Digital Sanskrit Buddhist Canon

स्फ़ुटार्थाभिधर्मकोशव्याख्यायाम् (vol 1)

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2019
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

स्फ़ुटार्थाभिधर्मकोशव्याख्यायाम्

प्रत्गमं कोशस्थानम्

नमो मारबलप्रमथनाय।

महाबलो ग़्यानसमाधिदन्तो यः पञ्जरं जन्ममयं विदार्य।
विवेश निर्वृत्यटवीं प्रशान्तां तं शास्तृनागं शिरसा नमामि।।

परमार्थशास्त्रकृत्या कुर्वारगं शास्तृकृत्यमिव लोके।
यं बुद्धिमतामग्य द्वितीयमिव बुद्धमित्याहुः।।

तेन वसुबन्धुनाम्ना भविष्य-परमार्थबन्धुना जगतः।
भिधर्मप्रत्यासः कृतोऽयमभिधर्मकोशाख्यः।।

अभिधर्मभाष्यसागरसमुद्धृतस्यास्य शास्त्ररत्नस्य।
व्याख्या मया कृतेयं यथार्थनामा स्फ़ुटार्थेति।।

गुरगमति-वसुमित्राद्यैर्व्याख्याकारैः पदार्थ-विवृतिर्या।
सुकृता साभिमता मे लिखिता च तथायमर्थ इति।।

सिद्धान्तार्थापसृता क्वचित् क्वचिद्या तु तैः कृता व्याख्या।
तामुद्भाव्य यथावद्विहितेह मयान्यथा व्याख्या।।

अभिधर्मविभाषायां कृतश्रमा येऽभिधर्मकोशे च।
प्रविचार्यतामियं तैर्व्याख्या युक्ता न वा युक्ता।।

युक्रा चेद्गाह्येयं न चेदपोह्यान्यथा विधातव्या।
न हि विषमेऽर्थे स्खलितुं न सम्भवेन्मादृशां बुद्धिः।।

यः सर्वथासर्वहतान्धकारः संसारपङ्काज्जगदुज्जहार।
तस्मै नमस्कृत्य यथार्थशास्त्रे शास्त्रं प्रवक्ष्याम्यभिधर्मकोशम्।।

इत्यस्य श्र्लोकस्यार्थ विवृरावान आचार्य आह। शास्त्र प्रणेतुकामः स्वस्य शास्तुर्माहात्म्यज्ञापनार्थं गुणाख्यानपूर्वकं तस्मै नमस्कारमारभत इति। शास्त्रम् अभिधर्मकोशम्। प्ररगेतुकामः कर्तुकामः। स्वस्य शास्तुः अत्मीयस्य शास्तुः। स हि भगवानाचार्यस्यात्मीयः शास्ता तच्छासनप्रतिपन्नत्वात्। तेन वा शास्त्रा महाकरूणापरतन्त्रेण सकलो लोकः स्वत्वेन परिगृहोतः तस्मादाचार्यस्यापि स्वत्वेन गृहीतस्य स भगवान्स्वः शास्ता भवति। माहात्म्यज्ञापनार्थमिति महात्मत्वं महात्म्यं स्वपरार्थप्रतिपत्तिसम्पत्' तज्ज्ञापनार्थ तदवबोधार्थम्। गुणाख्यानपूर्वकं गुणकथनपूर्वकम्। तस्मै नमस्कारमारभते तस्मै प्रणामं करोतीत्यर्थः। अतीतकालत्वादारब्धवानिति वक्तव्ये वर्तमानकाले पदप्रयोगः अद्यापि नमस्कारारम्भाभिप्रायात् शिष्यपरम्परया वा नमस्कारारम्भाविरामात्। शब्दशास्त्रे ऽपीदृश एव शब्दप्रयोगो दृश्यते' अथ शब्दानुशासनम् अथ इत्ययं शब्दोऽधिकारार्थः प्रयुज्यत इति। गुणाख्यानमात्रेण माहात्म्यावबोधो न नमस्कारेणेति चेत् ' न ' तस्य तत्सूचकत्वात्' नमस्कारेण हि माहात्म्यं सूच्यते। अथवा गुणाख्यानेनैव माहात्म्यं ज्ञाप्यते न नमस्कारेण ' नमस्कारारम्भस्तु स्वपुणयप्रसवार्थ सदाचारानुवृत्तिप्रदर्शनार्थ वा कृताभिमतदेवतापूजास्तुतिनमस्कारा हि सन्तः कियामारभत इति सतामाचारात्। तत्र महात्म्यज्ञापनं किमर्थमित्याचक्ष्महे तद्गौरवोत्पादनार्थम् गौरवोत्पादनं पुनस्तत्प्रवचन सत्कृत्यश्रवणार्थम् सत्कृत्यश्रवणं क्रमेण श्रुत-चिन्ता-भावनामयप्रज्ञोत्पादनार्थम् तदुत्पादनं क्लेशप्रहाणार्थम्' तत्पुनः सर्वदुःखोपशमलक्षणनिर्वाणप्रापणार्थमिति प्रयोजननिष्ठा। महात्म्यज्ञापनं त्वेकमाचार्येण प्रयोजनमुक्तम्' साक्षात्प्रयोजनत्वात्। तदितराणि त्वभ्यूहितु शक्यानीति नोक्तानि।

य इति बुद्धं भगवन्तमधिकृत्याह इति। सामान्यशब्दोऽपि यच्छब्दो विहितविशेषणत्वाद्विशेषवृत्तिर्भवति ' तद्यथा य एषां ब्राह्यणानां गौरः शुक्लवासाः स देवशर्मेति। तद्वदिहापि

यः सर्वथासर्वहतान्धकारः संसारपङ्काज्जगदुज्जहार।
तस्मै नमस्कृत्य

इति बुद्ध एव भगवति यच्छब्दो वर्तते। न हि बुद्धादन्य एवंगुणविशिष्टः संभवतीत्यतो व्याचष्टे। य इति बुद्धं भगवन्तमधिकृताहेति। बुद्ध इति कर्तरि क्तविधानम्। बुद्धेर्विकसनाद्वद्धः। विबुद्ध इत्यर्थः। विवुद्धं पद्यमिति यथा। अविधानिद्राद्वयापगमाद्वुद्धः प्रबुद्ध इत्यर्थः। प्रबुद्धपुरूष इति यथा। कर्मकर्तरि क्तविधानमित्यपरे स्वयं बुध्यत इति बुद्ध इत्यर्थः। कर्णयपि क्तविधानमप्यदोषं पश्यामः सर्वगुणसम्पत्यसम्पन्नतया सर्वदोषविनिर्मुक्ततया च बुद्धैरन्यैर्वा बुद्धो ज्ञात इत्यर्थः। भगवन्तम् इति द्वितीयपदोपादानमनादरसम्भावनानिवृत्तयर्थम्। निरूपपदानामभिधानानां हि लोके ऽनादरो दृश्यते। देवदत्तो दत्त इति। विनयविभाषाकारास्तु चतुष्कोटिकं कुर्वन्ति। अस्ति बुद्धो न भगवान्। प्रत्येकबुद्धः स्वयंभूत्वाद्वुद्ध इति शक्यते वक्तुम् न तु भगवानपरिपूर्णदानादिसम्भारत्वात्। यो हि माहात्म्यवान् स भगवानुच्यते। अस्ति भगवान्न बुद्धश्चरमभविको बोधिसत्त्वः परिपूर्णदानादिपारमितत्वादनभिसम्बुद्धत्वाच्च। अस्त्युभयथा बुद्धो भगवान्। अस्ति नोभयथा। एतानाकारान्स्थापयित्वेति। अतो बुद्धं भगवन्तमित्युभयविशेणम्।

हतमस्यान्धकारमनेन वेति हतान्धकारः। षष्ठीबहुब्रीही मार्गेण हतमिति कर्तृभूतो मार्गोऽध्याहार्यः। तृतीयाबहुव्रीहौ तु मार्गेणेति करणमध्याहार्यम्। अपर आह। विग्रहद्वयप्रदर्शनं हन हिंसागत्योरिति हन्यर्थद्वयपरिग्रहार्थम्। यदा हतमस्यान्धकारमिति विग्रहस्तदा गत्यर्थो हन्तिर्गृह्यते गतमस्यान्धकारमित्यर्थः। यदा पुनस्तृतीयाबहुव्रीहिस्तदा हिंसार्थो हन्तिर्गृह्यते हिंसितमनेनान्धकारमित्यर्थः। एवमुत्तरयोः पदयोरैकपद्य कृत्वा पश्चात् सप्तमीतत्पुरूषं करोति। सर्वस्मिन् हतान्धकारः सर्वहतान्धकार इति। तथा च सति हतशब्दोऽत्र न पूर्वं निपतति। सप्तमीसमासस्त्विह केन लक्षणेन भवतीति चिन्त्यम्। सप्तमी शोणडैरिति समासः। हतान्धकारशब्दः शौणडादिषु पठ्यते। शौणडादीनामाकृतीकृतत्वात्तत्रास्यानुप्रवेशोऽवगन्तव्यः। सप्तमीति योगविभागाद्वा। उत्सर्गेण वा समासः। सह सुपेति सुबिति वर्तमाने सुबन्तं सुबन्तेन सह समस्यते यत्रेष्टमिति अकृतलक्षणो वा तत्पुरूषो मयूरव्यसंकादिषु द्रष्टव्य इत्यनेन वा। कथमुपसर्जनीभूतमन्धकारं सर्वस्मिन्नित्यनेनाभिसम्बध्यते सत्यम् नान्धकारमनेनाभिसम्बध्यते अन्धकारघातस्त्वनेनाभिसम्बध्यते येन ह्यन्धकारघातेन योगाद्भगवान्हतान्धकारः स तस्यान्धकारघातः सर्वाधारोऽवगन्तव्यः। यथाक्षेषु धूर्त इति येन धौर्त्यलक्षणेन गुणेन योगादसौ दूर्तः सोऽक्षाधारः एवमिहाप्यवगन्तव्यम्। अन्यथापि चेह सम्भवन्तं समासं पश्यामः। सर्वस्मिन् हतं सर्वहतम् सर्वेण प्रकारेण सर्वहतं सर्वथासर्वहतम् सर्वथासर्वहतमस्यान्धकारम् अनेन वेति सर्वथासर्वहतान्धकारः। एवं हतशब्दस्यान्धकारेण सामानाधिकरणयं न च पूर्वनिपात इति। सर्वेण प्रकारेणेति क्लिष्टक्लिष्टान्धकारविगमतः। सर्वस्मिन् ज्ञेये द्वादशायतनलक्षणे। सर्व सर्वमिति ब्राह्यण यावदेव द्वादशायतनानीति सूत्रे वचनात्। किमत्र शर्वरं तमोऽन्धकारशब्देनोच्यते। नेत्याह। अज्ञानं हि भूतार्थदर्शनप्रतिबन्धादन्धकारम् इत्य वगन्तव्यम्। अन्धकारशब्दो हि नैशे तमसि प्रसिद्धः। अन्धमिव जनं करोतीत्यन्धकारम्। सद्भूतघटपटादिरूपदर्शनप्रतिबन्धात्तत्साधर्म्यादज्ञानमप्यन्धकाराख्यां लभते। भूतार्थदुःखादिसत्यदर्शनप्रतिबन्धात्। तच्च इति तदज्ञानम्। प्रतिपक्षलाभेनेत्यार्यमार्गलाभेन। विपक्षः क्लेशः। विपक्षप्रतिघाताय पक्षः प्रतिपक्ष इति कृत्वा। अथवा ज्ञानमनास्रवमज्ञानप्रतिपक्षः तस्य लाभेन। अत्यन्तं सर्वथा। सर्वत्र ज्ञेये। पुनरनुत्पत्तिधर्मत्वाद्धतमसमुदाचारप्रहाणीकृतमित्यर्थः। अतोऽसौ इति भगवान्। प्रत्येकबुद्धश्रावका अपि। अभ्यर्हितत्वात्प्रत्येकबुद्धशब्दपूर्वनिपातः। कामम् इत्यनुज्ञायाम्। न तु सर्वथा इत्यक्लिष्टसंमोहानत्यन्तविगमात्। ननु च सर्वं सास्रववस्तु श्रावकप्रत्येकबुद्धानामपि बुद्धवत्प्रहीणम्। किमिदमुच्यते। क्लिष्टसंमोहस्य तेषामत्यन्तविगम इति। तथा ह्युक्तम् नाहमेकधर्ममप्यनभिज्ञायापरिज्ञाय दुःखस्यान्तक्रियां वदामीति। तथा नाहमेकधर्ममप्यपरिज्ञायाप्रहाय दुःखस्यान्तक्रियां वदामीति। तस्माच्छावकप्रत्येकबुद्धानामपि तदक्लिष्टमज्ञानं चक्षुरादिवच्छन्दरागप्रहाणात् प्रहीणमेव। अन्यथा हि श्रावकप्रत्येकबुद्धानां दुःखान्तक्रिया न भवेत्। सत्यम्। अस्त्येतदेवम्। प्रहीणमेव तेषां क्लिष्टवदक्लिष्टमप्यज्ञानम्। तत्तु तेषां चक्षुरादिवत्प्रहीणमपि समुदाचरति। बुद्धस्य तु प्रहीणं सन्न समुदाचरति। अत एव च विशेषितम् पुनरनुत्पत्तिधर्मत्वाद्धतमिति। अन्यथा तत् सर्वथा सर्वत्र ज्ञेये प्रहीणमित्येवावक्ष्यत्। ये तु व्याचक्षते श्रावक प्रत्येकबुद्धानां क्लिष्टसंमोहमात्रविगमात्संक्लेशविनिवृत्तिरिति तदपव्याख्यानमेषां यथोक्तमिति प्रत्याचक्ष्यते 

तथा ह्येषमिति विस्तरः। तथा हीति यस्मादित्यर्थः। अथवा तथेति यथा न सर्वथा तथेति। हिशब्दो हेतौ। एषामिति श्रावकप्रत्येकबुद्धानाम्। बुद्धधर्मेषु आवेणिकादिषु। अतिविप्रकृष्टदेशकालेषु चार्थेषु अतिविप्रकृष्टदेशेष्वतिविप्रकृष्टकालेषु च। अनन्तप्रभेदेषु च अबुद्धधर्मस्वभावेष्वपि रूपादिष्वर्थेषु। भवत्येवाक्लिष्टम्ज्ञानम् समुदाचरत्येव तदित्यर्थः। तत्र ये बुद्धधर्मा आवेणिकादयस्तेषु स्वभावपरमसूक्ष्मरम्भीरत्वाद्वुद्धादन्येषामज्ञानम्। यथोक्लम् जानीषेत्वं शारिपुत्र तथागतस्य शीलस्कन्धं समाधिस्कन्धं प्रज्ञास्कन्धं विमुक्तिज्ञानदर्शनस्कन्धमिति भगवता पृष्टेन स्थविरशारद्वतीपुत्रेणोक्तम्। नो हीदं भगवन्निति। ये त्वन्येऽर्था रूपिणः परमाणुसंचितास्तेऽतिविप्रकृष्टदेशा यदि भवन्ति येऽप्यविग़्यत्यरूपिणस्तेऽपि यद्यतिविप्रकृष्टदेशाधारत्वादतिविप्रकृष्टदेशा भवन्ति तेष्वपि तेषामज्ञानम् अनेकलोकधात्वन्तरितदेशत्वात्। श्रूयते हि स्थविरमौद्गल्यायनस्यातिविप्रकृष्टदेशमरीचि लोकधातुजातस्वमातृदेशापरिज्ञानम्। अतिविप्रकृष्टकालेष्वप्यतीतेप्वनागतेषु वा तेष्वर्थेष्वतिबहुकल्पान्तरान्तरितविनाशप्रादुर्भावत्वात्तेषां भवत्येवाज्ञानम्। श्रूयते हि स्थविरशारिपुत्रेण मोक्षभागीयकुशलमूलादर्शनात् प्रव्रज्यापेक्ष्यपुरूषप्रत्याख्यानम्। भगवता तु तस्य मोक्षभागीयं दृष्टमुक्तं च।

 मोक्षबीजमहं ह्यस्य सुसूक्ष्ममुपलक्षये।
धातुपापाणविवरे निलीनमिव काञ्चनम्।। इति।

स च पुरूषः प्रवाजित इति। अनन्तप्रभेदेष्विति धातुगतियोन्युपपत्त्यादिप्रभेदे दुर्बोधेष्वर्थेषु। तेषामज्ञानं भवत्येव। तथा ह्याह

सर्वाकारं कारणमेकस्य मयूरचन्द्रकस्यापि।
नासर्वज्ञैर्ज्ञेयं सर्वज्ञज्ञानबलं हि तज्ज्ञानम्।। इति।

तान्येतानि चत्वार्यज्ञानकारणानि भवन्ति। तेषां क्वचिदेकं क्वचिदद्वक्वचित्त्रीणि क्वचिच्चत्वारीति सम्भवतो योज्यानि।

इत्यात्महितप्रतिपत्तिसंपद् इति विस्तरः। आत्महिताय प्रतिपत्तिरात्महितप्रतिपत्तिः आत्महितप्रतिपत्तेः सम्पदात्महितप्रतिपत्तिसम्पत् फ़लनिष्पत्तिरित्यर्थः। सा चेय सम्पद् ज्ञानप्रहाणसम्पत्स्वभावा वेदितव्या। परहितप्रतिपत्तिसम्पद् अपि तथैव वचनीया। अपरे व्याचक्षते आत्महितप्रतिपत्तिरात्महितप्रतिपादनमात्महितोपग्रह इत्यर्थः तस्याः सम्पदात्महितप्रतिपत्तिसम्पत्। एवं परहितप्रतिपत्तिसम्पदपि व्याख्येया। सा पुनः सर्वदुःखोपशमनिर्वाणपरिप्रापणस्वभावा।

संसारपङ्काज्जगदुज्जहार

इति वचनात्। संसरणं संसार आजवंजवीभावो जन्ममरणपरम्परंत्यर्थः। अथवा संसरन्त्यस्मिन्सत्त्वा इति संसारस्त्रैधातुकम्। संसारः पङ्क इव संसारपङ्क पङ्कसाधर्म्यात्। अत आह संसारो हि जगदासङ्गस्थानत्वाद्दुरूत्तरत्वाच्च पङ्कभूतैति। पङ्को हि लोकेऽवसादात्मकत्वादासङ्गस्य स्थानम्। अत एव च दुरूत्तरः। चञ्चलत्वाद्वा पराश्रयोत्तरणीयत्वाद्वा दुरूत्तरः । संसारोऽपि हि तृष्णाभिष्यन्दितत्वादासङ्गस्थानम्। दुरूत्तरश्च दृष्टिविचिकित्साविष्पन्दितेन। बुद्धापाश्रयोत्तरणीयत्वेन वा दुरूत्तरः। तत्रावमग्न तादात्म्यानुप्रवेशतः समुदायावयवरूपतो वा। जगत् सत्त्वलोकः। अत्राणम् अनाक्रन्दम्। अनुकम्पमानः करूणायमानो भगवान्। सद्धर्मदेशनाहस्तप्रदानैः। सद्धर्मदेशनैव हस्ताः तेषां प्रदानानि उत्तारणीयवहुत्वाद्वहुवचनम् तैः यथाभव्यमभ्युद्धतवान्। यथाभव्यमित्यनुच्यमानमपि गम्यते लोके तथा दृष्टत्वात्। तद्यथा ब्राह्यणानानीय भोजयामासेत्युक्ते ये तत्र भोजयितु शक्ता ग्रामे नगरे वा सन्निहितास्तानेव भोजयामासेति गम्यते सर्वलोकब्राह्यणानां भोजयितुमशक्यत्वात् एवमिहापि यो जनो भव्योऽभ्युद्धर्तुं तमेवाभ्युद्धृतवा निति। अतो यथाभव्यमिति व्याचष्टे।

तस्मै नमस्कृत्य

इति शिरसा प्रणिपत्य क्रियास्पदीभूतत्वान्नमःशब्दस्य प्रणिपत्यार्थो नमस्कृत्यशब्दो भवति। प्रणिपातश्च लोके शिरसा प्रतीत इति शिरसेत्याह। वाङ्मनोनमस्कारोऽप्यत्रानुक्तसिद्धो गुणाख्यानपूर्वकत्वान्मनस्कर्मपूर्वकत्वाच्च कायकर्मणः।

तस्मै इति किं लक्षणेयं चतुर्थी। अत्र वहवो व्याख्यानकारा मुह्यन्ति। आचार्यगुणमतिस्तच्छिष्यश्चाचार्यवसुमित्र आहतुः। नमः शब्दयोगे चतुर्थी नमः स्वस्तिस्वाहास्वधालंवषड्योगाच्च इति। तदेतदयुक्रम्। स्वतन्त्रस्य नमः शब्दस्य योगे सा चतुर्थी भवति। अस्वतन्त्रश्चायं नमः शब्दः क्रियास्पदीभूतत्वात्। अत एव चानेनैवाचार्येण व्याख्यायुक्तौ

नमस्कृत्य मुनिं मूर्ध्ना

इति कर्मलक्षणा द्वितीया प्रयुक्ता। तस्मान्न नमः शब्दयोगे चतुर्थीति। द्वितीयायाः स्थाने चतुर्थी प्रयुक्तेत्यपरे। तदिदमेषामिच्छामात्रम्। न हि लक्षणमस्यास्तीति। केन तहीयं चतुर्थी। सम्प्रदानलक्षणेयं चतुर्थीति व्याचक्ष्महे। कथं सम्प्रदानसंज्ञा। कर्मणा यमभिप्रैतिस सम्प्रदानम् इति। चूणिकारेण कर्मशब्द उभयथा वर्णयते पारिभाषिकं कर्म लौकिकं चेति। तत्र यदा कर्तुरीप्सिततमं कर्म इति पारिभाषिकं कर्माश्रीयते तदा कर्तुरीप्सिततमेन यमभिप्रैति स संप्रदानसंज्ञो भवति ब्राह्यणाय गां प्रयच्छतीत्येतत्सिद्धं भवति। यदा तु कर्म क्रियेति लौकिकं कर्माश्रीयते तदा क्रियया यमभिप्रैति स सम्प्रदानसंज्ञो भवतीति तदेतत्सिद्धं भवति युद्धाय संनह्यति पत्ये शेत इति। संनहनक्रियया युद्धमभिप्रैति कर्ता शयनक्रियया पतिमिति युद्धादीनां सम्प्रदानसंज्ञा सिद्धा भवति। तथेहापि नमस्कारक्रियया शास्तारमभिप्रैत्याचार्यः। तस्माच्छास्तरि संप्रदानसंज्ञा सम्प्रदानसंज्ञायां सत्यां संप्रदाने चतुर्थी इति चतुर्थी भवति। एवं च कृत्वा

पूर्वं प्रणम्य वदतां प्रवराय शास्त्रे।
प्रमाणभूताय जगद्धितैषिणे प्रणम्य शास्त्रे सुगताय तायिने।।

इत्येवमादीनि काव्यशास्त्रान्तरोक्तानि शब्दरूपाणि सुनीतानि भवन्ति। यदि तहि सम्प्रदानसंज्ञैवेष्यते

नमस्कृत्य मुनि मूर्ध्ना

इत्यत्र द्वितीया न प्राप्नोति। नैष दोषः। विवक्षातः कारकाणि भवन्ति  यदा कर्मविवक्षा तदा द्वितीया यदा संप्रदानविवक्षा तदा चतुर्थीत्युभयमपि सिद्धं भवति।

यथार्थशास्त्रे

इति शास्त्रित्याणादिकः शब्दस्तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटाविति तृन्प्रत्ययान्तोऽनिट् शास्तेति भवति। ननु च संज्ञायां शास्तेति भवति न चेयं संज्ञा। संज्ञवेयम्। द्विविधा हि संज्ञा विशेषसंज्ञा सामान्यसंज्ञा च। विशेषसंज्ञा देवदत्तो यज्ञदत्त इति सामान्यसंज्ञा माता पितेत्येवमादिका। मात्रादायोऽपि हि तत्र संज्ञायामेव निपात्यन्ते। नप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृभ्रातृजमातृमातृपितृदुहित्रिति। तेन यथा सर्वासां मातॄणामियं संज्ञा मातेति सर्वेषां च पितॄणां पितेति एवं सर्वेषां च शास्तॄणामियं संज्ञा शास्तेति। स तु शास्ता द्विविधो भवति अयथार्थो। अयथार्थश्च पूरणादिः। यथार्थश्च तथागत इति। अतो विशिनष्टि यथार्थमविपरीतं शास्तीति यथार्थशास्ता। एतच्च विशेषणं परहितप्रतिपत्त्युपायसूचनार्थम्। अत एवाह परहितप्रतिपत्त्युपायमस्याविष्करोति इत्यवेमादि। न त्वृद्धिवरप्रदानप्रभावेण इति प्रभावशब्दः प्रत्येकमभिसम्ब्ध्यते ऋद्धिप्रभावेण वरप्रदानप्रभावेणेति। ऋद्धिप्रभावस्तद्यथा विष्णोर्विश्वरूपसंदर्शनम्। वरप्रदानप्रभावस्तद्यथा महेश्वरो वरं प्रयच्छतीति प्रवादः। अथवा त्रिपदो द्वन्द्वः ऋद्धिश्च वरप्रदानञ्च प्रभावश्चेति। प्रभावः शक्तिविशेषः। ननु च बुद्धा अपि कदाचिट्टद्धिप्रातिहार्य विनेयानामुपदर्शयन्ति। अस्त्येतदेवम् अपि त्वावर्जनमात्र तु तेषाम्। अनुशासनीप्रातिहार्येण तु रागादिप्रतिपक्षभावनाक्रमेण संसारोत्तरणं भवति।

किं करिष्यतीति प्रश्नः। नमस्कृत्येति क्त्वाविधेः क्रियान्तरापेक्षत्वात्। समानकर्तृकयोर्हि पूर्वकाले क्त्वाविधिर्भवति।

शास्त्र प्रवक्ष्यामि

इति। अर्थविशेषाभिद्योतको नामसमूहः शास्त्रम्। क्षणिकत्वात्समूहानुपपत्तिरिति चेत् न तद्गाहकबुद्धिरूपसमूहकल्पनात्। शिष्यशासनाच्छास्त्रम् इति। किं शास्त्रम् इति। किं नामधेयमित्यभिप्रायः।

अभिधर्मकोशम्

इत्यस्य निर्वचनं वक्ष्यते। आस्तां तावदेतत्।। १।।

अवयवार्थावबोधपूर्वकः समुदायार्थावबोध इत्यवयवार्थ तावत् पृच्छति। कोऽयमभिधर्मो नाम इति।

[ प्रज्ञामला सानुचराभिधर्मस्तत्प्राप्तये यापि च यच्च शास्त्रम्।
तस्यार्थतोऽस्मिन् समनुप्रवेशात् सो वाश्रयोऽस्येत्यभिधर्मकोशः।। २।। ]

प्रज्ञामला सानुचराभिधमः

इति। धर्मप्रविचयकाले प्रज्ञा प्रधानमिति मुख्यवृत्त्या प्रज्ञाग्रहणम्। अमलेत्यनास्रवा मलानामास्रवपर्यायत्वात्। सानुचरेति सपरिवारा। राज्ञा समं चरन्नपि भृत्यो राजानुचर इत्युच्यते तदुनुवृत्तिकारित्वात् तथेहापि समकालं चरन्तोऽपि तत्सहभुवो धर्मा अनुचरा एवोच्यन्ते। के पुनस्ते चित्तचैत्ता अनास्रवसंवरा जात्यादयश्च चित्तविप्रयुक्ता इति। ननु च चित्तं चैत्तेभ्यः प्रधानम्। तथा हि चित्तस्येमे चित्ते वा भवाश्चैत्ता इति। तेन प्रज्ञैव चित्तस्य परिवारो।र्हति न तु चित्तं प्रज्ञायाः चैतसिकत्वात्। अस्त्येतत् अपि तु धर्मप्रतिचयकाले प्रज्ञा चैत्तस्यापि सर्वस्य कलापस्य राजायते। क्वचित्कश्चिद्धर्मः प्राधान्यमास्कन्दति। तद्यथा अभिसंप्रत्ययकाले श्रद्धेत्येवमादि।

अनास्रवः पञ्चस्कन्धक इति। अनास्रवसंवरस्तस्मिन्कलापे रूपस्कन्धः। या वेदना स वेदनास्कन्धः। या संज्ञा स संज्ञास्कन्धः। चेतनादिजात्यादयः संस्कारस्कन्धः विज्ञानं चात्र विज्ञानस्कन्धः।

एष तावत् इति तावच्छन्दः क्रमार्थः। पारमार्थिक इति परमार्थ एव पारमार्थिकः परमार्थे वा भवः पारमार्थिकः परमार्थेन वा दीव्यति चरतीति वा पारमार्थिकः सांकतिकस्तु सांव्यवहारिकः।

तत्प्राप्तये यापि च

इति प्रज्ञा सानुचरा सोऽभिधर्म इति चात्राधिकृतम्। तस्या अनास्रवायाः प्रज्ञायाः प्राप्त्यर्थ साक्षात्पारम्पर्येण वा या श्रुतमयी चिन्तामयी च भावनामयी च प्रज्ञा सास्रवा या चोपपत्तिप्रतिलम्भिका सानुचरा सापि सांकेतिकोऽभिधर्मः। तत्र श्रुतप्रयोगजा श्रुतमयी युक्तनिध्यानप्रयोगजा चिन्तामयी भावनाप्रयोगजा भावनामयी उपपत्तिप्रतिलम्भजोपपत्तिप्रतिलम्भिका उपपत्तिप्रतिलम्भोऽस्यास्तीति अत इनिठनाविति ठन्विधानान्न वृद्धिः। श्रुतचिन्तामयी उपपत्तिप्रतिलम्भिका भावनामयी चारूप्यावचरी चतुस्कन्धोऽभिधर्मोऽनुपरिवर्तकरूपाभावात्। रूपावचरी तु ध्यानसंवरसद्भावात् पञ्चस्कन्धकोऽभिधर्मः।

यच्च शास्त्रम्

इत्यभिधर्मशास्त्रमभिप्रेतम्। तत्तु सानुचरं न सानुचरमिति व्याख्याभेदः। केचित्तावदचित्तचैतसिककलापरूपत्वात् सानुचरमिति नानुवर्तयन्ति। जात्यादिसंभवात् केचिदनुवर्तयन्ति एकस्कन्धो ह्यसावभिधर्मो द्विस्कन्धो वा तस्य च जात्यादयः सन्तीति। अन्ये व्याचक्षते शास्त्रमिति ज्ञानप्रस्थानम् तस्य शरीरभूतस्य षट् पादाः प्रकरणपादो विज्ञानकायो धर्मस्कन्धः प्रज्ञप्तिशास्त्रं धातुकायः संगीतिपर्याय इति। अतस्तदपि शास्त्र सानुचरमेव पारपर्येण पारमार्थिकाभिधर्मप्राप्तये सांकेतिकोऽभिधर्म इत्युच्यते। उपपत्तिप्रतिलम्भिका हि प्रज्ञा शास्त्रश्रवणत्तदर्थमनुसरति। तस्याः श्रुतमयी श्रुतमय्याश्चिन्तामयी चिन्तामय्याः सास्रवा भावनामयी तस्या अनास्रवा प्रज्ञा जायत इत्यनुक्रमः। तदयम् इति। तदिति वाक्योपन्यासः। अयं स्वलक्षणधारणत्वेन निरूक्तः पारमार्थिकसांकेतिकाभिधर्मः। परमार्थधर्मम् इति परमस्य ज्ञानस्यार्थः परमार्थः परमो वार्थः परमार्थः सर्वधर्माग्रत्वात् परमार्थः परमार्थश्चासौ धर्मश्च परमार्थधर्मः। धर्मलक्षणं वेति स्वसामान्यलक्षणं खक्खटलक्षणः पृथिवीधातुरनित्यं दुःखमित्येवमादि। तत्प्रत्यभिमुखः प्रतिलम्भाय प्रतिवेधायावबोधाय वा प्रतिबोधाय वाभिमुखो धर्मः अभिधर्मः। कुगतिप्रादय इति तत्पुरूषसमासः। ननु च लक्षणेनाभिप्रती आभिमुख्य इत्यव्ययीभावः प्राप्नोति यदा ह्यभिर्लक्षणेन सह समस्यते तदाव्ययीभावः। तद्यथा अभ्यग्नि शलभाः पतन्ति शलभपतनमग्निना लक्ष्यते सोऽग्निरस्य लक्षणम्। न त्वयं धर्मोऽन्यस्य लक्षणम् किं तर्हि लक्ष्यः स्वयमेवाभिमुख्यात्। शास्त्राख्योऽपि सांकेतिकोऽभिधर्मः प्रापणायाभिद्योतनाय वा निर्वाणं धर्मलक्षणं वा प्रत्युपनिषद्भावेनाभिमुखः किमङ्ग पारमार्थिक इत्यतस्तत्पुरूषसमासेनाभिधर्म इति सिद्धं भवति।

उक्तो ह्यभिधर्म इति। स्वभावप्रभेदनिर्वचनतोऽवयवार्थोऽवबुद्धः समुदायार्थस्तु न तावदित्यतः समुदायार्थ पृच्छति इदं तु शास्त्रं कथमभिधर्मकोशम् इति।

तस्यार्थतोऽस्मिन्

इति तस्याभिधर्मसंज्ञकस्य शास्त्रस्यानन्तरोक्तत्वाद्ग्रहणम्। अर्थत इति त व्यञ्जनत इति। अर्थतोऽयमनुप्रवेशो न साकल्येन। तस्माद् यथाप्रधानमित्यव्ययीभावः। अन्तर्भूतः प्रविष्ट इति। एतच्छास्त्र मदीयं तस्य अर्थस्य कोशस्थानीयं भवति कोशसदृशम्। एतस्मिन्नर्थे षष्ठीतत्पुरूषसमासः। अभिधर्मस्य कोशाऽभिधर्मकोश इति। यत्र ह्यसिः प्रविशति स तस्य कोशः। अथवा

सः

अभिधर्मो ज्ञानप्रस्थानादिरेतस्य मदीयस्य शास्त्रस्य आश्रयभूतः। ततो ह्यर्षादभिधर्मोदेतन्मदीयं शास्त्रं निराकृष्टम्। अर्थत इत्यधिकृतम्। अतः स एवास्थ अभिधर्मः कोश इत्येतस्मिन्नर्थे बहुव्रीहिसमासः। अभिधर्मः कोशोऽस्येत्यभिधर्मकोशः। यतो ह्यसिर्निराकृष्यते स तस्य कोश इति एतच्छास्रमभिधर्मकोश इति। समुदायार्थोऽप्यस्यावगमित इति सूचयति।। २।।

किमर्थं पुनरभिधर्मोपदेशः किं प्रयोजनमित्यर्थः। सप्रयोजनस्य हि शास्त्रस्य प्रत्यास साधुर्भवति न निष्प्रयोजनस्य। केन चायं प्रथमत उपदिष्टः। केन चायभिधर्म आदितो देशितः। आप्तोपदिष्टस्य हि शास्त्रस्य प्रत्यासोऽर्हरूपः स्यादित्यभिप्रायः प्रथमत इति विशेषणम्। भदन्तकात्यायनीपुत्रादीनां पिणडीकरणेन पश्चादुपदेशस्य सिद्धत्वात्। प्रथमत उपदेशे हि विवादः। यत इति विस्तरः। यतः कारणात्। आचार्यः शास्त्रकारः। अभिधर्मकोश प्रत्यासशास्त्रम्। वक्तुं प्रणेतुम् आद्रियते आदरं करोतीत्यर्थः। एवं कृते प्रश्नद्वयेऽभिधर्मशास्त्रस्य सप्रयोजनतामाप्तोपदेशतां च प्रदर्शयन्नाह

[ धर्माणां प्रविचयमन्तरेण नास्ति क्लेशानां यत उपशान्तयेऽभ्युपायः।
क्लेशैश्च भ्रमति भवार्णवेऽत्र लोकस्तद्धेतोरत उदितः किलैष शास्त्रा।। [ ३ ]

धर्माणां प्रविचयम्

इति विस्तरः। यतो विना धर्मप्रविचयेन। रूपं वेदनानित्यं दुःखमित्येवमाकारेण नास्ति क्लेशोपशमाभ्युपायः अन्य इति वाक्यशेषः। स एव तु क्लेशोपशमाभ्युपाय इत्यर्थादापन्न भवति । तद्यथा नाहारेण विना प्राणसंधारणोपाय इत्युक्ते स एवाहारः प्राणसंधारणोपाय इत्यर्थादापन्न भवति तद्वदेतत्। यदि क्लेशोपशमो न स्यात्किं स्यादित्यत आह

क्लेशश्च भ्रमति भवाणवेऽत्र लोकः

इति। अनेन क्लेशोपशमस्यावश्यकर्तव्यतां दर्शयति। भवः संसार इत्येकोऽर्थः भव एवार्णवो भवार्णवः मज्जनस्थानसाधर्म्यात् समुद्रकल्पो भवः एतसिन् भवार्णवे। अत्र प्रत्यक्षीकृतपञ्चोपादानस्कन्धलक्षणव्यतिरिक्तभवप्रतिषेधार्थमत्रग्रहणम्। अत्र लोको भ्रमति तादात्म्यावस्थानात्। तादात्म्यावस्थानतोऽपि ह्यधिकरणनिर्देशो दृश्यते। तद्यथा अन्यपादपानुपयोगेन पलाशेष्वारामः स्थित इति। वृत्तौ तु हेत्वर्थतां तृतीययाः सूचयता हेतुमणिणचा हेत्वर्थ उक्तः। क्लेशश्च लोकं भ्रमयन्तीति  अत इत्युद्दिष्टहेतुप्रत्याम्नायः यत एवमत उद्दिष्टोऽभिधर्म इत्यर्थः। धर्मप्रविचयः क्लेशोपशमोपायो नान्यो धर्म इत्यभिधर्मापदेशकः संबन्ध इति। अत उक्त

