Digital Sanskrit Buddhist Canon

अभिधर्मकोशव्याख्यायाम् (Vol 2)

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2019
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

अभिधर्मकोशव्याख्यायाम्

चतुर्थ कोशस्थानम्

[ कर्मजं लोकवैचित्र्यं चेतना तत्कृत च तत्।
चेतना मानस कर्म तज्जे वाक्कायकर्मणी।। १।। ]

तीर्थकरविप्रतिपत्त्या समुत्पादित-सन्देहः पृच्छति। अथ यदेतदिति विस्तरः। तत्र सत्त्ववैचित्र्य धातुगतियोन्यादिभेदेन। भाजनवैचित्र्यं मेरूद्वीपादिभेदेन। व्यामिश्रकरिणमिति कुशलाकुशलकर्मकारिणाम्। अथ कस्मात्तेषामाश्रया रम्या न भवन्ति भोगास्तु रम्या इति। सति चैव विषयोपभोगः सम्भवति। आश्रयरम्यत्वे हि कस्य प्रतीकाराय रम्यविषयोपभोगः स्यात्। अव्यामिश्रकारिणामिति रूपावचराणाम्। कामावचरा अपि देवा अव्यामिश्रकारिकल्पा आश्रयविषयरम्याः। रम्यताहेतुकर्मद्वयकारित्वात्।

चेतयित्वा चेति। एवं चेदं करिष्यामीति। स्वभावतश्चेद्धाक्कर्मैकमिति। वागेव कर्मेति कृत्वा इतरयोस्तु [ न ] कर्मत्वम्। कायेन कायस्य वा कर्म कायकर्म। एवं मनस्कर्म। इति न स्वभावतः कर्म। त्रिभिः कारणैरिति। आश्रयतः स्वभावतः समुत्थानतश्चेति। त्रयाणामिति कायवाङ्मनस्कर्मणाम्। आश्रयतः कायकर्म। [ काय ] श्रयं कर्म कायकर्मेति। स्वभावतो वाक्कर्म। वागेव कर्मेति। समुत्थानतो मनस्कर्म। मनुःसमुत्थितमिति कृत्वा।। १।।

[ ते तु विज्ञप्तविज्ञप्ती कायविज्ञप्तिरिष्यते।
संस्थानं न गतिर्यस्मात् संस्कृतं क्षणिकं व्ययात्।। २।। ]

गतिरित्यपर इति। वात्सीपुत्रीयाः। आत्मलाभः अनन्तरविनाशीति क्षणस्यानन्तरक्षण इति नैरूक्तेन विधिना आत्मलाभः। अनन्तर विनाशी क्षणशब्देनाभिधीयते। अथवा कालपर्यन्तः क्षणः स्वावस्थानः। सोऽस्यास्तीति क्षणिकः। अत इनिठनाविति ठन् संस्कृतस्यावश्यं व्ययादिति। उत्पत्त्यनन्तरविनाशिरूपं चित्तचैत्तवत्।

आकस्मिको हि भावानां विनाश इति। अकस्माद्भव आकस्मिकः अहेतुक इत्यर्थः। साधनं चात्न। अहेतुको विनाशः। अभावत्वादत्यन्ताभाववत्। दृष्टो वै काष्ठादीनामिति विस्तरः। आदिशब्देन रूपादीनां प्रहणम्। दृष्टोऽग्निसंयोगाद्विनाश इति। प्रत्यक्षद्वारापतितो धर्मस्वरूपविपर्यय इति प्रतिज्ञादोष दर्शयति। अत एवाह। न च दृष्ताद् गरिष्ठं प्रमाणमिति। न प्रत्यक्षाद् गुरूतम प्रमाणमस्तीत्यर्थः।

आचार्यः प्रत्यक्षाभिमान परेषां दर्शयन्नाह। कथं तावद्भवान् यावन् मन्यत इति। न हि काष्ठादिविनाशो रूपादिवत् प्रत्यक्षत उपलभ्यते। क्षणिकवादिनस्त आहुः। तेषां पुनरदर्शनादिति तेषां काष्ठादिविनाशः। तदापाते भावात्। यस्य यदापाते भावः स तद्धेतुकः। तद् यथा बीजापातभाव्योऽङ्कुरः। सम्प्रधार्य तावदेतदिति नैकान्तिकतामुद्भावयति। न हि यस्यापाते यो विनाशो भवति स तद्धेतुक इति। वायुसंयोगपाते हि सति प्रदीपस्य विनाशः। न च स विनाशो वायुसंयोगकृतः। क्षणिकत्वाभ्युपगमाद्धि प्रदीपस्याकस्मिको विनाश इष्यते स हि उत्पन्नप्रध्वंसितत्वात् स्वय विनष्टः प्रदीपः। वायुप्रतिबन्धादन्यस्यानुत्पत्तौ न दृश्यते। न तेन विनाश इति। तथा धण्टाशब्दः क्षणिक इष्यते। पाणिसंयोगपाते च सति घण्टाशब्दस्य विनाशः। न स तत्कृतः। क्षणिकत्वाद्धि स्वय विनष्टो घण्टाशब्दस्तत्प्रतिबन्धत्वादन्यस्यानुत्पत्तौ न दृश्यते। न तेन विनाश इति। तस्मादनुमानसाध्योऽयमर्थो न प्रत्यक्षसिद्ध इत्यभिप्रायः। तस्मादनैकान्तिकमेतत्। यस्य पाते यः कश्चिद्विनाशः स तत्कृत इति। किं पुनरत्रानुमानमिति। अत्राहेतुको विनाश इत्येतस्मिन्नर्थे किमनुमानमिति। उक्त तावदकार्यत्वादभावस्येति। अहेतुको विनाशः अकार्यत्वादाकशवत् अकार्यश्चासौ अभावस्वभावत्वादत्यन्ताभाववत्।। २।।

[ न कस्यचिदहेतोः स्याद्धेतुः स्याच्च विनाशकः।
द्विग्राह्य स्यान्न चाऽणौ तद् वाग्विज्ञप्तिस्तु वाग् ध्वनिः।। ३।। ]

न कस्यचिदहेतोरिति न कस्यचिदकस्मादित्यर्थः। उत्पादवदिति विपरीतोपमानम्। यथोत्पाद आत्मलाभलक्षणः सहेतुक एव। नाहेतुकस्तद्विनाशः स्यात्। न चैवं भवति। कथमित्याह । क्षणिकानां च बुद्धिशब्दार्चिषां दृष्ट आकस्मिको विनाशः तदेवमनुमानापतितो धर्मः स्वरूपविपर्ययः। आकस्मिकः काष्ठादीनां विनाशः। विनाशस्वाभाव्यात्। बुद्धयादिविनाशवदिति।

यस्तु मन्यत इति वैशेषिकाः। पूर्वा बुद्धिरूत्तरया बुद्ध्या उत्पन्नया विनाश्यते। अन्या तु बुद्धिः पूर्वया बुद्ध्या विनाश्यते। एवं शब्दोऽपि वाच्यः। आह। न युक्तमेतत्। कस्मात्। बुद्धोरसमवधानात् अयुगपद्भावादित्यर्थः। न ह्यसन्तं नाश्यं हेत्य्र्विनाशयतीति। कथं गम्यते बुद्धयोरसमवधानमिति। अत आह। न हि संशयनिश्चयज्ञानयोर्युक्तं समवधानमिति विस्तरः। स्वसंवेद्यमेतत्। यदा संशयज्ञानं न तदा निश्चयज्ञानम्। यदा निश्चयज्ञानं न तदा संशयज्ञानमिति। एवं सुखदुःखयो रागद्वेषयोश्चासमवधानमिति योज्यम्। यथा च विरूद्धयोरसमवधानमेवमविरूद्धयोरपि ज्ञानयोरसमवधानं भवतीति। यदा चेति विस्तरः। अथापि समवधानं स्यादिति। तथाप्यपटुबुद्धिशब्दौ पटू न हिंस्याताम्। दुर्बलसमानजातीयत्वात्। न हि दुर्बलसमानजातीयो बलवन्तं हिंसन् दृष्टः। असमानस्तु दुर्बलोऽपि हिंस्यात्। तद् यथा उदकं तेजः।

योऽप्यर्चिषामवस्थानं हेत्वभावादिति। अवस्थानहेत्वभावाद्भावानां व् विनाश इति स्थविरवसुबन्धुप्रभृतिभिरयं हेतुरूक्तः। स चायुक्तः। न ह्यभावः कारणं भवितुमर्हतीति। धर्माधर्मवशाद्वेति वैशेषिकस्त प्रत्याह। न चाप्युत्पादविनाशहेत्वोरिति। उत्पादविनाशहेत्वोरधर्मस्य। क्षण एव क्षण इति मुख्ये क्षणे नौपचारिके क्षण इत्यर्थः। अथवा क्षण एव क्षण इति क्षणे क्षणे भवितु नार्हतः। कथं कृत्वा। यस्यार्चिषः उत्पत्तावनुग्रहो भवति चैत्रस्य मैत्रस्य वा तस्य धर्म उपलब्धवृत्तिः। तदुत्पादयतीत्येवमुत्पादहेतुः। विनाशहेतुरपि। यदि तद्विनाशस्तस्यानुग्रहं करोति। अन्धकारावस्थायामेवमधर्मोऽपि यस्यार्चिरूत्पत्तावपकारो भवति। तस्याधर्मोपलब्धवृत्तिस्तदुत्पादयति। विनाशहेतुरपि। यदि तद्विनाशस्तस्याप्यपकार करोति अन्धकारावस्थायामिति तयोर्वृत्तिलाभादर्चिषामुत्पत्तिर्भवति। न च वृत्तिलाभं तयोरप्रतिबध्य ताभ्यामेव तस्मिन्नेव क्षणे तेषां विनाश इति। क्षणे क्षणे वृत्तिलाभप्रतिबन्धौ न द्वयोर्युज्यते। शक्यश्चैष कारणपरिकल्प इति विस्तरः। धर्माधर्मविनाश इति कारणपरिकल्प इति। सर्वत्र संस्कृते द्वयणुकादौ अनित्येषु रूपादिषु कर्मणि च शक्यते कर्तुम्। अतो न वक्तव्यमेतत्। अग्निसंयोगात् काष्ठादीनां विनाश इत्येवमादि। ततश्च सर्व संस्कृतस्य क्षणिकसिद्धिः। धर्माधर्मयोस्तद्विनाशकारणान्तरानपेक्षत्वादित्यलं विवादेन।

तत एव तादृशाद्वेति। अग्निसंयोगः श्यामतां घटस्य निवर्त्य रक्ततां जनयति। स एव रक्ततां निवर्त्य रक्ततरतां जनयतीति कल्प्यते। हेतुरेव विनाशकः स्यात्। अथ ज्वालानां क्षणिकत्वादन्यस्तत्संयोगो जनकोऽन्योऽपि विनाशक इति कल्प्यते। हेत्वविशिष्टो विनाशकः स्यात्। न च युक्तिमिति सर्वम्। ज्वालान्तरेषु च तावद्धेतुभेदेऽपि परिकल्पनां परिकल्पयेयुर्वैशेषिकाः। क्षणिकत्वात् ज्वालानामन्या जनिका अन्या विनाशिका इति। क्षारयावद् भूमिसम्बन्धात्तु पाकजविशेषोत्पत्तौ कां कल्पनां कल्पयेयुः। न हि तेषां क्षारादयः क्षणिकाः। तत्र हेतुरेव विनाशकः स्यात्। यत्तर्हि आप इति विस्तरः। यद्यग्निसंयोगेऽप्यापो न विनाश्यन्ते कथं तर्ह्यापः क्वाथ्यमानाः क्षीयन्त इत्यभिप्रायः। तेजो धातुरिति तदविनिर्भागसंवर्धनम्। यस्य प्रभावादपां संहातः क्षामक्षामो जायत इति। कारणविशेषात् कार्यविशेष इति क्षामक्षामतरो जायते। यावदतिक्षामतां गतोऽन्ते न पुनः सन्तानं सन्तनोति इति कार्य करोति न त्वभावं करोतीत्यर्थः। भङ्गुरत्वादिति विस्तरः। भङ्गशीलत्वात् स्वयं विनश्यन्तोऽन्येनाजनितविनाशाः। सन्त उत्पन्नमात्रादेकक्षणलब्धात्मानो भवन्तो विनश्यन्ति। तृणज्वालावदिति यथा तृणज्वालायाः क्षणिकत्वेऽपि देशान्तरेषु निरन्तरोत्पत्तौ गत्यभिमानः तृणं दहन्तीति ज्वाला गच्छन्तीति तद्वत् साधनं च। अविद्यमानगतयो देशान्तरे निरन्तरमुत्पद्यमाना रूपादयो भावाः क्षणिकत्वात् तृणज्वालावत्। संस्थानं कायविज्ञप्तिरिति वैभाषिकवचनम्।। ३।।

[ त्रिविधामलरूपोक्तिवृद्धकुर्वत्पथादिभिः।
क्षणादुर्धमविज्ञप्तिः कामाप्ताऽतीतभूतजा।। ४।।
स्वानि भूतान्युपादाय कायवाक्कर्म सास्रवम्।
अनास्रवं यत्न जातोऽविज्ञप्तिरनुपात्तिका।। ५।।
नैष्यन्दिकी च सत्त्वाख्या निष्यन्दोपात्तभूतजा।
समाधिजौपचयिकाऽनुपात्ताऽभिन्नभूतजा।। ६।। ]

एकदिङ्मुख इति एका दिङ् मुखमस्येति एकदिङ्मुखं तस्मिन्। भूयसि बहुतरे। एवं सर्वमित्यूद्धक दिङ्मुखे भूयसि उत्पन्न उन्नतमिति प्रज्ञप्यते। अधो भूयस्यवनतमिति। एषा दिक्। तद्यथा अलातमिति न द्रव्यसत्संस्थानम्। वर्ण-ग्रहणात् पक्षग्रहणत्वात्। अलातचक्रवदिति। अथवा न द्रव्यसंस्थानमन्यरूपग्रहणात् पक्षग्रहत्वाद्धान्यराशिवदिति। द्वाभ्यामस्य ग्रहणं प्राप्नुयादित्युक्ते वैभाषिको ब्रूयात्। न दीर्घत्वादेः कायेन्द्रियेण ग्रहणम्। किं तर्हि। स्प्रष्टव्यावयवेष्वेव। तथा संनिविष्टेषु दीर्घादिग्रहणं भवति। अतो न द्वभ्यामस्य ग्रहणं प्राप्नोति अत इदमुच्यते यथा वा स्प्रष्टव्ये दीर्घह्रस्वादिग्रहणं न च स्प्रष्टव्यायतनसंगृहीतं संस्थानम्। तथा वर्णेऽपि सम्भाव्यतां दीर्घादिग्रहणं न च रूपायतनसंगृहीतसंस्थानम्। अर्थान्तरभूतं स्यादित्यर्थः। पुनर्वैभाषिक आह। स्मृति मात्रं तत्र इति विस्तरः। स्मृतिमात्रं तत्र संस्थाने। [ स्पर्श ] साहचर्यात् श्र्लक्ष्णत्वादिभिः स्पर्शैः सहचरभावात् भवति। न तु साक्षाद्ग्रहणं दीर्घादिसंस्थानस्य। यथाग्निरूपं दृष्ट्वा तस्याग्नेरूष्णतायां स्मृतिर्भवति साहचर्यात्। पुष्पस्य च चम्पकस्य च गन्धं घ्रात्वा तद्वर्णेऽपि स्मृतिसाहचर्यम्। आह। युक्तमत्नेति विस्तरः। युक्तमत्राग्नावव्यभिचारात् उष्णतायाश्च रूपस्य च। अन्येनान्यस्मरणमग्निरूपेणोष्णतायाः। पुष्पगन्धेन च तद्वर्णस्य। न तु किञ्चिदिति विस्तरः। न तु किञ्चित् स्प्रष्टव्यं श्र्लक्ष्णत्वादि क्वचिदिति संस्थाने दीर्घादौ नियतम्। यतोऽत्र संस्थाने स्प्रष्टव्यं स्पृष्ट्वा स्मरणं नियमेन स्यात्। यत्र ह्यग्निरूपं तत्र तदुष्णतया भवितव्यम्। यत्र च चम्पकगन्धः तत्र तद्रूपेण भवितव्यम्। न तु यत्र श्र्लक्ष्णत्वं कर्कशत्वं वा तत्र दीर्घत्वेन [ ह्रस्वत्वेन ] वा भवितव्यम्। तस्मात् [ तदुष्णता ] रूपयोर्नियमेन युज्यते संस्थानेन तु नियमेन स्मरणं न प्राप्नोति। तथा सत्यपि साहचर्यनियमे स्प्रष्टव्यं संस्थानयोः संस्थाने स्मरणं नियमेन स्यात्। वर्णेऽपि स्यात् स्मरणं नियमेनेति वर्तते। तदेवं स्प्रष्टव्यं स्पृष्टा स्मरेदित्यर्थः। अथानियमेन वर्णस्मरणं भवति वर्णवद्वा संस्थानेऽप्यनियमेन स्यात् दीर्घे ह्रस्वमिति ह्रस्वेदीर्घमिति। किं कारणम्। वर्णे ह्यनियमेन स्मरणं भवति स्प्रष्टव्यात् कदाचिद् रक्ते पीतमिति पीते रक्तमिति। न चैवं भवति। कथमेवं न भवति। यथा वर्णे संस्मरणं न नियमेन भवति तथा संस्थानेऽप्यनियमेनेति। किं तर्हि। वर्णे स्मरणं न नियमेन भवति। संस्थाने पुनर्नियमेनेत्ययुक्तमस्य संस्थानस्य स्प्रष्टव्यात् स्मरणम्। कथं तर्हि दीर्घबुद्धिर्ह्रस्वबुद्धिर्वा भवति। उक्तमेतदेकदिङ्मुखे भूयसि वर्णे वा स्प्रष्टव्ये वा गृह्यमाणे दीर्घविकल्पबुद्धिरल्पीयसि ह्रस्वविकल्पबुद्धिरित्येवमाद्यवगन्तव्यम्। चित्रान्तरेण वेति विस्तरः। चित्रान्तरेण वानेकवर्णसंस्थाने बहुभिः प्रकारैर्दृश्यमानेनानेकसंस्थानं दृश्यते दीर्घादि। अतोऽनेकसंस्थानदर्शनात् बहूनां संस्थानानामेकदेशं प्राप्नुयात्। यत्रैवं दीर्घत्वं तत्रैव ह्रस्वादिग्रहणात्। तच्चायुक्त वर्णवत्। यथा हि वर्णः सप्रतिघत्वादेकदेशो न भवति तथा संस्थानमपीति। तथा च सति द्रव्यतोऽपि संस्थानमिति सापक्ष्यालः पक्ष्यो भवति धर्मविशेषविपर्ययात्। न चाणौ तदिति। यथा नीलादिरूपम् अष्टद्रव्यकादावणौ विद्यते न चैवमणौ संस्थानं दीर्घादि विद्यते। कथं पुनर्गम्यते संस्थानं परमाणौ नास्तीति। दीर्घसंघातेऽपचीयमाने दीर्घबुध्द्यभावात्। दीर्घ हि दण्डमुपलभ्य तस्मिन्नेवापचीयमाने दीर्घबुद्धिर्न विवर्तेत न हि नीलादि द्रव्यमुपलभ्यापचीयमाने तस्मिन् पीतबुद्धिर्भवति। दीर्घद्रव्ये त्वपचीयमाने ह्रस्वबुद्धिर्भवति न दीर्घबुद्धिः। न च युक्तं वक्तुं तदेव संस्थान दीर्घादि ह्रस्वादि बुद्धि जनयतीति। तस्माद्वहुष्वेवेति सर्वम्। अथ मतमिति विस्तरः। संस्थानपरमाणव एव तथा सन्निविष्टा एकदिङ्मुखादिक्रमेण दीर्घादिसंज्ञा भवन्ति। न ह्येतत् स्वभावः तथा सन्निविष्टाः समानास्तां संज्ञामुपलब्धुमर्हतीत्यभिप्रायः। न च संस्थानावयवानां वर्णादिवत् स्वभावः सिद्ध इति। वर्णावयवाः प्रसिद्धस्वभावाः। प्रत्यवयवं नीलादित्वतो ग्रहणान्न चैवं संस्थाने परमाणवः प्रत्यवयवं दीर्घादित्वतो गृह्यन्ते। तस्मान्न प्रसिद्धस्वभावाः। यदि तु नैव ते दीर्घादिस्वभावाः सन्निवेशविशेषात् तु दीर्घादिबुद्धिहेतवो भवन्ति। वर्णादिपरमाणव एव सन्निवेशविशेषात्तु दीर्घादिबुद्धिहेतवो भवन्ताति कि नेष्यते। यत्तर्हि वर्णत्वाभिन्न इति यदि वर्णसन्निवेशमात्रं संस्थान स्यात् वर्णाभेदे संस्थानभेदो न स्यात्। मृद्भाजनानां कुण्डादीनामनर्थान्तराभावात्। ननु चोक्तमिति विस्तरः। यथा कृत्वा वर्णे दीर्घादिसंज्ञा प्रज्ञप्यते। एकदिङ्मुखे च वर्ण इति विस्तरेण। यथा च पिपीलिकादीनामिति विस्तरः। यथा च पिपीलिकादय एकरूपा भवन्ति। तेषां च पङ्क्तिरित्यस्मिन् देशेऽन्यादृश्यन्यस्मिन्नन्यादृशी। एवञ्चक्रादीनां भेद इत्येवमादि। तथा वर्णाभेदेऽपि संस्थानभेदः स्यात्।  यत् तर्हि तमसीति विस्तरः। यत् तर्हि तमसि वर्णमपश्यन्तः स्थाणुपुरूषहस्त्यादीनामिति दीर्घह्रस्वत्वपरिमण्डलादीनि पश्यन्ति तत्कथमिति वाक्यशेषः। यदि तर्हि वर्णाज्जात्यन्तरसंस्थान न स्यात्। यथा वर्ण नील पीतमिति वा न पश्यन्ति तथा संस्थानमपि दीर्घह्रस्वमिति न पश्येयुः। पश्यन्ति च कदाचित्। अतो जात्यन्तरं संस्थानमिति। पङ्क्तिसेनापरिकल्पवदिति यथा तमस्यव्यक्त पक्षिणः पिपीलिका वा दृष्टा दीर्घा पङ्क्तिरिति परिकल्पयन्ति। यथा वा तमस्येव हस्त्यादीनव्यक्तं दृष्ट्वा दीर्घा पङ्क्तिरिति परिकल्पयन्ति। यथा वा तमस्येव हस्त्यादीनव्यक्तं दृष्टा परिमण्डलेयं सेना व्यवस्थितेति परिकल्पयन्ति। तद्वत्। वेविदितं चैतदेवमिति। यथेदानीमुक्तमसत्यपि जात्यन्तरे संस्थाने वर्णमेव ते तत्राव्यक्तं दृष्टा दीर्घादिपरिकल्पं कुर्वन्ति। यत् कदाचिदिति विस्तरः। अनिवार्यमाणपरिच्छेदमिति अनिर्द्धायैमाणसंस्थानसंघातमात्रमव्यक्तमलक्ष्यमाणनीलत्वादिकं दृश्यते। न च वर्णसंस्थानव्यतिरिक्तं रूपायतनमस्तीति। यथा नान्यत् किञ्चिद् द्रव्यं कल्प्यते तद्वत् संस्थानमपि न वर्णव्यतिरिक्तं कल्ययितव्यम्।

तत्र भवन्त ति ते भवन्त इत्यर्थः। इतराभ्योऽपि दृश्यन्त इति वचनात्। कथं कायकर्म प्रज्ञापयन्तीति प्रज्ञप्तिसत्त्वात् कायकर्मायोग इति मन्यमानः पृच्छति। कायधिष्ठानमिति कायालम्बनमित्यर्थः। यस्य हि कायः प्रवर्त्यः। तत्कायाधिष्ठान कर्म। तेनाह। या चेतना कायस्य तत्र तत्र पश्यतीति। यथायोगं वेदितव्ये इति वागधिष्ठानं कर्म वाक्कर्म मनस्कर्म तु मनसः कर्म। मनसा वा संयुक्तं कर्म मनस्कर्म। तेन यथायोगमित्युक्तम्। विज्ञप्तभावादिति विस्तरः। यदि विज्ञप्तिर्न स्यात् अविज्ञप्तिरपि कामवचरी न स्यात्। विज्ञप्तयधीना हि कामावचर्यविज्ञप्तिर्न चित्तानुपरिवर्तिनीति। सा चैवं नास्तीति महान्तो दोषा अनुषज्यन्ते। संवरासंवराभावदोषः सप्तौपधिक-पुण्यक्रियावस्तु पुण्यवृद्धयभाव दोष इत्येवमादयोऽनुषङ्गाः। अनुषङ्गाणां पुनः प्रत्युनुषङ्गा इति। तत्परिहारा भविष्यन्तीत्यर्थः। कायकर्मसंशब्दितादिति कायाधिष्ठानादित्यर्थः। समाहिता विज्ञप्तिवदिति यथा समाहिताविज्ञप्तिश्चित्तानुपरिवर्तिनी। एवं प्रातिमोक्षसंवरादिलक्षणाप्यविज्ञप्तिः स्यात्। सौत्रान्तिका आहुः। नैवं भविष्यति न चित्तानुपरिवर्तिनी भविष्यति। चेतनाविशेषणासमाहितेन तदाक्षेपविशेषादसमाहिताया अविज्ञप्तेराक्षेपादित्यर्थः। सापि च विज्ञप्तिर्भवदीया सती विद्यमाना अविज्ञप्तेराक्षेपे उत्पादनचेतनाया बलं सामर्थ्य निभालयते अपेक्षते। कस्मात्। जडत्वादपटुत्वाच्चेतनाबलमन्तरेण तामविज्ञप्ति जनयितु न शक्नोति। न ह्यसत्यां समादानचेतनायां यदृच्छोत्पन्ना विज्ञप्तिरविज्ञप्तिं जनयति।

वाग्विज्ञप्तिस्त्विति। तु शब्दो विशेषणेन। यथा कायविज्ञप्तिः संस्थानात्मिका न तथा वाग्विज्ञप्तिः। किं तर्हि। वागात्मको ध्वनिर्वर्णात्मकः शब्द इत्यर्थः।

अविज्ञप्तिः पूर्वमेवोक्तेति। ते तु विज्ञप्तयविज्ञप्ती इत्युक्तम्। तत्र विज्ञप्तिरूक्ता अविज्ञप्तिर्वक्तव्या। सा च पूर्वमेवोक्ता। विक्षिप्ताचित्तकस्येति वचनात्। सापि द्रव्यतो नास्ति साप्यविज्ञप्तिर्द्रव्यतो नास्ति। न केवला विज्ञप्तिरित्यपिशब्दः। अभ्युपेत्याकरणमात्रत्वादिति। इमं दिवसमुपादाय प्राणातिपातादिभ्यः प्रतिविरमामीत्यभ्युपेत्य। तस्मात् परेण तेषामकरणमात्रमविज्ञप्तिरित्येवं द्रव्यतो नास्तीति सौत्रान्तिकाः। तेषां चातीतानां महाभूतानाम्। न ह्यतीतानां प्रत्युत्पन्नस्वभावोऽस्ति। पञ्चमे च कोशस्थान एतद्दर्शयिष्यत इति। कथमविद्यमानान्यस्या आश्रय इत्यतो न द्रव्यतोऽस्ति। रूपलक्षणाभावाच्च। रूप्यत इति रूपलक्षणम्। तच्चास्या अप्रतिघत्वान्नास्ति। तस्मानन द्रव्यतोऽस्ति।

त्रिविधेति विस्तरः। त्रिविधञ्च तदमलञ्च त्रिविधामलरूपम्। तस्योक्तिः। अकुर्वतः पन्था अकुर्वत्पथः। परेण कारयतः स्वयमकुर्वतः कर्म इत्यर्थः। त्रिविधामलरूपोक्तिश्च वृद्धिश्चाकुर्वत्पथश्चादिरेषाम्। तानीमानि त्रिविधामलरूपोक्तिवृद्धकुर्वत्पथादीनि। आदिशब्देन धर्मो भिक्षो इत्यत्रारूपीत्यवचनम्। आर्याष्टाङ्गवचनं प्रातिमोक्षसंवरसेतुवचनं च गृह्यते।

रूपस्य रूपसंग्रह इति रूपस्य रूपेणैव संग्रहो भवति नान्यैर्वेदनादिभिः। अस्ति रूपं सनिदर्शनं सप्रतिघम्। यच्चक्षुर्विज्ञानविज्ञेयं रूपम्। अस्त्यनिदर्शनं सप्रतिघम्। यानि चक्षुरादीनि तत् पुनर्नव रूप्यायतनानि। अस्ति रूपमनिदर्शनमप्रतिघम्। यन्मनोविज्ञानविज्ञेयम् अविज्ञप्तिरूपं धर्मायतनसंगृहीतम्। नाविज्ञप्तिं विरहय्येति विस्तरः। अविज्ञप्तिं मुक्त्वा नास्ति रूपमनिदर्शनमप्रतिघं यद्रूपसंग्रहसूत्र उक्तम्। नाप्यनास्रवमस्तिरूपमविज्ञप्तिं विरहय्येति वर्तते। न हि मार्गसत्यसमापन्नस्य कायवाग्विज्ञप्तिरूपं युज्यते। सप्तभिरौपधिकैरिति उपधिरारामविहारादिः। तत्र भमौपधिकम्। तस्योपधेरभावान्निरौपधिकम्। सततमभीक्षणम्। समितं निरन्तरम्।

अत्र सूत्रम्। भगवान् कौशाम्ब्यां विहरति स्म घोषितारामे। अथायुष्मान् महाचुन्दो येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्तेऽस्थात्। एकान्ते स्थित आयुष्मान् महाचुन्दो भगवन्तमेतदवोचत्। लभ्यं भदन्त औपधिकं पुण्यक्रियावस्तु प्रज्ञपयितुं महाफ़लं महानुशंसं महाद्युतिकं महावैस्तारिकम्। लभ्यं चुन्देति भगवांस्तस्यावोचत्। सप्तेमानि चुन्दौपधिकानि पुण्यक्रियावस्तूनि महाफ़लानि यावन्महावैस्तारिकाणि। यैः समन्वागतस्य श्राद्धस्य कुलपुत्रस्य वा कुलदुहितुर्वा चरतो वा तिष्ठतो वा स्वपतो वा जाग्रतो वा सततसमितमभिवर्धते एव पुण्यमुपजायते एव पुण्यम्। कतमानि सप्त ? इह चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा चातुर्द्दिशाय भिक्षुसंघायारामं प्रतिपादयति। इदं चुन्द प्रथमौपधिकं पुण्यक्रियावस्तु महाफ़लं यावन्महावैस्तारिकं येन समन्वागतस्य कुलपुत्रस्य वा विस्तरेण यावदुपजायत एव पुण्यम्। पुनरपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा तस्मिन्नेवारामे विहारं प्रतिष्ठापयति। इदं द्वितीयमौपधिकं पुण्यक्रियावस्तु महाफ़लं यावदुपजायत एव पुण्यम्। पुनरपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा तस्मिन्नेव विहारे शयनाशनं प्रयच्छति। तद्यथा मञ्च पीठं वृषिं कोच्चवं बिम्बोपधानं चतुरस्रकं ददाति। इदं चुन्द तृतीयमौपधिकं पुण्यक्रियावस्तु पूर्ववत्। पुनरपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा तस्मिन्नेव विहारे ध्रुवभिक्षां प्रज्ञपयत्यनुकूलयज्ञाम्। इदं चुन्द चतुर्थमौपधिकं पुण्यक्रियावस्तु महाफ़लं पूर्ववत्। पुनरपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा आगन्तुकाय गमिकाय वा दानं ददाति। इदं चुन्द पञ्चममौपधिकं पुण्यक्रियावस्तु पूर्ववत्। पुनरपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा ग्लानाय ग्लानोपस्थापकाय वा दानं ददाति। इदं [ चुन्द ] षष्ठमौपधिकं पुण्यक्रियावस्तु पूर्ववत्। पुनरपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा यास्ता भवन्ति शीतलिका वा वद्दलिका वा वातलिका वा वर्षलिका वा। तद्रूपासु शीतलिकासु यावद्वर्षलिकासु भक्तानि वा तर्पणानि वा यवागूपानानि वा तानि संघायाभिनिर्हृत्यानुप्रयच्छति। इदमार्या अस्माकनार्द्रगात्राः अनभिवृष्टचीवराः परिभुज्य सुखस्पर्श विहरन्तु। इदं च चुन्द सप्तममौपधिकं पुण्यक्रियावस्तु महाफ़लं यावदुपजायत एव पुण्यम्। एभिः सप्तभिरौपधिकैः पुण्यक्रियावस्तुभिः समन्वागतस्य श्राद्धस्य कुलपुत्रस्य वा कुलदुहितुर्वा न लभ्यं पुण्यस्य प्रमाणमुद्ग्रहीतुम् एतावत् पुण्यं वा पुण्यफ़लं वा पुण्यविपाकं वा। अपितु बहुत्वात् पुण्यस्य महापुण्यस्कन्ध इति संह्यां गच्छतीत्येवमादि। द्विरप्यायुष्मान् महाचुन्दो भगवन्तमेतदवोचत्। लभ्यं भदन्त निरौपधिकं पुण्य क्रियावस्तु प्रज्ञपयितुं महाफ़ल यावन्महावैस्तारिकम्। लभ्य चुन्देति भगवांस्तस्यावोचत् । सप्तेमानि चुन्द निरौपधिकानि पुण्यक्रियावस्तूनि यैः समन्वागतस्य श्राद्धस्य कुलपुत्रस्य वा कुलदुहितुर्वा चरतो वा तिष्ठतो वा विस्तरेण यावदुपजायत एव पुण्यम्। कतमानि सप्त। इह चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा शृणोति तथागतं वा तथागतश्रावकं वा अमुकं ग्रामक्षेत्रमुपनिश्रित्य विहरतीति। श्रुत्वा च पुनरधिगच्छति प्रीतिप्रामोद्यमुदार कुशलं नैष्क्रम्योपसंहितम्। इद चुन्द प्रथमं निरौपधिकं पुण्यक्रियावस्तु पूर्ववत् यावदुपजायत एव पुण्यम्। पुनरपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा शृणोति तथागत वा तथागतश्रावकं वा उद्युक्तमागमनाय। श्रुत्वा च पुनरधिगच्छतीति पूर्ववत्। इद चुन्द द्वितीय निरौपधिकं पुण्यक्रियावस्तु। पुनरपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा शृणोति तमेव तथागत वा तथागतश्रावकं वा अध्वानमार्गप्रतिपन्न तमेव ग्रामक्षेत्रमनुप्राप्तम्। श्रुत्वा च पुनरधिगच्छतीति पूर्ववत्। इदं चुन्द तृतीयं निरौपधिकं पुण्यक्रियावस्तु यावदुपजायत एव पुण्यम्। पुनरपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा शृणोति तथागत वा तथागतश्रावकं वा तदेव ग्रामक्षेत्र मनुप्राप्तम्। श्रुत्वा च पुनरधिगच्छतीति पूर्ववत्। इदं चुन्द चतुर्थ निरौपधिकं पुण्यक्रियावस्तु पूर्ववत् यावदुपजायत एव पुण्यम्। पुनरपरं श्राद्धः कुलपुत्रो वा कुलदुहिता वा तमेव तथागतं वा तथागतश्रावकं वा दर्शनायोपसंक्रामति दृष्ट्वा च पुनरधिगच्छतीति पूर्ववत्। इदं चुन्द पञ्चमं निरौपधिकं पुण्यक्रियावस्तु। पुनरपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा तस्यैव तथागतस्य वा तथागतश्रावकस्य वा अन्तिकाद्धर्म शृणोति। श्रुत्वा च पुनरधिगच्छतीति पूर्ववत्। इदं चुन्द षष्ठ निरौपधिकं पुण्यक्रियावस्तु। पुनरपरं [ चुन्द ] श्राद्धः कुलपुत्रो वा कुलदुहिता वा तस्यैव तथागतस्य वा तथागतश्रावकस्य वा अन्तिकाद् धर्म शृणोति। श्रुत्वा च बुद्धं शरणं गच्छति धर्म शरणं गच्छति संघं शरणं गच्छति शिक्षापदानि च प्रतिगृहाति। इदं चुन्द सप्तमं निरौपधिकं पुण्यक्रियावस्तु महाफ़लमिति पूर्ववत्। बहुग्रन्थभयात् न सर्व लिखितम्।

ह्याज्ञापनविज्ञप्तेः कर्मपथ उपयुजुते तस्य प्राणातिपातादिकर्मणोऽकृतत्वात्। स्यान्मतम्। कृते तस्मिन् कर्मणि तदाज्ञापनविज्ञप्तेः कर्मपथो भविष्यतीति। अत्रेदमुच्यते कृतेऽपि च तस्यास्वभावाविशेषादिति परेण कृतेऽपि तस्मिन् कर्मणि तस्याज्ञापनविज्ञप्तेर्न कश्चित् स्वभावविशेषोऽस्ति। येन तदानीं कर्मपथः स्यात्। तस्मात् पूर्ववत्। तस्यास्वभावाविशेषात्। यथैव पूर्ववत् कर्मपथो न व्यवस्थाप्यते तथैव पश्चादित्यतोऽस्तीत्यभ्युपगन्तव्या यासौ तदानीमुत्पद्यते कर्मपथसंगृहीतेति। एकादशभिरायतनैरसंगृहीतमिति धर्मायतनवर्जैः। वाक्कर्मान्ताजीवानामयोगादिति। विज्ञप्तिस्वभावानामेवासम्भवादित्यर्थः। यत्तर्हीदमुक्तमिति विस्तरः। कोऽस्याभिसम्बन्धः। यदि वा मतम्। यद्यविज्ञप्तिर्न स्यादष्टाङ्गोऽयं मार्गो न स्यात्। तत्र विज्ञप्तययोगात्। तस्माद् अस्त्यविज्ञप्तिरिति। यत्तर्हीदमुक्तमिति विस्तरेणोक्ता यावत् सम्यक् समाधिरिति किमर्थमेवमुच्यते। पूर्वमेव चास्येति सर्वम्। मार्गस्य समापत्तिकालात् पूर्वमित्यर्थः। विज्ञप्तिरूपास्त उक्ता इत्यभिप्रायः। वैभाषिकाः परिहरन्ति। लौकिकमार्गवैराग्यमिति विस्तरः। लौकिकमार्गवैराग्यावस्थायां वागादिस्वभाव विज्ञप्तिरूपम्। एतदभिसन्धायैतदुतम्। न तु मार्गकाले तत् संगृहीतं वागाद्यविज्ञप्तिरूपं नास्तीति

समाधिविषयरूपमिति समाधेरालम्बनमस्थिसंकलादि। देशानावरणादप्रतिघमिति। यद्रूपं देशमावृणोति तत् प्रतिघम्। विपर्ययादप्रतिघमिति सिद्धम्। कथमिदानीं तद्रूपमिति। यदि न रूपयितुं शक्यत इत्यभिप्रायः। एतदविज्ञप्तौ समानम्। अविज्ञप्तिरपि वा देशं नावृणोतीति तुल्यम्। अनास्रवे समाधौ अनास्रवमिति। मार्गं सम्मुखीकुर्वाणो योगाचारस्तद्रूपमाशयं चाश्रयञ्च प्रतिलभते। यत् सम्यग्दृष्टिवदनास्रवं शीलं प्रतिलभते। यस्मिन् सति प्रकृतिशीलतायां सन्तिष्ठते। अथवा अनास्रवेऽपि समाधौ तदेवंविधं रूपं त आचार्या इच्छन्ति। अर्हतो यद्रूपं बाह्य चेत्यपर इति। अपर आचार्या वर्णयन्ति। अर्हतो यद्रूपं चक्षुरायतनादि बाह्य च काष्ठकुड्यादि तदनास्नवं रूपम्। कुतः। आस्रवाणामनिश्रयत्वात्। न ह्यर्हत्सान्तानिकं रूपं बाह्यञ्चास्रवाणां क्लेशानां निश्रय इति। यद्येवं यत्तर्ह्यविशेषेण सूत्र उक्तम्। सास्रवा धर्माः कतमे। यावदेव चक्षुर्यावदेव रूपाणीति विस्तरः। तत् पुनरास्रवाणामप्रतिपक्षत्वात् सास्नवमुक्तम्। चित्तचैत्तविशेषो हि आस्रवप्रतिपक्ष इति। पर्यायेण तर्हीति विस्तरः। तदेवार्हतो रूप बाह्यञ्चास्रवाणामप्रतिपक्षत्वात् सास्नवमास्रवाणमनिश्रयत्वादनास्रवमिति। तथा च लक्षण संकरः स्यादिति दोषः। यानि रूपाणीति। यानि रूपाण्याय तनानीत्यर्थः। विस्तरेण यावद् ये धर्माः सास्नवाः सोपादानीयाश्चेतःखिलम्रक्षवस्त्विति वचनात्। सन्त्यनास्रवाणि रूपायतनानीति। तानि पुनः कतमानि सास्रवाणि सोपादानीयानि पृथग्जनरूपाणि। आस्रवाणां निःश्रयत्वात्तदप्रतिपक्षत्वाच्च। कतमान्यानास्रवाणि। यान्यर्हतो रूपाणि बाह्यानि चास्रवाणामनिश्रयत्वात्। धर्मता ह्येषेति। कर्मणामनादिकालिका शक्तिः। गुणविशेषादिति ध्यानाप्रमाणादिगुणविशेषात्। अनुग्रहविशेषाच्चेति शरीरस्य वर्णबलादिविशेषात्। तदालम्बनेति विस्तरः। सप्रतिग्राहकमालम्बनमस्याः। सेयं तदालम्बना दानचेतना। तया परिभाविताः सन्ततयः सूक्ष्मं परिणामविशेषं फ़लोत्पत्तिनिमित्तं प्राप्नु वन्ति। कथ भविष्यतीति बहुतरफ़लाभिनिष्पत्तये कथ भविष्यतीत्यभिप्रायः। नह्यत्र दातॄणां दायाः परिभुज्यन्ते। यत्परिभोगात् भोक्तॄणां गुणविशेषादनुग्रहविशेषाच्चान्यमनसामपि दातॄणमिति विस्तरेण यावत् समर्था भवन्ति यावदुपजायत एव पुण्यमिति वा तदालम्बनचेतनाभ्यासादिति। तथागततच्छावकालम्बनचेतनाभ्यासात् सन्ततयः सूक्ष्मं परिणामविशेष प्राप्नुवन्ति। येनायत्यां बहुतरफ़लाभिनिष्पत्तये समर्था भवन्ति। चरतस्तिष्ठतो जाग्रतो युक्तमेवं स्वपतस्तु कथमित्यत आह। स्वप्नेष्वपि ताश्चेतना अनुषङ्गिण्यो भवन्तीति। अविज्ञप्तिवादिनस्तु वैभाषिकस्य निरौपधिके पुण्यक्रियावस्तुनि यत्न विज्ञप्तिर्नास्ति केवल त श्रुत्वाधिगच्छति प्रीतिप्रामोद्यमुदार कुशलम्। तत्र कथमविज्ञप्तिः स्यात्। तस्य श्रोतुर्विज्ञप्तिसमाध्योरसम्भवात्। अविज्ञप्तिर्हि विज्ञप्तेः समाधेर्वा सम्भवेत्। औपधिकेष्वपीति विस्तरः। आरामदानादिष्वपि तदालम्बनचेतनाभ्यासात् प्रतिग्राहक आलम्बनमस्याश्चेतनाया इति पूर्ववत्। आह। यच्चौपधिकेष्वप्येवमभीक्ष्ण तदालम्बनचेतनाभ्यासात्। यत्तर्हि सूत्रमिति विस्तरः। अप्रमाणं चेतः समाधिमिति। मैत्र्यादिसंप्रयुक्तं चेतनाविशेष इति। एतदालम्बनचेतनस्यापि दायकस्याप्रमाणः पुण्याभिष्यन्दोऽस्तीति दर्शयति। क्रियाफ़लपरिसमाप्ताविति। मौलकर्मपथप्रयोगः क्रिया। मौलकर्मपथफ़लं तस्य परिसमाप्तौ। एष एव न्याय इति। स्वयं प्रयोगेण परेषामुपघात विशेषात् कर्त्तुः सूक्ष्मः सन्ततिपरिणामविशेषो जायत इति सर्वम्। कार्ये कारणोपचारादिति। सन्तति परिणामविशेषः कर्मपथो भवतीति। सन्तपरिणामविशेषः कार्यम्। कर्मपथः कारणम्। योऽसौ कायवाचोः प्रयोगः स हि चेतनालक्षणस्य कर्मणः पन्था इति। तस्मिन् कार्ये कर्मपथ इति कारणोपचारः। कायिकवाचिकत्वन्तु तस्य सन्तपरिणामविशेषस्य। तत्क्रियाफ़लत्वात् कायवाक्क्रियायाः फ़लत्वादित्यर्थः। यथा अविज्ञप्तिवादिनाम् अविज्ञप्तिरिति। यथा वैभाषिकाणामविज्ञप्तिवादिनामविज्ञप्तिः कर्मपथ इत्याख्यायते। कार्यकारणोपचारात्। कायिकवाचिकत्वन्तु तत्क्रियाफ़लत्वादिति। अविज्ञप्तिरद्रव्यमिति। प्रकारान्तरेण दर्शयन् भदन्त आह। उपात्तेषु स्कन्धेष्विति विस्तरः। सत्त्वसंख्यातेषु वर्तमानेषु स्कन्धेषु त्रिकालया चेतनया प्राणातिपाताऽवधेन स्पृश्यते घातक इति। कथं त्रिकालयेत्याह। हनिष्यामि हन्मि हतमिति चास्य यदा भवतीति। तदेवमत्र चेतनैव कर्मेत्युक्तं भवति। आचार्यो भदन्तमतं केनचिद्भागेनाभिप्रेत केनचिद्भागेनानभिप्रेत दर्शयन्नाह। न त्वियतेति विस्तरः। यदि कश्चिदेव प्रयोजयेत्। मन्मातर मारयेति। उच्चलिते च मारके तस्यैव भवेद् हता तेन मन्मातेति। तस्य हताभिमानिन आनन्तर्यकर्म स्यात्। न चेष्यते। तस्मात् स्वयं वन्निति भदन्तेन विशेष्यं वक्तव्यम्। अत एवाह। स्वयं तु ग़्हतः इति विस्तरः। एतावांश्चेतनासमुदाचार इति। हनिष्यामि हन्मि हतमिति। युक्तरूप इति। युक्त एव युक्तरूप इति। स्वार्थे रूपप्रत्ययः। नामधेयवत्। यथा नामैव नामधेयमित्येके व्याचक्षते। प्रशस्त रूपो युक्तरूपः। युक्तं वा रूपं स्वभावोऽस्येति युक्तरूपः। तथैवासंज्ञायमान इति। यथैवाविज्ञप्तिर्दुरवबोधा। तथैवा सन्ततिपरिणामविशेषोऽपीति। चित्तान्वयकायप्रयोगेणेति। चित्तपूर्वकेण कायप्रयोगेणेत्यर्थः। ताभ्यां पृथग्भूतमिति। चित्तकायाभ्यां पृथग् भूतम्। यत्कृतप्रयोगसम्भूतेति। येन कृतो यत्कृतः। यत्कृतात् प्रयोगात् सम्भूता। क्रियापरिसमाप्तिः कर्मपथपरिसमाप्तिः। तस्यैव चित्तचैत्तस्य प्रयोक्तुस्तन्निमित्तस्तत्प्रयोगनिमित्तः सन्ततिपरिणामो भवतीति। भवति परितोषोऽस्माकमिति वाक्यशेषः। चित्तचैत्तसन्तानाच्चायत्यां फ़लोत्पत्तेः। नाविज्ञप्तिः। किम्। भवति परितोष इति वर्तते। विज्ञप्तभावादित्येवमादीनि। समुत्थापकस्य धर्मस्याभावात् समुत्थाप्यस्य धर्मस्याभाव इत्यर्थः। अविज्ञप्तिर्द्रव्यतो नास्तीति साधितमेतत्। आदिशब्देनाभ्युपेत्याकारणमात्रत्वादतीतानि महाभूतान्युपादाय प्रज्ञप्तेः। तेषामविद्यमानत्वादि। तदेवास्तु। धर्मायतन पर्यापन्नमिति यद्वयायिनां समाधिविषयो रूपं समाधिप्रभावादुत्पद्यत इत्युक्तं तद्धनिदर्शनं चाप्रतिघञ्च। अङ्ग तावदाचक्ष्वेति। अङ्गाप्रातिलोम्य इति पठ्यते। हन्त तावदाचक्ष्वेति। एहि तावदाचक्ष्वेत्यार्थ इत्यपरे। अतो निमित्त इति विस्तरः। यत एवम्। अतो निमित्तेऽविज्ञप्तौ नैमित्तिकोपचारात् सम्यग्वागाद्युपचारात् अविज्ञप्तौ तदा व्याक्रियते। सम्यग्वाक् कर्मान्ताजीवाख्या क्रियत इत्यर्थः। आशयं चाश्रयं चेति। आशयः प्राणातिपाताद्यकरणशयः श्रद्धाद्याशयो वा। आश्रय आश्रयपरावृत्तिः। अतो निमित्ते आशये आश्रये च नैमित्तिकोपचारम्। सम्यग् वागाद्युपचार कृत्वाष्टौ मार्गाङ्गानि व्यवस्थाप्यन्त इति। तदक्रियामात्रमिति। मिथ्यावागाद्यक्रियामात्रम्। कतमत्तदित्याह। यदसाविति विस्तरः। यद्यक्रियामात्रमङ्गं कथं तदनास्रव मित्याह। तच्चनास्रवमार्गसन्निश्रयलाभादनास्रवमिति। यद्यक्रियामात्रमङ्गम्। तथाऽद्रव्यसत्। कथमष्टावङ्गानि भवन्तीत्याह। न हि सर्वत्रेति विस्तरः। विधिपूर्वमिति शीलग्रहणविधिपूर्वम्। अन्यचित्तो न संवृतः स्यादिति चेत्। यदि सा चेतना संवरः। तस्माच्चेतनाचित्तादन्यचित्तो न संवृतः स्यात्। यथा चेतना या कायवाचौ संवृणोति नासौ तदानीमस्तीति। न तद्भावनयेति विस्तरः। नैतदेवम्। तद्भावनया चित्तसन्तानभावनया क्रियकाले प्राणातिपातादिचित्ते प्रत्युपस्थिते स्मरतः अहं प्राणातिपातादिभयः प्रतिविरत इति प्रत्युपस्थितस्मृतेः। तत्प्रत्युपस्थानाद् यया चेतनया कायवाचौ संवृणोति। तस्याः सम्मुखीभावात्। इत्यर्थमेव तस्याः समा दानमिति। कथमयमक्रियाप्रतिज्ञां संस्मृत्य दौःशील्यं न कुर्यादिति। न कश्चिन्मुषिस्मृतिः शिक्षां भिद्यादिति। यासावविज्ञप्तिः सेतुभूता दौःशील्यं प्रतिबधाति सा तदानीं विद्यत इति।

