपपत्तिम् आकाङ्क्षन्ति, ब्रह्मलोकोपपत्तये
च कुशलमूलानि परिणामयन्ति।

न चात्र मञ्जुश्रीर् ब्रह्मा संविद्यते। शून्यो ऽयं
मञ्जुश्रीर् ब्रह्मा वशिको ऽभूतो ऽनक्षरो ऽघोषो ऽदेशो ऽभावो
ऽचिन्त्यो ऽनिमित्तश् चित्तमनोविज्ञानापगतो ऽनुत्पन्नो ऽनिरुद्धः।
अथ च मञ्जुश्रीः सर्वदेवनिकायेषु दर्शनाभासो भवति,
तस्यैव महाब्रह्मणः पूर्वकुशलमूलप्रणिधानाधिष्ठा-
नेन तेषां च देवपुत्राणां पूर्वकुशलमूलोपचयेन। न
च मञ्जुश्रीस् तेषां देवपुत्राणाम् एवं भवति। निर्मितो
ऽयं ब्रह्मा, शून्यो वशिको ऽभूतो ऽनक्षरो ऽघोषो ऽदेशो
ऽभावो ऽचिन्त्यो ऽनिमित्तश् चित्तमनोविज्ञानापगतो ऽनुत्पन्नो
ऽनिरुद्धो वेति।

एवम् एव मञ्जुश्रीस् तथागतोऽप्य् अर्हन् सम्यक्संबुद्धः
शून्यो वशिको ऽभूतो ऽनक्षरो ऽघोषो ऽदेशो ऽभावो ऽचिन्त्यो
ऽनिमित्तश् चित्तमनोविज्ञानापगतो ऽनुत्पन्नो ऽनिरुद्धः। अथ
च पुनर् मञ्जुश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धः पूर्व-

(१७)

बोधिसत्त्वचर्याप्रणिधानाधिष्ठानेन, आदिकर्मिणां च बो-
धिसत्त्वानां सर्वश्रावकप्रत्येकबुद्धयानसंप्रस्थिता-
नां च सर्वबालपृथग्जनानां सर्वकुशलमूलाधिष्ठानेन
लक्षणशतसहस्रालंकृतस् तथागतः प्रतिबिम्बम् इव लोके
संदृश्यते, न च स्थानाच् चलति।

न च मञ्जुश्रीर् आदिकर्मिकाणां च बोधिसत्त्वानां सर्व-
श्रावकप्रत्येकबुद्धयानिकानां सर्वबालपृथग्जना-
नां चैवं भवति। शून्यस् तथागतो वशिको ऽभूतो ऽनक्षरो
ऽघोषो ऽदेशो ऽभावो ऽचिन्त्यो ऽनिमित्तश् चित्तमनोविज्ञानापगतो
ऽनुत्पन्नो ऽनिरुद्धो चेति। अथ च मञ्जुश्रीस् तथागतात्मभावाल्
लक्षणशतसहस्रालंकृतात् सर्वतथागतेर्यापथेषु शून्येषु
नानाविधिविचित्राणां नानाधिमुक्तानां सत्त्वानां महा-
धर्मदेशाना निश्चरति। सा च धर्मदेशना सर्वसत्त्वानां
सर्वोपद्रवोपायासोपक्लेशोपशान्तये संवर्तते। तत्र च
तथागतः समयः सर्वत्रोपेक्षको निर्विकल्पो निर्विशेषः।
तद् अनेनापि ते मञ्जुश्रीः पर्यायेणैवं वेदितव्यम्, अनुत्पादो
ऽनिरोध इति तथागतस्यैतद् अधिवचनम् इति॥

अथ खलु भगवांस् तस्यां वेलायाम् इमे गाथे अभाषत्।

(१८)

अनुत्पादधर्मः सततं तथागतः
सर्वे च धर्माः सुगतेन सादृशाः।
निमित्तग्राहेण तु बालबुद्धयो
असत्सु धर्मेषु चरन्ति लोके॥१॥

तथागतो हि प्रतिबिम्बभूतः
कुशलस्य धर्मस्य अनास्रवस्य।
न चात्र तथता न तथागतो ऽस्ति
बिम्बं च संदृश्यति सर्वलोके॥२॥

तद्यथा मञ्जुश्रीः सूर्यरश्मयो जम्बूद्वीपे पूर्वतरम्
एवतावद् महाशैलेन्द्रराजानम् अवभासयन्ति। ततः पश्चाच्
चक्रवाडान् महाचक्रवाडान् अवभासयन्ति। ततः पश्चाद्
उच्चोच्चान् पृथिवीप्रदेशान् अवभासयन्ति। ततः पश्चाद्
इह जम्बूद्वीपे निम्नान् पृथिवीप्रदेशान् अवभासयन्ति। ते
च मञ्जुश्रीः सूर्यरश्मयो न कल्पयन्ति, न विकल्पयन्ति,
न चिन्तयन्ति, न विचिन्तयन्ति। चित्तमनोविज्ञानापगता मञ्जु-
श्रीः सूर्यरश्मयः, अनुत्पन्ना अनिरुद्धाः, अलक्षणा लक्ष-
णापगताः, अमनस्कारा मनस्कारापगताः, अप्रपञ्चाः प्र-

(१९)

पञ्चापगताः, अपरिदाहा निष्परिदाहाः, नौरस्था न पर-
स्थाः, नोच्चा न नीचाः, न बद्धा न मुक्ताः, न ज्ञानवन्तो
नाज्ञानवन्ताः, न संक्लेशा न निःक्लेशाः, न सत्यवादिनो न मृषावादिनः, न तीरे न निम्ने, न स्थले नौघे, न तर्का-
वचरा नातर्कावचराः, न रूपिणो नारूपिणः। अथ च पुनर्
मञ्जुश्रीः पृथिव्याम् उच्चनीचमध्यविशेषेण हीनमध्योत्-
कृष्टावभासस्य च्छाया वैचित्र्यं भवति।

एवम् एव मञ्जुश्रीस् तथागतो ऽप्य् अर्हन् सम्यक्संबुद्धो
न कल्पयति, न विकल्पयति, न चिन्तयति, न विचिन्तयति।
चित्तमनोविज्ञानापगतो मञ्जुश्रीस् तथागतः, अनुत्पन्नो
ऽनिरुद्धः, अलक्षणो लक्षणापगतः, अमनस्कारो मनस्कारा-
पगतः, अप्रपञ्चः प्रपञ्चापगतः, अपरिदाहो निष्परि-
दाहः। नौरस्थो न पारस्थः, नोच्चो न नीचः, न बद्धो
न मुक्तः, न ज्ञानवान् नाज्ञानवान्, न संक्लेशो न निःक्लेशः,
न सत्यवादी न मृषावादी, नावारे न पारे, न तीरे नातीरे,
न निम्ने नानिम्ने, न स्थले नास्थले, नौघे नानोघे,
न सर्वज्ञो नासर्वज्ञः, न तर्को नातर्कः, न प्रचारो

(२०)

नाप्रचारः, न समुदाचारो नासमुदाचारः, न स्मृतिमान्
नास्मृतिमान्, ने चेतनो न निश्चेतनः, न मनो नामनः, न
निर्जातो नानिर्जातः, न नामो नानामः, न रूपो नारूपः, न
व्याहारो नाव्याहारः, न प्रज्ञप्यो नाप्रज्ञप्यः, न दृश्यो
नादृश्यः, न नेत्री नानेत्री, न मार्गप्रणेता नामार्गप्रणेता,
न प्राप्तफलो नाप्राप्तफलः, न कल्पो नाकल्पः, न कल्पा-
पगतो नाकल्पापगतः।

अथ च पुनर् मञ्जुश्रीस् तथागतसूर्यमण्डलज्ञानरश्-
मयस् त्रैधातुके ऽनन्तमध्यधर्मधात्वप्रतिहतरश्-
म्यवभासप्रमुक्ताः। प्रसृताश् च रश्मयः पूर्वतरम्
एव महाशैलेन्द्रकल्पाध्याशयानां बोधिसत्त्वानां काये
निपतन्ति। ततः पश्चात् प्रत्येकबुद्धयानसंप्रस्थितानां
काये निपतन्ति। ततः पश्चाच् छ्रावकयानसंप्रस्थितानां
काये निपतन्ति। ततः पश्चात् कुशलाध्याशयानां यथाधि-
मुक्तीनां सत्त्वानां काये निपतन्ति। ततः पश्चाद् अन्तशो
मिथ्यात्वनियतेषु सत्त्वसंतानेषु काये तथागतसूर्यमण्डल-
रश्मयो निपतन्ति। तेषां चोपकारीभूता भवन्त्य् अनागत-
हेतुसंजननतया, संवर्धयन्ति च कुशलैर् धर्मैः।

तत्र च तथागतो मञ्जुश्रीः समः सर्वत्रोपेक्षको
निर्विकल्पो निर्विशेषः। न पुनर् मञ्जुश्रीस् तथागतज्ञान-
सूर्यमण्डलस्यैवं भवति। अस्याहं सत्त्वस्योदारं

(२१)

धर्मं देशयिष्यामि, अस्य न देशयिष्यामीति। न तस्यैवं
विकल्पो भवति, अयम् उदाराधिमुक्तिकः सत्त्वः, अयं
मध्याधिमुक्तिकः, अयं श्रावकयानाधिमुक्तिकः। अयं
कुशलाशयः, अयं हीनो मिथ्याशय इति।

न मञ्जुश्रीस् तथागतज्ञानसूर्यमण्डलस्यैवं भवति।
अयम् उदाराशयाधिमुक्तिकः सत्त्वो ऽस्य महायानं देश-
यिष्यामि। अयं मध्याशयाधिमुक्तिको ऽस्य प्रत्येकबुद्ध-
यानं देशयिष्यमि। अयं श्रावकयानाधिमुक्तिकोऽस्य श्राव-
कयानं देशयिष्यामि। कुशलाकुशलाशयानां च सत्त्वानाम्
आशयं विदित्वा विशोधयिष्यामि, ऋजुकां दृष्टिं करिष्यामि।
यावद् मिथ्यात्वनियतानाम् अपि सत्त्वानां यथानुरूपं
धर्मं देशयिष्यामि। न तथागतज्ञानसूर्यमण्डल-
रश्म्यवभासस्यैवं विकल्पो भवति। तत् कस्य हेतोः।
सर्वकल्पविकल्पप्रपञ्चसमुच्छिन्नत्वात् तथागतज्ञानसू-
र्यमण्डलरश्म्यवभासस्य। अथ च मञ्जुश्रीः सत्त्वानां
कुशलाशयसंतानवैचित्र्यात् तथागतज्ञानसूर्यमण्डलरश्-
म्यवभासस्य वैचित्र्यं भवति॥

तद्यथा मञ्जुश्रीर् अस्ति महासागरे सर्वाभिप्राय
परिपूरणं नाम महामणिरत्नं तद् ध्वजाग्रावबद्धम्।
यस्य सत्त्वस्य यादृशो ऽभिप्रायो भवति, तादृशं ततः

(२२)

शब्दं निश्चरन्तं सत्त्वाः संजानन्ति। तच् च महा-
मणिरत्नं न कल्पयति न विकल्पयति न चिन्तयति न
विचिन्तयति, अन्चिन्त्यं निश्चिन्त्यं चित्तमनोविज्ञानापगतम्।