तद्धेतोः

इति। स एव हेतुस्तद्धेतुः तस्य तस्माद्वा तद्धेतोरिति। तस्य धर्मप्रविचस्यार्थे हि धर्मप्रविचस्यार्थे हि धर्मोपदेशहेतुको धर्मप्रविचयः। कथ नाम धर्मप्रविचयः स्यादिति अभिधर्मौपदिष्टः शास्त्रा बुद्धेनात् एव। न हि विनाभिधर्मोपदेशेन शिष्यः शक्तो धर्मान् प्रविचेतुम् इति।

उदित

इति वदेर्निष्ठायां कृतसम्प्रसारणस्यैतद्र पम् न त्विण उत्पूर्वस्य अर्थायोगात्। उदित इत्युक्त उपदिष्ट इत्येकोऽर्थः।

किल

इति किलशब्दः पराभिप्रायं द्योतयति आभिधर्मिकाणमेतन्मतम् न त्वस्माकं सौत्रान्तिकानामिति भावः। श्रूयन्ते ह्यभिधर्मशास्त्राणां कर्तारः। तद्यथा ज्ञानप्रस्थानस्य आर्यकात्यायनीपुत्रः कर्ता। प्रकरणपादस्य स्थविरवसुमित्रः। विज्ञानकायस्य स्थविरदेवशर्मा। धर्मस्कन्धस्य आर्यशारिपुत्रः। प्रज्ञप्तिशास्त्रस्य आर्यमौद्गल्यायनः। धातुकायस्य पूर्णः। संगीतपर्यायस्य महाकौष्टिलः।

कःसौत्रान्तिकार्थः। ये सूत्रप्रमाणिका न तु शास्त्रप्रामाणिकास्ते सौत्रान्तिकाः। यदि न शास्त्रप्रामाणिकाः कथं तेषां पिटकत्रयव्यस्था सूत्रपिटको विनयपटिकोऽभिधर्मपिटक इति। सूत्रेऽपि ह्यभिधर्मपिटकः पठ्यते त्रैपिटको भिक्षुरिति। नैष दोषः। सूत्रविशेषा एव ह्यर्थविनिश्चयादयोऽभिधर्मसंज्ञा येषु धर्मलक्षणं वर्णयते। एतदाशङ्कानिवृत्त्यर्थमाहुः स तु प्रकीर्ण उक्तो भगवतेति विन्तरः। यथा स्थविरधर्मत्रातेन उदाना

अनित्या वत संस्काराः

इत्येवमादिका विनेयवशात्तत्र तत्र सूत्र उक्ता वर्गीकृता एकस्थीकृताः एवमभिधर्मोऽपि धर्मलक्षणोपदेशस्वरूपो विनेयवशात्तत्र तत्र भगवतोक्तः। स्थविरकात्यायनीपुत्रप्रभृतिभिर्ज्ञानप्रस्थानादिषु पिण्डीकृत्य स्थापित इति आहुर्वैभाषिकाः विभाषया दीव्यन्ति चरन्ति वा वैभाषिकाः विभाषां वा विदन्ति वैभाषिकठक्।। ३।।

[ सास्रवानास्रवा धर्माः संस्कृतामार्गवर्जिताः।
सास्रवा आस्रवास्तेषु यस्मात् समनुशेरते।। ४।। ]

इति। सहास्रवैः सास्रवाः न सन्त्यास्रवा एष्वित्यनास्रवाः सास्रवाश्चनास्रवाश्चेति समासः। स्वसामान्यलक्षणधारणाद्धर्माः। एप सर्वधर्माणां समासनिर्देश इति। एतावन्तो धर्मा यदुत सास्रवाश्चानास्रवाथ। नैतव्द्यतिरिक्ता धर्माः सन्ति। तस्मादाह सर्वधर्माणामिति समासनिर्देश इति संक्षेपनिर्देशः। विस्तरनिर्देशस्तु पश्चादा शास्त्रपरिसमाप्तेर्भविष्यति। अन्येऽपि समासनिर्देशाः सन्ति। संस्कृतासंस्कृता रूप्यरूपिणः सनिदर्शनानिदर्शना इत्येवमादयः। किमर्थमयमेव समासनिर्देश उक्तः। यस्मिन्नुक्ते न पर्यनुयोगः। अथवा सांक्लेशिकव्यावदानिकपक्षप्रदर्शनार्थम् तदर्थत्वाच्छास्त्रस्य। तत्पक्षद्वयावबोधे हि संक्लेशपक्षमपहाय व्यवदानपक्षासेवनान्निःश्रेयसावाप्तिर्भवेत्।

संस्कृता मार्गवर्जिताः

सास्नवाः

इति संस्कृता एव नासंस्कृताः। हेतुप्रत्ययजनिता रूपादयः संस्कृताः। किं सर्वे नेत्याह मार्गवर्जिताः। मार्गसत्यस्य संस्कृतत्वात् प्रसङ्ग इत्यत एव विशिनष्टि। एतदुक्त भवति मार्गसत्यं वर्जयित्वा सर्वे संस्कृताः सास्रवा इति।

कथं पुनस्ते सास्रवाः। यद्यास्रवसंप्रयोगात् क्लिष्टा एव चित्तचैत्ताः सास्रवाः स्युर्नान्ये। अथास्रवसहोत्पादात् एकस्यां संततौ समुदाचरत्क्लेशस्य सत्त्वस्य यथासम्भवं पञ्चोपादानस्कन्धाः सास्रवाः स्युः नासमुदाचरत्क्लेशस्य नापि बाह्या धर्माः। अथास्रवाणां य आश्रयास्ते सास्रवा इति षडेवायतनान्याध्यात्मिकानि सास्रवाणि स्युः। अथास्रवाणामालम्वनानि सास्रवाणि निरोधमार्गसत्यमपि सास्रवं प्राप्नोति ऊर्ध्वा च भूमिरूर्ध्वभूम्यालम्बनैरास्रवैः सास्रवा स्यादिति। अत आह

आस्रवास्तेषु यस्मात्समनुशेरते

इति। तस्मात्सास्रवा इति पूर्वमेवाध्याहार्यस्तस्माच्छब्दः। अनुशेरत इति पुष्टिं लभन्त इत्यर्थः प्रतिष्ठां लभन्त इत्यर्थो वा। पुष्टिलाभे प्रतिष्ठालाभे वा ते रागादयः संतायन्ते। अपरे व्याचक्षते यथानुशेते ममायमाहार इति पथ्योऽनुगुणीभवतीत्यर्थः तथा रागादयोऽपि तेषु धर्मेष्वनुशेरतेऽनुगुणीभवन्तीत्यर्थः। रागाद्यभिष्यन्दितकर्मनिर्वर्तिता हि सास्रवा धर्माः

कर्मजं लोकवैचित्र्यम्

इति वचनात्। प्रत्ययानुगुणयेनानुशेरते पुष्टिं लभन्त इत्यनुशयाः। अनुशेरतेऽनुगुणा वर्तन्ते प्रत्यया एष्विति वानुशयाः। अनुशयनं चैषामालम्बनतः संप्रयोगतो वा द्रष्टव्यम्। गुणमतिस्त्वाचार्य इह व्याचष्टे। किं कारणं यत्सर्वधर्मेष्वास्रवाणामालम्वनीभवत्सु संस्कृता एव मार्गवजिताः सास्रवा उच्यन्त इति सर्वे धर्मा आस्रवाणामालम्बनमित्यनाभिधर्मिकीयमेतत् आकाशाप्रतिसंख्यानिरोधयोरास्रवानालम्बनत्वात्। षडेव ह्यनुशया अनास्रवालम्बनाः पठ्यन्ते। ते च निरोधमार्गालम्बना एव

मिथ्यादृग्विमती ताभ्यां युक्ताविद्याथ केवला।
निरोधमार्गदृग्घेयाः षउनास्रवगोचराः।।

इति वचनात्। तस्मान्न सुलिखितगेतदिति पश्यामः। काममिति यद्यपीत्यर्थः। अथवा काममिति निपातोऽभ्युपगमार्थः अभ्युपगम्यत एव निरोध मार्गसत्यालम्बना अपि आस्रवा उपजायन्त इत्यर्थः। तत्र निरोधमार्गसत्ययोः। अनुशयनिर्देश एव ज्ञापयिष्याम इति

नानास्रवोर्ध्वविषया अस्वीकाराद्विपक्षतः

इत्यत्र। यद्धि वस्त्वात्मदृष्टितृष्णाभ्यां स्वीकृतं भवति तत्रान्येऽप्यनुशया अनुशयितुमुत्सहन्ते आर्द्र इव पटे रजांसि संस्थातुम्। नचैवमनास्रवम् नाप्यूर्ध्वा भूमिः। अतो न तदालम्बनास्तेष्वनुशेरते। विपक्षभूतौ च निर्वाणमागौ तदालम्बनानां क्लेशानाम् ऊर्ध्वा च भूमिरधराणाम्। अतोऽपि न तेषु प्रतिष्ठां लभन्ते तप्त इवोपले तलानि पादानामिति।। ४।।

[ अनास्रवा मार्गसत्य त्रिविधं चाप्यसंस्कृतम्।
आकाशं द्वौ निरोधौ च तत्राकाशमनावृतिः।। ५।। ]

अनास्रवा मार्गसत्य त्रिविधं चाप्यसंस्कृतम्

इत्यर्थापत्तिसिद्धत्वान्न सूत्रयितव्यमेतदित्येव चोद्ये आचार्यगुणमतिस्तावदाह। वक्तव्यमेवेदम्। किं कारणम्। द्विविधो हि मार्गो लौकिको लोकोत्तरश्च। अतो विशेषार्थं पुनरभिधीयते। अत एव चात्र मार्गसत्यग्रहणम्। प्रसिद्ध चार्थापत्त्या गम्यते नाप्रसिद्धम्। अप्रसिद्ध चासंस्कृतमिति। अपरे व्याचक्षते तृतीयराश्याशङ्कानिवृत्त्यर्थमर्थापत्तिसिद्धमप्येतत् पुनरूच्यते। यथा हि तिस्रो वेदना भवन्ति सुखा दुःखा अदुःखासुखा चेति एवं धर्मा अपि संभाव्येरन् सास्रवा अनास्रवाः सास्रवानास्रवाश्चेति। अथवा नैव सास्रवा नानास्रवाश्चेति। तेन येऽर्थापत्त्या निरस्ताः किं तेऽनास्रवा एव उताहो सास्रवानास्रवा एव आहोस्विन्नोभयथेति संदिह्येत। अस्ति हि सास्रवानास्रवत्वविकल्पावकाशः। कथमिति। वैभाषिकप्रक्रियया तावत्

द्विधा सानुशयं क्लिष्टमक्लिष्टमनुशयकैः

इति वचनादये चक्षुरादयो बाह्या वा रूपादयोऽक्लिष्टास्ते।वास्रवैः सास्रवाः नाननुशयानैः। प्रहीणैस्तैरननुशयानैरास्रवैर्न सास्रवाः अप्रहीणैस्त्वन्ततः परसंतानगतैरपि सास्रवा एवेति। दार्ष्टान्तिकप्रक्रिययापि च चक्षुरादयोऽर्हत्संतानगता बाह्याश्च रूपादयोऽनास्रवाः आस्रवाणामनाश्रयत्वात् सास्रवाश्च ते आस्रवाणामप्रतिपषत्वात् इति पार्यायिकं सास्रवानास्रवत्वं चक्षुरादीनां कल्प्यत इति संदेहः। तत्संदेहविनिवृत्त्यर्थमिदमुच्यते।

अनास्रवा मार्गसत्यं त्रिविधं चाप्यसंस्कृतम्

इति निप्पर्यायमनास्रवा एवामी न सास्रवा यथोक्तमिति पुनर्वचनम्। ते तर्हार्हच्चक्षुरादयो वैभाषिकैः क्व पक्षे निक्षेप्तव्याः। किं सास्रवपक्षे अथानास्रवपक्ष इति। सास्रवपक्ष इति त आहुः। कथ प्रहीणैरास्रवैस्ते सास्रवा व्यवस्थाप्यन्ते। येष्वास्रवा अनुशेरतेऽनुशयितवन्तो अनुशयिष्यन्ते वा ते सास्रवाः। त्रैकालिकार्थविवक्षयापि हि लोके वर्तमानकालप्रयोगो दृश्यते। यः प्रजा रक्षति स राजेति योऽपि रक्षितवान् योऽपि रक्षिष्यति स चापि राजेति गम्यत एवेति अत एवं व्याख्यायते। अथवा यद्यपि ते प्रहीणैरास्रवैर्नसास्रवा अप्रहीणैस्त्वपरिमितैरास्रवैरन्ततः परसंतानगतैरपि एव भवन्ति। ननु च समासनिर्देशादेव

सास्रवानास्त्रवा धर्माः

इति तृतीयराश्यप्रसङ्गः न तत्रैकशेषनिर्देशसंभवात्। सास्रवाश्चानास्रवाश्च सास्रवानास्रवाश्चेति सास्रवानास्रवा इत्येकशेषः। असरूपाणमप्येकशेष इप्यते गुणो यङ्लुकोरिति यथा। अपरे पुनराहुः। अर्थापत्त्या सिद्धमेवैतत् स्पष्टीकणार्थ तु प्रपञ्च उच्यते। तद्यथा विशेषणं विशेष्येण बहुलमित्यनेनैव सर्व सिद्धम् पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेनेत्येवम दिप्रपञ्च उच्यते। तद्वदेतत्।

कतमत् त्रिविधमसंस्कृतम् इत्यप्रतीतत्वात् पृच्छति  त्रिविधग्रहणमियत्तावधारणार्थम्। सन्ति हि केचिदेकमेवासंस्कृतं निर्वाणमित्याहुर्यथा वात्सीपुत्रीयाः। परमाणवादयो वहवोऽसंस्कृता इति वैशेषिकाः। तन्मतप्रतिषेधार्थमियत्तावधारणम्। कतमौ द्वौ इति प्रतिसंख्याऽप्रतिसंख्यानिरोधावेव पृच्छति नाकशम् आकाशस्य लोके प्रसिद्धत्वात्।

तत्राकाशमनावृतिः

इति। तत्रेति निर्धारणे वाक्योपन्यासे वा। अवकाशं ददा तीत्याकाशमिति निर्वचनम्। भृशमस्यान्तः कशन्ते भावा इत्याकाशमित्यपरे। अनावृतिरनावरणम् कर्तृसाधनं कर्मसाधनं वा। यो धर्मोऽन्यान् धर्मान्नावृणोति। अन्यैर्वा नाव्रियते तत् अनावरणस्वभावमाक्राशम्। तदप्रत्यक्षविषयत्वादन्यधर्मानावृत्यानुमीयते न त्वावरणभावमात्रम्। अत एव च व्याख्यायते यत्र रूपस्य गतिरिति। यदि यन्नावृणोति नाव्रियते वा तदाकाशम् अप्रतिधा अपि चिदादयः संस्कारस्तथैवेत्याकाशं प्राप्नुवन्ति। न प्राप्नुवन्ति परेषामावरणभावात्। ऋद्धिमन्तो हि चित्तचैत्तबलेन परेषां गतिं चित्तादीन् वा विबधन्ति। प्रतिसंख्याऽप्रतिसंख्यानिरोधौ तर्ह्याविबन्धकत्वादाकाशं प्राप्नुतः न तयोः संयोगद्रव्यानुत्पत्तिधर्माणां संयोगप्राप्तिनियतरोधभूतत्वेनोत्पत्तिविग़्हरोधभूतत्वेन चावरणभूतत्वात्। अथवा यस्यानावरणमेव लक्षणं नान्यल्लक्षणं तदाकाशम्। तयोश्चान्यलक्षणमस्तीति न तौ निरोधावाकाशं प्राप्नुतः। असर्वगतं तर्ह्याकाशमनित्यं वा प्राप्नोति। आवरणभावे भावात्तद्भावे चाभावात्। कुड्यादिषु ह्यन्यस्वरूपस्यावरणं भवतीति अत्राकाशलक्षणाभावप्रसङ्गः कुड्याद्यपगमे च पुनस्तद्भवतीत्यनित्यं प्राप्नोति। नानित्यं प्राप्नोति तत्रापि कुड्याद्यवकाशदानादाकाशमस्त्येव। यदि हि तत्राकाशं न स्यात् तस्यैव कुड्यादेरनवकाशत्वादवस्थानं न स्यात् यत्तु तत्र रूपान्तरस्यानवस्थानं तत्कुड्याद्यावरणात् नाकाशाभावात्। उक्तं हि भगवता पृथवी भो गौतम कुत्र प्रतिष्ठिता पृथीवा ब्राह्यण अब्मण्डले प्रतिष्ठिता। अब्मण्डलं भो गौतम क्वप्रतिष्ठितम् वायौ प्रतिष्ठितम्। वायुर्भो गौतम क्व प्रतिष्ठितः आकाशे प्रतिष्ठितः। आकाशं भो गौतम कुत्र प्रतिष्ठितम् अतिसरसि महाब्राह्यण अतिसरसि महाब्राह्यण। आकाशं ब्राह्यणाप्रतिष्ठितमनालम्बनमिति विस्तरः। तस्मादस्त्याकाशमिति वैभाषिकाः।। ५।।

[ प्रतिसंख्यानिरोधौ यो विसंयोगः पृथक् पृथक्।
उत्पादात्यन्तविग़्होऽन्यो निरोधोऽप्रतिसंख्यया।। ६ ]

यो विसंयोगः

इति विशेषणेनानित्यतानिरोधोऽप्रतिसंख्यानिरोधश्च व्युदस्तौ भवतः। न हि विसंयोगलक्षणौ तौ निरोधौ। विसंयुक्तिविसंयोगः क्लेशविसंयुक्लिक्षणः। संयोगप्राप्तिनियतरोधभूतो वा यो धर्मः स प्रतिसंख्यानिरोधः। दुःखादीनामार्यसत्यानामिति विशेषणपरिग्रहात् प्रतिसंख्यानम् अनास्रवैव प्रज्ञा गृह्यते। न हि लौकिकी प्रज्ञा दुःखसत्याद्याकारा किं तर्हि उत्तराधरभूमिशान्ताद्युदाराद्याकारा। प्रज्ञविशेष इति विशेषग्रहणं क्लेशप्रहाणानन्तर्यमार्गप्रज्ञाग्रहणार्थम्। तेन प्रज्ञाविशेषेण प्राप्यो निरोध इति प्रतिसंख्यानिरोधः। मध्यपदलोप कृत्वा इति शकपार्थिवादीनामुपसंख्यानम्। शाकप्रियाः पार्थिवाः शाकपार्थिवा इतीष्ट्या मध्यपदलोपः। यदि प्रतिसंख्ययानास्रवैव प्रज्ञा गृह्येत लौकिकमार्गप्राप्यो निरोधो न गृहीत इत्यव्यापि लक्षणं प्राप्नोति। नाव्यापि सर्वो हि त्रैधातुकसास्रववस्तु निरोधोऽनास्रवया प्रज्ञया प्राप्यते। न स निरोधोऽस्ति यो लौकिक्यैव प्रज्ञया प्राप्यते नानास्रवयेति किं लौकिक्या प्रज्ञा प्रयोजनम्। यो हि लौकिकेन मार्गेण कश्चिन्निरोधः प्राप्यते स एव पुनर्लोकोत्तरेण प्राप्यत एवेति लोकोत्तरैव प्रज्ञा तत्र न लौकिकी। द्रव्यसन् प्रतिसंख्यानिरोधः सत्यचतुष्टयनिर्देशनिर्दिष्टत्वात् मार्गसत्यवदिति वैभाषिकाः।

पृथक्पृथक्

इति नानेत्यर्थः। यावन्ति हि संयोगद्रव्याणीति। संयुक्तिः योगः। संयोगाय द्रव्याणि सयोगद्रव्याणि सम्प्रयुज्यते तोष्विति वा संयोगाः संयोगाश्च ते द्रव्याणि चेति संयोगद्रव्याणि सास्रवद्रव्याणीति यावदुक्त भवति। सास्रवं हि द्रव्यं स्तम्भस्थानीयम् सम्प्रयोजनं रज्जुस्थानीयम्। पुद्गलस्तु बलीवर्दस्थानीय इति भगवतोक्तम्। अन्यथेति यद्येक इत्यर्थः। सर्वक्लेशनिरोधसाक्षात्क्रियेति समुदयादिदर्शनभावनाहेयक्लेशनिरोधप्राप्तिरित्यर्थः। शेषप्रतिपक्षभावनावैयर्थ्यमिति। शेषक्लेशसमुदयादिदर्शनभावनाप्रहातव्यात्मकप्रतिपक्षमार्गोत्पादनं निष्प्रयोजनमित्यर्थः।

यत्तर्ह्युक्तमसभागो निरोध इति क्वोक्तम् सूत्रे। पूर्वभर्त्रा विशाखेन गृहपतिना पृष्टया धर्मदिन्नया भिक्षुणयोक्तम्। किं सभाग आर्थे निरोधः। असभाग आयुष्मन्विशाखेति। अप्रतिसदृशो निरोध इत्यर्थमभिसभीक्ष्य पृच्छति। अस्य कोऽर्थ इति। बहुत्वे हि सति प्रतिसदृशोऽन्यतमो भवेदिति परस्याभिप्रायः। नास्य कश्चित्सभागहेतुरिति। सभागहेतुः सभाग इत्येकोऽर्थो हेतुशब्दलोपात्। दृश्यन्ते हि पदेषु पदैकदेशान् प्रयुञ्जना वाक्येषु च वाक्यैकदेशान्। तद्यथा सत्यभामा भामा देवदत्तो दत्तः प्रविश पिण्डीम् प्रविश तर्पणमिति। नित्यः खलु प्रतिसंख्यानिरोधः। तस्य किं सभागहेतुना पयोजनमित्यसभागहेतुरसभागः। नास्ति सभागोऽस्येत्यसभागो बहुव्रीहिसमासः। नासौ कस्यचिदिति। नासौ प्रतिसंख्यानिरोधः कस्यचिदन्यस धर्मस्य सभागहेतुरित्यधिकृतम्। किं कारणम्। संस्कृत एवेति सभागहेतुरिष्यते। तत्र न सभागोऽसभाग इति तत्पुरूषः। न तु नास्य कश्चित्सभागोस्तीति न त्वस्य निरोधस्य कश्चिदन्यो निरोधः सदृशो न भवतीत्यर्थः।

उत्पादात्यन्तविग़्होऽन्यो निरोधोऽप्रतिसंख्यया

अनागतानां धर्माणामुत्पादस्यात्यन्तं विग़्होऽत्यन्तविग़्होऽत्यन्तनियतरोधः। अन्य इत्यप्रतिसंख्यानिरोधः। स हि प्रतिसंख्यानिरोधादनन्तरोक्तादन्यः। अप्रतिसंख्ययेति प्रसज्यप्रतिषेधेऽयमकारः न प्रतिसंख्यया प्राप्य इत्यर्थः। अथवा पर्युदासे प्रतिसंख्याया यदन्यत्प्रत्ययवैकल्यं सा प्रतिसंख्या तया प्राप्यो निरोधोऽप्रतिसंख्यानिरोधः मध्यपदलोपात्। अयुक्तमेतत्। प्रत्ययवैकल्यं ह्यभावः कथमभावेन स निरोधः प्राप्यत इति औपचारिकत्वाददोषः। अथवाप्रतिसंख्यानिरोध इति न प्रतिसंख्यानिरोधोऽप्रतिसंख्यानिरोधः। प्रतिसंख्यानिरोधादन्यत्वमात्रमेवोच्यते न तु प्रत्ययवैकल्यस्य व्यापार इति। उत्पादग्रहणमनित्यतानिरोधव्युदासार्थम्। अनित्यतानिरोधो हि धर्मस्थितेरत्यन्तविग़्हो न धर्मोत्पादस्य। अत्यन्तग्रहणमसंज्ञिनिरोधसमापत्त्यसंज्ञिकव्युदासार्थम्। तानि ह्यनागतानां चित्तचैत्तानामुत्पादविग़्हो न त्वत्यन्तम् तावत्कालिकवात्तद्विग़्हभावस्य।

यथैकरूपव्यासक्तचक्षुर्मनस इति विस्तरः। यथेत्युदाहरणकथनम्। यथकस्मिन्नीले रूपे व्यासक्त चक्षुर्मनश्च यस्य स एकरूपव्यासक्तचक्षुर्मनाः तस्य यानि रूपान्तराणि गृह्यमानान्नीलादन्यानि नीलान्तरपीतलोहितावदातादीनि वर्णरूपाणि संस्थानरूपाणि च शब्दगन्धरसस्प्रष्टव्यानि च सर्वाणि अत्ययन्ते प्रत्पुत्पन्नमध्वानमतिक्रामन्ति अतीतमध्वानं प्रतिपद्यन्त इत्यर्थः। तदालम्बनेरिति तानि नीलान्तरादीन्यनन्तरोक्तान्यालम्बनान्तराणि येषां ते तदालम्बनाः। के पञ्च विज्ञानकायाः तैः न शक्यमुत्पत्तुमिति भावसाधनमेतत्। न हि ते समर्था इति विस्तरः। न हि ते पञ्च विज्ञानकाया अतीतं विषयं स्वालम्बनमपि शक्ता ग्रहीतुं वर्तमानालम्वनत्वात्पञ्चानां विज्ञानकायानाम्। अथान्यदिदानीं नीलन्तरादिकं वर्तमानमालम्ब्य कस्मान्नोत्पद्यन्ते। न शक्यमेवं भवितुम् सर्वधर्माणां चतुष्के नियतत्वात्। हेतौ फ़ल आश्रय आलम्बने चेति। यस्य विज्ञानस्य यदालम्बनं तदेव तस्यालम्बनं भवेत् भवेन्नान्यदिति। आलम्बनप्रत्ययवैकल्यात्ते पञ्च विज्ञानकाया न पुनरूत्पद्यन्ते। अत आह। स तेषामप्रतिसंख्यानिरोध इति विस्तरः। तेषां पञ्चानां विज्ञानकायानां प्रत्ययवैकल्यात्प्राप्यत आलम्बनप्रत्ययवैकल्यात्। चतुर्भिरेव हि प्रत्ययैर्हेतुसमनन्तरालम्बनाधिपतिप्रत्ययैश्चित्तचैत्ता उत्पद्यमाना उत्पद्यन्ते। तेषामन्यतरवैकल्येऽप्यनुत्पत्तिः। समनन्तरप्रत्ययवैकल्यादित्यपरे। समनन्तरप्रत्ययो हि तदानीं चित्तचैत्तलक्षण एकस्यैव तस्य नीलविज्ञानोत्पत्त्यसंभवात्। उदाहरणमात्र चैतत्। एवं क्षान्तिलाभ्यादीनां पञ्चानामप्यापायिकानामनागतानां स्कन्धानां तदुत्पत्तिविरूद्धप्रत्ययसंमुखीभावेन प्रत्ययवैकल्यादप्रतिसंख्यानिरोधः प्राप्यत इत्युदाहार्यम्। अप्रतिसंख्यानिरोधमेव वाभिसधाय स्त्रोतआपन्न पुद्गलमधिकृत्योक्त भगवता निरूद्धा अस्य नरकास्तिर्यञ्चः प्रेता इति। तदेवंजातीयकानामनागतानां धर्माणां प्रत्ययवैकल्यात्प्रतिसंख्यामन्तरेणोत्पादस्य नियतरोधभूतो यो धर्मः सोऽप्रतिसंख्यानिरोध इत्युच्यते। न हि प्रत्ययवैकल्यमात्रादत्यन्तं तदनुत्पत्तिरूपपद्यते पुनस्तज्जातीयप्रत्ययसांनिध्ये तदुत्पत्तिप्रसङ्गात् को हि तदा तदुत्पत्तौ विबन्धः स्यादिति वैभाषिकाः।

चतुष्कोटिकं चात्रोत विस्तरः। अत्र प्रतिसंख्याऽप्रतिसंख्यानिरोधलक्षणनिर्देशे चतुष्कोटिकं चतुष्प्रकारं प्रश्नविसर्जनम्। किमर्थम् व्युत्पादनार्थम्। तद्यथातीतप्रत्युत्पन्नोत्पत्तिधर्माणां सास्रवाणामिति सास्रवत्वात्प्रतिसंख्यानिरोध एव लभ्यते। अतीतप्रत्युत्पन्नानामुत्पादस्य कृतत्वादुत्पत्तिधर्माणां वावश्यंभावान्नाप्रतिसंख्यानिरोधो लभ्यते। उत्पादात्यन्तविग़्हलक्षणो ह्यप्रतिसंख्यानिरोधः। तद्यथानुत्पत्तिधर्माणामनास्रवसंस्कृतानामिति। अत्यन्तविग़्हितोत्पादत्वादेषामनुत्पत्तिधर्मत्वम्। अतश्च तेषामप्रतिसंख्यानिरोधो लभ्यते तद्यथा षड् भूमिकामनामनागम्यध्यानान्तरध्यानभूमिकानां श्रद्धानुसारिमार्गाणामेकस्मिन् संमुखीभूते शेषाणां पञ्चनामप्रतिसंख्यानिरोधो लभ्यते न तु प्रतिसंख्यानिरोधोऽनास्रवत्वात्। न हि निर्देषं प्रहाणार्ह भवति। अनुत्पत्तिधर्मग्रहणमतीतप्रत्युत्पन्नोत्पत्तिधर्मनिरासार्थम् अनास्रबग्रहणं सास्रवनिरासार्थम्। संस्कृतग्रहणमसंस्कृत निरासार्थम्। असंस्कृतमपि हि स्वभावतोऽनुत्पत्तिधर्मकम् अतस्तत्प्रसङ्गो मा भूदिति तद्विशेषणम्। केषांचिदेवं पाठः तद्यथानुत्पत्तिधर्माणामनास्रवाणामिति। तेषां कथमसंस्कृतानां ग्रहणाप्रसङ्गः। न भवति। येषां धर्माणां प्रतिसंख्यानिरोधोऽप्रतिसंख्यानिरोधो वा संभवति तेषामधिकारः। न चासंस्कृतानां तौ निरोधौ संभवतः। उत्पादात्यन्तविग़्हो ह्यप्रतिसंख्यानिरोधः। न चासंस्कृतानामुत्पादोऽस्ति। किं चानुत्पत्तिधर्माणामिति पर्युदासेन नञ्समासः। उत्पत्तिधर्मेभ्योयेऽन्ये तत्सदृशाश्च धर्मास्तेऽनुत्पत्तिधर्माणः। के च तादृशाः संस्कृता एव नासंस्कृता इत्यप्रसङ्गोऽसंस्कृतानामिति ब्रूवते। सन्ति येषामुभयमिति प्रतिसंख्यानिरोधश्चाप्रतिसंख्यानिरोधश्च। तद्यथा सास्रवाणामिति विस्तरः। सास्रवत्वात्तेषां प्रतिसंख्यानिरोधः प्राप्यते। अनुत्पत्तिध्
अर्मत्वादप्रतिसंख्यानिरोधोऽपि प्राप्यते यदा तदानयोः प्राप्तिरभिप्रेयते नावश्यमनयोर्युगपत्प्राप्तिर्भवति। केषांचिद्धि पूर्वं प्रतिसंख्यानिरोधः प्राप्यते पश्चादप्रतिसंख्यानिरोधः तद्यथार्हत एकरूपव्यासक्तचक्षुर्मनसस्तदन्यरूपाद्यालम्बनानां पञ्चानां विज्ञानकायानाम्। केषांचित्पूर्वमप्रतिसंख्यानिरोधः प्राप्यते पश्चात्प्रतिसंख्यानिरोधः तद्यथा क्षान्तिलाभिनोऽपायगतीनाम्। केषांचिद्युगपत् तद्यथा दृष्टिप्राप्तस्याधिमात्राधिमात्रक्लेशप्रतिपक्षोदये तेषामधिमात्राणामनागतानां क्लेशानां प्रतिसंख्यानिरोधश्चाप्रतिसंख्यानिरोधश्च युगपत्प्राप्यते। एवमन्येषामपि संभवतो योज्यम्।

तद्यथातीतप्रत्युत्पन्नोत्पत्तिधर्माणामनास्रवाणामिति। अतीतादीनामेषामुत्पादस्य विग़्हयितुमशक्यत्वादप्रतिसंख्यानिरोधो न लभ्यते। अनास्रवत्वाच्चैषां प्रतिसंख्यानिरोधोऽपि न लभ्यते। असंस्कृतानां तूत्पादाभावान्नाप्रतिसंख्यानिरोधोऽस्ति। उत्पादात्यन्तविग़्हो ह्यप्रतिसंख्यानिरोध इत्युक्त प्राक्। अनास्रवत्वाच्च प्रतिसंख्यानिरोधोऽपि नास्ति।। ६।।

[ ते पुनः संस्कृता धर्मा रूपादिस्कन्धपञ्चकम्।
त एवाध्वा कथावस्तु सनिः सारा सवस्तुकाः।। ७ ]

एवमसंस्कृतस्याल्पवक्तव्यत्वात्पुरस्तात्तत्प्रश्रान् परिसमापय्य संस्कृतान्निर्देष्टुकाम उपोद्धातमुत्थापयति यदुक्तं संस्कृता मार्गवर्जिताः सास्रवा इति कतमे ते संस्कृता इति।

ते पुनः संस्कृता धर्माः

पुनः शब्दः प्रभेदान्तरप्रदर्शनार्थः। उक्तः पूर्वप्रभेदः

सास्रवानास्रवाः

इति। अयं तु पुनःप्रभेद इति। असंस्कृतनिर्देशेन व्यवहितत्वात्पुनः संस्कृतग्रहणमसंस्कृतनिरासार्थम्। त इति तच्छब्दः पूर्वप्रकृतापेक्षः। के च पूर्वप्रकृताः अवर्जिताश्च ये सास्रवाः वर्जिताश्च ये मार्गसत्यस्वभावाः उभये ह्यपेक्षिताः। कथं गम्यते

ये सास्रवा उपादानस्कन्धास्ते

इत्यनास्रवेभ्यः सास्रवनिष्कर्षवचनात्। यत्

रूपादिस्कन्धपञ्चकम्

वक्ष्यमाणलक्षणम् तेऽमी संस्कृता द्रष्टव्याः। अन्योन्यमेषां संग्रहः। रूपादिग्रहणं शीलादिस्कन्धनिरासार्थम्। अन्येऽपि हि पञ्च स्कन्धाः सन्ति। शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धश्चेति। स्कन्धग्रहणं रूपादिविषयनिरासार्थम्। समेत्य संभूयेति पर्यायावेतौ। अथवा समेत्य समागम्यान्योन्यमपेक्ष्येत्यर्थः। संभूय संजन्येत्येवं संशब्दस्यार्थं दर्शयति। न ह्येकप्रत्ययजनितमिति सर्वाल्पप्रत्ययत्वेऽप्यवश्यं द्वौ प्रत्ययौ स्तः।

चतुर्भिश्चित्तचैत्ता हि समापत्तिद्वयं त्रिभिः।
द्वाभ्यामन्ये तु जायन्ते

इति वचनात्। दुग्धवदिति संस्कृतशब्दस्य निष्ठान्तत्वान्निष्ठान्तशब्देनैव दृष्टान्तं दर्शयति। दुग्धवदिति दुग्धं नाम क्षीरम्। यत् स्तनान्निष्कासितं तद्दुग्धमिति न्याय्यम् यत्तु निष्कासिष्यते यच्च नैव निष्कासिष्यते धेनुस्थमेव वर्तते तद्दुग्धमिति न प्राप्तम् ' उच्यते च लोके दुग्धमिति। एवमिहापि ये संस्करिष्यन्त उत्पत्तिधर्माणोऽनागता येऽपि न संस्करिष्यन्तेऽनुत्पत्तिधर्माणस्तेऽपि संस्कृता इत्युच्यन्ते तज्जातीयत्वात् स्वलक्षणसादृश्यात्।

त एवाध्वा

इति विस्तरः। सर्वाभिधर्मः सूत्रार्थः सूत्रनिकषः सूत्रव्याख्यानमिति। सूत्रोक्तानामप्यध्वादीनां स्कन्धपर्यायरूपाणमिह वचनम्।

गतगच्छद्गमिष्यद्भावादिति। लोके प्रसिद्धमध्वानमपेक्ष्यायमध्वा व्याख्यातः। तथा हि लोके कथ्यते। अयमध्वा ग्रामं गतोऽयमध्वा गच्छत्ययमध्वा गमिष्यतीति। एवमिहापि गतोऽध्वा योऽतीतो गच्छति यो वर्तमानो गमिष्यति योऽनागत इति। अद्यन्तेऽनित्यतयेति वा अध्वान इत्यधिकृतम्। नैरूक्त विधानमपेक्ष्यायमर्थो दर्शितः। अद्यन्तेऽनित्यतया भक्ष्यन्त इत्यध्वान इति संस्कृता एवाध्वशब्देन भगवता देशिताः।

कथावस्तु -

शब्देनापि त एव संस्कृता भगवता देशिताः। त्रीणीमानि भिक्षवः कथावस्तून्यचतुर्थान्यपञ्चमानि यान्याश्रित्यार्याः कथाः कथयन्तः कथयन्ति। कतमानि त्रीणि अतीतं कथावस्त्वनागतं कथावस्तु प्रत्युत्पन्न कथावस्त्विति। कथा वाक्यमिति विस्तरः। कथा वाक्यं वर्णात्मकः शब्द इत्यर्थः। तस्या वस्तु नाम विषय इत्यर्थः। नाम्नः पुनरर्थोऽभिधेयः। तथा हि वक्ष्यति वाङ् नाम्नि प्रवर्तते नामार्थ द्योतयतीति। यदि नामैव कथावस्तु नामैव संस्कारस्कन्धैकदेश एवेति कथं कृत्वा कथावस्तुशब्देन संस्कृता एवोक्ता इत्यत आह। सार्थकवस्तुग्रहणात्तु संस्कृतं कथावस्तूच्यत इति। अन्यथा हीति विस्तरः। यदि सार्थकं वस्तु न गृह्येत प्रकरणग्रन्थो विरूध्येत कथावस्तून्यष्टादशभिर्धातुभिः संगृहीतानीति। कया पुनर्युक्तया सार्थकं वस्तु गृह्यते। द्विविधाः कथाया विषयः साक्षात् पारपर्येण च। साक्षाद्विषयो नाम पारंपर्येणार्थः। स हि स्वविषयभूतस्य नाम्नो विषय इति। अतस्तस्यापि विषयो व्यवस्थाप्यते। असंस्कृतं कस्मान्न कथावस्तुत्वेनोक्तम् अध्वपतितस्य नाम्नोऽनध्वपतितेन सहार्थायोगात् विषयो हेतुरिति वा अर्थद्वयवाचकवस्तुशब्दपरिग्रहाद्वा। यदि कथाया विषयो हेतुः प्रत्ययश्च भवति तत्कथावस्तु। असंस्कृतं तु न हेतुप्रत्ययः कथाया इति न कथावस्तु। अथवातीतादीनां संस्कृतानामतिबहुरूपत्वेनाख्यातकरणयोग्यत्वात्। एवं चैवं दीपंकरस्तथागतोऽभूत्। एवं चैवं च मैत्रेयस्तथागतो भविष्यति। एवं चैवं च राजा कप्फ़िणो भवतीति। अतः संस्कृता एव कथावस्तुत्वेनोक्ता नासंस्कृताः।