न हि सैव सामग्रीति विस्तरः। न सैन पृथिवीधात्वादीनां महाभूतानां विज्ञप्तयाश्रयाणां सामग्री सूक्ष्मफ़ला चानिदर्शनाऽप्रतिघाऽविज्ञप्तिफ़लत्वात्  औदारिकफ़ला च सनिदर्शनसप्रतिघविज्ञप्तिफ़लत्वाद् युज्यते तस्मादन्यान्येव महाभूतानि उपादायाविज्ञप्तिरूत्पद्यते।

यदातनी विज्ञप्तिरिति विस्तरः। यदा भवा विज्ञप्तिर्यदातनी विज्ञप्तिः। एवं तदातनानि महाभूतानि। यत्कालसंभूता विज्ञप्तिः किं तत्कालसंभूतान्येव महाभूतान्युपादाय विज्ञप्तिरूत्पद्यते। सर्वमिति। सर्वमुपादाय रूप विज्ञप्तिरविज्ञप्तिर्ध्यानास्रवसंगृहीता चक्षुः श्रोत्ररूपशब्दादि चैव समानकालान्येव महाभूतान्युपादाय वर्तते। प्रायेणेति ग्रहणं किञ्चित्कामावचर्यविज्ञप्तिनिरासार्थम्। अत एवाह। किञ्चिद् वर्तमानमनागतम् अतीतानि महाभूतान्युपादायेति। किञ्चिदुपादाय रूपं वर्तमानमतीतानि महाभूतान्युपादाय वर्तते। किञ्चिदनागतमुपादायरूपमतीतानि महाभूटान्युपादाय वर्तते। किं पुनस्तदुपादायरूप यदेव भूतमिति दर्शयन्नाह।

क्षणादूर्धमविज्ञप्तिः कामाप्ताऽतीतभूतजेति। कामावचरसंवरादिग्रहणकालेऽविज्ञप्तिः सहजानि महाभूतान्युपादायोत्पद्यते। एवमन्याप्यविज्ञप्तिस्तान्येवोपादायोत्पद्यते यस्मात्तान्यस्या आश्रयार्थेन सम्भवन्ति। यथान्येषामुपादायरूपाणां प्रत्युत्पन्नानि महाभूतान्याश्रय एवं तस्यातीतान्याश्रय। प्रवृत्त्यनुवृत्तिकारणत्वात् यथाक्रममिति। अतीतानि महाभूतानि प्रवृत्तिकारणत्वात् आक्षेपकारणत्वात् आश्रयार्थेन भवन्ति। प्रत्युत्पन्नानि शरीरमहाभूतान्यनुवृत्तिकारणत्वादधिष्ठानकारणत्वात् सन्निश्रयार्थेन भवन्ति । चक्रस्येवेति विस्तरः। यथा चक्रस्य पाण्यावेधः। एवमस्याः प्रवृत्तिकारणम्। यथा भूमिप्रदेशः। एवमनुवृत्ति कारणम्।

कालनियममुक्ता भूमिनियमं पृच्छति। अथ कुतस्त्यानीति विस्तरः। यावञ्च चतुर्थध्यानभूमिकमिति। आरूप्येषु भूतभौतिकानामभावात्। धात्वपतितत्वादिति। अनास्रवस्य कायवाक्कर्मणो धात्वप्रतिसंयुक्तत्वात्। नास्ति नियमत इत्यभिप्रायः। अनास्रवाणि तर्हि महाभूतान्युपादाय कस्मान्न भवतीत्यत आह। अनास्रवाणाञ्च महाभूतानामभावादिति। किं पुनरस्या महाभूतैः कार्यमित्यत आह। तद्वलेन चोत्पत्तेरिति। महाभूतबलेन चोत्पत्तेरित्यर्थः। अथ चित्तबलेनैव तदुत्पत्तिः कस्मान्न भवति। अनुपादायरूपत्वप्रसङ्गात्।

अविज्ञप्तिरनुपात्तिकेति। अमूर्तत्वाच्चित्तचैत्ताधिष्ठानभावायोगात्। नैष्यन्दिकी चेति कुशलाकुशलत्वात् न विपाकजा नाव्याकृतास्त्यविज्ञप्तिरिति वचनात्। विपाकजस्य चाव्याकृतत्वात् विपाकोऽव्याकृतो धर्म इति वचनात्। नौपचयिकी उपचयाभावात्। पारिशेष्यान्नैष्यन्दिकी। सत्त्वाख्या सत्त्वसन्तानपतितत्वात्।

निष्यन्दोपात्तभूतजेति नैष्यन्दिकोपात्तमहाभूतजा। समुत्थापकचित्तापेक्षत्वात् असमाहितचित्तविज्ञप्त्यधिकाराच्च। न स्वप्नसमाध्याद्यौपचयिकमहाभूतजा। अत एव च न विपाकजमहाभूतजा।

समाधिजेति विस्तरः। सास्रवानास्रवसमाधिजत्वात्। ध्यानानास्रवज-संवराविज्ञप्तिः समाधिजेत्युच्यते। अनुपात्तानि च महाभूतान्युपादायेति समाहितचित्तवशेन तत्र शरीरे चित्तानुवृत्तित्वात्। उपात्तानि हि महाभूतानि निरोधसमापत्त्याद्यवस्थासु चित्तमन्तरेणापि वर्तन्ते। यावत्सम्भिन्नप्रलापादिति। यावच्छब्देनादत्तादानात् काममिथ्याचारान्मृषावादात् पैशुन्यात् पारूष्यात् संभिन्नप्रलापादिति। चित्तवद् भूताभेदात्। यथा तदुत्पादकं चित्तमभिन्नमेवं भूतान्यपि तदुत्पादकान्याभिन्नान्येव। न चाधारार्थेनाविज्ञप्तेर्महाभूतान्याश्रयः। किं तर्हि। तत्प्रवर्तनार्थेन तस्मादभिन्नभूतजेति वचनं न विरूध्यते। प्रातिमोक्षसंवरे त्वन्यान्यानीति। अचित्तानुपरिवर्त्तनीयत्वात्। विज्ञप्तिस्तु नैष्यन्दिकीति। आक्षेपवशेनानुवृत्तेः। उपात्ता तु कायिकीति। न वाचिकीत्यर्थः। कायिकी हि कायमहाभूताविनिर्भागवर्तित्वात्तादाश्रयभूतानामुपात्ता। न तु वाचिकी तद्विनिर्भागवर्तित्वात्।

अत्र चोदयति। शास्त्रविरूद्धमेतद्। एवं ह्याह। यानीमान्युपासकस्य पञ्च शिक्षापदानि। एषां कत्युपात्तानि। कत्यनुपात्तानि। आह। सर्वाण्यन्युपात्तानीति। अविज्ञप्तिलक्षणशिक्षापदाभिसन्धिवचनाद् बाहुलिकत्वाद्वा तथानिर्द्देशस्येत्यदोषः।

पुनः प्रबन्धादवैभाषिकीयमिति। एकसंस्थानोत्पत्तावितरसंस्थानानिवृत्तेः। कथ विस्तरेण यावत् संस्थानद्वयं सिध्यतीति। अन्योन्यावकाशदानात्। तन्महाभूतैरभिव्यापनादिति। विज्ञप्त्याश्रयैर्महार्भूतैरङ्गस्याभिव्यापनात्। अनभिव्यापने च पुनर्विज्ञप्तिमहाभूतैः कथ कृतस्नेनाङ्गेन विज्ञापयेत्। न हि शक्यते वक्तुम्। कायैकदेशेनासो विज्ञापयति। न सर्वकायेनेति। विज्ञप्त्याश्रयाणि महाभूतानि तदङ्ग न व्याप्यावतिष्ठन्त इति। शुषिरत्वात् कायस्यास्ति तेषामवकाश इति। अभिव्यापनेऽपि न महीयसाङ्गेन भवितव्यम्। शुषिरत्वेन कायानुप्रवेह्सात्। पीनेन तर्हि गुरूणा वा तेनाङ्गेन न भवितव्यं सूक्ष्मत्वात्।

[ नाऽव्याकृताऽस्त्यविज्ञप्तिस्त्रिधाऽन्यदशुभं पुनः।
कामे रूपेऽप्यविज्ञप्तिर्विज्ञप्तिः सविचारयोः।। ७।। ]

द्विविधं त्रिविधं पञ्चविधं चोक्तमिति। चेतना तत्कृतं च तदिति वचनात् द्विविधमुक्तम्। चेतना मानसं कर्म तज्जे वाक्कायकर्मणी इति वचनात् त्रीधमुक्तम्। ते तु विज्ञप्त्यविज्ञप्ती इति कायवाक्कर्मणोविज्ञप्त्यविज्ञप्तित्वे भेदात्। चेतनात्मनः कर्मणश्च पञ्चसत्त्वात् पञ्चविधमुक्तम्।

नाव्याकृतास्त्यविज्ञप्तिरिति। कुशलाकुशलैवाविज्ञप्तिरित्यर्थादुक्तं भवति। बलवत्कर्मेति अविज्ञप्तिलक्षणम्।

कामेऽपीति। अपिशब्दादिति च शब्दार्थेनापिशब्देन काम इत्याकृष्यते। अनास्रवाविज्ञप्तिवदिति। यथा न च तावदनास्रवाया अविज्ञप्तेरनास्रवाणि महाभूतानि। अथ च पुनर्यस्यां भूमौ जातस्तामुत्पादयति। तद्भूमिकानि महाभूतान्युपादायोत्पद्यते। एवं न च तावदारूप्याणि महाभूतानि स्युः। अथ च पुनर्यस्यां भूमौ जातस्तामुत्पादयति। तद्भूमिकानि महाभूतान्युपादायारूप्यावचर्याविज्ञप्तिर्भविष्यतीति। न। तस्या धात्वपतितत्वादिति। नेहासाम्यात्। यस्मादविज्ञप्तिरनास्रवा धात्वपतिता कामरूपारूप्यावचरीति। तृष्णाभिरस्वीकृतत्वात् तस्या धातुतो भूमितो वा नैव सभागानि नापि विसभागानि महाभूतानि भवन्तीत्यतो यत्र जातस्तत्रजानि महाभूतान्युपादायोत्पद्यते। आरूप्यावचरी त्वविज्ञप्तिर्नार्हति कामरूपावचराणि विसभागानि महाभूतान्युपादाय भवितुम्। धातुपतितत्वादित्यभिप्रायः। किञ्च। सर्वरूपवैमुख्याच्चारूप्यसमापत्तिर्नालं रूपोत् पत्तये। रूपभूमिका त्वनास्रवा समापत्तिरलं रूपोत्पत्तयेऽविज्ञप्त्युत्पत्तये इत्यर्थः। कस्मात्। सर्वरूपामुख्यादित्यभिप्रायः। कथं चारूप्यसमापत्तेः सर्वरूपवैमुख्यमित्यतो व्रवीति। विभूतरूपसंज्ञत्वादिति। विगतरूपसंज्ञत्वादित्यर्थः। दौःशील्यप्रतिपक्षेण शीलमिति विस्तरः। दौःशील्य कामावचरमकुशलसमुत्थानत्वात्। तस्य रूपभूमिकं शीलमविज्ञप्तिलक्षणं प्रतिपक्ष इति युज्यते। आरूप्यावचरमप्येवं भविष्यतीति चेदत आह। आरूप्याश्च कामधातोरिति विस्तरः। आरूप्याः कामधातोश्चतसृभिर्दूरताभिर्दूरे। दूरत्वाच्चारूप्यसंगृहीतं शीलं कामधातुप्रतिपक्षे न कल्पते। चतस्रश्च दूरता व्याख्याताः पुरस्तादिति न पुनर्व्याख्यायन्ते। प्रतिपक्षदूरता चात्रोदाहरणम्।

विज्ञप्तिः सविचारयोरिति। सविचारयोरेव भूम्योरित्यवधारणार्थ आरम्भः। वितर्क्य विचार्य वाचं भाषत इति वितर्कविचारपूर्वकत्वात् कायवाक्कर्मणोः।

[ कामेऽपि निवृता नास्ति समुत्थानसद् यतः।
परमार्थशुभो मोक्षः स्वतो मूलह्रपत्रपा।। ८।।
सम्प्रयोगेण तद्युक्ताः समुत्थानात् क्रियादयः।
विपर्ययेणाकुशलं परमाव्याकृते ध्रुवे।। ९।।
समुत्थानं द्विधा हेतुतत्क्षणोत्थानसंज्ञितम्।
प्रवर्तकं तयोराद्यं द्वितीयमनुवर्तकम्।। १०।। ]

कामेऽपि निवृता नास्तीति न केवलमविचारासु भूमिष्विति दर्शयति। ब्रह्यलोक एवास्तीत्युक्तं भवति। तत ऊर्द्ध्वमिति। ब्रह्यलोकादूद्व। बाह्यमहाभूतहेतुकमिति। वायुप्रभृतीनां शब्दायतनम्। विज्ञप्तिशब्दप्रतिषेधपरमेतद्वचनम्। न तु बाह्यमहाभूतहेतुकमिति। पाण्याद्यङ्गशब्दोऽपि हि द्वितीयादिषु ध्यानेषु संभवति। अन्यथा हि शास्त्रविरोधः स्यात्। तथाहि शास्त्र उक्तं। शब्दधातुना कः समन्वागतः। आह। कामरूपावचरः। कोऽसमन्वागतः। आह। आरूप्यावचर इति। न हि बाह्येन सत्त्वसंख्यातेन समन्वागतो युज्यते।

प्राप्त्यप्राप्तिस्वसन्तानपतितानामिति वचनात्। अस्यैव च दोषपरिहारार्थमन्ये पुनराहुरिति। द्वितीयादिष्वपि ध्यानेषु विज्ञप्तिरस्तीति। किं भूमिका। प्रथमध्यानभूमिका। वैभाषिकपक्ष एवायं। न पक्षान्तरम्।

कायाक्षिश्रोत्रविज्ञानं विज्ञप्त्युत्थापकं च यत्।
द्वितीयादौ तदा व्याप्तमक्लिष्टाव्याकृतं च तत्।। इति

सिद्धान्तात्। एवं तर्हि द्वितीयादि ध्यानभूमिका भवति पक्षान्तरम्। सा तु किं व्याकृता उताव्याकृतेत्याह। अनिवृताव्याकृता। न तु कुशला न क्लिष्टेति। परस्परसम्भाषणादि कुर्वतां ततस्त्यानामव्याकृता विज्ञप्तिर्भवति। किं कारणं न कुशला न क्लिष्टाऽस्तीत्याह। न हि तेषूपपन्न इति विस्तरः। न हि द्वितीयादिषु ध्यानेषूपपन्नः। तथाजातीयं कुशलक्लिष्टजातीयमधोभूमिकं चित्तं सम्मुखीकरोति। येन चित्तेन कुशलां क्लिष्टां वा विज्ञप्ति समुत्थापयेत्। किं कारणमिति आह। न्यूनत्वात् प्रहीणत्वाच्चेति। कुशलमधोभूमिकं न्यूनत्वात् न सम्मुखीकरोति। प्रहीणत्वाच्चेति न क्लिष्टम्। अर्थादेतदुक्तं भवति। अव्याकृतमधोभूमिकं चित्तं सम्मुखीकरोति। तेन तां समुत्थापयतीति। एतदुक्तं भवति। अधोभूमिकेन चित्तेनोर्द्धभूमिका विज्ञप्तिरूथाप्यत इति। तदेव नेच्छन्ति वैभाषिकाः। प्रथमध्यानिकैव हि सा विज्ञप्तिः प्रथमध्यानभूमिकचित्तसमुत्थापितत्वात्। तस्मादाह। पूर्वमेव तु वर्णयन्तीति।

तच्च कामधाताविति। तच्च भावनाप्रहातव्यं निवृताव्याकृतं चित्त कामधातौ नास्ति। सत्कायान्तर्ग्राहदृष्टिसम्प्रयुक्तमेव हि कामधातौ निवृताव्याकृतं चित्तमिष्यते। तेन च न विज्ञप्तिः समुत्थाप्यते। अन्तर्मुखप्रवृत्तत्वात्।

स्वभावत इत्यात्मतः। परमक्षेमत्वादिति। अक्षेमलेशानबन्धाभावात्। यद्धि स्वभावसम्प्रयोगसमुत्थानतः कुशल न तत् परमक्षेममित्युक्तं भवति। असंप्रयुक्तानां कुशलत्वाभावादिति। कुशलमूलादिभि रसंप्रयुक्तानां चैत्तादीनां कुशलत्वाभावात् तत्संप्रयोगकुशलत्वसिद्धिः। तैरेव कुशलमूलादिसंप्रयुक्तैरित्यादिशबेन ह्यपत्राप्ययोर्ग्रहणम्। औषधिपानीय संभूतक्षीरवदिति। पीतौषधपानीयाया गौर्यत् क्षीरं तदौषधपानीयसंभूतम्। प्राप्तीनां त्विति विस्तरः। प्राप्तीनां कुशलानां विसभागचित्तसमुत्था पितानाम्। विसभाग चित्तं कुशलादन्यत्। विचिकित्सया कुशलमूलप्रतिसन्धाने याः कुशलानां प्राप्तयः। तासां कुशलत्वम्। न तावत् परिनिर्वाणवत् परमार्थक्षेमत्वात्। नाप्यलोभादिवत् स्वभावतः कुशलमतत्स्वभावत्वात्। नापि वेदनादिवत् संप्रयोगतो विप्रयुक्तत्वात्। नापि समुत्थानतस्तत्समुत्थानचित्तस्य क्लिष्टत्वात्। एवं पुनर्भवप्रतिसन्धावपि उपपत्तिप्रतिलम्भिक कुशलप्राप्तयो वक्तव्याः। कथं तासां कुशलत्वमिति वक्तव्यमेतत्। कर्तव्योऽत्र यत्न इत्यभिप्रायः। अत्र परिहरन्ति। कशलमूलसमुत्थापनीयत्वादनागतावस्थायामेव ताः कुशलमूला भवन्ति। क्लिष्टेन चित्तेन तत्प्राप्तिविबन्धोऽपनीयते। न तत् कुशलत्वमापद्यत इति।

सर्वदुःखप्रवृत्त्यात्मकत्वेनेति सर्वस्य दुःखस्य प्रवृत्ति रात्मा स्वभावोऽस्येति सर्वदुःखप्रवृत्त्यात्मकः। तद्भावेन। परमार्थेनाक्षेमः संसारः। कायवाक्कर्मजात्यादिप्राप्तय इति। कायवाक्कर्माणिविज्ञप्तयविज्ञप्तिस्वभावान्यसंवर नैवसंवरनासंवरसंगृहीतानि। जात्यादयो जातिजरास्थित्यनित्यतालक्षणालक्षणस्वभावः। प्राप्तयोऽकुशलानाम्। व्याध्यपथ्यौषधादिभिरूपमेया इति। संसारो व्याधिनोपमेयः। व्याधिसंसार इत्यर्थः। लोभादीन्यपथ्यौषधेनोपमेयानि। अन्यसंप्रयोगसमुत्थानापेक्षत्वात्। तत्संप्रयुक्ता अपथ्यौषधिमिश्रपानीयेन। कायवाक्कर्मजात्यादिप्राप्तयोऽपथ्यौषधपानीयसंभूतक्षीरेणोपमेयाः। एवं तर्हीति विस्तरः। यदि परमार्थेनाकुशलः संसारः। न किञ्चित् सास्रवमव्याकृतं भविष्यति कुशलं वा। संसारभ्यन्तरत्वात् सास्नवस्य। परमार्थत एवमुक्तमिति अभ्युपगतमेतत् सर्व संसारपर्यापन्नमकुशलमिति। विपाकं तु प्रतीति विस्तरः। यद्विपाकं प्रति न व्याक्रियते। सविपाकमेतदिति। तदव्याकृतमित्युच्यते। तदुक्तं भवति। यत् सास्रवं तदकुशलं परमाक्षेमत्वात्। विपाकं प्रत्यव्याकरणार्थाव्याकृतमिति। कुशलमपि तथैवाकुशलम्। इष्टविपाकत्वात् कुशलमित्यवगन्तव्यम्।

यदि समुत्थानवशादिति विस्तरः। चेतनाया एव कुशलाकुशलत्वमित्यनेनाभिप्रायेण। कायवाक्कर्मणः कुशलाकुशलत्वं विचारयति। किं न महाभूतानामिति। कुशलाकुशलत्वं। कुशलाकुशलेन हि चित्तेन कायवाक्कर्म तन्महाभूतानि समुत्थाप्यते। वैभाषिक आह। कर्मणि हि कर्तुरभिप्रायो न महाभूतेषु महाभूटानि कुर्यामिति। किं तर्हि। इदं कर्म कुर्यामिति। न कर्मवन्महाभूतानां कुशलाकुशलत्वमिति। आचार्य आह। समाहितस्य कर्त्तुरविज्ञप्तौ नास्त्यभिप्रायः। अविज्ञप्तिं कुर्यामिति। न चासमाहितं चित्तं तस्याः समुत्थापकमस्ति। यदेवमभिप्रायं कुर्यात्। विसभागत्वात् विसदृशत्वात् भूमितो।समाधानाद्वा। कथं तस्याः समाहितायाः अविज्ञप्तेः कुशलत्वम्। महाभूतवत्तस्याः कुशलत्वं न स्यादित्यभिप्रायः। दिव्ययोरपि वा चक्षुः श्रोत्रयोः कुशलत्वप्रसङ्ग इति। यद्यन्तरेणापि तदभिप्राय मविज्ञप्तेः कुशलमिति। अथवा अयमस्याभिसम्बन्धः। यदि विसभागासमाहितचित्तवशेन तस्याः कुशलत्वम्। दिव्ययोरपि चक्षुःश्रोत्रयोः कुशलत्वप्रसङ्गः। प्रयोगकाले तदभिप्रायसम्भवात्। न च तयोः कुशलमस्त्यव्याकृते श्रोत्रचक्षुरभिज्ञे इति वचनात्।

यदुक्तं दर्शनरहातव्यं चित्तं विज्ञप्तेरसमुत्थापकमिति। दर्शनप्रहातव्यस्यान्तर्मुखप्रवृत्तत्वादित्येवं ब्रुवतां किं तर्हि भगवोक्तमिति  विरूध्यते। तद् भगवतोक्तमिति वाक्यार्थः। किं तदित्युच्यते। ततो मिथ्यादृष्टेरिति विस्तरः। कथ मिथ्यादृष्टेर्दर्शनप्रहातव्यायाः मिथ्यावाक् विज्ञप्तिस्वभावा मिथ्याकर्मान्तश्च तत्स्वभाव एवेत्युक्तमिति।

हेतु तत्क्षणोत्थानसंज्ञितमिति। हेतूत्थानं च तत्क्षणोत्थानं च हेतुतत्क्षणोत्थान हेतुतत्क्षणोत्थानमिति संज्ञितं हेतुतत्क्षणोत्थानसंज्ञितं।

संज्ञितमिति संज्ञीकृतम्। अथवा हेतुततक्षणोत्थानं संज्ञास्येति हेतुतत्क्षणोत्थानसंज्ञम्। हेतुतत्क्षणोत्थानसंज्ञीकृतम्। हेतुतत्क्षणोत्थानसांज्ञतम्। हेतुसमुत्थानमिति समुत्तिष्ठतेऽनेनेति समुत्थानम्। हेतुश्च समुत्थानञ्च तत् हेतुसमुत्थानम्। तत्क्षणसमुत्थानमिति स क्षणः क्रियाक्षणः। तत्क्षणे समुत्थानं तत्क्षणसमुत्थानम्। तत्रैव क्षणे समुद्भावात् सद्भावात्। तत्रैव क्रियाक्षणे तत्क्षणसमुत्थानस्य भ्
आवादित्यर्थः। आक्षेपकत्वादित्युत्पादकत्वात्। किमिदानीमिति विस्तरः। तस्य तत्क्षणसमुत्थानस्य तस्यां विज्ञपनक्रियायां सामर्थ्यम्। येन तदानीं तदनुवर्तकमित्युच्यते। तेन हीति विस्तरः। तेन हि तत्क्षण समुत्थानेन विना असौ विज्ञप्तिर्मृतस्येव न स्यादाक्षिप्ता सती हेतुसमुत्थानेन जनितापि सती। तद्यथा। कश्चिद् ग्रामं गमिष्यामीत्याक्षिप्तक्रियान्तरा म्रियेत। तस्यानुवर्तकचित्ताभावाद् गमनं न भवति। तद्वत्। अचित्तकस्य तर्हीति विस्तरः। यदि तत्क्षणसमुत्थानेन विनाऽसौ मृतस्येव न स्यात्। निरोधसमापत्तिलाभिनः कस्यचिदुपसंपाद्यमानस्य कायविज्ञप्तिमाबधतः तत्कालोपस्थितः निरोधसमापत्तित्वादचित्तकस्य संवरोत्पत्तौ कर्मवाचनावसानकालीनायां तत्संवरान्तर्गता कायविज्ञप्तिः कथ भवति। कथमुत्पद्यते तत्क्षणसमुत्थानं विनेत्यर्थः। एव विरोधिते समाध्यन्तरं श्रीयते। स्फ़ुटतरा तर्हीति। तत्क्षणसमुत्थानेन सचित्तकस्य व्यक्ततरा विज्ञप्तिर्भवतीत्येतत्तस्य सामर्थ्यम्।

[ प्रवर्तकं दृष्टिहेयं विज्ञानमुभयं पुनः।
मानस भावनाहेयं पञ्चकं त्वनुवर्तकम्।। ११।।
प्रवर्तके शुभादौ हि स्यात् त्रिधाप्यनुवर्तकम्।
तुल्य मुने शुभं वार्थ नोभय तु विपाकजम्।। १२।। ]

प्रवर्तकं दृष्टिहेयमिति। प्रवर्तकमेव दृष्टिहेयमित्यवधार्यते। कथ पुनस्तत्प्रवर्तकमित्याह। तत्समुत्थापकयोर्वितर्कविचारयोर्निदानभूतत्वात् हेतुभूतत्वात्। विज्ञप्तेः प्रवर्तकमिति। न त्वनुवर्तकमिति विस्तरः। यत्तद् बहिर्मुखं चित्तमनुवर्तकम्। तस्य यो विज्ञप्तिक्रियाकालः। तस्मिन् तद्भावात्। तस्य दर्शनप्रहातव्यस्य प्रवर्तकस्याभावादित्यर्थः। अतस्तन्नानुवर्तकम्। अयं चान्यो दोषः। ततसमुत्थापितं च रूपमिति विस्तरः। यदि तदनुवर्तकं स्याद्दर्शनप्रहातव्यं तेन दर्शनप्रहातव्येन समुत्थापितं कायवाग्विज्ञप्तिरूपं दर्शनप्रहातव्यं स्यात्। यथा भावनाप्रहातव्येन चित्तेन समुत्थापितं कायवाक्कर्म भावनाप्रहातव्यमिति। किं स्यादिति चोदकः। अभिधर्मो बाधितः स्यादिति वैभाषिकः। न दृष्टिहेयमक्लिष्टं न रूपमिति वचनात्। किं च विद्याविद्याभ्यां चाविरोधात्। विद्यया दर्शनमार्गेण सत् कायदृष्ट्यादिवत्तस्य रूपस्याविरोधात्। अप्रहाणादित्यर्थः। दृष्टसत्यानामपि तत्समन्वागतत्वान्नास्ति रूपं दर्शनप्रहातव्यम्। अविद्यया चाविरोधात्। किञ्चाविद्ययापि रूपं न विरूध्यते। न हि क्लिष्टाक्लिष्टरूपसमुदाचारवस्थायां तत् प्राप्तिप्रवाहे वा सत्यविद्या न भवति। अविद्यायां च सत्यां तन्न भवति। यथा अनास्रवो मार्गोऽविद्यया विरूध्यते। पृथग्जनावस्थायां तदनुत्पादात्। तदुत्पादे वर्यावस्थायां कस्याश्चिदविद्यायाः प्राहणात्। तदेवमनास्रववदप्रहातव्यमपि न भवति । न चेदप्रहातव्यम्। नापि दर्शनप्रहातव्यम्। पारिशेष्याद् भावनाप्रहातव्यमिति सिद्धम्। इतर आह। साध्य एष पक्षो विद्यया रूपं न विरूध्यत इति। यो हि दर्शनप्रहातव्यं रूपमिच्छति स कथं विद्यया रूपस्याविरोध ग्रहीष्यति। वैभाषिक आह। भूतान्यपीति विस्तरः । यदि तद्रूपं दर्शनप्रहातव्यच्त्तसमुत्थापित दर्शनप्रहातव्यं स्यात्। तदाश्रयभूतान्यपि तर्हि दर्शनप्रहातव्यानि स्युः। कस्मात्। समानचित्तोत्थापितत्वात्। येन हि दर्शनप्रहातव्येन चित्तेन तद्रूपं समुत्थापितं तेनैव तदाश्रयभूतान्यपि इति। न च तानि तथा भवितुमर्हन्त्। अक्लिष्टाव्याकृतत्वात्। दर्शनप्रहातव्यानां च क्लिष्टत्वात्। इतर आह। नैवं भविष्यति। दर्शनप्रहातव्यानि स्युरिति। कथम् इत्याह। यथा न कुशलाकुशलानि भवन्ति। यथा येन चितेन कुशलाकुशलेन कुशलाकुशलं रूपं सौत्थापितं तेनैव तदाश्रयभूतानि समुत्थापितानि। तच्च कायवाक्कर्मस्वभावं रूपं कुशलाकुशलम्। न तदाश्रयभूतानीति। तद्वत्। स एव पुनः परावृत्याह। अथवा पुनर्भवन्तु दर्शनप्रहातव्यानीति। वैभाषिक आह नैवं शक्यं भवितुम्। दर्शनप्रहातव्यानीति वाक्यशेषः। कस्मात्। अक्लिष्टस्य धर्मस्य विद्याविद्याभ्यामविरोधात्। न ह्यक्लिष्टो धर्मः अनिवृताऽव्याकृतः कुशल-सास्रवश्च विद्यायाऽनास्रवेण मार्गेण विरूध्यते। यथा क्लिष्टा धर्माः प्राप्तिच्छेदाद् विरूध्यन्ते। तदालम्बनक्लेशप्राप्तिच्छेदात्तु विरोधो न प्रतिषिध्यते। नाप्यविद्यया विरूध्यते। प्राप्तिच्छेदेन तदालम्बनक्लेशप्रहातव्येन च। भूतानि चाक्लिष्टानि। तत्र यदुक्तम् अथवा पुनर्भवन्त्विति तदयुक्तम्। तदेवमत्र साधनमुत्तिष्ठते। न दर्शनप्रहातव्यानि क्लिष्टरूपाश्रयमहाभूतान्यक्लिष्टत्वादक्लिष्टचित्तचैत्तधर्मवदिति। तदेव वैभाषिकः प्रवर्तकं दृश्टिहेयं विज्ञानमिति सचोद्यपरिहारं प्रतिष्ठाप्य निगमयति। अतो हेतुसमुत्थानमिति विस्तरः । यदुक्तं मिथ्या दृष्टेर्मिथ्यासंकल्पो यावन्मिथ्याकर्मान्त इति तस्य सूत्रस्य न विरोधो भवतीति।

प्रवर्तकं चानुवर्तकं चेति अन्तर्बहिर्मुखप्रवृत्तत्वात्। पञ्चकं त्वनुवर्तकमित्यवधारणमविकल्पकत्वात्।

नोभयमनास्रवमिति। न प्रवर्तकं नाप्यनुवर्तकं समाहितान्तर्मुखप्रवृत्तत्वात्।

अम्लायमानेति। अहीयमाना। शान्चप्रत्ययान्तश्चाय शब्दः। कुशलैकसंताना इति। कुशलैकप्रबन्धा इत्यर्थः। बुद्धो भगवान्नाग इत्युक्तं सूत्रे। कथम्। तथागत उदायिन् सदेवके लोके समारके इति विस्तरेणोक्ताह आगो न करोति कायेन वाचा मनसा तस्मान्नाग इत्युच्यते इति। आगो न करोतीत्यपराधं न करोतीत्यर्थः। अनिच्छयास्येति। अनिच्छयास्य बुद्धस्य चित्तस्याविसरणाद्विषयेष्वगमनादेवमुक्तम्। चरणसमाहितो नाग हि विस्तरः। चतुर्ष्वीर्यापथेषु चर चरामीति यावन्निषीदन्निषीदामीत्युपस्थितस्मृतित्वान्नित्यसमाहितः स उच्यते।

निरभिसंस्कारवाहित्वादिति। अभावो हि संस्कारस्य प्रयत्नस्य निरभिसंस्कारम्। निरभिसंस्कार वहतीति निरभिसंस्कारवाही। तद्भावस्तस्मात् इति।

न वा सर्वं दर्शनप्रहातव्यं प्रवर्तकमिति। स्यादेतदेवम्। यदि सर्वं दर्शनप्रहातव्यं प्रवर्त्तकमिष्येत। न तु सर्वम्। किं तर्हि। मिथ्यादृष्टयादिकमेव प्रवर्तकं विज्ञप्तेर्न सत्कायदृष्ट्यादिकमित्यत आह। न वा सर्वमिति विशेषणं वक्तव्यमीदृशं प्रवर्तकमीदृशं नेति। अकुशलाव्याकृतचित्तस्येति। उपसंपाद्यमानस्य केनचिद् योगेनाकुशलाव्याकृतचित्तस्य। प्रातिमोक्षसंवरविज्ञप्तिरंजल्यादिका कुशला न प्राप्नोति। तदनुवर्तकचित्तम्मकुशलाव्याकृतमिति कृत्वा। यथा प्रवर्तकमिति विस्तरः। यथा प्रवर्तकं चित्तं भावनाप्रहातव्यम्। तथा विज्ञप्तिर्व्यवस्थाप्यते। न तु यथा दर्शनप्रहातव्यं प्रवर्तकं तथा व्यवस्थाप्यते। कस्मात्। भावनाहेयेनान्तरितत्वात्। यस्मात्तत्प्रवर्तकं दर्शनप्रहातव्यं भावनाहेयेन प्रवर्तकेनान्तरितम्। कथं कृत्वा। तद् यथा अस्त्यात्मेति मया परेषां गमयितव्यम् इति पूर्वमेवावधार्य ततो वाक्समुत्पादकेन चित्तेन बहिर्मुखप्रवृत्तेन भावनाप्रहातव्येन सवितर्केण सविचारेण वाचं भाषते अस्त्यात्मेत्येव मादि। अतो यथाप्रवर्तकमिति विस्तरः। तदेवमवश्यं दर्शनप्रहातव्यस्य प्रवर्तकस्यानन्तरं प्रवर्तकमेव भावनाप्रहातव्यं कुशलमकुशलमव्याकृतं चोत्पद्यते। तद्वशाच्च विज्ञप्तेः कुशलादित्वमिति। एवन्तु वक्तव्यमिति विस्तरः। एवन्तु वज्तव्यमन्यव्यवहितं भावनाहेयव्यवहितं हेतुसमुत्थानं सन्धायोक्तमिति। परंपराहेतुसमुत्थानं सन्धायेत्यर्थः।

[ अविज्ञप्तिस्त्रिधा ज्ञेया संवरासंवरेतरा।
संवरः प्रातिमोक्षाख्यो ध्यानजोऽनास्रवस्तथा।। १३।।
अष्टधा प्रातिमोक्षाख्यो द्रव्यतस्तु चतुर्विधः।
लिङ्गतो नाम सञ्चारात् पृथक् ते चाविरोधिनः।। १४।।

अविज्ञप्तिस्त्रिधेति विस्तरः। त्रिविधेत्युद्दिश्य संवरासंवरेतरेति विवृणोति। संवरश्च सः असंवरश्च सः संवरासंवरः। संवरासंवरश्च सः। इतरा च सा। संवरासंवरेतरेति समासः।

प्रतिनियतलक्षणत्वादिति। भिक्षुसंवरस्यान्यल्लक्षणमेवं यावदुपवाससंवरस्यान्यल्लक्षणम्। तथाहि वक्ष्यति

पञ्चाष्टदशसर्वभ्यो वर्ज्ये भ्यो विरतिग्रहात्।
उपासकोपवासस्थ श्रमणोद्देश भिक्षुता।। इति

अष्टविधत्वे तु साङ्कर्यसम्भवः। य एव हि भिक्षुसंवरः स एव भिक्षूणी संवर इत्येवमादि। श्रामणेरी च पुनः शिक्षमाणा चेति। श्रामणेरी परिवृत्तव्यञ्जना श्रामणेरो भवति। शिक्षमाणा चापि परिवृत्तव्यञ्जना श्रामणेर एव भवति। किमेवं नेष्यते। परिवृत्तव्यञ्जनो भिक्षुर्भिक्षुसंवरं च त्यजति भिक्षुणीसंवर च प्रतिलभत आह। न च व्यञ्जनपरिवृत्ताविति विस्तरः। न भिक्षुभिक्षुणीव्यञ्जनप्रादुर्भावे पूर्वसंवरत्यागकारणमस्ति।

प्रतिमोक्षदमत्यागशिक्षानिक्षेपणाच्च्युतेः।
उभयव्यञ्जनोत्पत्तेर्मूलोच्छेदान्निशात्ययात्।।

इत्यत्र यत् कारणमुक्तम्। नाप्यपूर्वसंवरप्रतिलम्भे कारणमस्तीति वर्तते। यदुक्त प्रातिमोक्षाख्यः परविज्ञापनादिभिरिति। अतो विज्ञायते न भिक्षुसंवरादन्यो भिक्षुणीसंवर इति। एवं श्रामणेरादीनामपि वक्तव्यम्। तस्मादभिन्नोऽनन्यश्चतुर्णां भिक्षुणीशिक्षमाणाश्रामणेर्युपासिकासंवराणां त्रिभ्यो भिक्षुश्रामणेरोपासकसंवरेभ्यः स्वभावः।

किं ते संवरा इति विस्तरः। यथा पञ्चसंख्यायामन्यानि पञ्च प्रक्षिप्य पञ्चवृद्धियोगाद्दश भवन्ति। पञ्चदशसंख्यायां चान्यानि पञ्च प्रक्षिप्य च विंशतिर्भवन्ति। दीनारसतेरवच्च। यथा पूर्वको दीनारो द्वितीयेन सह सतेरो भवति तथाहि लोके एकदीनारमूल्येन द्वितीयं दीनार दीनारमूल्यं वा तेन पूर्वकेण दीनारमूल्येन सहाधिकमपेक्ष्य कश्चिद् वक्ता भवेत् दीनारसतेरो मया लब्ध इति। दीनारद्वयं मया लब्धमित्यर्थः। किमेवमेतदुपासकश्रामणेरभिक्षुसंवरा विरतिवृद्धियोगात् प्राणातिपातादिविरतिषु तथैवावस्थितासु पुनर्नृत्यगीतविरत्यादीनां पूर्वासां विरतीनां वृद्धियोगादन्योन्य उच्यन्ते। अन्य उपासकसंवराच्छामणेरसंवरः श्रामणेरसंवराच्चान्यो भिक्षुसंवर इति एकदेशविशेषयोगादन्योन्यव्यवस्थेत्यर्थः। आहोस्वित् पृथग् एव ते सकला उपजायन्ते। अन्याः प्राणातिपातादिविरतय उपासकस्य। ततोऽन्याः श्रामणेरस्य। ततोऽन्याश्च भिक्षोरित्येकस्मिन् भिक्षुसन्ताने तिस्रः प्राणातिपातादिविरतयः। एवमदत्तादानविरतयः। इत्येवमादि। एवं शेषा नृत्यगीतविरत्यादयः ।

मदप्रमादेभ्य इति। उच्चशयनादिमद्यपानादिभ्यः। बहुतरेभ्यः प्राणातिपातादीनां निदानेभ्य इति। उपासकाच्छामणेरो बहुतरेभ्यः प्राणातिपातादिनिदानेभ्यो निवर्तते। तद् यथा विकालभोजनं प्राणातिपातनिदानं भवेत्। तस्माच्छामणेरो निवर्तते नोपासक इत्येवमादि योज्यम्। एवं चासति। एवं च यदि न स्यादित्यर्थः। भिक्षुसंवर प्रत्याचक्षाण स्त्यजन् त्रीनपि उपासकसंवरादीन् विजह्यात्। द्वयोरप्युपासकश्रामणेरसंवरयोस्तत्र भिक्षुसंवरेऽन्तर्भावात्।

[ पञ्चाष्टदशसर्वेभ्यो वर्जेभ्यो विरतिग्रहात्।
उपासकोपवासस्थश्रमणोद्देशभिक्षुता।। १५।।
शीलं सुचरितं कर्म-संवरश्चोच्यते पुनः।
आद्ये विज्ञप्त्यविज्ञप्ती प्रातिमोक्षः क्रियापथः।। १६।। ]

विरतिसमापादानादिति। विज्ञप्त्यविज्ञप्तिविरतिरिति वक्ष्यति। समापादनादिति। प्रतिसंस्थापनादित्यर्थः। पापकर्मणो हि सत्त्वेषु विषमं संप्रवर्तते। सापि तु विज्ञप्तिचित्ताभ्यां क्रियत इति। विज्ञप्त्या च क्रियते प्रातिमोक्षसंवरसंगृहीता अविज्ञप्तिश्चित्तेन च क्रियते ध्यानानास्रवसंवरसंगृहीता अविज्ञप्तिः। समाधिना कियत इत्यर्थः। तदेवं क्रियत इति क्रियेति कर्मसाधनम्।

क्रियाहेतुत्वादिति। क्रियाया हेतुत्वात्। संवरस्थो हि संवरपरिरक्षणार्थ क्रियां विज्ञप्तिलक्षणामारभते। क्रियाफ़लत्वाच्चेति। विज्ञप्तिलक्षणायाः क्रियायाः फ़लत्वादित्यर्थः। समाधिसंभूता कथं क्रिया भवति। समाधिजायाश्चेतनायाः फ़लत्वात् साऽपि क्रिया। प्रातिमोक्षसंवराधिकाद्वा। न तत्र चित्ता।