एवम् एव मञ्जुश्रीस् तथागतो न कल्पयति न विकल्पयति
न चिन्तयति न विचिन्तयति, न चिन्त्यो निश्चिन्त्यश् चित्तमनो-
विज्ञानापगतः। अग्राहोऽपर्यवग्राहः, अप्राप्तो ऽप्राप्तव्यः,
प्रणुन्नप्रत्येकसत्यः, प्रणुन्नरागः प्रणुन्नदोषः प्र-
णुन्नमोहः, न सत्यो न मृषा, न नित्यो नानित्यः, न प्रभो
नाप्रभः, न लोको नालोकः, अवितर्को ऽविचारः, अनुत्पन्नो
ऽनिरुद्धः। अचिन्त्यो ऽप्रचिन्त्यः, अस्वभावो ऽस्वाभाव्यः,
स्वभावशून्यः, अनायूहो ऽनिर्यूहः, अनभिनिवेश्यः, अव्यवहारो
व्यवहारसमुच्छेदः, अनानन्दो निरानन्दो नन्दीसमुद्घा-
तः, असंख्यातः संख्यापगतः, अगतिर् अगतिगामी सर्वगति-
समुच्छिन्नः, सर्वव्याहारसमुच्छिन्नः, अदृश्यो ऽनालोक्यो ऽग्रा-
ह्यः, नावकाशो नानवकाशः, न पश्यो न निर्देश्यः, न
सामग्री न विसामग्री, न विकल्पितो नाविकल्पितः, अविठापितो
ऽसंदर्शितः, असंक्लिष्टो ऽपरिशोधनार्हः, न नाम न
रूपं न निमित्तम्, न कर्म न कर्मविपाकः, नातीतो

(२३)

नानागतो न प्रत्युत्पन्नः, निष्किञ्चनः, अरणः, अनक्षरः,
अघोषो घोषसमतिक्रान्तो ऽरुतः, अलक्षणः सर्वलक्षणा-
पगतः, नाध्यात्मं न बहिर्द्धा नोभयम् अन्तरेणोप-
लभ्यते। अथ च मञ्जुश्रीस् तथागतज्ञानरत्नम् अध्याश-
यपरिशुद्धं महाकरुणाध्वजाग्रावबद्धम्, ततो यो
यथाशयाधिमुक्तः सत्त्वः स तथा धर्मदेशनां निश्-
चरन्तीं संजानाति। तत्र च तथागतः समः सर्वत्रो-
पेक्षको निर्विकल्पो निर्विशेषः॥

तद्यथा मञ्जुश्रीः प्रतिश्रुत्काम् अन्यरुतविज्ञप्तितो निश्-
चरन्तीं सत्त्वाः संजानन्ति। सा च नातीता नानागता न
प्रत्युत्पन्ना, नाध्यात्मं न बहिर्धा नोभयम् अन्त-
रेणोपलभ्यते, नोत्पन्ना न निरुद्धा, नोच्छिन्ना न शाश्वता,
न ज्ञानवती नाज्ञानवती, न प्रज्ञा नाप्रज्ञा, न विद्या नाविद्या,
न विमुक्तिर् नाविमुक्तिः, न सावद्या न निरवद्या, न स्मृतिर्
नास्मृतिः, न स्थानवती नास्थानवती, न निषद्या नानिषद्या,
न पृथिवीधातुर् नाब्धातुर् न तेजोधातुर् न वायुधातुः, न
संस्कृता नासंस्कृता, न निष्प्रपञ्चा न सप्रपञ्चा, न

(२४)

रुता नारुता, न दृश्या नादृश्या, अनक्षरा, अनक्षरापगता,
अघोषा घोषसमतिक्रान्ता, अतुला तुलनासमतिक्रान्ता,
अलक्षणा लक्षणापगता, न शान्तिर् नाशान्तिः, न दीर्घा न
ह्रस्वा, ने चेतना नाचेतना, न चैत्या नाचैत्या, न लोक्या
नालोक्या, दर्शनस्वभावेन शून्या, अस्मृतिः, अमनसिकारा,
अवितर्का, अविचारा, चित्तमनोविज्ञानापगता, सर्वत्र समा निर्-
विकल्पा निर्विशेषा, त्र्यध्वसमतिक्रान्ता। अथ च मञ्जुश्रीः
प्रतिश्रुत्का नानारुतघोषा नानाध्याशयानां सत्त्वानां नाना-
रुतघोषविज्ञप्तितो निश्चरति। तांश् च सत्त्वास् तथैव
संजानन्ति।

एवम् एव मञ्जुश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धो
नातीतो ना नागतो न प्रत्युत्पन्नः, नाध्यात्मं न बहिर्धा
नोभयम् अन्तरेणोपलभ्यते, नोत्पन्नो न निरुद्धः, नो-
च्छिन्नो न शास्वतः, न ज्ञानवान् नाज्ञानवान्, अप्रज्ञावान्
नाप्रज्ञावान्, न विद्या नाविद्या, न विमुक्तिर् नाविमुक्तिः, न
सावद्यो न निरवद्यः, न स्मृतिमान् नास्मृतिमान्, न स्थानवान्
नास्थानवान्, न निषद्यो नानिषद्यः, न पृथिवीधातुर् नाब्धातुर्
न तेजोधातुर् न वायुधातुः, न संस्कृतो नासंस्कृतः, न

(२५)

प्रपञ्चो नाप्रपञ्चः, न रुतो नारुतः, न दृश्यो नादृश्यः,
अनक्षरः, अघोषो घोषसमतिक्रान्तः, अतुलस् तुलासम्-
अतिक्रान्तः, अलक्षणो लक्षणापगतः, न शन्तो नाशान्तः, न
दीर्घो न ह्रस्वः, न चेतनो नाचेतनः, न चैत्यो नाचैत्यः,
न लोक्यो नालोक्यः, दर्शनस्वभावेन शून्यः, अस्मृतिः,
अमनसिकारः, अवितर्कः, अविचारः, चित्तमनोविज्ञानापगतः,
सर्वत्र समो निर्विकल्पो निर्विशेषः, त्र्यध्वसमतिक्रमः।
अथ च मञ्जुश्रीर् नानाविमुक्ताः सत्त्वा नानाध्याशय-
विज्ञप्तितस् तथागतवाचं निश्चरन्तीं संजानन्ति॥

तद्यथापि मञ्जुश्रीः पृथिवीं निश्रित्य पृथिवीं प्रतिष्थाय
सर्वतृणगुल्मौषधिवनस्पतयो वृद्धिं विरूढिं वैपु-
ल्यताम् आपद्यन्ते। न मञ्जुश्रीः पृथिवी कल्पयति, न विका-
ल्पयति, सर्वत्र समा निर्विकल्पा, निर्विशेषा निश्चिन्ता चित्त-
मनोविज्ञानापगता।

एवम् एव मञ्जुश्रीस् तथागतं निश्रित्य तथागतं
प्रतिष्ठाय सर्वसत्त्वानां सर्वकुशलमूलानि वृद्धिं
विरूढिं वैपुल्यताम् आपद्यन्ते। श्रवकयानिकानां वा
प्रत्येकबुद्धयानिकानां वा महायानिकानां वा, अन्येषां

(२६)

वा चरकपरिव्राजकनिर्ग्रन्थप्रभृतीनां सर्वतीर्थ्या-
यतनानां कुशलमूलानि, यानि चान्यान्य् अन्तशो मिथ्यात्व-
नियतानां कुशलमूलानि सर्वाणि तानि तथागतं निश्रित्य
तथागतं प्रतिष्ठाय वृद्धिं विरूढिं वैपुल्यताम्
आपद्यन्ते। न च मञ्जुश्रीस् तथागतः कल्पयति, न विकल्पयति।
सर्वकल्पविकल्पारम्बणमनसिकारोच्छिन्नो मञ्जुश्रीस्
तथागतोऽर्हन् सम्यक्संबुद्धः, चित्तमनोविज्ञानापगतः,
अतर्कः, अतर्कावचरः, अदृश्यः, अनालोक्यः, अचिन्त्यः,
अचिन्तनीयः, अमनसिकारः, निश्चिन्तः, चित्तमनोविज्ञाना-
पगतः, समः सर्वत्रोपेक्षको निर्विकल्पो निर्विशेषः॥

तद्यथा मञ्जुश्रीर् आकाशं सर्वत्र समं निर्विकल्पं
निर्विशेषम्, अनुत्पन्नम् अनिरुद्धम्, नातीतं नानागतं न
प्रत्युत्पन्नम्, अलक्ष्यम् अप्रपञ्चम्, अरूप्य् अनिदर्शनम्
अविज्ञपनीयम्, असंस्पर्शम् अनिकेतम्, अतुल्यं तुलासमति-
क्रान्तम्, अनुपमम् उपमासमतिक्रान्तम्, अप्रतिष्ठम्, अग्रा-
ह्यम्, चक्षुःपथसमतिक्रान्तम्, चित्तमनोविज्ञानापगतम्,
अलक्षणम्, अनक्षरम्, अघोषम् अमनसिकारम्, अनायूहम्

(२७)

अनिर्यूहम्, अनुत्क्षेपाप्रक्षेपम्, वाक्पथसमतिक्रान्तम्,
सर्वत्रानुगतम् अप्रतिष्ठितम्। अथ मञ्जुश्रीः सत्त्वाः
संस्थानस्य हीनमध्योत्कृष्टतयाकाशं हीनोत्कृष्टं सं-
जानन्ति।

एवम् एव मञ्जुश्रीस् तथागतो ऽप्य् अर्हन् सम्यक्संबुद्धः
सर्वत्र समो निर्विकल्पो निर्विशेषः, अनुत्पन्नो ऽनिरुद्धः,
नातीतो नानागतो न प्रत्युत्पन्नः, अलक्ष्यो ऽप्रपञ्चः, अरूप्य्
अनिदर्शनो ऽविज्ञप्तिकः, अस्पर्शो ऽनिकेतः, अतुलस् तुलासम्-
अतिक्रान्तः, अनुपम उपमासमतिक्रान्तः, अप्रतिष्ठितः,
अग्राह्यः चक्षुपथसमतिक्रान्तः, चित्तमनोविज्ञानापगतः,
अलक्षणः, अनक्षरः, अघोषो ऽमनसिकारः, अनायूहानिर्यूहः,
अनिक्षेपो ऽप्रक्षेपः, वाक्पथसमतिक्रान्तः, सर्वत्रानुगतो
ऽनुप्रविष्टः। अथ च मञ्जुश्रीर् ये हीनमध्योत्कृष्टाशयाः
सत्त्वास् ते हीनमध्योत्कृष्टं तथागतं पश्यन्ति।

न च मञ्जुश्रीस् तथागतस्यैवं भवति। अयं हीनाध्य्-
आशयाधिमुक्तः सत्त्वः, अस्य सत्त्वस्य हीनां रूपकाय-
वर्णपरिनिष्पत्तिं दर्शयिष्यामि। अयं मध्याशयाधि-
मुक्तः सत्त्वः, अस्य मध्यमां रूपकायवर्णपरि-
निष्पत्तिं दर्शयिष्यामि। अयम् उदाराशयाधिमुक्तः सत्त्वः,
अस्योदारां रूपकायवर्णपरिनिष्पत्तिं दर्शयिष्यामि।

एवम् एव मञ्जुश्रीर् धर्मदेशनायाम् अनुगन्तव्यम्।
न च मञ्जुश्रीस् तथागतस्यैवं भवति। अयं हीनाधि-

(२८)

मुक्तः सत्त्वः, अस्य सत्त्वस्य हीनां श्रावकयानकथां
करिष्ये। अयं मध्याशयाधिमुक्तः सत्त्वः, अस्य सत्त्वस्य
प्रत्येकबुद्धयानकथां करिष्ये। अयम् उदारशयाधि-
मुक्तः सत्त्वः, अस्य सत्त्वस्य महायानकथां करिष्ये।

न मञ्जुश्रीस् तथागतस्यैवं भवति। अयम् उदारा-
धिमुक्तः सत्त्वः, अस्य सत्त्वस्य दानकथां करिष्ये।

एवं शीलं क्षान्तिं वीर्यं ध्यानं च। न मञ्जुश्रीस्
तथागतस्यैवं भवति। अयं प्रज्ञापारमिताधिमुक्तः
सत्त्वः, अस्य सत्त्वस्य प्रज्ञापारमितां कथां कथयिष्ये।
नैवं मञ्जुश्रीस् तथागतस्यैवं भवति। तत् कस्माद्
धेतोः। धर्मकायो मञ्जुश्रीस् तथागतः। अत्यन्तानुत्पन्नो
मञ्जुश्रीस् तथागतः॥

(२९)