सर्वस्य संस्कृतस्य निर्वाणमिति निरूपधिशेषनिर्वाणम्। यद्येवं सास्रवस्य तदस्तीति भवति सास्रवस्य सनिः सारत्वयोगः मार्गसत्यस्य तु कथम्। कोलोपमं धर्मपर्यायमाजानद्भिर्धर्मा अपि प्रहातव्याः प्रागेवाधर्मा इति मार्गसत्यस्यापि निःसरणं कल्पत एवेति सर्व एव संस्कृता सनिः सारा भवन्ति।

सवस्तुका

इति। वसन्त्यस्मिन्प्राक् कार्याणि पश्चात्तत उत्पत्तिरिति वस्तुहेतुरित्यर्थः स एषामस्तीति सवस्तुकाः। प्रवचने हि वस्तुशब्दः पञ्चस्वर्थेषु दृश्यते। स्वभाव आलम्बने संयोजनीये हेतौ परिग्रहे च। स्वभावे तावत् यद्वस्तु प्रतिलब्धं समन्वागतः स तेन वस्तुनेति तेन स्वभावेनेति गम्यते। आलम्बने ज्ञेया धर्माः कतमे आह सर्वे धर्मा ज्ञानेन ज्ञेया यथावस्तु यथालम्बनमित्यर्थः। संयोजनीये यस्मिन्वस्तुन्यनुनयसंयोजनेन संयुक्ताः प्रतिघसंयोजनेनापि तस्मिन्निति। हेतौ सवस्तुका धर्माः कतमे सर्वे संस्कृता धर्मा इति। परिग्रहे ' क्षेत्रवस्तु गृहवस्त्वापणवस्तु धनवस्तु। परिग्रहं प्रहाय ततः प्रतिविरतो भवतीति। इह हेतौ वस्तुशब्दो वेदितव्यो हेतुवचनः। किलेति किलशब्दः परमतं दर्शयति। स्वमतं त्वस्य लक्ष्यते। सवस्तुकाः सस्वभावाः संस्कृताः। असंस्कृतास्त्ववस्तुकाः प्रज्ञप्तिसत्त्वादिति।। ७।।

[ ये सास्रवा उपादानस्कन्धास्ते सरणा अपि।
दुःखं समुदयो लोको दृष्टिस्थानं भवश्च ते।। ८।। ]

त एव पुनः संस्कृता इति ये सास्रवाः अनास्रवाः पूर्वमुक्ता इति दर्शयति।

ये सास्रवा उपादानस्कन्धास्ते

इति तेषामित्यत्राहार्यम्। किं सिद्धमिति। यदर्थापन्न तद्विचारयति। उपादानस्कन्धादयः सूत्रेषूक्ताः। तेनेह ते व्याख्यायन्ते। सर्वोऽभिधर्मः सूत्रार्थ इति विस्तरेणोक्तमेतत्। तत्संभूतत्वादुपादानस्कन्धा इति। उपादानसंभूताः स्कन्धा उपादानस्कन्धाः मध्यपदलोपात्। यथा तृणसंभूतोऽग्निस्तृणाग्निः तुषसंभूतोऽग्निस्तुषाग्निरिति। उपादानानां स्कन्धा उपादानस्कन्धा इति षष्ठीसमासेनैव मध्यपदलोपमकृत्वान्ये साधयन्ति। एवं च निदर्शयन्ति यथा तृणानामग्निस्तृणाग्निरिति। युक्तम् ये सत्त्वसंख्यातास्त उपादानस्कन्धाः क्लेशभिष्यन्दितकर्महेतुकत्वात्। बाह्यास्तु भावाः कथमुपादानस्कन्धाः। तेऽप्युपादाननिर्वृत्ताः

कर्मजं लोकवैचित्र्यम्

इति सिद्धान्तात्। तद्विधेयत्वाद्वा राजपुरूषवदिति। यथा राज्ञो विधेयः पुरूष एवमुपादानानां विधेयाः स्कन्धाः तद्वशेनालम्बनगत्यन्तरप्रवृत्ते। उपादानानि वा तेभ्यः संभवन्तीत्यर्थकथनमात्रमेतत्। पदानि त्वेवं वक्तव्यानि। उपादानानां संभवा हेतवो वा स्कन्धा उपादानस्कन्धाः पुष्पफ़लवृक्षवत्। यथा पुष्पाणां फ़लानां वा सम्भवो हेतुर्वृक्षः पुष्पवृक्षः फ़लवृक्ष इति वा तद्वत्। अर्हत्स्कन्धा अपि पारसांतानिकोपादानविधेयाः विक्रियापादनात्। तेभ्योऽपि पारसांतानिकान्युपादानानि सम्भवन्तीत्यविरूद्धमेषामुपादानस्कन्धत्वम्।

रणा हि क्लेशा आत्मपरव्याबाधनादिति। ये ह्यात्मानं परांश्च व्याबाधन्ते ते रणा युद्धानीत्यर्थः। तथैव च क्लेशा रणा उच्यन्ते। तदनुशयितत्वादिति। तैरनुशयिता उपदेविता इत्यर्थः। अथवानुशयिनः कृतास्तैरनुशयिताः तद्भावस्तदनुशयितत्वम् तस्मात्। तदनुशयितत्वात् अथवा तेषामनुशयितत्वम् तस्मात्।

सरणाः

सास्रववत्। सास्रवत्वे यद्वयाख्यानं तदेवास्य वक्तव्यम्। आर्याणां प्रतिकूलत्वात्

दुःखम्

इति संस्कारदुःखतयार्याणां तत्प्रतिकूलम्। समुदेत्यस्माद्दुःखमिति

समुदयः

इति। हेतुभूताः स्कन्धाः समुदयः फ़लभूता दुःखमिति वर्णयन्ति। लुज्यत इति

लोकः

इति। अस्मिन्नेव रोहिताश्च व्याममात्रे कलेवरे लोकं प्रज्ञपयामि लोकसमुदयं चेति सूत्रम्। लुज्यते प्रलुज्यते तस्माल्लोक इति च भगवतैवोक्तम्। लुज्यते विनश्यतीत्यर्थः। लुजिरिह गृहीतो न लोकिः। नैरूक्तेन तु विधानेन गकारस्य स्थाने ककारः वकारः कृतः तस्माल्लोक इति भवति। दृष्टिरस्मिंस्तिष्ठतीति। ये केचिद्भिक्षव आत्मत आत्मीयतश्च समनुपश्यन्ति त इमानेव पञ्चोपादानस्कन्धानात्मत आत्मीयतश्च समनुपश्यन्तीति वचनादुपादानस्कन्धाः

दृष्टिस्थानम्।

भवतीति

भवः

इति सास्रवा एव धर्मा भवशब्देनोक्ताः। भवः कतमः पञ्चोपादानस्कन्धा इति वचनात्। एते च दुःस्वादयः शब्दा मार्गसत्येऽपि प्रसज्यन्ते। मार्गसत्यमपि हि संस्कारदुःखतया दुःखम्। समनन्तरप्रत्ययादिभावेन चास्मात्सास्रवं वस्तु समुदेति लुज्यते च दृष्टिश्च तदालम्बते भवति च तदुत्पद्यते इत्यर्थः। नैष दोषः। रूदिं ह्यपेक्षते शब्दप्रवृत्तिः । ये धर्माः संस्कारदुःखतयार्याणां प्रतिकूला दुःखानिरोधिनः तदुत्पादकाः प्रसिद्धा दृष्टिपुष्टिजनका अनादिमति च संसारे विनश्यन्ति भवन्ति तेष्वेवामी दुःखादय आर्यैः सङ्केतिताः न मार्गसत्ये। तस्मात्सास्रवा एव धर्मा दुःखशब्दाद्यभिधेया भवन्ति नानास्रवाः। न हि गच्छतीति गौरित्युक्ते सर्वो गन्ता गौरित्युच्यते। तस्मात्सूक्तम्

दुःखं समुदयः

इत्येवमादि।। ८।।

[ रूपं पञ्चेद्न्रियाण्यर्थाः पञ्चाविज्ञाप्तिरेव च।
तद्विज्ञानाश्रया रूपप्रसादाश्चक्षुरादयः।। ९।। ]

रूपम्

इति रूपस्कन्धः।

इति मनइन्द्रियव्युदासार्थम्।

विषयाः। अर्यन्ते ज्ञायन्त इत्यर्थः। पुनः

पञ्च

इति ग्रहणं धर्मायतनविषयनिरासार्थम्।

तद्विज्ञानाश्रयाः

इति। तच्छब्दोऽर्थानपेक्षते। तेष्वर्थेषु तेषां वा विज्ञानानि तद्विज्ञानानि। तेषामाश्रयास्तद्विज्ञानाश्रयाः।

रूपप्रसादाः

इति। रूपाणि च तानि प्रसादाश्च त इति रूपप्रसादाः। अनेन विशेषणेन मनइन्द्रियं निरस्तं भवति। मनोऽपि हि तद्विज्ञानश्रयः

पञ्चानां सहजाश्च तैः

इति सिद्धान्तात्। अनुशयितास्ते न तु मनो रूपस्वभावमित्यतो निरस्तम्। रूपग्रहणं त्विह श्रद्धाप्रसादनिरासार्थम्। तद्विज्ञानाश्रया इत्यनेन विशेषणेन च श्रद्धाया अप्रसङ्ग इति चेत्' न' बहिव्रीहिकल्पनायां तत्प्रसङ्गसंभवात्। रूपग्रहणे तु बहुव्रीहिकल्पना निवर्तते। न हि रूपमयोऽस्ति प्रसादो यस्य तद्विज्ञानान्याश्रयत्वेन कल्पेरन्। प्रसादग्रहणं पुनरिन्द्रियग्राह्यवस्तुव्यतिरिक्तरूपप्रसादविशेषज्ञापनार्थम्। वैभाषिका हि ब्रुवते भूतविकारविशेषा एवेन्द्रियाणीति। प्रवचने तु नैवम्। किं तर्हि। रूपादिविषयव्यतिरिक्तान्यच्छान्यतीन्द्रियाणि स्वविज्ञाननुमेयानीन्द्रियाणि येषां चक्षुरादीन्यधिष्ठानानि दृश्यन्ते।

तद्विज्ञानाश्रयाः

इति च विशेषणमन्योन्यलक्षणसाङ्कर्यनिवृत्त्यर्थम्। यदि हि रूपप्रसादाश्चक्षुरादय इत्येतावदवक्ष्यच्चक्षुरपि श्रोत्रादि प्रासंक्ष्यत। श्रोत्रादि वा चक्षुः। यतस्त्वेवं विशेष्यते रूपविज्ञानाश्रयो यो रूपप्रसादस्तच्चक्षुरित्यतो लक्षणसाङ्कर्यं न भवति। न हि श्रोत्रमन्यद्वेन्द्रियं रूपविज्ञानस्याश्रयः। एवं यावत् कायविज्ञानश्रयो यो रूपप्रसादस्तत्कायेन्द्रियमिति वक्तव्यम्। यथोक्तं भगवतेति। एतव्द्याख्यानं सूत्रानुगतमित्यभिप्रायः। कथमिति। आध्यात्मिकमिति विज्ञानाश्रय इत्यर्थः। आत्मशब्दो हि चित्तमात्भेत्युपचर्यत इति वक्ष्यते। आत्मन्यधि अध्यात्मम् अध्यात्ममेव आध्यात्मिकम्। आत्मनि चित्तलक्षणे कर्तव्ये हेतुरित्ययमर्थ आध्यात्मिकशब्देनोच्यते। विज्ञानश्रय इति यावदुक्त भवति। अथवा यानीति विस्तरः। अथवा छब्देनेन्द्रियाणयभिसम्बध्यन्ते चक्षुविज्ञानं श्रोत्रविज्ञानमित्येवमादि। प्रवचने प्रसिद्धमेतद् न तु रूपविज्ञानं शब्दविज्ञानमिति। लोके तु कदाचिदेवं भवेत्। तस्मादिदं व्याख्यानान्तरमाश्रीयते। तस्मादाह। एवं च कृत्वा प्रकरणग्रन्थोऽप्यनुवृत्त इति विस्तरः। कथमिहासिद्धमसिद्धेन साध्यते। चक्षुरेव ह्यसिद्धम्। तदसिद्धौ चक्षुर्विज्ञानमप्यसिद्धम्। कथं तत्तेन तदाश्रयतया साध्यते। सिद्धा एव ते पञ्च विशेषाः। परस्परविशेषोपलक्षणार्थ तु वयमेतैश्चक्षुरादिभिस्तान्विशेषयन्तो दर्शयामः। परस्परविशेषोपलक्षणार्थं तु वयमेतैश्चक्षुरादिभिस्तान्विशेषयन्तो दर्शयामः। एतदुक्त भवति एतस्यान्यस्यैकस्य स्वसंवेद्यस्य विज्ञानविशेषस्य य आश्रयो रूपप्रसादस्तच्चक्षुरिन्द्रियम्। एवं यावदेतस्य पञ्चमस्य स्वसंवेद्यस्य य आश्रयो रूपप्रसादस्तत्कायेन्द्रियमिति नासिद्धेनासिद्धस्य साधनम्।। ९।।

[ रूपं द्विधा विंशतिधा शब्दस्त्वष्टाविधो रसः।
षोदा चतुविधो गन्धः स्पृश्यमेकादशात्मिकम्।। १०।।

इति। चक्षुषोऽर्थो वर्णसंस्थानभेदाद् द्विप्रकारः। लोकप्रतीतत्वात्तस्य स्वलक्षणमनुक्ता प्रभेद एव कथ्यते वर्णश्चतुर्विधो नीलादिरिति। नीललोहितपीतावदाता वर्णाः। तद्भेदा नान्य इत्यभ्रादयः। अपरे व्याचक्षते तद्भेदा अन्य इति नीलादिवर्णचतुष्टयसंपर्कविशेषात्काकाण्डवर्णादयोऽपि भेदेन भिद्यते

विंशतिधा

इति तद्यथा नीलपीतादि। संस्थानमष्टविधं दीर्धादिविसातान्तम्। शेषो द्वादशविधो वर्ण इति विंशतिधा। नभश्चैकवर्णमिति। यद्दूरतो वैदूर्यभित्त्याकारं दृश्यते। वृत्तं वर्तुलम्। परिमण्डलं चक्रलम्। उन्नतं स्थूलादिरूपम्। अवनतं निम्नरूपम्। यत्र रूपाणां दर्शनमिति वचनं छायान्धकारयोर्नानाकरणप्रदर्शनार्थम्। न विपञ्चितं न विभक्तमित्यर्थः।

इदमिह विचार्यते। यदि नीलादिवर्णचतुष्टयभेदा एवाभ्रादयो न तव्द्यतिरिक्ता भवन्ति यथेह काकाण्डादिवर्णा नोक्तास्तथाभ्रादयोऽपि न वक्तव्या इति। नैतद्व्याख्यानकारैर्विचारितम्। शक्यं त्वेवं भणितुम्। मायारूपसदृशत्वान्नीलादिभेदभूता अपि तेऽभ्रादयः पॄथगुक्ताः। तथा हि ते दूरतो भित्तय इव लक्ष्यन्ते अभ्याशगमने तु न दृश्यन्ते। मा कस्यचिदेवं भूत् नैतत् किंचिदस्ति विमतिर्वा किमस्त्येतत् उत भ्रान्तिमात्रमिति। तद्विपर्याससंशयनिवृत्त्यर्थमिमेऽभ्रादय उक्ताः सन्त्येवामी रूपायतनस्वभावा इति। दीर्घादीनां प्रदेश इति दीघादिविसातान्तप्रदेश इत्यर्थः। कतरोऽसौ प्रदेश इत्याह कायविज्ञप्तिस्वभाव इति। कायविज्ञप्तिहि कदाचिद्दीर्घा  कदाचिद्धस्वा कदाचिद्यावद्विसातेति। कीदृशी पुन सावगन्तव्या। तदालम्बनचित्तसमुत्थापितं यत्कायकर्म। अकायकर्मस्वभावं तु दीर्घादिविसातान्तं निरस्तं बोद्धव्यम्। अस्त्युभयथा परिशिष्टमिति। यन्निरस्तं दीर्घादि अभ्रधूमरजोमहिकाश्च। दृश्यते हि नीलादीनां दीर्घादिपरिच्छेद इति नीलपीतलोहितावदातच्छायान्धकाराणां दीर्घादिसंस्थानग्रहणम्। तस्मादेषामपि तृतीयायां कोट्यामन्तर्भाव इत्यभिप्रायः।

कथं पुनरेकं द्रव्यमुभयथा विद्यत इति कथमेकं द्रव्यं वर्णसंस्थानात्मकं भवति। वर्णरूपाद्धि संस्थानरूपं द्रव्यान्तरमिति वः सिद्धान्तः। उभयस्य तत्र प्रज्ञानात्। वर्णसंस्थानस्य तत्र ग्रहणात्। ज्ञानार्थो ह्येष विदिर्न सत्तार्थ इति। विद ज्ञान इत्येतस्य धातोर्लुग्विकरणस्यैतद्रूपं विद्यत इति। न तु विद सत्तायामित्येतस्य धातोः श्यन्विकरणस्यैतद्रूपमित्यर्थः। ज्ञानं तत्रोभयाकारं प्रवर्तते न तु द्रव्यमेकमुभयलक्षणमिति वैभाषिकपरिहारः। कायविज्ञप्तावपि तर्हि प्रसङ्ग इत्याचार्यः। न हि कायविज्ञप्तौ गृह्यमाणायां वर्णग्रहणं न प्रवर्तते। वैभाषिकाणामयमभिप्रायः नीलादिग्रहणमातपालोकग्रहणं वा संस्थाननिरपेक्षं प्रवर्तते। कायविज्ञप्तिग्रहणं तु वर्णनिरपेक्षम्। परिशिष्टरूपायतनग्रहणं तु वर्णसंस्थानापेक्षं प्रवर्तत इति। सौत्रान्तिकपाक्षिकस्त्वयमाचार्यो नैनमर्थं प्रयच्छतीति। न हि चाक्षुषमेतत्संस्थानग्रहणम्। मानसं त्वेतत्परिकल्पितम्। वर्णसंनिवेशविशेष एव हि संस्थानम्। न संस्थानं नाम द्रव्यं किंचिदस्ति वर्णाग्रहणे संस्थानग्रहणा भावात्। एतच्च कर्मकोशस्थाने परीक्षिष्यते।

सत्त्वासत्त्वाख्यश्चेति वारिवज्ञप्तिशब्दस्तव्द्यतिरिक्तश्चेत्यर्थः। सत्त्वासत्त्व संख्यातश्चेति केचित्पठन्ति। अयमेव चेहार्थोऽभिप्रेतः। यदि हि सत्त्वासत्त्वसंतानज इत्ययमर्थोऽभिप्रेतो भवेत् सत्त्वाख्यो वाग्विज्ञप्तिशब्दोऽसत्त्वाख्योऽन्य इत्येवं वक्ष्यमाणकं विवरणं निःप्रयोजनमेव। तस्मात्सत्त्वासत्त्वख्यश्चेति पाठः स्फ़ुटः पठितव्यः। उपात्तमहाभूतहेतुक इति। प्रत्युत्पन्नानीन्द्रियाविनिर्भागानि भूतान्युपात्तानि अन्यान्यनुपात्तानि। उपात्तानि महाभूतानि हेतुरस्येत्युपात्तमहाभूतहेतुकः। यथा हस्तवाक्छब्द इति। यदि सत्त्वसंतानज इत्यभिप्रेतो बाह्योऽपि हि निर्मितो मानुषाकारो हस्तवक्छब्दं कुर्यात् स चानुपात्तमहाभूतहेतुकस्वभावोऽवगन्तव्य इन्द्रियविनिर्भागवर्तित्वात्। स च मानुषीमपि वाचं निर्मातृवशाद्भाषेत्। वक्ष्यति हि

एकस्य भाषमाणस्य भाषन्ते सर्वनिर्मिताः।
एकस्य तूर्ष्णीभूतस्य सर्वे तूर्ष्णीभवन्ति ते॥

तस्य च बाह्यनिर्मितशब्दस्यानुपात्तमहाभूतहेतुक इत्यत्र ग्रहणम् यथा वायुवनस्पतिनदीशब्द इति यथाशब्दरयोदाहरणार्थत्वात्। सत्त्वाख्यो वाग्विज्ञप्तिशब्दोऽसत्त्वाख्योऽन्य इति। सत्त्वमाचष्टे सत्त्वाख्यः। वाग्विज्ञप्तिशब्देन हि सत्त्वोऽयमिति विज्ञायते तं वाग्विज्ञप्तिशब्दं वर्जयित्वान्यः शब्दो हस्तशब्दोऽपि यावदसत्त्वाख्य एव किमङ्ग असत्त्वसंतानज इति व्याख्यातं भवति। तदेवमुपात्तमहाभूतेहेतुकः सत्त्वाख्यश्चासत्त्वाख्यश्च भवति। अनुपात्तमहाभूतहेतुकोऽपि निर्मितशब्दो वाग्विप्तिस्वभावः सत्त्वाख्यः। तस्यैव हस्तशब्दो वायुवनस्पत्यादिशब्दश्चासत्त्वाख्य इति चतुर्विधः शब्दो मनोज्ञामनोज्ञभेदात्पुनरष्टविधो भवति। यथैको वर्णपरमाणुरिति न भूतचतुष्कद्वयमुपादाय वर्तते शब्दः उपादायरूपत्वाद्वर्णपरमाणुवदितिभावः।

रसः षोदा

इति पण्मूलजातिमधिकृत्यैवमुक्तम्। रसषट्कस्यान्योन्यसंपर्कविशेषात्त्वतिबहुप्रकारा रसाः संभवन्ति। एककद्विकत्रिकचतुष्कपञ्चकषट्कसंपर्कयोगाद्धि चरके त्रिषष्टी रसा उपदिष्टाः।

सुगन्धदुर्गन्धयोः समविपमगन्धत्वादिति। अनुत्कटोत्कटगन्धत्वादित्यर्थः। अस्मिन्पक्षे द्विविधो गन्ध इष्टः। त्रिविधस्तु शास्त्र इति समगन्धोऽन्यस्तृतीय इत्यर्थः। अपरे पुनर्व्याचक्षते। समगन्ध इति तयोरेवैकदेश इति। स एवार्थो भवति। शब्दमात्रं तु भिद्यते।

शीतमुष्णाभिलाषकृदिति संभवं प्रत्येवमुच्यते। यो धर्म उष्णाभिलाष कुर्यात्तच्छीतं नामोपादायरूपम्। ग्रीष्मे यद्यपि तन्न कुर्यात्तज्जातीयत्वात्तु शीतमेव तदवगन्तव्यम्। कारणे कार्योपचारादिति अत्तुमिच्छा जिघत्सा चैतसिको धर्मः। तस्य कारणम्। अन्तरूदरे कायेन्द्रियेण यः स्पृश्यते सा जिघत्सा नामोपादायरूपम्। यथा

बुद्धानां सुखमुत्पादः

इत्यादि। अभ्युदयनिःश्रेयससुखकारणात्वाद्वद्धोत्पादस्य स सुखमित्युच्यते तद्वत्। एवं पिपासापि वक्तव्या। संचितानि पुनस्तुल्यन्त इति सूक्ष्मगुरूत्वसद्भावादित्यभिप्रायः। अत्रानुमानम् सगुरूत्वं रूपावचरं वस्त्रादि आधाराधेयभावात् कुण्डबदरवदिति। अनुग्राहकं किलास्तीति किलशब्दो वैभाषिकमतद्योतनार्थम्। स्वमतं तु समाधिरेवात्रानुग्राहकः किमत्र शीतेन परिकल्पितेनेति। यदा तत्प्रकारव्यवच्छेद इति यदा नीलादिप्रकारनिमित्ताभोगः। एवं श्रोत्रादिविज्ञानमिति। य एष बहुविधः शब्द उक्तः तत्र कदाचिदेकेन द्रव्येण श्रोत्रविज्ञानमुत्पद्यते यदा तत्प्रकारव्यवच्छेदो भवति कदाचिद्वहुभिर्यदा न व्यवच्छेदः। तद्यथा तूर्यशब्दसमूहमनेकाकारतारमन्द्रतादिशब्दरूपं शृणावतः। एवं घ्राणजिह्वाविज्ञाने अपि स्वविषये योज्ये। कायविज्ञानं तु परं पञ्चभिरिति। कथम्। कदाचिदेकेन द्रव्येणोत्पद्यते यदा तत्प्रकारव्यवच्छेदो भवति। कदाचिद्दाभ्यां यावत्पञ्चभिर्यदा न व्यवच्छेदः। एकेन च श्र्लक्ष्णत्वादिनेति। किमत्र कारणम्। कर्कशत्वादीनामन्यभूतचतुष्काश्रितत्वात्।

ननु चैवम् इति विस्तरः। यथा चक्षुःश्रोत्रघ्राणजिह्वाकायविज्ञानालम्बनान्यभिसमस्य मनोविज्ञानं गृहणातीति कृत्वा सामान्यलक्षणविषयं तद्यवस्थाप्यते तथा नीलपीतलोहितावदातालम्बनानां चतुर्णा चक्षुर्विज्ञानानां तानि चत्वारि बहुतराणि चलाम्बनान्यभिसमस्य चक्षुर्विज्ञानमेकं गृह्णातीति सामान्यलक्षणविषयं तत्प्राप्नोति रूपायतनसमान्यलक्षणमस्यालम्बनमिति कृत्वा। तथा श्रोत्रघ्राणजिह्वाकायविज्ञानान्यपि स्वविषयेषु योज्यानि। आयतनस्वलक्षणं प्रतीति। स्वं लक्षणं स्वलक्षणण् आयतनानां स्वलक्षणमायतनस्वलक्षणम् चक्षुर्विज्ञानविज्ञेयत्वादि रूपायतनत्वादि वा। तत्प्रत्येते पञ्च विज्ञानकायाः स्वलक्षणविषया इष्यन्ते प्रवचने। न द्रव्यस्वलक्षणं प्रति स्वलक्षणविषया इष्यन्त इति प्रकृतम्। द्रव्याणां नीलादिकानां स्वलक्षणं नीलाद्याकारचक्षुर्विज्ञानादिविज्ञेयत्वं नीलाकारादि वा। न तत्प्रत्येते पञ्च विज्ञानकायाः स्वलक्षणविषया इष्यन्त इत्यदोषः। युगपद्विषयसंप्राप्ताविति। कायजिह्वेन्द्रिययोर्युगपद्विषयसंप्राप्तिः संभवति। द्वयोश्च विज्ञानयोर्युगपत्प्रवृत्तिर्न संभवति। अतः पृच्छति कतरद्विज्ञानं पूर्वमुत्पद्यत इति। यस्य विषयः पटीयान्। यदि कायेन्द्रियस्य विषयः पटुतरः कायविज्ञानं पूर्वमुत्पद्यते। अथ जिह्वेन्द्रियस्य विषयः पटीयाञ्जिह्वाविज्ञानं पूर्वमुत्पद्यते। समे प्राप्ते तु विषये तुल्य इत्यर्थः। जिह्वाविज्ञानं पूर्वमुत्पद्यते कस्मात्। भोक्तुकामतावर्जितत्वात्संततेर्भोजनेच्छाप्रवणत्वादात्मभावस्येत्यर्थः। पूर्वं जिह्वाविज्ञानमुत्पद्यत इति वचनात्। पश्चात्कायविज्ञानमुत्पत्स्यत इत्यर्थादुक्त भवति तेनात्र विचार्यते। किं यो ऽसौ जिह्वाविषयक्षणेन सह प्राप्तः कायविषयक्षण आसीत्तत्र तत्कायविज्ञानमुत्पद्यते आहोस्विदन्यस्मिन्कायविज्ञानविषयक्षण इति। अन्यस्मिन्नित्याह। कथमालम्बननियमो न भिद्यते। नैष दोषः। यत्तद्विषयलम्बनं विज्ञानं तदप्रतिसंख्यानिरोधनिरूद्धम्। अन्यत्तु तत्सदृशं कायविज्ञानमुत्पद्यत इति। अतः पश्चात्तदुत्पद्यत इत्युच्यते जातिसमान्येनैकत्वोपचारात्।। १०।।

[ विक्षिप्ताचित्तकस्यापि योऽनुबन्धः शुभाशुभः।
महाभूतान्युपादाय सा ह्यविज्ञप्तिरूच्यते।। ११।। ]

अनेककथाप्रपञ्चव्यवहितत्वान्नष्ट इवाविज्ञप्तेरूद्देशाधिकार इत्यत इदमुपन्यस्यति। उक्ताः पञ्चेन्द्रियार्था यथा च तेषां ग्रहणमिति। कदाचिदेकेन द्रव्येण चक्षुर्विज्ञानमुत्पद्यत इत्येवमादिना। तेषां तु ग्रहणमिति कर्मणि षष्ठी। अविज्ञप्तिरिदानीं वक्तव्येति।

रूपं पञ्चेन्द्रियाणयर्थाः पञ्चाविज्ञप्तिरेव च इत्यविज्ञप्तिरेवावशिष्यते। तस्या लक्षणनिर्देशावसर इति वक्तव्या।

विक्षिप्ताचित्तकस्य

इति केचिदेवं वृत्तिं पठन्ति। अस्मिन्पाठ एवं सूत्रविग्रहः। विक्षिप्तं नास्ति वा चित्तमस्येति विक्षिप्ताचित्तकः। अथवा विक्षिप्तं चित्तं नास्ति वा चित्त मस्येति विक्षिप्ताचित्तकः। एकस्य चित्तशब्दस्य लोपः। केचिदेवं पठन्ति विक्षिप्तस्येति। अस्मिन्पाठ उत्तरपदद्वयस्य बहुव्रीहिं कृत्वा पश्चादेवं विग्रहः विक्षिप्तश्चाचित्तकश्च विक्षिप्ताचित्तकः। विक्षिप्तः पुद्गलो विक्षिप्तचित्त इत्यर्थः। विक्षिप्तचित्तस्येति तदन्यचित्तस्यापीति। अविक्षिप्तचित्तादन्यचित्तस्येत्यर्थः। तद्यथा कुशलाया अविज्ञप्तेः समुत्थापकं चित्तं कुशलम् तदन्यचित्तोऽकुशलाव्याकृतचित्तः। स इह विक्षिप्तचित्तोऽप्रेतः। अकुशलायास्त्वविज्ञप्तेरकुशलं चित्त समुत्थापकम् तदन्यचित्तः कुशलाव्याकृतचित्तः। स चापि विक्षिप्तचित्तो वेदितव्यः तस्य तदन्यचित्तस्यापि। अपिशब्देनाविक्षिप्तसचित्तकस्यापीति विज्ञायत इति। एतत्पुद्गलद्वयव्यतिरिक्ततृतीयस्याप्यर्थः। योऽनुबन्ध इति प्रवाह इति। यो धर्म्मे नित्यप्रवाहयुक्त इत्यर्थः। प्रवाहेण प्रवाही निर्दिश्यते प्रवाहोपलक्ष्यत्वात्। अथवानुबधातीत्यनुबन्धः। प्रवाह इति च व्याख्यापदं कृतबहुव्रीहिकम्। प्रवृत्तः प्रकृष्टो वा वाहोऽस्येति प्रवाहो धर्मः स एव निर्दिश्यते न तत्स्रोतः। कुशलकुशल इति कुशलाकुशल एवेत्यवधारणम्। अव्याकृतो नास्तीत्यर्थः। एतेन चक्षुरादयो व्युदस्ता वेदितव्याः। प्राप्तिप्रवाहोऽप्यस्तीदृश इति। तत्प्राप्तिरपि विक्षिप्ताविक्षिप्ताचित्तस्यापि प्रवाहिणी कुशलाकुशलैव चेति तद्विशेणार्थमुच्यते महाभूतान्युपादायेति महाभूतहेतुक इत्यर्थः यथेन्धनमुपादायाग्निर्भवतीत्युक्ते इन्धनहेतुकोऽग्निरिति गम्यते। जननादिहेतुभावादिति।

जननान्निश्रयात्स्थानादुपस्तम्भोपवृहणात्।

जननहेतुस्तेभ्य उत्पत्तेः। निश्रयहेतुर्जातस्य भूतानुविधायित्वादाचार्यादिनिश्रयवत्। प्रतिष्ठाहेतुराधारभावाच्चित्रकुड्यवत्। उपस्तम्भहेतुरनुच्छेदहेतुत्वात्। उपबृहणहेतुर्वृद्धिहेतुत्वात्। कतमानि महाभूतान्युपादाय किमाश्रयमहाभूतान्युताहो नाश्रयमहाभूतानि। आश्रयमहाभूतानीत्याहुः। तन्नामकरणज्ञापनार्थ इति। यस्माद्रूपक्रियास्वभावापि सती विज्ञप्तिवत् परं न विज्ञापयति तस्मादविज्ञप्तिरित्यर्थः । रूपक्रियास्वभावापीत्युभयविशेषणं किमर्थम्। यद्धि वस्तु रूपस्वभावमेव न क्रियास्वभावं तन्न परं गमयति तद्यथा चक्षुरादयः। यदपि क्रियास्वभावमेव न रूपस्वभावं तदपि परं न गमयति तद्यथा चेतना। यत्तूभयस्वभावं तत् परं गमयति तद्यथा विज्ञप्तिः। विज्ञप्तिर्हि स्वसमुत्थापकं चित्तं कुशलाकुशलव्याकृतं सौम्यं क्रूरमनुभयमिति वा परं विज्ञापयति। तेन विज्ञप्तिवदिति विपरीतदृष्टान्तप्रयोगः। समासतस्त्विति विस्तरः। शिष्यसुखावबोधार्थ संक्षेपतो वाक्येन तदविज्ञप्तिरूपं दर्शयत्याचार्यः। विज्ञप्तिसमाधिसंभूतं कुशलाकुशलं रूपमविज्ञप्तिरिति। यथासंभवमेतद्योज्यम् कायवाग्विज्ञप्तिसंभूतं कुशलं प्रातिमोक्षसंवरसंगृहीतं नैवसंवरनासंवरसंगृहीतं च। अकुशलं पुनरसंवरसंगृहीतं नैवसंवरनासंवरसंगृहीतं च। समाधिसंभूतं तु कुशलमेव। तद् द्विविधं सास्रवसमाधिसंभूतं ध्यानसंवरस्वभाव अनास्रवसमाधिसंभूतमनास्रवसंवरस्वभावम् उपादायरूपस्वभावं च न चित्तचैतसिकादिस्वभावमित्यवगन्तव्यम्। ननु चैवं विज्ञप्तिरप्यविज्ञप्तिः प्राप्नोति।साप्युत्तरा सभागहेतुभूतपूर्वविज्ञप्तिसंभूता। कुशलाकुशलमेवेत्यवधारणाद्विज्ञप्तावप्रसङ्गः। विज्ञप्तिर्ह्यव्याकृतापि संभवति। अत एव दिव्यं चक्षुः श्रोत्रं च समाधिसंभूतमपि सद् विज्ञप्तिविपाकजं च रूपं नाविज्ञप्तिः प्रसजति इति।

अत्राचार्यः संघभद्र इदमविज्ञप्तिलक्षणं सूत्रं दूषयति।
न्यूनं शास्त्रापेतं हानिर तस्याः प्रसज्यते तत्त्वम्।
अपिशब्दाधिकवचनं विशेष्यमविशेषितं चात्र।।