एवं तावत् अविशेषेण प्रातिमोक्षसंवरः संशब्द्यत इति। आद्योऽपि क्षणो द्वितीयादयोऽपि च क्षणाः प्रातिमोक्षसंवर इत्युच्यते। प्रातिमोक्षस्वभावस्त्वाद्यक्षणा एव। तदर्थमाह। पुनः आद्ये विज्ञप्त्यविज्ञप्ती प्रातिमोक्ष इत्युच्यते। पापस्य तेन प्रतिमोक्षणादिति। प्रथमेनैव क्षणेन पाप प्रतिमोक्ष्यते उत्सृज्यते त्यज्यते इत्यर्थः। प्रतिमोक्ष इति प्राप्ते प्रातिमोक्ष इति वचनं स्वार्थे वृद्धिविधानात्। स्वार्थे प्रत्यये कृते वृद्धिकरणादित्यर्थः। वैकृतवैशसवत्। यथा विकृतमेव वैकृतम्। विशसमेव मारणं वैशसम्। एव प्रतिमोक्ष एव प्रातिमोक्ष इति। प्रातिमोक्षसंवर इत्यपीति। प्रातिमोक्षश्चासौ संवरश्च। कायवाचोः संवरणार्थ इत्यर्थः। कर्मपथ इत्यप्युच्यत इति मौलः कर्मपथ इत्यर्थः। द्वितीयादिषु प्रातिक्षसंवर एव। प्रातिमोक्षजातीयः प्रातिमोक्षाद्वा जातः संवरः प्रातिमोक्षसंवरः। न प्रातिमोक्षः। यस्मात् न तेन पाप प्रतिमोक्ष्यते। प्रथमक्षण एव प्रतिमोक्षितत्वात्।

[ प्रातिमोक्षान्विता चाष्टौ ध्यानजेन तदन्वितः।
अनास्रवेणार्यसत्त्वा अन्तौ चित्तानुवर्तिनौ।। १७।। ]

अष्टावेव निकाया इत्यवधारणे पृच्छति। किं खलु बाह्यकानामिति विस्तरः। समादानशीलमिति विशेषण शीलद्वैविध्यात्। द्विविधं हि शीलं समादानशीलं धर्मताप्रतिलम्भिकं च। तत्र समादानशील यद् गृह्यते। इदं चेद च न करिष्यामीति। धर्मताप्रतिलम्भिकं ध्यानसंवरोऽनास्रवसंवरश्च। भवसंनिश्रितत्वादिति। मोक्षार्थिनामपि तेषां मिथ्यादृष्ट्याद्युपहतत्वात्। भवविशेष एव च तेषां केषान्चिन्मोक्ष इति। भवसन्निश्रितमेव शीलम्। ततोऽस्ति तेषां समादानशीलं न प्राप्तिमोक्षसंवर इति। सामन्तकमप्यत्न ध्यानं कृत्वोच्यत इति। यस्मात् सामन्तकेऽपि ध्यान संवरोऽनास्रवसंवरश्चेष्यते। तस्मात् ध्यानसामन्तकमप्यत्र ध्यानशब्देनोच्यत इतीष्यते। अपिशब्दान्मौलमपि गृह्यत एव। सहभूहेतावुच्यमान इति। चैत्ता द्वौ संवरौ तेषामित्यत्र। त्रयाणामिति प्रातिमोक्षसंवरध्यानसंवरानास्रवसंवराणाम्। अन्यचित्ताचित्तकस्याप्यनुवृत्तेरिति। विक्षिप्ताचित्तकस्यापीति वचनात्।

[ अनागम्ये प्रहाणाख्यौ तावानन्तर्यमार्गजौ।
सम्प्रज्ञानस्मृती द्वे तु मन इन्द्रियसंवरौ।। १८।। ]

अनागम्य इति ग्रहणं कामवचरस्यैव दौःशीलस्य प्रतिपक्षत्वात्। आनन्तर्यमार्गेष्विति। तेषां प्राहणमार्गत्वात्। तत्समुत्थापकानामिति दौःशील्यसमुत्थापकानाम्। अत एवेति। यस्मादनागम्यानन्तर्यमार्गेष्वेव तद्व्यवस्थानम्। तस्माच्चतुःकोटिकं क्रियते। प्रथमा कोटिरनागम्यानन्तर्यमार्गवर्ज्यो ध्यानसंवरः। अनागम्यभूमिकेषु विमुक्तिप्रयोगविशेषमार्गेषु मौलप्रथमध्यानादिषु वा चतुर्थाद् ध्यानादानन्तर्यविमुक्तिप्रयोगविशेषमार्गेषु यो ध्यानसंवरः। अयं ध्यानसंवरो न प्रहाण संवरः। तेन दौःशील्यस्य तत्समु त्थापकानां च क्लेशानामप्रहाणात्। द्वितीया अनागम्यानन्तर्यमार्गेष्वनास्रवसंवरः। अयं प्रहाणसंवरः तेनैव दोःशील्यादिप्रहाणात्। न ध्यानसंवरोऽनास्रवत्वात्। तृतीया अनागम्यानन्तर्यमार्गेषु सास्रवसंवरः अयं प्रहाणसंवरश्च तेम दौःशील्यादिप्रहाणात्। ध्यानसंवरश्च सास्रवसमाधिजत्वात्। चतुर्थी अनागम्यानन्तर्यमार्गवर्ज्योऽनास्रवसंवरः। अयं न ध्यानसंवरोऽनास्रवत्वात्। नापि प्रहाणसंवरस्तेन दौःशील्याद्यप्रहाणात्। स पुनस्तथैवानागम्यभूमिकेषु विमुक्तिप्रयोगविशेषमार्गेषु विस्तरेण योऽनास्रवसंवरः। संवरनियमेनैवमुक्तम्। अन्यथाप्यन्ये धर्मा वक्तव्याः स्युः। एवं स्यादनास्रवसंवरो न प्रहाणसंवर इति चतुष्कोटिकम्। प्रथमा कोटिरनागम्यानन्तर्यमार्गवर्ज्योऽनास्रवसंवरः।

मनः संवरोऽपि स्मृतिसंप्रज्ञानस्वभावः इन्द्रियसंवरोऽपि स्मृतिसंप्रज्ञानस्वभाव इति। द्विस्वभावज्ञापनार्थ द्विग्रहणं द्विवचननिर्देशादेव हि द्वित्वसिद्धिः। कथं पुनर्गम्यते। एतावेवंस्वभावादिति। आगमात्। अन्यतरा किल देवता भिक्षु विषयेष्विन्द्रियाणि विचारयन्तमवोचत्। भिक्षो भिक्षो व्रण मा कार्षिरिति। भिक्षुराह। पिधास्यामि देवते। देवताह। कुम्भमात्रं भिक्षो व्रणं कृत्वा केन पिधास्यसि। भिक्षुराह। स्मृत्या देवते पिधास्यामि। संप्रजन्येन वेति।

[ प्रातिमोक्षस्थितो नित्यमात्यागाद्वर्तमानया।
अविज्ञप्त्यान्वितः पूर्वात् क्षणादूर्द्ध्वमतीतया।। १९।।
तथैवासंवरस्थोऽपि ध्यानसंवरवान् सदा।
अतीताजातयार्यस्तु प्रथमे नाभ्यतीतया।। २०।। ]

स यावत्तामविज्ञप्तिं न त्यजतीति। शिक्षानिक्षेपादि।

पूर्वात् क्षणादूर्द्ध्वमतीतयेति। प्रथमे क्षणे वर्तमानयैव समन्वागतो भवतीत्युक्त भवति। ध्यानसंवरवान् सदा अतीताजातयेति। ध्यानसंवरवान् किं पृथग् जनोऽथार्यः। उभय इत्याह। अविशेषित्वात्। सोऽतीतानागतया अविज्ञप्या समन्वागतः। किलंक्षणया। ध्यासंवराधिकाराद् ध्यानसंवरलक्षणयेति गम्यते। स जन्मान्तरत्यक्तमिति। उदाहरणप्रदर्शनपरमेतत्। इदं जन्म त्यक्तमपि हि गृह्यते।

आर्यस्तु प्रथमेनाभ्यतीतयेति। आर्यः सदातीताजातया अविज्ञप्त्या समन्वागतः। किलंक्षणया। अनास्रवया। आर्याधिकारात्। अत एवाह। आर्यपुद्गलोऽप्येवमनास्रवयेति। अयं तु विशेष इति। तुशब्दार्थ दर्शयति। स च भिन्नक्रमः। प्रथमे तु क्षणे दुःखधर्मज्ञानक्षान्तिक्षणे। नाभ्यतीतया अविज्ञप्त्या समन्वागत इत्यर्थः। कस्मात्। अनादिमति संसारे मार्गस्य पूर्वमनुत्पादितत्वात्। ननु च फ़लप्राप्तिकाल इन्द्रियसञ्चारकालेऽपि वा पूर्वमार्गत्यागे नैवातीतया अविज्ञप्त्या समन्वागम इष्यते। एवं तर्हि स चापि फ़लमार्गस्य प्रथमक्षणो भवति। तत्र नातीतयाऽविज्ञप्त्या समन्वागतो भवति। फ़लमार्गस्य पूर्वमनुत्पादितत्वादिति व्याख्यातव्यम्। आचार्यवसुमित्रस्त्वस्य चोद्यस्य परिहारमाह। अनास्रवसंवरोऽत्र प्रकृतः। स च दुःखधर्मज्ञानक्षान्तिकाल एव लब्धः। अतस्तेन प्रथमे क्षणे नातीतेन समन्वागतो द्वितीयादिष्वतीतानागतेनेति। ऊर्धन्तु यो मार्गान्तरलाभस्तत्रानास्रवसंवरसादृश्यमस्तीति न तदुच्यते इति। तदिह सादृश्यमस्तीति न बुध्यामहे। किं सास्रवसंवरोऽस्तीत्यपेक्ष्येदमुच्यते। आहोस्विदनास्रवोऽस्तीति। यदि सास्रवोऽस्तीत्यभिप्रेयते।दुःखधर्मज्ञानक्षान्तिकालेऽपि सोऽस्तीति नातीतया समन्वागत इति प्रतिषेधानुपपत्तिः। अथ फ़लप्राप्तिकालेऽतीतानास्रवसंवरोऽस्तीत्यभिप्रेयते। विहीनः स कथमस्तीति शक्यं वक्तुमिति चिन्त्योऽस्याभिप्रायः।

[ समाहितार्यमार्गस्थौ तौ युक्तौ वर्तमानया।
मध्यस्थस्यास्ति चेदादौ मध्ययोर्द्वन्द्विकालया।। २१।। ]

समाहितार्यमार्गस्थाविति। समाहितमार्गस्थश्च लौकिकसमाहितमार्गस्थ आर्यमार्गस्थश्च समाहितार्यमर्गस्थौ। ध्यानानास्रवसंवरान्वितावित्यर्थः। अत्र चार्यमार्गाभिरूद आर्यमार्गस्थो वेदितव्यो नौस्थन्यायेन। तद् यथा यो नावमभिरूदः स नौस्थः। एवं य आर्यमार्गमभिरूदः समापन्नः स आर्यमार्गस्थः। अन्यथा ह्यार्यमार्गसमन्वितोऽप्यार्यमार्गस्थः इति कृत्वा। प्रकृतिस्थोऽप्यार्यो वर्तमानया अनास्रवया अविग़्यप्तया समन्वागत इति प्राप्नोति। अन्यः पुनरेव प्रसङ्ग परिहरन् व्याचष्टे। एकशेषोऽत्र क्रियते। समाहितश्च समाहितार्यमार्गश्च। तौ यथाक्रमं वर्तमानया ध्यानसंवराविज्ञप्त्याऽनास्रवसंवराविज्ञप्त्या च समन्वागतौ। न तु क्युत्थितौ। न तु तन्मार्गव्युत्थितौ तया वर्तमानया समन्वागतौ। तस्याः चित्तानुपरिवर्तनीयत्वात्। एव व्याख्यायते। यच्चोदितमाचार्यसंघभद्रेण। कथमविज्ञप्तेः प्रत्युत्पन्नता आर्यमार्गस्थवचनादेव गम्यते। तत्समापन्न एवायम्। न पुनस्तत्समन्वागमवचनप्रसङ्ग इति चेत्। न। ध्यानाधिकारात्। तत्राविज्ञप्त्यभावाच्च।

यो नैवसंवर नासंवरस्थितः स मध्यस्थ इति। यो न भिक्ष्वादिः। न च कवर्तादि। स मध्यस्थ। दौःशील्यशीलाङ्गादिसंगृहीतेति। दौः शील्यं प्राणातिपातादि। शीलाङ्गं प्राणातिपातविरत्यादि। यन्न संवर नासंवरसंगृहीतम्। आदिशब्देन स्तूपवन्दना खटचपेटादि क्रियाविज्ञप्त्यादि गृह्यते।

[ असंवरस्थः शुभयाशुभया संवरे स्थितः।
अविज्ञप्त्यान्वितो यावत् प्रसादक्लेशवेगवान्।। २।।
विज्ञप्त्या तु युताः सर्वे कुर्वन्तामव्ययान्विताः।
अतीतया क्षणादूर्ध्वमात्यागान्नस्त्यजातया।। २३।।
निवृतानिवृताभ्यां च नातीताभ्यां समन्वितः।
असंवरो दुश्चरितं दौःशील्यं कर्म तत्पथः।। २४।। ]

असंवरसंवरस्थौ पुद्गलावकुशलकुशलधर्मप्रतिष्ठितौ इत्यनयोर्विपर्ययमसंभावयन् पृच्छति। किमसंवरस्थ इति विस्तरः। तौ यावदनुवर्तेते इति। प्रसादक्लेशवेगौ। अन्येष्वतीतयापीति। द्वितीयक्षणादिषु अतीतया।

क्षणादूर्द्ध्वमात्यागादिति। यो यस्यास्त्यागस्तस्मादात्यागात्तयातीतया विज्ञप्त्या समन्वागतः। कथम्। संवरलक्षणायास्तावद्विज्ञप्तेस्त्यागः शिक्षानिक्षेपादिभिः। तस्मादात्यागादनयाऽतीतया विज्ञप्त्या समन्वागतः असंवरलक्षणायाः संवरसमादानादिभिस्त्यागः तस्मादात्यागादनया समन्वागतः। नैवसंवरनासंवरलक्षणायाः प्रसादक्लेशवेगच्छेदादिभिस्त्यागः। तस्मादात्यागादनया समन्वागत इति। यो हि संवराद्यविज्ञप्तिसमन्वागतः सोऽवश्यं मौलकर्मपथस्वभावया क्षणादूर्द्ध्वमतीतयाविज्ञप्त्या समन्वागतः। अनागतया तु विज्ञप्त्या न कश्चित् समन्वागत इति चित्ताननुपरिवर्तनीयत्वात्। चित्तस्यपीति। चित्तस्यापि तर्हि निवृताव्याकृतस्य मा भूत् प्राप्तिः। अनुबन्धिनी मा भूदित्यर्थः। कस्मादित्याह। जडा हि विज्ञप्तिरमालम्बनत्वात्। परतन्त्रा च चित्तपरतन्त्रत्वात्। न चैवं चित्तमिति। न जडं न परतन्त्रं चेत्यर्थः। कस्मात्। तद्विपर्ययात्। सा दुर्बलेन निऱ्ताव्याकृतेन चित्तेनोत्थापिता दुर्बलतरा भवतीति। मौलसंगृहीतत्वादिति चेतनायः तदर्थत्वात्।

[ विज्ञप्त्यैवान्वितः कुर्वन् मध्यस्थो मृदुचेतनः।
त्यक्तानुत्पन्नविज्ञप्तिरविज्ञप्त्यार्यपुद्गलः।। २५।। ]

विज्ञप्त्यैवान्वितः कुर्वन् मध्यस्थो मृदुचेतन इति। मध्यस्थ ग्रहणं संवरासंवरस्थनिरासार्थम्। संवरासंवरस्था हि विज्ञप्त्यविज्ञप्तिभ्यामवश्यं समन्वागताः। मृदुचेतन ग्रहणं तीव्रचेतननिरासार्थम्। तीव्रचेतना हि विज्ञप्ति कुर्वन्नविज्ञप्ति समुत्थापयेत्। प्रागेवाव्याकृतमिति। मृव्द्या चेतनया प्रागेवाव्याकृतं कुर्वन्। यत्र हि मृद्वया चेतनया कुशलमकुशलं वा कुर्वन् नैवसंवरनासंवरे स्थितो विज्ञप्त्यैव समन्वागतो भवति। अविज्ञप्तेरनुत्पादात्। प्रागेवाव्याकृतं कुर्वन् सुतरां विज्ञप्त्यैवासौ समन्वागतो नाविज्ञप्त्या। अविज्ञप्त्युत्पादाशंकाया अभावात्। अन्यत्रेति विस्तरः। अन्यत्र सप्तम्य औपधिकेभ्यः पुण्यक्रियावस्तुभ्यः। कर्मपथेभ्यश्च प्राणातिपातादिभ्यः। तत्र ह्यव्याकृतमपि कुर्वन्न विज्ञप्त्या समन्वागतो भवति। सततसमितं चरतो वा तिष्ठतो वा विस्तरेण यावदुपजायत एव पुण्यमिति सूत्रे वचनात्। प्राणातिपातादींश्च कर्मपथां मृदुचेतनयापि कुर्वन् अविज्ञप्त्या समन्वागतो भवति। येनार्यपुद्गलेनेति विस्तरः। परिवृत्तजन्मनार्यपुद्गलेन यदा न तावद्विज्ञप्तं भवति। कललाद्यवस्थायामारूप्योपपत्तौ च। विज्ञप्त वा पुनर्विहीनमव्याकृतचित्तोत्थापित विज्ञप्तिविहीनात् च। न हि तस्याः प्राप्तिरनुबन्धिनी भवति। कृतस्तूपादिकस्य वा। तद्वस्तुच्छेदात्। स हि तदानीमविज्ञप्तिमपि परित्यजति प्रागेव विज्ञप्तिमिति। आस्ववस्थासु जन्मान्तरपरिवॄत्तावार्यपुद्रलोऽनास्रवयैवाविज्ञप्त्या जन्मान्तरलब्धया समन्वागतो न विज्ञप्त्या। ननु च पृथग् जनस्याप्ययं विधिः सम्भवति। सम्भवति। अनावश्यकत्वात्तु पृथग्जनो नोक्तः। यो हि ध्यानलाभी परिवृत्ताजन्मान्तरः रूपधातावकृतविज्ञप्तिः कृतविज्ञप्तिविहीनो वा। स एव तथा सम्भवति नान्य इति। कामावचरसत्त्वाभिसन्धिवचनाद्वा। अथवा उदाहरणरूप आर्यपुद्गल उक्तस्तेन पृथगे जनोऽपि तथा ग्रहीतव्यः। अत एव विज्ञप्त्यैवान्वितः कुर्वन्मध्यस्थो मृदुचेतन इत्यत्रोक्तः। अन्यत्रौपधिकपुण्यक्रियावस्तु कर्मपथेभ्य इति । सावशेषमेतद्वचनमिति कृत्वा। एवं द्वे कोटी सूत्रिते प्रथमद्वितीये तृतीयचतुर्थ्यो तु योज्ये। तृतीया संवरासंवरमध्यस्थास्तीव्रया चेतनया कुशलमकुशलं वा कुर्वन्तः। चतुर्थी येन जन्मान्तरपरिवृत्तौ पृथग् जनेन न तावद् विज्ञप्तं भवति। विज्ञप्तं वा विहीनमिति।

[ ध्यानजो ध्यानभूम्यैव लभ्यतेऽनास्रवस्तया।
आर्यया प्रातिमोक्षाख्यः परविज्ञापनादिभिः।। २६।। ]

सहभूतत्वादिति  यस्माद् ध्यानचित्तेन सह भवति ध्यानसंवरः। परो विज्ञापयतीति प्रत्यापयति। पुद्गलादन्य इति। श्रामणेरश्रामणेर्युपासकोपासिकोपवास संवराः। नियमावक्रान्त्या आर्यमार्गावतारणेन। पञ्चकानामाज्ञातकौण्डिन्यादीनाम्। एहि भिक्षुकयेति एहि। भिक्षो चर ब्रह्यचर्यमिति भगवतो वचने। एहीति चोक्तः सुगतेन तायिना मुण्डश्च काषायधरो बभूवेति। शास्तुरभ्युपगमान्महाकाश्यपस्येति। महाकाश्यपः किल यां यां देवता प्रतिमां वन्दते सा सा स्फ़ुटति तस्य महानुभावात्। स भगवन्तमुपसंक्रम्य न वन्दते। माऽस्य रूपविनाशो भूदिति। तमभिप्राय विदित्वा भगवांश्चोदयति स्म। वन्दस्व काश्यप तथागतमिति। तेन भगवान् वन्दितः। ततः स भगवतो रूपमविकोपितं दृष्ट्वा अयं मे शास्तेति स भगवन्तमभ्युपगतस्तदभ्युपगमात् अस्योपसम्पदिति। प्रश्नाराधनेन सोदायिन इति। सोदायिना प्रश्नविसर्जनेन भगवानाराधितस्तेनाराधितस्तेनाराधनेन तस्योपसम्पत्। गुरूधर्माभ्युपगमेनेति। अष्टौ गुरूधर्मा। भिक्षोरन्तिकाद् भिक्षुणीनामुपसम्पत् भिक्षुणीभावः। अन्वर्धमासमववादो ग्राह्यो भिक्षोरन्तिकात्। अभिक्षुके आवासे वर्षा नोपगन्तव्याः। प्रवारणायामुभयसङ्घस्त्रिभिः स्थानैः प्रवारयितव्यः। न चोदयितव्यो भिक्षुरापत्तिमापन्नः नाकोष्टव्यः। गुरूधर्मपत्तौ मानाप्यमर्धमास चरितव्यम्। वर्षशतोपसम्पन्नयापि भिक्षुण्या तत् क्षणोपसम्पन्नो भिक्षुर्वन्धः। न च भिक्षुण्या क्वचिद् भिक्षुश्चोदयितव्यः। इत्येव मादयः। एषामभ्युपगमेन तस्या उपसम्पत्। दूतेन धर्मदिन्नाया इति। तया किलान्तः पुरगतयैव प्रव्रज्यार्थ बुद्धाय दूतः प्रेषित इति। विनयधरपञ्चमेनेति। चत्वारो भिक्षवः संघः। तत्र च ज्ञप्तिवाचकेन पञ्चमेनोसम्पादय्ते प्रत्यन्तिकेषु जनपदेषु। मध्यमेषु तु जनपदेषु दशमेन ज्ञप्तिवाचकेनोपसंपाद्यते। षष्टिभद्रवर्ग-पूगोपसंपादितानामिति। भद्रो वर्ग एषामिति। भद्रवर्गाणां षष्टिः कुलपुत्राः। तेषां पूगेन समूहेनोपसंपादितानाम्। शरणगमनत्नैवाचिकेन। बुद्धं शरणं गच्छाम इति त्रिर्वचनेनोपसंपत्। तेषां नावश्यं विज्ञप्त्यधीन इति। तेषां विनयधराणामिदं मतम्। नावश्यं विज्ञप्त्यधीनः प्रातिमोक्षसंवर इति। बुद्धप्रभृतीनामविज्ञप्त्यधीनत्वात्। अथ वा तेषामिति येषां विज्ञप्तिर्नास्त्युपसंपत्क्रियायाम्।

[ यावज्जीवं समादानमहोरात्र च संवृतेः।
नासंवरोऽस्त्यहोरात्न न किलैवं स गृह्यते।। २७।।
काल्यं ग्राह्योन्यतो नीचैः स्थितेनोक्तानुवादिता।
उपवासः समग्राङ्गो निर्भूषेणानिशाक्षयात्।। २८।। ]

संवृतेरिति संवरस्य। कालो नित्यः पदार्थोऽस्तीत्येके। तदाशंकया पृच्छति। कालो नाम एक एष धर्म इति। काल इत्यस्याभिधानस्य किमभिधेयमित्यर्थः। संस्कारपरिदीपनाधिवचनमेतदिति। संस्काराणामतीतानागतप्रत्युत्पन्नानामभिद्योतकं नामेति। तद् यथा अतीतः कालो यावत् प्रत्युत्पन्न इति त्रैयध्विकः संस्कारा एव गम्यन्ते। तेन च तत्राप्रयोगादिति। तेन विसभागेनाश्रयेण तत्र समादाने अप्रयोगात्। अस्मरणाच्च तेनाश्रयेण तत्समादानं न स्मरति। वैभाषिक आह। कुतस्त्वेतदेवं तर्क्यते। यथानन्तरमुक्तम्। आचार्य आह। परेणापि संवरोत्पत्तौ युक्त्यविरोधादिति। नात्र युक्तिर्विरूध्यते। यथा जीवितादूर्द्ध्व सत्यपि समादाने संवरोत्पत्तौ युक्तिविरोधो विसभागाश्रयत्वात् इत्येवमादि। न कालान्तरविपन्नमेति अहोरात्रादि यावत्क्रियाशयेन।

अविज्ञप्तिवदसंवरोऽपि नास्ति द्रव्यत इति। यथा नास्त्यविज्ञप्तिर्द्रव्यत इति प्रतिपादितं तथा असंवरोऽपि न द्रव्यतोऽस्ति। चेतनाव्यतिरिक्त इत्यभिप्रायः। पापक्रियाभिसन्धिरिति । पापक्रियाभिप्राय इत्यर्थः। सानुबन्ध इति। सवासन इत्यर्थः सवासनश्चेतनाविशेषोऽसंवर इत्यर्थः। यतोऽनुबन्धात् तद्वानसंवरवानित्युच्यते। असंवरिक इत्यर्तः। तस्यानिराकृतत्वात्। तस्याभिसन्धेः सानुबन्धस्यानिराकृतत्वात्। तद्विरूद्धया चेतनयानुपहतत्वादित्यर्थः।

स भुक्तापि गृह्णीयादिति। सूर्योदय एव संवर उत्तिष्ठते। समादाननियमचित्तस्योत्थापकत्वात्। भुक्त्वा ग्रहणं त्वभिव्यक्तयर्थम्। कपोतकमिति। अङ्गुष्ठरहितस्याङ्गुलिचतुष्कस्येतर हस्ताङ्गुष्ठप्रदेशिन्योरन्तरालविन्यसनात् कपोतकः।

[ शीलाङ्गान्यप्रमादाङ्ग व्रताङ्गानि यथाक्रमम्।
चत्वार्येकं तथा त्रीणि स्मृतिनाशो मदश्च तैः।। २९।। ]

शीलं पाराजिकाऽभावः संघावशेषाद्यभावः। व्रतमिति नियमः। तदभावादित्यकालभोजनात्। उभयं न स्यादिति। स्मृतिः संवेगश्च।

न तु तेषामिति विस्तरेणाचार्यो वैभाषिकमतं युक्त्या विरोधयति। न तु तेषामेव सम्यग्दृश्टयादीनां सम्यग् दृष्टि धर्मविचयसम्बोध्यङ्ग समाधीनाम्। त एव सम्यग् दृष्ट्यादयोऽङ्गत्वाय कल्पन्ते। युज्यन्ते इत्यर्थः। कस्माद्। युक्तिविरोधात्। पूर्वकाः सम्यग्दृश्टयादयः उत्तरेषां सम्यग् दृष्ट्यादीनामङ्गानि यदि स्युरिति व्यवस्थाप्यते। एवमस्यां कल्पनायां प्रथमक्षणोत्पन्न आर्यमार्गो नाष्टाङ्गः स्यात्। न हि तत्र पूर्वोत्पन्ना सम्यग्दृष्टिरङ्गमस्तीति। सप्ताङ्गः स्यात्। बोध्यङ्गेष्वपि पश्चिमः क्षणो न बोध्यङ्ग स्यात्। न ह्यन्या परेण बोधिरस्ति यस्यास्तदङ्ग स्यात्। अथ मतमनागताया बोधेस्तदङ्गमिति। अनागतबोधिर्न स्यात्। एवं समाधिर्योज्यः।

[ अन्यस्याप्युपवासोऽस्ति शरणं त्वगतम्य न।
उपासकत्वोपगमात् संवृदुक्तिस्तु भिक्षुवत्।। ३०।। ]

अन्यत्राज्ञानादिति। दातुर्ग्रहीतुर्वा विस्मरणादव्युत्पत्तेश्च। सन्दिग्धस्य विपन्नाशयस्य वाऽनादरपूर्वकं शरणमवगच्छतः संवरो नोत्पद्यते इति। गृहीत्युद्देशपदम्। अवदातवसन इति निर्द्देशपदम्। पुरूष इत्युद्देशपदम्। पुरूषेन्द्रियेण समन्वागत इति तन्निर्द्देशपदम्। यदि न विना संवरेणोपासको भवति। यत्तर्हिसूत्र उक्तम्। तदुक्तमियतोपासको भवतीति। तत् कथमिति वाक्यशेषः। आह। नास्त्यत्र सूत्रविरोध इति। महानामसूत्रस्य।

उक्तिस्तु भिक्षुवदिति उपासकशिक्षापदोक्तिः भिक्षुरिव। यथैव हि भिक्षुर्लब्धसवरोऽपि ज्ञप्ति चतुर्थन कर्मणा शिक्षापदानि यथास्थूलं ग्राह्यते प्रत्याय्यते इतश्चामुतश्च पराजिकादिभ्यस्तव संवरः। अन्यानि च ते सब्रह्यचारिणः कथयिष्यतीति। श्रामणेरश्च। किम्। शिक्षापदानि ग्राह्यते लब्धसवरोऽपि पूर्वम्। यदैव हि तेनाभ्युपगतमहमेवंनामा तं भगवन्तं तथागतम् अर्हन्तं सम्यक्सम्बुद्ध शाक्यमुनि शाक्याधिराजं प्रव्रजितमनुप्रव्रजामि। गृहस्थलिङ्ग परित्यजामि। प्रव्रज्यालिङ्ग समाददामि। श्रमणोद्देशं मां धारय। एवं यावत् त्रिरपीति। तथोपासकोऽपि बुद्धशरण गच्छामि यावत् संघशरणं गच्छामि द्विरपि त्रिरपि। इत्यनेन वरोऽपि पुनः शिक्षापदानि ग्राह्यते। प्राणातिपातं प्रहाय प्राणातिपातात् प्रतिविरमामीति विस्तरेण।

[ सर्वे चेत् संवृता एकदेशकार्यादयः कथम्।
तत्पालनात् किल प्रोक्ता मृद्वादित्वं यथा मनः।। ३१।। ]

एकदेशकारी। य एकं शिक्षापदं रक्षति। प्रदेशकारी। यो द्वे रक्षति। यद्भूयस्कारी। यस्त्रीणि चत्वारि वा रक्षति। परिपूर्णकारी। यः पञ्चापि रक्षति। स तत्कारीत्युक्त इति। एकदेशकारी यावत् परिपूर्णकारीत्यर्थः। न ह्येवं सूत्रपाठ इति। नह्येवं महानामसूत्रपाठो यावज्जीवप्राणपेतमिति उक्तः। यथा महानामसूत्रपाठ इति। कियता भदन्त उपसाको भवति। यतश्च महानाम गृही विस्तरेण यावदुपासकं मां धारयेति इयतोपासको भवतीति। यत्र त्वेष पाठ इति। यत्र सूत्रान्तरे एष पाठः। यावज्जीवं प्राणापेतं शरणगतमभिप्रसन्नमिति। ततस्ते दृष्टसत्याः पुद्गलाः अवेत्य प्रसादान्वयमवेत्य प्रसादहेतुकं प्राणैरपि जीवितहेतोरपि सद्धर्मीपगमन दर्शयति स्म। अभव्या वयमेन धर्म परित्यक्तैति। न त्वेष लक्षणापदेशः संवरस्य। न त्वनेन सूत्रेण लक्षणमपदिश्यते इत्यर्थः। प्राणापेतं तु न क्वचित् पठ्यत इति। नापि महानामसूत्रे। नापि दृष्टसत्यसूत्रे। कश्चैतदपरिस्फ़ुटार्थ पठेदिति। मध्यपदलोपविकल्पान्न ज्ञायते। किं प्राणेभ्योऽपेतं प्राणैर्वाऽपेत प्राणापेतम्। उताहो प्राणातिपातादिभ्योऽपेतं प्राणापेतमिति। प्रश्न एव न युज्यत इति। योऽयं प्रश्नः कियता भदन्तोपासक एकदेशकारी भवति यावत् परिपूर्णकारीति एव प्रश्नो न युज्यते। कुतो विसर्जनमिति। इह महानामन्नुपासकः प्राणातिपातं प्रहाय प्राणातिपातात् प्रतिविरतो भवति। इयता महानामन्नुपासकः शिक्षायामेकदेशकारी भवति। विस्तरेण द्वाभ्यां शिक्षापदाभ्यां प्रतिविरतः प्रदेशकारी भवति। त्रिभ्यः प्रतिविरतश्चतुर्भ्यो वा यद्भूयस्कारी भवति। पञ्चभ्यः प्रतिविरतः परिपूर्णकारी भवति इत्येतद्विसर्जन सुष्ठु न युज्यते। तन्मात्र शिक्षाक्षमान् प्रत्येष प्रश्नो युज्यते इति एकस्य शिक्षापदस्य द्वयोस्ततः परेण वा क्षमानिति। विनापि संवरेणोपासकः प्रज्ञपित इति। महानामसूत्रे। यतः खलु महानामं गृही अवदातवसन इत्येवमादिना।

अर्हतोऽपि मृदुः प्रातिमोक्षसंवरः स्यादिति। यदि समुत्थापकमस्य चितं मृदु स्यात्। पृथग्जनस्याधिमात्र इति। यद्यस्याधिमात्र चित्तमिति। अन्यत्राज्ञानादिति दातुर्ग्रहीतुश्च। तदनादरतस्तु शरणगमनैर्विना न स्यादुपासक इति।

[ बुद्धसंघकरान् धर्मान् अशैक्षानुभयांश्च सः।
निर्वाणं चैति शरणं यो याति शरणत्रयम्।। ३२।। ]

बुद्धकरकानिति बुद्धप्रज्ञप्तिहेतून्। अतवाह। येषां प्राधान्येन स आत्मभावो बुद्ध इत्युच्यते। अन्येऽपि हि गुणाः अप्राधान्येनाश्रिता भवन्ति। येषां वा लाभेनेति। क्षयज्ञानादयः सपरिवारा इति। आदिशब्देनानुत्पादज्ञानमशैक्षी च सम्यग्दृष्टिर्गृह्यते। सपरिवारग्रहणेनानास्रवाः पञ्चस्कन्धा गृह्यन्ते। रूपकायस्य पूर्व पश्चाच्चाविशेषादिति। किम्। न रूपकायं शरणं गच्छतीति सम्बन्धः। यादृशो बोधिसत्त्वावस्थायां रूपकायस्तादृशः पश्चादपीति।

लक्षणतः सर्वबुद्धानिति। न कण्ठोक्तित इत्यभिप्रायः। मार्गस्याविलक्षणत्वादिति। लौकिकस्य मार्गस्य पुण्यज्ञानसम्भारलक्षणस्य लोकोत्तरस्य च क्षयज्ञानादिलक्षणस्याविलक्षणत्वात्तुल्यात् नायुर्जात्यादिलक्षणानाम्। अतस्तुल्यलक्षणाः सर्वे बुद्धा इति।

संघीभवन्त्यभेद्यत्वादिति। सदेवकेनापि लोकेन मार्ग प्रत्यभेद्यत्वात् संघीभवन्ति। समग्ररूपा भवन्तीति। लक्षणत इति। पूर्ववद्वयाख्यातव्यम्। योऽसौ भविष्यतीति विस्तरः। तत्र भगवांस्त्रपुसभल्लिकौ वणिजावामन्त्रयते स्म। एतं युवां बुद्धं शरणं गच्छतं धर्म च। योऽसौ भविष्यत्यनागतेऽध्वनि संघो नाम तमपि शरणं गच्छतमिति। यदा संघो नास्ति तदैवमुक्तमनागतमेव संघमधिकृत्य। तत् कथं सर्वसंघानसो शरणं गच्छतीत्यनेन विरूध्यते। तत्प्रत्यक्षभाविन इति। यत् संघरत्नं तयोस्त्रपुसभल्लिकयोः धर्मचक्रप्रवर्तनानन्तरं प्रत्यक्षीभविष्यति तस्योद्भावनार्थगुणतः प्रकाशनार्थ स एवाधिकृतो भविष्यतीत्यर्थः।

शान्त्येकलक्षणत्वादिति। स्व-पर-सान्तानिकानां क्लेशानां दुःखस्य च या शान्तिः तल्लक्षणमस्येति शान्त्येक लक्षणं निर्वाणम्। तद्भावः। तस्मादसौ सर्व निर्वाणं गच्छति।

आश्रयविपादनादिति। तेषामशैक्षाणां यः आश्रयो रूपस्कन्धः। तस्य विपादनाद्विकोपनात्तदाश्रयिणोऽपि ते बुद्धकरका धर्मा विपादिता भवन्ति। शास्त्र तु नैवमिति विस्तरः। अभिधर्मशास्त्र नैवं वाचकम्। नैवं दर्शकम्। अशैक्षा धर्मा एव बुद्ध इति। किं तर्हि। बुद्धकरका इति। के ते बुद्धकरकाः। ये बुद्धत्वस्य बुद्धप्रज्ञप्तेश्च हेतवो लौकिकलोकोत्तरा धम्राः। ते बुद्ध इति। अत आश्रयस्य लौकिकपञ्चस्कन्धलक्षणस्य बुद्धत्वाप्रतिषेधादचोद्यमेवैतत्। यदुक्त यद्यशैक्षा धर्मा एव बुद्धः कथ तथागतस्यान्तिके दुष्टचित्तरूधिरोत्पादनादानन्तर्य भवतीति। अन्यथा हीति विस्तरः। यद्यशैक्षा एव धर्मा बुद्धः शैक्षाशैक्षधर्मा एव संघः। लोकिकचित्तस्थो न बुद्धः स्यात् न संघः। कस्मात्। न हि लौकिकं चितम् अशैक्षा धर्माः शैक्षाशैक्षाश्चेति। यदि वा शैक्षा धर्मा एव बुद्धकरका बुद्धः स्यात् नाश्रयोऽपि। शीलमेव स भिक्षुसंवराख्यं भिक्षुकरकं भिक्षुः स्यात् नाश्रयः। आह। यद्याश्रयस्यापि बुद्धत्व कस्मादेवमाह शास्त्रे यो बुद्धं शरणं गच्छति अशैक्षानसौ बुद्धकरकान् धर्मान् शरणं गच्छतीत्यशैक्षधर्मानेवावधारयति। एवं वैभाषिकेणोक्ते आचार्यो दृष्टान्तेन समाधिमाह। यथा तु यो भिक्षुं पूजयतीति विस्तरः। यथा तु यो भिक्षु पूजयति शीलमुखेन। भिक्षुकरकमसौ शीलं पूजयति। न च पुनः शीलमेव भिक्षुः। एवं यो बुद्धं शरण गच्छतीत्यशैक्षमुखेन। अशैक्षानसौ बुद्धकरकान् धर्मान् शरण गच्छति। न पुनः स्वसान्तानिका अशैक्षा एव धर्मा बुद्धः। तसाददोष एषः। यो बुद्धं शरणं गच्छति अशैक्षानसौ बुद्धकरकान्धर्मान् शरण गच्छतीति। सोऽष्टादशा वेणिकानिति तेषामसाधारणत्वादिति अभिप्रायः। वाग्विज्ञप्ति स्वभावानीति। ग्रहणकालमधिकृत्य। चैत्यवृक्षांश्चेति। चैत्यकल्पिता वृक्षाश्चैत्यवृक्षाः। तानिति। अत एवेति। यस्मादेतच्छरणमागम्य सर्वदुःखात् प्रमुच्यते। अतः सर्वसंवरसमादानेषु उपासकादिसंवरसमादानेषु द्वारभूतानीत्यर्थः।

[ मिथ्याचारातिगर्ह्यत्वात् सौकर्यादक्रियाप्तितः।
यथाभ्युपगमं लाभः संवरस्य न सन्ततेः।। ३३।। ]

आपायिकत्वाच्च। यस्माच्च काममिथ्याचार एकान्तेनापायिकः अपायसंवर्तनीयो न तथा ब्रह्यचर्यम्। अक्रिया नियमो ह्यकरणसंवर इति अक्रियायामकरणे नियम एकान्तता अक्रियानियमः। सोऽकरणसंवरः। अकरणलक्षणः संवरः अकरणसंवरः न समादानिकसंवर इत्यर्थः। स च सौत्रान्तिकनयेनावस्थाविशेष एव। वैभाषिकनयेन तु शीलाङ्गमविज्ञप्तिरिति।

य उपासकाः सन्त इति विस्तरः। ये गृहीतपञ्चशिक्षापदाः सन्तो भार्याः परिणयति विवाहयन्ति। किं तैरूपासकैस्ताभ्योऽपि स्त्रीभ्यः संवरः प्रतिलब्धः। प्रतिलब्धपूर्वक इत्यर्थः। अथ न प्रतिलब्ध इत्यधिकृतम्। वैभाषिक आह। प्रतिलब्ध इति। मा भूत प्रादेशिक इति सर्वागम्यात् प्रतिविरतेः। काममिथ्याचारात् प्रतिविरमामीति अगम्य आचारात् प्रतिविरमामि। न त्वस्मात् संतानागम्याचारात् प्रतिविरमामीत्यभिप्रायः। अत एवाह। न त्वत्र सन्तान इति विस्तरः।

[ मृषावादप्रसङ्गाच्च सर्वशिक्षाभ्यतिक्रमे।
प्रतिक्षेपणसावद्यान् माद्यादेवान्यगुप्तये।। ३४।। ]

प्रतिक्षेपण सावद्यमिति प्रतिषेधसावद्य भवति। भगवत् प्रतिषिद्ध कर्माचरतः पाप भवति। भगवच्छासनानादरात्। न तत्क्लिष्टं यदमदनीयमात्रां विदित्वा पिबतीत्याभिधार्मिकेणोक्ते प्रकृतिसावद्यं मद्यमिति विनयधराः साधयन्ति। प्रकृतिसावद्यमुपाले स्थापयित्वेति। प्रकृतिसावद्येन कर्मणा न चिकितस्यः प्रज्ञप्तिसावद्येन तु चिकित्सनीय इत्यभिप्रायः। शाक्येषु ग्लानेषु मद्यपान नाभ्यनुज्ञातम्। अतो गम्यते प्रकृतिसावद्य तदिति। यदि हि तत्प्रज्ञप्तिसावद्य स्यात् ग्लानशाक्योपस्थानाय तदनुज्ञायते। न चानुज्ञायते। तेन तत् प्रकृतिसावद्यमिति। इदं चोक्तं मां शास्तारमुद्दिशद्भिः शाक्यमुनिर्नः शास्तेत्युपदिशद्भिः कुशग्रेणापि मद्यं न पातव्यमिति। प्रकृतिसावद्यं तदिति भगवता तत् प्रतिषिद्धम्। न तु मदनीयमित्यवेत्य कुशग्रमात्रस्य मद्यस्यामदनीयत्वात्। आर्यश्चेति विस्तरः। प्रकृतिसावद्य मद्यं जन्मान्तरगतैरप्यार्यैरनध्याचारात्। प्राणिवधादिवदिति साधनम्। कायदुश्चरितवचनाच्चेत्यपरं साधनम्। प्रकृतिसावद्यं मद्यं कायदुश्चरितवचनात् प्राणिवधादिवत्। चतुर्विध हि नन्दिकसूत्रादिषु कायदुश्चरितमुक्तम्। प्राणातिपातः अदत्तादान काममिथ्याचारः सुरामैरेयमद्यप्रमादस्थानमिति। उत्सर्गविहितस्यापीति विस्तरः। अनेन भगवद्वचनस्य पूर्वापरविरोध परिहरन्ति। कथ भदन्तेति विस्तरेण मद्यपानस्य सामान्यवचनमुत्सर्गः। शाक्येषु ग्लानेषु मद्यपान नाभ्यनुज्ञातमित्यपवाद इति। मद्यपान ग्लानावस्थायामपि नानुज्ञातमिति गम्यते। अपवादः पुनः प्रसङ्गपरिहारार्थ सकृत् पीत हि मद्य व्यसनीभवेत्। उक्त हि भगवता। त्रीणि स्थानानि प्रतिषेवमाणस्य नास्ति तृप्तिर्वा अलंता वा पर्याप्तिर्वा। मद्यमब्रह्यचर्यस्त्यानमिद्धं चेति। प्रसङ्गपरिहारः कस्मादित्याह। मदनीयमात्रानियमात्। सैव हि मात्रा द्रव्यकालप्रकृतिशरीरावस्था अपेक्ष्य मदनीया चामदनीया च भवति। अत एव च कुशाग्रपानप्रतिषेध इत्यतिशयवचनम्। तदेव न प्रकृतिसावद्यमिति मनसिकृत्वा भगवता तत्परिहरणीयमुक्तम्। किं तर्हि। प्रसङ्गदोषादिति दर्शितम्। आर्यैरनध्याचरणं ह्रीमत्त्वादिति। पञ्च शैक्षाणि  बलानि सूत्रे पठ्यन्ते। कतमानि पञ्च। श्रद्धाबलं वीर्यबलं ह्रीवलम् अपत्राप्यबलं प्रज्ञाबलं चेति। अतो ह्रीमत्तवान्न पिबन्ति न तु प्रकृतिसावद्यत्वात्। यदि ह्रीमत्त्वात्तदनध्याचरणमज्ञातमुदकादिवत् कस्मान्न पिबन्तीत्यत आह। तेन च स्मृतिनाशादिति। मद्य हि पिबतः कार्याकार्यस्मृतिर्नश्यतीति। यद्येवमल्पकं तु पिबन्तु यावत्या मात्रया स्मृतिर्न नश्यतीति। अत आह। अल्पकस्याप्यपानम्। अनियमाद् विषवदिति। यथा कालप्रकृतिशक्तियोगादल्पमपि विष कदाचिन्मारयत्येवं मद्यमपि मदयतीति। दुश्चरितवचनं प्रमादस्थानत्वादिति। मदेनाकुशलापरिहारात् कुशलाकरणाच्च। अत्न प्रमादस्थानग्रहण नान्येष्विति। अत्नैव शिक्षापदे प्रमादस्थानग्रहण सुरामैरेयमद्यप्रमादस्थानं प्रहाय सुरामैरेयमद्यप्रमादस्थानात् प्रतिविरमामीति वचनात्। नान्येषु शिक्षापदेषु प्राणातिपातविरत्यादिषु प्रमादस्थानग्रहणम्। प्राणातिपातप्रमादस्थान प्रहाय प्राणातिपातमप्रमादस्थानात् प्रतिविरमामीति प्रमादस्थान न पठ्यते। किं तर्हि। प्राणातिपात प्रहाय प्राणातिपातात् प्रतिविरमामीति। एवमदत्तादानादि योज्यम्। कस्मादित्याह। तेषां प्रकृतिसावद्यत्वात्। तेषां प्राणाति पातविरत्यादीनां शिक्षापदानां प्रकृतिसावद्यत्वात्। तदुक्तं भवति। प्रमादस्थानमेतदिति मद्यपानात् प्रतिविरन्तव्यम्। न तु प्रकृतिसावद्यमेतदिति। अत्यासेवितेनेति विस्तरः। सुरामैरेयमद्यपानप्रमादस्थानेनासेवितेन भावितेन बहुलीकृतेन कायस्य भेदान्नरकेषूपपद्यत इति नन्दिकसूत्रे वचनात्। अत्यासेवितेन मद्यपानेन दुर्गतिगमनाभिधानम्। तत्प्रसङ्गेन मद्यपानप्रसङ्गेन अभीक्ष्णमजस्रमकुशलसन्ततिप्रवृत्तेः। अकुशलानां या सन्ततिस्तस्याः प्रवृत्तेः। आपायिकस्यापायप्रयोजनस्यापूर्वस्य कर्मण आक्षेपादावेधः। यतः वृत्तिलाभाद्वा फ़लदानाय वा पूर्वोपचितस्य कर्मणो मरणावस्थायां वृत्तिलाभः। यतः तस्मादाक्षेपाद्दृत्तिलाभाद्वा दुर्गतिगमनाभिधानमिति सम्बन्धनीयम्। अन्नासव इति। तण्डुलकृतः द्रव्यासव इति। इक्षुरसादिकृतः। ते वेति विस्तरः। सुरामैरेये कदाचिदप्राप्तमद्यभावे यदा नवे भवतः। कदाचित् प्रच्युतमद्यभावे। यदा अतिपुराणे भवतः। इत्यतो मद्यग्रहणम्। यदि मदनीय ततो दोष इत्यभिप्रायः। पूगफ़लकोद्रवादयोऽपीति। आदिशब्देन निष्पावादयो गृह्यन्ते। मद्यपाने नाभद्यत्वेऽप्यदोषः। सुरामैरेये न भवत इति। सुरामैरेयस्वभावस्य मद्यस्य पाने दोष इत्यर्थः । सर्वप्रमादास्पदत्वादिति। सर्वप्रमादानां सर्वस्मृतिप्रमोषाणां प्राणातिपाताद्यकुशलानां हेतुभूतानां इत्यर्थः। सर्वप्रमादास्पदत्वादिति। सर्वप्रमादानां सर्वस्मृतिप्रमोषाणां प्राणातिपाताद्यकुशलानां हेतुभूतानां स्थानमास्पदं प्रतिष्ठेति प्रमादस्थान मद्यपानम्।