न मञ्जुश्रीस् तथागतस्य नामरूपनिरुक्त्यानुसारि
विज्ञानं प्रवर्तते। न मञ्जुश्रीस् तथागतः कल्पयति, न
विकल्पयति। क्षणिको हि मञ्जुश्रीस् तथागतो ऽक्षयलक्षणो
ऽक्षयकोटीभूतकोटीनियतः।

सर्वधर्मसमताकोटी मञ्जुश्रीस् तथागतोऽर्हन् सम्यक्-
सम्बुद्धः समः सर्वत्र निर्विकल्पो निर्विशेषः, न हीनो
न मध्यो नोत्कृष्टः। एवम् एव मञ्जुश्रीः समाः सर्व-
धर्माः, निर्विकल्पा निर्विशेषाः, न हीना न मध्या नोत्कृष्टाः
तत् कस्माद् धेतोः। अनुपलब्धित्वात् सर्वधर्माणाम्। या
मञ्जुश्रीर् अनुपलब्धिः सर्वधर्माणां सा समता, या समता
सा स्थिता, या स्थिता साचलनता, याचलनता सानिश्रयता।

अनिश्रितस्य सर्वधर्मेषु नास्ति चित्तप्रतिष्ठानम्। अप्र-
तिष्ठितचित्तस्यानुत्पत्तिर् आजायते। एवं दर्शिनश् च विपर्यस्ताच्
चित्तचैतसिका न प्रवर्तन्ते। यश् चाविपर्यस्तचित्तः स
यथावत्प्राप्तो भवति। यथावत्प्राप्तो न प्रपञ्चयति।
अप्रपञ्चयतः प्रचारो नास्ति। यदा न प्रचरति तदा
न संचरति। यदा न संचरति तदा न विसरति। अविसरं
धर्मतां न विरोधयति। धर्मताम् अविरोधयन् सर्व-
त्रानुलोमो भवति। सर्वत्रानुलोमो धर्मप्रकृतेर् न चलति।
धर्मप्रकृतेर् अचलं धर्मप्र <<कृ>>ति प् राप्तो भवति।
धर्मप्रकृतिप्राप्तो न किंचित् प्रपञ्चयति। तत् कस्य हेतोः।
प्रत्ययहेतुजनितत्वात्।

यः प्रत्ययहेतुजनितः सोऽत्यन्ताजातः। यश् चात्यन्ताजातः

(३०)

स नियामप्राप्तः। यश् च नियामप्राप्तः स सर्वधर्म-
मनसिकारैः सार्धं न संवसति। यदा सर्वधर्म-
मनसिकारैः सार्धं न संवसति तदा संवाश्यो न
भवति। यदा संवाश्यो न भवति तदा न भवति न
विभवति। यदा न भवति न विभवति तदा स्थितो धर्म-
प्राप्तो भवति। यदा स्थितो धर्मप्राप्तो भवति तदा
योनिशोधर्मप्रयुक्तो भवति। योनिशोधर्मप्रयुक्तस्य न
कश्चिद् धर्मो ऽस्ति यो न बुद्धधर्मः। तत् कस्य हेतोः।
शुन्यतानुबोधत्वात्। यश् च शुन्यतानुबोधः स बोधिः।

स एवं शून्यतानिमित्ताप्रणिहितानभिसंस्कारानिकेतासं-
भवाग्राह्यानालयावबोधाद् बोधिः। बोधिश् च योनिशःप्र-
योगः।

योनिशःप्रयोगः, योनिशः प्रयोगेनामोच्यते। अनुपेक्षाप्र-
क्षेपः, अकारविकारप्रयोगः, असंबद्धः, अप्रमुक्त प्र-
योगः, अनेकत्वानानात्वप्रयोगः, अनागत प्रयोगो
योनिशः प्रयोगः।

न तत्र प्रयोगो न प्रमाणं न फलसाक्षात्क्रिया।
तत् कस्य हेतोः। प्रकृतिप्रभास्वरं चित्तं तच् चागन्तुकैर्
उपक्लेशैर् उपक्लिश्यते न च प्रकृतिः संक्लिश्यते। या च
प्रकृतिप्रभास्वरता सासंक्लेशता। या चासंक्लेशता तत्र
प्रतिपक्षो नास्ति येन प्रतिपक्षेण क्लेशप्रहाणं स्यात्। तत्

(३१)

कस्य हेतोः। न शुद्धः शुध्यति शुद्ध एव सः। यश् च
शुद्धः सो ऽनुत्पादः। यश् चानुत्पादः सो ऽनिन्दितः। यश्
चानिन्दितः स नन्दीप्रहाणं तत्र सर्वस्नेहा निरुध्यन्ते।
यत्र सर्वस्नेहा निरुध्यन्ते सो ऽनुत्पादः। यश् चानुत्पादः
स बोधिः॥

या बोधिः सा समता। या समता सा तथता। तथाता-
प्रतिष्ठिताश् च सर्वधर्माः संस्कृता असंस्कृताश् च। या
च तथता न तत्र संस्कृतं नासंस्कृतं न द्वय-
प्रज्ञप्तिः। यत्र न संस्कृतं नासंस्कृतम् न द्वय-
प्रज्ञप्तिः सा तथता। या तथता सानन्यतथता। यानन्य-
तथता साविकारतथता। या चाविकारतथता सानागततथता।
या चानागततथता सावितथता। या चावितथता सा यथावत्-
तथता। या यथावत्तथता सानजातुतथता। यानजातुतथता
सा न संक्लिश्यते न विशुध्यते। या न संक्लिश्यते
न विशुध्यते सा नोत्पद्यते न निरुध्यते। या नोत्पद्यते
न निरुध्यते सा निर्वाणेन समा। या निर्वाणेन समा सा न
संसरति न परिनिर्वाति। या न संसरति न परिनिर्वाति सा
नातीता नानागता न प्रत्युत्पन्ना। या नातीता नानागता न
प्रत्युत्पन्ना सा न हीना न मध्या नोत्कृष्टा। या न हीना
न मध्या नोत्कृष्टा सा तथता।

तथता नामोच्यते। तत्त्वार्थाधिवचनम् एतत् तत्त्वम्

(३२)

उच्यते। तथात्वं तथत्वम् उच्यते। तथैव तथता
चात्मा चाद्वयम् एतद् अद्वैधीकारम्। यश् चाद्वयार्थः स
बोधिश् चावबोधार्थः।

अर्थ उच्यते। त्रिविमोक्षमुखप्रवेशं ज्ञानं सर्व-
धर्मनिर्देशेषु। ज्ञानम् उच्यते। त्र्यध्वसमतावतारः
सर्वधर्मेषु। असंभेदार्थश् च सर्वधर्माणाम् अयम्
उच्यते ऽर्थः। अरुतो ऽनभिलाप्यो ऽव्याहारो व्याहारसम्-
उच्छिन्नः।

ज्ञानम् उच्यते। यद् अर्थानुगमज्ञानं विज्ञनानुगमं
चेदम् उच्यते ज्ञानम्। अर्थ उच्यते। यत् तत्त्वार्थज्ञानेन
विज्ञानानुगमज्ञानेन च नीतार्थता। सैव धर्मता।
या च धर्मता सो ऽर्थः।

यार्थानुगमज्ञानेन विज्ञानानुगमज्ञानेन नीतार्थानु-
गमज्ञानेन च सा धर्मता। या धर्मता सो ऽर्थः ल् सा च
धर्मता धर्मस्थितिता धर्मनियामता, सा धर्मे न
प्रवर्तते। या धर्मस्याप्रवृत्तिः, या चार्थव्यंजनसमता
साद्वयार्थे समा। या च समता सो ऽर्थः, सा चार्थ-
ज्ञानेन समता, साद्वयमुखप्रवेशेन ज्ञानसमता।

नीतार्थेन नेयार्थसमता समानार्था सा शून्यता। समा-
नार्थेन पुद्गलसमता समा। पुद्गलसमतया धर्म-
समता समा। धर्मसमतया विमुक्तिसमता समा। वि-
मुक्तिसमतया चानुबोधो बोधिः।

(३३)

रूपसङ्गसंयुक्तानां मञ्जुश्रीश् चक्षुः सङ्गः। रूप-
चक्षुःप्रकृतिज्ञानम् असङ्गः। दृष्टिसङ्गसंयुक्तानां स्व-
कायं सङ्गः। सर्वदृष्टिकृतानां स्वकायप्रकृतिशून्यता-
ज्ञानम् असङ्गः। अयोनिशोमनस्कारसङ्गसक्तानां धर्मा-
लोकः सङ्गः। योनिशोमनस्कारधर्मप्रत्यवेक्षाप्रकृति-
शून्यतास्वभावशून्यताज्ञानम् असङ्गः। विचिकित्सामलसङ्ग-
सक्तानां मोक्षः सङ्गः। अधिमुक्तिविमुक्तियथाभूत-
ज्ञानम् असङ्गः। कौशिद्यमलसङ्गसक्तानाम् अधिगम-
दृष्टवीर्यता सङ्गः। यथाधर्माणाम् अनुबोधः सङ्गः।
नीवरणसङ्गयुक्तानां बोध्यङ्गानि सङ्गः। अनावरण-
ज्ञानविमोक्षो ऽसंगः।

प्रकृतिपरिशुद्धाः सर्वधर्मा हेतुप्रत्ययसामग्र्या
प्रवर्तन्ते। तत्र बोधिसत्त्वेन संक्लेशहेतुर् व्यवदान-
हेतुश् च परिज्ञातव्यः। संक्लेशहेतुविशुद्ध्या च व्यवदान-
विशुद्ध्या च न स्थातव्यम्।

आत्मसमुत्थानं च संक्लेशस्य हेतुः। नैरात्म्य-
धर्मावतारक्षान्तिर् व्यवदानस्य हेतुः। अहंकारममकार-
दृष्टिः संक्लेशस्य हेतुः। अध्यात्मोपशमो बहिर्धापचारश्
च व्यवदानस्य हेतुः। कामव्यापादविहिंसावितर्कः

(३४)

संक्लेशस्य हेतुः। अशुभामैत्रीकरुणामुदितोपेक्षाप्रतीत्य-
धर्मावतारक्षान्तिर् व्यवदानस्य हेतुः। चत्वारो विपर्यासाः
संक्लेशस्य हेतुः। चत्वारि सम्यक्स्मृत्युपस्थानानि व्य्-
अवदानस्य हेतुः। पञ्च नीवरणानि संक्लेशस्य हेतुः।
पञ्चेन्द्रियाणि व्यवदानस्य हेतुः। षड् आयतनानि
संक्लेशस्य हेतुः। षड् अनुस्मृतयो व्यवदानस्य हेतुः।
सप्तासद्धर्माः संक्लेशस्य हेतुः। सप्त बोध्यङ्गानि
व्यवदानस्य हेतुः। अष्ट मिथ्यात्वानि संक्लेशस्य हेतुः।
अस्तौ सम्यक्त्वानि व्यवदानस्य हेतुः। नवाघातवस्तूनि
संक्लेशस्य हेतुः। नवानुपूर्वविहारसमापत्तयो व्य्-
अवदानस्य हेतुः। दशाकुशलाः कर्मपथाः संक्लेशस्य
हेतुः। दश कुशलाः कर्मपथा व्यवदानस्य हेतुः।
संक्षिप्तेन सर्वे ऽकुशला मनस्काराः संक्लेशस्य हेतुः,
सर्वे कुशला मनस्कारा व्यवदानस्य हेतुः।

तत्र यः संक्लेशस्य हेतुः, यश् च व्यवदानस्य हेतुः,
सर्वे ते धर्माः प्रकृतिशून्या निःसत्त्वा निर्जीवा निष्पोषा
निष्पुरुषा निष्पुद्गला अस्वामिका अपरिग्रहा निर्व्यापारा मायो-
पमा अलक्षणा अध्यात्मोपशान्ताः। यश् चाध्यात्मोपशमः
स प्रशमः। यः प्रशमः सा प्रकृतिः। या प्रकृतिः सो
ऽनुपलम्भः। यो ऽनुपलम्भः सो ऽनिलयः। यश् चानिलयस्
तत् खम्। खं चाकाशम्। स आकाशसमान् सर्वधर्मान्
प्रजानाति, संक्लेशव्यवदानेन च व्यवहरति, न चाकाश-
धर्मतां विजहाति। तत् कस्माद् धेतोः। न कश्चिन् मञ्जुश्रीर्
धर्मः संविद्यते यस्योत्पादो निरोधो वा भवेत्॥