अनुबन्धो हि प्रवाहस्तेनैव व्याख्यातः। न चाद्यः क्षणः प्रवाहः। मा भूदतिप्रसङ्गः। तस्मात्तस्यात्र लक्षणे नास्त्यवरोध इति न्यूनम्। प्रवाहस्य चाद्रव्यत्वादद्रव्यमविज्ञप्तिरिति शास्त्रापेतम्। समाहितायाश्च नास्ति विक्षिप्तचित्ताचित्तकस्यानुबन्ध इति सा चाविज्ञप्तिर्न प्रसज्यत इति हानिः। अविक्षिप्तचित्त्कस्य तदनुबन्धान्नैष दोष इति चेत्। शुभाशुभाया विज्ञप्तेरविज्ञप्तिलक्षणप्रसङ्ग इत्यतस्याः प्रसज्यते तत्त्वम्। अचित्त्कस्यापीति चापि शब्दवैयर्थ्यम् पूर्वेणैव कृतत्वात्। विक्षिप्तचित्तकस्यापीत्यनेन हि सर्वसचित्तकावस्थाग्रहणम्। का पुनरन्यावस्था या द्वितीयेनापिशब्देन संगृह्येतेत्यशब्दाधिकवचनम्। अचित्तकं चाधिकृत्य शुभोऽविज्ञप्त्यनुबन्धो विशेषणीयः न च व्याख्यानेऽपि विशेषित इति विशेष्यमविशेषितम्। इदं चापरं विशेष्यमविशेषितम् अप्रतिघं रूपमिति एवमनेकदोषदुष्टत्वान्न संबद्धमेतल्लक्षणमिति। अत्र ब्रूमः। यत्तावदु न्यूनम् प्रवाहस्याविज्ञप्त्युपदेशादाद्यः क्षणो नाविज्ञप्तिः स्यादिति इदं तावदसौ प्रष्टव्यः कोऽयं प्रवाहो नाम। बहुषु क्षणेषु प्रवाह इत्याख्या। यद्येवमाद्योऽपि क्षणः प्रवाहः सिध्यति। प्रथमक्षणप्रभृति बहुषु क्षणेषु प्रवाह इति कृत्वा। तथा ह्युत्सात्तडागाद्वा निर्गच्छतामुदकानामाद्योदकावयवप्रभृतिषु प्रवाहसंज्ञेति नास्त्यव्यापिता लक्षणस्य। यदा चानुबधातीत्यनुबन्ध इत्यच्प्रत्ययान्तेन पदेन द्रव्यमेव निर्दिश्यते तदा न्यूनताशङ्कापि नास्ति। अत एव शास्त्रापेततादोषोऽपि परिहृतो भवति। अथाप्यनुबन्धनमनुबन्ध इति स्त्रोतोऽभिधीयते तथाप्यदोषो रूपाधिकारात्। प्रवाहवर्तित्वात्तु प्रवाहशब्देन प्रदर्श्यते। समाहिताया अप्यविज्ञप्तेरग्रहणं न भवति। सापि हि यद्यपि विक्षिप्तचित्ताचित्तकसंतानं नानुबधातीति। अविक्षिप्तचित्तकसचित्तकसंतानं त्वनुबधात्येव। अविज्ञप्तिजातिसमान्येन तु विक्षिप्ताचित्तकस्यापि योऽनुबन्धः साविज्ञप्तिरित्युच्यते । यत्पुनरेतदुक्तम् अविक्षिप्तचित्तकस्य तदनुबन्धान्नैष दोष इति चेदिति यद्य विक्षिप्तचित्तकस्य केवलस्य योऽनुबन्धः साप्यविज्ञप्तिरिति समाहिताया अविज्ञप्तेस्त्यागो न भवतीति ब्रवीषि विज्ञप्तिरपि कुशलाकुशला तथैव भवतीत्यविज्ञप्तिस्ते प्राप्नोतीति। स चाप्यदोषः शुभाशुभ एवेत्यवधारणात्। विज्ञप्तिर्ह्यव्याकृतापि संभवतीति न विज्ञप्तिरविज्ञप्तिः प्रसज्यते। अथवा प्रकर्षगतेरेष प्रसङ्गो न भविष्यति। प्रकर्षेण हि योऽनुबन्ध सैवाविज्ञप्तिः। न च विज्ञप्तिरविज्ञप्तिवत् प्रकर्षेणानुबन्धातीति अविज्ञप्त्यनिरोधेऽपि तन्निरोधदर्शनात्। यदप्युक्तम् अपिशब्दाधिकवचनमिति तदप्युक्तमुक्तम्। तथा ह्येक एवेह सूत्रे पठितोऽपिशब्दः। वृत्तौ तु तेन पुद्गलद्वयेन तदर्थः संबध्यत इति द्विः पुनः पठितः। तेनैकेन सूत्रपठितेनापिशब्देन विक्षिप्तविपरीतमविक्षिप्तमचित्तकविपरीतं च तमेव सचित्तकं तृतीयं पुद्गलमविज्ञप्याश्रयं ब्रुवन्नाचार्यः स्वमतञ्च विक्षिप्ताचित्तकपुद्गलद्वयं जातिसामान्येनाविज्ञप्त्याश्रयं प्रदर्शयन् विज्ञप्तिचित्तचैत्तेभ्योऽर्थान्तरभूतामविज्ञप्तिमाचष्टे। त्रय एव हि पुद्गला भवन्ति विज्ञप्तिचित्तविसभागचित्तो विज्ञप्तिचित्तसभागचित्तोऽचित्तकश्च। तत्र विज्ञप्तिचित्तविसभागचित्तो विक्षिप्तचित्त इहाभिप्रेतः। तस्य सा वाक्कायविज्ञप्तिनिरूद्धा भवति। अचित्तकस्य तु चित्तचैत्ता अपि निरूद्धा इति। तत्र विज्ञप्तेश्चित्तचैतसिककलापाच्चार्थान्तरभूतेयमविज्ञप्तिः यत एभ्योऽनुबन्धिनीत्वेन विशिष्यते। तमेवार्थ दर्शयन्नाह

विक्षिप्ताचित्तकस्यापि

इति। अविक्षिप्तचित्तकस्याविज्ञप्तिर्वर्तत इति नातिशयः विज्ञप्तिरपि हि तस्य वर्तते। विक्षिप्तचित्तस्यापि तु वर्तत इत्यतिशयः। विज्ञप्तिर्हि तस्य नास्ति अविज्ञप्तिस्त्वनुबन्धिनीति विज्ञप्तेर्विशिष्यते। तथाऽविक्षिप्तचित्तकस्याविज्ञप्तिर्वर्तत इति नातिशयः चित्तचैत्ता अपि हि तस्य वर्तन्त एव। अचित्तकस्यापि तु वर्तत इत्यतिशयः। तस्य हि चित्तचैत्ता निरूद्धाः अविज्ञप्तिस्त्वनुबन्धिनीति चित्तचैत्तेभ्यो विशिष्यते। तदेवं धर्मान्तरविशेषणार्थमविक्षिप्तचित्तो विक्षिप्ताचित्तकतृतीयभूतस्तेनैकेन अपिशब्देनाभिधीयते । अत एव चापि शब्देनाविक्षिप्तसचित्तकस्यापीत्युक्तमाचार्येण तृतीयभूतत्वात्। इतरथा ह्यपिधब्देनाविक्षिप्तचित्तकस्यापीत्येवावक्ष्यत् सचित्तकस्यापीति वा। तद्यथा त्रयो लोके मनुष्याः। एको धनवानितरावपि धनमात्रवन्तौ। तावभिसमीक्ष्य विष्णुमित्रस्य धनमस्तीत्येकेनोक्तो द्वितीयो वक्ता भवेद् देवदत्तयज्ञदत्तयोरपि धनमस्तीत्यपिशब्देन विष्णुमित्रस्याप्यस्तीति देवदत्तयज्ञदत्तगतेन द्वैतमिवापन्नेनापिशब्देन स एव विष्णुमित्रो लक्ष्यते न त्ववसृज्यत इत्यर्थः। तेन नात्रापिशब्दोऽधिक एव। तद्वदिहापि द्रष्टव्यम्। यत्पुनरेतदुक्तम् अचित्तकं चाधिकृत्य शुभोऽविज्ञप्त्यनुबन्धो विशेषणीय इति तदपि न किचित्। अविज्ञप्तिजातिमधिकृत्यैतल्लक्षणं प्रणीतम्। सा चाविज्ञप्तिजातिरचित्तकस्य भवतीत्येतावद्विवक्षितम्। किमनेन विशेषितेन। त्वदीयेऽप्यविज्ञप्तिलक्षणे शुभोऽविज्ञप्त्यनुबन्धोऽचित्तकमधिकृत्य न विशेषितः।

कृतेऽपि विसभागेऽपि चित्ते चित्तात्यये च यत्।
व्याकृताप्रतिघ रूपं सा ह्यविज्ञप्तिरिष्यते।।

इति। एषा च विज्ञप्तिसंभूता कुशलैवाविज्ञप्तिरचित्तकस्य संभवतीति चतुर्थे कोशस्थाने ज्ञापयिष्यते। यच्चाप्रतिघमित्यविशेषितमिति तदपि पश्चाद्दर्शयिष्यामः सप्रतिघा दश।

रूपिणः

इति। अत्र दशैव धातवः सप्रतिघा इत्यवधारणदविज्ञप्तिर्धर्मधातुपरिपठिता सा त्वप्रतिघेति सेत्स्यति। तस्मादिदमास्माकीनमेवमदोषदुष्टविज्ञप्तिलक्षणमिति। तदेवास्तु।। ११।।

[ भूतानि पृथिवीधातुरपतेजोवायुधातवः।
धृत्यादिकर्मसंसिद्धाः खरस्नेहोष्णतेरणाः।। १२।। ]

भूतानि पृथिवीघातुः

इति विस्तरः। धातुग्रहणं वर्णसंस्थानात्मकपृथिव्यादिनिरासार्थम्। स्वलक्षणोपादायरूपधारणाद्वा धातव इति। काठिन्यादिस्वलक्षणं चक्षुराद्यु पादायस्वरूपं च दधतीति धातवः। अष्टादश धातवस्तु स्वसामान्यलक्षणधारणात् गोत्रार्थो वा धात्वर्थो धारणार्थमनपेक्ष्य षड्धा धातुदेशनायाम्। पुनर्भवबीजार्थो वा धात्वर्थो भवं पुष्णन्तीति कृत्वा।

 महत्त्वमेषां सर्वान्यरूपाश्रयत्वेनौदारिकत्वादिति सर्वोपादायरूपाश्रय्त्वेन महत्त्वादित्यर्थः। तदुद्भूतवृत्तिष्विति। तैर्महाभूतैरूद्भूता व्यक्ता वृत्तिर्धृत्यादिका येषु त इमे तदुद्भूतवृत्तयः पृथिव्यप्तेजीवायुस्कन्धाः तेषु। एषां महाभूतानां महासंनिवेशत्वान्महारचनत्वात्। भूतं तन्वन्तीति भूतानि।

धृत्यादिकमसंसिद्धाः

इति। धृत्यादिकर्मनिर्देशः पृथिव्यादिषु शेषानुमानार्थम्। उपलादिके हि पृथिवीद्रव्ये संग्रहपक्तिव्यूहनदर्शनाच्छेषाणो जलतेजोवायूनामस्तित्वमनुमीयते। अप्सु नौसंधारणोष्णतेरणकर्मदर्शनात्पृथिवीतेजोवायूनामस्तित्वम्। अग्निज्वालायां स्थैर्यसंपिण्डनचलनदर्शनात् पृथिव्युदकवायूनामस्तित्वम्। वायौ संधारणशीतोष्ण स्पर्शदर्शनात् पृथिव्यप्तेजसामस्तित्वमिति वैभाषिकाः। व्यूहनं पुनर्वृद्धिः प्रसर्पणं वेति। वृद्धिः संबन्धाधिका शरीराङ्कुराद्यवयवोत्पत्तिः। प्रसर्पणं शरीरादीनां प्रबन्धेन देशान्तरोत्पत्तिः।

उष्णता

इति। स्वभावाभिधानेऽपि भावप्रत्ययः। उष्ण एवोष्णतेति। देशान्तरोत्पादनात् प्रदीपेरणवदिति। क्षणिकानां नास्ति देशान्तरगमनम्। यत्रैवोत्पत्तिस्तत्रैव विनाशः। तेनैवमुच्यते देशान्तरोत्पादनस्वभावा भूतस्रितस ईरणा क्षणिकत्वात् प्रदीपवत्। क्षणिकानि च भूतानि रूपत्वात् प्रदीपवत्। प्रदीपश्च क्षणिकः प्रसिद्ध इत्युदाहरणम्। कर्मणास्य स्वभावोऽभिव्यक्त इति। ईरणाकर्मणा लघुत्वं विशिष्यते। यदीरणात्मकं लघुत्वं स वायुधातुरिति। लघुसमुदीरणो वायुधातुः लघ्वेव तु यत्तदुपादायरूपम्।। १२।।

प्रवचने पृथिवीधात्वादयः पृथिव्यादयश्चोक्ता इति। अतः पृच्छति। कः पुनरेषां विशेष इति।

[ पृथिवी वर्णसंस्थानमुच्यते लोकसंज्ञया।
आपस्तेजश्च वायुस्तु धातुरेव तथापि च।। १३।। ]

लोकसंज्ञया

इति। लोकसंव्यवहारेण। वात्येति। वातानां समूहो वात्या ब्राह्यणादिभ्यो यन्निति समूहार्थ यन्प्रत्ययः स्त्रीत्वाट्टाप्प्रत्ययः। तथा ह्यर्थवर्गीयेषक्तमिति। अर्थवर्गीयाणि सूत्राणि यानि क्षुद्रके पठ्यन्ते तेषूक्तम्।

तस्य चेत्कामयानस्य

इति विस्तरः। तस्य देहिनः कामयानस्य छन्दजातस्य यदि कामा विषया न समूध्यन्ते न संपद्यन्ते। शल्यविद्ध इव असौ रूप्यते बाध्यत इत्यर्थः। बाधनार्थपरिच्छिन्नेनानेन रूप्यतेशब्देन रूप्यत इति भिक्षव इत्यत्र सूत्रे रूप्यतेशब्दो बाधनार्थ एव परिच्छिद्यते। शल्यविद्धः कामयानश्च दुःखवेदयितृत्वाद्वाध्यत इति युक्तम्। रूप तु कथं बाध्यते। अत आह विपरिणामोत्पादनेति विक्रियोत्पादनेत्यर्थः। तथा चेहार्थे सति शल्यविद्ध इव रूप्यत इत्यत्रापि यदि विक्रियत इत्यर्थो गृह्यते सुतरामर्थो युज्यते। प्रतिघात इति स्वदेशे परस्योत्पत्तिप्रतिबंधः। परमाणुरूपं तर्हीति द्रव्यपरमाणुरूपं न रूपं प्राप्नोति। कस्मात् अरूपणात्। निरवयवत्वे सत्यरूपणादित्यभिप्रायः। पक्षद्वयेऽप्येतच्चोद्यमुपन्यस्तम् बाधनरूपणे प्रतिघातरूपणे च द्रव्यपरमाणुर्निरवयवत्वान्न शक्यते रूपयितुमिति। न व परमाणरूपमेकं पृथग्भूतमस्तीति। एकमिति ग्रहणं द्रव्यपरमाणुसंदर्शनार्थम्। पृथग्भूतमसंघातस्थमित्यर्थः। तदीदृग्नास्ति। संघातस्थं नित्यं भवति।

कामेऽष्टद्रव्यकोऽशब्दः

इत्यादिवचनात्। संघातस्थं तद्रूपयत एवेत्यर्थादेतदभीष्ट भवति तद्दव्यपरमाणुरूपं संघातस्थं रूप्यते बाध्यते प्रतिहन्यते च।

अतीतानागतं तर्हीति विस्तरः। अतीतानागतमदेशत्वान्न रूप्यते। न बाध्यते नापि प्रतिहन्यते। तदपीति विस्तरः। तदपि रूपितमित्यतीतबाधनप्रतिघातनार्थेन। रूपयिष्यमाणमित्युत्पत्तिधर्मकमनागतम्। तेनैवार्थद्वयेन। तज्जातीयं चेत्युत्पत्तिधर्मकजातीयमनुत्पत्तिधर्मकमनागतम्। इन्धनवत्। यदपीद्धं यदपीन्धिष्यमाणं तज्जातीयं च तदपीन्धनम्। तज्जातीयं पुनरिन्धनं यदिन्धनार्थे कल्पितमप्राप्यैवाग्निमन्तरा नंक्ष्यति। अविज्ञप्तिस्तर्हि न रूपं प्राप्नोति। कस्मात् अप्रतिघत्वात्। अप्रतिघत्वेन हि सा न बाध्यते नापि प्रतिहन्यते। सापि विज्ञप्तिरूपणादिति विस्तरः। विज्ञप्तिरविज्ञप्तिसमुत्थापिका। तस्याः सप्रतिघाया रूपणादिविज्ञप्तिरपि रूप्यते। यथा छायासमुत्थापकस्य वृक्षस्य प्रचलनाच्छाया प्रचलति तद्वत् न अविकारादिति। अनेन प्रतिज्ञादोष उद्गाह्यते। परेण ह्येवं प्रतिज्ञातम्। स्वसमुत्थापकविकारानुविधायिनी अविज्ञप्तिः समुत्थाप्यत्वात्। वृक्षच्छायावदिति। सेयं पूर्वाभ्युपगमविरोधिनी प्रतिज्ञा। अभ्युपगतो हि विज्ञप्तेर्विकारेऽप्यविज्ञप्तेरविकारः। तथा ह्यञ्जलिं भङ्क्ता कपोतं कुर्वतः कायविज्ञप्तिर्विक्रियत इत्यभ्युपगम्यते त्ववित्ज्ञप्तिः। तस्मादसाधनमेतत्। विज्ञप्तिनिवृत्तौ चाविज्ञप्तिनिवृत्तिः स्यादित्यनेन धर्मिविशेषविपर्ययोऽप्यस्याः  प्रतिज्ञाया उद्गाह्यते यदि वृक्षच्छायाधर्म इष्यते। वृक्षनिवृत्तौ छायानिवृत्तिर्दृष्टेति तद्वत् स्यात्। अत्र कश्चिद् न अविकारादिति न सम्यगेतदुक्तमिति दूषयति। विक्रियत एवाविज्ञप्तिर्विज्ञप्तिविकारे सति। मृदुमध्याधिमात्रत्वे हि विज्ञप्तेर्मृदुमध्याधिमात्रता भवत्यविज्ञप्तेरिति। तदेतदयुक्तम्। कस्मात् उत्पत्तिरेवाविज्ञप्तेरेवं भवति मृदुर्मध्याधिमात्रा वा। न तु विकारः। उत्पन्नस्य हि धर्मस्य पुनरन्यथोत्पादनं विकारः। तच्च रूपणमभिप्रेतम्। आश्रयभूतरूपणादित्यपर इति वृद्धाचार्यवसुबन्धुः। भूतग्रहणमाश्रयभूतप्रदर्शनार्थम्। अतश्चेतरः प्रसञ्जयति। एवं तर्हि चक्षुवि ज्ञानादीनामपीति विस्तरः। चक्षुराद्याश्रयरूपणात्तद्विज्ञानानामपि रूपत्वप्रसङ्गः। विषमोऽयमुपन्यास इति। वृद्धाचार्यवसुबन्धुदेशीयः कश्चित्परिहरति। अविज्ञप्तिर्हीति विस्तरः। छाया वृक्षमुपश्र्लिष्टाश्रित्य वर्तते। प्रभापि मणि तथैव। उत्पत्तिनिषित्तमात्रं तानि तेषामिति नोपश्र्लिष्टानीति भावः। तमितरः प्रत्याह। इदं तावदवैभाषिकीयमिति विस्तरः। नैतद्वैभाषिकमतम्। वैभाषिकमत तु छायावर्णपरमाणुः स्वभूतचतुष्कमाश्रित्य वर्तते। न वृक्षम्। तथा प्रभावर्णपरमाणुः स्वभूतचतुष्कमाश्रित्य वर्तते न मणिम् पृथग्द्रव्यत्वादिति। एवमनाश्रयकारणत्वान्मणिवृक्षयोर्न महाभूताविज्ञप्तिवदुपश्र्लिष्टे छायाप्रभे इत्यसामान्यं दृष्टान्तदार्ष्टान्तिकयोः। सत्यपि च तदाश्रितत्व इति विस्तरः। अथापि पारपर्येण तदाश्रितत्वमभ्युपगम्यते छाया स्वभूताश्रिता तानि तु भूतानि मणिमाश्रितान् तदनुविधायित्वात्। तथाप्यसामान्यम् निरूद्धेष्वप्यविज्ञप्त्याश्रयेषु महाभूतेषु तस्या अनिरोधाभ्युपगमादिति।

क्षणादूर्ध्वमविज्ञप्तिः कामाप्तातीतभूतजा

इति सिद्धान्तात्। तस्मान्न भवत्येष परिहार इति य उक्तोऽभूत् अविज्ञप्तिर्हि छायेव ऱ्क्षमिति विस्तरेण।

अन्ये पुनरत्र परिहारमाहुरिति। अयमेवाचार्यस्तन्मतं समर्थयन्नाह। आश्रयो भेद गत इति। द्विविध इत्यर्थः। कश्चिद्रप्यते चक्षुरादिः सप्रतिघत्वात् कश्चिन्न रूप्यते मनो विपर्ययात्। तस्मादसमानः प्रसङ्ग इति। चक्षुर्विज्ञानादीनामप्याश्रयभूतरूपणाद्रूपत्वप्रसङ्ग इति। रूपणाद्रूपमित्याश्रयरूपादित्यर्थः। अत चोदयन्ति। विज्ञप्तिसंभूताया अविज्ञप्तेरेवं परिकरेण रूपत्वं भवद्भवेत्। समाधिसंभूतायास्तु कथं रूपत्वमिति। तज्जातीयत्वात्तदपि रूपम्। किं पुनस्तज्जातीयत्वम् महाभूतान्युपादायेति भावः। तेषामुपादायरूपजननादिहेतुभूतत्वादिति।। १३।।

[ इन्द्रियार्थास्त एवेष्टा दशायतनधातवः।
वेदनानुभवः संज्ञा निमित्तोद्ग्रहणात्मिका।। १४।। ]

इन्द्रियार्थास्त एव

इति। भगवतो विनेयवशात्तिस्त्रो देशनाः स्कन्धायतनधातुदेशनाः तासु च ये स्कन्धेषु देशिता धर्मास्त एवायतनधातुषु देशिताः। असंस्कृतास्त्वत्र केवलमतिरिक्ताः। सर्वश्चाभिधर्मः सूत्रव्याख्यानम्। अत इदमुक्तम् इन्द्रियार्थास्त एवेति विस्तरेण। लाघविकश्चायमाचार्यः। वेदनादिस्कन्धलक्षणमनुक्तैव लाघवेन रूपस्कन्धस्वभावान् धर्मानायतनधातुषु दर्शयति। इन्द्रियाणि च इन्द्रियार्थाश्च इन्द्रियार्थाः। त एवेति विशेषणमन्येन्द्रियनिरासार्थमन्यार्थनिरासार्थ च। आयतनव्यवस्थायां तु यथासंख्येन दशायतनानि चक्षुरायतनं रूपायतनं यावत्कायायतनं स्पष्टव्यायतनमिति। धातुवस्थायां त एव दश धातवः। चक्षुर्धात् रूपधातुर्यावत्कायधातुः स्पष्टव्यधातुरिति।

उक्तो रूपस्कन्धस्तस्य चायतनधातुव्यवस्थानमिति। न सकलस्य रूपस्कन्धस्यायतनधातुव्यवस्थानमुक्तम् अविज्ञप्तिरूपस्य वक्ष्यमाणत्वात्। कथमिदमुच्यते उक्तमिति। बाहुलिको निर्देशः। बाहुल्येन रूपस्कन्धस्यायतनधातुव्यवस्थान मुक्तमित्यर्थः। कतिपयमुद्गगुलिकासंभवेऽपि माषराशिव्यपदेशवत्। त्रिविधोऽनुभव इति। अनुभूतिरनुभव उपभोगः। कस्य चित्तस्य पुद्गलस्य वा। स च त्रिविधः सुखो दुःखोऽदुःखासुखश्च। वस्तुनो हादपरितापतदुभयविनिर्मुक्तस्वरूपसाक्षात्करणस्वभावः। अनुभूयते वानेन विषय इत्यनुभवः। अनुभवतीति वानुभवः। कायचित्तोपचयापचयतदुभयविनिर्मुक्तावस्थाप्रवृत्तैश्चैतसिकविशेषस्पर्शानुभव इत्यपरे। अनुर्लक्षणे स्पर्शचिह्नः। स्पर्शनिमित्तोऽनुभव इत्यर्थः। स वेदनास्कन्धः।

निमित्तोद्ग्रहणात्मिका

इति। निमित्तं वस्तुनोऽवस्थाविशेषो नीलत्वादि तस्योद्ग्रहणं परिच्छेद तदात्मिका तत्स्वभावा। दुःखादीत्यादिशब्देन लोहितादीनां ग्रहणम्। असौ संज्ञास्कन्धः। यदि परिच्छेदात्मिका संज्ञा तत्संप्रयोगे निमित्तमुद्गृह्णन्तीति पञ्चापि विज्ञानकाया विकल्पकाः स्युः। न स्युः। न हि पञ्चविग़्यानसंप्रयोगिणी संज्ञा पटी। मनोविज्ञानकायसंप्रयोगिणी तु पटीति तदेव विकल्पकमुक्तम्। षट् संज्ञाकाया वेदनावदिति। यथा चक्षुःसंस्प्अर्शजा वेदनेति विस्तरेणोक्त तथा चक्षुः स्पर्शजा संज्ञेति विस्तरेण वक्तव्यम्।। १४।।

[ चतुर्भ्योऽन्ये तु संस्कारस्कन्ध एते पुनस्त्रयः।
धर्मायतनधात्वाख्याः सहाविज्ञप्त्यसंस्कृतेः।। १५।। ]

चतुर्भ्योऽन्ये

इति। चतुर्भ्यः स्कन्धेभ्यः स्कन्धाधिकारात्। रूपस्कन्धादिभ्यस्त्रिभ्य उक्तेभ्यो विज्ञानस्कन्धाच्चोद्दिष्टवक्ष्यमाणकाच्चतुर्भ्योऽन्ये संस्काराः

संस्कारस्कन्धः।

सूत्रे षट् चेतनाकाया इत्युक्तमिति। संस्कारस्कन्धः कतमः षट् चेतनाकाया इति। अभिसंस्करणे प्रधाना इति। एवं चैवं च स्यामित्यभिसंस्करणे प्रधानाः कर्महेतूपपत्तय इति वचनात्। छन्दप्राप्त्यादयस्तु चेतनानुविधायित्वात्तदाकारहेतुभावानुविधानतः संस्कारस्कन्ध एव वेदितव्याः। तदेवं सति संस्करणे प्रवृत्तो धर्मराशिः संस्कार इत्युक्त भवति। अपरे पुनराहुः। संस्कृताभिसंस्करणे चेतनायाः प्राधान्यमुक्तम् अतः सूत्रे चेतनाग्रहणम्। संप्रयुक्तविप्रयुक्तसंस्कृतधर्मसंग्रहेण तु प्राधान्यादयमेव स्कन्धः संस्कारस्कन्ध उक्तः। संस्कृतराशिरिति कृत्वा। संस्कृतमभिसंस्करोतीति भाविन्या संज्ञानागतं स्कन्धपञ्चकं संस्कृतमित्युक्तम्। अन्यथा हीति विस्तरः। यदि यथासूत्रनिर्देशं चेतनैव केवला संस्कारस्कन्ध इष्यते नान्ये शेषाणां छन्दादीनां चैतसिकानां प्राप्त्यादीनां च चित्तविप्रयुक्तानां स्कन्धासंग्रहात् रूपादिषु स्कन्धेषु रूपणादिलक्षणाभावेनासंग्रहात् संस्कारस्कन्धे चैवं सूत्रे यथारूतग्रहणे नासंग्रहादिति स्कन्धेष्वसंग्रहात् दुःखसमुदयसत्यत्वं न स्यादिति परिज्ञाप्रहाणे न स्याताम्। परिज्ञा दुःखस्य प्रहाणं समुदयस्य। अनभिज्ञाय लौकिकेन मार्गेण अपरिज्ञाय लोकोत्तरेण। अथवानभिज्ञाय दर्शनमार्गेण अपरिज्ञाय भावनामार्गेण। एवमप्रहायेत्युक्तमिति सूत्रान्तरम् नाहमेकधर्ममप्यपरिज्ञायाप्रहाय दुःखस्यान्तक्रियां वदामीति दुःखनिरोधं वदामीत्यर्थः। ननु चाकाशाप्रतिसंख्यानिरोधौ लोकोत्तरेण मार्गेण न परिज्ञायेते अथ च दुःखस्यान्तक्रियेष्यते। संक्लेशवस्त्वभिसंधिवचनात् सौत्रान्तिकदर्शनेन च प्रज्ञप्तिसत्त्वाददोषः। न हि तौ संक्लेशवस्तु किमनयोः परिज्ञेयत्वेन। निरोधमार्गसत्ये अपि तर्हि न संक्लेशवस्तु इति न परिज्ञेये स्याताम्। दुःखसमुदय सत्यसंबन्धसद्भावात्तयोः परिज्ञेयत्वं व्यवस्थाप्यते। तथा हि योगिन एवं विचार यन्ति। अस्य सहेतुकस्य दुःखस्य को निरोधः केन चोपायेन स निरोधः प्राप्यत इति निरोधमार्गसत्ये अपि परिजानन्ति। न त्वाकाशाप्रतिसंख्यानिरोधायोर्दुःखेन संबन्ध इति न तौ परिजानन्ति। प्रयोगावस्थायां तु लौकिकेन ज्ञानेन तावपि सामान्यरूपेण सर्वधर्मा अनात्मान इति भावयन्ति।

धर्मायतनधात्वाख्याः

इति। आयतनं च धातुश्चायतनधातुः धर्मश्चासावायतनधातुश्च धर्मायतनधातुः तदाख्यैषां त इमे धर्मायतनधात्वाख्याः। के वेदनासंज्ञासंस्कारस्कन्धाः

सहाविज्ञप्त्यसंस्कृतैः

इति। सहाविज्ञप्त्या सहासंस्कृतैश्चाकाशादिभिः आयतनदेशनायां धर्मायतनमिति धातुदेशनायां च धर्मधातुरिति। सप्त द्रव्याणीति। अविज्ञप्तिः वेदनास्कन्धः संज्ञास्कन्धः संस्कारस्कन्धः आकाशम् ग्रतिसंख्यानिरोधः अप्रतिसंख्यानिरोधश्चेति।। १५।।

[ विज्ञानं प्रतिविज्ञप्तिर्मन आयतनं च तत्।
धातवः सप्त च मताः षड्विज्ञानान्यथो मनः।। १६।। ]

विज्ञानं प्रतिविज्ञप्तिः

इति। विज्ञानस्कन्धः प्रतिविज्ञप्तिरित्यर्थः स्कन्धाधिकारात्। प्रतिवाप्सार्थः विषयं विषयं प्रतीत्यर्थः। उपलब्धिर्वस्तुमात्रग्रहणम्। वेदनादयस्तु चैतसा विशेषग्रहणरूपाः। षड् विज्ञानकाया इति षड् विज्ञानसमूहाः।

षड् विज्ञानान्यथो मनः

इति। षड् विज्ञानधातवो यथासंख्येन यच्चक्षुविज्ञानं स चक्षुर्विज्ञान्धातुः एवं यावद्यन्मनोविज्ञानं स मनोविज्ञानधातुः समस्तानि त्वेतानि षण्मनोधातुरिति वेदितव्यम्।। १६।।

[ षण्णामनन्तरातीतं विज्ञानं यद्धि तन्मनः।
षष्ठाश्रयप्रसिद्धयर्थ धातवोऽष्टादश स्मृताः।। १७।। ]

पण्णामनन्तरातीतं विज्ञानं यद्धि तन्मनः

इति। षण्णामिति निर्धारणे षष्ठी। तेषामेव मध्ये नान्यदित्यर्थः। अनन्तरग्रहणमन्यविज्ञानव्यवहितनिवृत्त्यर्थम्। यद्धि यस्यानन्तरमन्यविज्ञानाव्यवहितं तत्तस्याश्रयः। व्यवहितं तु न तस्याश्रयः। अन्यस्यासावाश्रयो यस्य तदव्यवहितम्। अत एवाचित्तिकावस्थायां चिरातीतमपि समापत्तिप्रवेशचित्तं व्युत्थानचित्तस्याश्रयो भवति विज्ञानान्तराव्यवधानात्। अतीतग्रहणं प्रत्युपन्ननिरासार्थम् मनोविज्ञानं ह्याश्रयि तस्यामवस्थायां प्रत्युत्पन्नम् अतस्तदतीतमिष्यते। तदेव चैतदुच्यते षष्ठाश्रयप्रसिद्धयर्थमिति। विज्ञानग्रहणं वेदनाद्यनन्तरातीतनिवृत्त्यर्थम्। यद्धि तन्मन इति जातिनिर्देशान्न वीप्साप्रयोगः। वृत्तौ तु द्रव्यपदार्थाभिधित्सया वीप्साप्रयोगः यद्यत्समनन्तरनिरूद्धं विज्ञानं तत्तन्मनोधातुरिति। तद्यथा स एवेति विस्तरः। तद्यथा स एव पुत्रोऽन्यस्य पित्राख्यां लभते तदेव फ़लमन्यस्य बीजाख्याम्। तथेहापि स एव चक्षुरादिविज्ञानधातुरन्यस्याश्रय इति मनोधात्वाख्यां लभते।

सप्तदश धातवो भवन्ति द्वादश वेति। य एव षड्विज्ञानधातवः स एव मनोधातुः। य एव च मनोधातुस्त एव च षड् विज्ञानधातव इतीतरेतरान्तर्भावः। यदि षड् विज्ञानधातवो गृह्येरन् नार्थो मनोधातुनेति सप्तदश धातवो भवन्ति। यदि मनोधातुर्गृह्येत नार्थः षड्विज्ञानधातुभिरिति द्वादश धातवो भवन्ति।

षष्ठाश्रयप्रसिद्धयर्थम्

इति। पञ्चानां विज्ञानधातूनामाश्रयप्रसिद्धिर्नाङ्गीक्रियते चक्षुरादिस्वाश्रयसंभवात्। मनोविज्ञानाश्रयो नास्तीति तदाश्रयप्रसिद्ध्यर्थ मनोधातुर्व्यवस्थाप्यते। आश्रयादिषट्कव्यवस्थानेन अष्टादश धातवो भवन्ति। आश्रय षट्कं चक्षुरादिमनोऽन्तकम्। आश्रितषट्कं चक्षुर्विज्ञानादिमनोविज्ञानान्तम्। आलम्बनषट्कं रूपादिधर्मान्तमिति। योगाचारदर्शनेन तु षड्विज्ञानव्यतिरिक्तोऽप्यस्ति मनोधातुः। ताम्रपरणीया अपि हृदयवस्तु मनोविज्ञानधातोराश्रयं कल्पयन्ति। तच्चारूप्यधातावपि विद्यत इति वर्णयन्ति। आरूप्यधातावपि हि तेषां रूपमभिप्रेतम्। आरूप्य इति च ईषदर्थे आङ् आपिङ्गलवदिति। चरमं चित्तमिति। निरूपधिशेषनिर्वाणकाले। न मनो भविष्यतीति। न मनोधातुर्भविप्यतीत्यर्थः। न हि तदस्तीति नोत्पद्यत इत्यर्थः। न। तस्यापि मनोभावेनेति विस्तरः नैतदेवम्। कस्मात् तस्यापि चरमचित्तस्य मनोभावेनाश्रयत्वेनावस्थितत्वात्। अन्यकारणवैकल्यादिति। पौनर्विककर्मक्लेशकारणवैकल्यात्। नोत्तरविज्ञानसंभूतिरिति न पुनर्भवप्रतिसंधिविज्ञानमित्यभिप्रायः ।

इदमिह विचार्यते। उक्तमेतत् आश्रयाश्रितालम्बनषट्कव्यवस्थानादष्टादश धातवो भवन्तीति। आश्रितषट्कं तावव्द्यवस्थाप्यते चक्षुर्विज्ञानधातुर्यावन्मनोविज्ञानधातुरिति। किमस्याश्रितषट्कस्य यथासंख्यामाश्रयषट्कं व्यवस्थाप्यते चक्षुर्विज्ञानधातोराश्चक्षुर्धातुर्यावन्मनोविज्ञानधातोर्मनोधातुराश्रय इति। अमित्याह। यदा ताह चक्षुस्तत्सभागं भवति तत् कस्याश्रयः न कस्यचित्। कथ तर्हीदमुक्त चक्षुर्विज्ञानधातोश्चक्षुर्धातुराश्रय इत्यादि। आश्रय एव चक्षुः यस्तु किंचिदनाश्रयस्तत्सभागं चक्षुस्तदपि तज्जातीयत्वाच्चक्षुर्धातुत्वेन व्यवस्थाप्यत एव। एवं यावत्कायधातुर्वक्क्तव्यः। मनोधातुरपि किं मनोविज्ञानधातोरेवाश्रयः नेत्याह। चक्षुर्विज्ञानधात्वादीनामपि हि स आश्रय इष्यते। तथा हि वक्ष्यति।

चरमस्याश्रयोऽतीतः पञ्चानां सहजश्च तैः

इति। किं तहीदमुक्तम्

षष्ठाश्रयप्रसिद्धयर्थं धातवोऽष्टादश स्मृताः

इति। नान्येषामाश्रयः स इति कृत्वा षष्ठाश्रयप्रसिद्धिर्न भवति। षष्ठस्याप्ययमाश्रयो भवति संभवतः। आलम्बनषट्कमपि चक्षुर्विज्ञानधातोरालम्बनं रूपधातुर्यावन्मनोविज्ञानधातोर्धर्मधातुरालम्बनमिति। तदिदं विचार्यते। किं यथा चक्षुर्विज्ञानधातोर्यावन्ति रूपाण्यालम्बनं स रूपधातुः एवं यावत्कायविज्ञानधातोर्यावन्ति स्प्रष्टव्यान्यालम्बनं स स्प्रष्टव्यधातुः एवं मनोविज्ञानधातोर्यावन्तो धर्मा आलम्बनं स धर्मधातुरिति। अत्र स्थविर आह सर्वधर्मस्वभावो धर्मधातुः अष्टादशधातुस्वभाव इत्यर्थः। कथमस्याध्यात्मिकबाह्यधातुव्यवस्था सिध्यति। चक्षुरादयो हि द्वादशाध्यात्मिका इष्यन्ते। षड् बाह्या इति। यदि हि तेऽपि धर्मधातवन्तर्भाव्येरन् सांकर्यं प्राप्नोति। स्थविर आह। पार्यायिकमेषामाध्यात्मिकबाह्यत्वम्। विज्ञानानामाश्रयास्ते चक्षुरादय इत्याध्यात्मिकाः। मनोविज्ञानविषयत्वात्तु बाह्या इति। तदेवं नेच्छन्ति वैभाषिकाः सूत्रविरोधात्। एवं हि सूत्र उक्तम् धर्मा भिक्षो बाह्यमायतनमेकादशभिरायतनैरसंगृहीतमनिदर्शनमप्रतिघमिति। तस्मात् सप्तद्रव्यको धर्मधातुरेष्टव्यः अविज्ञप्तिवेदनासंज्ञासंस्कारस्कन्धाकाशप्रतिसंख्यानिरोधाप्रतिसंख्यानिरोधस्वभावत्वात्। अपरिपूर्णस्तर्हि मनोविज्ञानधातोरालम्बननिर्देशः न च चक्षुर्विज्ञानादीनामपरिपूर्ण आलम्बननिर्देश इष्यते। अस्त्वेतदेवम्। किं तु चक्षुरादीनां षण्णामाश्रयत्वेन निर्देशात् चक्षुर्विज्ञानादीनां चाश्रितत्वेन रूपादीनां च पञ्चानां पञ्चविज्ञानकायालम्बनत्वेन निर्देशात् न तेषां मनोविज्ञानविषयत्वेऽपि धर्मधातौ प्रक्षेप इति वर्णयन्ति।। १७।।