[ सर्वोभयेभ्यः कामाप्तो वर्तमानेभ्य आप्यते।
मौलेभ्यः सर्वकालेभ्यो ध्यानानास्रवसंवरौ।। ३५।। ]

यत एको लभ्यते इति। यतो मौलादिभ्यः सत्त्वासत्त्वाख्येभ्यश्च प्रतिमोक्षसंवरो लभ्यते। ततः शेषौ ध्यानानास्रवसंवरौ। मौलप्रयोगपृष्ठेभ्य इति। मौलप्रयोगपृष्ठेभ्योऽकुशलेभ्यः कर्मभ्यः मौलप्रयोगपृष्ठस्वभावास्त्रयाणां यथाक्रमं प्रतिपक्षभूताः प्रातिमोक्षसंवराख्या विज्ञत्प्यविज्ञप्तयो लभन्ते। सत्त्वासत्त्वाख्येभ्यो वस्तुभ्यः प्राणिवनस्पत्याद्यधिष्ठानलक्षणेभ्यः प्रकृतिप्रतिक्षेपणसावद्येभ्यश्च कर्मभ्यः प्राणातिपातवनस्पतिभङ्गादिलक्षणेभ्यः। तदेतदुभयमप्युभयाधिष्ठान भवति प्रकृतिसावद्यमपि सत्त्वाधिष्ठानमसत्त्वाधिष्ठान च। प्रज्ञप्तिसावद्यमपि सत्त्वाधिष्ठानमसत्त्वाधिष्ठान च। न पुनरेव ग्रहीतव्यम्। प्रकृतिसावद्यं सत्त्वाधिष्ठान प्रतिक्षेपणसावद्यमसत्त्वाधिष्ठानमिति। तत्र तावत् प्रकृतिसावद्य सत्त्वाधिष्ठानं प्राणिवधादि। प्रज्ञप्तिसावद्यमपि सत्त्वाधिष्ठानं भिक्षोः स्त्रीहस्तादिग्रहणं सहागारशय्याहि च। प्रकृतिसावद्यमसत्त्वाधिष्ठानं जातरूपाद्यवहरणम्। प्रज्ञप्तिसावद्यमसत्त्वाधिष्ठानं वृक्षपत्नादिच्छेदो। भिक्षोः आहारादिषु च विनयोक्त उपदेशः। सत्त्वाधिष्ठानप्रवृत्तत्वादिति। सत्त्वप्रज्ञप्त्यधिष्ठानप्रवृत्तत्वादित्यभिप्रायः। वर्तमाना एव हि धर्माः सत्त्वप्रज्ञप्त्यधिष्ठाना नातीतानागतास्तेषां निरूपाख्यकल्पत्वात्। अत एवाह। नातीतानागतेभ्यः तेषामसत्त्वसंख्यातत्वादिति। ननु चासत्त्वप्रज्ञप्त्यधिष्ठानप्रवृत्तोऽपि प्रातिमोक्षसंवरो भवति। सत्त्वासत्त्वाख्येभ्यः प्राप्यत इति वचनात्। स चाप्येव न प्रतिषिध्यते। यथैव हि सत्त्वाख्येभ्यो वर्तमानेभ्य एव लभ्यते इत्युच्यते। तथा वर्तमानेभ्य एवासत्त्वाख्येभ्योऽपि लभ्यते इति वक्तव्यम्। वर्तमानाधिष्ठानतामेव ह्यनेन वचनेनातिदिशति।

न प्रयोगपृष्ठेभ्यः इति। समाहितावस्थायामेकान्तमौलत्वात् असमाहितावस्थायां च न संवराभावात्। कुत एव प्रज्ञप्तिसावद्येभ्य इति अभ्युपगमा भावात्। सर्वकालेभ्यश्चेति अतीतानागतयोरपि संवरयोर्लाभात्तत्सहभूचित्तवत्।

अत एवेति। यस्मादेते संवरा एवं लभ्यन्ते। यथा विस्तरेणोक्तमतश्चतुष्कोटिकं क्रियते। विस्तर इति। सन्ति तानि स्कन्धधात्वायतनानि येभ्यो ध्यानानास्रवसंवरौ लभ्येते। न प्रातिमोक्षसंवरः। सन्ति तानि येभ्यः प्रातिमोक्षसंवरो न ध्यानानास्रव्संवरौ। सन्ति तानि येभ्य उभयं लभ्यते। सन्ति तानि येभ्यो नोभयं लभ्यते इति विस्तरार्थः। प्रथमा कोटिः। वर्तमानेभ्यः प्राणातिपातादिकर्मपथप्रयोगपृष्ठेभ्यः प्रतिक्षेपणसावद्याच्च वृक्षभङ्गादिकाद् यः संवरः स प्रतिमोक्षसंवरः। सर्वेभयेभ्य इति वचनात्। प्रयोगपृष्ठत्वात्तु न ध्यानानास्रवसंवरौ। द्वितीया। अतीतानागतेभ्यो मालेभ्यः कर्मपथेभ्यः प्राणातिपातादिभ्यः कायिकवाचिकेभ्यः सप्तभ्यः सम्बरः यः। तौ ध्यानानास्रवसंवरौ। मौलेभ्यः सर्वकालेभ्य इति वचनात्। न प्रातिमीक्षसंवरः। अतीतानागतत्वात्। तृतीया। प्रत्युत्पन्नेभ्यः मौलेभ्य कर्मपथेभ्य इति। प्रत्युत्पन्नकर्मपथत्वात् प्रातिमोक्षसंवरो भवति। मौलकर्मपथत्वाच्च ध्यानानास्रवसंवरौ। चतुर्थी। अतीतानागतेभ्यः सामन्तकपृष्ठेभ्य इति। अतीतानागतत्वान्न प्रातिमोक्षसंवरः। सामन्तकपृष्ठत्वान्न ध्यानानास्रवसंवरौ। स्वसन्ताने वर्तमानेभ्यः कर्मपथेभ्यः संवरो न युज्यते इति पश्यन्नाह। न तु संवरलाभकाले वर्तमानाः कर्मपथाः सन्तीति। वर्तमानाधिष्ठानेभ्यस्तेभ्यः कर्मपथेभ्यः इति वक्तव्यमिति शिक्षयत्याचार्यः। यतो वस्तुनः प्रतिविरमति तस्य वर्तमानत्वासम्भवात्। नातीतवर्तमानानामिति उत्पन्नत्वादेषां संवरणं न युज्यते। न ह्युत्पन्नानामनुत्पत्तिः शक्यते कर्तुम्। अनागतानां तु शक्यत इति। तेषामेव संवरणं युज्यत इत्याचार्याभिप्रायः। वैभाषिकाणां तु तथा वचनेऽयमभिप्रायो लक्ष्यते। प्राणातिपातादिप्रयोग मोलपृष्ठानां यथाक्रम संवरणाय प्रातिमोक्षसंवरप्रयोगमौलपृष्ठानि प्रवर्तन्ते। मैतानि प्रवर्तिष्यन्त इति। अर्थत एवैतानि प्रतिपक्षभूतानि तानि रून्धन्तीवोत्पद्यन्ते। प्रयोगः प्रयोगमेवं ब्रवीतीव त्वामहं संवृणोमु। मा त्वमुत्था इत्येव यावत्। पृष्ठः पृष्ठमेवं ब्रवीतीवेति योज्यम्। तथा स्कन्धधात्वायतनानां कर्मपथप्रयोगमौलपृष्ठस्वभावानां वर्तमानानां रून्धानो वर्तमानेभ्यस्तेभ्यो लभ्यते। प्रतिमोक्षसंवर इत्युच्यत इति। तस्मान्नैवं वक्तव्यमिति।

[ संवरः सर्वसत्त्वेभ्यो विभाषा त्वङ्गकारणैः।
असंवरस्तु सर्वेभ्यः सर्वाङ्गेभ्यो न कारणैः ॥ ३६।। ]

कश्चित् सर्वेभ्य इति विस्तरः। भिक्षुसंवरः सर्वेभ्यः कर्मपथेभ्यो लभ्यते। सर्वकर्मपथा वर्जनीया इत्यर्थः। कश्चिच्चतुर्भ्यस्ततोऽन्यः। ततो भिक्षुसंवरादन्यः। संवरः श्रामणेरादिसंवरः चतुर्भ्य एवाङ्गेभ्यो लभ्यते। कायिकेभ्यः प्राणातिपातादिभ्यस्त्रिभ्यः वाचिकाच्च मृषावादात्। यद्यलोभाद्वेषामोहाः कारणानीति। संवरकारणानि द्विधा इष्यन्ते। अलोभाद्वेषामोहा वा कारणानि। मृदुमध्याधिमात्राणि वा चित्तानीति। यदि पूर्वः पर्यायोऽभिप्रीयते। सर्वैः कारणैरलोभादिस्वभावैर्लभ्यते संवरः। कुशले समुत्थापके चेतसि तेषां युगपद्भावात्। यदि मृद्वादीनीति चित्तानि कारणानि इष्यन्ते। एकेन कारणेन लभ्यते। तेषामयुगपद्भावात्। पश्चिमं पर्यायमिति। मृदुतादिकारणपक्षम्। अस्ति संवरस्थायीति विस्तरः। सर्वसत्त्वेषु संवृतः सर्वसत्त्वानुगते कल्याणशये सति संवरोत्पत्तेः। न सर्वाङ्गैरूपासकादिसंवरस्य सर्वाङ्गाप्रतिविरतत्वात्। न सर्वकारणैर्मृद्वादीनां कारणत्वेन युगपदसम्भवात्। भिक्षुसंवरस्तु सर्वाङ्गैरपि सर्वाञ्गप्रतिविरतत्वात्। यस्त्रिविधेन चित्तेन त्रीन् संवरान् समादत्त इति। तद्यथा मृदुना चित्तेन उपासकसंवरं समादत्ते। मध्येन श्रामणेरसंवरम्। अधिमात्रेण भिक्षुसंवरमिति। सर्वकारणैश्च न तु सर्वाङ्गैरिति। उपासकादिसंवराणाम् एकैकस्य मृद्वाद्येकैकारणत्वात्। तथा गृह्णत इति पञ्चनियमक्रियया गृह्णतः।

कथमशक्येभ्य इति। ये हन्तुमेव न शक्यास्तेभ्योऽशक्येभ्यः सत्त्वेभ्यः कथं संवरलाभः। अत्र आचार्यः समाधिमाह। सर्वसत्त्वजीवितानुपघाताऽध्याशयेनाभ्युपगमादिति। सर्वसत्त्वानां जीवितस्यानुपघातेनाध्याशयेन संवराभ्युपगमात्। वैभाषिका अप्यस्यैव प्रश्नस्य परिहारान्तरमाहुः। यदि पुनः शक्येभ्य एवेति विस्तरः। चयापचययुक्तः स्यात्। शक्यतामागतेषु सत्त्वेषु संवरश्चीयेत। अशक्यतामागतेषु अपचीयेत। शक्याशक्यानां मनुष्यादिदेवादीनामितरेतरसंचारात्। देवादयो मनुष्यादीन् संचरन्ति मनुष्या दयश्च देवादीनिति। इमं वैभाषिकपरिहारं सावकाश पश्यन्नाचार्य आह। नैव भविष्यतीति विसत्रः। नैवं चयापचययुक्तः संवरो भविष्यति । कथ कृत्वा। यथा ह्यपूर्वतृणाद्युत्पत्तौ। शेषे वा तृणादीनाम्। यद्यपि तृणादिभ्योऽपि संवरो लभ्यते तथापि संवरस्य वृद्विह्रासौ न भवतः। एवं शक्याशक्यसंचारेऽपि न स्यातां वृद्धिह्रासौ चयापचयावित्यर्थः। तस्माच्छक्येभ्य एव संवरो लभ्यते। न चायं दोषः स्यादिति। वैभाषिका आहुः। न सत्त्वानामिति विस्तरः। न तदेवम्। यथा ह्यपूर्वतृणाद्युत्पत्ताविति विस्तरेण यदुक्तम्। किं कारणम्। सत्त्वानां पूर्व सञ्चारात् पश्चाच्च भावात्। तृणादीनां स्वभावात् पूर्वं पश्चाच्चाभावात्। अतो न तृनादिदृष्टान्तेन चयापचयदोषो निवार्यते। एवं वैधर्म्यमात्रमुक्तम्। न साध्यसाधनार्थ इति। आचार्यः पुनराह। यदा परिनिर्वृता न सन्त्येवेति विस्तरः। तस्मात् पूर्वक एव हेतुः साधुरिति। सर्वसत्त्वजीवितानुपघाताध्याशयेनाभ्युपगमादिति। अतः शक्याशक्येभ्यः संवरो लभ्यत इति सिद्धम्। एवं तर्हि यदि सर्वसत्त्वेभ्यो लभ्यते प्रातिमोक्षसंवरः। पूर्वबुद्धपरिनिर्वृतेभ्यस्तस्यालाभाच्छीलन्यूनता स्यात्। सत्त्वानां पूर्वेभ्यो न्यूनत्वाद्। आचार्य आह। सर्वेषां बुद्धानां पूर्व पश्चाच्चोत्पन्नानामविशेषेण सर्वसत्त्वेभ्यो लाभाद्। यदि हि तेऽपि अपरिनिर्वृता अभविष्यन् संप्रति तेभ्योऽपि तेऽलप्स्यन्त इति।

सर्वकर्मपथेभ्य इति। कायिकवाचिकेभ्यः। नास्ति हि विकलेनासंवरेणेति। प्राणातिपातेनैव नादत्तदानेनेत्येवमादि। मृदुनैवासंवरेण समन्वागत इति पूर्वप्रतिलब्धत्वात्। अधिमात्नया तु प्राणातिपातविज्ञप्तया। किम्। समन्वागत इति वर्तते। न विपाकफ़लविशेष इति। एवं मध्याधिमात्नेण च योज्यमिति। यो मध्येन चित्तेनासंवर प्रतिलभते सोऽधिमात्रेणापि चित्तेन प्राणिनो जीविताद्वयवरोपयन् मध्येनैवासंवरेण समन्वागतो भवति। अधिमात्रया तु प्राणातिपातविज्ञप्त्या। एवं योऽधिमात्रेण यावदधिमात्रेणैवासंवरेण समन्वागतो भवति अधिमात्रया च प्राणातिपातविज्ञप्त्या। इत्थमपि च योज्यम्। योऽधिमात्रचित्तेनासंवरं प्रतिलभते स मृदुनापि चित्तेन प्राणिनो जीविताद्वयवरोपयन् अधिमात्रेणैवासंवरेण समन्वागतो भवति। मृव्द्या तु प्राणातिपातविज्ञप्त्या इत्येवमादि।

नागबन्धा हस्तिपकाः। वागुरिका इति। पम्पा नाम प्राणिजातिर्वागुराख्या। ता ग़्हन्तीति वागुरिकाः। अर्थत आसंवरिका इति। राजानश्चाधिकरणस्थाश्च दण्डनेतृत्वादिहापठिता अपि आसंवरिका एव द्रष्टव्याः। एवमन्येऽपि योज्या इति। कुक्कुटान् ग़्हन्तीति कौक्कुटिका इत्येवमादीनि। युक्तस्तावदिति विस्तरेणोक्ता यावत् कथमसंवरः सर्वसत्त्वेभ्यो युज्यत इति प्रश्निते वैभाषिकः परिहारमाह मात्रदीनपि हीति विस्तरः। आचार्य आह। न हि तावतत एव त इति। ते मात्रादय इति जानाना हन्युरित्यघात्येभ्यस्तेभ्योऽसंवरः कथं युज्यते। किं चार्यीभूतानां पुनः पशूभवितुं नास्त्यवकाशः। तेषामुरभ्राद्युपपत्त्यसम्भवात्। तेभ्यः कथमसंवरः स्यात्। यदि वानागतात्मभावापेक्षया उरभ्रादयो भविष्यन्तीति वर्तमानान्मात्नादेरसंवरः स्यात्। उरभ्रानपि ते औरभ्रिकाः पुत्नीभूताननागते जन्मनि सर्वथा न हन्युरिति। न स्यात्तेभ्य उरभ्रेभ्योऽसंवरः। वैभाषिक आह। कथं हि नाम जिघांसतामिति विस्तरः। आचार्य आह। एतन्मात्रादिषु समानमिति विस्तरः। कथं हि नामाजिघांसतां पुत्रादिभूतानामौरभ्रिकादीनां तेभ्यो मात्रादिभ्यः स्यादसंवर इति।

विकलः कर्मपथाङ्गतः। प्रादेशिकोऽपि स्यात्। एकस्यापि अङ्गस्य अविरमात्। सत्त्वदेशकालसमयनियमयोगेन प्रदेशविरतत्वात्। संवरश्च तथैव। विकलोऽपि प्रादेशिकोऽपि स्यात्। अन्यत्राष्टविधात् पूर्वोक्तात् प्रातिमोक्षसंवरात्। कस्मादित्याह। तन्मात्रशीलदौःशील्य प्रतिबन्धादिति। असंवरस्तन्मात्रं शील प्रतिबध्नाति। संवरश्च तन्मात्रं दौःशील्यं प्रतिबध्नातीति।

[ असंवरस्याक्रियया लाभोऽभ्युपगमेन वा।
शेषाविज्ञप्तिलाभस्तु क्षेत्रादानादरेहनात्।। ३७।। ]

तत्कुलीनैरिति। आसंवरिककुलीनैः। क्षेत्रादानादरेहनादिति आदरेण ईहनं क्रियारम्भः। क्षेत्रं चादानं च आदहरेहन चेति समासः। तस्मादविज्ञप्तिरूत्पद्यते। तिथीति विस्तरः। तिथिभक्तम्। यावदर्द्धमासभक्तमित्यर्थगतिः। आदिशब्देन मण्डलकरणादि गृह्यते। आदरेण वा तद्रूपेणेति। तीव्रक्लेशतया तीव्रप्रसादतया चेत्यर्थः।

[ प्रातिमोक्षदमत्यागः शिक्षानिक्षेपणाच्च्युतेः।
उभयव्यञ्जनोत्पत्तेर्मूलोच्छेदान्निशात्ययात्।। ३८।। ]

समादानविरूद्धविज्ञप्त्युत्पादादिति। यावज्जीवं प्राणातिपातादिभ्यः प्रतिविरमामीति यत् समादानं तेन विरूद्धाया विज्ञप्तेरूत्पादादिति प्रथमेन कारणेन प्रातिमोक्षसंवरत्यागः। आश्रयत्यागादिति। येनाश्रयेण संवरो गृहीतस्तस्य त्यागान्मरणादिति द्वितीयेन कारणेन तत्त्यागः। आश्रयविकोपनादिति। यादृशेन आश्रयेण संवर उपात्तस्तादृशो न भवति। विकोपनात् इति तृतीयेन कारणेन तत्त्यागः। निदानच्छेदादिति। निदानं कुशलमूलानि। तस्य च्छेदात्। चतुर्थेन कारणेन तत्त्यागः। तावदेवाक्षेपाच्चेति। उपवाससंवरस्याहोरात्रमाक्षेपः। इति पञ्चमेन कारणेन तस्योपवाससंवरस्य त्यागः। पूर्वोक्तैश्चतुर्भिः कारणैरिति।

[ पतनीयेन चेत्येके सद्धर्मान्तर्धितोऽप्रे।
धनर्णवत्तु काश्मीरैरापन्नस्येष्यते द्वयम्।। ३९।। ]

पतनीयेन चेति। एभिश्च यथोक्तैः पञ्चभिः कारणैः पतनीयेन चेति। पतन्त्यनेनेति पतनीयम्। तच्चतुर्विधम्। अब्रह्यचर्य यथोक्तप्रमाणमदत्तादानं मनुष्यवधः उत्तरिमनुष्यधर्ममृषावादश्चेति। धनर्णवत्तु काश्मीरैरापन्नस्येष्यते। आगमाद् युक्तिश्च। तत्रायमागमः। विनय उक्तम्। दुःशीलश्चेत् भिक्षुभिंक्षुणीमनुशास्ति संघावशेषमापद्यत इति। आपन्नपाराजिको हि भिक्षुर्दुःशीलोऽभिप्रेतो नानापन्नपाराजिकः। प्रकृतिस्थः शीलवानिति विपर्ययेण वचनात्। अतोऽवगम्यते। अस्त्यस्य दुःशीलस्यापि सतो भिक्षुभावो यस्मात् सङ्घावशेषमापद्यत इत्युक्तमिति। युक्तिरपि न ह्येकदेश क्षोभात् सकलसंवरत्यागो युक्त इति। न मौलीमप्यापत्तिम् आपन्नस्येति। पतनीयामप्यापत्तिम् आपन्नस्येत्यर्थः। नैव चान्यापत्तिमिति संघावशेषादिकम्। आविष्कृतायाम् इति। देशितायाम्।

यत्तर्हि भगवोक्तमिति विस्तरेण यावत् पराजितमिति। तत् कथमिति वाक्याध्याहारः। परमार्थभिक्षुत्वं सन्धायैतदुक्तमिति। सत्यदर्शनाभव्यत्वेन तस्यापन्नस्य परमार्थभिक्षुत्वाप्राप्तेः। बहुक्लेशेभ्यो नन्दप्रभृतिभो मौल्याप्यापत्त्या न भिक्षुत्वं नश्यति इति विदित्वा तां कुर्युरिति वाक्यार्थः। संज्ञाभिक्षुरिति। यस्यानुपसंपन्नस्य भिक्षुरिति नाम। प्रतिज्ञाभिक्षुरिति। अब्रह्यचर्यादिप्रवृत्तौ दुःशीलः। भिक्षत इति भिक्षुरिति। याचनकः। भिन्नक्लेशत्वाद्भिक्षुरिति। अर्हन्। अस्मिंस्त्वर्थ इति। यत् भगवतोक्तमभिक्षुर्भवत्यश्रमण इति विस्तरेन। एतस्मिन्नर्थे। यथोक्तेभ्यश्चतुर्भ्यो भिक्षुभ्योऽन्य एवायं पञ्चमो ज्ञप्तिचतुर्थोपसम्पन्नो भिक्षुरिति। यदप्युक्तं परमार्थभिक्षुत्वं सन्धायैतदुक्तम्। तत् प्रत्याह। न चासौ पूर्व परमार्थ भिक्षुरासीद् यतः पश्चादभिक्षुर्भवेत्। अभिक्षुर्भवत्यश्रमण इति वचनात्। इत्युपमां कुर्वतेति। मस्तकच्छिन्नतालोपमां कुर्वता शास्त्रैव दत्तोऽनुयोग इति सम्बन्धमीयम्। परिहृतः प्रश्न इत्यर्थः। एकग्रासपरिभोग आहारस्य। एकपार्ष्णिप्रदेशपरिभोगो विहारस्येति सम्बन्धः। सर्वभिक्षुसम्भोगबहिष्कृतश्च शास्त्नेति। सर्वस्मात् भिक्षुभिः सहसम्भोगादेकपंक्लिभोजनादिकाद् बहिष्कृतो बुद्धेन। नाशयत कारण्डवकमिति। कारण्डवको यवाकृतित्वात् यवस्तृणविशेषो यो यवदूषीत्युच्यते। एवमसावभिक्षुर्भिक्ष्वाकृतिरिति। कशंवकं नाम पूतिकाष्ठम्। एवमसौ पूतिभूतो भिक्षुः। तं शीलवत् संघाद् यूयमपकर्षतेति भगवान् भिक्षून् आज्ञापयामास। अथोत्प्लाविनं वाहयतेति। उतप्लावी नाम व्रीहिमध्येऽभ्यन्तरतण्डुलहीनो व्रीहिरेव। तथासौ शीलसारहीनो भिक्षाकृतिः। तं प्रवाहयत। निष्क्रामयतेत्यर्थः। इदमत्रोदाहरणम्। मार्गजिनः शैक्षाशैक्षः। मार्गदेशिको बुद्धः। मार्गे जीवति शीलवान् भिक्षुः मार्गनिमित्तं जीवनात्। मार्गदूषी दुःशीलः। दग्धकाष्ठेति विस्तरः। यथा यद् दग्धं न तत् काष्ठं पूर्वकाष्ठाकृतिमात्रावशेषसाधर्म्यात्। तत् दग्ध काष्ठम् इत्युच्यते  ह्रदश्च शुष्कोऽपि ह्रद इत्युच्यते। शुकनासा गृहादिषु रूपकारकृता। शुकनासाकृतित्वात् शुकनासेत्युच्यते। एवमसौ भिक्षाकृतिसामान्यमात्रावशेषाच्छमण उक्तः। पूतिबीजम् अङ्कुरजनकत्वात् अबीजमपि बीजमित्युच्यते। तदाकारमात्रावशेषत्वात् अलातचक चक्रम् इति चक्राकृतित्वात्। मृतसत्त्वश्चासत्त्वोऽपि सत्त्व इत्युच्यते। सत्त्वाकृति मात्रावशेषत्वात्। तद्वदेष द्रष्टव्यः। शिक्षादत्तको नाम भिक्षुरधिमात्ररागतया स्त्रिया अब्रह्यचर्य कृत्वा तदनन्तरमेव जातसंवेगः कष्ट मया कृतमित्येकस्मिन्नपि प्रतिच्छादनचित्तेऽनुत्पन्ने भिक्षुसंघमुपगम्याविष्करोतीदं मया पापं कृतमिति। स आर्यसंघोपदेशात् सर्वभिक्षुनवकान्तिकत्वादि दण्डकर्म कुर्वाणः शिक्षादत्तक इत्युच्यते। तद् यदि दौःशील्यादभिक्षुरेव स्यात्। स न स्यात्। न हि तस्य पुनरूपसम्पादन क्रियते। भिक्षुश्च स व्यवस्थाप्यते। तस्मात् न दौःशील्यात् अभिक्षुत्वमिति। नब्रूम इति विस्तरः। न वयं ब्रूमः। सहाध्यापत्त्याऽब्रह्यचर्यादेव सर्वः पाराजिको भवति। किं तर्हि। प्रतिच्छादनचित्तेन। किं न पुनः प्रव्राज्यते। अनिक्षिप्तशिक्ष इत्यध्याहार्यम्। तीव्रानपत्राप्यविपादितत्वात्। तीव्रेणानपत्राप्येन विपादितास्य सन्ततिः तस्याः सन्ततेरेवं विपादितत्वात् संवरस्याभव्यत्वम्। तस्मान्न पुनः प्रव्राज्यत इत्यधिकारः। न तु खलु भिक्षुभावापेक्षया। न तु खलु तस्य भिक्षुभावोऽस्तीत्यपेक्षया न प्रव्राज्यते। तथा ह्यसौ पराजयिको निक्षिप्तशिक्षोऽपि न प्रव्राज्यते। तीव्रानपत्राप्यविपादितत्वात् सन्ततेः।

[ भूमिसञ्चारहानिभ्यां ध्यानाप्तं त्यज्यते शुभम्।
तथारूप्याप्तमार्य तु फ़लाप्त्युत्पत्तिहानिभिः।। ४०।। ]

ध्यानाप्तमिति। रूपस्वभावं कुशलमरूपस्वभावं चाभिप्रेतम्। अत एव च सर्वमेवेति व्याचष्टे। द्वाभ्यामिति। उपपत्तितो वा परिहाणितो वा। तेनाह उपपत्तितो वेति विस्तरः। ऊर्द्धमुपपद्यमानोऽधर परित्यजति। अधस्चोपपद्यमान उपरिभूमिकमिति। परिहाणितो वा समापत्तेः। तत्समापत्तिसंगृहीतं कुशलं त्यज्यते। निकायसभागत्यागाच्च किञ्चिदिति। निर्वेधभागीयं यत् पृथग्जनावस्थायामुत्पादितं यावत् क्षान्तिरिति। तदसत्यपि भूमिसञ्चारे निकायसभागत्यागेन त्यज्यते। यदा कामधातौ मृत्वा तत्रैवोपपद्यते। वक्ष्यति हि भूमित्यागात् त्यजत्यार्यस्तान्यनार्यस्तु मृत्युत इति। पूर्वको मार्ग इति। प्रथोगानन्तर्यविमुक्तिमार्गस्वभावः प्रतिपन्नकमार्गः। फ़लं फ़लविशिष्टो वेति। उत्तरो मार्गोऽधिऱ्तितः। तद् यथानागामी यद्यनागामिफ़लात् परिहीयते तेनानागामिफ़लमुत्तरो मार्गस्त्यज्यते। यदि त्वनागामी द्वितीयं ध्यानं लभते तस्माच्च परिहीयते स तस्य फ़लविशिष्टो मार्गो द्वितीयभूमिकस्त्यज्यते।

[ असंवरः संवराप्तिमृत्युद्विव्यञ्जनोदयैः।
वेगादानक्रियार्थायुर्मूलच्छेदैस्तु मध्यमा।। ४१।। ]

हेतुप्रत्ययबलेनेति। सभागहेतुबलेन। परतो घोषबलेन चेत्यर्थः। ध्यानसंवरं वा लभत इति। अनास्रवसंवरं वा लभत इति नोच्यते। ध्यानसंवरपूर्वोत्पादेनैव तत्त्यागात्। अकरणाशयत इति। एतत् कर्म न करिष्यामीत्याशयतोऽपि शस्त्रजालत्यागे विना संवरग्रहणेनासंवरच्छेदो न भवति। तद् यथा रोगनिदानपरिहारेऽपि तस्य प्रवृद्धस्य रोगस्यौषधेन विना विनिवृत्तिर्न भवति। तद्वत्। तदुक्तं भवति। असंवरत्यागेच्छायां संवरो ग्रहीतव्यो नान्यथेति। तल्लाभस्येति असंवरलाभस्य।

कथमविज्ञप्तिरिति। विज्ञप्तिरपीति वक्तव्यम्। स्वसमुत्थापिताया अतीताया विज्ञप्तेस्तत्काल एव प्राप्तिच्छेदात्।

वेगादानक्रियार्थायुर्मूलच्छेदैस्तु मध्यम इति च पठितव्यम्। नैवसंवरनासंवर इत्यर्थः। अथाप्यविज्ञप्तिरपि केवलोच्यते। तत्र विज्ञप्तेरवचने कारणं वक्तव्यमित्युच्यते। विज्ञप्तेरनावश्यकत्वात्। तथाहि वक्ष्यति। अशुभाः षड्विज्ञप्तिर्द्विधैक इति। अविज्ञप्तिवचनेन च विज्ञप्तिवचन सिद्धेस्तदवचनम्। अन्ये त्वाहुः। न निरूद्धाया नैवसंवरनासंवरसंगृहीताया विज्ञप्तेरनुबन्धिनी प्राप्तिरित्यत एतदविज्ञप्तेरेव त्यागकारणमुच्यत इति।

कुम्भकारचक्रेषुगतिवदिति। यथा कुम्भकारचक्रस्य इषोश्चगतिः। येन कारणेन संस्कारविशेषेण आक्षिप्तो भवति। तस्य छेदात् सापि छिद्यते। तद्वत्। अलं समादानेनेति। प्रत्याख्यानवचेन्न। यथा समात्तमकुर्वत इति। तद् यथा बुद्धमवन्दित्वा मण्डलकमकृत्वा वा न भोक्ष्ये इति। तदकृत्वा भुञ्जानस्य सा मध्यमा अविज्ञप्तिश्छिद्यते। यन्त्रजालादिति। आदिशब्देन शास्त्रविषादि गृह्यते। कुशलमूलानि समुच्छेत्तुमारभत इति। कुशलमूलसमुच्छेदप्रारम्भावस्थायामेव छिद्यते। न समुच्छेदावस्थायामिति दर्शयति।

[ कामप्तं कुशलारूपं मूलच्छेदोर्ध्वजन्मतः।
प्रतिपक्षोदयात् क्लिष्टमरूपं तु विहीयते।। ४२।। ]

कुशलारूपमिति। अरूपग्रहण रूपच्छेदस्योक्तत्वान्मूलच्छेदोर्द्ध्वजन्मत इति। अत्र वैराग्यतश्च किञ्चिदिति वक्तव्यम्। यथा कुशलं दौर्मनस्येन्द्रियमिति। सर्वमेवेति। कामरूपारूप्यावचरम्। यः प्रहाणमार्ग इति। दर्शनमार्गो भावनामार्गश्च। लौकिको वा लोकोत्तरो वा यथासम्भवम्। असौ सपरिवार इति। असावुपक्लेशप्रकारः स तत्सहभूप्राप्तयनुचरः। उपक्लेशप्रकारस्येति ग्रहणं केशस्याप्युपक्लेशत्वेन सर्वसंग्रहार्थम्। तथाहि शास्त्र उक्रम्। ये यावत् क्लेशा उपक्लेशा अपि ते स्युरूपक्लेशा न क्लेशा इति।

[ नृणामसंवरो हित्वा षण्डपण्डद्विधाकृतीन्।
कुरूश्च संवरोऽप्येवं देवानां च नृणां त्रयः।। ४३।।
कामरूपजदेवानां ध्यानजोऽनास्रवः पुनः।
ध्यानान्तरासंज्ञिसत्त्ववर्ज्यानामप्यरूपिणाम्।। ४४।। ]

उभयाश्रय इति विस्तरः। स्त्रीपुरूषाश्रयस्य क्लेशस्याधिमात्रतया। प्रतिसंख्यानस्य तत्प्रतिपक्षभावनालक्षणस्याक्षमत्वात्। तीव्रस्य च ह्रीव्यपत्राप्यस्याभावादेषां संवरो नास्तीति। प्रतिद्वन्द्वभावादिति। यस्मात् संवरस्यासंवरः प्रतिद्वन्द्वभूतस्तस्मात् यत्नैव संवरस्तत्रैवासंवर इति। तेषां षण्डादीनामसंवराभावे द्वितीयं कारणम्। समादानसमाध्यभावादिति। समादानाभावात् प्रातिक्षसंवरो नास्ति। समाध्यभावात् च ध्यानानास्रवसंवरौ न स्तः। तदभावस्तु मान्द्येन कुशलेष्वव्युत्पत्तेः। पापक्रियाशयाभावाच्चासंवरो नास्ति। यद्योगाद् यद्विपादनाच्चेति। येन ह्रीव्यपत्राप्येण योगाद् यस्य ह्रीव्यपत्राप्यस्य विपादनाच्च। यथाक्रम संवरासंवरौ स्याताम्। तत्तीव्र ह्रीव्यपत्राप्यमापायिकानां नास्तीति। यद्यापायिकानां संवरासंवरौ न स्तः। यत्तर्हि सूत्र उक्तमिति विस्तरः। तत् कथम्। प्रातिमोक्षसंवरो मनुष्याणामेव न देवानाम्। असंवेगात्। ध्यानानास्रवसंवरौ तु हेतुकर्मधर्मभावनाद् यथासम्भवम्।

[ क्षेमाक्षेमेतरत्कर्म कुशलाकुशलेतरत्।
पुण्यापुण्यमनिञ्ज्यं च सुखवेद्यादि ह त्रयम्।। ४५।।
कामधातौ शुभं कर्म पुण्यमानिञ्जमूर्ध्वजम्।
तद्भूमिषु यतः कर्म विपाकं प्रति नेञ्जति।। ४६।। ]

तत् कालमत्यन्तं चेति। यदिष्टविपाकं तत्तत्कालम्। दुःखपरित्राणात् क्षेमम्। यन्निर्वाणप्रापकं तदत्यन्त दुःखपरित्राणात् क्षेमम्। परिनिर्वृतस्य यन्नित्यकाल दुःख नास्ति।

ननु च त्रीणि ध्यानानि सेञ्चितान्युक्तानि भगवता। यदत्र वितर्कित विचारितमिदमत्नार्या इञ्जितमित्याहुरिति। आदिशब्देन द्वितीय उक्तं यदत्र प्रीतिरविगता। इदमत्रार्या इञ्जितमित्याहुः। तृतीयेऽपि यदत्र सुखं सुखमिति चेतस आभोगः। इदमत्रार्या इञ्जितमित्याहुरिति। अथ कस्मात् सर्वमेव रूपारूप्यावचर कुशल कर्मानिञ्जयमुच्यते। आनिञ्जप्रत्ययगामिनीमिति। अनिञ्जानुकूलभागिनम् अकम्प्यानुकूलभागिनं सेञ्जितमेवान्यत्रानिञ्जमुक्तमित्याह।

तद्भूमिषु यतः कर्म विपाकं प्रति नेञ्जतीति। भोगादि संवर्तनीयमिति। भोगो द्रव्यसंपत्। आदिशब्देन सौरूप्यसौस्वर्यादिर्गृह्यते। तदेवेति विस्तरः। यत्तद्देवेषु विपच्येत। तद्बहुलीकृतमेवं शीलमयं भावनामयम्। तस्य चैवं भवति। अहो वताह देवसुभगानां मनुष्यसुभगानां वा सभागतायामुपपद्येयेति। यावत् स तत्रोपपद्यत इति।

[ सुखवेद्यं शुभं ध्यानादातृतीयादतः परम्।
अदुःखासुखवेद्यं तु दुःखवेद्यमिहाशुभम्।। ४७।।
अधोऽपि मध्यमस्त्येके ध्यानान्तरविपाकतः।
अपूर्वाचरमः पाकस्त्रयाणां चेष्यते यतः।। ४८।।
स्वभावसम्प्रयोगाभ्यामालम्बनविपाकतः।
सम्मुखीभावतश्चेति पञ्चधा वेदनीयता।। ४९।। ]

कामधातुस्त्रीणि च ध्यानानीति। कामधातुप्रथमध्यानयोः कायिक सुखं चैतसिकं च सौमनस्य सुखा वेदना। द्वितीये ध्याने सौमनस्यं सुखा वेदना। तृतीये ध्याने चैतसिकं सुखमिति। तद्भावज्ञापनार्थमिति। तच्छब्देन दुःखमभिसम्बुध्यते। तस्य दुःखस्य कामधातावेवास्तित्वज्ञापनार्थमिह ग्रहणम्। ससंभारैरिति। संभ्रियते उत्पाद्यतेऽनेनेति संभारः। इन्द्रियविषयाश्रयलक्षणस्तेन ससंभारा वेदना फ़लम्।

ध्यानान्तरविपाकत इति। ध्यानान्तरकर्मणो ध्यानान्तरोत्पत्तौ विपाकेन वेदितेन भवितव्यम्। तत्र सुखा दुःखा वा वेदना नास्ति। तस्मादस्यादुःखासुखा वेदना विपाक इति। चतुर्थाद्धयानादधोऽप्यदुःखासुखवेदनीयं कर्मास्तीति। ध्यानान्तरे वा कस्यचित् कर्मणोऽन्यस्य विपाको वेदना न स्यान्न सम्भवति। न हि सुखवेदनीयस्य मौलप्रथमध्यानभूमिकस्य कर्मणो ध्यानान्तरे स विपाक इति युज्यते वक्तुम्। सवितर्कत्वेन ध्यानान्तरतो मौलस्य निहीनत्वात्। नापि कामावचरस्य दुःखवेदनीयस्य कर्मणो भूम्यन्तरत्वात्। अत एव चतुर्थध्यानादिभूमिकस्य। ततो वीतरायत्वाच्च। एतद्दोषपरिजिहीर्षया ध्यानान्तरकर्मणो ध्यान एव सुखेन्द्रियं विपाक इत्येके व्रुवते।

नैव तस्य ध्यानान्तरकर्मणो वेदनाविपाकः। किं तर्हि रूपादीत्यपरे। किं तेषां ध्यानान्तरोपपत्तौ वेदना नास्ति। अस्ति। न तु सा विपाकस्वभावा। किं तर्हि। नैष्यन्दिकीति।

अत्राचार्य आह। तदेतदुच्छास्त्रम्। यदेतदुक्तं ध्यानान्तरकर्मणो ध्यान एव सुखेन्द्रिय विपाक इति। यच्चोक्तं नैव तस्य वेदना विपाक इति। तदेतदुभयमप्युच्छास्त्रम्। तत् प्रतिपादयन्नाह। शास्त्रे हि पठितमिति विस्तरः। अवितर्कस्य कर्मण इति। ध्यानान्तरकर्मण इत्यर्थः। अतः कुशलस्यावितर्कस्या कर्मणश्चैतसिक्येव वेदना विपाको विपच्यत इत्यवधारणान्न तस्य कर्मणो ध्यान एव सुखेन्द्रिय विपाको नापि वेदनातोऽन्य इति गम्यते। अवितर्कं हि कर्म ध्यानान्तरात् प्रभृत्यूर्द्ध्वमिति।

अपूर्वाचरम इति। न पूर्वं न पश्चाद् युगपदित्यर्थः। सुखवेदनीयस्य रूपमिति चक्षुरादिकम्। दुःखवेदनीयस्य चित्तचैत्ता इति। पञ्चविज्ञानकायिकाः। दौर्मनस्यस्याविपाकत्वात्। अदुःखासुखवेदनीयस्य चित्तविप्रयुक्ता इति। जीवितेन्द्रियादयः। न हि कामधातोरन्यत्रेति। दुःखवेदनीयस्य कर्मणोऽन्यत्राभावात्।

किमिदानीं तदिति। अदुःखासुखवेदनीयम्। एवं तर्हीति विस्तरः। यद्यधोऽपि चतुर्थाद्धयानाददुःखासुखवेदनीय कर्मास्ति कुशलम्। सुखवेद्य शुभ ध्यानादातृतीयादीति अस्य विरोधः। न हि केवल सुखवेदनीयं कुशलमातृतीयाद्धयानात्। किं तर्हि। अदुःखासुखवेदनीयमप्यस्तीति। इष्टविपाक च कुशलमित्यस्य विरोधः। न हि केवलमिष्टविपाकं कुशलमिष्टानिष्टविपरीतविपाकम कुशलमस्तीति। बाहुलिक एष निर्देश इति। बाहुल्येनैव निर्दिष्टमित्यर्थः। सुखवेद्य शुभं ध्यानादातृतीयादिति। इष्टविपाक च कुशलमिति।

कथ पुनरवेदनास्वभावमिति। सुखमनुभूयते। न कमेत्येवमभिसमीक्ष्य पृच्छति। सुखवेदनाहित सुखवेदनीयमिति सुखवेदनोत्पत्त्यनुकूल मित्यर्थः। सुखोऽस्य वेदनीय इति वेति सुखोऽस्य विपाकोऽनुभवनीय इत्यर्थः। स्नानीयकषायवदिति। यथा येन स्नाति स स्नानीयः कषायः। एवं येन सुख विपाकं वेदयते तत् कर्म वेदनीयम्। सुखस्य विपाकस्य वेदनीय कर्म सुखवेदनीयम्। करणेऽपि कृत्यविधानात्। एतत् एवं दुःखवेदनीयमिति। दुःखवेदनाहित दुःखवेदनीयमिति विस्तरेण पूर्ववद् योज्यम्। एवमदुःखासुखवेदनीयमिति।

स्वभाववेदनीयतेति। स्वभाववेदनाऽनुभवलक्षणेन वेदनीयस्वभावः। एवं यावत् सम्मुखोभावेन वेदनीयतेति योज्यम्। सुखवेदनीयः स्पर्श इति सुखवेदनाहितं सुखं वेदनीयमस्मिन्निति सुखवेदनीयः स्पर्शः। आलम्बनवेदनीयतेति। वेदनीया विषयाः। आलम्बनीया इत्यर्थः। रूपप्रतिसंवेदी नो तु रूपरागप्रतिसंवेदीति। रूप प्रत्यनुभवति। नो तु रूपराग प्रत्यनुभवतीत्यर्थः। अथवा नो तु स रूप रागेण प्रत्यनुभवत्यालम्बत इति। दृष्टधर्मवेदनीयमिति। दृष्टे जन्मनि वेदनीयं विपाकलक्षणमस्येति दृष्टधर्मवेदनीयं कर्मेति विस्तरः। यस्मिन् समय इति विस्तरः। यस्मिन् समये सुखां वेदनां वेदयते अनुभवति। द्वे अस्य वेदना दुःखा अदुःखासुखा च तस्मिन् समये। निरूद्धे भवत इति।

 [ नियतानियतं तच्च नियतं त्रिविधं पुनः।
दृष्टधर्मादिवेद्यत्वात् पञ्चधाकर्म केचन।। ५०।। ]

आरम्भवशादिति। दृष्ट एव जन्मनि विपाकारम्भादित्यर्थः। तन्नामव्यवस्थानमिति। दृष्टधर्मवेदनीयमित्येवंनामव्यवस्थानमित्यर्थः। अस्ति हीति विस्तरः। सन्निकृष्तफ़लस्य कर्मणः सुवर्चला दृश्टान्तः। विप्रकृष्टफ़लस्य यवगोधमादयः।

दार्ष्टान्तिकाः सौत्रान्तिकाः। तेषामेव प्रथमद्वितीये कोट्यौ वर्णयतां कर्माष्टविधम्। दृष्टधर्मवेदनीयं नियतमनियत च विपाक प्रति। एवं यावदनियतवेदनीयमिति। उपपद्यवेदनीयं नियतमनियतं च विपाकं प्रति। अपरपर्यायवेदनीयमपि नियतमनियतञ्च। अनियतवेदनीयमपि यो दृष्तधर्माद्यनियतवेदनीय तन्नियतमनियतञ्च। इत्यष्टविधम्।