(३५)

मञ्जुश्रीर् आह। तत् कथं भगवंस् तथागतेन बोधिः
प्राप्ता। भगवान् आह। अमूलाप्रतिष्ठाना मञ्जुश्रीस् तथा-
गतेन बोधिः प्राप्ता। मञ्जुश्रीर् आह। तत्र कतमद् भगवन्
मूलं कतमत् प्रतिष्ठानम्। भगवान् आह। सत्कायो
मञ्जुश्रीर् मूलम् अभूतपरिकल्पः प्रतिष्ठानम्। तत् तथा-
गतेन मञ्जुश्रीर् बोधिसमतया सर्वधर्मसमता ज्ञाता।
तस्माद् उच्यते मञ्जुश्रीर् अमूलाप्रतिष्ठाना तथागतेन बोधिर्
अभिसंबुद्धेति॥

बोधिर् मञ्जुश्रीः शान्ता चोपशान्ता च। तत्र कतमः शमः
कतम उपशमः। अध्यात्मं शमः, बहिर्धोपशमः।
तत् कस्माद् धेतोः। चक्शुर् मञ्जुश्रीः शून्यम् आत्मना
चात्मीयेन च, प्रकृतिर् अस्यैषा, अयम् उच्यते शम इति।
स चक्षुः शून्यम् इति परिज्ञाय रूपेषु न धावति, तेनोच्यत
उपशम इति।

एवं श्रोत्रं शून्यम् आत्मना चात्मीयेन च, प्रकृतिर्
अस्यैषा, अयम् उच्यते शम इति। स श्रोत्रं शून्यम् इति
परिज्ञाय शब्देषु न धावति, तेनोच्यत उपशम इति।

घ्राणं शून्यम् आत्मना चात्मीयेन च, प्रकृतिर् अस्यैषा,
अयम् उच्यते शम इति। स घ्राणं शून्यम् इति परिज्ञाय
गन्धेषु न धावति, तेनोच्यत उपशम इति।

जिह्वा शून्यात्मना चात्मीयेन च, प्रकृतिर् अस्या एषा, अयम्
उच्यते शम इति। स जिह्वा शून्येति परिज्ञाय रसेषु न

(३६)

धावति, तेनोच्यत उपशम इति।

कायः शून्य आत्मना चात्मीयेन च, प्रकृतिर् अस्यैषा, अयम्
उच्यते शम इति। स कायं शून्यम् इति परिज्ञाय स्प्रष्टव्येषु
न धावति, तेनोच्यत उपशम इति।

मनो मञ्जुश्रीः शून्यम् आत्मना चात्मीयेन च, प्रकृतिर्
अस्यैषा, अयम् उच्यते शम इति। स मनः शून्यम् इति
परिज्ञाय धर्मेषु न धावति, तेनोच्यत उपशम इति॥

बोधिर् मञ्जुश्रीः प्रकृतिप्रभास्वरा चित्तप्रकृतिप्र-
भास्वरतया। तेन कारणेनोच्यते प्रकृतिप्रभास्वरेति। या
सा प्रकृतिः सासंक्लिष्टा, आकाशसमा, आकाशप्रकृतिः, आकाश-
समवसरणा, आकाशोपमा, अत्यन्तप्रभास्वरा प्रकृतिः॥

बोधिर् मञ्जुश्रीर् अनायूहानिर्यूहा। तत्र कतमानायूहता
कतमानिर्यूहता। अनायूहस् तेनोच्यते ऽग्रहः सर्व-
धर्माणाम्। अनिर्यूह उच्यते ऽनुत्सर्गः सर्वधर्माणाम्।
तत्र मञ्जुश्रीस् तथागतो ऽनायूहो ऽनिर्यूह ओघम् अवतार्षीत्।
तथा चावतार्षीद् यथा तथताया नापारं न पारं सम्-
अनुपश्यति। इति ह्य् अपारपारविगताः सर्वधर्मास् तथा-
गतेनाभिसंबुद्धाः। तेन तथागत इत्य् उच्यते॥

(३७)

बोधिर् मञ्जुश्रीर् अनिमित्तानारम्बणा। तत्र कतमानिमित्तता
कतमानारम्बणता। चक्षुर्विज्ञानानुपलब्धिर् मञ्जुश्रीर्
अनिमित्तता। रूपस्यासमनुपश्यनतानारम्बणता। श्रोत्र-
विज्ञानानुपलब्धिर् अनिमित्तता। शब्दाश्रवणतानारम्बणता।
घ्राणविज्ञानानुपलब्धिर् अनिमित्तता। गन्धाघ्राणतान्-
आरम्बणता। जिह्वाविज्ञानानुपलब्धिर् अनिमित्तता। रसास्वा-
दनतानारम्बणता। कायविज्ञानानुपलब्धिर् अनिमित्तता।
स्प्रष्टव्यास्पृशणतानारम्बणता। मनोविज्ञानानुपलब्धिर्
अनिमित्तता। धर्माविज्ञानतानारम्बणता। अयं मञ्जुश्रीर्
आर्याणां गोचरः। यस् त्रैधातुके ऽगोचरः, अयं
मञ्जुश्रीर् आर्याणां गोचरः॥

बोधिर् मञ्जुश्रीर् नातीता नानागता न प्रत्युत्पन्ना त्र्य्-
अध्वसमा त्रिमण्डलपरिच्छिन्ना। तत्र कतमो मञ्जुश्रीस्
त्रिमण्डलपरिच्छेदः। यद् अतीते चित्तं नोपलभ्यते।
अनागते विज्ञानं न धावति। न प्रत्युत्पन्ने मनस्कारः
प्रवर्तते। स चित्तमनोविज्ञानाप्रतिष्ठितो न कल्पयति न
विकल्पयति। अनवकल्पयन्न् अविकल्पयन् नातीतं करोत्य्
अनागतं न मन्यते प्रत्युत्पन्नं न प्रपञ्चयति॥

(३८)

बोधिर् मञ्जुश्रीर् अशरीरासंस्कृता। तत्राशरीरता मञ्जुश्रीर्
या न चक्षुर्विज्ञानविज्ञेया, न श्रोत्र, न घ्राण, न जिह्वा,
न काय, न मनोविज्ञानविज्ञेया। यन् मञ्जुश्रीर् न चित्त-
मनोविज्ञानविज्ञेयं तद् असंस्कृतम्। असंस्कृतम् उच्यते
यत्र नोत्पादो न स्थितिर् न व्ययः। तद् उच्यते त्रि मण्डल-
परिशुद्धम् असंस्कृतम्। यथैवासंस्कृतस् तथैवं
संस्कृतं बोद्धव्यम्। तत् कस्य हेतोः। सर्वधर्माणां
यः स्वभावः सो ऽस्वभावः, तत्र नास्ति द्वयम् इति॥

बोधिर् मञ्जुश्रीर् अभेदपदम् एतत्। तत्र कतमो ऽभेदः,
कतमत् पदम्। असंज्ञाभेदस् तथता पदम्। अप्रतिष्ठानम्
अभेदो धर्मधातुः पदम्। अनानात्वम् अभेदो भूतकोटिः।
पदम्। अनिलम्भो ऽभेदो ऽचलनता पदम्। शून्यताभेदो
ऽनिमित्तं पदम्। अवितर्को ऽभेदो ऽप्रणिहितं पदम्।
अप्रार्थनाभेदो निःसत्त्वता पदम्। सत्त्वास्वभावो ऽभेद
आकाशं पदम्। अनुपलम्भो ऽभेदो ऽनुत्पादं पदम्।
अनिरोधो ऽभेदो ऽसंस्कृतं पदम्। अप्रचारो ऽभेदो बोधिः
पदम्। व्युपशमो ऽभेदो निर्वाणं पदम्। अनभिनिर्वृत्तिर्
अभेदो ऽजातिः पदम्॥

(३९)

बोधिर् मञ्जुश्रीर् न कायेनाभिसम्बुध्यते न चित्तेन।
तत् कस्माद् धेतोः। जडः कायो मञ्जुश्रीर् निश्चेष्टो ऽचेतनस्
तृणकाष्ठकुड्यलोष्टप्रतिभासोपमः। चित्तं च मायोपमं
रिक्तं तुच्छम् अभूतम् असंस्कृतम्। यो मञ्जुश्रीर् एवं
कायस्य चित्तस्य चावबोधः, अयम् उच्यते मञ्जुश्रीर् बोधिः
। व्यवहारम् उपादाय न पुनः परमार्थतः। तत् कस्माद्
धेतोः। न मञ्जुश्रीर् बोधिः कायेन वा चित्तेन वा धर्मेण
वा अधर्मेण वा भूतेन वाभूतेन वा सत्येन वा मृषा वा
वचनीया॥

अवचनीया मञ्जुश्रीर् बोधिः सर्वधर्मैः। तत् कस्माद्
धेतोः। न मञ्जुश्रीर् बोधिः किञ्चित् स्थानं येन च
व्यवहारं गच्छेत्। यथा मञ्जुश्रीर् आकाशस्थानम् असं-
स्कृतम् अनुत्पन्नम् अनिरुद्धम् अवचनीयं तथा मञ्जु-
श्रीर् बोधिर् असंस्कृतास्थानानुत्पन्नानिरुद्धावचनीया।
यथा मञ्जुश्रीर् भूतं परिगवेष्यमाणं सर्वधर्मैर्
अवचनीयम्, एवम् एव मञ्जुश्रीर् बोधिर् भूता परिगवेष्य-
माणा सर्वधर्मैर् अवचनीया। तत् कस्माद् धेतोः। न
मञ्जुश्रीर् भूते वचनं संविद्यते ऽनुत्पन्नानिरुद्धत्वात्॥

(४०)

बोधिर् मञ्जुश्रीर् अग्राह्यतानालयता। तत्र मञ्जुश्रीः
कतमा ग्राह्यता कतमानालयता। चक्षुःपरिज्ञा मञ्जुश्रीर्
अग्राह्यता रूपानुपलब्धिर् अनालयता। श्रोत्रपरिज्ञाग्राह्यता
शब्दानुपलब्धिर् अनालयता। घ्राणपरिज्ञाग्राह्यता गन्धानु-
पलब्धिर् अनालयता। जिह्वापरिज्ञाग्राह्यता रसानुपलब्धिर्
अनालयता। कायपरिज्ञाग्राह्यता स्प्रष्टव्यानुपलब्धिर् अनालय-
ता। मनःपरिज्ञाग्राह्यता धर्मानुपलब्धिर् अनालयता।

एवं तथागतेनाग्राह्यानालया बोधिर् अभिसंबुद्धा।
अभिसंबुध्य चक्षुषो ऽननुग्रहाय रूपनुपलब्धितश्
चक्षुर्विज्ञानं न प्रतिष्ठितम्। श्रोत्राननुग्रहाय
शब्दानुपलब्धितः श्रोत्रविज्ञानं न प्रतिष्ठितम्। घ्राणान्-
अनुग्रहाय गन्धानुपलब्धितो घ्राणविज्ञानं न प्र-
तिष्ठितम्। जिह्वाननुग्रहाय रसानुपलब्धितो जिह्वाविज्ञानं
न प्रतिष्ठितम्। कायाननुग्रहाय स्प्रष्टव्यानुप-

(४१)

लब्धितः कायविज्ञानं न प्रतिष्ठितम्। मनोऽननुग्रहाय
धर्मानुपलब्धितो मनोविज्ञानं न प्रतिष्ठितम्। तेनाप्र-
तिष्ठितविज्ञानस् तथागतो ऽर्हन् सम्यक्सम्बुद्ध इति सं-
ख्यां गच्छति।