[ सर्वसंग्रह एकेन स्कन्धेनायतनेन च।
धातुना च स्वभावेन परभाववियोगतः।। १८।। ]

समासतस्तु ज्ञातव्यः सर्वसंग्रह इति। आयतनादिभिरपि सर्वसंग्रहः न तु समासतः किं तर्हि विस्तरतः। अयं तु देशनात्रयान्निष्कृष्य समासत उक्तः। रूपस्कन्धेन रूपस्कन्धः संगृहीतः दश चेन्द्रियार्थस्वभावान्यायतनानि धातवश्च धर्मायतनधात्वेकदेशश्चाविज्ञप्तिः। मनआयतननेन विज्ञानस्कन्धः तदेव च मनआयतनम्। सप्त चित्तधातवश्च संगृहीताः। धर्मधातुना वेदनासंज्ञासंस्कारस्कन्धाः संगृहीता धर्मायतनं धर्मधातुश्च। अविज्ञप्तिरिह द्विः संगृहीता। तद्यथा चक्षुरिन्द्रियमिति। चक्षुरिन्द्रियं वेदनादिस्कन्धश्रोत्राद्यायतनधातुनिरोधसत्यमार्गसत्यस्वभावेन वियुक्तम्। अत एतदुक्तम् चक्षुरिन्द्रियं रूपस्कन्धेन चक्षुरायतनधातुभ्यां दुःखसमुदयसत्याभ्यां च संगृहीतं तत्स्वभावत्वात् नान्यैः स्कन्धादिभिस्तद्भाववियुतत्वादिति। महतात्राल्पकं संगृहीतम्। न तु महदल्पकेन। कथमिति। रूपस्कन्धो महान् सर्वरूपसंग्राहकत्वात् चक्षुरिन्द्रियमल्पकं रूपस्कन्धैकदेशत्वात्। रूपस्कन्धेन चक्षुरिन्द्रियं संगृहीतं न तु चक्षुरिन्द्रियेण रूपस्कन्धः चक्षुरिन्द्रियव्यतिरिक्तरूपस्कन्धसद्भावात्। तद्यथा हस्तिपदेन पक्षिपदं संगृहीतम् न तु पक्षिपदेन हस्तिपदं संगृहीतम् तद्वत्। समेन तु सममन्योन्यं संगृहीतम्। तद्यथा चक्षुरिन्द्रियं चक्षुरायतनेन चक्षुरायतनमपि चक्षुरिन्द्रियेणेत्ययमभिधर्मनयो वेदितव्यः। यथा संग्रहवस्तुभिः पर्षदामिति। चत्वारि संग्रहवस्तूनि दानं प्रियवादितार्थचर्या समानार्थता च। चतस्रः पर्षदः भिक्षुभिक्षुण्युपासकोपासिकाः तैस्तासां संग्रहः। स तु कादाचित्कः। कदाचिद्भवः कदाचित्कः। कदाचिदासां दीयते प्रियं चोच्यते न च संग्रह इति। सांकेतिकः सांव्यवहारिकः। स्वभावसंग्रहस्तु पारमर्थिक इत्युक्तम्।। १८।।

[ जातिगोचरविग़्यानसामान्यादेकधातुता।
द्वित्वेऽपि चक्षुरादीनां शोभार्थं तु द्वयोद्भवः।। १९।। ]

जातिगोचरविज्ञानसामान्यादेकधातुता।

द्वित्वेऽपि चक्षुरादीनाम्

इति। अर्थादेतदुक्तम् जात्यादिभेदाद्यथासंभवं धातुभेदव्यवस्थानम् न त्वधिष्ठानभेदादिति। तत्र चक्षुर्धात्वादीनामन्योन्यं जातिगोचरविज्ञानभेदो भवति। रूपधात्वादीनां जातिविज्ञानभेदः। विज्ञानधातूनां जातिगोचरभेदः। मनोविज्ञानस्यापि हि धर्मधातुरसाधारणो गोचरः। एवं श्रोत्रघ्राणयोरपि योज्यमिति। जातिसामान्यमुभयोः श्रोत्रस्वभावत्वात्। गोचरसामान्यमुभयोः शब्दविषयत्वात्। विज्ञानसामान्यमुभयोरेकश्रोत्रविज्ञानाश्रयत्वात्। तस्मादेक एव श्रोत्रधातुः। एवं घ्राणस्यापि योज्यम्।

कार्यान्तराभावात्तर्हि द्वयानुत्पत्तिप्रसङ्गः स्यादित्यत आह

शोभार्थ तुद्वयो द्भवः

इति। एकचक्षुःश्रोत्राधिष्ठानैकनासिकाबिलसंभवान्महद्वैरूप्यं स्यादित्येकस्य चक्षुः श्रोत्राधिष्ठानस्य एकस्य च नासिकाबिलस्य संभवान्महद्वैरूप्यं स्यात्। ननु चोष्ट्रमार्जारोलूकप्रभृतीनां चक्षूरादिद्वयोद्भवेऽपि न भवत्याश्रयशोभा। जात्यन्तरापेक्षया न तेषामाश्रयशोभा। स्वजात्यपेक्षया तु यस्य चक्षुरादिद्वयमस्ति तस्य तस्यां स्वजातावाश्रयशोभा। यस्य नास्ति तस्य वैरूप्यमिति अदूष्यमेतत्। आचार्यसंघभद्रस्त्वस्य सूत्रस्यार्थ विवेक शोभार्थमित्याधिपत्यार्थ मित्यर्थः। आधिपत्यसंपन्नो हि लोके शोभत इत्यपदिश्यते। येषां चेन्द्रियाणाममून्यधिष्ठानानि तेषां परिशुद्धदर्शनश्रवणघ्राणाद्याधिपत्यं स्यात्। न हि यथा द्वाभ्यां चक्षुर्भ्या परिशुद्धं दर्शनं भवति तथैकेन। एवमितरयोरपि। एवं चैषामिन्द्रियत्वं हीयेत तदर्थमेतदुक्त स्यादिति। स्फ़ुटोपलब्ध्यर्थमित्यर्थः। इहापि शक्यमेवं वक्तुम् एकमेव परिस्फ़ुटोपलब्ध्याश्रयभूतं विस्तीर्ण कर्मणोत्पाद्यताम् किमाश्रयविच्छेदेनेति। विभाषायां तु लिखितमेतत् पक्षद्वयम्। शोभार्थ द्वयोद्भव इत्येको व्यक्तयर्थमित्यपर इत्यलं प्रसङ्गेन। ननु च कर्मवशादिन्द्रियद्वयोत्पत्तिः किमन्यदेवोच्यते शोभार्थ व्यक्तयर्थ चेति। कर्मवशादेवात्रेन्द्रियद्वयोद्भव उक्तः। कथमिति एवं विभक्तावयवाश्रयेणानादिकालाभ्यस्तः शोभाभिमानः सत्त्वानां प्रवर्तते। अतस्त्दभिलाषपूर्वकेण स्फ़ुटोलब्ध्यभिलाषपूर्वकेण च कर्मणा तदिन्द्रियद्वयमभिनिर्वर्त्यमानं शोभार्थं व्यक्तयर्थ चोद्भवतीत्युच्यते।। १९।।

[ राश्यायद्वारगोत्रार्थाः स्कन्धायतनधातवः।
मोहेन्द्रियरूचित्रैधात्तिस्रः स्कन्धादिदेशनाः।। २०।। ]

राश्यायद्वारगोत्रार्थाः स्कन्धायतनघातवः

इति। यथाक्रमं राशिरायद्वारं गोत्रं चार्थ एषां त इमे रश्यायद्वारगोत्रार्थाः। के स्कन्धायतनधातुशब्दाः। अथवा राश्यायद्वारगोत्रशब्दानामर्थाः के। स्कन्धायतनधातवः। सूत्रे वचनात्। सूत्रे राश्यर्थः स्कन्धार्थ इति राशेर्योऽर्थ स स्कन्धस्यार्थः। तं सूत्रेण दर्शयति। यत्किंचिद्रूपमतीतानागतप्रत्युत्पन्नमिति विस्तरः। ऐकध्यमिति एकधैवैकध्यम्। अनित्यानिरूद्धमिति। अनित्यतया संस्कृतलक्षणेन निरूद्धमित्यर्थः। अनित्यताग्रहणमन्यनिरोधनिरासार्थम्। पञ्चविधो हि निरोधः लक्षणनिरोधः समापत्तिनिरोध उपपत्तिनिरोधः प्रतिसंख्यानिरोधोऽप्रतिसंख्यानिरोधश्च। तद्यद्यतीतं रूपं निरूद्धमित्येव ब्रूयात् अविशेषितत्वात् समापत्तिनिरोधादीनामपि प्रसङ्ग स्यात्। न च तैरतीतार्थतेष्यते। समापत्तिनिरोधो ह्यनागतानामेव चित्त्चैत्तानाम्। उपपत्तिनिरोधोऽप्येषामेव। प्रतिसंख्यानिरोधः सास्रवाणामेव। अप्रतिसंख्यानिरोधो ह्यनुत्पत्तिधर्माणामेवानागतानाम्। तस्माल्लक्षणनिरोधग्रहणार्थमिदमनित्यताग्रहणम्। अनागतमनुत्पन्नमिति। प्रत्युत्पन्नतामसंप्राप्तम्। प्रत्युत्पन्नमुत्पन्नानिरूद्धमिति। उत्पन्नग्रहणमनागतविशेषणार्थम् अनिरूद्धग्रहणमतीतविशेषणार्थम्। अनागतं यद्यप्यनिरूद्धं न तूत्पन्नम्। अतीतमपि यद्यप्युत्पन्न न त्वनिरूद्धमिति। आध्यात्मिकं स्वासान्तानिकामति चक्षुरादिकं रूपादिकं च। बाह्यमन्यदिति तदेव पारसान्तानिकसत्त्वसंख्यातं च। आयतनतो वेति। आध्यात्मिकं चक्षुरादिपञ्चकं स्वपरसंततिपतितम्।

द्वादशाध्यात्मिकाः

इति वचनात्। बाह्यमन्यद् रूपादिकं विषयपञ्चकं स्वपरसंततिपतितम् असत्त्वसंख्यातं चाविज्ञप्तिश्च बाह्यायतनस्वभावमिति कृत्वा। आदारिकं सप्रतिघमिति। परमाणुसञ्चयस्वभावम्। सूक्ष्ममप्रतिघम् अविज्ञप्तिरूपम्। आपक्षिकं वेति। अपेक्षया वौदारिकं सूक्ष्मं च भवति। तद्यथा लिक्षामपेक्ष्यौदारिकी यूका। यूकामपेक्ष्य सूक्ष्मा लिक्षेति। तदेवं सति सप्रतिघमेवौदारिकं च सूक्ष्मं भवति अप्रतिघ तु सूक्ष्ममेवासञ्चितत्वात्। आपेक्षिकत्वादसिद्धमिति। सैव सूक्ष्मा लिक्षा वातायनरजोऽपेक्ष्यौदारिकी सैव चौदारिकी यूकामपेक्ष्य सूक्ष्मेत्यव्यवस्थितमौदारिकसूक्ष्मत्वं पारापारवत्। कथं हि नामौदारिकं सूक्ष्मं भवति सूक्ष्मं चौदारिकमिति। न अपेक्षाभेदादिति। अपेक्षया भेदोऽपेक्षाभेदः तस्मान्नसिद्धम्। यदेवापेक्ष्यौदारिकं न जातु तदपेक्ष्य सूक्ष्मम्। न कदाचित्तदेवापेक्ष्यमित्यर्थः। पितृपुत्रवदिति। तद्यथा देवदत्तस्य पुत्रो यज्ञदत्तः। यज्ञदत्तस्य पुत्रो विष्णुमित्रः। स यज्ञदत्तो विष्णुमित्रमपेक्ष्य पिता देवदत्तमपेक्ष्य पुत्रः। न चापेक्षिकत्वादस्य पितृपुत्रभावो न सिध्यति अपेक्षाभेदात्। न हि स यज्ञदत्तस्तमेव विष्णुमित्रमपेक्ष्य पुत्रो नापि तमेव देवदत्तमपेक्ष्य पितेति तद्वत्। हीनं क्लिष्टम् सद्भिस्त्यक्तमिति कृत्व। प्रणीतमक्लिष्टम् क्लेशादूषितत्वात्। दूरमतीतानागतम् सन्तानप्रच्युतत्वात् तदसंप्राप्तत्वाच्च। अन्तिकं प्रत्युत्पन्नम् सन्तानसंनिहितत्वात्। एवं यावद्विज्ञानमिति। या काचिद्वेदना अतीतानागतप्रत्युत्पन्ना आध्यात्मिकी वा बाह्या वा औदारिकी वा सूक्ष्मा या वा दूरे या वा अन्तिके तां सर्वामैकध्यमभिसंक्षिप्य वेदनास्कन्ध इति संख्यां गच्छति। एवं यावद्विज्ञानं वक्तव्यम् यावत्सर्वमैकध्यमभिसंक्षिप्य विज्ञानस्कन्ध इति संख्यां गच्छतीति। अतीतादित्वमेषां वेदनादीनां यथा रूपस्य। अयं तु विशेषो वेदादीनाम् औदारिकं पञ्चेन्द्रियाश्रयं वेदनादिचतुष्कम्। अमूर्तत्वात्स्वगतमौदारिकत्वं नास्ति। सूक्ष्मं मानसम् आश्रयस्याप्यमूर्तत्वात्। भूमितो वेति औदारिकं सूक्ष्मं च वेदनादिकम्। औदारिकी कामावचरी वेदना सूक्ष्मा प्रथमध्यानभूमिका। औदारिकी प्रथमध्यानभूमिका सूक्ष्मा द्वितीयध्यानभूमिका। एवं यावदौदारिक्याकिंचन्यायतनभूमिका सूक्ष्मा भवाग्रभूमिकेति। यथा वेदना एवं यावद्विज्ञानं वक्तव्यम्।

भदन्त इति स्थविरः कश्चित्सौत्रान्तिकस्तन्नामा वा। भगवद्विशेषस्त्वाह। स्थविरधर्मत्रातोऽसाविति। अत्र वयं व्रूमः। यदि धर्मत्रातोऽतीतानागतास्तित्ववादी स इति न सौत्रान्तिकः न दार्ष्टान्तिक इत्यर्थः। तथा हि वक्ष्यति भावान्यथिको भदन्तधर्मत्रातः। सकिलाह धर्मस्याध्वसु प्रवर्तमानस्य भावान्यथात्वं भवति न द्रव्यस्यान्यथात्वमिति। सौत्रान्तिकदर्शनावलम्बी चायं भदन्तो विभाषायां लिखितः भदन्त आहेत्येवमादि। भदन्तधर्मत्रातोऽपि स्वनाम्नैव विभाषायां लिखितः भदन्तधर्मत्रात आहेत्येवमादि। तेन लक्ष्यते भदन्तधर्मत्रातादन्योऽयं सौत्रान्तिकः कश्चित्स्थविरो भिक्षुरिति पञ्चेन्द्रियग्राह्यमिति। रूपादिपञ्चकम्। सूक्ष्ममन्यच्चक्षुरादिपञ्चकम् अविज्ञप्तिश्च। मनापमिति। मन आप्नोतीति मनआपं मनोज्ञमित्यर्थः। पुनः संधिकरणं चात्र द्रष्टव्यम्। पूर्वत्रासिद्धमिति ईषदर्थे नञ्परिग्रहात्किंचित्सिद्धमित्येकसवर्णदीर्घत्वम्। दूरमदृश्यदेशमिति आधारदेशमाश्रयाधारदेशं चाधिकृत्य। द्रष्टुं शक्यो दृश्यः दृश्यो देशोऽस्येति दृश्यदेशं दृश्याधारदेशं दृश्याश्रयाधारदेशं वा तद्यथा कुण्डे बदरम् चक्षुरादि वा तदन्तिकम्। अदृश्यदेशं तु तद्विपरीतं दूरम्। दूरमदृश्यमिति नोक्तम्। आसन्नमपि हि किंचिदतिसूक्ष्मत्वान्न दृश्यते। न च तद्दुरमिष्यते दृश्यदेशत्वात्। किमर्थ पुनरेवं भदन्तेन व्याख्यायते। अतीतादीनां स्वशब्देनामिहितत्वात्। अन्यथा हि पुनरूक्तदोषः स्यात्। दूरान्तिकत्वं तु तेषामाश्रयवशादिति। तेषां वेदनादीनाम् अमूर्तत्वेनादेशस्थत्वात्। तस्मादेवं वक्तव्यम् दूरेऽदृश्यमानाश्रया वेदनादयः अन्तिके दृश्यमानाश्रया इति। आदारिकसूक्ष्मत्वं पूर्ववदिति औदारिकं पञ्चेन्द्रियाश्रयम् सूक्ष्मं मानसमिति।

चित्तचैत्तानामायमुत्पत्तिं तन्वन्तीत्यायतनानि। द्वयं प्रतीत्य विज्ञानस्योत्पत्तिरिति सर्वेषामायतनत्वसिद्धिः। एकस्मिन्नाश्रये संताने वेति आश्रये समुदायलक्षणे शरीरे सन्ताने वा चित्तादीनां प्रवाहलक्षणे। स्वस्या जातेः। किम् आकरा इति प्रकृतम्। सभागहेतुत्वात् पूर्वोत्पन्न चक्षुः पश्चिमस्य सभाग हेतुरित्याकरो धातुः। यतो हि सुवर्णाद्युत्पत्तिस्ते तेषामाकराः। असंस्कॄत न धातुः स्यात्। न ह्यसंस्कृतमसंस्कृतस्यान्यस्य वा सभागहेतुः। चित्तचैत्तानां तर्हीति। किम् आकरा इति प्रकृतम्। द्वयं प्रतीत्य विज्ञानस्योत्पत्तिरिति सर्वे धातवो विज्ञानस्य ससंप्रयोगस्य प्रत्ययोऽवश्यमालम्बनमधिपतिश्चेत्याकराः।

राशिपुद्गलवदिति। प्रज्ञप्तिसन्त स्कन्धा राशिशब्दवाच्यत्वात् धान्यराशिवत् पुद्गलवद्वा। स हि प्रज्ञप्तिसन्पुद्गलः रूपादिप्रज्ञप्तिकारणनिरपेक्ष्यागृह्यमाणस्वभावत्वात् धान्यराशिवत्। कार्यभारोद्वहनार्थ इति। कार्यमेव भारः कार्यभारः तदुह्यते तेनेत्युद्वहनम् कार्यभारस्योद्वहनं कार्णमारोद्वहनम्। शरीरप्रदेशः स लोके स्कन्ध इत्युच्यते। अनेनापि कार्यभार उह्यते नामरूपप्रत्ययं षडायतनमित्यादिवचनात्। तस्मात् स्कन्ध इव स्कन्ध इत्यौपचारिकशब्दः। प्रच्छेदार्थो वा। अवध्यर्थो वेत्यर्थः। रूपप्रच्छेदो यावद्विज्ञानप्रच्छेद इति। तदेतदुत्सूत्रमिति। तदेतदुभयं कार्यभारोद्वहनार्थः प्रच्छेदार्थश्चेति। उत्क्रान्तं सूत्रादुत्सूत्रम्। सूत्रं हीति विस्तरेण तत्प्रतिपादयति। प्रत्येकमिति विस्तरः। कथमित्याह सर्वमेतदतीतादिरूपमेकश एकैकं रूपस्कन्ध इति। समुदायेन सम्दुयिद्रव्यमुक्तम् तेषां ह्यतीतादीनां रूपाणां स राशिरित्यभिप्रायः। सूत्रेऽप्येवमेवोक्तम् पृथिवीधातुः कतमः केशा रोमाणीति विस्तरः। एकैकं केशादिद्रव्यं पृधिवीधातुरिति विज्ञायते। अयं च परिहारः कार्यभारोद्वहनार्थप्रच्छेदार्थपक्षयोरपि शक्यते वक्तुम्। न शक्यमेवमिति विस्तरः। ऐकष्यमभिसंक्षिप्येति वचनातिरेकादेकैकं रूपस्कन्ध इति न शक्यते विज्ञातुम्। यदि ह्येवमर्थोऽभविष्यत्तत्सर्व रूपस्कन्ध इत्येवावक्ष्यत् नार्थम् ऐकध्यमभिसंक्षिप्येति वचनेन। तस्माद्वाशिवदेव स्कन्धाः प्रज्ञप्तिसत इति स्थपनापक्ष आचार्यस्य। द्रव्यसद्रूपप्रतिपत्तिस्तु स्कन्धनिर्देशे तत्समुदायित्वादित्यवगन्तव्यम्। रूपीण्यपीति विस्तरः। रूपिग्रहणमरूपिविशेषणार्थम्। अरूपि हि मनआयतनमसंहतमपि कारणभावं विभर्ति। रूपीणयपि चक्षुरादीन्यायतनानि समुदितान्येव चित्तचैत्तायद्वारतां गच्छन्ति नासमुदितानीति समुदायलक्षणत्वात् स्कन्धवत्प्रज्ञप्तिसन्ति स्युः। संचिताश्रयालम्बना हि पञ्च विज्ञानकाया इति। न एकशः समग्राणां कारणभावादिति। नैतदेवम्। कस्मात् एकशः प्रत्येकं समग्राणां समुदितानां कारणत्वात्। यस्माद्वहूनामेषां चक्षुरादिपरमाणूनां परस्परमपेक्षमाणानामेकैकशः कारणभावः न त्वसंहतानाम्। तद्यथा दार्वाकर्षणे बहूनामाक्रष्टॄणां प्रत्येकमसामर्थ्यम् समुदितानां तु परस्परमपेक्ष्यमाणानां सामर्थ्यम्। यथा वा केशाः पृथग्पृथग्वस्थिता न समर्थास्तैमिरिकचक्षुर्विज्ञानकरणे समुदितास्त्वसंयुक्ता अपि समर्थाः तद्वच्चक्षुरादीन्द्रियपरमाणवो रूपादिविषयपरमाणवश्च चक्षुरादिविग़्यानोत्पादने प्रत्येकमसमर्थाः समुदितास्तु समर्थाः। शक्तिर्हि भावानां तादृश्यवगन्तव्या। विषयसहकारित्वाद्वेति। यदि बहूनामायद्वारभाव इति समुदायायतनत्वं स्यात् न द्रव्यायतनत्वम् इन्द्रियविषयपरमाणूनां समुदितानामायद्वारभाव इति तत्समुदायायतनत्वं स्यात् न पृथगायतनत्वं स्यात्। इष्यते च पृथगायतनत्वम् द्वादशायतनानीति सूत्रात्। साधनं चात्रोपतिष्ठते। ये सहकारिणो न तैः सह समुदायात्मकायतनभूताश्चक्षुरायतनसमुदायद्रव्यपरमाणवः चक्षुर्विज्ञानकारणत्वात् चक्षुरायतनरूपायतनसमुदायद्रव्यपरमाणुवत्। यथा चक्ष्ःउरायतनसमुदायद्रव्यपरमाणव एवं यावत्कायायतनसमुदायद्रव्यपरमाणवो योज्याः। विभाषायां तूच्यत इति। अनेनापि प्रज्ञप्तिसन्तः स्कन्धा इति व्याचष्टे। अयं तु विशेषः अद्रव्यसन्तोऽपि ते तत्रोपचारेण प्रदर्श्यन्त इति विशेषार्थस्तुशब्दः। स्कन्धप्रज्ञप्तिमपेक्षत इति। स्कन्ध इति प्रज्ञप्तिमपेक्षते। राशिरिति प्रज्ञप्तिमपेक्षत इत्यर्थः। परमाणुरेकस्य धातोरिति। दशानां चक्षुरादीनां रूपिणां धातूनामन्यतमस्य प्रदेशः। एवमायतनानामेषामेवान्यतमस्य रूपस्कन्धस्य च प्रदेशः। कस्मात् न हि प्रज्ञप्तावपेक्षितायां प्रदेशिनि वृत्तः शब्दः प्रदेशे व्यवस्थाप्यते। अथ नापेक्षते। किम् स्कन्धप्रज्ञप्तिमित्यधिकृतम्। स आह परमाणुरेको धातुरिति विस्तरः। स एकैकस्तेषामायतनधातूनां योऽन्यतम् उक्तो रूपस्कन्धश्च। भवति हि प्रदेशेऽपि प्रदेशिवदुपचार इति। प्रदेशेऽपि परमाणावन्यतमरूपायतनधातुवद्रू पस्कन्धवच्चोपचारः। तत्र तस्येवेति वतिः। यथा पटैकदेशे दग्धै पटो दग्ध इति। यथा पटशब्दः समुदाये प्रवृत्तः प्रदेशेऽप्युपचर्यते पटैकदेशे तद्वत्स्कन्धशब्दोऽतीतादिरूपसमुदाये वृत्तः प्रदेशेऽपि परमाणावुपचर्यत इति। स्कन्धा एव प्रज्ञप्तिसन्तो नायतनधातव इति। रूपादीनां स्कन्धा इति कृत्वा। यदा तु रूपाण्येव स्कन्धा इति समासस्तदा द्रव्यसन्तः स्कन्धा इत्यभिप्रायः।

इदमिह विचार्यते। किमत्र कारणं यदिन्द्रियपरमाणूनां विषयपरमाणूनां च विज्ञानोत्पत्तये तुल्येऽप्यन्योन्यसापेक्षत्वे न द्वयानामेषां केवलेन्द्रियपरमाणुवदेकायतनत्वं व्यवस्थाप्यते । यस्माच्चक्षुरिन्द्रियदिपरमाणवः सर्वे स्वविज्ञानोत्पत्तौ साधारणानि कारणानि भवन्ति। न तु तथा विषयपरमाणवः। तथा हि चक्षुरिन्द्रियपरमाणवो नीलविषयविज्ञानोत्पत्तावपि कारणं भवन्ति पीतादिविज्ञानोत्पत्तावपि। नीलविषयपरमाणवस्तु स्वविज्ञानोत्पत्तावेव कारणं भवन्ति न पीतादिविज्ञानोत्पत्तौ इत्यतश्चक्षुरिन्द्रियपरमाणुभिस्तद्विषयपरमाणूनामतुल्यवर्तित्वात् पृथक्स्थानावस्थितत्वात् न चक्षूरूपपरमाणूनामेकायतनत्वव्यवस्थानत्वं युज्यते। एवं यावत्कायेन्द्रियस्प्रष्टव्यपरमाणूनामेकायतनत्वव्यवस्थानं न युज्यत इति वक्तव्यम्।

मोहेन्द्रियरूचित्रैधात्

इति। संमोहप्रज्ञाधिमोक्षत्रैधादित्यर्थः। त्रयः प्रकारास्त्रैधमिति। त्रिधैव त्रैधमिति स्वार्थेऽण्प्रत्यय इत्येके। त्रिधाभावस्त्रैधमिति भावेऽण्प्रत्यय इत्यपरे। मोहेन्द्रियरूचीनां त्रैधम् तस्मादिति। पिण्डात्मग्रहणत इति केचिच्चैतान् पिण्डतो गृहीत्वा तानेवात्मतो गृह्णन्ति पिण्डग्राहे सत्यात्मग्राहप्रवृत्तेः। तेषां स्कन्धदेशना। तस्यां हि वेदनासंज्ञासंस्कारभेदेन त्रिधा चैत्ता देशिताः। नायमेकः पिण्डः चैत्तविशेषा इहेत्यात्मग्राहः प्रतिपक्षितो भवति। अथवा पिण्डरूपोऽयमात्मभावः स चात्मा वेदयिता संज्ञाता चेतयितेति केचित् संमूदाः। तेषां स्कन्धदेशना। नायमात्मरूपः पिण्डः चैत्ता इमे वेदनासंज्ञासंस्काराः प्रवर्तन्त इत्यात्मग्राहः प्रतिपक्षितो भवति। केचिद्रूप एवेति पिण्डात्मग्रहणतः संमूदा इत्यधिकृतम्। तेषामायतनदेशना। तस्यां हि रूपं चक्षुरादिभेदेन बहुधा विभक्तम् चैत्तास्त्वेकधैव धर्मायतनत्वेन चित्तं च मन आयतनत्वेनेति। केचिद्रूपचित्तयोरिति संमूदाः पिण्डात्मग्रहणत इत्यधिकृतमेव। तेषां धातुदेशना। तस्यां हि रूपं चक्षुरादिभेदेन बहुधा विभक्तम् चित्तं चक्षुर्विज्ञानादिधातुभेदेन। न तु चैत्ताः धर्मधातुत्वेनैव देशितत्वादिति। तया रूपचितपिण्डग्राहसंमोहः प्रतिपक्षितो भवति।

इन्द्रियाण्यपीति विस्तरः। त्रिविधः पुद्गलस्तीक्ष्णमध्यमृद्विन्द्रियत्वात्। अथवा त्रिविधः पुद्गल उद्धटितज्ञोऽविपञ्चितज्ञः पदपरम इति। तव तीक्ष्णेन्द्रियाणां स्कन्धदेशना। ते हि तीक्ष्णेन्द्रियत्वात् स्कन्धभेदेनैवायतनधातुभेदं प्रतिपत्तुं शक्नुवन्ति। यथोक्तम्। यद्भिक्षो न त्वं स ते धर्मः प्रहातव्य इति आज्ञातं भगवन्नित्याह। यथा कथमस्य भिक्षो संक्षिप्तेनोक्तस्यार्थमाजानासि रूपं भदन्त नाहम् स मे धर्मः प्रहातव्य इति विस्तरः। मध्येन्द्रियाणामायतनदेशना। ते हि मध्येन्द्रियत्वान्मध्येनैव नातिविस्तीर्णेनायतनप्रभेदेन धातुप्रभेदं प्रतिपत्तुं शक्नुवन्ति। न तु संक्षिप्तेन स्कन्धप्रभेदेन। मृद्विन्द्रियाणां धातुदेशना। ते हि मृद्विन्द्रियत्वान्नाविभक्त स्वबुद्धिसामर्थ्येन प्रतिपत्तुं शक्नुवन्ति। रूचिरपि त्रिविधेति। पूर्वाभ्यासयोगाद्रुचेस्त्रैविध्यम्। अथवा शमथचरितानां संक्षिप्ता रूचिः। शमथविपश्यनाचरितानां मध्या रूचिः। विपश्यनाचरितानां विस्तीर्णा रूचिरिति।। २०।।

[ विवादमूलसंसारहेतुत्वात् क्रमकारणात्।
चैत्तेभ्यो वेदनासंज्ञे पृथक् स्कन्धौ निवेशितौ।। २१।। ]

किं पुनः कारणमिति विस्तरः। ननु च कारणमुक्तम्। पिण्डात्मग्रह्णतश्चैत्तसंमुदानां स्कन्धदेशनेति। सत्यमुक्तम् चैत्तास्तेषां विभक्ता इति।

वेदनासंज्ञे

एव तु संस्कारस्कन्धात्

पृथक्

स्कन्धीकृते न पुनरन्य इति किमत्र कारणम् कामाध्यवसानमिति विस्तरः। कामेषु च दृष्टिषु चाभिष्वङ्गः। तयोविवादमूलयोरध्यवसानयोर्वेदनासंज्ञे यथाक्रमं प्रधानहेतुरिति। प्रधानग्रहणादविद्यादयोऽप्रधानहेतव इत्यर्थत उक्तं भवति। वेदनास्वादवशाद्धि कामनभिष्वजन्ते गृहिणः। विपरीतसंज्ञावशाच्च दृष्टिः  किम् अभिष्वजन्त इत्यधिकृतम्। अधर्मे धर्मसंज्ञिनो धर्मे चाधर्मसंज्ञिनोऽनात्मादिषु चात्मसंज्ञिनस्तास्ता दृष्टीः शीलव्रतपरामर्शादीरभिष्वजन्ते। के ते प्रायेण प्रव्रजिताः। वेदनागृद्धो हीति विस्तरः। वेदनासक्तश्चतुर्भिविपर्यासैर्विपर्यस्तः संसारे जन्मपरपरां करोति।

क्रमकारणात्

इति। चत्वारि कारणानि स्कन्धानुक्रमे वक्ष्यन्ते।

यथौदारिकसंक्लेशभाजनाद्यर्थधातुतः

इति। रूपं हि सप्रतिघत्वात् सर्वोदारिकम् अरूपिणां वेदना प्रचारौदारिकतया। तथा हि व्यपदिशन्ति हस्ते मे वेदना पादे मे वेदनेति। द्वाभ्यामौदारिकतरा संज्ञा विज्ञानात् संस्कारा इत्यतो यथौदारिकं तत्पूर्वमुक्तमिति प्रथमं कारणम्। अथवानादिमति संसारे स्त्रीपुरूषा अन्योन्यं रूपाभिरामाः। ते च वेदनास्वादगर्धात्। तद्गर्धः संज्ञाविपर्यासात्। तद्विपर्यासः क्लेशैः। चित्तं च तत्संक्लिष्टमिति यथासंक्लेशं क्रम इति द्वितीयम्। भाजनाद्यर्थेन वा भाजनभोजनव्यञ्जनपक्तृभोक्तृभूता हि रूपादयः स्कन्धा इति तृतीयम्। धातुतो वा। कामगुणरूपप्रभावितो हि कामधातुः। वेदनाप्रभावितानि ध्यानानि। संज्ञाप्रभावितास्रय आरूप्याः। संस्कारमात्रप्रभावितं भवाग्रम्। एता विज्ञानस्थितयः तासु च प्रतिष्ठितं विज्ञानमिति क्षेत्रबीजसंदर्शनार्थः स्कन्धानुक्रम इति चतुर्थ कारणम्। अत एव च क्रमकारणाद् वेदनासंज्ञे पृथक् स्कन्धीकृते यत एते औदारिकतरे संक्लेशानुक्रमहेतू भोजनाव्यञ्जनभूते तत्प्रभावितं च धातुद्वयमिति।। २१।।

[ स्कन्धेष्वसंस्कृतं नोक्तमर्थायोगात् क्रमः पुनः।
यथैदारिकसंक्लेशभाजनाद्यर्थधातुतः।। २२।। ]

न तावदेष्वेवान्तर्नेसुं शक्यते

अर्थायोगात्

इति। रूपणादेरथस्यायोगादसंभवात्। रूपस्वभावं यावद्विज्ञानस्वभावमिति वा न शक्यभेष्वेव पञ्चस्कन्धेष्वन्तर्नेतुम् अतत्स्वभाव्यात्। न चापि षष्ठस्कन्धो वक्तुं शक्यते। कुतः अर्थायोगात्। अतीताद्यर्थायोगादित्यर्थः। ननु च बहुत्वादसंस्कृतानामसंस्कृतस्कन्धोऽन्यो योक्ष्यते किमतीताद्यर्थेनेति। एतच्चायुक्तम् असंस्कृतानां देशसंनिकर्षाभावेनाभिसंक्षेपायोगात्। संक्लेशवस्तुज्ञापनार्थमिति विस्तरः। न संक्लेशवस्तु अनास्रवत्वात्। न व्यवदानवस्तु प्रसंस्कृतत्वात्। व्यवदानहेतुर्हि व्यवदानवस्त्वित्यभिप्रायः। अथवा रूपस्कन्ध इत्युक्ते यावद्विज्ञानस्कन्ध इत्युक्ते संक्लेशवस्तु व्यवदानवस्तु च रूपस्कन्धो यावद्विज्ञानस्कन्ध इति विज्ञायते। न त्वसंस्कृतस्कन्ध इत्युक्ते संक्लेशव्यवदानवस्तु विज्ञायते इति न संभवति असंस्कृतस्कन्ध इति। तेषां धात्वायतनेष्वप्येष प्रसङ्ग इति। तेषामेववादिनाम्। यथा घटोपरमो न ग़्हटः एवं धातूपरमो न धातुः आयतनोपरमो नायतनमिति धर्मधात्वायतनयोरप्यसंस्कृतं न व्यवस्थापितं स्यात्। सर्वधर्मसंग्रहश्च धात्वायतनेप्वभिप्रेत इत्युक्तमेतत्।