[ चतुष्कोटिकमित्यन्ये निकायाक्षेपणं त्रिभिः।
सर्वत्र चतुराक्षेपः शुभस्य नरके त्रिधा।। ५१।।
यद्विरक्तः स्थिरो बालस्तत्र नोत्पद्यवेद्यकृत्।
नान्यवेद्यकृदप्यार्यः कामाग्रेवास्थिरोऽपि न।। ५२।। ]

चतुर्विधं कर्माक्षिपेदिति। दृष्टधर्मादिवेदनीयं चतुर्विधं कर्माक्षिपेदित्यर्थः। कथमित्याह। स्यात् त्रिषु प्राणातिपातादत्तादानमृषावादेषु परं प्रयोज्य काममिथ्याचारे स्वयमात्मना प्रयुक्तः। तेषां कर्मणां युगपत्परिसमाप्तौ। एकं दृष्तधर्मवेदनीयमपरमुपपद्यवेदनीयमपर चापरपर्यायवेदनीयमन्यच्चानियतवेदनीयमिति।

कुशलानामकुशलानां च यथासम्भवमिति। यत्राकुश्लस्य सम्भवः कामधातावेव नान्यत्र। सर्वासु गतिष्वित्यस्योत्सर्गस्यायमपवादः शुभस्य नरके त्रिविधेति। त्रिधैवेत्यवधारणम्। नरकेषु कुशलस्य कर्मणः त्रिविधस्यैवाक्षेपो न चतुर्विधस्य। दृष्टधर्मवेदनीय स्थापयित्वा। अत्र नरकेष्विष्टविपाकाभावात्। शुभग्रहणमशुभनिरासार्थम्। अकुशलस्य हि चतुर्विधस्यापि नरकेष्वाक्षेपः सम्भवति।

यद्विरक्तः स्थिरो बाल इति। यतो विरक्तः यद्विरक्तः इति समासः। स्थिरग्रहण परिहाणधर्मणो निरासार्थम्। तस्य हि तस्यां भूमौ उपपद्यवेदनीय कर्म सम्भवति। बालग्रहणमार्यनिवृत्त्यर्थम्। आर्यस्य हि तत्रोपपद्यवेदनीयमपरपर्यायवेदनीय च न सम्भवति अनागामित्वात्।

नान्यवेद्यकृदपीति नापरपर्यायवेदनीयकृदपि। नोपपद्यवेदनीयकृदपीत्यर्थः। तत्र युक्ति दर्शयन्नाह। न ह्यसौ भव्यः पुनराधस्तीं भूमिमायातुमिति। न ह्यसावार्योऽपरिहाणधर्मा यतो वीतरागस्तत आधस्तीमधस्ताद्भवां भूमिमायातु भव्यः। परिहाणधर्मा तु भव्यः। तद् यथा। यो भवाग्रलाभी परिहाणधर्मा यः परिहाय रूपधातावुपपद्येत। तस्योपपद्यवेदनीयमपरपर्यायवेदनीय चापि सम्भवति यथोक्त मुदायिसूत्रे। अनियत कुर्यादिति अनियतवेदनीयमपरिहाणधर्माप्यार्यो दृष्टधर्मवेदनीय च यत्रोपपन्नस्तत्र कुर्यात्। कामधातोर्भवाग्राद्वा वीतराग इति। कामव्तरागोऽनागामी। भवाग्रवीतरागोऽर्हन्। तयोरिति कामधातुभवाग्रयोः। पश्चात् प्रवेदयिष्याम इति। म्रियते न फ़लभ्रष्ट इत्यादि।

[ द्वाविंशतिविधं कामेष्वाक्षिपत्यन्तराभवः।
दृष्टर्मफ़लं तच्च निकायो ह्येक एव सः।। ५३।। ]

अन्तराभववेदनीय च। किम्। नियतमनियत चेति। यन्नियतमेकादसविधमुक्तम्। दृष्टर्मवेदनीयं यत्तदिति। कललवेदनीयं नियत यावदन्तराभववेदनीय नियतमिति। याश्च तदन्वया दशावस्था इति। अन्तराभवपूर्विका इत्यर्थः। अत एवान्यदन्तराभववेदनीयं कर्म नोक्तमिति। चतुर्विध कर्म। दृष्टधर्मवेदनीयमुपपद्यवेदनीयम् अपरपर्यायवेदनीयमनियतवेदनीय चेति अत्र नोक्तमुपपद्यवेदनीयेनैव तस्यान्तरा भवस्याक्षेपात्।

[ तीव्रक्लेशप्रसादेन मातृघ्नेन च यत्कृतम्।
गुणक्षेत्रे च नियतं तत् पित्रोर्घातकं च यत्।। ५४।। ]

नियतानियत कर्मेत्युक्तमतो ब्रवीति। कीदृशं पुनः कर्म नियतमिति विस्तरः। फ़लसमापत्तिव्सिहेषप्राप्त इति। दर्शनमार्गफ़लप्राप्तोर्हत्त्वफ़लप्राप्तश्च फ़लविशेषप्राप्त इष्यते। विशेषग्रहणमनास्रवमार्गप्राप्यफ़लग्रहणार्थम्। समापत्तिविशेषप्राप्तो निरोधारणा मैत्रीसमापत्तिलाभी। अत्रापि विशेषग्रहण तदन्यलौकिकसमापत्तिविशेषणार्थम्। यथा तथा चेति। यदि पुण्यबुद्धया यदि द्वेषादिना। योऽपि हि पारसिकः पुण्यबुद्धया मातर मारयति पितर वा। तदकुशलमानन्तर्यं कर्म नियत सम्पद्यते। नान्यदिति। यदतो विपरीत मन्दक्लेशप्रसादकृतमित्यादि।

[ दृष्टधर्मफ़लं कर्म क्षेत्राशयविशेषतः।
तद्भूम्यत्यन्तवैराग्याद् विपाके नियतं हि यत्।। ५५।। ]

सङ्घस्त्रीवादसमुदाचारादिति। भिक्षुणा किल केनचिद्ववहारपराजितेन सङ्घः स्त्रियो यूयमिति समुदाचरितः। तस्य दृष्त एव धर्मे पुरूष व्यञ्जनमन्तर्हितम्। स्त्रीव्यञ्जनञ्च प्रादुर्भूतमिति। तदिदं क्षेत्रविशेषाद् दृष्टधर्मवेदनीय भवति। आशयविशेषादिति। शण्ठेन गवामपुस्त्वं करिष्यमाणामभिवीक्ष्य ममेदृशमपुस्त्वे दुःखमिति तीव्रेणाशयेन तेषां गवामपुस्त्वं प्रतिमोक्षितम्। तस्य दृष्त एव धर्मे पुरूषेन्द्रिय प्रादुर्भूतम्। इदमाशयविशेषाद्दष्टधर्मवेदनीयं कर्म संवृत्तम्।

तद् भूम्यत्यन्तवैराग्यादिति। ततो भूमेरत्यन्तवैराग्यात्तददृष्टधर्मदनीयमपि कर्म दृष्टधर्मवेदनीय सम्पद्यते। यथानागाम्यर्हतामवीतरागावस्थाकृतम्। पुनरधरभूम्यनागमनादनुपादाय च परिनिर्वाणात्। न त्ववस्थायामिति। यदनियतं दृष्टधर्माद्यवस्थासु। न चानियतं विपाके। नियतत्वात्। तदेव दृष्टधर्मवेदनीयं भवति। अत एवाह। यत् पुनरवस्थान्तरे दृष्टधर्मादिके नियतम्। तस्य तत्रैवावस्थान्तरे विपाकः। तद्वतोऽत्यन्तवैराग्यासम्भवादिति। एवमवस्थान्तरनियतविपाकेन कर्मणा तद्वत् पुद्गलस्यात्यन्त तस्या भूमेर्वैराग्यासम्भवादित्यर्थः।

[ ये निरोधारणामैत्रीदर्शनार्हत्फ़लोत्थिताः।
तेषु कारापकारस्य फ़लं सद्योऽनुभूयते।। ५६।। ]

क्षेत्रविशेषादित्युक्तमतः पृच्छति। कीदृशं पुनः क्षेत्रमिति। अरणा व्युत्थितस्येति विस्तरः। अप्रमाणेषु सत्त्वेषु अरणा हितोऽध्याशयोऽभिप्रायः। तेनानुगता। अत्युदग्रेण तीक्ष्णेन। अप्रमाणेन पुण्येन परिभावनानुगता सन्ततिर्वर्तते। अरणामुत्तरत्र वक्ष्यति। अरणाप्रणिधिज्ञानमित्यत्र। मैत्रीव्युत्थितस्येति विस्तरः। अप्रमाणेषु सत्त्वेषु सुखमुत्पद्यतामित्याशयः। तेनानुगता अत्युदग्रेति पूर्ववच्च। प्रत्यग्राश्रयपरि वृत्तिनिर्मलेति। प्रत्यग्राऽभिनवा। अचिरव्युत्थितत्वात्। प्रत्यग्राश्रयस्य शीरस्य परिवृत्त्वा निर्मला सन्ततिः। एतेषु पुद्गलेषु कृतानां कारापकाराणामुपकारापकाराणां कुशलाकुशलानाम्। फ़लं दृष्ट एव धर्मे इहैव जन्मनि प्राप्यत इति। सद्योऽर्थ दर्शयति। सद्य इवेति कृत्वा। शेषस्य त्विति विस्तरः। शेषो भावनामार्गः सकृदागाम्यनागामिफ़लप्रापकः। अपरिपूर्णः स्वभावः फ़ल वा अस्येत्यपरिपूर्णः स्वभावफ़लः। तस्य भावः। तस्मात्। अपरिपूर्णस्वभावफ़लत्वात्। का पुनस्तस्य परिपूर्णस्वभावता परिपूर्णफ़लता च। अशैक्षत्व परिपूर्णस्वभावता। स हि मार्गोऽशैक्षस्वभावश्च येनार्हत्त्व प्राप्यते। परिपूर्णफ़लताप्यर्हत्त्वाप्राप्तिः। स हि फ़लमार्गस्त्रिभिः फ़लैः फ़लवानिति। अथवा क्षयज्ञानं संगृहीतो मार्गः परिपूर्णस्वभावफ़लः। परिपूर्णस्वभावो यस्मादशैक्षमार्गः। परिपूर्णफ़लो निरवशेषफ़लत्वात्। तद्वत्थितानामिति। शेषभावनामार्गव्युत्थितानाम्। न ते तद्वुयत्थितास्तथा पुण्यक्षेत्रं भवन्ति। यथार्हत्त्वव्युत्थिताः। प्रागेव लौकिकमार्गव्युत्थिताः। भावनाप्रहातव्यानां हि क्लेशानां सावशेषनिरवशेषप्रहाणादयं विशेष उक्त इत्यवगन्तव्यम्।

[ कुशलस्यावितर्कस्य कर्मणो वेदना मता।
विपाकश्चैतसिक्येव कायिक्येवाशुभस्य तु।। ५७।। ]

तस्या अवश्य सवितर्क सविचारत्वादिति। सवितर्कविचारा हि पञ्चविज्ञानधातव इति नियमात् वितर्कविचारयोश्च ध्यानान्तरादिस्वभावात्। न च वितर्कस्य कर्मणः सवितर्कविचारोऽधरभूमिको विपाको युज्यत इति। तस्य हि दुःखा वेदना विपाक इति विस्तरः। तस्याकुशलस्य दुःखा वेदना विपाक इष्यते। तस्यानिष्टफ़लत्वाच्च। चैतसिकी च दुःखा वेदना दौर्मनस्यं नान्यदस्ति। न च दौर्मनस्यं विपाक इति व्याख्यात मेतदिति। इन्द्रियनिर्देशे विपाको जीवित द्वेधा द्वादशान्त्याऽष्टकादृते दौर्मनस्याच्चेति।

[ चित्तक्षेपो मनश्चित्ते स च कर्मविपाकजः।
भयोपघातवैषम्यशोकैश्चाकुरूकामिनाम्।। ५८।। ]

दौर्मनस्य न विपाक इत्येतदमृष्यन्नाह। यत्तर्हीति विस्तरः। यदि दौर्मनस्यं न विपाकः। यत्तर्हि सत्त्वानां चित्तक्षेपो भवति। कतमस्मिन्नसौ चित्ते भवति केन वा कारणेनेति तस्यायमभिप्रायः। चित्तक्षेपो न पञ्चसु विज्ञानकायेषु। तेषामविकल्पकत्वात्। स चाकुशलहेतुकोऽनिष्टत्वादित्यतो विपाकेन दौर्मनस्येन भवितव्यमिति। अविकल्पकत्वादिति । अभिनिरूपणानुस्मरणविकल्पाभ्यामविकल्पकत्वात् पञ्चानां विज्ञानकायानाम्। चित्तक्षेपस्य चासद्विकल्प लक्षणत्वात्। अग्नि वा दावेषूत्सृजन्तीति। दावस्तृणादिगहनान्वितो देशविशेषः। अन्येन वा केनचिदिति। अनिष्टवेदनादिना। वासिष्ठीप्रभृतीनामिति।

भगवान् मिथिलिकायां विहरति स्म मिथिलाम्रवणे। तेन खलु पुनः समयेन वशिष्टसगोत्राया ब्राह्यण्याः ष्ट्पुत्राः कालगताः। सा तेषां कालक्रियया नग्नोन्मत्ता क्षिप्तचित्ता तेन तेनानुहिण्डन्ती येन मिथिलाम्रवणं तेनोपसंक्रान्ता। तेन खलु पुनः समयेन भगवाननेकशताया भिक्षुपर्षदः पुरस्तान्निषण्णो धर्म देशयति स्म । अद्राक्षीद्वसिष्ठसगोत्रा ब्रह्यणी भगवन्त दूरादेव। दृष्ट्वा च पुनर्जेह्रीयमाणरूपा उत्कुटकाऽस्थात्। स्मृति च लब्धवती। अद्राक्षीद्भगवान् वसिष्ठगोत्रां ब्राह्यणीं दूरादेव। दृष्ट्वा च पुनरायुष्मन्तमानन्दमामन्त्रयते स्म। अनुप्रयच्छानन्द वसिश्ठसगोत्रायै ब्राह्यण्यै उत्तरासङ्गम्। धर्ममस्यै देशयिष्यामि। आयुष्मान् आनन्दो वसिष्ठसगोत्रायै ब्रह्यण्यै उत्तरासङ्गमदात्। अथ वसिष्ठसगोत्रा ब्राह्यणी उत्तरासङ्ग प्रावृत्य येन भगवांस्तेनोपसंक्रान्ता। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णा। एकान्तनिषण्णां वसिष्ठसगोत्रां ब्रह्यणीं धर्म्यया कथया सन्दर्शयति समादापयति समुत्तेजयति संप्रहर्षयति इत्येवमादि। विस्तरग्रन्थमयात् सर्वसूत्रं न लिखितम्। अयं तत्रार्थः। भगवास्तस्यै दानकथादि कृत्वा चत्वार्यार्यसत्यानि देशितवान् यावत्तया स्रोत आपत्तिफ़लमधिगतम् अधिगम्य च भगवतोऽन्तिकात् प्रक्रान्ता। तस्या अपरेण समयेन सप्तमः पुत्रः कालगतः। सा तत्कालक्रियया न शोचति। तामशोचन्तीं स्वभर्ताब्रवीत् । त्व पूर्व पूत्रमरणेन परितप्ताऽसि। इदानीं नासि परितप्ता। नून ते पुत्रास्त्वया भक्षिता यतो न परितप्यस इति। सा तं प्रत्युवाच

पुत्रपौत्रसहस्राणि ज्ञातिसंघशतानि च।
दीर्घेऽध्वनि मया ब्रह्यन् खादितानि तथा त्वया।।
पुत्रपौत्रसहस्राणां परिमाण न विद्यते।
अन्योन्यं खाद्यमानानां तासु तासूपपत्तिषु।।
कः शोचेत् परितप्येत परिदेवेत वा पुनः।
ज्ञात्वा निःसरण लोके जातेश्च मरणस्य च।।
साहं निःसरणं ज्ञात्वा जातेश्च मरणस्य च।

न शोचामि न तप्यामि कृते बुद्धस्य शासने।। इत्येवमादि। कथं न चैतसिकी वेदना विपाकः प्राप्नोति। तस्याकुशलस्य कर्मण इति वाक्यशेषः। महाभूतानां प्रकोपो विपाक इति। विपक्तिर्विपाकः। तस्माज्जातमतो विपाकज चित्तम्। अत एव स च कर्मविपाकज इत्युक्तम्। न तूक्तम्। स च कर्मज इति। एवं चेदमिति विस्तरः। यस्मात् कर्मजेन यावद्भष्तस्मृतिकं चित्तं वर्तते तस्मादिद चतुष्कोटिकं युज्यत इति। उभय क्षिप्तचित्तस्य क्लिष्टचित्तमित्येव तत्रोदाहरणम्। न हि क्लिष्ट चित्त विपाको युज्यते। विपाकोऽव्याकृतो धर्म इति वचनात्। अभिनुन्ना अभिपीडिताः। हा चित्तपरिदेवकश्चात्र नारक इहोदाहार्यः। क्षिप्तचित्ता नारका भवन्तीति। अन्यत्र बुद्धादिति। महापुण्यसम्भारत्वान्न बुद्धस्य। तद्वद्भूतवैषम्येणापि चित्त क्षिप्यते। न कर्मणेति। किम्। आर्याणां क्षिप्यते चित्तम् अन्यत्र भूतवैषम्यादेव। किं कारणमित्याह। नियतस्य कर्मणः पूर्व पृथग्जनावस्थायामेव विपाकात्। अनियतस्याविपाकादार्यावस्थायाम्। अत एव चैतदनियतमित्युच्यते। पञ्चभयसमतिक्रमादिति। पञ्च भयानि। आजीविकाभयमश्र्लोकभयं पर्षच्छारद्यभयं मरणभयं दुर्गतिभयञ्च। तत्राश्र्लोकभयमकीर्तिभयम्। पर्षच्छारद्यभयं सभायां साङ्कचित्यम्। अप्रासादिकस्येति। अप्रसादनीयस्य कर्मणः। धर्मता अभिज्ञत्वादिति। सर्व सास्रवं दुःखम्। सर्वे संस्कारा अनित्याः। सर्वे धर्मा अनात्मान इति। धर्म स्वभावाभिज्ञत्वात्।

[ वङ्कदोषकषायोक्तिः शाठयद्वेषजरागजे।
कृष्णशुक्लादिभेदेन पुनः कर्म चतुर्विधम्।। ५९।।
अशुभ रूपकामाप्तं शुभं चैव यथाक्रमम्।
कृष्णाशुक्लोभयं कर्म तत्क्षयाय निरास्रवम्।। ६०।। ]

कुटिलान्वयत्वादिति। कुटिलहेतुकत्वात्। साध्यं हि कौटिल्यम्। रञ्जनान्वयत्वादिति। यथा कषायो रञ्जनहेतुस्तथा रागोऽपीत्यतस्तत्साधर्म्यादेवमुक्तम्।

कामाप्तमित्यनेन शुभं विशिष्यते। नाशुभम् । तस्यावश्यं कामाप्तत्वात्। आरूप्याप्तं कस्मान्नोच्यत इति। तदपि ह्यकुशलेन न व्यतिभिद्यते। न व्यतिमिश्रयत इत्यर्थः। यत्र किलेति विस्तरः। किलशब्दः परमते। यत्र किलान्तराभविकः अन्तराभवे भवो विपाकः। एवमौपपत्तिभविकोऽपि। त्रिविधस्य च कायवाडनस्कर्मणो विपाको ध्यानसंवरसंगृहीतयोः कायवाक्कर्मणोः द्वितीयादिष्वपि ध्यानेषु सद्भावादस्ति। तत्रैवोक्तं शुक्लं शुक्लविपाकमिति। तदपि तूक्तं सूत्रान्तर इति। तदप्यारूप्याप्तम्। अस्ति कर्म शुक्लं शुक्लविपाकम्। तद् यथा प्रथमे ध्याने। एव यावद् भवाग्र इति। अनेन स्वाभिप्राय दर्शयति। येन किल शब्द प्रयुक्तवान्। संतानत एतद्ववस्थापितमिति। एकस्मिन् सन्ताने कुशलं चाकुशलं च समुदाचरतीति कृत्वा कुशलमकुशलेन व्यवकीर्यते। अन्योन्यविरोधादिति कुशलमकुशलेन विरूध्यते अकुशलञ्च कुशलेनेति। द्विरूपता न युज्यते।

नावश्यमकुशलं कुशलेन व्यवकीर्यत इति विस्तरः। व्यवकीर्यते न त्ववश्यम्। यस्मात् कामधातौ प्रतिपक्षभूतस्य समाधेरभावदाकुशलस्य बलवत्त्वम्। अत एव च कुशलस्य दुर्बलत्वम्। तथाहि कामधातौ मिथ्यादृष्ट्या कुशलमूलसमुच्छेदो भवति। न तु सम्यग्दृष्ट्या मिथ्यादृष्टिसमुच्छेदो भवति।

आभिप्रायिको ह्येषोऽशुक्लशब्द इति। विपाकशुक्लताभावादशुक्लं न तु नैव शुक्लमित्यर्थः। अपि च यच्छुक्लमुक्तं तन्न भवतीत्यशुक्लम्। महत्यां शून्यतायामिति॥ महाशून्यतार्थसूत्रे। अनिवृताव्याकृताश्च शुक्लाः। अक्लिष्टत्वात्। अविपाकं धात्वपतितत्वादिति। अनास्रवा धम्राः न धातुपतिताः। धातुपतितश्च विपाक इत्यतोऽनास्रवं कर्माविपाकम्। कस्मादित्याह। प्रवृत्तिविरोधत इति। अनास्रवं हि कर्म धातुपतितानां धर्माणां प्रवृत्ति विरूणद्धि। न तु जनयतीत्यविपाकम्।

[ धर्मक्षान्तिषु वैराग्ये चानन्तर्यपथाष्टके।
या चेतना द्वादशधा कर्म कृष्णक्षयाय तत।। ६१।।
नवमे चेतना या सा कृष्णाशुक्लक्षयाय च।
शुक्लस्य ध्यानवैराग्येष्वन्त्यानन्तर्यमार्गजा।। ६२।।
अन्ये नरकवेद्यान्यकामवेद्य द्वयं विदुः।
दृग्घेयं कृष्णमन्येऽन्यत्कृष्णशुक्लन्तु कामजम्।। ६३।। ]

कर्म कर्मक्षयायेति द्विः कर्मग्रहण यत्तत् कर्मास्तीत्यपदिष्टम्। तत् कर्म सत् संविद्यमानमप्रच्युतस्वभावम्। कर्मक्षयाय संवर्त्तत इत्यस्य चतुर्थस्य कर्मणी द्योतनार्थम्। अथवा वीप्साप्रयोग एषः। कर्मणः कर्मणः क्षयाय संवर्तत इत्यर्थः। चतसृष्विति विस्तरः। धर्मक्षान्तिग्रहण कामवैराग्ये चानन्तर्यमार्ग्रहण कामावचरस्य कृष्णस्य कर्मणः प्रहाणमार्गत्वात्। अनास्रवमार्गस्यैवेहाधिकृतत्वाल्लौकिका आनन्तर्यमार्गास्तत्प्रहाणभूता अपि न गृह्यन्ते।

शुक्लस्य ध्यानवैराग्येष्विति। कुशलस्यैवेत्यवधार्यते। तत्र कृष्णाभावात्। क्लिष्टसंस्कारप्रहाणमष्टाभिः। नवमेन तु कुशलस्यापि।

न हि तस्य स्वभावप्रहाणमिति प्राप्तिच्छेदप्रहाणम्। प्रहीनस्यापि कुशलस्य संमुखीभावात्। तदालम्बनक्लेशप्रहाणादिति। तदालम्बनस्य क्लेशस्य प्रहाणात्तस्य कुशलस्य प्रहाण भवति। तदालम्बनक्लेशप्रहाणं च नवमस्य तदालम्बननरकवेदनीयक्लेशप्रकारस्य प्रहाणे सति भवतीति। नवमानन्तर्यमार्गचेतनैव कृष्णशुक्लस्य कर्मणः क्षयाय भवति। तदाहि नवमस्य क्लेशप्रकारस्य प्राप्तिच्छेदे विसंयोगप्राप्तोरूत्पद्यते। तस्य च कृष्णशुक्लस्य कर्मणोऽन्यस्यापि चानिवृताव्याकृतस्य सास्रवस्य धर्मस्य विसंयोगप्राप्तिरूत्पद्यते इति वर्णयन्ति। एवं चतुर्ध्यानवैराग्येष्वपि वक्तव्यम्।

तेन तद्वेदनीयमिति। तेन नरकगति नैयम्यकारणेन। तद्वेदनीयं नरकवेदनीयमित्यर्थः। अतोऽन्यत्रेति विस्तरः। ततो नरकगतेरन्यत्र कामधातौ मनुष्यादिगतावकुशलस्य कुशलस्य च कर्मणो विपाकस्तेन गतिनैयम्यकारणेन। तदन्यकामधातुवेदनीयमुभयमप्यविशेष्य मिश्रीकृत्य कृष्णशुक्लमित्युक्तम्। न पुनरेवं ग्रहीतव्यम्। कुशलमपि कृष्ण शुक्लमेवमकुशलमपीति।

कुशलेनामिश्रत्वादिति न हि कुशलं दर्शनप्रहातव्यमस्ति। न दृष्टिहेयमक्लिष्टमिति नियमादत्र चोद्यते। कामावचरं दृग्घेयं कृष्णमिति विशेष्यं वक्तव्यम्। इतरथा हि रूप्यारूप्यावचरस्यापि दर्शनहेयस्य कृष्णविपाकत्ववचनप्रसङ्ग इति। न वक्तव्यमन्यत् कृष्नशुक्लं तु कामजमिति। कामजमित्यस्योभयविशेषणत्वात्। कामजं दृग्घेयं कृष्णम्। कामजमन्यत् कृष्नशुक्लमिति। तद्धीति विस्तरः। तद्धि कामावचरं भावनाप्रहातव्यम्। कुशलं चाकुशलं च सम्भवति। तन्मिश्रीकृत्योभयमपि कृष्णशुक्लमित्युक्तम्। न पुनः प्रत्येकम्।

[ अशैक्ष कायवाक्कर्म मनश्चैव यथाक्रमम्।
मौनत्रयं त्रिधा शौचं सर्व सुचरितत्रयम्।। ६४।। ]

त्रीणि मौनेयानीति। मुनिता वा मुनिकर्म वा मौनेयं कापेयवत् । मौनत्रयमिति। मुनेरिदं मौनम्। अशैक्ष इति विस्तरः। अशैक्ष कायकर्माविज्ञप्तिस्वभावं कायमौनम्। एवं वाड्यौनम्। अथ कस्मादविज्ञप्तिरेव गृह्यते न पुनर्विज्ञप्तिरपि। विज्ञप्तेः सास्रवत्वेनाशैक्षत्वासंभवात्। मन एव मनोमौनमिति। स्वार्थे वृद्धिविधानात्। चित्तं हि परमार्थमुनिरिति। सर्वक्लेशजल्पोपरतेरिति कारणं वक्ष्यते। तत् किल कायवाक्कर्मभ्यामशैक्षाभ्यामनुमीयते अशैक्षमिति। कथ तथागतोऽनुमातव्यः। प्रशान्तेन कायकर्मणा प्रशान्तेन वाक्कर्मणेति सूत्रे वचनात्। किलशब्देन वैभाषिकमतं द्योतयित्वाचार्यः स्वमतमाह। अपि खल्विति विस्तरः। चित्ताविज्ञप्त्य भावादिति। यस्माच्चित्तस्याविज्ञप्तिर्नास्त्यतो न मनस्कर्मविरतिस्वभावम् । विरमार्थेन च मौनमिति। विरमो विरतिः। सर्वाकुशलविरमार्थेन मौनमित्यभिप्रायः। अतो मन एव सर्वाकुशलेभ्यो विरतं मौनमित्युच्यते। सर्वक्लेशजल्पोपरतेरिति वितथालम्बनजल्पनात् क्लेशाजल्पा इत्युच्यते। ते चार्हत उपरता इत्यर्हन् परमार्थमुनिः। शौचेयानीति। शुचिभावः। शौचेयं शौचमित्यर्थः। सर्वग्रहणं सास्रवानास्रवसुचरितपरिग्रहार्थम्। तावत्कालमत्यन्तं चेति तावत्कालं दुश्चरितमलापकर्षकं सास्रवेण सुचरितत्रयेण। अत्यन्तमनास्रवेण। तद्धि भिक्षवः प्रहीणं यदार्यया प्रज्ञयेति सूत्रात्। मिथ्यामौनशौचाधिमुक्तानां विवेचनार्थमिति। तूष्णीम्भावमात्रेण शुद्धिदर्शिनो मिथ्यामौनाधिमुक्ताः। कायमलापकर्षणमात्रेण शुद्धिदर्शिनो मिथ्याशौचाधिमुक्ताः। तेषां विवेचन ततो दर्शनात् प्रच्यावनम्। तदर्थमेतानीति।

[ अशुभं कायकर्मादि मत दुश्चरित त्रयम्।
अकर्मापि त्वभिध्यादि मनोदुश्चरितं त्रिधा।। ६५।। ]

संचेतनीयसूत्रे वचनादिति। सञ्चेतनीयं कर्म कृत्वोपचित्य नरकेषूपपद्यते। कथं च भिक्षवः सञ्चेतनीयं कर्म कृतं भवत्युपचितम्। इह भिक्षव एकत्यः सञ्चित्य त्रिविधं कायेन कर्म करोत्युपचिनोति चतुर्विधं वाचा त्रिविधं मनसेति विस्तरेणोक्ताह। कथ भिक्षवस्त्रिविधं मनसा सञ्चेतनीयं कर्म कृतं भवत्युपचितम्। यथापीहैकत्योऽभिध्यालुर्भवति व्यापन्नचित्तो यावन्मिथ्यादृष्टिः। खलु भिक्षव इहैकत्यो भवति विपरीतदर्शीति विस्तरः। न चान्यदभिध्यादिव्यतिरिक्त तत्र मनस्कर्मोक्तमिति अभिध्यादय एव मनस्कर्मेति। दार्ष्टान्तिकाः सौत्रान्तिकविशेषा इत्यर्थः।

एवं तु सति कर्मक्लेशयोरैक्य स्यादिति। अभिध्याव्यापादमिथ्यादृष्टयः क्लेशाः। त एव कर्मेति। तदैक्यं स्यात्। नैतदस्ति। कश्चित् क्लेशोऽपि कर्म स्यात् इति। चेतना कर्म चेतयित्वा चेति वचनात्। यद्येवं सञ्चेतनीयं सूत्रं कथं नीयत इत्याह। सूत्रे त्विति विस्तरः। सूत्रे तु चेतनायास्तन्मुखेनाभिध्यादिमुखेन प्रवृत्तेस्तैरभिध्यादिभिस्तां चेतनां दर्शयति। अभिध्यालुः खलु भिक्षवो भवतीति विस्तरेण। अन्यथा चेतनामतं भिक्षवः कर्म वदामि चेतयित्वा चेत्येतद्विरूध्यते। कर्मक्लेशयोश्चैक्ये अभिधर्मविरोधः स्यात्। परानुग्रहोपघाताभिसन्ध्यभाव इति विस्तरः। परेषामनुग्रहोपघातयोरभिसन्ध्यभावे कथ सम्यग्दृष्टिमिथ्यादृष्टयोर्यथाक्रमं कुशलाकुशलत्वमिति। अतो ब्रीवीति तन्मूलत्वादिति। यस्मात् परानुग्रहाभिसन्धेः परोपघाताभिसन्धेश्च सम्यग् दृष्टिमिथ्यादृष्टी मूल कारणमित्यर्थः। अतस्तयोः कुशलाकुशलत्वम्।

[ विपययात् सुचरित तदौदारिकसंग्रहात्।
दश कर्मपथा उक्ता यथायोग शुभाशुभाः।। ६।। ]

यथायोगमिति यथासम्भवम्। कथमित्याह। कुशलाः सुचरितेभ्यः अकुशला दुश्चरितेभ्यश्चेति। क्लिष्टश्चान्योऽपीति वधबन्धनादिः। तस्य नात्यौदारिकत्वादिति। तस्य प्रयोगपृष्ठभूतस्य क्लिष्टस्यान्यस्यापि अनत्यौदारिकत्वात्। मनोदुश्चरितस्य च प्रदेशश्चेतना। न संगृहीतेति वर्तते। मद्यादिविरतिदानेज्यादिक इति। प्रथमेनादिशब्देन ताडनबन्धनादिविरतिर्गृह्यते। द्वितीयेनापि स्नपनोद्वर्तनविषमहस्तप्रदानादिर्गृह्यते। प्रियवचना दिक इति। आदिशब्देन धर्मदेशनादिमार्गकथनादिर्गृह्यते। मनः सुचरितस्य चेतना न संगृहीतेति वर्तते।

[ अशुभाः षड्विज्ञप्तिर्द्विधैकस्तेऽपि कुर्वतः।
द्विविधाः सप्त कुशला अविज्ञप्तिः समाधिजा।। ६७।। ]

षड्विज्ञप्तिरिति। षड्विज्ञप्तिरवश्यम्। न त्वविज्ञप्तिरेव षडित्यवधारणम्। मौलविज्ञप्त्यभावादिति यस्मान्मौली कर्मपथसंगृहीता विज्ञप्तिर्नास्ति। आज्ञापनविज्ञप्तिस्त्वस्ति प्रयोगसंगृहीतेति वैभाषिकसिद्धान्तः।

द्विधैक इति। द्विधैवैक इत्यवधारणार्थ आरम्भः। तत्कालमरण इति। विज्ञप्तिकालमरणे। कालान्तरमरणे त्वविज्ञप्तिरेव भवति। द्विविधाः सप्तकुशला इति। द्विविधा एवेत्यवधारणम्। विज्ञप्त्यधीन त्वात् समादानशीलस्येति। शील हि द्विविध समादानशील प्रातिमोक्षसंवरो धर्मताशीलं च ध्यानानास्रवसंवरौ। समादानशील विज्ञप्त्यधीनम्। तद्धि परस्मदादीयते। धर्मताशील तु न विज्ञप्त्यधीन चित्तमात्राधीनत्वात्। अत एवाह। अविज्ञप्तिः समाधिजा इति।

[ सामन्तकास्तु विज्ञप्तिरविज्ञप्तिर्भवेन्न वा।
विपर्ययेण पृष्ठानि प्रयोगस्तु त्रिमूलजः।। ६८।। ]

सामन्तकास्तु विज्ञप्तिरिति। कामावचरकर्मपथप्रयोगा अवश्यं विज्ञप्तिः। न त्ववश्यमविज्ञप्तिरित्यत एवाह। अविज्ञप्तिर्भवेन्न वेति। पर्यवस्थानेनेति। आह्रीक्यादिना। घनरसेनेति। घनवेगेन। तस्यानुधर्म चेष्टेतेति। तस्य कर्मपस्थानुधर्ममनुसदृशं कर्म। तद् यथा मृतेऽपि प्राणिनि पुनः प्रहारदान कोषणं मांसच्छेदनम् इत्येवमादि। द्वौ कुष्णतीति शब्दौ। परस्य चर्मापनयनमर्थः। पूर्वस्यार्थान्तरं द्रष्टव्यम्। फ़लपरिपूरितश्चेति। प्रयोगस्य मौलः कर्मपथः फ़लपरिपूरिः। यो हि प्रयुज्यते मौलं कर्मपथं न जनयति तस्य प्रयोगफ़लमस्ति न तु फ़लपरिपूरिः। एवमन्येष्वपीति यथा तावदिह कश्चित् परस्वं हर्त्तुकामो मञ्चादुत्तिष्ठति शस्त्रं गृह्णाति परगृहं गच्छति सुप्तो न वेत्याकर्णयति परस्वं स्पृशति यावन्न स्थानात् प्रच्यावयति तावत् प्रयोगः। यस्मिंस्तु क्षणे स्थानात् प्रच्यावयति तत्र या विज्ञप्तिस्तत्क्षणिका चाविज्ञप्तिरयं मौलः कर्मपथः। द्वाभ्यां हि कारणाभ्यामदत्तादानावद्येन स्पृश्यते। प्रयोगतः फ़लपरिपूरितश्च। ततः परमविज्ञप्तिक्षणाः पृष्ठ भवन्ति। यावत्तत् परस्व विभजते विकीणीते गोपायति अनुकीर्तयति वा तावदस्य विज्ञप्तिक्षणा अपि पृश्ठ भवन्तीति। एवमन्येष्वपि पञ्चसु यथासम्भव योज्यम्।

मरणभवस्थ इति। मृत एव। न चैष सिद्धान्त इति। समं प्राक् च मृतस्यास्ति न मौलोऽन्याश्रयोदयात्। इति सिद्धान्तात्। तन्न वक्तव्यम् इति। व्यपरोपयतीति। विप्रकृतावस्थायामयोगात्। एव तु वक्तव्य स्यात्। मृते प्राणिनि या विज्ञप्तिस्तत्क्षणिका चाविज्ञप्तिरयं मौलः कर्मपथ इति। यच्चापीदमिति विस्तरः। वैभाषिकैरस्य शास्त्रवाक्यस्यैवमर्थो व्याख्यातः। अत्र शास्त्रे प्रयोगशब्देन पृष्ठमुक्तमिति। प्रयोग इव प्रयोगः। प्रयोगसदृशी या क्रियेत्यर्थः। अस्यार्थस्य विरोधः। कस्मात्। मौलस्यैव तदानीमनिरूद्धात्। मृते प्राणिनि मौलकर्मपथव्यवस्थापनादित्यत्राभिप्रायः। वैभाषिक आह। यथा न दोषस्तथास्तीति। कथ च न दोष इत्याचार्यः। वैभाषिकः पुनराह। मौल एवात्र प्रयोगशब्देनोक्त इति। कुत्र। योऽय प्रश्नः स्यात् प्राणी हतः प्राणातिपातश्चानिरूद्ध इत्यत्र। पृष्ठ प्रयोगशब्देनोक्तमिति किमय पक्षः परित्यक्त एव। स च न परित्यक्त एव। उभयमपि हि सम्भवति। यदि मरणभवानन्तरक्षणवर्ती प्राणी भवति अत्र प्रयोगशब्देन मौल उक्त इतीष्यते। ततः परेण तु पृष्ठ इति। आचार्य आह। विज्ञप्तिस्तर्हि तदा कथं मौलः कर्मपथो भवतीति। मृते हि प्राणिनि विज्ञप्तिरकिञ्चित् करी । न हि तेन विज्ञप्तिप्रहारेण मृतस्य मारण पुनरस्तीति मन्यमानोऽय पृच्छति। कस्मादविज्ञप्ति न पृच्छति। यस्मादसावनिदर्शनत्वादप्रतिघत्वाच्च प्रहाराख्या न भवति। कथं च न भवितव्यमिति वैभाषिकेणोक्ते। स्वाभिप्रायमाचार्यो विवृणोति। असामर्थ्यादिति। प्राणिनि मृते तयाः सामर्थ्य न दृश्यत इति वैभाषिक आह। अविज्ञप्तिरिदानीं कथ भवत्यसति सामर्थ्ये मौलः कर्मपथ इति। यस्मादेवमविज्ञप्तिरसामर्थ्येऽपि मौलः कर्मपथो भवति। तस्मात् प्रयोगफ़लपरिपूरिकाले मौलकर्मपथपरिसमाप्तिकाले प्राणिनो मृत त्वावस्थायाम्। तदुभयं विज्ञप्त्यविज्ञप्त्याख्यं कर्मपथः स्याद् युज्येतेत्यर्थः।

एवमन्येष्वपि यथायोगं योज्यमिति। यथा परस्व हर्तुकामः कार्यसिद्धये परकीयं हृत्वा तेन पशुना बलि कुर्यात्। दारेषु चास्य विप्रतिपद्येत तैरेव तदपहारार्थम्। अनृत पिशुन परूष सांत्वभेदैश्चास्य मित्रभेदं कुर्यात्। यान्यस्य परित्राणाय कल्परेन्। अभिध्यां च तत् स्वे कुर्यात्। तद्दव्यस्वामिनि च व्यापाद मिथ्यादृष्टि बृहयेत्। एव काममिथ्याचारादिषु यथासम्भव योज्यम्। एषा दिक्।

[ तदनन्तराम्भूतेरभिध्याद्यास्त्रिमूलजाः।
कुशलाः सप्रयोगान्ता अलोभद्वेषमोहजाः।। ६९ ]

नात्र सर्वेषां कर्मपथानां लोभादिभिर्निष्ठेति। न च सर्वेषां लोभेन। किं तर्हि। केषाञ्चिदेव काममिथ्याचारदीनाम्। नापि सर्वेषां व्यापादेन। किं तर्हि। केषांचिदेव प्राणातिपातादीनाम्। एवं न सर्वेषां मोहेन। किं तर्हि। केषाञ्चिदेव मिथ्यादृश्ट्यादीनामेवेति। त्र्यम्बुकाः वरताः। आदिशब्देन व्याघ्रादयः। यश्च मिथ्यादृष्टिप्रवर्तित इति। नास्ति परलोक इति कृत्वा निरपेक्षो हनि। अयमपि मोहजः। अन्यलाभसत्कारयशोऽर्थमिति। अन्यलाभस्यार्थे परस्व हरति। यथाश्वहारिकः। सत्कारस्य यशसो वार्थ हरति। इदमपि लोभमदत्तादानम्। यच्च मिथ्यादृष्टिप्रवर्तित तदपि मोहजमदत्तादानम्। तत्र मोहप्राधान्यात्। उपैति मातरमब्रह्यचर्यार्थे। उपस्वसार मुपैतीति वर्तते। उपस्वसार भगिनीमित्यर्थः। उपसगोत्रामुपैति समानगोत्रामित्यर्थः। उपहायजमानः। ये चाहुरिति विस्तरः। उदूखलादितुल्यो मातृग्रामः। यथोदूखलादयः साधारणा उपभोग्या एव स्त्रीजनः। तस्मान्न दोषोऽस्त्यभिगच्छतामिति। मृषावादादयो लोभजा द्वेषजाश्च पुर्ववदिति। मृषावादपैशुन्यपारूष्यसंभिन्नप्रलापा लोभजा अन्यलाभसत्कारयशोऽर्थ वा। आत्मसुहृत्परित्राणार्थ वा। द्वेषजा वैरनिर्यातनार्थम्। न ट्नर्मयुक्तम्। न परिहासयुक्तम्। मिथ्यादृष्टिप्रवर्तित इति। नास्ति परलोक इति निर्मर्यादस्य यो मृषावादोऽयं मोहजः। पैशुन्यादयस्तु। पैशुन्यपारूष्याबद्धप्रलापाः। मृषावादवत् मोहजाः। पैशुन्यादयस्तु। पैशुन्यपारूष्याबद्धप्रलापाः। मृषावादवत् मोहजाः। यश्चेति विस्तरः। यश्च वेदसांख्य वैशेषिकाद्यसत्प्रलाप। स चापि मोहजः संभिन्नप्रलापः।

तस्य चेति कुशलचित्तस्य। नानावासं प्रविशतीति। मण्डलं प्रविशतीत्यर्थः। नानावासा हि तस्मिन् महासीमामण्डले भवन्ति। तृतीये कर्मवाचन इति। ज्ञप्तिचतुर्थेन कर्मणा श्रामणेर उपसंपाद्यते। तत्र ज्ञप्त्या इदंनामानमुपसंपादयेत् सङ्घ इति। लिङार्थ उच्यते। कर्मवाचनेन लङ्र्थ उच्यते। इमं संघ उपसम्पादयतीति। तत्र कर्मवाचनं त्रिरूच्यते। तृतीयस्य कर्मवाचनस्यापरिसमाप्तेः प्रयोगः कर्मपथस्यावगन्तव्यः। तस्यावसाने तु या विज्ञप्तिस्तत्क्षणिका वाऽविज्ञप्तिरयं मौलः कर्मपथः। तत ऊर्द्ध्व यावन्निश्रया आरोच्यन्त इति। चत्वारो निश्रयाश्चीवरपिण्डपात शय्यासनग्लानप्रत्ययभैषज्यलक्षणा यथोक्तेन विधिना तस्योपसंपादितस्यारोच्यन्ते।

तदधिष्ठान च विज्ञपयति। निश्रयाऽधिष्ठान च विज्ञप्ति करोतीत्यर्थः। अविज्ञप्तिश्च यावदनुवर्तते। यावत् संवरो न त्यज्यत इत्यर्थः।

[ वधव्यापादपारूप्यनिष्ठा द्वेषेण लोभतः।
परस्त्रीगमनाभिध्यादत्तादानसमापनम्।। ७०।।
मिथ्यादृष्टेस्तु मोहेन शेषाणां त्रिभिरिष्यते।
सत्त्वभोगावधिष्ठान नामरूपं च नाम च।। ७१।। ]

इदं पृष्ठम्। वधव्यापादपारूष्यनिष्ठाद्वेषेणेति। द्वेषेणैवेत्यवधारणम्। परित्यागपरूषचित्तसम्मुखीबावादीति। परित्यागचित्तसंमुखीभावात् प्राणातिपातस्य निष्ठा द्वेषेण। परूषचित्तसंमुखीभावात्तु व्यापादपारूष्ययोः।

चतुर्भिः काण्डैरूक्ता इति। चतुर्भिर्भागैरूक्ताः। कथम्। वधव्यापादपारूष्यनिष्ठाद्वेषेण इत्येकः काण्डः। लोभतः परस्त्रीगमनाभिध्यादत्तादानसमापनमिति द्वितीयः। मिथ्यादृष्टेस्तु मोहेनेति तृतीयः। शेषाणां त्रिभिरिष्यत इति चतुर्थः काण्डः। भोगाधिष्ठाना इति। विषयाधिष्ठानाः। नामरूपाधिष्ठानेति। पञ्चस्कन्धधिष्ठानेत्यर्थः। नाम हि वेदनादयः स्कन्धाः। रूपं रूपस्कन्धः। अधिष्ठानम् अधिकरणं विषय इत्यर्थान्तरम्। नामकायाधिष्ठाना मृषावादादयो वाङ्नाम्नि प्रवर्तन्त इति कृत्वा।

समं प्राक् च मृतस्यास्ति न मौलोऽन्याश्रयोदयात्।
सेनादेश्चैककार्यत्वात् सर्वकर्तृवदस्ति सः।। ७२।।

न मौल इति। प्रतिषेधात् पृष्ठमपि न भवतीति गम्यते। मौलपूर्वत्वात् पृष्ठस्य। न च प्राणातिपातावद्येन स्पृश्यत इति। न मौलेनेत्यभिप्रायः। अन्याश्रयोदयादिति। विसभागाश्रयोदयादित्यर्थः।

अर्थतो हि तेऽन्योन्यं प्रयोक्तार इति। न वाचा तेऽन्योन्यं प्रयोक्तारः। किं तर्हि। प्राणातिपातकारणाभ्युपगमादर्थत इति दर्शयति। एककार्यत्वात्।

[ प्राणातिपातः संचिन्त्य परस्याभ्रान्तिमारणम्।
अदत्तादानमन्यस्वस्वीक्रिया बलचौर्यतः।। ७३।। ]