चत्वारीमानि मञ्जुश्रीः सत्त्वानां चित्तप्रतिष्ठानि।
कतमानि चत्वारि यद् उत रूपं सत्त्वानां चित्तस्य
प्रतिष्ठानम्। एवं वेदनासंज्ञासंस्कारा मञ्जुश्रीः
सत्त्वानां चित्तस्य प्रतिष्ठानम्। तानि खलु पुनर् इमानि
मञ्जुश्रीश् चत्वारि चित्तस्य प्रतिष्ठानानि तथागतेनानु-
त्पन्नान्य् अनिरुद्धानीति ज्ञातानि॥

बोधिर् इति मञ्जुश्रीः शून्यताया एतद् अधिवचनम्। यया
शून्यतया मञ्जुश्रीर् बोधिः शून्या तया शून्यतया मञ्जुश्रीः
सर्वधर्माः शून्याः। ते तथागतेन यथैव शून्यास्
तथैवाभिसंबुद्धाः। न मञ्जुश्रीः शून्यतया शून्यताभि-
संबुद्धाः। अपि तु खलु पुनर् मञ्जुश्रीर् एकनयम् एतद्
यद् उत शून्यता वा बोधिर् वा। यत्र मञ्जुश्रीर् न शून्यता
न बोधिः, न तत्र मञ्जुश्रीः किंचिद् द्वयं येन द्वयेन
शून्यता वा बोधिर् वा द्विधाक्रियते। तत् कस्माद् धेतोः।
अद्वया मञ्जुश्रीः सर्वधर्मा अलक्षणा अद्वैधीकारा अना-
मानो ऽनिमित्ताश् चित्तमनोविज्ञानापगता अनुत्पन्ना अनि-

(४२)

रुद्धा अनाचारा अप्रचारा असमुदाचारा अनक्षरा अघोषाः।

यत् पुनर् उच्यते मञ्जुश्रीः शून्यम् इति, अनभिनिवेश-
ग्राहस्यैतद् अधिवचनम्। न पुनर् अत्र मञ्जुश्रीः पर-
मार्थतः कश्चिद् धर्म उपलभ्यते यः शून्यम् इत्य् उच्यते।
यथा मञ्जुश्रीर् आकाशम् आकाशम् इत्य् उच्यते, अवचनीयम्
आकाशम्। एवम् एव मञ्जुश्रीः शून्यं शून्यम् इत्य् उच्यते,
अवचनीयेषु शून्येषु प्रवेशः सर्वधर्माणाम्। अनामका
मञ्जुश्रीः सर्वधर्मानाम् अतश् च व्याक्रियन्ते। न मञ्जुश्रीर्
नाम देशस्थं न प्र देशस्थम्। तथाभिसंबुद्धास्
तथागतेन। नाम्ना यो धर्मो ऽभिलप्यते सो ऽपि धर्मो न
देशस्थो न प्रदेशस्थः।

एवम् एते मञ्जुस्रीः सर्वधर्मास् तथागतेन ज्ञाता आदित
एवाजाता अनुत्पन्ना अनिरुद्धा अलक्षणाश् चित्तमनोविज्ञानाप-
गता अनक्षरा अघोषाः। यथा ज्ञातास् तथैवाधिमुक्ताः।
न मञ्जुश्रीर् बुद्धो ऽधिमुच्यते॥

बोधिर् मञ्जुश्रीर् आकाशसमा। आकाशं च न समं न

(४३)

विषमं बोधिर् अपि न समा न विषमा। तत् कस्माद् धेतोः।
यस्य मञ्जुश्रीर् धर्मस्य न भूतपरिनिष्पत्तिर् नासौ समो
न विषमो वा वक्तव्य इति। हि मञ्जुश्रीस् तथागतेन
सर्वधर्मा असमा अविषमा अभिसंबुद्धाः। तथा
चाभिसंबुद्धा अथाणुर् अपि न समीकृतो न विषमिकृतः।
यादृशा एव ते धर्मास् तादृशा एव विज्ञाताः। भूतज्ञानेन
कतमच् च मञ्जुश्रीः सर्वधर्मा अनुत्पन्नानिरुद्धाः,
अभूत्वा भवन्ति, अभूत्वाश् च प्रति विगच्छन्ति। ते चास्वामिका
अपरिग्रहाः संभवन्ति, अस्वामिका अपरिग्रहाश् च मञ्जुश्रीः
प्रति विगच्छन्ति। इति हि मञ्जुश्रीः संभवन्ति विभवन्ति
च प्रतीत्य धर्मे वर्तन्ते न चात्र कश्चिद् वर्तयिता। तद्
उच्यते धर्मोपच्छेदाय तथागतो धर्मं देशयतीति॥

बोधिर् इति मञ्जुश्रीर् यथावत्पदम् एतत्। तत्र मञ्जुश्रीः
कतमद् यथावत्पदम्। मञ्जुश्रीर् बोधिः, यथा बोधिस्
तथा रूपं तथतान् न व्यतिवर्तते। यथा बोधिस् तथा
वेदनासंज्ञासंस्कारविज्ञानं तथतान् न व्यतिवर्तते।
यथा बोधिस् तथा पृथिवीधातुस् तथतान् न व्यतिवर्तते।

(४४)

यथा बोधिस् तथा प्धातुस् तेजोधातुस् तथतान् न व्यति-
वर्तते। यथा बोधिस् तथा चक्षुर्धातू रूपधातुश् चक्षुर्-
विज्ञानधातुस् तथतान् न व्यतिवर्तते। यथा हि मञ्जुश्रीर्
बोधिस् तथा श्रोत्रधातुः शब्दधातुः श्रोत्रविज्ञानधातुः,
घ्राणधातुर् गन्धदातुर् घ्राणविज्ञानधातुः, जिह्वाधातू
रसधातुर् जिह्वाविज्ञानधातुः, कायधातुः स्प्रष्टव्य-
धातुः कायविज्ञानधातुः, मनोधातुर् धर्मधातुर् मनो-
विज्ञानधातुस् तथतान् न व्यतिवर्तन्ते। एतावती चेयं
धर्मप्रज्ञप्तिः। यदुत स्कन्धधात्वायतनप्रज्ञप्तिः।
सा तथागतेन यथावदभिसंबुद्धा यथैव पूर्वात् तथा
पश्चात् तथा मध्ये। पूर्वान्ततो ऽजातापरान्ततो ऽसंक्रान्ता
मध्यो विविक्ता। एवम् एवैषां यथावत्पदं भवति।
यथैकस् तथा सर्वे, यथा सर्वे तथा चैकः। न चात्र
मञ्जुश्रीर् एकत्वं वा बहुत्वं चोपलभ्यते॥

बोधिर् मञ्जुश्रीर् आकारप्रविशेनानाकार प्रविष्टा। तत्र
मञ्जुश्रीः कतम आकारः। कतमश् चानाकारः। आकारो
मञ्जुश्रीर् उच्यत आरम्भः सर्वेषां कुशलानां धर्माणाम्।
अनाकार उच्यते ऽनुपलम्भः सर्वेषां धर्माणाम्। आकार
उच्यते ऽनवस्थितस्य चित्तस्यावस्थानम्। अनाकार उच्यते

(४५)

ऽनिमित्तः समाधिर् विमोक्षमुखम्। आकार उच्यते चित्तना-
तुलनागणनाप्रत्यवेक्षाविमोक्षः सर्वधर्माणाम्। अनाकार
उच्यते तुलासमतिक्रमः। कतमश् च तुलासमतिक्रमः।
यत्र विज्ञानकर्म नास्ति। आकार उच्यते संस्कृतप्रत्यवेक्षा।
अनाकार उच्यते ऽसंस्कृतप्रत्यवेक्षा॥

बोधिर् मञ्जुश्रीर् अनास्रवो ऽनुपादानता। तत्र मञ्जुश्रीः
कतमो ऽनास्रवः कतमानुपादानता। अनास्रवता मञ्जु-
श्रीर् उच्यते चतुर्णाम् आस्रवानां विगमः। कतमेषां
चत्रुणाम्, यदुत कामास्रवस्य, भवास्रवस्य, अविद्या-
स्रवस्य, दृष्ट्वास्रवस्य च, एषां चतुर्णाम् आस्रवाणाम्।
अनुपादानतोच्यते चतुर्णाम् उपादानानां विगमः। कतमेषां
चतुर्णाम्। कामोपादानस्य, दृष्ट्युपादानस्य, शीलव्रतपरा-
मर्शोपादानस्य, आत्मवादोपादानस्य च, एषां चतुर्णाम्
उपादानानाम्। सर्वाण्य् अविद्यया अन्धीकृतानि, तृष्णयालाल-
पितानि, अन्योन्याभिनिवेश्योपादीयन्ते। तत्र मञ्जुश्रीस्
तथागत आत्मवादोपादानमूलपरिज्ञातावी। आत्मविशुद्ध्या
सर्वसत्त्वविशुद्धिम् अनुगतः। या चात्मविशुद्धिः सा सर्व-
सत्त्वविशुद्धिः। या सर्वसत्त्वविशुद्धिर् अद्वैधा,  अद्वै-

(४६)

धीकारा। यश् चाद्वयार्थः सोऽनुत्पादानिरोधः।

अनुत्पादानिरोधे मञ्जुश्रीश् चित्तमनोविज्ञानं न प्र-
वर्तते। तत्र न कश्चित् परिकल्पः। येन विकल्पो ऽयोनिशो
ऽमनसि कुर्यात्। स योनिशो मनस्कारप्रवृतो ऽविद्यां न
समुत्थापयति। यच् चाविद्याया असमुत्थानं तद् द्वादशानां
भवाङ्गानाम् असमुत्थानम्। यद् द्वादशानां भवाङ्गानाम्
असमुत्थानं साजातिः। या चाजातिः स नियामः। यो नियामः
सा नीतार्थः। यो नीतार्थः स परमार्थः। यः
परमार्थः स निःपुद्गलार्थः। यो निःपुद्गलार्थः सो
ऽनभिलाप्यार्थः। यश् चानभिलाप्यार्थः स प्रतीत्य-
समुत्पादार्थः। यः प्रतीत्यसमुत्पादार्थः स धर्मार्थः
। यो धर्मार्थः स तथागतार्थः। तेनोच्यते। यः प्र-
तीत्यसमुत्पादं पश्यति स धर्मं पश्यति। यो धर्मं
पश्यति स तथागतं पश्यति। तथा च पस्यति यथा
परिगवेष्यमाणो न किंचित् पश्यति। तत्र मञ्जुश्रीः कतमत्
किंचित् यदुत चित्तम् आरम्बणं च। स यदा न चित्तम्,
न चारम्बणं पश्यति तदा भूतं पश्यति। एवम् एते
धर्मास् तथागतेन संबुद्धाः समतया समाः॥

बोधिर् मञ्जुश्रीः शुद्धा, विमला, अनङ्गणा। तत्र
मञ्जुश्रीः कतमा शुद्धिः, कतमद् विमलम्, कतमद्
अनङ्गणम्। शून्यता मञ्जुश्रीः शुद्धिः, आनिमित्तं विमलं,

(४७)

अप्रणिहितम् अनङ्गणम्। अजातिः शुद्धिः, अनभिसंस्कारो
विमलम्, अनुत्पादो ऽनङ्गणम्। प्रकृतिर् विशुद्धिः, परिशुद्धिर्
विमलम्, प्रभास्वरतानङ्गणम्। अप्रपञ्चः शुद्धिः,
निष्प्रपञ्चो विमलम्, प्रपञ्चव्युपशमो ऽनङ्गणम्। तथता
विशुद्धिः, धर्मधातुर् विमलम्, भूतकोटिर् अनङ्गणम्।
आकाशं शुद्धिः, गगनं विमलम्, खम् अनङ्गणम्।
अध्यात्मः परिशुद्धिः, बहिर्धाप्रचारो विमलम्, अध्यात्म-
बहिर्धा चानुपलब्धिर् अनङ्गणम्। स्कन्धपरिज्ञा
शुद्धिः, धातुस्वभावो विमलम्, आयतनानाम् अपकर्षो
ऽनङ्गणम्। अतीते क्षयज्ञानं शुद्धिः, अनागते ऽनुत्पाद-
ज्ञानं विमलम्, प्रत्युत्पन्ने धर्मधातुस्थितिज्ञानम्
अनङ्गणम्।