उक्तः स्कन्धानामन्यः प्रकारः

क्रमः पुनः

इत्यन्यप्रकारवचनापेक्षः पुनःशब्दोपन्यास इति दर्शयति। सर्वोदारिकमिति। सर्वेभ्यो वेदनादिभ्य औदारिकं रूपम् सनिदर्शनसप्रतिघत्वादियोगात्। अरूपिणां वेदनादीनाम् निर्धारणे षष्ठी वेदना औदारिकी प्रचारौदारिकतया समुदाचारौदारिकतयेत्यर्थः। द्वाभ्यां संस्कारविज्ञानाभ्यामौदारिकी संज्ञा निमित्तपरिच्छेदेन सुज्ञातत्वात्। विज्ञानात्संस्कार औदारिकः सुखी स्यां न दुःखी स्यामित्यभिसंस्कारलक्षणत्वात्। विज्ञानं तु सर्वसूक्ष्मम् उपलब्धिमात्रलक्षणत्वात्। यथौदारिकं च विनेयानामर्थप्रतिपादनं न्याय्यमित्येवं स्कन्धानुकमः। ते च वेदनास्वादगर्धात् ते च स्त्रीपुरूषा वेदनास्वादसक्ते रन्योन्यं रूपाभिरामा भवन्ति। तद्गर्ध इति वेदनागर्धः। संज्ञाविषर्यासादिति नित्यादिकान्निमित्तोद्गहणात्। सुखापि हि वेदना संस्कारविपरिणामदुःस्वतया दुःखा। भाजनभोजनमिति विस्तरः। रूपं भाजनभूतं वेदनाश्रयत्वात्। वेदना भोजनभूता आस्वाद्यत्वात्। संज्ञा व्यञ्जनभूता वेदनां तन्निमित्तोद्गहणेन यञ्जयतीति कृत्वा। संज्ञावशेन वा वेदना रोचत इति कृत्वा व्यञ्जनभूता संज्ञा। वेदनाकर्तृभूता विपाकवेदनामभिसंस्कृत्योपनयनात्। विज्ञानं भोक्तृभूतं तदनुग्रहादिति भाजनाद्यर्थेन वानुक्रमः। धातुतो वेति विस्तरः। कामगुणा एव रूपाणि। तैः प्रभावितः प्रकर्षितः कामधातुः। वेदनाप्रभावितानि ध्यानानि। सौमनस्यसुखेन्द्रियप्रभावितं प्रथमं ध्यानम्। सौमनस्येन्द्रियप्रभावितं द्वितीयम्। सुखेन्द्रियप्रभावितं तृतीयम्। उपेक्षेन्द्रियपरिशुद्धिप्रभावितं चतुर्थं ध्यानम्। संज्ञाप्रभावितास्त्रय आरूप्याः। आकाशसंज्ञाप्रभावितमाकाशानन्त्यायतनम्। विज्ञानसंज्ञाप्रभावितं विज्ञानानन्त्यायतनम्। आकिचन्यसंज्ञाप्रभावितमाकिंचन्यायतनम्। संस्कारमात्रप्रभावितं भवाग्रम् तत्र हि चेतना अशीतिं कल्पसहस्नाणयायुराक्षिपति। विज्ञानं कस्मात्सर्वेषां पश्चादुक्तमित्यत आह। एता विज्ञानस्थितय इति विस्तरः। चतस्त्रो विज्ञानस्थितयः। रूपोपगा विज्ञानस्थितिः कामधातुः। वेदनोपगा चत्वारि ध्यानानि। संज्ञोपगा त्रय आरूप्याः। संस्कारोपगा भवाग्रम्। तासु चतसृपु विज्ञानस्थितिषु प्रतिष्ठितं विज्ञानम् तदाश्रितत्वात् सर्वपश्चादुक्तम्। इत्येवं क्षेत्रबीजसंदर्शनार्थः स्कन्धानुकम् उक्तो भवति अत एव च पञ्च स्कन्धा नाल्पीयांसो न भूयांस इति। यथादारिकादिभिः कारणैर्नाल्पीयांसो न भूयांस इत्यर्थः।। २२।।

[ प्राक् पञ्च वर्तमानार्थ्याद् भौतिकार्थ्याच्चतुष्टयम्।
दूराशुतरवृत्त्यान्यद् यथास्थानं क्रमोऽथ वा।। २३।। ]

पञ्च वर्तमानविषयत्वात् पूर्वमुक्तानीति। यानि वर्तमानविषयाणि तानि परिस्फ़ुटविषयाणि। परिस्फ़ुटविषयाणि च सुगमानीति पूर्वमुक्तानि। वर्तमानविषय्क्तानि  च पूर्ववृत्तीनि भवन्त्येवं च पूर्वमुक्तानि। मनस्त्वनियतविषयमित्याकुलविषयत्वादसुगमं पश्चाद्धित्त च प्रायेण। कथमित्याह। किंचिद्वर्तमानविषयं किंचिद्यावत्त्यध्वानध्वविषयमिति। यावच्छब्देन किंचिदतीतविषयं किंचिदनागतविषयं किंचित्रयध्वविषयम्। सर्वधर्मा अनात्मान इति यथा। किंचिदनध्वविषयमसंस्कृतविषयमित्यर्थः। एवमनियतविषयं मनः। तथा च न तत्सुगममिति पश्चादुक्तम्। सुगमं हि लोके पूर्वमुपदिश्यमानं दृश्यते।

भौतिकार्थ्याच्चतुष्टयम्

इति। चक्षुरादिचतुष्टयं रूपाद्युपादायरूपविषयम्। तस्मात्तत्कायात् पूर्व मुक्तम्। कायस्य त्वनियतो विषयः। कदाचिद् भूतानि कदाचिद् भौतिकं यदि व्यवच्छेदग्रहणम् कदाचिदुभयं यद्यव्यच्छेदग्रहणम्। शेषं पुनरितरस्माद्यथायोगम्

दूराशुतरवृत्त्या

पूर्वमुक्तमिति। शेषं चक्षुरादि। तदितरस्मात्सम्भवतो दूराशुतरवृत्त्या दूरवृत्त्या दूरतरवृत्त्या आशुतरवृत्येति विभज्य द्वयं द्वयात् एकं चैकस्मात् पुनरेकं चैकस्मादिति योज्यमित्यर्थः। कथमित्याह। चक्षुःश्रोत्रं हि दूरविषयम् तत्पूर्वमुक्तं द्वयद् घ्राणजिह्वातः। तयोरपि चक्षुःश्रोत्रयोश्चक्षुषो दूरतरे वृत्तिः। पश्यतोऽपि दूरान्नदीं तच्छब्दाश्रवणात्। अतस्तत् पूर्वमुक्तमिति वर्तते तच्चक्षुः श्रोत्रात्पूर्वमुक्तम्। तयोराशुतरवृत्तित्वादिति। तयोर्घ्राणजिह्वयोर्घ्राण पूर्वमुक्त जिह्वायाः। कथमित्याह। अप्राप्तस्यैव जिह्वां भोज्यस्य गन्धग्रहणादिति।

इदमिह विचार्यते। घ्राणजिह्वे प्राप्तविषयग्राहिण्यौ कथम् भोज्यस्थो गन्धस्तेन घ्राणेन गृह्यते न त्वभोज्यस्थो गृह्यते वायोस्तु गन्धान्तरमुद्भवति। भोज्यावयवेन वा सूक्ष्मेण सहागतो गन्धो गृह्यते निरूच्छासस्य गन्धाग्रहणात् न तहीदं वक्तव्यम् अप्राप्तस्यैव जिह्वां भोज्यस्य गन्धग्रहणादिति। यत्तत्पिण्डरूपं भोज्यं तज्जिह्वामप्राप्तमित्यभिसंधायवचनाददोषः। एवं ह्याशुतरवृति घ्राणं यद्भोज्यावयवसहागतमपि गन्धं जिघ्रति। जिह्वा तु भोज्यावयवसहागतं रसं नास्वादयति पिण्डभोज्यसहागतमेव तु रसमास्वादयतीति न साशुतरवृत्तिरित्यवगन्तव्यम् ।। २३।।

[ विशेषणार्थं प्राधान्याद् बहुधर्मग्रहसंग्रहात्।
एकमायतनं रूपमेकं धर्माख्मुच्यते।। २४।। ]

कथं

विशेषणार्थम्

इति। प्रतिपादयन्नाह यथा गम्येत प्रत्येकमिति विस्तरः। यथा विज्ञायेत एकैकश एषां दशानामायतनत्वम् चक्षुरादीनां पञ्चानां विषयित्वेन रूपादीनां च पञ्चानां विषयत्वेन व्यवस्थानात्। न समस्तानामायतनत्वम् रूपायतनमित्येकमेवेति। तथा च परस्परतो विशेषणं न स्यात्। यदि विशेषणार्थं नामान्तराणयुच्यन्ते नवानाम् चक्षुरायतनस्य यावत्कायायतनस्य शब्दायतनस्य यावत्स्प्रष्टव्यायतनस्येति रूपायतनस्यापि कस्मान्नामान्तरं नोच्यते। अत आह। चक्षुरादिभिश्च विशेषितैर्यन्न चक्षुरादिसंज्ञकं रूपं च तद्रूपायतनं ज्ञास्यत इत्यस्य नामान्तरं नोच्यते। तद्यथा सर्वासु गोष्वङ्कितासु या गोर्नाङ्किता तस्या अनङ्कनमेवाङ्कनं भवति तद्वत्।

प्राधान्यात्

इति। त्रिभिः कारणैः रूपायतनस्य प्राधान्यम्। पाण्यादिसंस्पर्शेर्वाधनालक्षणाद्रूपणात्। इदमिहामुत्रेति देशनिदर्शनरूपणात्। इदमेव रूपमिति लोकप्रतीतत्वाच्च। विशेषणार्थमेकैकं धर्मायतनमुक्तमिति। कथं विशेषणार्थम्। यथा गम्येत प्रत्येकमेषां द्वादशानामायतनत्वम् विषयिविषयत्वेन व्यवस्थानाद् न समस्तानामिति। चक्षुरादिभिश्च विशेषितैर्यन्न चक्षुरादिसंज्ञकं धर्मश्च तद्धर्मायतनं ज्ञास्यत इति तस्य नामान्तरं नोच्यते। वेदनामिति आदिशब्देन संज्ञासंस्काराविज्ञप्त्यसंस्कृतानां ग्रहणम्। विंशतिप्रकारत्वेनेति।

रूपं द्विधा विंशतिधा

इति वचनात्। चक्षुस्त्रयगोचरत्वाच्च। मांसचक्षुरस्मदादीनाम्। दिव्यं चक्षुर्देवानाम्। आर्यं प्रज्ञाचक्षुरार्याणाम् अनास्रवं ज्ञानं सत्यचतुष्टयालम्बनम्। अतो रूपमेव चक्षुस्त्रयगोचरं न चक्षुरादयः। तस्मात्तदेव रूपायतनमुक्त नान्यानि।। २४।।

[ धर्मस्कन्धसहस्राणि यान्यशीतिं जगौ मुनिः।
तानि वाङ्नाम वेत्येषां रूपसंस्कारसंग्रहः।। २५।। ]

येषां वाक्स्वभावं बुद्धवचनमिति। येषां सौत्रान्तिकानां वाग्विज्ञप्तिस्वभावं तेषां तानि रूपस्कन्धसंगृहीतानि शब्दायतनस्य रूपस्कन्धसंगृहीतत्वात्। येषां नामस्वभावमिति। येषां निकायान्तरीयाणां चित्तविप्रयुक्त नामास्ति तेषां संस्कारस्कन्धेन संगृहीतानि संस्कारस्कन्धसंगृहीतत्वान्नम्नः। आभिधार्मिकाणां तूभयस्वभावं बुद्धवचनमिष्टम्। तथा हि ज्ञानप्रस्था उक्तम्। कतमद्धुद्धवचनम्। तथागतस्य या वाग् वचनं व्यवहारो गीनिरूक्तिर्वाक्पथो वाग्घोषो वाक्कर्म वाग्विज्ञप्तिः। बुद्धवचनं कुशलं वक्तव्यम् अव्याकृतं वक्तव्यम्। स्यात् कुशलम् स्यादव्याकृतम्। कतरत्कुशलम् कुशलचित्तस्य तथागतस्य वाचं भाषामाणस्य या वाग्यावद्वाग्विज्ञप्तिः। कतरदव्याकृसम् अव्याकृतचित्तस्य तथागतस्येति पूर्ववत्। पुनस्तत्रैवानन्तरमुक्तम्। बुद्धवचनं नाम क एष धर्मः। नामकायपदकाव्यञ्जनकायानां या अनुपूर्वरचना अनुपूर्वस्थापना अनुपूर्वसमायोग इति। तेषामाभिधार्मिकाणां रूपस्कन्धेन संस्कारस्कन्धेन च तान्यशीतिर्धर्मस्कन्ध सहस्राणि संगृहीतानि। सातिरेकाणि मेऽशीतिर्धर्मस्कन्धसहस्राणि भगवतोऽन्तिकात्संमुखमुद्गृहीतानीति सूत्रवचनम्। चतुरशीतिर्धर्मस्कन्धसहस्राणीति निकायान्तरे सूत्रपाठः।। २५।।

[ शास्त्रप्रमाण् इत्येके स्कन्धादीनां कथैकशः।
चरितप्रतिपक्षस्तु धर्मस्कन्धोऽनुवर्णितः।। २६।। ]

शास्त्रप्रमाण इत्येके

इति। शास्त्रस्य प्रमाणं शास्त्रप्रमाणम् शास्त्रप्रमाणं प्रमाणमस्य सोऽयं धर्मस्कन्धः शास्त्रप्रमाण इत्येके तावदाहुः। तच्च षट्सहस्राणीति। तच्च शास्त्र धर्मस्कन्धसंज्ञकं ग्रन्थप्रामाणयेन षट्सहस्राणीति तानि त्वशीतिर्धर्मस्कन्धसहस्राणयन्तर्हितानि एकं त्वेतदवशिष्यत इति कथयन्ति।

स्कन्धादीनां कथैकशः

अपर आहुरिति वाक्याध्याहारः। स्कन्धादीनामेकैका कथा धर्मस्कन्धः शास्त्रप्रमाण इत्येके तावदाहुः। तच्च षट्सहस्राणीति। तच्च शास्त्रं धर्मस्कन्धसंज्ञकं ग्रन्थप्रामाणयेन षट्सहस्राणीति तानि त्वशीतिर्धर्मस्कन्धसहस्राणयन्तहितानि एकं त्वेतदवशिष्यत इति कथयन्ति।

स्कन्धादीनां कथैकशः

अपर आहुरिति वाक्याध्याहारः। स्कन्धादीनामेकैका कथा धर्मस्कन्धः ते च धर्मस्कन्धा अशीतिसहस्रसंख्या व्याख्यायन्ते। प्रणिधिज्ञानारणादीनामिति आदिग्रहणेन संग्रहवस्तुकर्मपथाशुभानापानस्मृत्यादीनि गृह्यन्ते।

चरितप्रतिपक्षस्तु धर्मस्कन्धोऽनुवर्णितः

इति। तुशब्दः पूर्वोक्तपक्षनिराकरणार्थोऽवधारणार्थो वा। रागद्वेषमोहमानादिचरितभेदेनेति। आदिशब्देन दृष्टिविचिकित्सादीनां ग्रहणम्। केचित्सत्त्वा रागचरिताः केचिद्देषचरिताः। केचिन्मोहचरिताः। केचिन्मानचरिताः। केचिद्दृष्टिचरिताः। केचिद्विचिकित्साचरिताः। केचिद्रागद्वेषचरिताः। केचिद्रागद्वेषमोहचरिताः। केचिद्रागाशया द्वेषप्रयोग केच्चिद्देषाशया रागप्रयोगाः। केचित्कृत्रिमरागा निगृह्यद्वेषाः। केचित्कृत्रिमद्वेषा निगृह्यरागा इति। तेषां प्रतिपक्षेण भगवता तान्युक्तानीति।। २६।।

[ तथान्येऽपि यथायोगं स्कन्धायतनधातवः।
प्रतिपाद्या यथोक्तेषु सम्प्रधार्य स्वलक्षणम्।। २७।। ]

येऽप्यन्ये

स्कन्धायतनधातवः

इति विस्तरः। येऽपि स्कन्धायतनधातवस्तेऽप्येष्वेव स्कन्धायतनधातुषु

प्रतिपाद्याः

प्रवेशयितव्याः। स्वं स्वं स्वभावमेषां यथा व्यवस्थापितमस्मिन् शास्त्रे विमृश्य स्कन्धाः स्कन्धेषु प्रतिपादयितव्याः आयतनान्यायतनेषु धातवो धातुषु। शीलस्कन्धो रूपस्कन्धसंगृहीत इति कायवाग्विरतिरूपस्वभावत्वाच्छीलस्कन्धस्य। शेषाः संस्कारस्कन्धेनेति समाध्यादीनां चैतसिकत्वात्। विमुक्तिरिहाधिमोक्षोऽभिप्रेतः विमुक्तिज्ञानदर्शनं च प्रज्ञाविशेष एवेति। अष्टावलोभस्वभावत्वाद्धर्मायतनेनेति। कतमान्यष्टौ। पृथिव्यप्तेजोवायुनीलपीतलोहितावदातकृत्स्नायतनानि तानि चालोभस्वभावान्यपदेक्ष्यन्ते

अलोभोऽष्टौ

इति। अलोभश्च धर्मायतनेऽन्तर्भवति। तेन तत्संग्रहः। सपरिवाराणि तु पञ्चस्कन्धस्वभावत्वान्मनोधर्मायतनाभ्याम् किम् संगृहीतानि। तस्यालोभस्य परिवारोऽनुपरिवर्ति रूपं रूपस्कन्धः वेदनासंज्ञे वेदनासंज्ञास्कन्धौ चेतना दयः संप्रयुक्ता जात्यादयश्च विप्रयुक्ताः संस्कारस्कन्धः विज्ञानं चात्र कलापे विज्ञानस्कन्ध इति पञ्चस्कन्धस्वभावानि तानि भवन्ति। नवमदशमे त्वाकाशनत्यायतनविज्ञानानन्त्यायतनकृत्स्ने पश्चाद्वक्ष्येते। तथाभिभ्वायतनानीति। तान्यलोभस्वभावत्वाद्धर्मायतनेन सपरिवाराणि तु पञ्चस्कन्धस्वभावात्वान्मनोधर्मायतनेन पूर्ववव्द्याख्यातव्यानि। आकाशविज्ञानानन्त्यायतनकृत्स्नेचत्वारि चाकाशानन्त्यायतनादीनि आकाशविज्ञानाकिंचन्यनैवसंज्ञानासंज्ञायतनानि चतुःस्कन्धस्वभावत्वान्मनोधर्माभ्यां संगृहीतानि। न हि तत्र रूपस्कन्धोऽस्ति। पञ्च विमुक्त्यायतनानीति विस्तरः। सूत्र उक्तम्। पञ्चेमानि विमुक्तयायतनानि। कतमानि पञ्च। इह भिक्षो शास्ता धर्म देशयति अन्यतरान्यतरो वा विज्ञो गुरूस्थानीयः सब्रह्यचारी। यथा यथास्य शास्ता अन्यतरान्यतरो वा विज्ञो गुरूस्थानीयः सब्रह्यचारी धर्म देशयति तथा तथा तेषु धर्मेष्वर्थप्रतिसंवेदी भवति धर्मप्रतिसंवेदी च। तस्यार्थप्रतिसंवेदिनो धर्मप्रतिसंवेदिनश्चोत्पद्यते प्रामोद्यम्। प्रमुदितस्य प्रीतिर्जायते। प्रीतमनसः कायः प्रस्रभ्यते। प्रस्रब्धकायः सुखं वेदयते। सुखितस्य चित्तं समाधीयते। समाहितचित्तो यथाभूतं प्रजानाति यथाभूतं पश्यति। यथाभूतं प्रजानन् यथाभूतं पश्यन्निर्विद्यते। निर्विण्णो विरज्यते। विरक्तो विमुच्यते। इदं प्रथमं विमुक्त्यायतनम्। यत्र स्थितस्य भिक्षोर्वा भिक्षुणया वा अनुपस्थिता स्मृतिरूपतिष्ठते। असमाहितं चित्तं समाधीयते। अपरिक्षीणाश्चास्रवाः परिक्षीयन्ते। अननुप्राप्तं चानुत्तरं योगक्षेमं निर्वाणमनुप्राप्नोति। पुनरपरं न हैव भिक्षो शास्ता धर्मं देशयति अन्यतरान्यतरो वा विज्ञो गुरूस्थानीयः सब्रह्यचारी अपि तु यथाश्रुतान् धर्मान् यथोपदिष्टान् यथापर्यवाप्तान् विस्तरेण स्वरेण स्वाध्यायं करोति। यथा यथा तान् यथाश्रुतान् यथोपदिष्टान् यथापर्यवाप्तान् विस्तरेण स्वरेण स्वाध्यायं करोति तथा तथा तेषु धर्मेषु अर्थप्रतिसंवेदी भवति पूर्ववत्। इदं द्वितीयं विमुक्त्यायतनम्। यत्र स्थितस्येति पूर्ववत्। पुनरपरं न हैव भिक्षो शास्ता धर्म देशयति अन्यतरान्यतरो वा विज्ञो गुरूस्थानीयः सब्रह्यचारी। नापि यथाश्रुतान् धर्मान् यथोपदिष्टान् यथापर्यवाप्तान् विस्तरेण स्वाध्यायं करोति अपि तु यथाश्रु तान् धर्मान् यथोपदिष्टान् यथापर्यवाप्तान् विस्तरेन परेभ्यः संप्रकाशयति। यथा यथा यथाश्रुतान् धर्मान् यथोपदिष्टान् यथापर्यवाप्तान् विस्तरेण परेभ्यः संप्रकाशयति तथा तथा तेषु धर्मेष्वर्थप्रतिसंवेदी भवतीति पूर्ववत्। इदं तृतीयं बिमुक्त्यायतनम्। यत्र स्थितस्येति पूर्ववत्। पुनरपरं न हैव भिक्षो शास्ता पूर्ववत्। नापि स्वाध्यायम् नापि परेभ्यः संप्रकाशयति अपि तु यथाश्रुतान् यावद्यथापर्यवाप्तांश्चिन्तयति तुलयति उपपरीक्ष्यते। यथा यथा यथाश्रुतान् यावद्यथापर्यवाप्तांश्चिन्तयति यावदुपपरीक्षते तथा तथा तेषु धर्मेष्वर्थप्रतिसंवेदी पूर्ववत्। इदं चतुर्थं विमुक्त्यायतन। यत्र स्थितस्येति पूर्ववत्। पुनरपरं न हैव भिक्षो शास्तेति पूर्ववत्। नापि स्वाध्यायं करोति नापि परेभ्यः संप्रकाशयति नापि चिन्तयति अपि त्वनेनान्यतमं भद्रकं समाधिनिमित्तं साधु  च सुष्ठु च सूद्गृहीतं भवति सुमनसिकृतं सुभावितं सुजुष्ट सुप्रतिविद्धम् तद्यथा विनीलकं वा विपूयकं वा व्याध्मातकं वा विपटुमकं वा विलोहितं वा विखादितकं वा विक्षिप्तकं वा अस्थि वा अस्थिसंकलिका वा। यथा यथा खल्वनेनान्यतमान्यतमं भद्रकं समाधिनिमित्तं पूर्ववद्यावत्सुप्रतिविद्धम् तथा तथा तेषु धर्मेष्वर्थप्रतिसंवेदी भवति पूर्ववत्। इदं पञ्चमं विमुक्त्यायतनम्। यत्र स्थितस्येति पूर्ववत्। विमुक्तेरायद्वारं प्रज्ञाविशेषः। प्रज्ञा च धर्मायतनेन संगृहीता। सपरिवाराणि शब्दमनोधर्मायतनैः। देशनास्वाध्यायपरसंप्रकाशनेषु शब्दग्रहणाच्छब्दायतनमस्ति। मनोधर्मायतने तु प्रज्ञापरिवारभूते सर्वत्रस्थे इति त्रिभिः संग्रहः। द्वयोरायतनयोरिति। सूत्र उक्तम् रूपिणः सन्ति सत्त्वा असंज्ञिनोऽप्रतिसंज्ञिनः। तद्यथा देवा असंज्ञिसत्त्वा इदं प्रथममायतनम्। अरूपिणः सन्ति सत्त्वाः सर्वश आकिंचन्यायतनं समतिक्रम्य नैवसंज्ञानासंज्ञायतनमुपसंपद्य विहरन्ति। तद्यथा देवा नैवसंज्ञानासंज्ञायतनोपगाः। इदं द्वितीयमायतनमिति अनयोर्द्वयोरायतनयोरसंज्ञिसत्त्वा दशभिरायतनैः संगृहीताः गन्धरसायतनयोरेव तत्राभावात्। भवति हि च्युत्युपपत्तिकालयोस्तेषां मन आयतनमिति। नैवसंज्ञानासंज्ञायतनोपगा मनोधर्मयतनाभ्यां संगृहीता इत्यधिकृतम् तेषामरूपित्वात्। बहुधातुकेऽपि द्वाषष्टिर्धातव इति। सूत्र उक्तम्। आयुष्मानानन्दो भगवन्तमेतदवोचत् कियता भदन्त पिण्डितो धातुकुशलो भवति। भगवनाह। पण्डित अष्टादश धातूञ्जानाति पश्यति यथाभूतम्। चक्षुर्धातुं रूपधातुं चक्षुर्विज्ञानधातुम् एवं यावन्मनोधातुं धर्मधातुं मनोविज्ञानधातुमिति। इतीमानानन्द अष्टादश धातूञ्जानाति पश्यति यथाभूतम् षडपि धातूञ्जानाति पश्यति यथाभूतम् पृथिवीधातुमब्धातु तेजोधातुं वायुधातुमाकाशधातुं विज्ञानधातुमिति। अपरानपि षड् धातूञ्जानाति पश्यति यथाभूतम्। कामधातुं व्यापादधातुं विहिंसाधातुं नैष्क्रम्यधातुमव्यापादधातुविहिंसाधातुमिति। अपरानपि षड् धातूञ्जानाति पश्यति यथाभूतम्। सुखधातुं दुःखधातुं सौमनस्यधातुं दौर्मनस्यधातुमुपेक्षाधातुमविद्याधातुमिति। चतुरोऽपि धातूञ्जानाति पश्यति यथाभूतम्। वेदनाधातुं संज्ञाधातुं संस्कारधातुं विज्ञानधातुमिति। त्रीनपि धातूञ्जानाति पश्यति यथाभूतम्। कामधातुं रूपधातुमारूप्यधातुं निरोधधातुमिति। अपरानपि त्रीन्धातूञ्जानाति पश्यति यथाभूतम्। अतीतं धातुमनागतं धातुं प्रत्युत्पन्नं धातुम्। अपरानपि त्रीन्धातूञ्जानाति पश्यति यथाभूतम्। हीनं धातुं मध्यम धातु प्रणीतं धातुमिति। अपरानपि त्रीन्धातूञ्जानाति पश्यति यथाभूतम्। कुशलं धातुमकुशलं धातुमव्याकृतं धातुमिति। अपरानपि त्रीन्धातूञ्जानाति पश्यति यथाभूतम्। शैक्षं धातुमशैक्षं धातुं नैवशेक्षंनाशैक्षं धातुमिति। द्वावपि धातू जानाति पश्यति यथाभूतम्। सास्रवं धातुमनास्रवं धातुमिति। अपरावपि द्वौ धातू जानाति पश्यति यथाभूतम्। संस्कृतं धातुमसंस्कृतं धातुमिति द्वौ धातू जानाति पश्यति यथाभूतम्। इयता चानन्द पण्डितो धातुकुशलो भवतीति इतीमान्यत्र हि निभेदीनि वाक्यानि प्रत्येकं मध्येऽपि पठितव्यानि विस्तरभयात्तु मया न लिखितानीति वोद्धव्यम्। यथायोगं संग्रहो वेदितव्य इति। अष्टादश तावद्धातवः त एव त इत्येभिस्ते संगृहीता एव अष्टादशसु धातुषु ये तु पृथिवीधात्वादयः षट्। तेषामाद्यानां चतुर्णा स्प्रष्टव्यधातौ संग्रहः। आकाशधातो रूपधातौ आलोकतमःस्वभावत्वात्। विज्ञानधातोः सप्तसु चित्तधातुषु संग्रहः। कामधात्वादीनां तु षण्णाम् कामधातुः कामराग इहाभिप्रेतः स च चैतसिकः व्यापाद धात्वादयोऽपि चैतसिका एवेति तेषां धर्मधातौ संग्रहः। सुखधात्वादीनामपि षण्णां तस्मिन्नेव संग्रहः। वेदनाधात्वादीनां चतुर्णा त्रयाणां धर्मधातौ विज्ञानधातोः सप्तसु विज्ञानधातुषु। कामधात्वादीनां त्रयाणां कामधातोरष्टादशसुधातुषु रूपधातोश्चतुर्दशसु विना गन्धरसघ्राणजिह्वाविज्ञानधातुभिः आरूप्यधातोर्मनोधर्ममनोविज्ञानधातुषु। रूपधात्वादीनां तु त्रयाणां द्वयोरूक्तः संग्रहः निरोधधातोर्धर्मधातौ। अतीतधात्वादीनां त्रयाणां प्रत्येकमष्टादशसु धातुषु संग्रहः। हीनादयस्त्रयो धावतः कामधात्वादय एवेत्येषामुक्तः संग्रहः। कुशलादीनां त्रयाणां कुशलाकुशलधात्वो रूपशब्दधर्मधातुषु सप्तसु च चित्तधातुषु अव्याकृतधातोरष्टादशसु धातुषु। शैक्षाशैक्षधात्वादीनां त्रयाणां द्वयोर्मनोधर्ममनोविज्ञानधातुषु तृतीयस्याष्टादशसु धातुषु। सास्रवानास्रवधात्वोराद्यस्याष्टादशसु धातुषु। द्वितीयस्य मनोधर्ममनोविज्ञानधातुषु। संस्कृतासंस्कृतधात्वोराद्यस्याष्टादशसु धातुषु द्वितीयस्य धर्मधातौ संग्रहः। त एते द्वाषष्टिर्धातवः।। २७।।

[ छिद्रमाकाशधात्वाख्यमालोकतमसी किल।
विज्ञानधातुविज्ञानं सास्रवं जन्मनिश्रयः।। २८।। ]

य इमे तत्रेति वहुधातुके। एतेषां द्वयोर्लक्षणमनुक्तमिति। पृथिवीधात्वादीनामुक्त लक्षणम्। अमी

धृत्यादिकर्मसंसिद्धाः खरस्नेहोष्णतेरणाः

इति। ननु च विज्ञानधातोरप्युक्त लक्षणम्

विज्ञानं प्रतिविज्ञप्तिः

इति वचनात्। सत्यम् उक्तं सर्वेषां विज्ञानानां लक्षणम्। विज्ञानधातुस्तु किमिह किचिदेव विज्ञानमित्यभिप्रेतमुताहो सर्वमिति न विवेचितम्। असंस्कृतं चाकाशमुक्तलक्षणम नत्वाकाशधातुः। अवश्यं ह्ययमन्य आकाशात्। तथाहि षढ्धातुरयं भिक्षो पुरूष इति सूत्रान्तरमुक्तम्। इत्यनया बुद्ध्याभिहितं द्वयोर्लक्षणमनुक्तमिति। अत एवमाह। तत्किमाकाशमेवाकाशधातुर्वेदितव्यः सर्वं च विज्ञानं विज्ञानधातुरिति। मुखनासिकादिष्विति। आदिशब्देन श्रोत्रादीनां ग्रहणम्।

आलोकतमसी किल

इति। किलशब्दः परमतद्योतनार्थः। स्वमतं तु सप्रतिघद्रव्याभावमात्रमाकाशमित्यभिप्रायो लक्ष्यते। रात्रिंदिवस्वभाव इति। रात्रिवर्तिनस्तमसो भास्करातपलक्षणस्य चालोकस्याभिप्रेतत्वात्। बाहुलिको वायं निर्देश। अघं किल चितस्थं रूपमिति। चितस्थं संघातस्थम्। अत्यर्थ हन्ति हन्यते वेत्यघम्। नैरूक्तेन विधिना अत्यर्थशब्दस्य अकारादेशः कृतो हन्तेश्च घादेशः। तस्य तत्सामन्तकमिति। तस्याघस्य कुड्यादिकस्य सामन्तकं समीपस्थम्। तदपेक्ष्य व्यवस्थापितमित्यर्थः। अत्रापि व्याख्याने किलशब्दो वैभाषिकव्याख्यानप्रदर्शनार्थः। स्वमतं तु यत्तत्पश्चादुच्यते। तदाह। अघं च तत्। अन्यस्य रूपस्य तत्राप्रतिघातात् न प्रतिहन्यतेऽन्यद्रूपमस्मिन्निति कृत्वा। सामन्तकं चान्यय्स रूपस्येति चितस्थस्य। अस्मिन्पक्षे कर्मधारयः समासः। अघं च तत्सामन्तकं च तदित्यघसामन्तकम्।

 विज्ञानं सास्रवम्

इति। जन्मनो हेतोर्विज्ञानस्याभिप्रेतत्वात्। कुत इति चेत्। अत आह। थस्मादिमे षड् धातव इष्टा जन्मनिश्रयाः। षड्धातुरयं भिक्षो पुरूश इति। षट् खलु धातून्प्रतीत्य मातुः कुक्षौ गर्भस्यावक्रान्तिर्ति वचनात्। एते हि जन्मन इति विस्तरः। एते हि जन्मनो जनकपोषकसंवर्धकत्वादाधारभूताः। जनको ह्यत्र विज्ञानधातुः प्रतिसंधिबीजत्वात्। पोषकाणि भूतानि तत्संनिश्रयभावात्। संवर्धकमाकाशधातुरवकाशब्दानात्। अत एवैषां धातुत्ववचनम्। प्रतिसंधिं दधत इति धातवः। अनास्रवास्तु धर्मा नैवमिति। न जन्मनिश्रयाः जन्मनिरोधित्वात्।। २८।।

[ सनिदर्शन एकोऽत्र रूपं सप्रतिघा दश।
रूपिणोऽव्याकृता अष्टौ त एवारूपशब्दकाः।। २९।। ]

सनिर्दशन एकोऽत्र रूपम्

इति। किमिदं निदर्शनं नाम। येन विशेषेण योगात्तद्वस्तु तथा निदर्शयितुं शक्यते स विशेषो निदर्शनमित्युच्यते। वचनेन परस्य चक्षुर्विज्ञानमुत्पन्नं वा निदर्शनम् तेन सह वर्तते सनिदर्शन एको रूपधातुरत्राष्टादशसु धातुषु। रूपधातुरेवैकः सनिदर्शन इत्यवधारणादुक्तं भवति अनिदर्शनाः शेषा इति। अनेन चास्य सनिदर्शनत्वेन प्राधान्यमुक्तमिति न पुनरूक्तदोषप्रसङ्ग इति तत्सिद्धेः। एते च सनिदर्शनत्वादयः प्रभेदाः प्रायेण सूत्रोक्ता एव प्रदर्श्यन्ते। तथा हि सूत्र उक्तम्। चक्षुर्भिक्षो आध्यात्मिक मायतनम् चत्वारि महाभूतान्युपादायरूपप्रसादो रूप्यनिदर्शनं सप्रतिघम् यावत्कायो भिक्षो आध्यात्मिकमायतनं पूर्ववत्। मनो भिक्षो आध्यात्मिकमायतनमरूप्यनिदर्शनमप्रतिघम्। रूपाणि भिक्षो बाह्यमायतनं चत्वारि महाभूतान्युपादायरूपि सनिदर्शनं सप्रतिघम्। शब्दा हि भिक्षो बाह्यमायतनं चत्वारि महाभूतान्युपादायरूप्यनिदर्शनं सप्रतिघम्। यावत्स्प्रष्टव्यानि भिक्षो बाह्यमायतनं चतारि महाभूतानि चत्वारि च महाभूतान्युपादायरूप्यानिदर्शनं सप्रतिघम्। धर्मा भिक्षो बाह्यमायतनमेकादशभिरायतनैरसंगृहीतमरूप्यानिदर्शनमप्रतिघमिति। एते च प्रभेदा धातूनामेवा प्रथमकोशस्थानपरिसमाप्तेः कथ्यन्ते रूपविज्ञानविभागत्वात्।

सप्रतिघा दश

रूपिणः

इति। रूपिग्रहणमरूपिनिरासार्थम्। रूपणं रूपं तदेषामस्तीति रूपिणः। दशेति चक्षुर्धात्वादयः पञ्च तद्विषयधातवश्च पश्चेति। धर्मधातोर्निरासः कथं कृतः। स चापि रूपीति शक्यते वक्तुम्। तत्राविज्ञप्तिरूपसद्भावात्। रूपिण एवेत्यवधारणात्तन्निरासः कृतो भवति। ये हि धातवो रूपिस्वभावा एव ते ग्रहीतव्याः। धर्मधातुस्तु रूप्यरूपिस्वभाव इति। स्वदेशे परस्योत्पत्तिप्रतिबन्ध इति विस्तरः। यत्रैकं सप्रतिघं वस्तु तत्र द्वितीयस्योत्पत्तिर्न भवति। यथा हस्तो हस्तेनाहतः प्रतिहन्यत उपेल वा। हस्तो हस्तस्थान उपलस्थाने वा नोत्पद्यते। उपलोऽपि तयोर्हन्तोपलयोः स्थान उपलोऽपि नोत्पद्यते। जले प्रतिहन्यत इति। जले स्वविषये प्रवर्तत इत्यर्थः। प्रायेण मनुष्याणामिति। प्रायग्रहणं कैवर्तादिनिवृत्त्यर्थम्। अस्ति नोभयत्रेति गर्भे नियतमृत्यूनाम्। एतानाकारानित्येतान् प्रकारानित्यर्थः। तितीला बद्दुलयः। मार्जारादीनामिति आदिग्रहणेन चौरमुनष्यादीनां व्याघ्रादीनां च ग्रहणम्। यस्मिन् यस्य कारित्रं स तस्य विषय इति। कारित्रं पुरूषकारः। चक्षुःश्रोत्रादीनां रूपशब्दादिष्वालोचनश्रवणादि कारित्रम्। तच्च स्वचित्तचैत्तान् प्रत्याश्रयभावशक्तिविशेषलक्षणं वेदितव्यम्। यच्चित्तचैत्तैर्गृह्यते दण्डावस्तम्भनयोगेन तदालम्बनं रूपादि। तदेवं सति चित्तचैत्तानामेवालम्बनम्। विषयः पुनश्चक्षुरादीनामपि न केवलं चित्तचैत्तानाम्। तस्मात् परेणाप्रवृत्तेरिति। यो हि लोके यतः परेण न प्रवर्तते स तत्र प्रतिहन्यते काष्ठ कुड्ये वा। तथा चक्षुरादि विषयात्परेण न कारित्र करोति विषय एव तु करोति तस्मात्तव प्रतिहन्यत इत्युच्यते। निपातो वात्र प्रतिघात इति विस्तरः। अत्र विषये निपतनं निपातः। या स्वविषये प्रवृत्तिः कारित्रमित्यर्थः। तदिहावरणप्रतिघातेनेति विस्तरः। सप्रतिघा दशेत्यत्रा वरणप्रतिघातेन ते दश धातवः सप्रतिघा अभिप्रेताः। तत्र विषयालम्बनप्रतिघाताभ्यां चित्तचैत्तानासपि सप्रतिघत्वप्रसङ्गाच्चतुःकोटिकः प्रश्नः। चतुष्कोणश्चतुःप्रकार इत्यर्थः। पश्चात्पादक इति। यदि प्रश्नस्य पश्चाद्भागं गृहीत्वा विसर्जनायोत्तिष्ठते स पश्चात्पादकः यदि पूर्वं भागं गृहीत्वा स पूर्वपादकः। विषयप्रतिघातेनापि त इति चित्तचैत्ताः। ते हि विषयप्रतिघातेनालम्बनप्रतिघातेन च सप्रतिघाः। पञ्चेन्द्रियाणि नालम्बनप्रतिघातेन सप्रतिघानि अनालम्बनत्वात्।