संज्ञाय परिछिद्येत्यर्थः। नान्य भ्रमित्वेति। न भ्रान्त्या अन्यं मारयतीत्यर्थः। क्षणिकेषु स्कन्धेष्विति। स्वरसेनैव विनश्वराणां स्कन्धानां कथमन्येनैषां निरोधः क्रियते इत्यभिप्रायः। प्राणो नाम वायुः। कायचित्तसंनिश्रितो वर्तत इति। कथं चित्तसंनिश्रितो वायुः प्रवर्तते चित्तप्रतिबद्धवृत्तित्वात् । तथाहि निरोधासंज्ञिसमापत्तिसमापन्नस्य मृतस्य च न प्रवर्तते। शास्त्रेऽप्युक्तम्। य इमे आश्वासप्रश्वासाः । किं ते कायसन्निश्रिता वर्तन्त इति वक्तव्यम्। चित्तसंनिश्रिता वर्तन्त इति वक्तव्यम्। नैव कायचित्तसंनिश्रिता वर्तन्त इति वक्तव्यम्। कायचित्तसन्निश्रिता वर्तन्त इति वक्तव्यम्। आह। कायचित्तसन्निश्रिता वर्तन्त इति वक्तव्यमिति विस्तरः। तमति पातयति इति। तं प्राणं विनाशयतीत्यर्थः। उत्पन्नस्य स्वरसनिरोधादनागतस्योत्पत्ति प्रतिबधन् निरोधयतीत्युच्यते। यथा प्रदीप निरोधयति। घण्टास्वन वा। क्षणिकमपि सन्तम्। कथं च स निरोधयति। अनागतस्योत्पत्तिप्रतिबन्धात्। जीवितेन्द्रियं वा प्राण इति। चित्तविप्रयुक्तस्वभावमेन दर्शयति।

कस्य तज्जीवितम्। यस्तदभावान्मृत इति। यः प्राणी जीवितस्याभावान्मृतो भवति स बौद्धानां नास्ति नैरात्म्यवादित्वात्। अत एवं पृच्छति। कस्येति षष्ठीम्। पुद्गलवादे पुद्गलप्रतिषेधप्रकरणे। असत्यात्मनि कस्येयं स्मृतिः। किमथैषा षष्ठीत्यत्र प्रदेशे चिन्तयिष्यामि। आस्तां तावदेतत् सामान्यासिकमित्यभिप्रायः। तस्मात् सेन्द्रियः कायो जीवतीति। सेन्द्रियस्यैव कायस्य तज्जीवित नात्मन इति दर्शयति। स एव चानिन्द्रियो मृत इति।

अबुद्धिपूर्वादिति विस्तरः। असञ्चिन्त्यकृतादपि प्राणातिपातं कर्तुरधर्मो यथाग्निसंस्पर्शदबुद्धिपूर्वादसञ्चिन्त्यकृताद्दाह इति। निर्ग्रन्था नग्नाटकः। तेषां निर्ग्रन्थानामेव वादिनाम् अबुद्धिपूर्वेऽपि परस्त्रीद्र्शन संस्पर्शन एष प्रसङ्गः। पापप्रसङ्ग इत्यर्थः। अग्निदृष्टान्तात्। निर्ग्रन्थशिरोलुञ्चने वा निर्ग्रन्थशिरःकेशोत्पाटने च। दुःखोत्पादनबुद्धयभावेऽप्यधर्म प्रसङ्गः। अग्निदाहवत्। कष्टतपोदेशने च। निर्ग्रन्थशास्तुरधर्मप्रसङ्गो बुद्धयनपेक्षायाम्। परस्य दुःखोत्पादनमधर्माय भवतीति कृत्वा। तद्विसूचिकामरणेन च। निर्ग्रन्थानां विसूचिकया अजीर्णेन मरणे। दातुरन्नदातुरधर्मप्रसङ्गः। अन्नदानेन मरणकारणात्। अबुद्धिपूर्वोऽपि हि प्राणिवधः कारणमधर्मस्येति। मातृगर्भस्थयोश्च। मातुर्गर्भस्थस्य चान्योन्यदुःखनिमित्तत्वात् अधर्मप्रसङ्गः। तत एवाग्निदृष्टान्तात्। वध्यस्यापि च तत्क्रियासम्बन्धात्। प्राणातिपातक्रियासम्बन्धात्। अधर्मप्रसङ्गः। वध्ये हि सति प्राणातिपातक्रिया वधकस्य भवति। अग्निस्वाश्रयदाहवत्। अग्निर्हि न केवलमन्यजनं दहति। किं तर्हि। स्वाश्रयमपि इन्धनं दहतीति। तद्वत्। न हि तेषां चेतनाविशेषोऽपेक्ष्यते। कारयतश्च परेण वधादि अधर्मस्याप्रसङ्गः। परेणाग्निं स्पर्शयतः स्पर्शयितुस्तेनादाहवत्। आग्नेयधर्माभ्युपगमात्। अचेतनानां च काष्ठादीनां काष्ठलोष्टवंशादीनाम्। गृहपाते तत्रान्तःस्थितानां प्राणिनां वधात्। पापप्रसङ्गः। न हि बुद्धिविशेषः प्रमाणीक्रियते। न वा दृष्टान्तमात्रादहेतुकात्। सिद्धिरस्यार्थस्येति।

अन्यत्र संज्ञाविभ्रमादिति। यदि देवदत्तद्रव्यं हरामीति अभिप्रायमाणो यज्ञदत्तद्रव्यं हरति नादत्तादानमित्यभिप्रायः।

परिनिर्वाणकाले परिगृहीतमिति। दातृजनपुण्यानुग्रहार्थम्। अपरिग्रहे हि स्तूपे दानमफ़ल स्यात्। प्रतिग्राहकाभावात्। परिवर्तकं मृतस्य भिक्षोः चीवरादिद्रव्यम्। कृते कर्मणि ज्ञप्तिकर्मणि।

[ अगम्यागमनं काममिथ्याचारश्चतुर्विधः।
अन्यसंज्ञोदितं वाक्यमर्थाभिज्ञे मृषावचः।। ७४।। ]

गर्भिणीगमने गर्भोपरोधः। पाययन्ती स्तन्योपभोगावस्थपुत्रिका स्त्री। अब्रह्यचर्यकरणे हि तस्याः स्तन्यं क्षीयते। बालकस्य वा पुष्टये तत् स्तन्यं न भवतीति।

प्राणातिपातवदिति। यथा देवदत्तं मारयामीत्यभिप्रायेण यज्ञ दत्तं मारयतो न प्राणातिपातो भवति। तद्वत्। इहान्यस्मिन् वस्तुनि प्रयोगोऽभिप्रेतः अन्यच्च वस्तु परिभुक्तमिति। न स्यात् काममिथ्याचार इत्यपरे।

अन्ततो राज्ञ इति। यद्यन्यः कश्चिदक्षिता नास्ति। अन्ततः सर्वपश्चाद्राज्ञोऽन्तिकात् स काममिथ्याचारः। तस्य हि तन्न मर्षणीयमिति।

[ चक्षुःश्रोत्रमनोविज्ञानानुभूतं त्रिभिश्च यत्।
तद्दृष्टश्रुतविज्ञातमतं चोक्तं यथाक्रमम्। ७५।। ]

आहोस्विदभिज्ञातु समर्थ इति। योऽपि ह्यर्थमभिज्ञातुं समर्थः सोऽप्यर्थाभिज्ञ इति शक्यते वक्तुम्। अर्थमभिजानीत इति। विप्रकृतावस्थायामभिप्रेतत्वात्। मनोविज्ञानविषयत्वाद्वाक्यार्थस्येति। नास्त्यत्र देवदत्तोऽस्ति वेत्युच्यमाने शब्दः श्रोत्रा विज्ञायते। तदनन्तरन्तु चक्षुरादिसमूहो देवदत्तो वाक्यार्थो विकल्पेन मनोविज्ञानेन विज्ञायते। तेनाविज्ञप्तिरेव मौलः कर्मपथः स्यात्। वाग्विज्ञप्तेः श्रोत्रविज्ञानेन सह निरोधात्। इष्यते च विज्ञप्तयविज्ञप्ति स्वभावो मौलः कर्मपथ इति।

मृतकल्पानि। अत एतेषु मताख्येति। नैरूक्तं विधिमालम्ब्य वैभाषिका व्याचक्षते। स्वेन्द्रियैः प्राप्ता मता इत्याचार्यसङ्घभद्रः। विस्तरेण यावन्मनसा धर्मा इति। ये त्वया घ्राणेन गन्धा न घ्राताः जिह्वया रसा नास्वादिताः कायेन स्प्रष्टव्यानि न स्पृष्टानि यावत् यै त्वया मनसा धर्मा न विज्ञाता इति। त्रिषु विषयेषु रूपशब्दधर्मेषु दृष्टश्रुतविज्ञातापदेशाद् यथाक्रमम्। गन्धादिषु गन्धरसस्प्रष्टव्येषु मताख्या गम्यते। ते मतशब्देनोच्यन्ते। एवं चानिष्यमाणे गन्धादिषु मताख्येत्यनिष्यमाणे। दृष्टादिभाववाह्यत्वात्। गन्धादीनामरूपलक्षणत्वेन दृष्टभाववाह्यत्वाद् अशब्दधर्मायतनलक्षणत्वेन च श्रुतविज्ञातभाववाह्यत्वात्। गन्धादिषु व्यवहारो न स्यात्। दृष्ट इति वा यावद्विज्ञात इति वेत्येषा युक्तिः। तेषु मताख्येति। आचार्य आह। सूत्रं तावदिति विस्तरः। अन्यार्थत्वादिति यस्मात् सूत्रस्यान्य एवार्थः। सूत्रार्थ व्रवीति। अत्र च तव षड्विघे विषये रूपादौ। चतुर्षु दृष्टादिव्यवहारेषु दृष्ट श्रुत मत विज्ञात व्यवहारेषु। दृष्टादिव्यवहारमात्रं भविष्यतीति। रूपे दृष्टमिति व्यवहारो भविष्यति। यावद्विज्ञातमिति। एवं शब्दादिषु अत्र च ते मालकीमातर्दृष्टे विषयषट्के दृष्टमात्रं भविष्यति। श्रुते विषयषट्के मते विज्ञाते विषयषट्के एवं विज्ञातमात्रमित्येवं तत् सूत्रपद व्याख्यायत इत्यभिप्रायः। न हि प्रिया प्रियनिमित्ताध्यारोपस्तव भविष्यतीति सूत्रार्थः। ननु च यानि त्वया चक्षुषा रूपाणि न दृष्टानीत्येवोक्तानि। न तु न श्रुतानि यावन्न विज्ञातानीत्येवोक्तानि। एवं शब्दा न श्रुता इत्येवोक्ताः। न तु न दृष्टा यावन्न विज्ञाता इत्युक्ताः। एवं यावद्धर्मा न विज्ञाता इत्येवोक्ताः। न तु न दृष्टा यावन्न स्पृष्टा इति। नैष दोषः। उदाहरणरूपमेतदुक्तं भगवता। यथाहि रूपाणि न दृष्टानीत्युक्तानि तथा न श्रुतानि यावन्न विज्ञातानीति वक्तव्यानि। एवं शब्दादिषु वक्तव्यम्। तेनैव लक्षणमुच्यते। यत् पञ्चभिरिन्द्रयैरिति विस्तरः। यत् पञ्चभिरिन्द्रियैः प्रत्यक्षं रूपादि तद्दृष्टम्। यत् परत आगमितं विषयषट्कमपि तच्छतम्। यद् युक्तनुमानतो रूचितमभिप्रेतं तन्मतम्। युक्तनुमानमित्यव्यभिचार्यनुमानम्। तच्च षडिषयगोचरम्। षष्ठोऽन्यत्र दृष्टादिति। षष्ठो विषयो धर्माः। स दृष्टव्यवहार वर्जयित्वा त्रिभिः श्रुतादिभिर्व्यवहारैर्व्यवह्रियते। अतो नास्ति गन्धादिषु व्यवहाराभावप्रसङ्गः। तस्माद् युक्तिरप्येषा न युक्तिर्भवति। या वैभाषिकैरूक्ता। एवं चानिष्यमाण इत्येवमादिका। यस्मादन्यथापि गन्धादिषु व्यवहारो भवतीति।

यत् प्रत्यक्षीकृतं चक्षुषेति। न पञ्चभिरिन्द्रियैः। यच्छोत्रेण श्रुत परतश्चागमितमिति उभयमप्यभीष्टम्। प्रत्यात्मं प्रतिसंवेदितम्। सुखाद्यसमाहितेन चित्तेन। अधिगतन्तु समाहितेन। लौकिकेनैव न लोकोत्तरेण। लौकिकं व्यवहाराधिकारात्। तदेव योगाचारनयेनापि षडप्येते विषयाः प्रत्येकं यथासम्भव दृष्टा इति वा व्यवह्रियन्ते। श्रुता मता विज्ञाता इत्येवेत्यतो नास्ति गन्धादिषु व्यवहाराभावप्रसङ्ग इति।

यः कायेनान्यथेति। कायसंज्ञया योऽर्थ गमयति। तस्यापि मृषावादः। पराक्रमेत व्यायच्छेत। वाचा पराक्रमेतेति। वाचा परं मरयेदित्यर्थः। इह तु प्राणातिपातस्य कायिकत्वात् कायिक्येवाविज्ञप्तिर्मौल संगृहीता। न वाचिकी। नाप्यत्र कायिकी विज्ञप्तिः स्यात्। कायेन पराक्रमे तेति अत्र मृषावादस्य वाचिकत्वात् वाचिक्येवाविज्ञप्तिर्मौलसंगृहीतेत्यवगन्तव्यम्। उभयावद्येन वेति। कायवागवद्येन। ऋषीणां मनः प्रदोषेण कायावद्येन योगो भवति। पोषधनिदर्शनं चात्नेति। वागवद्येन योगो भवति। भिक्षुपोषधे हि कच्चित्थ परिशुद्धा इति विनयधरेणानुश्राविते यदि कश्चिद् भिक्षुः सतीमापत्ति नाविष्कुर्यात्। तूष्णीम्भावेनैवाधिवासयेत् स मृषावादी भवेदिति। कथं तयोः कर्मपथः सिध्यतीति। कथं तयोरृषिभिक्षोः कायवाग्भ्यामपराक्रममाणयोः प्राणतिपातो मृषावादश्च यथाक्रमं कर्मपथः सिध्यतीति। कर्तव्योऽत्र यत्नः। वैभाषिकैः कर्तव्यः समाधिरित्यर्थः। अत्राचार्यसंघभद्रः समाधिमाह। ऋषयोऽर्थत आज्ञापयितारो भवन्ति तेषां हि सत्त्वपरित्यागप्रवृत्तं पापाशयमवेत्यामनुष्यास्तदभिप्रसन्नाः कायेन पराक्रमन्ते। येन तेषामृषीणां कर्मपथ उत्पद्यते। कथम्। परविज्ञप्त्येति। अवश्यं तथाविधस्य कायवाग्विकारा भवन्ति। अपि च शपन्ति ते तथा। तत्र चावश्यं कायवाक् चेष्टया भवितव्यम्। अन्ये त्वाहुः। न कामधाताववश्यमविज्ञप्तिः सर्वैव विज्ञप्तयधीना भवति। फ़लप्राप्तैयव सहपञ्चकादीनां प्रातिमोक्षसंवरोत्पत्ति सम्भवात्। इत्यकुशलाप्येवंजातीया काचिद्विज्ञप्तिमतरेणापि स्यात्। पूर्वविज्ञप्तं तैरिति अवश्यमितरत्रापि भविष्यति। ऋषीणां तावदुक्तं पोषधमृषावादेऽपि। यदपरिशुद्धः सङ्घमध्यं प्रविशति निषीदति स्वयमीर्यापथ कल्पयति। तत्संबद्धं वा यत्किञ्चित् भाषते। सास्य पूर्वविज्ञप्तिरिति।

[ पैशुन्यं क्लिष्टचित्तस्य वचनं परभेदने।
पारूष्यमप्रियं सर्वं क्लिष्टसंभिन्नलापिता।। ७६।।
अतोऽन्यत्क्लिष्टमित्यन्ये लपनागीतनाट्यवत्।
कुशास्त्रवच्चाभिध्या तु परस्वविषमस्पृहा । ७७।।
व्यापादः सत्त्वविद्वेषो नास्तिदृष्टिः शुभाशुभे।
मिथ्यादृष्टिस्त्रयो ह्यत्र पन्थानः सप्त कर्म च।। ७८।।

सर्व क्लिष्टं वचनं संभिन्नप्रलाप इति। मृषावादादि त्रयमपि। न केवलमन्यक्लिष्टम्। सैव च संभिन्नप्रलापितेति। यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेशस्तस्य तदभिधाने त्वतलाविति। तत्प्रत्ययेन क्लिष्टवचनलक्षणः संभिन्नप्रलाप उच्यते। तद्योगेन हि संभिन्नप्रलापयोगेन हि। स पुद्गलः संभिन्नप्रलापी भवति।

मृषावादादित्रयात् यदन्यक्लिष्टं वचनं स संभिन्नप्रलाप इत्युक्तोदाहरणं दर्शयन्नाह। लपनागीतनाट्यवत् कुशास्त्रवच्चेति। लपनां करोतीति। लाभ यश स्कामतया सेवाभिद्योतिकां वाच निश्चारयतीत्यर्थः। परिदेवसंगणिकादिकमिति। आदिशब्देन परिदेवसंगणिकाभ्यां योऽन्यः क्लिष्टचित्तानां कश्चिदालापः।

आवाहविवाहाद्यभिलापसद्भावादिति। आवाहो दारिकाया दारकगृहगनम्। विवाहो दारकस्य दारिकागृहागमनम्। आवाहः प्रवेशनकः। विवाहः परिणयनमित्यपरे। आदिशब्देन रक्तचित्तानामालापः।

विषमेणान्यायेनेति उद्देशनिर्देशरूपौ पर्यायौ। तथाहीति विस्तरः। यस्मात् पञ्चानां निवरणानामधिकारेण। कामच्छन्दं कामतृष्णा स्वभावमधिकृत्योक्तम्। सोऽभिध्यां लोके प्रहाय विगताभिध्येन चेतसा बहुलं विहरति। व्यापाद स्त्यानमिद्धमौद्धत्यकौकृत्य विचिकित्सां लोके प्रहाय तीर्णकाङ्क्षो भवति। तीर्णविचिकित्सः। अकथकथी कुशलेषु धर्मेषु। स पञ्चनिवरणानि प्रहायेत्येवमादि। अतो ज्ञायते सर्वैव कामावचरी तृष्णाभिध्येति।

औदारिकदुश्चरितसंग्रहादिति। दशस्वकुशलेषु कर्मपथेषु यदौदारिकं दुश्चरितं तत् संगृहीतम्। न सर्वम् एवं कुशलेषु। अतो न सर्वाभिध्या कर्मपथः। किं तर्हि। या परस्वे विषमस्पृहा सा कर्मपथ इत्यपरेषामभिप्रायः। मा भूच्चक्रवर्तिनामुत्तरकौरवाणां चाभिध्या कर्मपथ इति। न हि तत्र कामावचरी तृष्णा नास्ति। न च तत्राकुशलाः कर्मपथा इष्यन्ते।

सैषा साकल्येन कर्मफ़लार्यापवादिकेति। तथा ह्येषा पठ्यते। नास्ति दत्तं नास्तीष्टं नास्ति पूतं नास्ति सुचरितं नास्ति दुश्चरित नास्ति सुचरितदुश्चरितानां कर्मणां फ़लविपाकः। नास्त्यय लोकः। नास्ति परलोकः। नास्ति माता। नास्ति पिता। नास्ति सत्त्व उपपादुकः। न सन्ति लोकेऽर्हन्त इति। तत्र नास्ति दत्त यावन्नास्ति दुश्चरितमिति कर्मापवादिका। तथा नास्ति माता नास्ति पितेति कर्मापवादिकैव। नास्ति सुचरितदुश्चरितानां कर्मणां फ़लविपाकः। नास्त्ययं लोकः। नास्ति परलोकः। तथा नास्ति सत्त्व उपपादुक इति फ़लापवादिका। न सन्ति लोकेऽर्हन्त इत्यार्यापवादिका। आदिमात्रं तु श्र्लोके दर्शितमिति। नास्ति दृष्टिः शुभाशुभ इति उदाहरणमात्रत्वात्।

कर्मणः पन्थान इति। चेतनाख्यस्य कर्मणः पन्थानः। कथमित्याह तत्संप्रयोगिणी हि चेतना। अभिध्यादिसंप्रयोगिणी तेषामभिध्यादीनां वाहेन गत्या वहति गच्छतीत्यर्थः। तद्वशेन तथाभिसंस्करणात्। यस्मादभिध्यादीनां यथाक्रमं सक्तिप्रतिकूलमिथ्यानितीरणाकाराणां वशेन। तदनुरूपा चेतनाभिसंस्करोति। चेतयत इत्यर्थः। अतस्तेषां वाहेन वहति। कर्म च। कायवाक्कर्मस्वभावत्वात्। कर्मणश्च चेतनाख्यस्य पन्थान इति कर्मपथाः। तत्समुत्थान चेतनायाः कायवाक्कर्मसमुत्थान चेतनायाः। तानधिष्ठाय तान् प्राणातिपातादीनधिष्ठाय प्रवृत्तेः। असरूपाणामप्येकशेषसिद्धेरिति। शब्दसरूपाणामर्थसरूपाणां वा एकशेष इष्यते। यथा वृक्षश्च वृक्षश्च वृक्षौ। वकश्च कुटिश्च वक्राविति। इह तु कर्म च कर्मपथाश्चेति न कर्मशब्दस्य कर्मपथशब्दस्य च सारूप्यं शब्दतो नाप्यर्थतः। कर्मार्थस्य कर्मपथार्थस्य च भिन्नत्वादेकशेषो न प्राप्नोति। यस्मात्त्वसरूपाणां साकल्ये नैकदेशेन तु सरूपाणामेकशेषः सिध्यति। इष्यत इत्यर्थः। तद् यथागुणो यङ्लुकोरिति। यङ् च यङ्लुक यङ्लुकौ। तयोरिति। न शक्यते वक्तुम्। यङ् च लुक् च यङ्लुकौ इति अयं लुकोऽनिष्टत्वात्। एकदेशसारूप्यात् तु। यङो यङ्लुगेकदेशस्य च यङ् इति सारूप्यात् सिध्यत्येकशेषो यङ्लुकोरिति। अतो ज्ञापकात् अयमपि सिध्यति। कर्म च कर्मपथाश्च कर्मपथा इति। पश्चात् पुनः सरूपैकशेषः। कर्मपथाश्चाभिध्यादयः कर्मपथाश्च प्राणातिपातादय इति कर्मपथाः। अथवैव योजना। कर्मणः पन्थानः कर्मपथाः। कर्म च ते कर्मपथाश्च कर्मकर्मपथाः। कर्मपथाश्चाभिध्यादयः। कर्मकर्मपथाश्च प्राणातिपातादयः। कर्मपथा इति। एवमनभिध्यादय इति विस्तरः। कुशला अपि कर्मपथा एवमेव योज्याः। अनभिध्यादयो हि कर्मणः पन्थाव एव। प्राणातिपातविरत्यादयश्च कर्म च कर्मणश्च पन्थान इति।

यस्मात्तदर्थ इति विस्तरः। यस्मान्मौलकर्मपथार्थ तेषां तत्प्रयोगाणां प्रवृत्तिः। यस्माच्च मौलकर्मपथमूलिका तेषां तत्पृष्ठानां प्रवृत्तिः। अतो न तानि कर्मपथाः। यद्यपि कर्मपथोऽपि कर्मपथस्य प्रयोग उक्तः। स तु मौलत्वात् कर्मपथो न तु प्रयोगपृष्ठभूतत्वादिति। यथौदारिकसंग्रहादित्युक्तं प्रागिति। तदोदारिकसंग्रहाद्दश कर्मपथा उक्ता इति वचनात्। यानि प्रयोगपृष्ठानि तानि न संगृहीतानि। येषां चेति विस्तरः। येषां मौलानामुकर्षापकर्षेणाध्यात्मिकबाह्यानां भावानामुत्कर्षापकर्षो लोके भवतः। न तु प्रयोगपृष्ठानाम्। अतस्त एव कर्मपथाः। तेषां चोत्कर्षापकर्षेण तदुत्कर्षापकर्ष वक्ष्यति। सर्वेऽधिपतिनिष्यन्दविपाकफ़लदा मताः इत्यत्र। अतो न तानि प्रयोगपृष्ठानि कर्मपथाः।

तेषां ते कथं कर्मपथा इति। न हि तेषामभिध्यादिभ्योन्यत् मनस्कर्मास्ति चेतना। यस्य कर्मणस्तेऽभिध्यादयः पन्थान इति कर्मपथाः स्युः। त एवं प्रष्टव्या इति। तैरेव परिहारो वक्तव्यो य एवं मन्यन्ते। अपि तु शक्यमिति विस्तरः। स्वमतेन तत्पक्ष समर्थयति। इतरेतरावाहनाद्वेति। किम्। तेऽभिध्यादयः कर्मपथा इति प्रहृतम्। अभिध्या व्यापादमिथ्यादृष्टी आवाहयति। ते च तामिति। कर्म च ते। कर्मणश्चैषामेकतरस्य पन्थान इति कर्मपथाः।

मूलच्छेदश्छेद-दृष्ट्या कामप्तोत्पत्तिलाभिकः।
फ़लहेतूपवादिन्या सर्वया क्रमशो नृषु।। ७९।।
छिनत्ति स्त्री पुमान् दृष्टिचरितः सोऽसमन्वयः।
सन्धिः कांक्षास्तिदृष्टेः स्यान्नेहानन्तर्यकारिणः।। ८०।।

मिथ्यादृष्ट्या कुशलमूलसमुच्छेद इत्येतमर्थ वक्तुकाम उपोद्घातं व्रवीति। सर्व एतेऽकुशलानामिति विस्तरः। अधिमात्रपरिपूर्णयेति। अधिमात्राधिमात्रयेत्यर्थः। किन्तर्हि शास्त्र उक्तमिति। यदि मिथ्यादृष्टया कुशलमूलसमुच्छेदो नाकुशलमूलैः। यत्तच्छास्त्र उक्तम्। यैरकुशलमूलैः कुशलमूलानि समुच्छिनत्तीत्यादि। तानि हि लोभादिस्वभावानि। न मिथ्यादृष्टिस्वभावानीत्यर्थ। अकुशलमूलाध्याहृतत्वादिति विस्तरः। अकुशलमूलैर्लोभादिभिरधिमात्रैर्मिथ्यादृष्टिरध्याहृतापनीता। तस्मात्। अकुशलमूलाध्याहृतत्वात् मिथ्यादृष्टेः। तेष्वेव तत्कर्मोपदेशः। तेष्वेवाकुशलमूलेषु। मिथ्यादृष्टेः कुशलमूलसमुच्छेदकं यत् कर्म तस्योपदेशः।

प्रज्ञप्तिभाष्यं तर्हि कथं नीयते। यदि कामावचराणि कुशलमूलानि समुच्छिद्यन्ते। रूपारूप्यावचरैरसमन्वागतत्वादिति वर्ण्यते। तत्प्राप्तिदूरीकरणमिति। रूपारूप्यावचराणां प्राप्तेर्दूरीकरणमभिप्रेत्य तस्य पुद्गलस्य। एतदुक्तं त्रैधातुकानि कुशलमूलानि समुच्छिन्नानीति। कथं च पुनस्तत्प्राप्तिदूरीकरणम्। सन्ततेस्तदभाजनत्वापादनात्। यस्मादसौ तत्सन्ततिः पूर्व भाजनभूता तत्प्राप्तीनाम्। कुशलमूलसमुच्छेदादिदानीं तत्प्राप्तीनामभाजनमापादितेति। अतस्तत्प्राप्तिर्दूरीकृता भवति।

प्रायोगिकेभ्यः पूर्वं परिहीणत्वादिति। श्रुतचिन्ताभावनामयेभ्यः प्रायोगिकेभ्यः पूर्वमेवासो मृदुमृद्ववस्थायां तेभ्यः परिहीणः। तदैव तस्य प्राप्तिच्छेद इत्यर्थः।

आनन्तर्यविमुक्तिमार्गस्थानीये इति। हेत्वपवादिनी आनन्तर्यमार्गस्थानीया। फ़लापवादिनी विमुक्तिमार्गस्थानीया। तदुक्तं भवति। उमे अपि एते हेतुफ़लापवादिन्यौ मिथ्यादृष्टी कुशलमूलसमुच्छेदे व्याप्रियेते। नैकैवेति।

अपरः पक्षः सास्रवालम्बनयैवेति। दुःखसमुदयालम्बनया नानास्त्रवालम्बनयानिरोधमार्गालम्बनया इत्यर्थः। सभागधात्वालम्बनयैव चेति। कामधात्वालम्बनत्यैवेत्यर्थः। न विसभागधात्वालम्बनया न रूपारूप्यधात्वालम्बनया। कुशलमूलानि समुच्छिद्यन्त इत्यधिकृत कस्मादित्याह। संप्रयोगमात्रानुशायित्वेन दुर्बलत्वादिति। अनास्रवालम्बना विसभागधात्वालम्बना च या मिथ्यादृष्टिः सा संप्रयोगमात्रेण संप्रयुक्तेषु धर्मेष्वनुशेते नालम्बनतः। तस्मादसौ दुर्बला भवत्यतो न तया समुच्छिद्यन्ते।

एवं तु वर्णयन्ति वैभाषिकाः। सर्वयेति। या च हेतुमपवदते या च फ़लम्। या च सभाग धातुमालम्बते या च विसभागम्। या च सास्रव या चानास्रवमालम्बते। सर्वयैव तया समुच्छिद्यन्ते ।

दर्शनप्रहातव्या। इवेति। यथा दुःखादिदर्शनहेयाः क्लेशा नवप्रकारा अपि दुःखादिसत्यदर्शनात् सकृत् प्रहीयन्ते तद्वन्नप्रकाराण्यपि कुशलमूलानि सकृत् समुच्छिद्यन्त इत्येके।

भावनाहेतक्लेशवदिति। यथा नवप्रकारेण मार्गेण नवप्रकारः क्लेशः प्रहीयते। यावदधिमात्राधिमात्रेण मृदुमृदुः। एवं नवप्रकारयापि मिथ्यादृष्टया नवप्रकाराणि कुशलमूलानि समुच्छिद्यन्ते। मृदुमृव्द्या मिथ्यादृष्ट्या अधिमात्राधिमात्रः कुशल मूलप्रकारः समुच्छिद्यते। यावदधिमात्राधिमात्रया मृदुमृदुः कुशलमूल प्रकार इति। एवमयं ग्रन्थः परिपालितो भवति। यदि भावनाहेयक्लेशवद् यथोक्तं तानि समुच्छिद्यन्ते। अणु सहगतानि। मृदुमृदूनि यैरकुशलमूलैः कुशलमूलानि समुच्छिनत्तीति। अधिमात्राधिमात्रैरकुशलमूलैः कुशलमूलसमुच्छेद उक्तः। न मृदुमृद्वाद्भिरित्यभिप्रायः। यदि क्रमशः समुच्छिद्यन्तेऽस्य तर्हीत्यादि। कथम्। समाप्तिमेतत् सन्धायोक्तमिति। कुशलमूलसमुच्छेदसमाप्ति सन्धाय कतमानि अधिमात्राणिति विस्तरेण एतदुक्तम्। मृदुमृद्वादिसमुच्छेदस्त्वनुक्तोऽपि ग्रहीतव्यः। तस्मात् समाप्तिमेव सन्धायैतदुक्तम्। तैर्निरवशेषच्छेदात्। यस्मात्तैर्नवभिर्मिथ्यादृष्टिप्रकारैः कुशलमूलानां निरवशेषच्छेदो भवति। एकोऽपि हि प्रकारस्तेषामसमुच्छिन्न इति। मृदुमृदुनवमः प्रकारः सर्वेषां नवानामपि प्रकाराणां पुनरूट्पत्तौ हेतुः स्यादिति। अतः समाप्तिमेतत् सन्धायोक्तम्।

उभयेनेति। व्युत्थानेन चाव्युत्थानेन च। तत्त्यागात्तस्य त्याग इति। यो मृदुमृदुना चित्तेन संवरः समात्त आसीत्। तस्य मृदुमृदोश्च्त्तस्य मृदुमृदुकुशलमूलसंप्रयुक्तस्य त्यागे समुच्छेदे तस्य संवरस्य त्यागो भ्वति। एवं यावद् योऽधिमात्राधिमात्रेण चित्तेन समात्तः संवरः। तत्त्यागात्तस्य त्याग इति।

कर्मफ़ाले प्रत्यक्षत्वादिति। अचिरोपपन्नस्य देवपुत्रस त्रीणि चित्तानि समुदाचरन्ति। कुतोऽहं च्युतः कुत्रोपपन्नः केन कर्मणेत्येवंकर्मफ़लप्रत्यक्षत्वान्न देवेषु कुशलमूलानि समुच्छिद्यन्ते। जम्बुद्वीप एवेति। तत्र विशेषेण तार्किकत्वादित्यभिप्रायः। सर्वाल्पैरष्टाभिरिन्द्रियैः समन्वागतः पञ्चभिर्वेदनेन्द्रियैः कायजीवितमन इन्द्रियैश्च। समुच्छिन्नकुशलमूल एव। तस्य हि श्रद्धादीनि समुच्छिन्नानि। पृथग्जनत्वाच्च नाज्ञास्यामीन्द्रियाणि सन्ति। चक्षुरादीन्यपि न सन्ति। वैकल्ययोगे। क्रममरणावस्थायां वा। एवं पौर्वविदेहको गौदानीयक इति। अतिदेशादस्त्यनयोरपि कुशलमूलसमुच्छेद इति दर्शयति।

छिनत्ति स्त्री पुमानिति। स्त्री पुमांश्चेति। च शब्दो लुपनिर्दिष्टः। यः स्त्रीन्द्रियेण समन्वागतो नियतमसावष्टाभिरिन्द्रियैः समन्वागतः। चतुर्भिर्वेदनेन्द्रियैः त्रिभिश्च कायजीवितमन इन्द्रियैः स्त्रीन्द्रियेणाष्टामेन। श्रद्धादीनि समुच्छिन्नकुशलमूलावस्थायां व्यभिचार्यन्त इत्यभिप्रायः। अयमेव चात्रार्थो विरूध्यते। चक्षुरादीन्यपि व्यभिचार्यन्ते पूर्ववत्।

तेषामपीति। तेषामपि समुच्छैत्तॄणामुक्तानां तृष्णाचरितो न समुच्छिनत्ति। दृदगूदपापाशयत्वादिति। दृदो गूदः पापश्चाशयोऽभिप्रायोऽस्येति समासः। दृदः स्थिरः। गूदः प्रच्छन्नः। पापोऽकल्याणः। तृष्णाचरितपक्षत्वादिति। तृष्णाचरितजातीयत्वादित्यर्थः। यथा तृष्णाचरितश्चलाशयः। तद्वत्ते शण्ठादय इति। आपायिकवच्च। यथापायिकाः क्लिष्टाक्लिष्टयोः प्रज्ञयोरदृदत्वात् न कुशलमूलानि समुच्छिन्दन्ति। एवं शण्ठादयः ।

प्रतिसन्धितानीति। प्रतिसन्धिकृतानि प्रतिसन्धितानि। प्रातिपदिकधातुः। प्रतिसंहितानीत्यपरे पठन्ति। आरोग्यबल लाभवदिति। यथाऽरोग्यं पूर्वं भवति। क्रमेणैव तु बल लाभो भवति तद्वत्।

नेहानन्तर्यकारिण इति। आनन्तर्यकारिण एव नेह प्रतिसन्धिर्भवति इति। अर्थत एतदुक्त भवति अनानन्तर्यकारिण इह प्रतिसन्धिर्भवति इति। अन्तराभवस्थ इति। नरकगमनायान्तराभवस्थः। च्युत्यभिमुख इति। नरकात् च्युत्यभिमुखः। हेतुबलेनेति। सभागहेतुबलेन। यस्माद् येषां मिथ्यादृष्टिः स्वयं रोचते। प्रत्ययबलेनेति। परतो घोषबलेन। यस्माद् येषां मिथ्यादृश्टिः स्वयं रोचते। प्रत्ययबलेनेति। परतो घोषबलेन। यस्माद् येषां मिथ्यादृष्टी स्वयं रोचते। प्रत्ययबलेनेति। परतो घोषबलेन। यस्माद् येषां मिथ्यादृष्टी रोचते। हेतुबलस्य सारत्वात्। एवं यः सबलेनेति। यः स्वतर्कबलेन। स च्यवमानः। यः परबलेन। परतः श्रुतबलेन। स उपपद्यमानः। य आशयविपन्न इति। मिथ्यादृष्टिसम्मुखीभावेन विपन्नो विनष्टः। स दृष्टे धर्मे जन्मनि प्रतिसन्दधाति। य आशयप्रयोगविपन्नः। यो मिथ्यादृष्ठिसंमुखीभावेनानन्तर्यक्रियया च विपन्नः। स भेदात् कायस्य प्रतिसन्दधाति। अत्र च य स्वबलेन परबलेनेति पूर्वोक्तस्यैवायं पर्यायः। एवं यो दृष्टिविपन्नो यो दृष्टिशीलविपन्न इति। अनन्तरपूर्वोक्तस्यैवायं पर्यायः। एवं यो दृष्टिविपन्नो यो दृष्टिशीलविपन्न इति। अनन्तरपूर्वोक्तस्यैवायं पर्याय इत्यवगन्तव्यम्।

पूरणादय इति। आदिशब्देन षट्शास्तारो गृह्यन्ते। तद् यथा पूरणकाश्यपः। मस्करी गोशालीपुत्रः। सञ्जयी वैरटी पुत्रः। अजितः केशकम्बलः। ककुदः कात्यायनः। निग्रन्थो ज्ञातिपुत्र इति। ते समुच्छिन्नकुशलमूलाः। नास्तिकत्वात्। न मिथ्यात्वनियताः। अनानन्तर्यकारित्वात्। आनन्तर्यकारिणो हि मिथ्यात्वनियताः। अजातशत्रुस्तु मिथ्यात्वनियतः। आनन्तर्यकारित्वात्। न समुच्छिन्नकुशलमूलः। सम्यग्दृष्टिकत्वात्। देवदत्तः समुच्छिन्नकुशलमूलश्च मिथ्यात्वनियतश्च। संघभेदकत्वात्तथागतदुष्टचित्तरूधिरोत्पादकत्वाच्च। चतुर्थ्येतानाकारान् स्थापयित्वेति अस्मदादयः।

युगपद् यावदष्टाभिरशुभैः सह वर्तते।
चेतना दशभिर्यावच्छुभैर्नैकाष्टपञ्चभिः।। ८१।।

विनान्येनाभिध्यादिसंमुखीभाव इति। विनान्येन कर्मपथेन प्राणातिपातादिनाऽभिध्यादीनामन्यतमसंमुखीभावे। सा चेतना एकेन कर्मपथेन सह वर्तते। अभिध्यया वा व्यापादेन वा मिथ्यादृष्टया वा। अक्लिष्ट चेतसो वेति। कुशला व्याकृतचित्तस्य। तस्य प्रयोक्तः प्रयोगेण। रूपिणां प्राणातिपातादीनां काममिथ्याचारवर्ज्यानामन्यतमस्य निष्ठापने। तेनैकेन सह चेतना वर्तते। अभिध्यादिव्यतिरिक्तक्लिष्टचित्तस्य वेति वक्तव्यम्। तस्यापि ह्ययं विधिः संभवति। व्यापन्नचित्तस्य प्राणिवध इति विस्तरः। व्यापादेन प्राणातिपातेन चेति द्वाभ्यां सह वर्तते। काममिथ्याचारे। संभिन्नप्रलापे च। द्वाभ्यां सह वर्तते । अभिध्यया काममिथ्याचारेण चेति द्वाभ्याम्। संभिन्नप्रलापेनाभिध्यादीनां चान्यतमेन चेति। द्वाभ्यामेव। इदं चोद्यते। व्यापन्नचित्तस्य प्राणिवध इत्यभिध्याविष्टस्य चादत्तादान इति। किमिदं स्वयं कुर्वत उच्यते। उताहो परेण कारयतः। यदि स्वयं कुर्वतः। व्यापन्नचित्तस्याभिध्याविष्टस्य चेति विशेषणं न युज्यते। प्राणिवधे व्यापादस्यावश्यकत्वात्। अदत्तादाने चाभिध्यायाः। व्यभिचारे हि विशेषणमिष्यते। अथ परेण कारयतः। अभिध्याव्यापादमिथ्यादृष्ट्यन्यतमचित्तस्य। प्राणिवधे। अदत्तादानकाममिथ्याचारसंभिन्नप्रलापेषु वेति वक्तव्यम्। उच्यते स्वयं कुर्वत इति। ननु चोक्तं विशेषणं न युज्यत इति। नैष दोषः। न हीदं विशेषणमुच्यते। किं तर्हि। स्वरूपाख्यानमेतत्। व्यापादाभिध्ययोर्द्वितीयभूतयोस्तत्रास्तित्व कम्यत इति। एवमप्यभिध्याद्यन्यतरचित्तस्य तान् प्राणातिपातादीन् कारयतो द्वाभ्यां सह चेतना वर्तत इति संभवेत्। तस्मात्तदपि वक्तव्यम्। सत्यं वक्तव्यमेतत्। उदाहरणमात्रं त्वेतदुक्तमित्यदोषः। व्यापन्नचित्तस्य प्राणिमारणापहरणे युगपदिति। यत्र मारणेनैवापहरणं सिध्यति तत्र हि व्यापादप्राणिवधादत्तादानकर्मपथा युगपद्भवन्तीति। न तर्हीति विस्तरः। यदि परकीयद्रव्यापहरणकाले व्यापादो भवति। न तर्हीदानीमदत्तादानस्य लोमेनैव निष्ठा सिध्यतीति। लोभद्वेषयोर्युगपदभावात्। अनन्यचित्तस्येति विस्तरः। अपहरणचित्तस्यैव तत्परिसमाप्तावदत्तादानपरिसमाप्तौ स नियमो ज्ञेयः। लोभतः परस्त्रीगमनाभिध्यादत्तादानसमापनमिति। अन्यचित्तस्य तु मारणचित्तस्य नायं नियमः। भेदाभिप्रायस्यानृतवचन इति। भेदाभिप्रायत्वात्तदेवानृतं पैशुन्यं भवति। तदेव संभिन्नप्रलापः। सर्व क्लिष्ट संभिन्नप्रलापितेति सिद्धान्तात्। एवं भेदाभिप्रायत्वात्तदेव परूषवचनं पैशुन्यं तथैव च संभिन्नप्रलाप इति। चतुर्भिः सह वर्तते। कथमित्याह। तत्र हि मानस एको भवति। वाचिकास्त्रय इति। अनृतवचनेऽभिध्याव्यापादो वा भवेत्। वाचिकास्त्रयः। मृषावादपैशुन्यसम्भिन्नप्रलापाः। परूषवचनेऽपि मानस एको व्यापादः। वाचिकास्त्रयः। पारूष्यपैशुन्यसंभिन्नप्रलापाः। नामत एवं त्रयो भवन्ति। न तु स्वभावतः। तदेव ह्यनृतवचनं पैशुन्यं संभिन्नप्रलाप इति चोच्यते। न तु त्रयः स्वभावा भवन्ति। एवं परूषवचनमपि त्रिनामकं भवतीति योज्यम्। अपरे पुनर्व्याचक्षते। स्वभावभेदोऽप्यस्तीति। मृषावादपैशुन्यसंभिन्नप्रलापाविज्ञप्तयो हि भिद्यन्ते। तथा पारूष्य पैशुन्य संभिन्न प्रलापाविज्ञप्तयो भिद्यत इति। अभिध्यादिगतस्येति विस्तरः। अभिध्यादिगतस्य वा चतुर्भिः सह वर्तते। तत्र मानस एकोऽभिध्यादीनामन्यतमः। तत्प्रयोगेणाभिध्यादिगतप्रयोगेणायं कर्मपथत्रयस्य प्राणिवधादिकस्य निष्ठागमने समाप्तिकाले। एवं पञ्चषट्सप्तभिर्योजयितव्या। का। चेतना। कथम्। पञ्चभिस्तावत् सह वर्तते। अभिध्यादिगतस्य तत्प्रयोगेणान्यचतुष्टयनिष्ठागमने। एवमभिध्यादिगतस्यान्यपञ्चषट्निष्ठागमने षड्भिः सप्तभिश्च सह वर्तते। अष्टाभिः सह वर्तते। षट्सु प्राणातिपातादिषु प्रयोगं कृत्वा अभिध्यागतस्य स्वयं काममिथ्याचारं कुर्वतः समं निष्ठागमने। नवभिः सह वर्तत इति नास्त्येतत्। मानसानां कर्मपथानां युगपदसम्भवात्।