इति हि मञ्जुश्रीः शुद्धिर् विमलम् अनङ्गणम् इत्य् एक-
पदेस्मिन् समवसरन्ति। यदुत शान्तपदे। यच् छान्तं
तत् प्रशान्तम्। यत् प्रशान्तं तद् उपशान्तम्। यद्
उपशान्तं स उपशमः। यश् चोपशमः स मुनिर् इत्य्
उच्यते। इति हि मञ्जुश्रीर् यथाकाशं तथा बोधिः। यथा
बोधिस् तथा धर्माः। यथा धर्मास् तथा सत्त्वाः। यथा
सत्त्वास् तथा क्षेत्राणि। यथा क्षेत्राणि तथा निर्वाणम्।
तेनोच्यते मञ्जुश्रीर् निर्वाणसमाः सर्वधर्माः। निष्ठा-
पर्यन्तकारणे ऽप्रतिपक्षः। निःप्रतिपक्षकारणेनादिशु-
द्धाः, आदिविमलाः, आद्यनङ्गणाः। तत्र मञ्जुश्रीस् तथाग-
तस्यैवंरूपान् सर्वधर्मान् अभिसंबुद्धस्य सत्त्वानां

(४८)

च धातुं व्यवलोकयतः, शुद्धाविमलानङ्गणाविक्रीडिता
नाम सत्त्वेषु महाकरुणा प्रवर्तते॥

कथं मञ्जुश्रीर् बोधिसत्त्वश् चरति बोधिसत्त्वचर्यायाम्।
यदा मञ्जुश्रीर् बोधिसत्त्वो न क्षयाय नोत्पादाय नाक्षयाय
नानुत्पादाय नान्यत्क्षीणक्षयाय च मन्यते, अत्यन्तानु-
त्पादं च न विकोपयति। एवं च मञ्जुश्रीश् चरति
बोधिसत्त्वचर्यायाम्। पुनर् अपरं मञ्जुश्रीर् बोधिसत्त्वो
ऽतीतं चित्तं क्षीणम् इति न चरति। अनागतं चित्तम्
असंप्राप्तम् इति न चरति। प्रत्युत्पन्नं चित्तं स्थितम्
इति न चरति। न चातीतानागतप्रत्युत्पन्नेषु चित्तेषु सजति।
एवं चरन् मञ्जुश्रीर् बोधिसत्त्वश् चरति बोधिसत्त्वचर्यायाम्
। दानं मञ्जुश्रीर् बोधिः सत्त्वाश् च तथागतश् चाद्वयम्
एतद् अद्वैधीकारम्। एवं चरन् बोधिसत्त्वश् चरति बोधि-
सत्त्वचर्यायाम्। शिलं मञ्जुश्रीर् बोधिः सत्त्वाश् च तथागतश्
चाद्वयम् एतद् अद्वैधीकारम्। एवं चरन् बोधिसत्त्वश्
चरति बोधिसत्त्वचर्यायाम्। एवं क्षान्तिर् बोधिः सत्त्वाश् च
तथागतश् च, वीर्यं बोधिः सत्त्वाश् च तथागतश् च,

(४९)

ध्यानं बोधिः सत्त्वाश् च तथागतश् च, एवं प्रज्ञा
बोधिस् तथागतश् च सत्त्वाश् चाद्वयम् एतद् अद्वैधीकारम्।
एवं चरन् मञ्जुश्रीर् बोधिसत्त्वश् चरति बोधिसत्त्वचर्यायाम्।
सचेन् मञ्जुश्रीर् बोधिसत्त्वो न रूपं शून्यम् इति चरति
नाशून्यम् इति। एवं चरन् मञ्जुश्रीर् बोधिसत्त्वश् चरति
बोधिसत्त्वचर्यायाम्। तत् कस्माद् धेतोः। रूपम् एव शून्यं
रूपस्वभावेन। एवं वेदनासंज्ञासंस्कारविज्ञानं
शूयम् इति चरति नाशून्यम् इति। एवं चरन् मञ्जुश्रीर्
बोधिसत्त्वश् चरति बोधिसत्त्वचर्यायाम्। तत् कस्माद्
धेतोः। चित्तमनोविज्ञानानुपलब्धित्वात्। स न कश्चिन्
मञ्जुश्रीर् धर्मो विद्यते, यस्य परिज्ञानं वा प्रहाणं
वा भावना वा साक्षात्क्रिया वा भवेत्। यो सा मञ्जुश्रीर्
बुध्यते। क्षय इत्य् अन्तक्षय एवासौ, यश् चात्यन्ततत्क्षीणो
न स क्षपयितव्यः। अक्षेयक्षीयत्वाद् अक्षयः। तत् कस्माद्
धेतोः। यथा च क्षयः सः। यश् च यथावात् क्षयः स ण
कस्यचित् क्षयः। यस्य न कस्यचित् क्षयस् तद् असंस्कृतम्।
यद् असंस्कृतं तत्र नोत्पादो न निरोधः। तेनोच्यते।
उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा स्थितैवैषा धर्म-
ता। धर्मस्थितिता धर्मधातुर् यथा धर्मधातुस्थितिस्
तथागतज्ञानं न प्रवृत्तं न निवृत्तम्। ईदृशेन धर्म-
नयप्रवेशेनास्रवा नोत्पद्यन्ते न निरुध्यन्ते। आस्रवक्षय
इति मञ्जुश्रीर् व्यवहाररुताक्षरसंकेतप्रज्ञप्तिर् एषा नात्र
कश्चिद् धर्म उत्पद्यते वा निरुध्यते वा॥

(५०)

अथ खलु मञ्जुश्रीः कुमारभूत उत्थायासनाद् एकांसम्
उत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां
प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणम्य गाथाभिर्
भगवतम् अभ्यष्टावीत्।

अवर्णलिङ्गसंस्थान अनिरोध असंभव।
अमूल अप्रतिष्ठान निरालम्ब नमो ऽस्तु ते॥१॥

अप्रतिष्ठ अनायूह अनियूहानवस्थित।
षडायतनविनिर्मुक्त निरालम्ब नमो ऽस्तु ते॥२॥

अस्थित सर्वधर्मेषु भावाभावविवर्जित।
संस्कारसमताप्राप्त निरालम्ब नमो ऽस्तु ते॥३॥

त्रैधातुकविनिर्मुक्त आकाशसमतां गतः।
नोपलेप्यसि कामेषु निरालम्ब नमो ऽस्तु ते॥४॥

(५१)

सदा समाहितश् चासि गच्छंस् तिष्ठं शयन्न् अपि।
ईर्यापथेषु सर्वेषु निरालम्ब नमो ऽस्तु ते॥५॥

समं क्षेषि समं यासि समतायां प्रतिष्ठितः।
समतां न विकोपेसि निरालम्ब नमो ऽस्तु ते॥६॥

समतां च समापन्नः सर्वधर्मसमाहितः।
आनिमित्तसमापन्न निरालम्ब नमो ऽस्तु ते॥७॥

अप्रतिष्ठित निरालम्ब प्रज्ञाकूटसमाहित।
धर्मैश्वर्यम् अनुप्राप्त निरालम्ब नमो ऽस्तु ते॥८॥

सर्वसत्त्वान ये रूपा रुतघोषास् तथैर्यताः।
एकक्षणेन देशेषि निरालम्ब नमो ऽस्तु ते॥९॥

नामरूपविनिर्मुक्त स्कन्धहेतुसमुच्छिदः।
अनाकारप्रवेशो ऽसि निरालम्ब नमो ऽस्तु ते॥१०॥

निमित्तापगतश् चासि निमित्तकारवर्जितः।
आनिमित्तप्रवेशो ऽसि निरालम्ब नमो ऽस्तु ते॥११॥

(५२)

अविकल्पितसंकल्प अप्रतिष्ठितमानस।
अस्मृत्य् अमनसीकार निरालम्ब नमो ऽस्तु ते॥१२॥

अनालयं यथाकाशं निःप्रपञ्चं निरञ्जनम्।
आकाशसमचित्तो ऽसि निरालम्ब नमो ऽस्तु ते॥१३॥

अनन्तमध्यम् आकाशं बुद्धानां चैव धर्मता।
त्र्यध्वसमतिक्रान्त निरालम्ब नमो ऽस्तु ते॥ १४॥

आकाशलक्षना बुद्धा आकाशं चाप्य् अलक्षणम्।
कार्यकारणनिर्मुक्त निरालम्ब नमो ऽस्तु ते॥१५॥

दकचन्द्रवद् अग्राह्य सर्वधर्मेष्व् अनिश्रितः।
अनहंकार अनिर्घोष निरालम्ब नमो ऽस्तु ते॥१६॥

अनिश्रितो ऽसि स्कन्धेषु धातुष्व् आयतनेषु च।
विप्रयासविनिर्मुक्त निरालम्ब नमो ऽस्तु ते॥ १७॥

(५३)

अन्तद्वयविनिर्मुक्त आत्मदृष्टिसमुच्छिदः।
धर्मधातुसमताप्राप्त निरालम्ब नमो ऽस्तु ते॥१८॥

रूपसंख्याविनिर्मुक्त असद्धर्मविवर्जितः।
अनुपादान अत्याग निरालम्ब नमो ऽस्तु ते॥ १९॥

मारदोषसमतिक्रान्तो धर्मधातुं गतिंगतः।
अनावरणधर्मो ऽसि निरालम्ब नमो ऽस्तु ते॥ २०॥

अस्तीति नोच्यते ऽर्थज्ञैः नास्तीत्य् अपि तु नोच्यते।
अवाक्पथ अनादान निरालम्ब नमो ऽस्तु ते॥ २१॥

द्वयधर्म अनिश्रित्य मानध्वजसमुच्छिदः।
द्वयाद्वयविनिर्मुक्त निरालम्ब नमो ऽस्तु ते॥२२॥

जितास् ते मानसा दोषाः शारीराश् च चतुर्विधाः।
अचिन्त्य विगतौपम्य निरालम्ब नमो ऽस्तु ते॥ २३॥

(५४)

अनाभोगप्रवृत्तो ऽसि सर्वदोषविवर्जितः।
ज्ञानपूर्वङ्गमा चेष्ता निरालम्ब नमो ऽस्तु ते॥ २४॥

अनास्रवा ते स्मृतिः सूक्ष्मा भूताभूतेषु तन्मया।
अनिकेत असंकल्प निरालम्ब नमो ऽस्तु ते॥ २५॥

अनारम्बणेन चित्तेन सर्वचित्तं प्रजानसि।
न चात्मपरसंज्ञा ते निरालम्ब नमो ऽस्तु ते॥ २६॥

अनारम्बण अनालम्ब सर्वचित्तान मोहन।
अनारम्बणधर्मो ऽसि निरालम्ब नमो ऽस्तु ते॥ २७॥

अनारम्बणं च तच्चित्तं स्वभावेन न विद्यते।
अचिन्त्य समताप्राप्त निरालम्ब नमो ऽस्तु ते॥२८॥

अनिश्रितेन ज्ञानेन सर्वक्षेत्राणि पश्यसि।
सर्वसत्त्वचरिं चैव निरालम्ब नमो ऽस्तु ते॥२९॥

चित्तं न लब्धं बुद्धेहि अत्यन्ताय कदाचन।
सर्वधर्मा च सर्वज्ञ निरालम्ब नमो ऽस्तु ते॥ ३०॥

(५५)

मायोपमाः सर्वधर्मा माया चैव न विद्यते।
मायाधर्मविनिर्मुक्त निरालम्ब नमो ऽस्तु ते॥ ३१॥

लोके चरसि संबुद्ध लोकधर्मैर् अनिश्रितः।
लोकं न च विकल्पेषि निरालम्ब नमो ऽस्तु ते॥३२॥

शुन्ये चरसि शून्यत्वाच् छून्यत्वाच् छून्यगोचरः।
शून्यं च शून्यम् आख्यासि निरालम्ब नमो ऽस्तु ते॥३३॥