यत्रोत्पित्सोर्मनस इति विस्तरः। यत्राश्रय आलम्बने वा उत्पत्तुकामस्य मनसः प्रतिघातोऽनुत्पत्तिः शक्यतेऽन्यैः कर्तुमन्तरावरणेन तदेव सप्रतिघम् तेनान्तरावरणलक्षणेन प्रतिघेन सप्रतिघत्वात्। स्वदेशे परस्योत्पत्तिप्रतिबन्धलक्षणेन प्रतिघातेन सप्रतिघत्वादित्यपरे। किं पुनस्तत्। पञ्चेन्द्रियपञ्च विषयधातुस्वभावम्। विपर्ययादप्रतिघमिष्टम् यत्रोत्पित्सोर्मनसः प्रतिघातो न शक्यते परैः कर्तुम्। यथा मनोधातोर्धर्मधातोश्च मनोविज्ञानोत्पत्तावन्तरावरणं न शक्यते परैः कर्तुम्। अतः सप्तचित्तधातुधर्मधातुस्वभावमप्रतिघमिति सिद्धम्।

अव्याकृता अष्टौ

इति अव्याकृता एवाष्टावित्यवधारणम्। कृशलाकुशलभावेनाव्याकरणादव्याकृताः। ये कुशलकुशलव्यतिरिक्तास्त एवाव्याकृता इहाभिप्रेताः। न तु कुशला अकुशलाव्याकृताव्याकरणात् नाप्यकुशलः कुशलाव्याकृताव्याकरणात्। कुशलाकुशलानां कुशलाकुशलभावेन व्याकृतत्वात्। संकेतरूद्यपेक्षा हि शब्दप्रवृत्तिः। । २९।।

[ त्रिधाऽन्ये कामधात्वाप्ताः सर्वे रूपे चतुर्दश।
विना गन्धरसघ्राणजिह्वाविज्ञानधातुभिः।। ३०।। ]

त्रिधान्ये

इति धातव इत्यधिकृतम्। त्रैधैवान्ये नैकधा न द्विधेत्यवधारणम्। अलोभादिसंप्रयुक्ताः कुशला इति विस्तरः। अलोभाद्वेषामोहह्यपत्रपासंप्रयुक्ताः सप्त चित्तधातवः कुशलाः। लोभद्वेषमोहाह्यनपत्राप्यसंप्रयुक्ता अकुशलाः। कुत्सिताश्छलिता गता अपकान्ता इति कुशलाः। प्रज्ञा वा कुश इव तीक्ष्णेति कुशः। तं लान्ति आददत इति कुशलाः। तद्विपरीता अकुशलाः अन्ये त्वलोभादिलोभाद्यसंप्रयुक्ता अव्याकृताः। धर्मधातुरिति विस्तरः। अलोभादिस्वभावो योऽयमुक्तः आलोभादिसंप्रयुक्तो वेदनादिः अलोभादिसमुत्थो विप्रयुक्तः आलोभादिसंप्रयुक्तो वेदनादिः अलोभादिसमुत्थो विप्रयुक्तः प्राप्तिजात्यादिः अविज्ञप्तिश्च। प्रतिसंख्यानिरोधश्चापर इति चतुर्विधः कुशलो धर्मधातुः। लोभादिस्वभावसंप्रयुक्तसमुत्थोऽकुशलः। अन्योऽव्याकृतः यो नालोभादिस्वभावसंप्रयुक्तसमुत्थः नापि लोभादिस्वभावसंप्रयुक्तसमुत्थः आकाशमप्रतिसंख्यानिरोधः तेषां च यथासंभवं प्राप्तिजात्यादयः एषोऽव्याकृतो धर्मधातुः। तदन्यावव्याकृतविति ताभ्यां कुशलाकुशलचित्तसमुत्थाभ्यां रूपशब्दधातुभ्यामन्यौ रूपशब्दधातू अव्याकृतचित्तसमुत्थौ कायवाग्विज्ञप्तिसंगृहीतौ विज्ञप्त्यसंगृहीतौ चाव्याकृतौ।

कामधात्वाप्ताः सर्वे

इति। कामधात्वाप्ताः सर्व एवेत्यवधार्यते अष्टादशधातुत्वमात्रसंग्रहात्। न तु प्रत्येकम् साकल्यतः। तत आह

रूपे चतुर्दश

इति। तयोः कवलीकाराहारत्वादिति तयोर्गन्धरसयोः। गन्धोऽपि हि कवलीकाराहारः सूक्ष्मः। तन्नाभावप्रसङ्ग इति। तत्र रूपधातौ स्प्रष्टव्यधातोरभावप्रसङ्गः कवलीकारहारत्वात्।

कवलीकार आहारः कामे त्र्यायतनात्मकः

इति सिद्धान्तात्। गन्धरसयोरप्येप प्रसङ्ग इति। यौ नाहारस्वभावौ तौ तत्र स्यातामित्यर्थः। अस्ति तु स्प्रष्टव्यस्येति। किम् परिभोगः। इन्द्रियाश्रयाभावेन आधारभावेन प्रावरणभावेन च। अन्ये पुनराहुरिति भदन्तश्रीलाभः। प्रस्रब्धिसहगतेनेति। प्रस्रब्धिसहोत्पन्नेन कायकर्मणयतासहगतेनेत्यर्थः। अत्राचार्यो भदन्तश्रीलाभ मतमनादृत्य वैभाषिकमतं सावकाशं दृष्टा विनिश्चयमारभते। एवं तर्हीति विस्तरः। वैभाषिकैरर्थत एतत्प्रतिज्ञातम्। न स्तो रूपधातौ गन्धरसौ निःप्रयोजनत्वात् स्त्रीपुरूषेन्द्रियविषयवदिति। तं पक्षमाचार्यो दूषयति। दुष्टोऽयं पक्षः धर्मिविशेषविपर्ययापक्षालत्वात्। रूपधातौ गन्धरसाख्यो हि धर्मी विद्यमानस्वग्राहकोऽभिप्रेतः। तस्याविद्यमानस्वग्राहकत्वं प्राप्नोति। यथाहि स्त्रीपुरूषेन्द्रियविषयो निःप्रयोजनत्वेनाविद्यमानस्वग्राहको भवति तथा गन्धरसाख्योऽपि विषयः प्राप्नोति। स्फ़ुटमप्यनुमानमस्ति येनैष धर्मिविशेषविपर्ययो व्यज्यते न स्तो रूपधातौ घ्राणजिह्वेन्द्रिये निःप्रयोजनविषयत्वात् स्त्रीपुरूषेन्द्रियविषयवदिति। वैभाषिकदेशीयः कश्चित्प्रतिविधत्ते अस्ति प्रयोजनमिति विस्तरः। ताभ्यां घ्राणजिह्वेन्द्रियाभ्यां विना शरीरशोभैव न स्यात् वाग्विज्ञप्तिश्च। अनेन दृष्टाबाधेन प्रसङ्गं निवर्तयति अनुमानं ह्यत्र दृष्ट बाधते। किं तदित्युच्यते। स्तो रूपधातौ ध्राणजिह्वेन्द्रिये सप्रयोजनत्वाच्चक्षुरिन्द्रियवदिति। आचार्य आह। यद्येतत्प्रयोजनमिति विस्तरः। अधिष्ठानेनैवाश्रयशोभावचनं च भवति नेन्द्रियेणेति सप्रयोजनत्वस्य हेतोरसिद्धतां दर्शयति। वैभाषिकदेशीय आह। नानिन्द्रियमधिष्ठानमिति विस्तरः। न रूपधातौ संभवत्यनिन्द्रियं घ्राणजिह्वेन्द्रियाधिष्ठानम् इन्द्रियाधिष्ठानत्वात् पुरूषेन्द्रियाधिष्ठानवदिति। एतेन सप्रयोजनत्वस्य सिद्धतां स्थापयति। आचार्य आह। युक्तस्तदसंभव इति विस्तरः। युक्तस्तत्र पुरूषेन्द्रियाधिष्ठानस्यासंभवो निःप्रयोजनत्वात्। घ्राणजिह्वेन्द्रियाधिष्ठानं त्वाश्रयशोभाभिव्याहारप्रयोजनत्वात् सप्रयोजनम्। अतोऽस्य विनापीन्द्रियेण युक्तः संभवः। साधनं त्वत्रोच्यते। संभवति रूपधातावनिन्द्रियं घ्राणजिह्वेन्द्रियाधिष्ठानम् सप्रयोजनत्वात् चक्षुरिन्द्रियाधिष्ठानवदिति। अनेन तामेव सप्रयोजनत्वस्यासिद्धतां व्यवस्थापयति। एवमत्र सप्रयोजनत्ववादिनि वैभाषिकदेशीये कस्मिंश्चिन्निषिद्धे यदेतदादावुक्तम् एवं तर्हि घ्राणजिह्वेन्द्रिययोरप्यभावप्रसङ्गो निःप्रयोजनत्वादिति तद्दृषनाभासतां दर्शयन्तो वैभाषिका आहुः निःप्रयोजनापीत विस्तरः। यथा गर्भे नियतमृत्यूनां निःप्रयोजनाभिनिर्वृत्तिः न हि तेषां रूपदर्शनादिर्भवति एवं रूपधातौ घ्राणजिह्वेन्द्रियाभिनिर्वृत्तिर्निःप्रयोजनापि भविष्यतीति। तेन न स्तो रूपधातौ घ्राणजिह्वेन्द्रिये निःप्रयोजनत्वात् पुरूषेन्द्रियवदिति निःप्रयोजनत्वमनैकान्तिकं प्रदर्श्यते। आचार्य आह। स्यान्नाम निःप्रयोजनेति विस्तरः। भवेन्निःप्रयोजनेन्द्रियाभिनिर्वृत्तिः। न तु निर्हेतुका संस्कृतानां सहेतुकत्वात्। यश्च विषयाद्वितृष्णः स नियतमिन्द्रियादपीत्यनेन हेत्वभावः प्रदर्श्यते। ततश्चैवं साधनमुच्यते। न स्तो रूपधातौ घ्राणजिह्वेन्द्रिये निर्हेतुकत्वात् निर्हेतुकाङ्करत्वत् पुरूषेन्द्रियवद्वा। पुरूषेन्द्रियमपि वा किं न निर्वर्तत इत्याचार्य एव विकल्प वाहयति। कोऽभिप्रायः। यदि निःप्रयोजना हेतुमन्तरेणापि वा घ्राणजिह्वेन्द्रिययोरूत्पत्तिः पुरूषेन्द्रियमपि वा किं न निर्वर्तते। वैभाषिकाणां ह्ययं पक्षः सघ्राणजिह्वेन्द्रियो रूपधातुसत्त्वसन्तानो रूपिप्राणित्वात् कामावचरसत्त्वसन्तानवदिति। आचार्यस्तु पुरूषेन्द्रियमपि किं न निर्वर्तत इत्यनेन तस्य पक्षस्य धर्मिविशेषविपर्ययं दर्शयति। अविद्यमानपुरूषेन्द्रियो रूपधातुसत्त्वसन्तानो धर्मी तस्य विपर्ययो विद्यमानपुरूषेन्द्रियत्वमिति। वैभाषिकाः परिहरन्ति अशोभाकरत्वादिति। कथमिति न रूपधातौ पुरूशेन्द्रियमस्ति अशोभाकरत्वात् काणकुण्टत्ववत्। तदनुमानवाघनान्न विपर्येत्यस्माकमेषा प्रतिज्ञा यदि दृष्ट न वाधत इति नैयायिकसिद्धान्तादित्यभिप्रायः। आचार्य आह। कोशगत वस्तिगुह्यनां किं न शोभते। वस्तौ गुह्यं वस्तिगुह्यम्। वस्तिर्येन तत्पुरूषेन्द्रियं वेष्टितम्। गुह्यं पुरूषेन्द्रियम्। कोशो यत्र तद्वस्तिगुह्य तिष्ठति। कोशगतं वस्तिगुह्यं येषां त इमे कोशगतवस्तिगुह्याः। तेषां किं न शोभते। शोभत एवेत्यर्थः। अनेनाशोभाकरत्वमसिद्धं दर्शयति। न च प्रयोजनवशादुत्पत्तिरिति विस्तरः। वैभाषिकैरशोभाकरत्वादिति ब्रु वद्भिरर्थापत्त्यैतत्प्रतिज्ञातं भवति प्रयोजनवशोत्पाद्य पुरूषेन्द्रियमिति। स च पक्षोऽनुमानवाधितः धर्मिस्वरूपविपर्ययापक्षालत्वात् कथमिति उच्यते। न प्रयोजनवशोत्पाद्य पुरूषेन्द्रियम् स्वकारणोत्पाद्यत्वात् काणकुण्ठत्ववत्। वैभाषिका आहुः। सूत्रं तर्हि विरूध्यत इति विस्तरः। योऽयमविद्यमानघ्राणजिह्वेन्द्रियो रूपधातुसत्त्वसन्तान इति पक्षः स सापक्षालः प्राक्पक्षविरोधात्। तथा हि भगवता रूपावचराः सत्त्वा अविकला अहीनेन्द्रिया इत्युक्ताः काण्कुण्ठत्वाभावत्वात्। अहीनेन्द्रियाश्चक्षुरादिभिरहीनत्वात्। आचार्य आह। यानि तत्रेति विस्तरः। यानि तत्र रूपधातौ घ्राणेन्द्रियदिरहितानि चक्षुरादीनि तैरहीनेन्द्रिया इति सूत्रार्थपरिग्रहादविरोधः। एवं तु वर्णयन्ति वैभाषिकाः स्त एवेति विस्तरः। भवत एव तत्र स्वसन्तानमुखेन पडायतने चक्षुरादिके तृष्णासमुदाचारः प्राणिनां प्रवर्तते तदभिष्यन्दितं च कर्मेति सहेतुके रूपधातौ घ्राणजिह्वेन्द्रिये। ततश्च सहेतुकत्वात् स्त एव ते रूपधातौ सहेतुकाङ्कुरादिवदिति। अनेन च न स्तो रूपधातौ घ्राणजिहेन्द्रिये निर्हेतुकत्वादिति यत्साधनमुक्त तदसिद्धमिति प्रतिपादयन्ति। पुरूषेन्द्रिये तु मैथुनस्पर्शमुखेन किम् तृष्णासमुदाचार इति प्रकृतम्। मैथुनस्पर्शवीतरागाश्च रूपावचराः सत्त्वाः तस्मात्तत्र न तृष्णापूर्वकं कर्म भवति। तस्मादहेतुकत्वात्तत्र पुरूषेन्द्रियं नास्ति निर्हेतुकाङ्कुरादिवदिति। सिद्धं रूपधातौ चतुर्दशैव धातव इति।। ३०।।

[ आरूप्याप्ता मनोधर्ममनोविज्ञानधातवः।
सास्रवानास्रवा एते त्रयः शेषास्तु सास्रवाः।। ३१।। ]

आरूप्याप्ताः

इति विस्तरः।

मनोधर्ममनोविज्ञानधातवः

एवारूप्याप्ता इत्यवधारणादन्ये धातवो न सन्तीत्युक्त भवति। यस्मादरूपवीतरागाणां तत्रोपपत्तिरतो दश रूपस्वभावा धातवः चक्षुरादयः पञ्च रूपादयश्चापि पञ्च न सन्ति तदाश्रयालम्बनाश्च पञ्च विज्ञानधातवो न सन्तीति। ते चषुरादयो रूपादयश्च यथाक्रममाश्रया आलम्बनानि च येषां त इमे तदाश्रयालम्बनाः। आश्रयाणां चक्षुरादीनामालम्बनानां च रूपादीनामभावात् तेऽपि चक्षुर्विज्ञानादिधातवस्तत्र न सन्ति।

सास्रवानास्रवा एते त्रयः

इति। एत एव त्रयः सास्रवानास्रवा इत्यवधारणम्।

शेषास्तु सास्रवाः

इति। किमर्थमिदमुच्यते। नन्वेत एव त्रयः सास्रवानास्रवा इत्यवधारणाच्छेषाः सास्रवा इति सिद्धम्। न सिद्धम्। कथम् शेषाः सास्रवा एवानास्रवा एव वा स्युरित्यशङ्का तन्निवृत्त्यर्थमिदमुच्यते शेषाः सास्रवा एवेति।। ३१।।

[ सवितर्कविचारा हि पञ्च विज्ञानधातवः ।
अन्त्यास्त्रयस्त्रिप्रकाराः शेषा उभयवर्जिताः।। ३२।। ]

सवितकविचारा हि पञ्च विज्ञानधातवः

इति। सवितर्कसविचारा एवेति हिशब्दोऽवधारणे।

अन्त्यास्त्रयस्त्रिप्रकाराः

इति। अन्त्या एव त्रिप्रकारा इत्यवधारणम्। अन्यत्र वितर्कविचाराभ्यामिति वितर्कविचारौ संप्रयुक्तकधर्मधातुस्वभावौ तयोरत्र ग्रहणप्रसङ्ग इति परिवर्ज्येते। वितर्को हि द्वितीयप्रकारान्तरेऽन्तर्भविष्यति विचारोऽपि ध्यानान्तरजस्तृतीये प्रकारेऽन्तर्भवति तदन्यस्तु त्रिष्वपि प्रकारेषु नान्तर्भवतीति वक्ष्यति। त एते मनोधात्वादयः संप्रयुक्तधर्मधातुपर्यन्ताः कामधातौ प्रथमे च ध्याने ससामन्तके मौले सवितर्काः सविचारा वितर्कविचारसंप्रयोगात्। अत एव ध्यानान्तरेऽवितर्का वितर्काभावात् विचारमात्रा विचारसंप्रयोगात्। अत एव द्वितीयात्प्रभृति यावद्भवाग्र तयोरभावादवितर्का अविचाराः। सर्वश्चासंप्रयुक्तो धर्मधातुरिति यथासंभवं त्रैधातुकरूपचित्तविप्रयुक्ता असंस्कृताश्च ध्यानान्तरे च विचारोऽवितर्को वितर्काभावात् अविचारो द्वितीयविचाराभावात्। विचार एषु त्रिषु प्रकारेषु नान्तर्भवतीति। कामधातुप्रथमध्यानभूमिको विचारः प्रथमे तावत्प्रकारे नान्तर्भवति सवितर्कः सविचार इति। स हि सवितर्कः संभवति न तु सविचारो विचारासंप्रयोगात् द्वितीयेऽपि नान्तर्भवति। अवितर्को विचारमात्र इति वितर्कसंप्रयोगाद् द्वितीयविचाराभावाच्च तृतीयेऽपि नान्तर्भवति अवितर्कोऽविचार इति। स हि यद्यप्यविचारो द्वितीयविचाराभावात् न त्ववितर्को वितर्कसंप्रयोगात्। स कथं वक्तव्य इत्यत आह अविचारो वितर्कमात्र इति। द्वितीयविचाराभावादविचारः वितर्कसंप्रयोगाद् वितर्कमात्रः। अत एवेति यस्मात्सवितर्कसविचाराणां भूमौ विचार एव चतुर्थप्रकारो भवति अविचारो वितर्कमात्र इति।

शेषा उभयवर्जिताः

इति। शेषा दशरूपिणो धातव उक्ताः। तेऽवितर्का विचारमात्रा वा अवितर्का अविचाराः स्युरित्याशङ्कायामवधार्य तदुभयवर्जिता एव शेषा अवितर्का अविचारा एवेत्यर्थः।। ३२।।

[ निरूपणानुस्मरणविकल्पेनाविकल्पकाः।
तौ प्रज्ञा मानसी व्यग्रा स्मृतिः सर्वैव मानसी।।३३।। ]

कथम्

अविकल्पकाः

इत्युच्यन्त इति चक्षुर्विज्ञानसंसर्गी नीलं विजानाति नो तु नीलमिति वचनात्। त्रिविधः किल विकल्प इति। किलशब्दः परमतद्योतनार्थः। स्वाभिप्रायस्तु चेतनाप्रज्ञाविशेष एव वितर्क इति न स्वभावविकल्पोऽन्यो धर्माऽस्तीति। तथा ह्यनेन पञ्चस्कन्धक उक्तम्। वितर्कः कतमः। पर्येषको मनोजल्पश्चेतनाप्रज्ञाविशेषो या चित्तस्यौदारिकता। विचारः कतमः। प्रत्यवेक्षको मनोजल्पस्तथैव या वित्तस्य सूक्ष्मता। अनभ्यूहावस्थायां चेतना अभ्यूहावस्थायां प्रग़्येति व्यवस्थाप्यते। तदेषां स्वभावविकत्पोऽस्तीति। तदिति वाक्योपन्यासे निपातः तस्मादर्थे वा। स्वभावेनैव विकल्प औदारिकलक्षणत्वात् स्वभावविकल्पो वितर्कः। स एव्षां पञ्चानां विज्ञानकायानां संप्रयोगतोऽस्ति। तस्मात् सविकल्पा उक्ताः। नेतरावभिनिरूपणानुस्मरणविकल्पावेषां स्तः। तस्मादविकल्पा उच्यन्ते यथैकपादकोऽश्वोऽपादक इति। पादत्रये छिन्न एकस्मिन्नपि पादे सत्यपादक इत्युच्यते तद्वदेकविकल्पा अविकल्पका इति। सा ह्यभिनिरूपणाविकल्प इति। सा मानस्यसमाहिता

प्रज्ञा

श्रुतचिन्तामय्युपपत्तिप्रतिलम्भिका च। सा हि मनसि भवा

मानसी।

व्यग्रा

विविधाग्रा व्यग्रा विविधालम्बनेत्यर्थः। विगतप्रधाना वा मुहुर्मुहुरालम्बनान्तराश्रयणाद् व्यग्रा। कस्मादभिनिरूपणाविकल्प इत्युच्यते। तत्र तत्रालम्बने नामापेक्षयाभिप्रवृत्तेः रूपं वेदना अनित्यं दुःखमित्याद्यभिनिरूपणाच्च। समाहिता तु भावनामयी नामानपेक्ष्यालम्बने प्रवर्तत इति। नैषाभिनिरूपणाविकल्प इत्युच्यते। मानस्येव सर्वा स्मृतिरिति समाहिता चासमाहिता च। सा किल नामानपेक्षानुभूतार्थमात्रालम्बना प्रवर्तते स्मृतिः कतमा चेतसोऽभिलाष इति लक्षणात्। पञ्चविज्ञानकायसंप्रयुक्ता तु नानुभूतार्थाभिलाषप्रवृत्तेति नानुस्मरणविकल्प इतीष्यते।। ३३।।

[ सप्त सालम्बनाश्चित्तधातवोऽर्ध च धर्मतः।
नवानुपात्तास्ते चाष्टौ शब्दश्चान्ये नव द्विधा।। ३४।। ]

सप्त सालम्बनाः

इत्युभयावधारणम्। सप्तैव सालम्बनाः सालम्बना एव च सप्तेति।

अर्ध च धमतः

सालम्बनमित्युक्तव्यतिरेकेणेदमुच्यते। अत्राप्युभयावधारणम्। धर्मार्धमेव सालम्बनं सालम्बनमेव च धर्मार्धमिति। यस्माच्च सप्तैव सालम्बना धर्मार्ध चैव सालम्बनमित्यवधारणमस्ति तस्माच्छेषा दश रूपिणो धातवो धर्मधातुप्रदेशश्चा संप्रयुक्तोऽनालम्बना इति सिद्धमित्युक्तम्। तथा ह्यनवधारणे ह्यमर्था न सिध्येत्।

नवानुपात्ताः

इति। नवान्युपात्ता एवेत्यवधारणम्।

ते चाष्टौ

इति। ते च सप्त चित्तधातवो धर्मधातुश्च यस्यार्ध सालम्बनमुक्तम् अष्टमस्यार्धन सार्धमिति सहेति यावत्। अष्टग्रहणं सकलधर्मधातुग्रहणार्थम् मा धर्मधात्वर्धाग्रहणं विज्ञायीति। ते चाष्टौ शब्दश्चापर इति नवानुपात्ता इत्युक्ताः।

अन्ये नव द्विधा

इति। चक्षुरादयः पञ्च शब्दवर्ज्याश्च रूपादयश्चत्वार इति नव ते द्विधैव उपात्तानुपात्ता इत्यर्थः। न तूपात्ता एवेत्येतदर्थ च अन्ये नव द्विधा इति पुनः सूत्रितम्। अनुग्रहोपघाताभ्यामन्योन्यानुविधानादिति। चक्षुर्धात्वादीनामनुग्रहोपघाताभ्यामञ्जनादिपाणिघातादिलक्षणाभ्यां चित्तचैत्तानामनुग्रहोपघातौ भवतः। चित्तचैत्तानां चानुग्रहोपघाताभ्यां सौमनस्यदौर्मनस्यलक्षणाभ्यां चक्षुर्धात्वादीनामनुग्रहोपघातौ भवतः। अतस्ते चित्तचैत्तैरधिष्ठानभावेनोपगृहीता उच्यन्ते स्वीकृता इत्यर्थः। यल्लोके सचेतनमिति सजीवमित्यर्थः।। ३४।।

[ स्प्रष्टव्यं द्विविधं शेषा रूपिणो नव भौतिकाः।
धर्मधात्वेकदेशश्च सञ्चिता दश रूपिणः।। ३५।। ]

स्प्रष्टव्यं द्विविधम्

इत्युभयावधारणम्। स्प्रष्टव्यमेव द्विविधम् द्विविधमेव स्प्रष्टव्यमिति।

शेषा रूपिणो नव भौतिकाः

इत्यत्राप्युभयावधारणम्।

धर्मधात्वेकदेशश्च

भौतिक इत्यत्राप्युभयावधारणम्। यस्माच्चैत उभयावधारितास्तस्माच्छेषाः सप्त चित्तधातवो धर्मधातुश्चाविज्ञप्तिवर्ज्यो नोभयथेति सिद्धम्। भूतानां चतुष्कखक्खटादिलक्षणावधारणादिति। चतुष्कावधारणात्पृथिव्यप्तेजोवायुधातवः स्प्रष्टव्यधातौ चत्वारि भूतानि। श्र्लक्ष्णत्वादयस्तत्र चक्षुरादयश्च न भूतानि। खक्खटादिलक्षणावधारणाच्च पृथिव्यप्तेजोवायुधातुष्वन्ये धर्माश्चक्षुरादयो नान्तर्भावं गच्छन्ति। कथम् चत्वारि महाभूतानि पृथिवीधातुरब्धातुस्तेजोधातुर्वायुधातुः। पृथिवीधातुः कतमः। खक्खटत्वमिति विस्तरः। तेषां च स्प्रष्टव्यत्वादिति तेषां च खक्खटत्वादीनां स्प्रष्टव्यत्वात् यस्मात्तानि स्प्रष्टव्यानि वर्णादयस्तु द्रष्टव्याः श्रोतव्या घ्रातव्याः स्वादयितव्याः। कथं गम्यते स्प्रष्टव्यानि तानीत्यत आह न हि काठिन्यादीनि चक्षुरादिभिर्गृह्यन्ते। किं तर्हि कायेन्द्रियेणैवेत्यतोऽवगम्यते स्प्रष्टव्यानि तानीति। स्यान्मतं तेऽपि वर्णादयः स्प्रष्टव्या इत्यत आह नापि वर्णादयः कायेन्द्रियेण किम् गृह्यन्त इति प्रकृतम्। उक्तं च सूत्र इति विस्तरः। अपरस्मिन्नपि सूत्रे स्पष्टमादर्शितम्। कथमिति विस्तरेण यावदिदमुक्तम् स्प्रष्टव्यानि भिक्षो बाह्यमायतनम् चत्वारि महाभूतानि चत्वारि महाभूतान्युपादायरूप्यनिदर्शनं सप्रतिघमिति। शेषं चक्षुराद्यायतनं न भूतानीति स्पष्टमादर्शितम्। यत्तर्हि सूत्र उक्तमिति विस्तरः। यच्चक्षुषि मांसपिण्डे खक्खटं खरगतं खरप्रकार इत्यर्थः। चक्षुरिन्द्रियं खक्खटस्वभावमिति मत्वा चोदयन्ति तेनाविनिर्भागवर्तिनो मासपिण्डस्यैष उपदेश इति। तेन चक्षुरिन्द्रियेणाविनिर्भाग वर्तिनोऽधिष्ठानस्यैतद्वचनम्। भवति हि चक्षुरधिष्ठानेऽपि चक्षुरूपचारः। अत एव मांसपिण्ड इति ग्रहणम्। अन्यथा चक्षुषीत्येवावक्ष्यत् यदीन्द्रियमेवेष्यते। षड्धातुरयं भिक्षो पुरूष इति विस्तरः। गर्भावकान्तिसूत्रे कललाद्यवस्थायामिति भूतमात्रोपदेशान्न भौतिकमस्तीति चोद्यमाशंक्याह मूलसत्त्वद्रव्यसन्दर्शनार्थमिति। मूलस्य सत्त्वद्रव्यस्य संदर्शनार्थमेव। पृथिवीधात्वादयश्चत्वारो मूलसत्त्वम् पञ्चानां चक्षुरादीनां स्पर्शयतनानां तत उत्पत्तेः। मनोधातुरपि मूलसत्त्वम् मनःस्पर्शायतनस्य तत उत्पत्तेः। अथवा चतुर्णा पृथिवीधात्वादीनामुपादायरूपाश्रयत्वात् विज्ञानधातोश्च चैतसिकानामाश्रयत्वात्। त एव मूलसत्त्वम्। कथं गम्यते। पुनः षट्स्पर्शायतनवचनात्। तत्रैव सूत्रे पश्चादुक्तम् षट्स्पर्शायतनानीति चक्षुःस्पर्शायतनं यावन्मनःस्पर्शायतनमिति अतो विज्ञायते मूलसत्त्वद्रव्यसंदर्शनार्थत्वात् षड्धातुरयं भिक्षो पुरूष इति वचनम् न तु भूतमात्रत्वादिति। ननु च यथा विज्ञानधातोरव्यतिरिक्तमपि मनःस्पर्शायतनं पुनरूच्यते एवं चक्षुरादीन्यपि चतुर्धात्वव्यतिरिक्तानि पुन्नरूच्येरन्निति। अतो न पुनः षट्स्पर्शायतनवचनेन तव्द्यतिरिक्तभौतिकास्तित्वसिद्धिः। नैतदेवम्। यदि हि पृथिवीधात्वादय एव स्पर्शायतनान्यभविष्यन् भूतान्येव स्पर्शायतनानीत्येवावक्ष्यत्। न त्वेवम् किं तहि चक्षुःस्पर्शायतन यावन्मनःस्पर्शायतनमिति अतोऽवगम्यते पृथिवीधात्वादिव्यतिरिक्तानि चक्षुरादीनिति। विज्ञानधातुस्तु चक्षुरादिस्पर्शायतनवचनानुषङ्गेण पुनरूच्यते। स्पर्शायतनमिति कोऽर्थः। स्पर्शस्य चैतसिकस्याश्रय इत्यर्थः। चैत्ताभावप्रसङ्गाच्चेति। यदि षड्धातुरयं भिक्षो पुरूष इति यथाभूतमेव द्रव्याणि गृह्येरन्नान्यानि तदाश्रितानि द्रव्याणि तेनैतत्प्राप्तम् विज्ञानधातुमात्रग्रहणादत्र चैतसिकानां तदाश्रितानामग्रहणप्रसङ्गः। इष्टत्वाददोष इति चेत्। न। सापक्षालत्वादस्य पक्षस्य। सापक्षालो हायं पक्षः चित्तविशेषा एव चैतसिका इति स्वसिद्धान्तविरोधात्। तेनाह न च युक्तं चित्तमेव चेत्ता इत्यभ्युपपत्तुम्। कस्मात् संज्ञा च वेदना च चैतसिक एष धर्मश्चित्तन्श्रित इति सूत्रवचनात्। साधनं चात्रोपतिष्ठते। चित्तादर्थान्तरभूते संज्ञावेदने स्कन्धदेशनायां पृथग्देशितत्वात् रूपस्कन्धदिति। अथवा स्वाश्रयादर्थान्तरभूते संज्ञावेदने तदाश्रितत्वात्। यत्स्वाश्रयाश्रितं तत्स्वाश्रयादर्थान्तरभूतम् तद्यथा कुड्याश्रितं चित्रम्। सरागादिचित्तवचनाच्चेति। सरागं चित्तं सरागं चित्तमिति यथाभूतं प्रजानाति। विगतरागं चित्तं विगतरागं चित्तमिति यथाभूतं प्रजानाति। सद्वेषं चित्तं सद्वेषं वित्तमिति तथाभूतं प्रजानातीति विस्तरः। अत्र साधनम्। सरागं चित्तमिति चित्तरागयोः परस्परतोऽर्थान्तरत्वम् सहयोगनिर्दिष्टत्वात्। सपुत्रश्चैत्र इति सहयोगनिर्दिष्टचैत्रपुत्रवदिति।

सञ्चिता दश

इति परमाणुसञ्चयस्वभावा दशैवेत्यर्थः। अन्ये तु धातवोऽस्मादवधारणान्न सञ्चिता इति सिद्धम्।। ३५।।

[ छिनत्ति छिद्यते चैव बाह्य धातुचतुष्टयम्।
दह्यते तुलयत्येवं विवादो दग्धतुल्ययोः।। ३६।। ]

तुलयतीति कस्य धातोरेतद्रूपम्। तथा हि तुल उन्मान इत्यस्य धातोस्तोलयतीति रूपं भवति। नैष दोषः तुलां करोति तुलयतीति प्रातिपदिकधातोरेतद्रूपमिष्यते। कर्मणि च तुल्य इति रूपं भवति।

बाह्यं घातुचतुष्टयम्

इति रूपादिकं शब्दवर्ज्यम्। परशुदार्वादिसंज्ञकमिति। परश्वादिसंज्ञकं

छिनत्ति

दार्वादिसंज्ञकं

छिद्यते

संभवं प्रत्येवमुच्यते। कदाचित्परश्वादिसंज्ञकं छिद्यते दार्वादिसंज्ञकमपि छिनत्ति। संबन्धोत्पादिन इति विस्तरः। संबन्धेनाविभागेनोत्पत्तुं शीलमस्येति संबन्धोत्पादि संघास्त्रोतः रूपादिसंघातसन्तान इत्यर्थः। तस्य विभक्तोत्पादनं विभक्तजननं यत् स छेदः। क्षणिकानां हि भावानां विनापि परश्वादिना छेदो भवत्येव सन्ताननिरोधस्तु परश्वादिनेति परश्वादिकं छिनत्तीत्युच्यते। कारणसामग्रीविशेषवशाद्धि कार्यविशेषोत्पत्तिर्भवति। तत्र धातुचतुष्टयमेव छिनत्ति छिद्यते चेत्यवधार्यते तथावधारणाच्चान्ये धातवो नोभयथेति सिद्धम्। अत एव चाह न कायेन्द्रियादीनि छिद्यन्त इति विस्तरः। अत्र न चक्षुरिन्द्रियादीनीति वक्तव्ये कस्मात्कायेन्द्रियादीनीति वचनम्। यस्मात्कायेन्द्रिये परिस्फ़ुटश्छेदो भवति यदि भवेदित्यतः कायेन्द्रियपुरःसराणीन्द्रियाणि कथ्यन्ते। निरवशेषाङ्गछेदे सर्वाङ्गप्रत्यङ्गछेदे। तदद्वैधीकरणात् तेषां कायेन्द्रियादीनामद्वैधीकरणात्। कथं पुनर्गम्यते तदद्वैधीकरणमिति। अतः पुनराह न हीन्द्रियाणि द्विधा भवन्ति छिन्नस्याङ्गस्य कायादपगतस्य निरिन्द्रियत्वात्। इदमपि कथं गम्यते निरिन्द्रियं तदङ्गं यच्छिन्नं कायादपगतमिति। यस्मात्तत्प्रतीत्य स्प्रष्टव्यादिकं च कायादिविज्ञानानुपपत्तिः। कथं तर्हि छिन्नेन पुनर्लग्नेन नासिकाग्रेण कायविज्ञानोत्पत्तिः। नासिकामूलसंबन्धेन पुनः कायेन्द्रियोत्पत्तेरदोषः। कथमिह गृहगोधिकादीनां पुच्छानि छिन्नानि स्पन्दन्ते यदि तत्र कायेन्द्रियं नास्ति। वायुधातोरेष विकारो नैतत्कायेन्द्रियस्य कर्मेत्यवगन्तव्यम्। न चापि छिन्दन्ति मणिप्रभावदच्छत्वात्। यथा मणिप्रभा न छिनत्ति अच्छत्वात् तद्वदिन्द्रियाणि।

दह्यते तुकयत्येवम्

इति एवंशब्देन तदेव बाह्यं धातुचतुष्टयं तथात्वेन प्रदर्श्यते। काष्ठादीनामग्निकृतो विकारो दाहः। स चेन्द्रियाणां न भवति मणिप्रभावदच्छत्वात्। न हि तानि काष्ठादिवच्चर्मादिवद्वा विक्रियन्ते। किं तर्हि तत्संबन्धात्प्रवाहछेदो भवति। तुलादिभूतं च तदेव धातुचतुष्टयं तुलयति नेन्द्रियाणि तथैवाच्छत्वात्। अमूर्तानां तु धातनाममूर्तत्वादेव छेदाद्यसंभव इति तेषां छेदादि न चिन्त्यते। न शब्द उच्छेदित्वादिति। किम्। छिनत्ति छिद्यते दह्यते तुलयति वा अप्रवाहवर्तित्वात्।