नैकाष्टपञ्चभिरिति। नैकेनैव मानसेन। कुशले चेतस्यनभिध्याव्यापादयोरवश्यम्भावत्। नापि रूपिणैकेन संवरसंगृहीतेन कर्मपथेन सह चेतना वर्तते। क्लिष्टाव्याकृतचित्तावस्थायामपि उपासकसंवरादिष्ःउ प्राणातिपातादत्तादानकाममिथ्याचारमृषावादानामवश्यं सहभावात्। न पञ्चभिरेव। कुशले चेतस्यनभिध्याव्यापादयोर्द्वयोरवश्य सहभावात्। संवरसंगृहीतानां च प्राणातिपातादीनामेषां चतुर्णामवश्यं सहभावात्। नाष्टाभिरेव भिक्षुसंवरसंगृहीतानां कायिकवाचिकानां क्लिष्टाव्याकृतावस्थायां सप्तानामेव सम्भवात्। कुशलचित्तावस्थायां च नवानाम् दशानां वा सम्भवात्। पारिशेष्याद् व्द्यादिभिः सह वर्तत इत्युक्तं भवति। तत्र द्वाभ्यामिति विस्तरः। तत्र द्वाभ्यां सह वर्तते। कुशलेषु पञ्चसु विज्ञानेष्वनभिध्या चाव्यापादाश्च स्तः न सम्यग्दृष्टिः। पञ्चविज्ञानसहजा धीर्न दृष्टिरतीरणादिति सिद्धान्तात्। अतोऽनभिधाव्यापादाभ्यां द्वाभ्यामेवात्र सह वर्तते। आरूप्यसमापत्तौ च क्षयानुत्पादज्ञानयोरिति। आरूप्यसमापत्तिसंगृहीतयोश्च क्षयानुत्पादज्ञानयोराभ्यामेव द्वाभ्यां सह वर्तते। क्षयानुत्पादधीर्न दृगिति तत्र सम्यग्दृष्टयभावात् । आरूप्यसमापत्तिग्रहणं ध्यानसमापत्तिसंगृहीतयोः क्षयानुत्पादज्ञानयोः सप्तविधकायिकवाचिकानास्रवसंवरस्वभावकर्मपथनिवृत्यर्थम्। क्षयानुत्पादज्ञानग्रहणं सम्यग्दृष्टिनिरासार्थं च। क्षयानुत्पादज्ञानयोरसम्यगृष्टिस्वभावत्वात्। त्रिभिः सह वर्तते। सम्यग्दृष्टिसंप्रयुक्ते मनोविज्ञाने। रूपिकर्मपथाभाव इति वाक्यशेषः। तत्र ह्यनभिध्याव्यापादसम्यग्दृष्टय एव त्रयः कर्मपथा भवन्तीति। चतुर्भिरिति विस्तरः। अकुशलाव्याकृतचित्तस्येति विशेषणान्मानसा न सन्तीति दर्शित भवति। उपासकश्रामणेरसंवरसमादाने च। प्राणातिपातादत्तादानकाममिथ्याचारमृषावादविरतिलक्षणाश्चत्वार एव कर्मपथाः सन्ति। मद्यपानादिविरतीनां दशकर्मपथानन्तर्भावात्। पैशुन्यविरत्यादीनां चोपासकश्रामणेरसंवरासंग्रहात्। श्रामणेरसंवरसमादानवचनात् चोपवाससंवरसमादानमुक्तरूपमवगन्तव्यम्। श्रामणेरसंवरसमादाने त्वब्रह्यचर्याद्विरतिस्तृतीयः कर्मपथः। तत्र च काममिथ्याचारोऽन्तर्भूत एव। षड्भिः कुशलेषु पञ्चसु विज्ञानेषु तत्समादाने। उपासकश्रामणेरसंवरसमादाने तैश्चतुर्भिर्यथोक्तैरनभिध्याव्यापादाभ्यां चेति षड्भिः। पञ्चसु विज्ञानेषु सम्यग्दृष्ट्यभावात्। सप्तभिः कुशले मनोविज्ञाने तत्समादान एव। उपासकश्रामणेरसंवरसमादान एव तैरेव यथोक्तैः सम्यग्दृष्ट्या च सप्तमेन कर्मपथेन। मनोविज्ञाने हि कुशले सम्यग्दृष्टिरस्तीति। अकुशलाव्याकृतचित्तस्य च भिक्ष्ःउसंघरसमादाने सप्तभिरेव रूपिभिः। न मानसैः। अकुशलाव्याकृतचित्तत्वात्। नवभिः कुशलेषु पञ्चसु विज्ञानेषु तत्समादाने। भिक्षुसंवरसमादाने। सम्यग् दृष्टेरेवाभावात्। क्षयानुत्पादज्ञानसंप्रयुक्तेच मनोविज्ञाने तैरेव नवभिः सह वर्तते। तत्रापि सम्यग् दृष्टयभावात्। तस्मिन्नेव चेति। क्षयानुत्पादज्ञानसंप्रयुक्त एव ध्यानसंगृहीते मनोविज्ञाने। नवभिरेव। ध्यानसंवरसंगृहीतै रूपिभिः सप्तभिरनभिध्याव्यापादाभ्यां च। दशाभिस्ततोऽन्यत्रेति। क्षयानुत्पादज्ञानवर्जिते कुशले मनोविज्ञाने भिक्षुसंवरसमादान एव। सर्वा चेति विस्तरः। सर्वा च ध्यनानास्रवसंवरसहवर्तिनी क्षयानुत्पादज्ञानासंप्रयुक्ता चेतना सप्तभिः कायिकवाचिकैर्ध्यानानास्रवसंवरसंगृहीतैः। त्रिभिश्च मानसैरिति। दशभिः सह वर्तते। संवरसंगृहीतैः कर्मपथैः सहैव चेतना वर्तत इति दर्शितम्।

संवरनिर्मुक्तेन तु अष्टविधसंवरनिर्मुक्तेन त्वेकेनापि सह स्यात्। कथमित्याह। अन्यचित्तस्येति। तत्संवरनिर्मुक्तकुशलकर्मपथसमुत्थापकाच्चित्तादन्यचित्तस्य। क्लिष्टाव्याकृतचित्तस्येत्यर्थः। एकाङ्गविरतिसमादाने। प्राणातिपाताङ्गविरतेरदत्तादानविरतेर्वा समादाने। तेनैकेन कर्मपथेन सह वर्तते। पचाष्टाभिरपीति। कुशलमनोविज्ञानस्य पुद्गलस्य द्वङ्गसमादाने युगपन्मानसैस्त्रिभिः। रूपिभ्यां द्वाभ्यामिति पञ्चभिः। पञ्चाङ्गसमादाने युगपत्तैश्च रूपिभिः पञ्चभिः। मानसैश्च त्रिभिरित्यष्टाभिः। उदहरणरूप चैतदुक्तम्। अतोऽन्यथापि शक्यते वक्तुम्। क्लिष्टाव्याकृतचित्तस्य संवरासंगृहीतपञ्चाङ्गसमादाने पञ्चभिः सह वर्तते इति।

संभिन्नालाप पारूष्यव्यापादा नरके द्विधा।
समन्वागमतोऽभिध्यामिथ्यादृष्टी कुरौ त्रयः।। ८२।।
सप्तमः स्वयमप्यत्न कामेऽयत्न दशाशुभाः।
शुभास्त्रयस्तु सर्वत्र सम्मुखीभूलाभतः।। ८३।।
आरूप्यासंज्ञिसत्त्वेषु लाभतः सप्त शेषिते।
सम्मुखीभावतश्चापि हित्वा सनरकान् कुरून्।। ८४।।

रञ्जनीयवस्त्वभावादिति। नरके रञ्जनीय वस्त्वभावात् न सम्मुखीभावतोऽभिध्यास्ति। कर्मफ़लप्रत्यक्षत्वाच्च न मिथ्यादृष्टिः। अत एवेति। प्रयोजनाभावान्न पैशुन्यम्। नित्यभिन्नत्वाच्चान्योन्यसौहार्द्याद्यभावतः। अममपरिग्रहत्वान्न कुरौ सम्मुखीभावतोऽस्त्यभिध्याकर्मपथः। स्निग्धसन्तानत्वादाघातवस्त्वभावाच्च न व्यापादः। अपापाशयत्वाच्च न मिथ्यादृष्टिः। त्रयोऽप्येतेऽभिध्यादयो न सन्ति।

स्वयमपीति अस्य संमुखीभावत इति व्याख्यानम्। अपापाशयत्वान्न प्राणातिपातादयः षडपि सम्मुखीभावतः सन्ति। नियतायुष्कत्वात् न प्राणातिपातः द्रव्यस्त्रीपरिग्रहाभावाद् यथाक्रमं नादत्तादानं काममिथ्याचारश्च। प्रयोजनाभावाच्च न मृषावादपैशुन्यपारूष्याणि।

यदि परिग्रहो नास्ति कथमेषामब्रह्यचर्यमिति पृच्छति। संवरनिर्मुक्ता इति। नैवसंवरनासंवरसंगृहीता इत्यर्थः। अन्यगतिस्थन्तु मारयतीति। प्रेतादिगतिस्थम्।

देवा अपि शिरोमध्यच्छेदान्म्रियन्त इति। शिरश्छेदान्मध्यच्छेदाद्देवा अपि म्रियन्ते। देवो देव न मारयतीत्युक्ते अवध्या देवा इत्यभिप्रेतम्। देवानां ह्यङ्गप्रत्यङ्गानि छिन्नानि पुनर्जायन्ते। यद्यप्येवं तथापि शिरोमथ्यच्छेदाच्छिरश्छेदान्मध्यच्छेदाच्च न पुनः प्रतिसन्धानमित्यस्ति देवानां वध इत्यभिप्रायः।

यद्भूम्याश्रयमिति विस्तरः। पञ्चभूमयो यावच्चतुर्थध्यानभूमिः। यद् भूमिराश्रयोऽस्येति यद्भूम्याश्रयम्। अनास्रवं शीलमार्येणोत्पादितं निरोधितम्। उत्पादितं वर्तमानमध्वानं गमितम्। निरोधितमतीतमध्वानं गमितम्। एकभूम्याश्रय यावच्चतुर्भूम्याश्रय वा। तेनारूप्येष्वतीतेन समन्वागतो भवति। पञ्चभूम्याश्रयेण त्वनागतेन। कामावचराश्रयेण यावच्चतुर्थध्यानाश्रयेण च। यत्रोपपन्नो यत्र वा नोपपन्नस्तदाश्रयेण। अन्यत्र नरकोत्तरकुरूभ्य इति। तत्र समादानशीलाभावात्। अन्यत्रोभयथेति। अन्यत्र कामधातौ देवेषूत्तरकुरूवर्ज्येषु च मनुष्येषु उभयथा। संवरनिर्मुक्ता संवरगृहीताश्च। त्रिविधः संवरः। प्रातिमोक्षसंवरो ध्यानसंवरोऽनास्रवसंवरश्च यथासम्भव ग्रहीतव्यः।

[ सर्वेऽधिपतिनिष्यन्दविपाकफ़लदा मताः।
दुःखनान्मारणादोजोनाशनात् त्रिविधं फ़लम्।। ८५।। ]

आसेवितभावितबहुलीकृतैरिति। प्रयोगमौलपृष्ठावस्थासु। किं तर्हि। तेनाल्पायुर्भवतीति। आयुषोऽल्पत्वात् निष्यन्दफ़लमिति दर्शयति। बाह्या भावाः। अषधिभूम्यादयः। अल्पौजसोऽल्पवीर्याः। अशनिरजोबहुला इति। अशनिः शिलावर्षम्। रजो धूलिवृष्टिः क्षारवृष्टिर्वा। यतः शस्यादिविनाशः। रजोवकीर्णा इति धूलिरूत्थिताः। उत्कुलनिकुलाः। उन्नतनिम्नाः। ऊषरजङ्गलाः। ऊषराश्च जङ्गलाश्च ते। बाह्या भावा इत्यधिकृताः। ता भूमय इहाभिप्रेताः। प्रतिक्रुष्टा विगर्हिताः। विषमर्तुपरिणामा इति। विषम ऋतुपरिणाम एषामिति विषमर्तुपरिणामाः शस्यादय अषधयः। यस्मिन्नृतौ वर्षितव्य तत्र न वर्षति। यस्मिन् शीतेन भवितव्य तस्मिन् न शीतम्। यस्मिन्नुष्णेन भवितव्य तत्र तन्न भवतीति योज्यम्।

तद्विपाकफ़लमिति तत्त्वसन्ताने। इदं निष्यन्दफ़लमिति वाह्य तद्वस्तिति। न तद्विपाकफ़लम्।

तत्र प्रयोगेणेति विस्तरः। नरके प्राणातिपातप्रयोगेण तीव्र दुःखमनुभवति। प्राणातिपातप्रयोगेण हि वध्यस्य प्राणिनोऽतीव तीव्र दुःख भवति। इह मौलेनाल्पायुर्भवति। यथा तस्य वध्यस्य प्राणिन आयुरूपद्रूयत इति। तादृशमेवैतत्। क्षणिको हि मौलः कर्मपथः। तत्र च न दुःखा वेदनाऽस्तीति युक्तैह मौलनेति वक्तुम्। आह। यदि तत्र प्रयोगेणेह मौलेन। कस्मादेवमुक्तम्। प्राणातिपातेनासेवितेन भावितेन बहुलीकृतेन नरकेषूपपद्यते। प्राणातिपातेन मौलेनेति सूत्रार्थ पश्यन्नेव पृच्छति। सपरिवारग्रहणादिति। मौल एव प्राणातिपातः। तस्य प्रयोगः परिवारः। तस्मिन् प्रयोगे प्राणातिपातोपचार कृत्वैवमुक्त प्राणातिपातेनेति विस्तरः।

नैतद्द्वयमतिवर्तते। विपाकफ़लमधिपतिफ़लं चेति। स्वसन्ताने विपाकफ़लमन्यत्राधिपतिफ़लमिति कृत्वा। सादृश्यविशेषात्तु तथोक्तमिति। इष्ट जीवितोपच्छेद भोगव्यसनादिलक्षणात् सादृश्यविशेषात्तु तथोक्तम्। सचेदित्थत्व मागच्छति मनुष्याणां सभागतां प्राणातिपातेनाल्पायुर्भवत्यदत्तादानेन भोगव्यसनी भवतीति विस्तरेण। भवति ह्यत्र हेतुविपाकफ़लयोः सादृश्यमिति। एवं कुशलेष्वपि वक्तव्यम्। निष्यन्दफ़लं फ़लद्वयं नातिवर्तते। सादृश्यविशेषात्तु तथोक्तम्। सचेदित्थत्वं मागच्छति मनुष्याणां सभागतां प्राणातिपातविरत्या दीर्घायुर्भवतीति विस्तरेण।

अजो नाशितमिति। अजो ह्रदयप्रदेशे भवति। एवमन्येषामपि योज्यमिति। अदत्तादानं हि कुर्वता द्रव्यस्वामिनो दुःखमुत्पादितम्। भोगव्यसनं कृतम्। अजो नाशितम्। अतोऽस्य दुःखनाद्भोगत्यजनादोजोनाशनाच्च त्रिविधं फ़लम्। कथमोजो नाशितम्। तद्धेतुनाशनात्। भोगव्यसनेन च तस्योपधातात्। अत एवोक्तम्। अदत्तादानेनाशनिरोजबहुला इति। तेन तदोजसः सपोघातता भवतीति। एवं परदारमभिगच्छता परस्य दुःखमुत्पादितम्। स सपत्नदारता कृता। अजो नाशितम्। येनौजसा तेजस्वीति लोके निरूच्यते। अत एवोक्तम्। काममिथ्याचारेण रजोवकीर्ना इति। एवमन्येषामपि योज्यम् । एषा दिक्।

अकुशलविपर्ययेण सर्वं योजयितव्यमिति। कथम्। अदत्तादानविरत्यासेवितया भावितया बहुलीकृतया देवेषूपपद्यते। सचेदित्थत्वमागच्छति मनुष्याणां सभागतां स न भोगव्यसनी भवतीति। एवं काममिथ्याचारविरत्यासेवितया भावितयेति विस्तरेणोक्ता यावन्मनुष्याणां सभागतां नाभ्याख्यानबहुलो भवतीति अनया दिशा सर्वं योजयैतव्यम्। प्राणातिपातद्विरमता परस्य दुःख नोत्पादितम्। न मारितः। नौजो नाशितमित्यतस्त्रिविधं फ़लम्। एवमदत्तादानात् प्रतिविरमता नार्त्थस्वमिनो दुःखमुत्पादितं न भोगव्यसनं कृतं नौजो नाशितमतोऽस्य त्रिविधं फ़लम्। काममिथ्याचाराद्विरमता न परस्य दुःखमुत्पादितं न स सपत्नदारः कृतो नाप्योजो भ्रंसितम्। अतोऽस्य त्रिविधं फ़लम्। एवमन्यत्रापि योजयितव्यम्।

लोभजं कायवाक्कर्म मिथ्याजीवः पृथक्कृतः।
दुःशोधत्वात् परिष्कारलाभोत्थं चेन्न सूत्रतः।। ८६।।

विविधदृष्टिनेति। कौतुकमङ्गलतिथिमुहूर्तनक्षत्रादिदृष्टिना। परेष्वायत्तवृत्तिनेति। कायस्थितिहेतवश्चीवरपिण्डपातशयनासनादयो भिक्षोः परप्रतिबद्धाः। पिण्डपातं निश्रित्येति वचनात्। तस्य पराधीनवृत्तेर्भिक्षोर्मिथ्या जीवा भवेयुः। कुहना लपना नैमत्तिकता नैष्पेषिता लाभेन लाभनिश्चिकीर्षा च। ते दूशोधा भवन्ति। आजीवयोगा इति।

शीलस्कन्धिकायामिति। शीलस्कन्धिका नाम निपातः। तत्रोक्तम्। यथा त्रिदण्डिन्नेके श्रमणब्रह्यणाः श्रद्धादेयं परिभुज्य विविधदर्शनसमारम्भानुयोगमनुयुक्ता विहरन्ति तद् यथा हस्तियुद्धेऽश्वयुद्धे रथयुद्धे पत्तियुद्धे यष्टियुद्धे मुष्टियुद्धे सारसयुद्धे वृषभयुद्धे महिषयुद्धे अजयुद्धे मेषयुद्धे कुक्कुटयुद्धे वर्तकयुद्धे लोचकयुद्धे स्त्रीयुद्धे पुरूषयुद्धे कुमारयुद्धे कुमारिकायुद्धे इङ्गलवशे उत्सतिकायां ध्वजाग्रे बलाग्रे सेनाव्यूहे अनीकसन्दर्शने महासमाजं वा प्रत्यनुभवन्त्येके। इत्यप्येवंरूपाच्छमणो विविधदर्शनसमारम्भानुयोगात् प्रतिविरतो भवति। यथापि तत्र त्रिदण्डिन् एके श्रमणब्रह्यणाः श्रद्धादेय परिभुज्य विविधशब्दश्रवणसमारम्भानुयोगयुक्ता विह्रन्ति तद् यथा हस्ति शब्दे अशवशब्दे रथशब्दे पत्तिशब्दे शंखशब्दे भेरीशब्दे आडम्बरशब्दे नृत्यशब्दे गीतशब्दे शय्याशब्दे अच्छटशब्दे पाणिस्वरे कुम्भतूणीरे खचिते चित्राक्षरे चित्रपदव्यञ्जने लोकायतप्रतिसंयुक्ते आख्यायिका वा श्रोतुमिच्छन्त्येके। इत्यप्येवंरूपाच्छमरणो विविधशब्दश्रवणसमारम्भानुयोगात् प्रतिविरतो भवतीत्येवमादि। मिथ्याविषयपरिभोगात्। असम्यग्विषयपरिभोगात्।

प्रहाणमार्गे समले सफ़लं कर्म पञ्चभिः।
चतुर्भिरमलेऽन्यच्च सास्रवं यच्छुभाशुभम्।। ८९। ।
अनास्रव पुनः शेष त्रिभिरव्याकृतं च यत्।
चत्वारि द्वे तथा त्रीणि कुशलस्य शुभादयः।। ८८।।

यानि पूर्व पञ्चफ़लान्युक्तानीति। अधिपतिफ़ल पुरूषकारफ़ल निष्यन्दफ़लं विपाकफ़लं विसंयोगफ़लञ्च। प्रहाणार्थं मार्ग इति। भावसाधनम्। प्रहाणाय मार्गः प्रहाणमार्ग इति। प्रहीयतेऽनेनेति करणसाधनं प्रहाणो मार्ग इति च विग्रहः। समाधिजा उत्तरे सदृशा धर्मा इति। समाधिजग्रहणमसमाधिजनिरासार्थम्। सदृश ग्रहणमनास्त्रवाव्याकृतनिरासार्थम्। सहभुव इति। सम्प्रयुक्ताश्च तत्र वेदनादयो विप्रयुक्ताश्च जात्यादयः। यच्चानागतं भाव्यत इति। अनागतो धर्मस्तद्वलेन प्राप्यत इति। तस्य तत् पुरूषकारफ़लम्। अत एव तच्च प्रहाणं पुरूषकारफ़लं व्यवस्थाप्यते। न केवलं विसंयोगफ़लमिति। पूर्वोत्पन्नवर्ज्या इति पूर्वोत्पन्नं फ़लं न युज्यत इति कृत्वा। तथाह्युक्तम् अपूर्वः संस्कृतस्यैव संस्कृतोऽधिपतेः फ़लम् इति। विपाकफ़लं हित्वेति। अनास्रवस्याविपाकत्वात्। तस्य हि निष्यन्दफ़लं समाधिजा उत्तरे सदृशा धर्माः। विसंयोगफ़लं विसंयोग एव यत्तत् प्रहाणम्। पुरूषकारफ़लं तदाकृष्टा धर्माः। तद् यथा विमुक्तिमार्गः। सहभुवः। यच्चानागत भाव्यते। तच्च प्रहाणम् अधिपतिफ़लम्। स्वभावादन्ये सर्वे संस्कृता पूर्वोत्पन्नवर्ज्याः।

यच्छुभाशुभमिति। प्रहाणमार्गाद् यदन्थसास्रवं कर्म समाहितमसमाहितञ्च। तदपि चतुर्भिः फ़लैः सफ़लं विसंयोगफ़लं हित्वा। अप्रहाणमार्गत्वादस्य विसंयोगफ़लं नास्ति। तस्य हि विपाकफ़लं स्वभूमाविष्टोऽनिष्टो वा विपाकः। निष्यन्दफ़लमुत्तरे सदृशा धर्माः। पुरूषकारफ़लं तदाकृष्टाः धर्माः सहभुवोऽनन्तरभुवो वा। अधिपतिफ़लं शेष पूर्ववत्।

अनास्रवं पुनः शेषमिति। शेषग्रहणं प्रहाणमार्गनिरासार्थम्। तत् पुनः कथम्। शेषं प्रयोगविमुक्तिविशेषमार्गेषु। तस्याप्रहानमार्गत्वाद् विसंयोगफ़लं नास्ति। अनास्रवत्वाच्च न विपाकफ़लम्। शेषं पूर्ववत्। अव्याकृतञ्च यन्निवृत्ताव्याकृतमनिवॄत्ताव्याकृतं च तदपि त्रिभिः सफ़लम्। अप्रहाणामार्गत्वान्न तस्य विसंयोगफ़लम्। अव्याकृतत्वाच्च न विपाकफ़लम्। शेष पूर्ववदेवास्ति।

अशुभस्य शुभाद्या द्वे त्रीणि चत्वार्यनुक्रमम्।
अव्याकृतस्य द्वे त्रीणि त्रीणि चैते शुभादयः।। ८९।।

चत्वारि द्वे तथा त्रीणि कुशलस्येति। यथाक्रममेतत्। कथम्। कुशलस्य कुशला धर्माश्चत्वारि फ़लानि। तस्यैवाकुशला द्वे फ़ले। तस्यैवाव्याकृतस्त्रीणि फ़लानीति। विपाकफ़लं हित्वेति। विपाकस्याव्याकृतत्वात्। अकुशला द्वे इति। पुरूषकाराधिपतिफ़ले। न निष्यन्दफ़लम्। यस्मात् कुशला धर्मा अकुशलानां न सभागहेतुरिति। न विपाकफ़लम्। अव्याकृतत्वात् विपाकस्य। यस्माच्चाकुशला विपाकं प्रति व्याक्रियन्ते। न विसंयोगफ़लम्। अकुशलत्वात्। पारिशेष्यात् पुरूषकाराधिपतिफ़ले एव। ते च पूर्ववद्वयाख्यातव्ये। अव्याकृताश्चत्वारीति। कथमकुशलस्याव्याकृता धर्मा निष्यन्दफ़लम्। कथं च न भवितव्यम्। विसदृशत्वात्। विसदृशा ह्यकुशलाव्याकृता धर्माः सविपाकाविपाकत्वात्। नैष दोष। अकुशलनिवृताव्याकृतानां हि धर्माणां क्लिष्टसामान्येनास्ति सादृश्यम्। तस्मादकुशलानां निवृताव्याकृताः निवृताव्याकृतानां चाकुशलाः निष्यन्दफ़लं युज्यन्ते। तेनाह। अव्याकृते हीति विस्तरः। अकुशलानां सर्वत्रगाणां दुःखसमुदयदर्शनप्रहातव्यानाम्। दुःखदर्शनहेयानाञ्च रागादीनाम्। सत्कायान्तग्राहदृष्टी निष्यन्दफ़लम्। सभागसर्वत्रगयोर्निष्यन्दफ़लमिति। अकुशला हीति विस्तरः। अकुशला दुःखादिदर्शनहेयाः पञ्च नैकायिकाः। अव्याकृतयोः सत्कायान्तग्राहदृष्ट्योः निष्यन्दफ़लम्। एतान्येव त्रीणि विपाकविसंयोगफ़ले हित्वा।

सर्वेऽतीतस्य चत्वारि मध्यमस्याप्यनागताः।
मध्यमा द्वे अजातस्य फ़लानि त्रीण्यनागताः।। ९०। ।

अतीतस्य कर्मणस्त्रियध्विका अतीतानागतप्रत्युत्पन्ना धर्माः। प्रत्येकं चत्वारि फ़लानि। विसंयोगफ़लं हित्वा। तस्यानध्वपतितत्वात्। कथं कृत्वा। अतीतस्य कर्मणः पश्चादतीतस्तद्विपाको विपाकफ़लम्। तदाकृष्टाः सहजातीताः पश्चादनन्तरातीता वा पुरूषकारफ़लम्। स्वभाववर्ज्याः तेन सहोत्पन्नाः पश्चादुत्पन्नाश्चातीताः अधिपतिफ़लम्। पश्चादुत्पन्नातीताः सदृशा धर्मा निष्यन्दफ़लम्। अतीतस्यानागतस्तद्विपाको विपाकफ़लम्। यद्वलेन प्राप्यतेऽनागतो धर्मस्तत् पुरूषकारफ़लम्। अधिपतिफ़ल यदनागतं तस्य फ़लम्। निष्यन्दफ़लं तत्सदृशमनागतम्। एवं प्रत्युत्पन्ना अपि तस्यातीतस्य चत्वारि फ़लानि योज्यानि।

मध्यमस्याप्यनागता इति। प्रत्युत्पन्नस्याप्यनागता धर्माश्चत्वारि फ़लानि। एतान्येव विसंयोगफ़लं हित्वेत्यर्थः। तान्यप्येवमेव योज्यानि। प्रत्युत्पन्ना धर्माः प्रत्युत्पन्नस्य द्वे पुरूषकाराधिपतिफ़ले इति। तस्य हि सहोत्पन्नं तद्बलाज्जातमिति पुरूषकारफ़लमधिपतिफ़लं च भवत्येव। अविसंयोगस्वभावान्न विसंयोगफ़लम्। पूर्वोत्तरताभावान्न निष्यदफ़लम्। प्रवाहापेक्षत्वाद्विपाकस्य न वर्तमानं वर्तमानस्य विपाकफ़लम्। निष्यन्दविसंयोगफ़ले हित्वेति। अनागतोऽनागतस्य न निष्यन्दफ़लम्। यस्मात् सभागसर्वत्रगहेतू नानागतौ भवतः। तस्य विप्रकीर्णत्वात्। सादृश्येन चास्येदं फ़लमिति परिछेत्तुमशक्यत्वात्। न विसंयोगफ़लम्। यस्मादनागतो विसंयोगो न भवति। विपाकफ़लं तु भवेदनागतस्य ह्यकुशलस्य कुशलसास्रवस्य वानागतं पश्चादुत्पत्स्यमानञ्च विपाकफ़लम्। पुरूषकारफ़लम्। सहजमनागतमनन्तरभावि चानागतम्। अधिपतिफ़लम् तु सुगममिति न पुनरूच्यते।

स्वभूमिकस्य चत्वारि त्रीणि द्वे चान्यभूमिकाः।
शैक्षस्य त्रीणि शैक्षाद्या अशैक्षस्य तु कर्मणः।। ९१।।
धर्माः शैक्षादिका एक फ़लं त्रीण्यपि च द्वयम्।
ताभ्यामन्यस्य शैक्षाद्या द्वे द्वे पञ्च फ़लानि च।। ९२।।

स्वभूमिका धर्मा न विसंयोगफ़लम्। विसंयोगस्याभूमिस्वभावत्वात्। अनास्रवाश्चेत् त्रीणि फ़लानीति। निष्यन्दफ़लस्य तृतीयस्य सम्भवात्। अन्योन्यं नवभूमिस्तु मार्ग इति हि सिद्धान्तः।

शैक्षस्य कर्मणः शैक्षा धर्मास्त्रीणीति। यस्माद् विपाकफ़लं न शैक्षम्। विसंयोगश्चापि न शैक्षः। नैवशैक्षनाशैक्षा अपि त्रीणि। न विपाकफ़लमस्यस्ति। शैक्षस्याविपाकत्वात्। न निष्यन्दफ़लम्। नैवशैक्षनाशैक्षस्य शैक्षेणासदृशत्वाद्विसंयोगफ़लं तु भवति। विसंयोगस्य नैवशैक्षनाशैक्षस्वभावत्वात्। पुरूषकारफ़लमपि भवति। शैक्षेण नैवशैक्षनाशैक्षाकृष्टिसम्भवात्। अधिपतिफ़लं चास्त्येव। इति त्रीणि सम्भवन्ति। अशैक्षस्य त्विति विस्तरः। अशैक्षस्य शैक्षा धर्मा एकमधिपतिफ़लम्। न निष्यन्दफ़लम्। न्यूनत्वात्। समविशिष्टयोरिति वचनात्। न पुरूषकारफ़लम्। सहानन्तरोत्पादाभावात्। न ह्यशैक्षान्तरं शैक्षमुत्पद्यते। परिहाणिकालेऽपि क्लेशसमुदाचारव्यवहितत्वात्। विपाकफ़लं विसंयोगफ़लं च नैवशैक्षनाशैक्षस्वभावमिति। न चाशैक्षस्य विपाको भवतीत्यतो न विपाकफ़लम्। अशैक्षास्त्रीणीति। पुरूषकाराधिपति निष्यन्दफ़लानि। न विपाकविसंयोगफ़ले। तयोर्नैवशैक्षनाशैक्षस्वभावत्वात्। यच्चाशैक्षस्वभावं तदिहचिन्त्यते। नैवशैक्षनाशैक्षा द्वे पुरूषकाराधिपतिफ़ले इति। पुरूषकारफ़लम्। तद् यथा। तदाकृष्टा अनन्तरभाविनो धर्माः। अधिपतिफ़लं पूर्ववत्। यथोक्तकारणत्वान्न फ़लत्रयम्। अशैक्षा अप्येवमिति। द्वे पुरूषकाराधिपतिफ़ले इत्यर्थः।

त्रीणि चत्वारि चैकं दृग्घेयस्य तदादयः।
ते द्वे चत्वार्यथ त्रीणि भावनाहेयकर्मणः।। ९३।।

तदादय इति दर्शनहेयादयः। त इति दर्शनहेयादयः। भावनाहेया द्वे इति। अनास्रवमार्गव्युत्थाने भावनाहेयाः कुशलाः पुरूषकारफ़लम्। आद्यन्तवदिति विस्तरः। आद्यन्तयोरिवाद्यन्तवत्। मध्येऽपि ज्ञापनार्थम्। पुनर्यथाक्रमग्रहणम्। कथम्। आदौ यथाक्रमार्थोऽनुक्रमशब्दः प्रयुक्तः। अशुभस्य शुभाद्या द्वे त्रीणि चत्वार्यनुक्रममिति वचनात्। अन्तेऽपि प्रयुक्तः। अप्रहेयस्य ते त्वेकं द्वे चत्वारि यथाक्रमम् इति। यथैवमाद्यन्तयोर्यथाक्रमार्थ उक्तः। तथा मध्येऽप्यवगन्तव्यः। एष हि पेयाल धर्म इति। एषोऽभिसंक्षेपन्यायः। अन्यथा हि अव्याकृतस्य द्वे त्रीणि त्रीणि चैते शुभादयः इत्येवमादिषु यथाक्रममिति सर्वत्र वक्तव्यम्।

अप्रहेयस्य ते त्वेकं द्वे चत्वारि यथाक्रमम्।
अयोगविहितं क्लिष्त विधिभ्रष्टं च केचन।। ९४।।

अयोनिशो मनस्कारसम्भूतत्वादिति। अन्योन्या अन्यायेन क्लेशयोगेन यः प्रवृत्तो मनस्कारः। तत्र सम्भूतः। तद्भावः। तस्मादिति। येन यथा गन्तव्यम्। येन पुद्गलेन यथा गन्तव्यं तथा न गच्छतीत्यस्यायोगविहितं कर्म।

विधिभ्रष्टमपीति। अपिशब्देन क्लिष्टं चापीति गृह्यते। तदुभाभ्यामन्यन्नोभयथेति। न योगविहितः। नायोगविहितः। किं च तदन्यदव्याकृतं कर्म विधिभ्रष्टाविधिभ्रष्टाभ्यां चान्यदव्याकृतमिति।

एक जन्माक्षिपत्येकमनेकं परिपूरकम्।
नाक्षेपिके समापत्ती अचित्ते प्राप्तयो न च।। ९५।।

जन्मेति निकायसभागस्याख्येति। चित्तविप्रयुक्तस्य संस्कारस्य न तु जातेरित्यभिप्रायः। यत्तर्हीति। यद्येकमेव कर्मै कमेव जन्माक्षिपति चत् स्थविरानिरूद्धेनोक्तं सोऽहं तस्येति विसत्रेण। तत् कथं न विरूध्यत इति वाक्यार्थः। तेन जन्मान्तरे तगरशिखिने प्रत्येकबुद्धाय पिण्डपातो दत्तः। तेनैवमुक्तम्। सोऽहं तस्येति विस्तरेण। निर्वर्त्त्येति विठपित्वेत्यर्थः तुल्येऽपि मानुष्ये कश्चित् सकलेन्द्रियो भवति कश्चिद्विकलेन्द्रियः। परिपूरकस्य कर्मणो भेदात् तदनुपपन्नम्। आक्षेपकर्मफ़लत्वाच्चक्षुरादीनाम्। षडायतनं ह्याक्षिष्यत इति। वर्णादयस्तु परिपूरकस्य कर्मणः फ़लमिति। युक्तं वक्तम्। तुल्येऽपि मानुष्ये कश्चिद्वर्णवान् कश्चिन्नेति। तदुत्पत्तिविरोधिप्रत्ययपरिहारे परिपूरककर्मसामर्थ्यान्न विरोधः। अन्यथाहि न कश्चिद्विकलेन्द्रियः स्यात् सति जन्माक्षेप इति।

अन्यदपि सविपाकमिति। वेदनादिकम्। कर्मासहभूत्वादिति। यस्मात् कर्मणा चेतनाख्येन सह ते समापत्ती न भवतः। नापि कायवाक्कर्मभ्यामचित्तिकत्वात्। प्राप्तिभिश्च नाक्षिप्यते सविपाकाभिरपि। कर्मणाऽनेकफ़लत्वात्। तदाक्षेपकेण कर्मणा सह भवन्त्योऽपि प्राप्तयो न तेन सहैकफ़ला इति। वृक्षप्रपाटिका इव हि प्राप्तयो बहिरवस्थायिन्यो भवन्ति।

आनन्तर्याणि कर्माणि तीव्रक्लेशोऽर्थ दुर्गतिः।
कौरवासंज्ञिसत्त्वाश्च मतमावरणत्रयम्।। ९६।।

कर्मावरणमिति। कर्मैवावरणम्। क्लेश एवावरणम्। विपाक एवावरणमिति। आर्यामार्गप्रायोगिकाणां च कुशलमूलानामिति। उष्मगतादीनाम्। अपायादिनियतानीति। नरकतिर्यकप्रेतनियतानि। आदिशब्देनासंज्ञिसमापत्तिमहाब्रह्यसंवर्तनीयं च नियतं कर्म गृह्यते। षण्डपण्डकोभयव्यञ्जनसंवर्तनीयं च वक्तव्यम्। तथाऽण्डज संस्वेदज स्त्रीत्वाष्टमभवनियतानि कर्माणि वक्तव्यानि। आर्या हि नरकादिषु नोपपद्यन्ते। अण्डजां संस्वेदजां च योनिं न प्रतिपद्यन्ते। स्त्रीत्वमष्टमं च भवं न निवर्तयिष्यन्ति। सप्तकृत्वो भव परमत्वात्। सुदर्शकानीति। सुखेन दृश्यन्ते परेभ्य इति सुदर्शानि। सुदर्शान्येव सुदर्शकानि। एवं सुखेन प्रज्ञप्यन्ते आत्मनेति सुप्रज्ञेयानि। सुप्रज्ञेयान्येव सुप्रज्ञपकानि। स्वार्थे कः। पर्याये द्वयं चेतत्। सुदर्शकानि सुप्रज्ञपकानीति। अधिष्ठानत इति कर्मपथोऽधिष्ठानम्। त्रयाणामानन्तर्याणां प्राणातिपातः कर्मपथोऽधिष्ठानम्। एकस्य मृषावादः कर्मपथोऽधिष्ठानम्। पञ्चमस्य प्राणातिपातप्रयोगोऽधिष्ठानम्। एवमधिष्ठानतः सुदर्शकानि सुप्रज्ञपकानि। फ़लतः सर्वेषामनिष्टफ़लत्वात्। गतितः। नरकगतिप्रापकत्वात्। उपपत्तितः। उपपद्य वेदनीयत्वात्। पुद्गलतः। गरिष्ठक्लेशसमुदाचारात् सुप्रज्ञातः पुद्गलः। अयं पितृघातको यावदयं तथागतशरीरे दुष्टचित्तरूधिरोत्पादक इति। अपरे पुनर्व्याचक्षते। अधिष्ठानतः। पूर्ववत्। फ़लतः नरकफ़लत्वात्। गतितः। मनुष्यगतिकरणात्। त्रिषु द्वीपेष्वानन्तर्यमिति वचनात्। उपपत्तितः। तथैवोपपद्यवेदनीयत्वात्। पुद्गलतः। स्त्रीपुसौ न षण्दः पण्डको वेत्येवं पञ्चभिः कारणैः सुदर्शकानि सुप्रज्ञपकानि। न तु पुनस्तान्यपायादिनियतानि कर्माणि पञ्चभिः कारणैः सुदर्शकानीति। न तान्युक्तानि। उत्तरोत्तरावाहनादिति। यस्मात् क्लेशावरणं कर्मावरणमावहति। कर्मावरणं चापायेऽनिष्टं विपाकमावहतीति। क्लेशावरनं सर्वपापिष्ठम्। ततः कर्मावरणं लघु। ततो विपाकावरणम्। विपाकावरणस्य हि दृष्ट एव धर्मे व्यापारो न द्वितीय इति। यस्य धर्मस्य योगात् पितृवधादेः सोऽनन्तरो भवति। तस्याभिधाने भावप्रत्ययः। आनन्तर्यमिति। श्रामण्यवत्। यथा येनानास्रवेण योगाच्छमरणो भवति तदभिधाने भावप्रत्ययः श्रामण्यममलो मार्ग इति। तद्वत्।

त्रिषु द्वीपेष्वानन्तर्य षण्दादीनां तु नेष्यते।
अल्पोपकारालज्जित्वाच्छेषे गतिषु पञ्चसु।। ९७।।

नोत्तरकुराविति। नियातयुष्कत्वात्। प्रकृतिशीलत्वात्। तत्र शासनाभावाच्च। यदेवासंवराभावे कारणमिति। पापेऽप्यस्थिराशयत्वात्। यत्रैव च संवरस्तत्रासंवरोऽपि। प्रतिद्वन्द्वभावादित्य्संवरः। षण्ददीनां न भवतीति। यद्विपादनादिति। यस्य हीव्यपत्राप्यस्य विपादनाद्विकोपनादानन्तर्येण स्पृश्येरन् षण्दादयः। तत्तेषां मातापित्रोरन्तिके न तीव्र भवतीत्यस्तेषामानन्तर्य नेष्यते। यदि विकलात्मभावहेतुत्वादल्पोपकारत्वमिति। अतस्तेषामानन्तर्य नेष्यते। जात्यन्धादीनामपि स्त्रीपु सानां मात्रादिवधादानन्तर्य न स्यात्। न। अधिगमधर्मविरूद्धस्यात्मभावैकल्यस्य विवक्षितत्वात्। यद्वैकल्यमधिगमधर्मविरोधि। तदधिकृतम्। तेनैव मात्राल्पस्नेहत्वम्। न जात्यन्धादिवैकल्येन। अत एव तिर्यकप्रेतानामपि नेष्यते। अल्पोपकारालज्जित्वादेव। अश्वाजानेयवदिति। पटुबुद्धीनां स्यादानन्तर्य तिर्यकप्रेतानामपीत्यधिकृतम्। अश्वाजानेयवदिति। श्रूयते यथा कश्चिदेव विशिष्टाश्व आजानेयो मातर न गच्छतीति। वाससा मुख प्रच्छाद्य मातर गमितस्तेन पश्चात् ज्ञात्वा स्वमङ्गजातमुत्पाटितमिति। एवमाजानेयोऽश्वः पटुबुद्धिः। अस्यानन्तर्य स्यादित्यभिप्रायः। मनुष्यस्याप्यमानुषं मातापितरं मारयतो न स्यादानन्तर्यम्। नैव भवेदानन्तर्यमित्यर्थः। कथम्। अल्पोपकारालज्जित्वादेव। न हि मनुष्यानुरूप मुपकारममनुष्यः कर्तु समर्थः। न च मनुष्यस्यामनुष्ययोर्मातापित्रोरन्तिके तीव्र हीव्यपत्राप्यं सन्तिष्ठते। गतिवैलक्षण्येनाल्पस्नेहत्वात्।

संघभेदस्त्वसामग्रीस्वभावो विप्रयुक्तः।
अक्लिष्टाव्याकृतो धर्मः संघस्तेन समन्वितः।। ९८।।

चत्वारि कायकर्मेति। मातृवधादीनि। एकं वाक्कर्मेति। संघभेदः। त्रीणि प्राणातिपात इति। मातृवधादीनि। एकं मृषावादः। सङ्घभेदः। एकं प्राणातिपातप्रयोगः। तथागतशरीरे दुष्टचित्तरूधिरोत्पादनं कस्मान्न प्राणातिपात इत्याह। अनुपक्रमधर्माणो हि तथागता इति। अपरोपक्रम मरनधर्माण इत्यर्थः। हेतौ फ़लोपचारादिति। मृषावादो हेतुः सङ्घभेदस्य चित्तविप्रयुक्तलक्षणस्य। तस्मिन् हेतौ फ़लोपचारः। चित्तविप्रयुक्तो धर्मः फ़लमुपचर्यते। संघभेद इति। भिद्यते वानेनेति। करणसाधनपरिग्रहाद्वा मृषावादः संघभेद इत्युच्यते। मृषावादेन हि संघो भिद्यते। न तु संघभेद इति भावसाधनपरिग्रहः।

तदवद्यं मृषावादस्तेन भेत्ता समन्वितः।
अवीचौ पच्यते कल्पमधिकैरधिका रूजः।। ९२।।

संघभेदस्त्वसामग्रीति। मुख्यवृत्त्या वैभाषिकाणां द्रव्यसत्ता। तेनाह। स्वभावोऽपि विप्रयुक्तकः। अक्लिष्टाव्याकृतो धर्म इति। स किमानन्तर्य भविष्यतीति। ने वासावेवंलक्षणमानन्तर्य भवतीत्यर्थः। नैव च तेन विप्रयुक्तेन धर्मेण भेत्ता समन्वागतः। तेन नासावानन्तर्यमित्यभिप्रायः।

भिक्षुर्दृक् चरितो वृत्ती भिनत्त्यन्यत्र बालिशान्।
शास्तृमार्गान्तरक् शान्तो भिन्नो न विवसत्यसौ।। १००।।

स पुनर्मृषावादः संघभेदशजो विप्रयुक्तधर्मसहजो वाग्विज्ञप्त्यविज्ञप्तिस्वभाव इत्यर्थः।

चक्रभेदः स च मतो जम्बूद्वीपे नवादिभिः।
कर्मभेदस्त्रिषु द्वीपेष्वष्टाभिरधिकैश्च सः।। १०१।।

भिक्षुर्भिनत्तीति। बुद्धस्य भिक्षुत्वात्। तत्प्रतिस्पर्धिवृत्तित्वाच्च भेत्तुः। न गृही भिषुण्यादय इति। तेषामनादेयाश्रयत्वात्। स च दृष्टिचरित एव। दृद्गूदाशयत्वात्। सत्कायदृश्ट्यादिषु पञ्चसु चरितः प्रवृत्तो दृष्टिचरितः। दृष्टिर्वा चरितमस्येति दृष्टिचरितः। स ह्यहापोहसामर्थ्यादन्यं शास्तारं मार्गान्तरञ्च ग्राहयितु समर्थः। न तृष्णाचरित इति। संक्लेशव्यवदान पक्षयोरस्थिराशयत्वात्। दुष्प्रसहत्वादिति। दुरभिभवत्वात्। प्रत्यक्षधर्मत्वादिति। आगमाधिगमधर्मयोः साक्षात्कारित्वादित्यर्थः। न क्षान्तिलाभिन इति। न निर्वेधभागीयक्षान्तिलाभिन इत्यर्थः। दृष्टिसत्यकल्पत्वात्। न विवसत्यसौ। न तां रात्रिं परिवसतीत्यर्थः। भिन्नं भवतीति कथं भिन्नमित्याह। मार्गप्रवृत्तिविष्ठापनादिति। मार्गप्रवृत्तिविबन्धनादित्यर्थः। यावद्धि संघो न प्रतिसन्धीयते तावन्मार्गप्रवृत्तिर्विष्ठिता भवति। न कस्यचित् सन्ताने मार्गः सम्मुखी भवतीत्यर्थः। चक्रमेदनिमित्तत्वात् संघभेदश्चक्रभेद इत्युच्यते।

आदावन्तेऽर्बुदात् पूर्वं युगाच्चोपरते मुनौ।
सीमायां चाप्यबद्धायां चक्रभेदो न जायते । १०२।।

अवश्यं हि संघेन द्वयोः पक्षयोः स्थातव्यमिति। बुद्धपक्षे भेत्तृपक्षे च स्थातव्यमित्यर्थः। संघो हि चत्वारो भिक्षवः। संघद्वयेन च भवितव्य मित्यष्ठाभिर्भिक्षुभिर्भेद्यैर्भवितव्यम्। नवमेन च भेत्ता। अन्यस्तु संघभेद इति। चक्रभेदादन्यः। नात्रानन्तर्यमित्यभिप्रायः । यस्मादसौ कर्मभेदाद्भवति। व्यग्रा इति। नानामतयः। कर्माणि पोषधादीनि संघकर्माणि। अष्टाभिरधि कैश्च स इति संघद्वयेनात्रापि भवितव्यम्। न भेत्ता शास्तृमानी भवतीत्यष्टाभिरेव भिक्षुभिर्भवितव्यम्। न नवा दिभिरिति।

उपकारिगुणक्षेत्रनिराकृतिविपादनात्।
व्यञ्जनान्तरितेऽपि स्यान्माता यच्छोणितोद्भवः।। १०३।।