विकुर्वसि महारिद्ध्या मायोपमसमाधिना।
निर्नानात्वं समापन्न निरालम्ब नमो ऽस्तु ते॥३४॥

अनेकत्व अनानात्व दूरासन्ने न वर्तसे।
अनुत्क्षेप अनिक्षेप निरालम्ब नमो ऽस्तु ते॥३५॥

एकक्षणे ऽभिसंबुद्ध वज्रोपमसमाधिना।
निराभाससमापन्न निरालम्ब नमो ऽस्तु ते॥३६॥

(५६)

अचलं वेत्सि निर्वाणं सर्वत्र्यध्वसु नायक।
विविधोपायसम्पन्न निरालम्ब नमो ऽस्तु ते॥३७॥

पारंपर्येण सत्त्वानाम् उपायज्ञानकोविदः।
अचलं वेत्सि निर्वाणं निरालम्ब नमो ऽस्तु ते॥३८॥

निर्निमित्त निराभोग निःप्रपञ्च निरामय।
निराभास निरात्मैक निरालम्ब नमो ऽस्तु ते॥३९॥

निर्विकल्पो निरात्मीय यथैवात्मानम् आत्मना।
वेत्सि सर्वज्ञ सर्वत्र निरालम्ब नमो ऽस्तु ते॥४०॥

वन्दामि त्वां दशबल ओघतीर्णं
वन्दामि त्वाम् अभयददं विशारदम्।
धर्मेषु आवेणिकनिश्चयं गतं
वन्दामि त्वां सर्वजगस्य नायकम्॥ १॥

(५७)

वन्दामि संयोजनबन्धनच्छिदं
वन्दामि त्वां पारगतं स्थुले स्थितम्।
वन्दामि त्वां खिन्नजगस्य नायकं
वन्दामि संसारगत-ं-अनिश्रितम्॥२॥

वन्दामि सत्त्वसमाधानविगतं (गतीषु)
सर्वासु जातीसु विमुक्तमानसम्।
जले रुहं वा सलिलैर् न लिप्यसे
निषेविता ते मुनिर् बुद्ध शून्यता॥३॥

विवेकता शास्तृपदं निरुत्तरं
वन्दे निरालम्ब महौघतीर्णम्।
विभाविता सर्वनिमित्त सर्वशो
न ते कहिंचित् प्रणिधानु विद्यते॥४॥

अचिन्तियं बुद्ध महानुभावं
वन्दामि आकाशसमम् अनिश्रितम्।
वन्दामि ते सर्वगुणाग्रधारि
वन्दामि त्वां मेरुम् इवोद्गतश्रियम्॥५॥

(५८)

अथ खलु भगवान् मञ्जुश्रिये कुमारभूताय साधु
कारम् अदात्। साधु साधु मञ्जुश्रीः। सुभाषितं ते मञ्जुश्रीर्
एवम् एव। मञ्जुश्रीर् न बुद्धा रूपतो द्रष्टव्या न धर्मतो
न लक्षणतो न धर्मधातुतः। न बुद्धा एकाकिनो न
महाजनमध्यगताः। न बुद्धा केनचिद् दृष्टाः, न श्रुता
न पूजिता न पूज्यन्ते। न बुद्धा कस्यचिद् धर्मस्य एकत्वं
वा बहुत्वं वा कुर्वन्ति। न बुद्धैर् बोधिः प्राप्ता। न
बुद्धाः केनचिद् धर्मेन प्रभाव्यन्ते। न बुद्धैः कश्चिद्
धर्मो दृष्टो न श्रुतो न स्मृतो न विज्ञातो नाज्ञातः। न
बुद्धैर् भाषितं नोदाहृतम्, न बुद्धा भाषन्ति
नोदाहरन्ति, न बुद्धा भाषिष्यन्ति नोदाहरिष्यन्ति। न बुद्धा
अभिसंबुध्यन्ति, न बुद्धैः कश्चिद् धर्मो ऽभिसं-
बुद्धः। न बुद्धानां क्लेशाः प्रहीणाः, न व्यवदानं
साक्षात्कृतम्। न बुद्धैः कश्चिद् धर्मो दृष्टः, न श्रुतो
नाघ्रातो न विज्ञातः। तत् कस्य हेतोः। आदिपरिशुद्धत्वात्
सर्वधर्माणाम्॥

(५९)

(1) यः कश्चिन् मञ्जुश्रीर् बोधिसत्त्वस् त्रिसाहस्रमहा-
साहस्रलोकधातुपरमाणुरजःसमान् सत्त्वान् प्रत्येकजिन-
त्वे स्थापयेद् इदं धर्मपर्यायं नाधिमुक्तः। यो चान्यो
मञ्जुश्रीर् बोधिसत्त्व इमं धर्मपर्यायम् अधिमुच्येत्।
अयं ततो बहुतरं पुण्यं प्रसवति।

कः पुनर् वादो य इमं धर्मपर्यायं लिखेद् लेखा-
पयेद् वा। अयम् एव ततो बहुतरं पुण्यं प्रसवति॥

(2) यावन्तो मञ्जुश्रीर् बोधिसत्त्व त्रिसाहस्रमहासाहस्रे
लोकधातौ सत्त्वाः संविद्यन्ते, अण्डजा वा, जरायुजा वा,
संस्वेदजा वा, ओपपादुका वा, रूपिणो वा, अरूपिणो वा,
संज्ञिनो वा, असंज्ञिनो वा, अपदा वा , द्विपदा वा, चतुःपदा
वा, बहुपदा वा, सर्वे ते परिकल्पम् उपादाय, अपूर्वा-
चरमं मानुष्यकम् आत्मभावं प्रतिलभेयुः। मानु-
ष्यकम् आत्मभावं प्रतिलभ्य बोधिचित्तम् उत्पादेयेयुः।
बोधिचित्तम् उत्पाद्य एकैको बोधिसत्त्वो गङ्गासिकतासं-
ख्येयानां बुद्धक्षेत्रपरमाणुरजःसमानां बुद्धानां
बोधिसत्त्वानां सश्रावकाणां चीवरपिण्डपातशयनासन-
ग्लानप्रत्ययभैषज्यपरिष्कारैर् उपतिष्ठेत्। सर्वसुखो-
पधानानि चोपसंहरेत्। गङ्गासिकतासंख्येयान् कल्पांस्

(६०)

तेषां च परिनिर्वृतानां स्तूपानि कारयेत्, रत्नमयानि,
योजनशतोच्छ्रितानि, रत्नवेदिकापरिवृतानि, मणिमुक्तारत्न-
दामकृतशोभानि, उच्छ्रितच्छत्रध्वजपताकानि, विशिराजम-
णिरत्नजालसंच्छन्नानि।

यो चान्यो बोधिसत्त्व आशयसंपन्नः। इमं धर्म-
पर्यायं सर्वबुद्धविषयावतारज्ञानालोकालंकारं श्रु-
त्वाधिमुच्येद् अवतरेत् पत्तियेत् परिबुद्धेत्। अन्तश एकाम्
अपि गाथाम् उद्दिशेद् अयं ततो संख्येयतरं पुण्यं
प्रसवेत्। बुद्धज्ञानानुगमनं संवर्तकम् अस्य
पुण्याभिसंस्कारस्य। अस्य पुण्याभिसंस्कारस्य स
पूर्वकः पुण्याभिसंस्कारः, तेषां बोधिसत्त्वानां दान-
मयं पुण्यक्रियावस्तु शततमाम् अपि कलां नोपैति,
सहस्रतमाम् अपि, कोटीशतसहस्रतमाम् अपि, कलाम् अपि,
गणनाम् अपि, उपमाम् अपि, उपनिषदम् अपि नोपैति॥

(1) यः कश्चिन् मञ्जुश्रीर् गृही बोधिसत्त्वो गङ्गासिकता
संख्येयान् बुद्धान् बोधिसत्त्वान् सश्रावकसंघान् गङ्-

(६१)

गासिकतासंख्येयान् कल्पान् चीवरपिण्डपातशयनासनग्लान-
प्रत्ययभैषज्यपरिष्कारैर् उपतिष्ठेत्। यश् चान्यः
प्रव्रजितो बोधिसत्त्वः शीलवान् आशयसंपन्नो ऽन्तशो यस्
तिर्यग्योनिगते ऽपि सत्त्व एकस्याप्य् आलोपं दद्यात्। तस्य
पुण्याभिसंस्कारस्य पूर्वकः पुण्याभिसंस्कारः शत-
तमाम् अपि कलां नोपैति, सहस्रतमाम् अपि, कोटीशत-
सहस्रतमाम् अपि, कोटीनियुतसहस्रतमाम् अपि, यावद् उप-
निषदम् अपि न क्षमते॥

(2) सचेन् मञ्जुश्रीस् त्रिसाहस्रमहासाहस्रलोकधातुपर-
माणुरजःसमा बोधिसत्त्वाः प्रव्रजिताः शिलवन्त आशय-
शुद्धाः, तत एकैको बोधिसत्त्वो गङ्गानदीसिकतासंख्येयान्
बुद्धान् बोधिसत्त्वान् सश्रावकसंघांश् चीवरपिण्डपात-
शयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर् उपतिष्ठेत्, गङ्-
गानदीसिकतासंख्येयान् कल्पान्। यस् तेषां बोधिस-
त्त्वानां पुण्याभिसंस्कारो भवेद् दानमयः। यो वान्यो
बोधिसत्त्व आशयशुद्धो शीलवान् गृही वा प्रव्रजितो वा,
इमं धर्मपर्यायं श्रुत्वाधिमुच्येत् पत्तीयेद् वा लिखेत
लेखापयेद् वा। अस्य पुण्याभिसंस्कारस्य स पूर्वकः
पुण्याभिसंस्कारः, तषां बोधिसत्त्वानां दानमयं
पुण्यक्रियावस्तु शततमीम् अपि कलां नोपैति, सहस्रतमीम्
अपि, यावद् उपनिषाम् अपि न क्षमते॥

(६२)

(3) सचेन् मञ्जुश्रीर् बोधिसत्त्वो महासत्त्वस् त्रिसाहस्र-
महासाहस्रं लोकधातुं सप्तरत्नपरिपूर्णां कृत्वा बु-
द्धेभ्यो भगवद्भ्यो दानं दद्यात्। एवं ददंस् त्रि-
साहस्रमहासाहस्रलोकधातुपरमाणुरजःसमान् कल्पान्
दानं दद्यात्। यो वान्यो बोधिसत्त्व इमान् धर्मपर्यायान्
अन्तशश् चतुष्पादिकां गाथां बोधिसत्त्वस्य देशयेत्। अस्य
पुण्याभिसंस्कारस्य स पूर्वकः पुण्याभिसंस्कारः शत-
तमाम् अपि कलां नोपैति, सहस्रतमाम् अपि, शतसहस्र-
तमाम् अपि, कोटिशतसहस्रतमाम् अपि, यावद् उपनिषाम् अपि
न क्षमते॥

(4) तिष्ठन्तु तावन् मञ्जुश्रीस् त्रिसाहस्रमहासाहस्रलोक-
धातुपरमाणुरजःसमान् कल्पान् दानं ददतः पुण्याभि-
संस्काराः। सचेन् मञ्जुश्रीर् गङ्गासिकतासंख्येया बोधि-
सत्त्वा भवेयुः। तत एकैको बोधिसत्त्वो गङ्गासिकता-
संख्येयानि बुद्धक्षेत्राणि जाम्बूनदसुवर्णमयानि,
सर्ववृक्षांश् च दिव्यैर् वस्त्रैः परिवेष्टयित्वा, सर्व-
प्रभासमुच्चयमणिरत्नजालसंच्छन्नानि कृत्वा, वशिराज-
मणिरत्नमयैः कूटागारैर् विद्युत्प्रदीपमणिरत्नवेदिका-
परिवृतैः परिपूर्णां कृत्वा, उच्छ्रितच्छत्रध्वजपताका-
भिर् गङ्गानदीसिकतासंख्येयेभ्यो बुद्धेभ्यो दिवसे दि-
वसे दानं दद्यात्। एवं ददङ् गङ्गासिकतासंख्येयान्
कल्पान् दानं दद्यात्। यो वान्यो बोधिसत्त्व इमं धर्म-
पर्यायम् अधिमुच्यान्यस्य बोधिसत्त्वस्येतो धर्मपर्यायाद्
अन्तश एकाम् अपि चतुष्पादिकां गाथां देशयेद् अवतारयेद्