एकरसो भवतीति। अव्यग्र एकमतिर्भवतीत्यर्थः। पूर्वस्यामवस्थायां प्रीतिप्रामोद्यजातः। पश्चिमायामतीवमनसि उद्विग्नसंजातसंवेगः। अर्बुदात् पुर्वमिति। दोषोऽर्बुदं दृष्टर्बुदं शीलार्बुदं वा। अत्र दृष्ट्यर्बुदं यथोक्तम्। यथाहं भगवतो भाषितस्यार्थमाजानामि। य इमे भगवताऽन्तरायिका धर्मा आख्याताः ते प्रतिषेव्यमाणा नालमन्तरायेति। तथा तदैव चित्तं सन्धावति संसरतीत्यादि। शीलार्बुदं दौः शील्यम्। तेन च प्रतिसन्धानीयत्वादिति। तेन च श्रावकयुगेन यस्मात् प्रतिसन्धानीय इत्यर्थः। अवश्यं च सर्वेषां बुधानां श्रावकयुग भवति। एकः प्रज्ञावतामग्रः। द्वितीयः ऋद्धिमताम्। इह शाक्यमुनेरार्यशारद्वतीपुत्रः प्रज्ञावतामग्रः। आर्यो महामौद्गल्यायन ऋद्धिमताम्। प्रतिद्वन्द्वाभावादिति। यस्मात् परिनिर्वृते भगवति तस्य भेत्तुः प्रतिद्वन्द्वभूतो नास्ति। सीमायामबद्धायामिति। मण्डलसीमायाम्। एकस्यां हि सीमायां पृथक्कर्मकरणात् संघद्वैध भवति। ननु च प्रकृतिसीमास्ति ग्रामनगरादि। सत्यमस्ति। ज्ञप्ति सीमायां सा प्रकृतिसीमा व्यवस्थाप्यत इति। तस्या अपि बन्धो व्यवस्थाप्यत एवेति वेदितव्यम्। कर्माधीनत्वादिति। येन शिष्यसंघभेद संवर्त नीय कर्म कृत भवति तस्यैव तद्भेदो भवति नान्यस्य। शाक्यमुनिना च किल बोधिसत्त्वावस्थायां पञ्चाभिज्ञस्य ऋषेः पर्षद्भेदः कृत आसीत्। येनास्य देवदत्तन संघो भिन्न इति।

बुद्धे न ताडनेच्छस्य प्रहारान्नोर्ध्वमर्हति।
नानन्तर्यप्रयुक्तस्य वैराग्यफ़लसम्भवः।। १०४।।
संघभेदमृषावादो महावद्यतमो मतः।
भवाग्रचेतना लोके महाफ़लतमा शुभे।। १०५।।

गुणक्षेत्रत्वादिति। गुणानामाश्रयत्वादित्यर्थः। अथवा गुणैः क्षेत्रं गुणक्षेत्रम्। गुणयोगाद्धि तत् पुण्यस्य क्षेत्रं भवति। यथा क्षेत्रे बीजमुप्तं महाफ़लं भवत्येवं पुण्यबीजमत्रोप्तं महाफ़लं भवति। नान्यत्रेति। न सामान्यस्त्रीवधादिषु। उपकारि गुणक्षेत्र निराकृति विपादनादिति। उपकारिक्षेत्रस्य गुणक्षेत्रस्य वा निराकृतेः परित्यागान् मातृपितृवधादिष्वानन्तर्यम्। तस्य विपादनाच्च विकोपादानन्तर्यम्। तथागतशरीरे दुष्टचित्तरूधिरोत् पादनात्। संघस्यापि यद् भेदनं तदपि तद्विपादनम्। तदेतदुक्तं भवति। उपकारिक्षेत्रत्वात् गुणक्षेत्रत्वाच्च। तन्निराकरणविपादनान् मातृवधादिष्वेवानन्तर्य नान्यत्रेति।

यदि पुनर्मातुर्व्यञ्जनपरिवृत्तं स्यात् पितुर्वेति। व्यञ्जनपरावृत्त्या तन्मातृत्वं तत्पितृत्वं वा विनष्टमिति। मातुर्मारणाभावात् पितुर्मारणाभावाद्वा [ न ] स्यादानन्तर्यमिति। तदभावाशङ्कया पृच्छति। यच्छोणि तोद्भव इति। यस्याः शोणितादुद्भवोऽस्येति यच्छोणितोद्भवः। सर्वकृत्येष्ववलोक्येति। सर्वमातृयोग्येषु कार्येषु द्रष्टव्येत्यभिप्रायो मातृकल्पत्वात्। आपायिका कटाहारिका। पोषिता स्तन्यदायिका। संवर्द्धिका औदारिकाहारादिकल्पिका। अपरे व्याचक्षते। आप्यायिका स्तन्यधातृकेति योऽर्थः। पोषिका औदारिकाहाराभ्यासतः। संवर्द्धिका स्नानोद्वर्तविषमपरिहारत इति। मञ्चतलावलीनेति। मञ्चोपरि प्रावरणकल्पनेन पुरूशोऽत्र सुप्त इति मन्यमानेन पुत्रेण तत्र शस्त्रप्रहारः। कृतः। तेन शास्त्रप्रहारेण मञ्चतलावलीना माता मारितेत्युदाहार्यम्। धावकस्य च रजकस्य पुत्रेण मशक मारयामीति मशकप्रयोगेण पितुर्मारणमिति। द्वे अविज्ञप्ती आनन्तर्याविज्ञप्तिः। केवलप्राणातिपाताविज्ञप्तिश्च। विज्ञप्तिस्त्वानन्तर्यमेव तत् संगृहीतैव सा नान्येत्यर्थः। तस्याप्येकमेवेति। अर्हद्वधाख्यम्। गच्छ शिखण्डिनं ब्रूहीति। रौरूके नगरे उद्रायणो नाम राजा शिखण्डिनं नाम पुत्रमभिषिच्य प्रव्रजितः। प्रव्रज्यार्हत्त्वमधिगतवान्। स रौरूकाभ्यासमागतवान् पुनाराज्यमाकाङ्क्षतीति अमात्यप्रकामितेन तेन शिखण्डिना राज्ञा स्व पिता मारितः। तेन तु मार्यमाणावस्थायां स मारको मनुष्य उक्तः। गच्छ शिखण्डिनं ब्रहीत्येवमादि। द्वाभ्यां कारणाभ्यामिति वक्तव्यमिति। गच्छ शिखण्डिनं ब्रूहि। द्वाभ्यानन्तर्यकारणाभ्यां भवता कृतमानन्तर्यमिति। तेन वक्तव्यम्। द्वाभ्यां वा मुखाभ्यां परिभाषित इति। मुखद्वित्वादानन्तर्यद्वित्वोपचार इत्यभिप्रायः। कारणद्वित्वाद्धि गुरूतरं तदानन्तर्यम्।

आश्रयस्यात्यन्त तद्विरूद्धत्वादिति। उत्पन्नार्यमार्गस्य आश्रयस्य तैः कर्मपथैर्विरूद्धत्वात्। एकावदान चात्रोदाहरणम्। छेकः किल शाक्यमनुष्यो विरूदकभयाद् विषमं वनप्रदेशमाश्रित्य लुब्धकवृत्तिमशिश्रियत्। भगवता च त्रायास्त्रिंशेषु त्रैमास्यां कुर्वता ततोऽवतीर्य छेकाय सपरिजनाय धर्मो देशितः। तेन स्रोत आपत्तिफ़लमधिगतम्। तत्पुत्रैश्च फ़लप्राप्तै पूर्व प्रतानितानि कूटजालादीनि मृगेभ्यः। तत्प्रयोगेण च मार्यमाणेष्वपि मृगेषु फ़लप्राप्तया [ न ] ते पुनरकुशलैः कर्मपथैः स्पृष्टा इति।

पञ्चमतृतीयप्रथमानि गुरूतराणीति। इयमानन्तर्य कर्मपथानुपूर्वी। मातृवधः पितॄवधोऽर्हद्वधः संघबेह्दस्तथागते दुष्टचित्तरूधिरोत्पादनमिति। पञ्चमं दुष्टचित्तरूधिरोत्पादनम्। तत् संघभेदवर्जेभ्योऽवशिष्टेभ्यश्चतुर्भ्यो गुरूतरम्। तृतीयमर्हद्वधः। तन्मातृपितृवधाभ्यां गुरूतरम्। प्रथम मातृवधस्तत् पितृवधाद् गुरूतरम्। तेनाह। सर्वलघुः पितृवध इति। नियमस्येति। तदेवावधार्येत्यर्थः। विपाकविस्तरमधिकृत्य संघभेदो महासावद्य उक्तः। अन्तरकल्पविपाकदानात्। महाजनव्यापादनमधिकृत्य मनोदण्डः। दण्डकारण्यादि शून्यकरणात्। न ह्यन्येन कायकर्मणा वक्कर्मणा वा तावतो महाजनस्य व्यापादः सम्भवतीति। कुशलमूलसमुच्छेदमधिकृत्य मिथ्यादृस्ःटिर्महासावद्या। न ह्यन्यदकुशलमूल कुशलमूलानि समुच्छिनत्ति समुदाचारमात्रविरोधित्वादिति।

दूषणं मातुरर्हन्त्या नियतिस्थस्य मारणम्।
बोधिसत्त्वस्य शैक्षस्य संघायद्वारहारिका।। १०६।।
आनन्तर्यसभागानि पञ्चमं स्तूपभेदनम्।
क्षान्त्यनागामितारर्हत्त्वप्राप्तौ कर्मातिविग़्हकृत्।। १०७।।
बोधिसत्त्वः कुतो यावद्यतो लक्षणकर्मकृत्।
सुगतिः कुलजोऽध्यक्षः पुमान् जातिस्मरोऽनिवृत्।। १०८।।

न त्वनन्तरमेवेति। नरकेऽवश्यमुत्पत्त्या तानि तत्सादृश्यात् सभागान्युच्यन्ते न तु तत्रानन्तरोत्पत्त्या। अन्यथा ह्यानन्तर्याण्येव स्युरित्यपरेषामभिप्रायः। अनन्तरभावित्वेऽपि न तान्यानन्तर्याण्येव संभवंत्यतुल्यकालविपाकत्वादिति। प्रथमपाक्षिकाणां परिहारः।

दूषणं मातुरर्हन्त्या मातृवधानन्तर्यसभागम्। नियतिपतिबोधिसत्त्वमारणं पितृवधानन्तर्यसभागम्। शैक्षमारणमर्हद्वधानन्तर्यसभागम्। संघायद्वारहारिका संघभेदानन्तर्यसभागम्। स्तूपभेदनं तथागतदुष्टचित्तरूधिरोत्पादनानन्तर्यसभागम्। संघायद्वारहारिका पुनरक्षयनीव्यपहार इत्याचार्यवसुमित्रः। एवं तु व्याचक्षते सुखायद्वारहारिकेति। यत् सुखोपयोगिकं येन संघो जीविकां कल्पयति तस्यापाहार इति।

तद्विपाकभूम्यतिक्रमादिति। क्षान्तिलाभ्यनपायग इत्यपायभूम्यतिक्रमात्। तथैवेति। तद्विपाकभूम्यतिक्रमात्। यथा पुरूषस्य देशत्याव कुर्वतो धनिका उत्तिष्ठन्ते तथैवेत्यर्थः।

जम्बूद्वीपे पुमानेव सम्मुखं बुद्धचेतनः।
चिन्तामयं कल्पशते शेष आक्षिपते हि तत्।। १०९।।

महाशालकुलज इति। महाप्राकारकुलज इत्यर्थः। क्षत्रियमहाशालकुलजो यावद् गृहपतिमहाशालकुलज इति। महागृहपतिकुलज इत्यर्थः। कदर्थना महापरिभवपूर्विका विहेठन। ययोः कायवाचोः प्रवृत्त्यापरस्य दुःखदौर्मनस्ये भवतस्तदपेक्षया तन्निग्रहो यन्त्रणेत्युच्यते।

एकैकं पुण्यशतजमसंख्येयत्रयान्तजाः।
विपश्यी दीपकृद् रत्नशिखी शाक्यमुनिः पुरा।। ११०।।

एकनवतं कल्पमुपादायेति। एकनवतेः पूरणः कल्प एकनवतः। तमुपादाय। असिबद्धकेन ग्रामण्या निर्ग्रन्थश्रावकेण भगवानुक्तः। किमनर्थायसि भो गोतम् कुलानां प्रतिपन्नो यस्त्वमीदृशे दुर्भिक्ष इयता भिक्षुसंघेन सार्द्धमशनिवदुत्सादयन् भिक्षामटसीति। स भगवताभिहितः। इतोऽह ग्रामणि एकनवतं कल्पमुपादयेति विस्तरः।

एतांश्चतुरो दोषान् व्यावर्तयतीति। दुर्गतिदोषमकुलीनतादोष विकलेन्द्रियतादोष स्त्रीभावदोष चेति। द्वौ च गुणौ प्रतिलभते। जातिस्मरतागुणमनिवर्तकतागुणं चेति।

सन्निकृष्टं बोधिसत्त्वं स्थापयित्वेति। यो लक्षणविपाककर्मकारी। त्रिसाहस्रको निवर्तत इति। येन सर्वसत्त्वकर्माधिपत्येन त्रिसाहस्रमहासाहस्रप्रादुर्भावः। तस्य तत् परिमाणमिति। उक्तं पुण्यस्य परिमाणम् । तेषामेव कृतपरिमाणानां शतेनैकं महापुरूषलक्षणं निर्वर्तते। एवं यावद्दात्रिंशत्तममपीति। केचित्तं व्याचक्षते। बुद्धालम्बनमनस्कारसम्मुखीभावात् पञ्चाशच्चतेना भवन्ति। अहमपीत्थं स्यामित्यपराः पञ्चाशदित्येव पुण्यशत भवतीति। अपरे वर्णयन्ति। कामधातुर्विशतिस्थानानि। रूपधातुः षोडश। आरूप्याश्चत्वारः। अष्टौ च शीतनरका इत्यष्टचत्वारिंशद्विकल्पं त्रैधातुक भवति। तदालम्बनमस्य बोधिसत्त्वस्य करूणाचित्तमुत्पद्यते। ततस्तत्संप्रयुक्ताश्चेतना अष्टचत्वारिंशत् भवन्ति। अतोऽनन्तरं बुद्धालम्बनचेतनोत्पद्यते। यथानेनास्मात् त्रैधातुकात् सत्त्वा मोचिता इत्येका चेतना। अताऽनन्तरं द्वितीया चेतनोत्पद्यते। अहमप्येव मोचयेयमित्यात्मालम्बनेति। पञ्चाशच्चेतना भवन्ति। तासां पुनर्द्विःसम्मुखीभावाच्चेतनाशत भवतीति। अन्य आहुः  प्राणातिपातविरतिर्बुद्धस्य भगवतः पञ्चभिः कारणैरूपेता भवति। पञ्च कारणानि। मौलकर्मपथपरिशुद्धिः। सामन्तकपरिशुद्धिः। वितर्कानुपघातः। स्मृत्यनुपरिगृहीतत्वम्। निर्वाणपरिणामितत्व चेति। तदालम्बना अपि चेतनाः एञ्च भवन्ति। एवं दश कर्मपथालम्बना दश पञ्चकाश्चेतनानां पञ्चाशच्चेतना भवन्ति। तासां द्विः सम्मुखीभावाच्चेतनशत भवतीत्येतत् पुण्यशतम्। यथा अयमसाधरणदशकुशलकर्मपथनिर्जातो भगवानेवमहमपि स्यामिति कृत्वा। तदेव सत्येकैकं पुण्यशतजमित्येतत् सिध्यति।

सर्वत्र सर्व ददतः कारूण्याद् दानपूरणम्।
अङ्गच्छेदेऽप्यकोपात् तु रागिणः क्षान्तिशीलयोः।। १११।।

पर्युपासयामासेति। लिट्याम् प्रत्ययान्तस्यासेरेतद्रूपम्। पर्युपासितवानित्यर्थः। यत्न भगवतेति विस्तरः। प्रभासनाम्ना कुम्भकारकुमारभूतेनासुखोदकाभ्यङ्गपरिचर्याभिरूपस्थान कृत्वाद्य प्रणिधानं कृतम्।

तदास्य क्षान्तिशीलपारमिते परिपूर्णे इति। चेतसा तावदकोपतः क्षान्तिपारमितापरिपूरिः। कायवाग्भ्यां दुश्चरिताकरणाच्छीलपारमितापरिपूरिरिति। न दिवि भुवि वेति विस्तरः। दिवि भुवि वेति उद्दशपदन्यायेनाक्तम्। नास्मिल्लोके न वैश्रवणालये न मरूभवने दिव्यस्थान इति। तव्द्यक्तयर्थनिर्दशपदानि। अस्मिन् लोक इति। मनुष्यलोके। वैश्रवणालय इति। चतुर्महाराजिकस्थाने। मरूभवन इति। मरूद्भवे त्रायस्त्रिंशभवन इत्यर्थः। दिव्यस्थाने यामादिस्थाने। लोकधात्वन्तरेष्वपि तत्सदृशस्याभावज्ञापनार्थमाह। न दिक्षु विदिक्षु चेति। अथ न श्रद्धीयते। चरतु नरः कश्चित्। वसुधामिमां कृतस्नां स्फ़ीतां बहुसत्त्वाध्यासितां सह पर्वतैः काननैश्च। सपर्वतकाननां स्वयं प्रत्यवेक्ष्यताम् इत्यभिप्रायः। नव च कल्पाः प्रत्युदावर्तिता इति। तेन वीर्यारम्भेणैकनवत्या कल्पैः परिपूर्णा वीर्यपारमितेति कृत्वा। अत एवोक्तम् एकनवत्यां कल्पेष्वाक्षिप्तमिति। बोधेः पुर्वसमनन्तरमिति। क्षयानुत्पादज्ञानलक्षणाया बोधेः पूर्वसमनन्तरम्। किं कारणम्। परिपूर्णपारमितो हि बोधिमधिगच्छति नापरिपूर्णपारमित इति।

तिष्यस्तोत्रेण वीर्यस्य धीसमाध्योरनन्तरम्।
पुण्यं क्रियाथ तद्वस्तु त्रयं कर्मपथा यथा।। ११२॥
दीयते येन तद्दान पूजानुग्रहकाम्यया।
कायवाक्कर्म सोत्थानं महाभोग्यफ़लं च तत्।। ११३।।

यथायोगमिति। किञ्चित् पुण्यञ्च क्रिया च वस्तु च। किञ्चित् पुण्यञ्च क्रिया च। किञ्चित् पुण्यमेव क्रिया च। किञ्चित् पुण्य च वस्तु च। किञ्चिद्वस्त्वेवेति। कथमित्याह। तद्यथेति विस्तरः। कर्म च ते पन्थानश्च। प्राणातिपातादयः सप्त कर्मपथाः। कर्मस्वाभाव्याच्चेतनापथत्वाच्च। त्रयस्त्वभिध्यादयः पन्थान एव कर्मणश्चेतनाख्यस्येति कर्मपथाः। कायवाक्कर्मत्रिविधेति। पुण्य तावदिष्टविपाकत्वात्। क्रिया कर्मस्वभावत्वात्। वस्तु तत्समुत्थानचेतनायास्तदधिष्ठाय प्रवृत्तेः। तत्समुत्थापिका चेतना कायवाक्कर्मसमुत्थापिका। पुण्यमिष्टविपाकत्वात्। क्रिया मनस्कर्मत्वात् न वस्तु क्रियानधिष्ठानत्वात्। तत्सहभुवो वेदनादयः। इष्टविपाकत्वात् पुण्यमेव। न तु क्रियाधिष्ठानं वा तल्लक्षणाभावात्। शीलमयमिति। पूर्ववत् त्रैधं योज्यम्। मैत्री पुण्यमिति पूर्ववद्योज्यम्। पुण्यक्रियायाश्च वस्तु। तत्संप्रयुक्ताया मैत्री संप्रयुक्तायाश्चेतनाया मैत्रीमुखेन मैत्रीवशेनाभिसंस्करणाद् अभिसञ्चेतनात्। तत्सहभूः मैत्रीसहभूश्चेतना शीलञ्च ध्यानसंवरसंगृहीतं पुण्यं च क्रिया च पूर्ववत् न हि ध्यानसंवरं प्रवर्तयेयमित्यधिष्ठाय चेतना पर्वर्तते। तेन न क्रियाधिष्ठानम्। अन्ये तत्सहभुवो वेदनादयः पुण्यमेव पूर्ववत्। तदेवम्। दानमये पुण्यं च क्रिया च वस्तु च। पुण्यं क्रिया च। पुण्यं च। पुण्यक्रियावस्तु। शीलमये पुण्यं च क्रिया च क्रियावस्तु च। पुण्यक्रियावस्तु। भावानामये पुण्यक्रियावस्तु च। पुण्यं क्रिया च। पुण्यं चेति। पुण्यक्रियावस्तु। अवयवसरूपाणामप्येकशेष इष्यते। गुणो यङ्गुलो इति यथा।

स्वपरार्थोभयार्थाय नोभयार्थाय दीयते।
तद्विशेषः पुनर्दातृवस्तुक्षेत्रविशेषतः। । ११४।।
दाता विशिष्टः श्रद्धाद्यैः सत्कृत्यादि ददात्यतः।
सत्कारोदाररूचिताकालानाच्छिद्यलाभिता।। ११५।।

यदपि दीयते तद्दानमिति देयं वस्तु कर्मणि ल्युङिति कृत्वा। दीयते येन तद्दानमिति। इह तु कुशलमिष्टं दानमिति। देयस्य हि वस्त्वादेरव्याकृतत्वम्।

रागादिभिरपीत्यादिशब्देन क्रोधेर्षादीनां ग्रहणम्। पूजानुग्रहकाम्यतयेति चैत्यापरिनिवृतेभ्यः पूजा। इन्द्रियमहाभूतानुग्रहकामा तया। येन कलापेनेति। चित्तचैत्तकलापेन। कुशलाः स्कन्धा इति पञ्च स्कन्धाः। कायवाग्विज्ञप्तिस्तदविज्ञप्तिरपि वा रूपस्कन्धो द्रष्टव्यः। स्वभावे चैष मयडिति। न विकारादिषु। तद् यथा तृणमयं गृहमिति। न तृणानां विकारोऽस्ति। तैस्तु निर्विकारैरेव तत्कृतमित्यतस्तृणमयं तृणस्वभावं तदिति गम्यते। तत्स्वाभाव्येऽपि सति। तद्विकारतां परिकल्प्य मयट् क्रियत इत्यभिप्रायः। तत्प्रकृतिवचने मयडित्यनेन वा लक्षणेन मयडिधीयते। एवं पर्णमयं भाजनमित्येतदपि वक्तव्यम्।

स्थापयित्वा दृष्टधर्मवेदनीयमिति। तदुभयार्थमिति कृत्वा स्थाप्यते। तद्विपाकभूमेरत्यन्तसमतिक्रान्तत्वात्। कामधातोरत्यन्तसमतिक्रान्तत्वदित्यर्थः। कामधातुर्हि दानस्य विपाकभूमिरिति।

श्रुतादिगुणयुक्त इति। आदि शब्देन त्यागप्रज्ञाल्पेच्छतादिगुणयुक्तः। सत्कृत्यादि ददातीति। सत्कृत्येत्यादिरस्येति सत्कृत्यादि। क्रियाविशेषणमेतत्। यथाक्रम चत्वारो विशेषा इति । सत्कृत्य दाता सत्कारलाभी भवति। स्वहस्तदाता उदारेभ्यो भोगेभ्यो रूचि लभते। कालदाता काले भोगान् लभते। नातिक्रान्तकालात्। यद् भोक्तुमेवासमर्थः। परानुपहत्यदाताऽनाच्छेद्यान् भोगान् लभते।

वर्णादिसम्पदा वस्तु सुरूपत्वं यशस्विता।
प्रियता सुकुमारर्तुसुखास्पर्शाङ्गता ततः।। ११६।।

अतु सुख स्पर्शानि चास्याङ्गानीति। शीते उष्णानि। उष्णे शीतानि। साधारणे साधारणानि।

शीतलिकादिषु चेति। आदि शब्देन वर्दनिका वर्षलिकादिषु यथासूत्रमुक्तमेतत्। यथा मात्रापित्रोरिति। उपकारित्वविशेषात् कारापकारौ महाफ़लौ तयोर्भवतः इत्यर्थोऽवगन्तव्यः। ऋक्षमृगजातकाद्युदाहरणाद् विपाक इति। एवम् ऋक्षमृगयोर्गुहां प्रविश्य गात्रोष्मशीतोपनयेनोह्यमान नद्यत्तारणेन चोपकारिणोरपकारकरणेन सद्योऽङ्गपातात्। आदिशब्देन कपिजातकाद्युदाहार्यम्। शीलवते दत्त्वा शतसहस्रगुणो विपाकः इत्येवमादीति। आदिशब्देन  स्रोत आपत्तिफ़लप्रतिपन्नकाय दत्त्वा अप्रमेयो भवति विपाकस्ततोऽप्रमेयतरः स्रोतः आपन्नायेत्यादि।

तत् स्थापयित्वेति। अनन्तरोक्तं बोधिसत्त्वदानम्। तद्धि सम्यक्संबोध्यर्थ सर्वसत्त्वार्थञ्च। शेषं सुगमत्वान्न विभक्तमिति। यदेतददान्मे दानमित्येवमादिकम्। अदान्मे दानमिति। दत्तमनेन पूर्वमिति दान तृतीयम्। दास्यति मे दानमिति चतुर्थम्। दत्तपूर्वं मे पितृभिश्च पितामहैश्चेति दानमिति पञ्चमम्। स्वर्गार्थं दानं षष्ठं कीर्त्यर्थ सप्तमं चित्तालङ्कारार्थ यावदुत्तमार्थस्य प्राप्तये दानमित्यष्टमम्। चित्तालङ्कारार्थमृद्ध्यर्थम् चित्त परिष्कारार्थम् अष्टौ चित्त परिष्कारार्थम् अष्टौ चित्तपरिष्कारा मार्गाङ्गाणि। तदर्थम्। योगसंभारार्थ योगनिदानार्थम्। उत्तमार्थस्य प्राप्तिरर्हत्त्वं निर्वाणस्य वा प्राप्तिः। तस्मै प्राप्तये दानम्। चतुर्भेदमप्येकमष्टम भवति। निर्वाणप्रापकमेवैतदिति कृत्वा सुगममुक्तमाचार्येण।

गतिदुःखोपकारित्वगुणैः क्षेत्रं विशिष्यते।
अग्रं मुक्तस्य मुक्ताय बोधिसत्त्वस्य चाष्टमम्।। ११७।।
मातापितृग्लानधार्मकथिकेभ्योऽन्त्यजन्मने।
बोधिसत्त्वाय चामेया अनार्येभ्योऽपि दक्षिणाः ।। ११८।।
पृष्ठं क्षेत्रमधिष्ठानं प्रयोगश्चेतनाशयः।
एषां मृद्वधिमात्रत्वात् कर्ममृद्वधिमात्रता।। ११९।।
संचेतनसमाप्तिभ्यां निष्कौकॄत्यविपक्षतः।
परिवारविपाकाच्च कर्मोपचितमुच्यते।। १२०।।

विपाकनैयम्यावस्थानादिति। नियतविपाकदानावस्थानादित्यर्थः। कस्यचित् क्षेत्रवशेनैवेति। तद् यथा सामान्यपुरूषवधात् पितृवधः। तत्रैव क्षेत्रे पुनरधिष्ठानवशादिति  कर्मपथवशात्। कथमित्याह। मातापित्रोः प्राणातिपातनात् गुरू कर्म न त्वेवमदत्तादानादिकात् गुरू। न हि मातापुत्रोद्रव्यापहरणकर्म तद्वधवद् गुरू भवति। तद्वधस्यानन्तर्यस्वभावत्वात् आदिशब्देन मृषावादपैशुन्यादिग्रहणम्। एवमन्यदपि योज्यम् इति। कस्यचित् प्रयोगविशेषेण गुरू सम्पद्यते विपाकनैयम्यावस्थानात्। कस्यचिच्चेतनाविशेषेन। कस्यचिदाशयविशेषेण।

नाबुद्धिपूर्व न सहासकृतमिति। अथवा नाबुद्धिपूर्वं कृतम् इदं कुर्यामित्यसञ्चित्य कृतम्। तन्नोपचितम्। अव्याकृतं हि तत् कर्म। न सहसा कृतमिति। बुद्धिपूर्वमपि न सहसा कृतम्। यदभ्यासेन भाष्याक्षेपान्मृषा वादाद्यनुष्ठानं कृतं तदकुशलं न पुनरूपचितम्। यावत्तिभिरिति। कायवाञ्मनो दुश्चरितैः। निष्प्रतिपक्षं चेति प्रतिदेशनादिप्रतिपक्षाभावतः। अकुशलं चाकुशलपरिवारं चेति। यः कृत्वाप्यनुमोदत इति। विपाकदाने नियतमिति। पुष्टाकुशललक्षणसमुत्पादात्। एवं कुशलमपि योज्यमिति। कथं। सञ्चेतनतः सञ्चिन्त्य कृतं भवति नाबुद्धिपूर्व कृतं भवति। तद्यथा। अव्याकृतेन चित्तेन पाषाणं ददामीति सुवर्णपिण्डं दद्यात्। कृतं तन्न पुनरूपचितम्। अव्याकृतं हि तत्कर्म। न सहसा कृतम्। यथा भाष्याक्षेपात् सत्यवचनं कृतं तत् कुशलं न पुनरूपचितम्। कश्चिदेकेन सुचिरितेन सुगति याति। कश्चिद् यावत्तिभिः। कश्चिदेकेन कर्मपथेन। कश्चिद् यावद्दशभिः। तत्र यो यावता गच्छति। तस्मिन्नसमापते कृतं कर्म नोपचितम्। समाप्ते तूपचितम्। एवं यावद्विपाकदाने नियमिति सम्भवतो योज्यम्।

चैत्ये त्यागान्वयं पुण्यं मैत्र्यादिवगृह्णाति।
कुक्षेत्रेऽपीष्टफ़लता फ़लबीजविपर्ययात्।। १२१।।

चैत्ये सरागस्येति विस्तरः। स्वपरार्थोभयार्थयेत्यत्र। पुण्यमेव त्यागान्वयमपश्यन्नाह। कस्यचिदप्यनुग्रहाभावादिति। सति हि प्रतिग्रहीतरि युक्तं त्यागान्वयं पुण्यम्। तत्र हि प्रीत्यनुग्रहेण ग्रहीता युज्यत इति। मैत्रादिवदगृह्णतीति। मैत्र्यादिष्विव मैत्र्यादिवत्। अगृह्णति असति प्रतिग्राहके पुण्यं भवति। असत्यपि परानुग्रहे। कुशलमूलादिबलाधानात्। तथा ह्यतीतेऽपि गुणवति तथागतादौ। तद्भक्तिकृतं चैत्यदानं पुण्यं भवति। दानमानक्रिया तर्हि व्यर्था प्राप्नोतीति। यदि स्वचित्तादेव पुण्यं भवेत् चित्तेनैव दानमानावनुष्ठेयौ। तत एव पुण्यप्राप्तेः। न। तत्कर्मसमुत्थापिकाया भक्तेः प्रकृष्टतरत्वात्। नैतदेवम्। कस्मात्। यस्माद् दानमानौ भगवतश्चित्तमात्रेण चिन्तयतो या भक्तिः । तत इयं दानमानौ कुर्वतो भक्तिः प्रकृष्टतरा। कायवाक्कर्मणोरपि प्रवर्तनात्। चित्तमात्रेण हि चिन्तयतो भक्तिः कायवाक्कर्मणी न प्रवर्तयतः। यथा हीति विस्तरः। यथा हि शत्रून् हन्मीति कृताभिप्रायस्य कस्यचित् तत् समुत्थितं तदभिप्रायसमुत्थित कायवक्कर्म शत्रुसंज्ञया शत्रुरयं न तावन्म्रियते इत्यनया संज्ञया तस्मिन् मृतेऽपि कुर्वतो बहुतरमपुण्यं जायते चेतनानुबन्धात्। नाभिप्रायमात्रेण क्रियाशून्येन। तथा ह्यतीतेऽपि परिनिर्वृतेऽपि भगवति तद्भक्तिसमुत्थां शास्तृभक्तिसमुत्थां दानमानक्रियां पृष्ठभूतामिव कुर्वतो बहुतरं पुण्यं जायते। न भतिमात्रेण क्रियाशून्येनेति।

कुक्षेत्रे तर्ह्यनिष्टफ़लं भविष्यतीति। तस्करादिभ्यो दानमनिष्टफ़लमिति निर्ग्रन्थाः। सुक्षेत्रे हीष्टफ़लम्। कुक्षेत्रे तु विपरीतमित्यतो ब्रवीति। कुक्षेत्रेऽपीष्टफ़लबीजाविपर्ययादिति। न क्षेत्रविशेषादिष्ट फ़लमिति ब्रूमः। किं तर्हि। विशिष्टमिति। न हि सुक्षेत्रे प्राणातिपातादिबीजस्येष्ट फ़ल भवतीति। कुक्षेत्रेऽपि हि फ़लस्य मृद्वीकाफ़लस्य बीजात् मृद्विकाबीजात् अविपर्ययो दृष्टः। मृद्वीकाफ़लमेव मधुर दृष्टमित्यर्थः। न तु निम्बफ़लमेवम्। निम्बवीजान्निम्बफ़लमेवेति। तिक्तमिति। मृद्विकाबीज कुशलस्योदाहरणं। निम्बवीजमकुशलस्य।

दौः शील्यमशुभं रूपं शीलं तद्विरतिर्द्विधा।
प्रतिक्षिप्ताच्च बुद्धेन विशुद्धं तु चतुर्गुणम्।। १२२।।

दौःशील्यमशुभं रूपमिति। प्राणातिपातादिलक्षनं प्रकृतिसावद्यं रूपं दौःशील्यम्। प्रतिक्षिप्ताच्च बुद्धेनेति। प्रज्ञप्तिसावद्यत्वात्। समात्तशिक्षस्य तु तदध्याचाराद्दौःशील्यमिति। गृहीततद्विरमणस्य भगवद् वचनानादराद्दौःशील्यं जायते। अर्थादुक्तं भवति। असमात्तशिक्षस्य न दौः शील्यमिति। विशुद्धं तु चतुर्गुणमिति। चत्वारो गुणा अस्येति चतुर्गुणम्। दौःशील्येन यथोक्तेनेति। दौः शील्यमशुभ रूपमित्यनेन। लोभादिभिरिति। न तैर्दौशील्यहेतुभिः समुदाचरद्भिरूपहतं भवति। दौःशील्यविपक्षाश्रितमित्यर्थः।

मौलैः कर्मपथैर्विशुद्धमिति। प्राणातिपातादिभिर्मौलैरखण्डितमित्यर्थः। सामन्तकैर्विशुद्धमिति। प्राणातिपातादिप्रयोगैरदूषितमित्यर्थः। वितकैणिति। कामवितर्कादिभिः। स्मॄत्यानुपगृहीतमिति। कायादिस्मॄत्युपस्थानैर्दृदाकृतम्। शीलस्मॄत्या वानुपरिगृहीतम्। आशास्तिशीलमिति। आशास्तिः प्रार्थना। यद्भवभोगसत्कारतृष्णाकृतमिति। भवे भोगे च सत्कारे च या तृष्णा। तया यत् समात्तमित्यर्थः। सम्यग्दृष्टिकानामिति। बुद्धशासनप्रतिपन्नानाम्। अन्यतीर्थिकानां हि न बोध्यङ्गानुकूलमसद्दृष्टिकत्वात्।

दौःशील्यतद्धेत्वहत तद्विपक्षसमाश्रितम्।
समाहितं तु कुशलं भावना चित्तवासनात्।। १२३।।
स्वर्गाय शीलं प्राधान्याद्विसंयोगाय भावना।
चतुर्णा ब्राह्यपुण्यत्वं कल्पं स्वर्गेषु मोदनात्।। १२४।।

समाहितन्तु कुशलमिति। समाहितग्रहणमसमाहितनिवॄत्त्यर्थम्। कुशलग्रहण समाहितास्वादनासंप्रयुक्तक्लिष्टध्याननिवृत्त्यर्थम्। तत् समाहितं कुशलसदृशमुत्पद्यते।

समाधिस्वभाव सहभू यदिति। समाधिस्वभाव तेन च सह भवति यदित्यर्थः। तद्धि समाहितमिति विस्तरः। तत् समाहितं कुशलमत्यर्थ चित्तं संवासयति। भावयति। असमाहितमपि वासयति। न त्वेवमत्यर्थमिति दर्शयति। कथमित्याह। गुणैस्तन्मयीकरणात् सन्ततेः। यस्मात् समाधिगुणैस्तन्मयी क्रियते चित्तसन्ततिः। अत्र दृष्टान्तमाह। पुष्पैस्तिलवासनावदिति। यथा पुष्पैस्तिला भाव्यन्ते पुष्पगन्धमयी करणत्तद्वत्। तदिदमुक्तं भवति। भावना वासना। तत्स्वभाव पुण्य भावनामयमिति।

अथ शीलं भावना च कस्मै संवर्तत इति वाक्यशेषतोऽर्थ पृच्छति। स्वर्गाय शीलं प्राधान्यादिति। शीलं प्राधान्येन स्वर्गाय भवति। अन्यत्तु न प्राधान्येन स्वर्गाय भवति। किमन्यत्। दानम्। दानमपि हि स्वर्गाय संभवति। शीलमपि विसंयोगाय संभवति। शमथविपश्यनयोः शीलप्रतिष्ठानत्वात्। भावना प्राधान्येन विसंयोगाय। साक्षाद्विसंयोगप्रापकत्वात्। प्रहाणमार्गसंगृहीतत्वाद्वा। पुण्यक्रियावस्तुप्रसङ्गेनेदमुपन्यस्यते।

धर्मदान यथाभूतं सूत्राद्यक्लिष्टदेशना।
पुण्यनिर्वाण निर्वेधभागीयं कुशलं त्रिधा।। १२५।।

सूत्र उक्तम्। चत्वारः पुद्गलाः ब्रह्यं पुण्यं प्रसवन्ति। अप्रतिष्ठिते पृथिवीप्रदेशे तथागतस्य शरीरं स्तूपं प्रतिष्ठापयति। अयं प्रथमः पुद्गलः ब्राह्य पुण्यं प्रसवति। चातुर्देशे भिक्षुसङ्घे आराम निर्यातयति तत्रैव चारामे विहार प्रतिष्ठापयति। अयं द्वितीयः पुद्गलो ब्राह्यं पुण्यं प्रसवति। भिन्नं तथागतश्रावकसंघं प्रतिसंदधाति। अयं तृतीयः पुद्गलः ब्रह्य पुण्यं प्रसवति। मैत्रीसह गतेन चित्तेनावैरेणासपत्नेनाव्याबाधेन विपुलेन महद्गतेनाप्रमाणेन सुभावितेनैकां दिशमधिमुच्य स्फ़रित्वोपसम्पद्य विहरति। तथा द्वितीयम्। तथा तृतीयाम्। तथा चतुर्थीम्। इत्यूर्द्धमधस्तिर्यक् सर्वतः सर्वमिमं लोकं स्फ़रित्वोपसंपद्य विहरति। अयं चतुर्थः पुद्गलो ब्राह्यं पुण्यं प्रसवतीति। यल्लक्षणविपाकस्य कर्मणः परिमाणज्ञापनायोक्तमिति। यदुक्तं सन्निकृष्ट बोधिसत्त्वं स्थापयित्वा यावत् सर्वसत्त्वानां भोगफ़लमित्येवमादि।

इदं ब्राह्यं पुण्यमिति। ब्रह्यणामिदं ब्राह्यम्। ब्रह्यपुरोहिताश्चात्र ब्रह्यशब्दे नोच्यन्ते  कस्मात्। ब्रह्यपुरोहितानां कल्पायुष्कत्वात्। ब्रह्यपुरोहितानां हि कल्पमायुरूक्तम्। अनेन च कर्मणा कल्पं स्वर्गेषु मोदते। ब्राह्यं पुण्यं प्रसवति। कल्पं स्वर्गेषु मोदत इति। निकायान्तरपाठवचनात्। तत् साधर्म्यादेतद् ब्राह्यं पुण्यमुच्यते। ननु च कामधातौ नास्ति कुशलस्य कर्मणः कल्पं विपाक इति। सत्यम् एकस्य नास्ति। एकाधिष्ठानास्तु बहश्चातना भवन्ति। यासां क्रमेण कल्पप्रमाणं स्वर्गिकं फ़लमभिनिर्वर्तते। च्युतस्य पुनस्तत्रैव जन्मसन्धानात्। बृहत् पुण्यं ब्राह्यमित्यपरे।

सूत्रादीनामिति। आदिशब्देन द्वादशानामङ्गानां ग्रहणम्। सूत्रगेयव्याकरणगाथोदाननिदानावदानेतिवॄत्तकजातकवैपुल्याद्भुतधर्मोपदेशा इति द्वादशा नामङ्गानाम्। अक्लिष्टदेशनेति । अक्लिष्टचित्तसमित्थापितेत्यर्थः।

पुण्यभागीयमिति। पुण्यस्य भागः प्राप्तिरिति पुण्यभागः। इष्टफ़लप्राप्तिरित्यर्थः। तस्मै हितं पुण्यभागीयम्। अतवोक्तं यदिष्टविपाकमिति। तत्प्राप्तयनुकूलमिति। अथवा त्रयो भागाः। पुण्यो भागः। अपुण्यो भागः। अनिञ्जयो भागः। तस्मै हितं पुण्यभागीयम्। अथवा पुण्यं भजत इति पुण्यभाक्। पुण्यभागेव पुण्यभागीयम्। स्वार्थे क प्रत्ययः। एवं मोक्षभागीयम्। अथवा संसारभागो मोक्षभागश्चेति द्वौ भागौ। तत्र यन्मोक्षभागाय हितं तन्मोक्षभागीयम्। मोक्षप्राप्तिर्वा मोक्षभागः। तस्मै हितम्। तत्प्राप्तयनुकूलमिति मोक्षभागीयम्। तस्य लक्षणं पश्चाद्वक्ष्यते। तस्मै हितम्। तत्प्राप्तयनुकूलमिति मोक्षभागीयम्। तस्य लक्षणं पश्चाद्वक्ष्यते। एवं निर्वेधभागीयमपि योज्यम्। पश्चाद्वाख्यास्याम इति। तत उष्मगतोत्पत्तिरित्यर्त। कर्माधिकारेणैषां कर्मस्वभावानां लक्षणमुच्यते।

योगप्रवर्तितं कर्म ससमुत्थापकं त्रिधा।
लिपुमुद्रे सगणं काव्यं संख्या यथाक्रमम्।। १२६।।
सावद्या निवृता हीनाः क्लिष्टा धर्माः शुभामलाः।
प्रणीताः संस्कृतशुभाः सेव्या मोक्षस्त्वनुत्तरः।। १२७।।

यदिदं लोक इत्यादि । स समुत्थानमिति। सचित्तचैत्तसकिकलापम्। येन तत् कायकर्मोत्थाप्यते। तत् कायकर्मससमुत्थानं योगप्रवर्तितम्। लिपिर्मुद्रा च। कारणे कार्योपाचारात्। येन हि कायकर्मणा लिपिर्लिख्यते मुद्रा वा खन्यते सा लिपिर्मुद्रा च शास्त्रेऽभिप्रेते न यथा लोके। लोके ह्यक्षरचिह्नं पुस्तकादौ लिपिरिष्यते। अक्षरानक्षरचिह्नं च मुद्रेति। गणना काव्यञ्च वक्कर्म। योगप्रवर्तितं ससमुत्थानमिति वर्तते। पञ्चस्कन्धस्वभावानीति। लिपिमुद्रयोः कायक्लक्र्म रूपस्कन्धः। गणनाकाव्ययोर्वाककर्म रूपस्कन्धः। वेदनादयस्तूभयत्रापि समुत्थानभूताश्चत्वारः स्कन्धा इति। पञ्चस्कन्धस्वभावन्येतानि भवन्ति। यन्मनसा संकलनं धर्माणामिति। एकं द्वे त्रीणीत्येवमादि सा संख्या। यत्तु वाचा न मनसा सा गणनेत्यभिधर्मिकाः। इयं च संख्या सपरिवारग्रहणाच्चतुःस्कन्धस्वभावा।

लिप्यादिलक्षणनिर्द्देशनुषङ्गेण सावद्यादीनामपि धर्माणां लक्षणनिर्द्देशोपन्यासः। धर्मस्कन्धकविभाषायामेते पर्याया निर्दिष्टाः। तत् प्रत्यासन्नेयमिति। इमे पर्याया उपन्यस्यन्त इत्यपरः सम्बन्धः। सहावद्ये क्लेशलक्षणेन वर्तन्त इति सावद्याः क्लेशच्छादितत्वान्निवृताः। क्लेशा अपि हि संप्रयोगिणा क्लेशान्तरेण निवृताः। निष्कृष्टत्वादार्यैस्त्यक्तत्वाद्वा हीनाः। क्लिष्टास्तु क्लेशयोगतोऽवगन्तव्याः। शुभामला कुशलानास्रवाः। ते प्रणीताः। शुद्धिप्रकर्षगतत्वात्। हीनप्रणीतेभ्योऽन्ये मध्या इति सिद्धमिति। क्लिष्टा एव हीनाः। शुभामला एव च प्रणीता इत्यवधारणादतोऽन्ये न हीनाः। न प्रणीता इति मध्याः सिद्धाः।

संस्कृतशुभाः सेव्या इति। अविशेषेण सास्रवा अनास्रवा वा सेवितव्याः। पर्युपासितव्याः। सन्तानाध्यारोपणतः। शेषा असेवितव्या इति। के शेषाः। असंस्कृताश्च। ये च न कुशलाः। क्लिष्टा निवृताव्याकृता इत्यर्थः। अनभ्यसनीयत्वादिति। पौनः पुन्येन कर्त्तुमशक्यत्वादित्यर्थः। अनुत्पाद्यत्वादित्यपरे। अफ़लत्वाच्चेति। संस्कृतस्य हि हेतुफ़ले। नासंस्कृतस्य ते इति। सोत्तरा इति सातिशयाः। अकुशला निवृताव्याकृतैः सोत्तराः। निवृताव्याकृतानामनिष्टविपाकाभावात्। निवृताव्याकृता अनिवॄताव्याकृतैः संस्कृतः सोत्तराः। तेषामक्लिष्टत्वात्। तेऽपि कुशलसास्रवैः सोत्तराः कुशलसास्रवणामिष्टफ़लत्वात्। तेऽप्यनास्रवैः सोत्तराः। निष्क्लेशत्वात्। अनास्रवा अपि संस्कृता असंस्कृतैः सोत्तराः। असंस्कृतानां नित्यत्वात्। असंस्कृतावप्याकाशप्रतिसंख्यानिरोधौ प्रतिसंख्यानिरोधेन सोत्तरौ। प्रतिसंख्यानिरोधस्य कुशलनित्यत्वात्।

मोक्षस्त्वनुत्तरः। न हि निर्वाणाद्विशिष्टममस्ति। तथाह्युक्तं ये केचित् भिक्षवो धर्माः संस्कृता वा असंस्कृता वा विरागस्तेषामग्र आख्यायत इति। प्रतिसंख्यानिरोधो हि नित्यत्वात् सर्वसंस्कृतेभ्य उत्कृष्टः। कुशलत्वाच्चासंस्कृताभ्यामाकाशाप्रतिसंख्यानिरोधाभ्यामुत्कृष्टतर इति।

आचार्ययशोमित्रकृतायां स्फ़ुटार्थायामभिधर्मकोशव्याख्यायां चतुर्थकोशस्थानं समाप्तम्।।

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project