(६३)

वा। अस्य पुण्याभिसंस्कारस्य स पूर्वकः पुण्याभि-
संस्कारस् तेषां बोधिसत्त्वानां दानमयः शततमाम् अपि
कलां नोपैति, सहस्रतमाम् अपि, शतसहस्रतमाम् अपि,
संख्याम् अपि, कलाम् अपि, गणनाम् अपि, उपनिषाम् अपि, यावद्
उपनिषदम् अपि नोपैति॥

(1) तद्यथा मञ्जुश्रीस् त्रैधातुकपर्यापन्नाः सर्वसत्त्वा
नरकतिर्यक्प्रेतयमलोकोपपन्ना भवेयुः। अथ गृही
बोधिसत्त्वस् तान् सर्वान् नरकतिर्यक्प्रेतयमलोकाद् उद्धृत्य
प्रत्येकबुद्धत्वे प्रतिष्ठापयेत्। यो वान्यो बोधिसत्त्वः
प्रव्रजितो ऽन्तशस् तिर्यग्योनिगते ऽपि सत्त्व एकम् आलोपं
दद्यात्। अयं ततो बहुतरम् असंख्येयतरं पुण्यं
प्रसवयात्॥

(2) सचेन् मञ्जुश्रीर् दशसु दिक्षु बुद्धक्षेत्रानभिलाप्य-
कोटिनियुतशतसहस्रपरमाणुरजःसमाः प्रव्रजिता बोधि-
सत्त्वा भवेयुः। तत एकैको बोधिसत्त्वो दशसु दिक्ष्व्
एकैकस्मिन् दिग्भागे दशबुद्धक्षेत्रानभिलाप्यकोटीनियुत-
शतसहस्रपरमाणुरजःसमान् बुद्धान् भगवतः पश्येत्।
एकैकं च तथागतं सबोधिसत्त्वं सश्रावकं दशसु
बुद्धक्षेत्रानभिलाप्यकोटीनियुतशतसहस्रपरमणुरजः-

(६४)

समान् कल्पांश् चीवरपिण्डपातशयनासनग्लानप्रत्ययभै-
षज्यपरिष्कारैर् उपतिष्ठेत्। एकैकस्य च तथागतस्य दिवसे
दिवसे बुद्धक्षेत्रानभिलाप्यकोटीनियुतशतसहस्रपरमा-
णुरजःसमान् लोकधातून् वशिराजमणिरत्नप्रतिपूर्णान्
कृत्वा दानं दद्यात्। यो वान्यो बोधिसत्त्वो ऽस्मिन् धर्म-
पर्याये ऽधिमुक्तो ऽन्तशस् तिर्यग्योनिगते ऽपि सत्त्व एकम्
आलोपं दद्यात्। अस्य पुण्याभिसंस्कारस्य पूर्वकः पुण्या-
भिसंस्कारस् तेषां बोधिसत्त्वानां दानमयः शततमाम्
अपि कलां नोपैति, सहस्रतमाम् अपि, शतसहस्रतामाम् अपि,
संख्याम् अपि, कलाम् अपि, गणनाम् अपि, उपनिषाम् अपि,
उपनिषदम् अपि न क्षमते। तत् कस्य हेतोः। अवै-
वर्तिकानां बोधिसत्त्वानाम् इयं मुद्रा यदुतास्य धर्म-
पर्यायस्य श्रवः॥

(1) सचेन् मञ्जुश्रीर् बोधिसत्त्वो दशसु दिक्षु सर्वलोक-
धातुषु सत्त्वाञ् श्रद्धानुसारित्वे प्रतिष्ठापयेत्। यो वान्यो
बोधिसत्त्व एकं सत्त्वम् अर्थानुसारित्वे प्रतिष्ठापयेत्।
अयं ततो ऽसंख्येयतरं पुण्यं प्रसवति॥

(2) सचेन् मञ्जुश्रीर् बोधिसत्त्वो दशदिक्षु सर्वलोकधातुषु
सर्वसत्त्वान् अर्थानुसारित्वे प्रतिष्ठापयेत्। यो वान्यो बोधि-
सत्त्व एकं सत्त्वं धर्मानुसारित्वे प्रतिष्ठापयेत्। अयं

(६५)

ततो ऽसंख्येयतरं पुण्यं प्रसवति॥

(3) सचेन् मञ्जुश्रीर् बोधिसत्त्वो दशसु दिक्षु सर्वलोक-
धातुषु सत्त्वान् धर्मानुसारित्वे प्रतिष्ठापयेत्। यो वान्यो
बोधिसत्त्व एकं सत्त्वं स्रोतापत्तिफले प्रतिष्ठापयेत्।
अयं ततो ऽसंख्येयतरं पुण्यं प्रसवति॥

(4) सचेन् मञ्जुश्रीर् बोधिसत्त्वो दशसु दिक्षु सर्वलोक-
धातुषु सर्वसत्त्वान् स्रोत-आपत्तिफले प्रतिष्ठापयेत्। यो
वान्यो बोधिसत्त्व एकं सत्त्वं सकृदागामिफले प्रति-
ष्ठापयेत्। अयं ततो ऽसंख्येयतरं पुण्यं प्रसवति॥

(5) सचेन् मञ्जुश्रीर् बोधिसत्त्वो दशसु दिक्षु सर्वलोक-
धातुषु सर्वसत्त्वान् सकृदागामिफले प्रतिष्ठापयेत्। यो
वान्यो बोधिसत्त्व एकं सत्त्वम् आनागामिफले प्रतिष्ठापयेत्।
अयं ततो ऽसंख्येयतरं पुण्यं प्रसवति॥

(6) सचेन् मञ्जुश्रीर् बोधिसत्त्वो दशसु दिक्षु सर्वलोक-
धातुषु सर्वसत्त्वान् अनागामिफले प्रतिष्ठापयेत्। यो

(६६)

वान्यो बोधिसत्त्व एकं सत्त्वं अर्हत्वे प्रतिष्ठापयेत्।
अयं ततो ऽसंख्येयतरं पुण्यं प्रसवति॥

(7) सचेन् मञ्जुश्रीर् बोधिसत्त्वो दशसु दिक्षु सर्वलोक-
धातुषु सर्वसत्त्वान् अर्हत्वे प्रतिष्ठापयेत्। यो वान्यो
बोधिसत्त्व एकं सत्त्वं प्रत्येकबुद्धत्वे प्रतिष्ठापयेत्।
अयं ततो ऽसंख्येयतरं पुण्यं प्रसवति॥

(8) सचेन् मञ्जुश्रीर् बोधिसत्त्वो दशसु दिक्षु सर्वलोक-
धातुषु सर्वसत्त्वान् प्रत्येकबुद्धत्वे प्रतिष्ठापयेत्।
यो वान्यो बोधिसत्त्व एकं सत्त्वं बोधिचित्ते प्रतिष्ठापयेत्।
अयं ततो ऽसंख्येयतरं पुण्यं प्रसवेत्॥

(9)  सचेन् मञ्जुश्रीर् बोधिसत्त्वो दशसु दिक्षु सर्वलोक-
धातुषु सर्वसत्त्वान् बोधिचित्ते प्रतिष्ठापयेत्। यो वान्यो
बोधिसत्त्व एकं सत्त्वम् अवैवर्तिकत्वे प्रतिष्ठापयेत्।
अयं ततो बहुतरं पुण्यं प्रसवेत्॥

(६७)

(10) सचेन् मञ्जुश्रीर् बोधिसत्त्वः सर्वसत्त्वान् अवैवर्तिकत्वे
प्रतिष्ठापयेत्। यो वान्यो बोधिसत्त्व इमं धर्मपर्यायम्
अधिमुक्तः लिखापयित्वा परेभ्यो विस्तरेण संप्रकाशयेत्,
अन्तश एकं सत्त्वम् अप्य् अस्मिन् धर्मपर्याये ऽवतारयेत्।
अयं ततो बहुतरं पुण्यं प्रसवेत्॥

अथ खलु भगवांस् तस्यां वेलायाम् इमा गाथा अभाषत्।

यो बोधिसत्त्वो दशबुद्धकोटिनां
सद्धर्मं धारयेत् क्षयान्तकाले।
सूत्रं च यो ऽन्यः शृणुयात् सगौरवाद्
इदं ततः पुण्यमहान्तं विशेषयेत्॥१॥

यो बुद्धकोटीदश पूजयेद्
ऋद्ध्या समाक्रम्य दशासु दिक्षु।
वन्दापयेत् स पुरुषांश् च सर्वान्
कृत्वा कृपां सर्वसुखेष्व् अगृद्धः॥२॥

(६८)

यश् चेदं सूत्रं जिनधर्मसूचकं
परस्य देशेत मुहूर्तकं पि।
प्रसन्नचित्तः सुगतस्य शासन
इदं ततः पुण्यफलं विशिष्यते॥३॥

संदर्श्य सूत्रं सुगतप्रवेदितं
प्रदीपभूतं मरुमानुषाणां।
स तीक्ष्णप्रज्ञश् च महाबलश् च
बुद्धान भूमिं लभते च शीघ्रम्॥४॥

कथां श्रुणित्वा सुगतानम् ईदृशं
संश्रावयेद् यश् च द्वितीयसत्त्वे।
तेषां च बुद्धान नरोत्तमानां
परिनिर्वृतानां निरुपाधिशेषे॥ ५॥

स्तूपान् प्रतिष्ठापय उच्चशोभनान्।
भवाग्रपर्यन्तसुरत्नचित्रान्।
छत्रैः पताकैस् तथ घण्टशब्दैः
परिणाहवन्ते हि यथा भवाग्रम्॥६॥

(६९)

इच्छे त्व् अयं कश्चिद् इह बोधिसत्त्वः
सूत्रं श्रुणित्वा इम एवरूपम्।
काये प्रतिष्ठापयि पुस्तके वा
इदं ततः पुण्यफलं विशिष्यते॥७॥

यो बोधिसत्त्वो इमु धर्मु धारयेद्
अपनीतमाच्छर्यमलो विशारदः।
पुण्यं भवेत् तस्य हि अप्रमेयं
लभेत बोधिं च यथेप्सितेन॥ ८॥

इदं हि सूत्रं सुगतैः प्रशस्तं
परिगृहीतं बहुबोधिसत्त्वैः।
तथागतानाम् इह-म्-आत्मभाव
आकाशधात्वे हि सर्वेषु दर्शितः॥ ९॥

(७०)

इदम् अवोचद् भगवान् आत्तमना आर्यमञ्जुश्रीर् बोधि-
सत्त्वः, ते च दशदिगनन्तापर्यन्ताशेषलोकधातुसंनिपतिता
बोधिसत्त्वा महासत्त्वा इत् च महाश्रावकाः सदेवमा-
नुषासुरगन्धर्वश् च लोको भगवतो भाषितम् अभ्य-
नन्दन्न् इति॥॥

आर्यसर्वबुद्धविषयावतारज्ञानालोकालंकार नाम
महायानसूत्रं समाप्तम्॥॥

ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्य् अवदत्।
तेषां च यो निरोध एवंवादी महाश्रमणः॥

देयधर्मो ऽयं प्रवरमहायानयायिनो भिक्षुशीलध्वजस्य
च तत्र पुण्यं तद् भवत्व् आचार्योपाध्यायमातापितृपूर्वं-
गमं कृत्वा सकलसत्त्वराशेर् अनुत्तरज्ञानफलावाप्तय इति॥

महाराजाधिराजश्रीमद्गोपालदेवराज्ये संवत् १२ श्रावणदिने
३० लिखितम् इदम् उपस्थायकचाण्डोकेनेति॥ श्री॥

(७१)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project