विदादो दग्धतुल्ययोः

इत्युत्तरत्रापीदमनुवर्तते न शब्द उच्छेदित्वादिति। तदेव धातुचतुष्टयं दाहकं तुल्यं चेति। अग्निक्षारादि दाहकम् समस्तस्यात्र धातुचतुष्टयस्य भस्मादिविकारहेतुत्वात्। लवणादि तुल्यम्। तत्रापि समस्तस्य तुलावनतिहेतुत्वादित्येकेषामभिप्रायः। तेजोधातुरेव दग्धा गुरूत्वमेव च तुल्यमिति। तेजोधातुरेवाग्निज्वालादिगत उद्भूतवृत्तिर्दहति पृथिवीधात्वादीनामुद्भतस्ववृत्तित्वेऽप्यदाहकत्वदर्शनात्। गुरूत्वमेव चोपादायरूपमुद्भूतवृत्ति तुल्यते। आतपादिषु लघुद्रव्येषु रूपादीनामुद्भूतवृत्तित्वेऽप्यतुल्यत्वदर्शनात्।। ३६।।

[ विपाकजौपचयिकाः पञ्चाध्यात्मं विपाकजः।
न शब्दोऽप्रतिगह अष्टौ नैष्यन्दिकविपाकजाः।। ३७।। ]

पञ्चाध्यात्मम्

इति पञ्चग्रहणं मनोनिवृत्त्यर्थम्। अध्यात्मग्रहणं रूपादिनिवृत्त्यर्थम्।

विपाकजौपचयिकाः

एव पञ्चाध्यात्मिका न नैष्यन्दिका इत्यवधारणम्। कस्मात् तद्वयतिरिक्तनिष्यन्दाभावात्। विपाकजा औपचयिकाश्च यद्यपि नैष्यन्दिका भवन्ति

निष्यन्दो हेतुसदृशः

इति कृत्वा ते तु विपाकौपचयिकत्वेनैव संगृहीतत्वान्न नैष्यन्दिका इति गृह्यन्ते। ये तु स्वहेतुसदृशा न च विपाकजा न चौपचयिकास्त इह नैष्यन्दिका अभिप्रेताः। न चैवंविधाश्चक्षुरादयो भवन्ति। किं तर्हि विपाकजा वौपचयिका वा भवन्तीत्यत एवमुच्यते तद्वयतिरिक्तनिष्यन्दाभावादिति। कथं पुनर्ज्ञायते नैष्यन्दिकास्ते न सन्तीति। मृतस्याननुवृत्तेः। न हि रूपादिवन्मृतस्य चक्षुर्धात्वादयोऽनुवर्तन्ते। विपाकहेतोर्जाता इति। विपाकस्य फ़लस्य हेतुर्विपाकहेतुः विपाकहेतोर्जाता विपाकजाः। मध्य पदलोषाद्धेतुशब्दलोपात्। गोरथवत् यथा गोभिर्युक्तो रथो गोरथ इति। फ़लकालप्राप्त वा कर्मति विपाकफ़लोत्पत्त्यनन्तरक्षणावस्थमित्यर्थः। विपच्यत इति विपाकः। कर्मकर्तरि घञ्। विपाकाज्जाता विपाकजाः। फ़लं तु विपक्तिरेवेति विपाक इति भावे घञ्। भवतु वा हेतौ फ़लोपचार इति विस्तरः। अविपाकस्वभावोऽपि कर्मलक्षणो हेतुर्विपाक इत्युच्यते तदुत्पादकत्वात्। यथा फ़ले हेतूपचार इति विस्तरः। षडिमानि स्पर्शायतनानि चक्षुरादीनि पौराणं कर्म। पुराणे जन्मनि भवं पुराणमेव वा पौराणं कर्म। तानि स्पर्शयतनान्यपौराणकर्मस्वभावान्यपि पोराणं कर्मेत्युच्यन्ते तज्जातत्वात्। एवमिह विपर्ययोपचारो द्रष्टव्यः। आहारसंस्कारस्वप्नसमाधिविशेषैरूपचिता औपचयिका इति विशेषशब्दः प्रत्येकमभिसंबध्यते। तत्राहारस्वप्नौ लोके प्रतीतौ। संस्कारोऽभ्यङ्गस्नानानुवासनादिस्वभावः। समाधिश्चित्तैकाग्रतालक्षणः समीपे चय उपचयः उपचये भवा औपचयिकाः सैनिकवत्। उपचया एव वा औपचयिकाः वैनयिकवत् स्वार्थे तद्धितविधानात्। ब्रह्यचर्येण चेत्येक इति। ब्रह्यचरिणामुपशान्तेन्द्रियाणां शरीरोपचयदर्शनात्। अनुपघातमात्रं तु तेन स्यादिति। अब्रह्यचर्येण शरीरापचयः ब्रह्यचर्येण तु शरीरापचयो न भवति। तस्मादाह अनुपघातमात्रं तु तेन ब्रह्यचर्येण स्यात् नोपचयः। उपचयस्त्वाहारादिभिरेव। कस्मात्तर्हि प्रव्रजितानां केपांचिच्छरीरापचयो भवति। कामपरिदाहादियोगादसौ भवेत्। प्रतिप्राकार इवारक्षेति उपचयसन्तानो विपाकसन्तानस्य परिवार्यावस्थानेनारक्षा। शब्द औपचयिक इति अनुपचितकायस्य शब्दसौष्ठवादर्शनात्। इच्छातः प्रवृत्तेरिति। शब्दो मे स्यादितीच्छया शब्दः प्रवर्तते अनिच्छया न प्रवर्तते। विपाकजश्च धर्मोऽनिच्छतोऽपि प्रवर्तते। तस्मान्न विपाकजः शब्दः। साधनं चात्रोच्यते। न विपाकजः शब्दः इच्छातः प्रवृत्तेः योनिशो मनसिकारचैतसिकवत्। यत्तु विपाकजं न तस्येच्छया प्रवृत्तिः। तद्यथा चक्षुरिन्द्रियस्येति। यत्तर्हीति विस्तरः। अनेन स्वसिद्धान्तविरूद्धतां प्रतिज्ञाया उद्गाहयति। तृतीयासौ परंपरेत्येक इति विस्तरः। भूतानि पारूप्यविरतेः कर्मपथस्य कण्ठे विपाकस्वभावानि निर्वर्तन्ते तेभ्यः शब्दः। द्वितीयेऽपि पक्षे कर्मभ्यो विपाकजानि भूतानि तेभ्य औपचयिकानि आहारोपचयतः समाध्युपचयतो वा भूतान्तराणि तेभ्यो नैष्यन्दिकानि पूर्वभूतव्यतिरिक्तान्यगन्तुकानि भूतानि तेभ्यः शब्द इति। अतो न विपाकजः शब्द इति। परंपराभिनिर्वर्तनं त्वभिसंधाय पारूष्यविरतेर्भ्रह्यस्वरता निर्वर्तत इत्युक्तम्। अनेन स्वसिद्धान्तविरूद्धता तस्याः प्रतिज्ञायाः परिह्रियते। यदि शब्दवद्युक्तिविरोधः स्यादिति। शब्द इच्छातः प्रवर्तत इति विपाकयुक्तिविरोधान्न विपाकज उक्तः। तद् यदि तद्वच्छारीरिक्यपि वेदना इच्छातः प्रवर्तते न विपाकजा स्यात्। न त्विच्छातः सा प्रवर्तते। किं तर्हि। अनिच्छयापि सा प्रवर्तते चक्षुरादिवत्। तस्माद्विपाकजेति युज्यत इत्यभिप्रायः। कीदृशी पुनः सा। या सुखदुःखप्रत्ययोपसंहारमन्तरेणापि प्रवर्तते। नैष्यन्दिकाः सभागसर्वत्रगहेतुजनिता इति। सभागसर्वत्रगहेतुभिरेव जनिता न विपाकहेतुनेत्यवधारणम्। विपाकजा विपाकहेतुजनिता इति। विपाकहेतुना जनिता एव न तु विपाकहेतुनैव जनिता इत्यवधारणम्। सभागहेतुनापि जनिता विपाकजा भवन्ति। तव चाष्टावप्रतिधा नैष्यन्दिका विपाकजा एवेत्यवधार्यते। न हि त औपचयिकाः सञ्चयाभावात्। अपरमाणुसञ्चयस्वभावत्वादित्यर्थः।। ३७।।

[ त्रिधान्ये द्रव्यवानेकः क्षणिकाः पश्चिमास्त्रयः।
चक्षुर्विज्ञानधात्वोः स्यात् पृथग्लाभः सहापि च।। ३८।। ]

त्रिधान्ये

इति। त्रिधैवान्य अन्य एव त्रिधेत्यवधार्यते। तत्र विपाकजा इन्द्रियाविनिर्भागिण एव

विपाकोऽव्याकृतो धर्मः सत्त्वाख्य

इति वचनात्। नैप्यन्दिकौपचयिकास्त्विन्द्रियविनिर्भागिणोऽपि। कथं पुनर्गम्यत इन्द्रियविनिर्भागिणोऽपि नैष्यन्दिकाः सन्तीति मृतस्यापि तदनुवृत्तिदर्शनात्। न ह्यसत्त्वसंख्याता विपाकजा इष्यन्ते।

द्रव्यवानेकः

इति। एक एव द्रव्यवानित्यवधारणम्। सारत्वाद्दव्यमित्यविनाशात्। क्षणमेकमनैप्यन्दिका भवन्तीति क्षणमेकसभागहेतुनिर्वर्तिताः पूर्वक्षणानास्रवाभावात् क्षणिकाः न तु क्षणान्तरविनाशिन इत्ययमर्थोऽभिप्रेतः। अन्यथा हि पश्चिमा एव धातवः क्षणिका इत्यवधारणात्तदितरेषां धातूनामक्षणिकत्वप्रसङ्गः। कथ पुनर्दुःखधर्मज्ञानक्षान्तिकलापे मनोधातुर्मनोविज्ञानधातुश्च युगपद्भवतः। न हि विज्ञानद्वयसमवधानमिप्यते। नोच्यते युगपत्तौ भवत इति। किं तर्हि एकमत्र विज्ञानं धातुद्वयत्वेन व्यवस्थाप्यते। नामद्वयेन कथ्यत इत्यर्थः। तेन व्याचष्टे। दुःख धर्मग़्यानक्षान्तिसंप्रयुक्त चित्तं मनोधातुर्मनोविज्ञानधातुश्चेति। शेषास्तत्सहभुवो धर्मधातुरिति। तत्र क्षान्तिकलापे चित्तादन्ये धर्माः शेषाः तत्सहभुवस्तया क्षान्त्या सहभुवः। तद्यथा अनास्रवसंवरो रूपम्। वेदनासंज्ञाचेतनादयः संप्रयुक्ताः तेषां च प्राप्तिजात्यादयो धर्मधातुरिति।

समन्वागमं प्रतिलभत इति प्राप्तिलब्धपूर्वा लभत इत्यर्थः। चक्षुर्विज्ञानधातुनापि स इति। किम् समन्वागमं प्रतिलभत इत्यधिकृतम्।

पृथग्लाभः

इत्यनेन प्रथमद्वितीये कोट्यौ दर्शिते।

सहाषिच

इत्यनेन तृतीया कोटिर्दर्शिता। चतुर्थी तूक्रनिर्मुक्तेति सुगमत्वान्न दर्शिता। चशब्देन वा साप्युक्ता अपृथगसह चेति। कामधातौ क्रमेण चक्षुरिन्द्रियं प्रतिलभमान इति। कामधातौ स्थित्तः पुद्गलः क्रमेण कललादिक्रमेण मृत्युक्रमेण वा चक्षुरिन्द्रियं लभते। किंप्रतिसंयुक्तं किं कामधातावेव। नेत्युच्यते। अविशेषेण कामप्रतिसंयुक्तं च रूपप्रतिसंयुक्त वा प्रतिलभमानः। कललाद्यवस्थायां तथा क्रमेण मरणस्याचक्षुप्मन्मरणस्य च काले चक्षुर्धातुनाऽसमन्वागतः कललाद्यवस्थायां तथा मरणावस्थायां वा तदभावात् षडायतनोत्पत्त्यवस्थायां भवस्यान्तराले वा तेनेदानीं समन्वागमं प्रतिलभते। न तु चक्षुर्विज्ञानधातुनाऽसमन्वागतः समन्वागमं प्रतिलभते यस्मादसौ कुशलक्लिष्टेन तेनातीतानागतेन समन्त्रागत एव पूर्वमन्तराभवप्रतिसन्धिकाले। विप्रकृतावस्था ह्येषाधिक्रियते न प्रतिलब्धवत्प्रतिलप्स्यमानावस्था। चक्षुर्विज्ञानधातुनेति विस्तरः। दितीयादिध्यानोपपन्नः तत्र तस्य चक्षुर्विज्ञानधातोरभावात् तेन पूर्वमसमन्वागत इदानीं चक्षुर्विज्ञानं प्रथमध्यानभूगिकमनिवृताव्याकृतस्वभावं समुखीकुर्वाणः तेन चक्षुर्विज्ञानधातुना समन्वागमं प्रतिलभते। न तु चक्षुर्धातुनाऽसमन्वागतः समन्वागमं प्रतिलभते प्रतिलब्धवत्समन्वागतत्वात्। तत्प्रच्युतश्चाधस्तादुपपद्यमान इति द्वितीयादिध्यानप्रच्युतोऽधस्तात्प्रथमे ध्याने कामधातौ चोपपद्यमानश्चक्षुर्विज्ञानधातुनाऽसमन्वागतः समन्वागमं प्रतिलभतेऽन्तराभवप्रतिसन्धाने कुशलक्लिष्टे न अतीतानागतेन न तु चक्षुर्धातुनाऽसमन्वागतः समन्वागमं प्रतिलभते प्रतिलब्धवत्समन्वागतत्वात्। स्यादुभयेनेति विस्तरः। आरूप्यधातुच्युत उभाभ्यां चक्षुर्धातुचक्षुर्विज्ञानधातुभ्यां पूर्वमसमन्वागत अन्तराभवप्रतिसन्ध्यवस्थायागेव चक्षुर्धातुनोत्पादाभिमुखेन चक्षुर्विज्ञानधातुना च कुशलक्लिष्टे नातीतानागतेन समन्वागमं प्रतिलभते। अविकलेन्द्रिया ह्यान्तराभविकाः। नोभयेन एतानाकारान् स्थापयित्वेति कोटित्रयोक्तान्धर्मप्रकारात् त्यक्तेत्यर्थः। आरूप्यधातुच्युतस्तत्रैवोत्पद्यमानो नोभाभ्यामसमन्वागतः समन्वागमं प्रतिलभते। असमन्वागतत्वं तत्रास्ति न तु समन्वागमप्रतिलम्भः। द्वितीयादिध्यानोपपनश्च चक्षुर्विज्ञानमसंमुखीकुर्वाणो नोभाभ्यामसमन्वागतः समन्वागमं प्रतिलभते। कथम् चक्षुर्धातुना यद्यपि समन्वागमं प्रतिलभते न तु चक्षुर्धातुनासावसमन्वागतः। चक्षुर्विज्ञानधातुना यद्यप्यसावसमन्वागतो न तु समन्वागमं प्रतिलभते तदसंमुखीकुर्वाणत्वात्। चक्षुष्मान् कामधातुस्थः सकृन्मरणादन्तराभवप्रतिसन्धौ नोभाभ्यामसमन्वागतः समन्वागमं प्रतिलभते ताभ्यां समन्वागतत्वात्। यश्च चक्षुर्धातुना समन्वागतश्चक्षुर्विज्ञानधातुनापि स इति। पृथग्लाभः सहापि चेत्यनेनैव सूत्रेणेदमपि चतुः कोटिकं वर्तयति। लाभो हि प्रतिलम्भः प्राप्तिमात्रेऽपि विवक्षया कदाचिद्भवति प्रथमे चतुःकोटिके प्रतिलम्भोऽधिकृतो द्वितीये तु प्राप्तिमात्रम्। प्रथमा कोटिरिति विस्तरः। द्वितीयादिध्यानोपपन्नोऽवश्यं चक्षुर्धातुना समन्वागत इन्द्रियैरविकलत्वात् चक्षुर्विज्ञानधातुनात्रासमन्वागतः तत्राभावात् प्रथमध्यानभूमिकस्य चक्षुर्विज्ञानस्यासंमुखीक्रियामाणत्वात्। कामधाताबलब्धविहीनचक्षरिति। अलब्धं विहीनं वा चक्षुरस्यालब्धविहीन चक्षुः। अलब्धचक्षुः कललाद्यवस्थः। विहीनचक्षुर्विनष्टचक्षुः। स कामधातौ चक्षुर्विज्ञानधातुनान्तराभवप्रतिसन्धौ प्रतिलब्धेन कुशलक्लिष्टे न समन्वागतः न चक्षुर्धातुना तस्याभावात्। लब्धाविहीनचक्षुरिति। लब्धमविहीनं चक्षुरस्य लब्धाविहीनचक्षुः। स कामधातौ चक्षुर्धातुना चक्षुर्विज्ञानधातुना च तथा पूर्व प्रतिलब्धेनेदानीं त्वनेन चाव्याकृतेन समन्वागतः। प्रथमध्यानोपपन्नश्च तेनोभयेन समन्वागतः स्वभूमिकस्य तस्यावश्यमस्तित्वात् परभूमिकस्य चक्षुपः संभवात्। द्वितीयादिध्यानोपपन्नश्च पश्यन्। प्रथमध्यानभूमिक चक्षुर्विज्ञानं संमुखोकुर्वाण इत्यर्थः। स चाप्यवश्यमनेनोभयेन समन्वागतः। चतुर्थ्येतानाकारान स्थापयित्वेत्यारूप्योपपन्नः।

यथायोगमभ्यूहितव्याविति। यश्चक्षुर्धातुनाऽसमन्वागतः रामन्वागमं प्रतिलभते रूपधातुनाप सः। यो वा रूपधातुना चक्षुर्धातुनापि सः। चक्षुर्धातुरूपधात्वोः स्यात्पृथग्लाभः सहापि च। पृथक्तावत् स्याच्चक्षुर्धातुना सगन्वागतो न रूपधातुना कामधातौ क्रमेण चक्षुरिन्द्रियं प्रतिलभमानः। स्याद्रपधातुना न चक्षुर्धातुनेति इयं कोटिर्नास्ति। सहापि स्यात्। उभेयनासमन्वागतः समन्वागमं प्रतिलभते आरूप्यधातोश्च्युतो रूपधातौ कामधातौ चोपपद्यमानः। नोभयेनैतानाकारान् स्थापयित्वा। यश्चर्धातुना समन्वागतो रूपधातुनापि स इति। पूर्वपादकः। यस्तावच्चक्षुर्धातुना समन्वागतो रूपधातुनापि सः। स्यादूपधातुना न चक्षुर्धातुना कललाद्यवस्थास्वलब्धचक्षुर्लब्धविहीनचक्षुश्च। यश्चक्षुर्विज्ञानधातुनाऽसमन्वागतः समन्वागमं प्रतिलभते रूपधातुनापि सः। यो वा रूपधातुनाऽसमन्वागतः समन्वागमं प्रतिलभते चक्षु विज्ञानधातुनापि सः। तथैव तयोः स्यात्पृथग्लाभः सहापि च। पृथक्तावत् स्योच्चक्षुर्विज्ञानधातुना न रूपधातुना द्वितीयादिध्यानोपपन्नश्चक्षुर्विज्ञानं संमुखीकुर्वाणः। स्याद्रूपधातुना न चक्षुर्विज्ञानधातुना आरूप्यधातोश्च्युतो द्वितीयादिपु ध्यानेपूपपद्यमानः। सहापि स्यात्। उमयेनासमन्वागतः समन्वागमं प्रतिलभते आरूप्यधातुच्युतः कामधातौ ब्रह्यलोके चोत्पद्यमानः। नोभयेन एतानाकारान् स्थापयित्वा। यश्चक्षुर्विज्ञानधातुना समन्वागतो रूपधातुनापि सः। यो वा रूपधातुना चक्षुर्विज्ञानधातुनापि सः पूर्वपादकः। यस्तावच्चक्षुर्विज्ञानधातुना समन्वागतो रूपधातुनापि सः। स्याद्रूपधातुना न चक्षुर्विज्ञानधातुनापि। द्वितीयादिध्यानोपपन्नश्चक्षुर्विज्ञानमसंमुखीकुर्वाणः। यथा चेय चक्षुर्विज्ञानरूपधातूनां प्रतिलम्भसमन्वागमचिन्ता तथा श्रोत्रविज्ञानशब्दधात्वादीनामपि प्रतिलम्भसमन्वागमचिन्ता कर्तव्या श्रोत्रविज्ञानधात्वोः स्यात्पृथग्लाभः सहापि चेत्यादि।। २८।।

[ द्वादशाध्यात्मिका हित्वा रूपादीन् धर्मसंज्ञकः।
सभा गस्तत्सभागोऽपि शेपो यो न स्वकर्मकृत्।। ३९।। ]

द्वादशाध्यात्मिका

इति। उभयावधारणम्। अवधारणादेव चान्ये रूपादयो बाह्या इति सिद्रम्। आत्मनि अधि अध्यात्मम्। अधि आत्मानमिति वा अध्यात्मम्। अध्यात्ममेवाध्यात्मिकाः अध्यात्मं वा भवा आध्यात्मिकाः। अहंकारसंनिश्रयत्वाच्चित्तमात्मेत्युपचर्यत इति। अहंकारसंनिश्रय आत्मेत्यात्मवादिनः संकल्पयन्ति। चित्तं नाहंकारनिश्रय इत्यात्माप्युपचर्यते। कथमित्याह आत्मना हि सुदान्तेन सुदान्तेन स्वग प्राप्नोति पण्डितः

इत्युक्तं गाथायाम्। कथं पुनर्गम्यते चित्तमात्मशब्देनोच्यत इति। तत आह। चित्तस्य चान्यत्र दमनमुक्तं भगवतेति। अन्यत्र गाथायामुक्तम्

चित्तस्य दमनं साधु चित्तं दान्तं सुखावहम्

इति। तेनायमर्थः आत्मनि चित्तीकार्ये आत्मानं वा चित्तमधिकृत्य ये धर्माः प्रत्यासन्नभावादाश्रयभावेन वर्तन्ते त आध्यात्मिकाः ये तु विपयभावेन वर्तन्ते ते वाह्या इति। कः पुनः प्रत्यासन्नभावः येन विज्ञानं तद्विकारमनुविधत्ते चक्षुरादिष्वेव हि विज्ञानं लक्ष्यते न रूपादिष्विति। तथा हि चित्तमिन्द्रियसंबद्धे शरीरदेशे परिच्छिद्यते न विषयदेश इति। एवं तर्हि षड्विज्ञानधातव इति विस्तरः। इह पञ्च तावद्विज्ञानधातवो वर्तमाना एव गृह्यन्ते इन्द्रियविषयसमानकालत्वात्। वर्तमानविषया हि पञ्च विज्ञानकायाः। मनोविज्ञानधातुरपि वर्तमान एवेह व्यवस्थाप्यते। यस्मान्मनोधातुरस्याश्रयोऽनन्तरातीतो व्यवस्थाप्यते अथ भेदादेव हि मनोधातुमनोविज्ञानधात्वोः पृथग्व्यवस्थानम् तस्मात्त आध्यात्मिका न प्राप्नुवन्ति। न ह्येते मनोधातुत्वमप्राप्ता अतीत्वमप्राप्ताः चित्तस्याश्रयोभवन्ति यदा तदा त एव ते भवन्तीति लक्षणं नीतिवर्तन्त इति। किमनेन वाक्येन साधितम्। इदमनेन साधितम्। वर्तमानानामप्येपामाश्रयभावो भविष्यतीति भविष्यदाश्रयभावेनाध्यात्मिकत्वं भवतीति। यदि वानागतप्रत्युत्पन्नस्येति विस्तरः। अतीतेऽध्वनि यन्मनोधातुलक्षणं तदनागतप्रत्युत्पन्नयोरप्यध्वनोरस्त्येवेत्यभिप्रायः। न हि लक्षणस्याध्वसु व्यभिचारोऽस्ति। न हि स्वभावपरित्यागोऽस्तीत्यर्थः।

सभागः

इति। धर्मसंज्ञकः सभाग एवेत्यवधार्यते। यो हि विषयो यस्य विज्ञानस्य नियत इति तद्यथा चक्षुर्विज्ञानस्य रूपं नियतो विपयो यावन्मनोविज्ञानस्य धर्माः यदि तत्र तच्चक्षुर्विज्ञानमुत्पन्नमुत्पत्तिधमि वा यावद्यदि तत्र मनोविज्ञानमुत्पन्नमुत्पत्तिधर्मि वा स विपयः सभाग इत्युच्यते। तस्य च स्वभावसहभूनिर्मुक्ता इति। स्वभावेन सहभूभिश्च निर्मुक्ताः स्वभावसहभूनिर्मुक्ताः। सर्वधर्मास्तस्य विज्ञानस्यालम्बनं न स्वभावः स्वात्मनि वृत्तिविरोधात्। न हि तदेवाङ्गुल्यग्र तेनैवाङ्गुल्यग्रेण स्पृश्यते न सैवासिधारा तयैवासिधारया छिद्यते। न सहभुवः संप्रयुक्ता विप्रयुक्ता वा अतिसंनिकृष्टत्वात्। न ह्यक्षिस्थमञ्जनं तेन गृह्यते। स पुनश्चित्तक्षणोऽन्यस्य चित्तक्षणस्यालम्बनमिति। ये पूर्वस्मिन्क्षणे स्वभावसहभुवो धर्मा नालम्बिता अभूवंस्तेऽप्यालम्बिता इति द्वयोः क्षणः सर्वधर्मा अलाम्बनं भवन्ति। तस्माद्धर्मधातुर्नित्यं सभागः। धर्मधातुर्हि नियतो मनस एव। तत्साभागाश्च शेषाः। चशब्देन सभागाश्चेति शेपा एव सभागतत्सभागा इत्यवधार्यते। ननु च धर्मधातुरेव सभाग एवेत्यवधारणे शेषा न सभागा इति सभागतत्सभागाः सेत्स्यन्ति। न सेत्स्यन्ति। यद्यपि न सभागा एव हि भवेयुः तत्सभागा एवेति तु संभवेयुः। तन्निवृत्त्यर्थमिदमारभ्यते सभागतत्सभागा एव शेषाः। न तु सभागा एव नापि तत्सभागा एवेति।

यो न स्वकर्मकृत्

स तत्सभाग इति संबन्धनीयम्। तत्समागाश्चेत्यनन्तरोक्तत्वात्। उक्तं भवति यः स्वकर्मकृत स सभाग इति। अस्वकर्मकृदेव तत्सभागस्तत्सभाग एव चास्वकर्मकृदित्यवधारणेऽर्थापत्त्या स्वकर्मकृत्सभाग इति। रूपाण्यपश्यदिति। अदाक्षीदिति वक्तव्यम्। एवं ह्यद्यतनातीतं ह्यस्तनातीतं च परिगृहीतं भवति। अन्यथा ह्यव्यापि लक्षणं स्यात्। अथैवमेव पाठः। उदाहरणमात्रं तद्दष्टव्यम्। अद्यतनातीतमपि वक्तव्यम्। एवं यावन्मनः स्वेन विपयकारित्रेण वक्तव्यमिति स्वेन विपयपुरूषकारेण वक्तव्यम्। कथमिति येन श्रोत्रेण शब्दानशृणोच्छृणोति श्रोष्यति वा तदुच्यते सभागं श्रोत्रमिति सर्वम्। विज्ञानसमायुक्तमसमायुक्तं चेति विज्ञानसंबद्धमसंबद्धं चेत्यर्थः। यदेकस्य चक्षुः सभागं तत्सर्वेपाम्। किम्। सभागमिति वर्तते। एवं तत्सभागमपीति। यदेकस्य चक्षुस्तत्सभागं तत्सर्वेषां तत्सभागमित्यर्थः। प्राप्तग्रहणादिति। गन्धादयो ये देवदत्तेन घ्राणादीन्द्रियप्राप्ता गृह्यन्ते न ते यज्ञदत्तेन गृह्यन्ते स्वघ्राणादिकप्रविष्टत्वात् इत्यसाधारणत्वादेषां चक्षुरादिवदतिदेशो न्याय्यः। य एकस्य गन्धः सभागः स सर्वेपाम् एवं तत्सभागोऽति वक्तव्यम्। न तु वक्तव्यम्। यथा रूपमेवं गन्धादय इति। अस्ति ह्येप संभवः। य एव गन्धादय एकस्य घ्राणादिविज्ञानमुत्पादयेयुस्त एवान्येषामपीति। यदि ते देवदत्तघ्राणादीन्द्रियप्राप्ता भवेयुर्देवदत्तस्य विज्ञानमुत्पादयेयुः। अथ यज्ञदत्तघ्राणादीन्द्रियप्राप्ता यज्ञदत्तस्य विज्ञानमुत्पादयेयुरित्यर्थः। अथवा त एवान्येषामपीति तत्रान्तर्गतसूक्ष्मकिमिप्रभृतीनामपि विज्ञानमुत्पादयेयुः न तस्यैव देवदत्तस्य यस्य घ्राणादीन्द्रियप्राप्तास्ते गन्धादय इति। इन्द्रियविषयविज्ञानानामन्योन्यभजनमिति। आश्रयविषयाश्रथिभावेनान्योन्याभिमुखेन प्रवृत्तिः। तथा हीन्द्रियधातवो विज्ञानधातूनाश्रयभावेन यथायोगं भजन्ते सेवन्त इत्यर्थः विषयधातुष्च विपयिभावेन। तथा विषयधातवः स्वेन्द्रियधातू विषयभावेन भजन्ते। विज्ञानधातूस्तु विष्ःअयभावेनालम्वनभावेन वा भजन्ते। तथा विज्ञानधातवः स्वेन्द्रियधातूनामाश्रयिभावेन भजन्ते विषयधातूंश्च विषयिभावेनालम्बकभावेन वा भजन्ते। इत्यन्योन्यभजनं भागः। भावे घञ्। कारित्रभजनं वा भागः। कारित्रं चक्षुरादीनां दर्शनादि विज्ञानधातूनां विज्ञाऱ्
उत्वम् विषयधातूनां तद्विषयालम्बनभावः। तस्य कारित्रस्य भजनं करित्रभजनम्। स एषामस्तीत्यर्थः प्रदर्शनमात्रमेतत्। विग्रहस्त्वेवं कर्तव्यः। सह भागेन वर्तन्ते सभागा इति। समानो वा भाग एषां त इमे सभागाः। समानार्थस्य सहशब्दस्य स भाव आदिष्टः। सोर्शसमानकार्यत्वाद्वा। किम् सभागा इति प्रकृतम्। अत्र कर्मणि घञ् भज्यत इति भागः। विग्रहस्तु पूर्ववत् स्पर्शश्चैतसिक एषामिन्द्रियविषयविज्ञानानां समानं कार्यम्। चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानम्। त्रयाणां संनिपातः स्पर्श इत्यादिवचनात्। ये पुनरसभागा  इति विस्तरः। ये पुनरन्ये चक्षुरादय इत्थमसभागास्तेषां सभागानामुक्तलक्षणानां सभागाः सदृशास्ते तत्सभागाः। तेषां तैर्वा सभागास्ते तत्सभागाः। तुक्यार्थो ह्यत्र सभागशब्दो गृह्यते।। ३९।।

[ दश भावनया हेयाः पञ्च चान्त्यस्त्रयस्त्रिधा।
न दृष्टिहेयमक्लिष्ट न रूपं नाप्यपष्ठजम्।। ४०।। ]

दर्शनहेया इति। दर्शनं प्रथमतः सत्यदर्शनम् अनास्रवं पञ्चदशचित्तक्षणसंगृहीतम्। भावना तदेव पुनः पुनर्दर्शनम्। लौकिकं वा समाहितं ज्ञानं भावना ।

दश भावनया हेयाः पञ्चच

इति। रूपिणो धातवो दश पञ्च च तद्विज्ञानधातव इति। ते भावनाहेया एवेत्यवधार्यन्ते। त्रिप्रकारा इति। दर्शनहेया भावनाहेया अहेयाश्चेत्यर्थः। एत एव त्रिघा। अष्टाशीत्यनुशयास्तत्सहभुव इति धातुप्रकाराकारभिन्नाः सत्कायदृष्द्यादयोऽनुशयाः। तत्सहभुवो विज्ञानवेदनादयः संप्रयुक्ताः असंप्रयुक्तानि च तल्लक्षणानुलक्षणानि तत्प्राप्तयश्च सानुचरा इति। तच्छब्देनानुशायादयः संबध्यन्ते तेषामनुशयानां तत्सहभुवां च प्राप्तयस्तत्प्राप्तयो यद्यप्यनुशयसहभुवो भवन्ति न तु सर्वाः। कश्चिद्धि प्राप्तयोऽनुशयादिसहभुवो भवन्ति याः सहजाः। कश्चित्तु पूर्व पश्चाच्च तेभ्यो भवन्ति। अतः पृथक् प्राप्तिग्रहणम्। सानुचरा इति ग्रहणेनानुप्राप्तयस्तल्लक्षणानि च संगृह्यन्ते। शेषाः सास्रवा भावनाहेया इति। एत एव त्रयोऽन्त्या धातवो ये शेषा दर्शनहेयेभ्योऽन्ये सास्रवास्ते भावनाहेयाः। के पुनस्ते। दशानुशयास्तत्सहभुवस्तत्प्राप्तयश्च सानुचराः कुशलसास्रवाः अनिवृताव्याकृताश्च संस्काराः अविज्ञप्तिरूपं च सास्रवं सानुचरम्। अनास्रवा अहेया इति। मार्गसत्यासंस्कृतस्वभावाः। ननु चायदपीति विस्तरः। पृथग्जनत्वमनिवृताव्याकृतसंस्कारस्वभावत्वाद्भावनाहेयमध्यगमत्। अपायसंवर्तनीयं च कायवाक्कर्म रूपस्वभावत्वाद् भावनाहेयमुक्तमिति। अतश्चोदयन्ति वात्सीपुत्रीयाः आर्यमार्गविरोधित्वादिति पृथग्जनत्वमार्यमार्गोत्पादे न भवति। नियते चापायिके कर्मणि सत्यार्यमार्गो नोत्पद्यते। आर्यमार्गोत्पादे च सत्यापायिकं कर्म नोत्पद्यते। तस्मात् सत्कायदृष्ट्यादिवत्तदुभयं दर्शनहेयमिति वर्णयन्ति। तत्प्रतिषेधार्थमुक्तमप्येतदभिसंक्षेपेण। सुखप्रतिपत्त्यर्थ पुनरूच्यते

न दृष्टिहेयमक्लिष्टं न रूपं नाप्यषष्ठजम्।

दृष्टिर्दर्शनम्। अक्लिष्टमनिवृताव्याकृतं कुशलं वा न दर्शनहेयम्। रूपं तु क्लिष्टमपि न दर्शनहेयम्। अषष्ठजं पञ्चेन्द्रियजं पञ्चविज्ञानम् तदरूपं क्लिष्टमपि सन्न दर्शनहेयम्। अतोऽन्यत्तु दर्शनहेयं संभवति यथोक्तम्। अक्लिष्टाव्याकृतं च पॄथग्जनत्वम् समुच्छिन्नकुशलमूलवीतरागाणामपि तत्समन्वागमादिति। समुच्छिन्नकुशलमूलाः कुशलैर्धर्मैरसमन्वागता इष्टाः। पृथग्जनत्वेन तु समन्वागताः। यस्मात्ते पृथग्जना इष्यन्ते तस्मान्न कुशलं पृथग्जनत्वम्। क्लिष्टमपि तन्न भवति वीतरागाणामपि तेन समन्वागमात् क्लिष्टस्य हि वस्तुनः स्वभावप्रहाणमिष्यते। प्राप्तिच्छेदः प्रहाणमित्यर्थः। तद्यदि पृथग्जनत्वं क्लिष्टं स्यात् लौकिकवीतरागाणां तस्य प्राप्तिच्छेद इति तेनासमन्वागमः स्यात्। इष्यते च तेषां तेन समन्वागमः। तथा हि ते लौकिकवीतरागाः पृथग्जना एवेष्यन्ते। अक्लिष्टाब्याकृतत्वैकत्वेऽदोषः। छन्दरागप्रहाणं ह्यक्लिष्टस्येष्यते तदालम्बनक्लेशप्राप्तिच्छेद इत्यर्थः। न तु तदात्मीयप्राप्तिच्छेद इष्यते। तथा ह्युक्तं भगवता। यो भिक्षवो रूपे छन्दरागस्तं प्रजहीत एवं वस्तद्रूपं प्रहीणं भवतीति विस्तरः। तस्माद क्लिष्टाव्याकृतं पृथग्जनत्वं तेषां प्रहीणमपि चक्षुरादिवत्समुदाचरति अतस्तेन समन्वागमो भवति। किं पुनः कारणम् अक्लिष्टाव्याकृतत्वात्पृथग्जनत्वं न दर्शनप्रहातव्यम् रूपत्वाच्च कायवाक्कर्म इत्याह सत्येष्वविप्रतिपत्तेः। अक्लेशदुष्टत्वात् पृथग्जनतत्वं न दुःखदिषु सत्येषु विप्रतिपद्यते। न विपरीतरूपेण प्रवर्तत इत्यर्थः। अनालम्बकत्वाच्च कायवाक्क्र्माप्यनालम्बकत्वादेव न विप्रतिपद्यते। तस्मात्तदुभयं न दर्शनहेयम्। अयं च सत्येष्वविप्रतिपत्तेरिति हेतुरषष्ठजेऽप्यनुवर्तयितव्यः। दुःखे धर्मज्ञानक्षान्तौ पृथग्जनत्वप्रसङ्गाच्चेति अयमुपचय हेतुः पृथग्जनत्वस्यैव दर्शनहेयत्वनिवृत्त्यर्थमुच्यते कायवाक्कर्मणोऽनभिसंबन्धात्। दुःखे धर्मज्ञानक्षान्तौ पृथग्जनत्वप्राप्तिश्छिद्यते न तु छिन्नातत्प्रहेयक्लेशप्राप्तिवत्।

निरूध्यमानो मार्गस्तु प्रजहाति तदावृतिम्

इति वचनात्। दुःखे धर्मज्ञाने तु तत्प्राप्तिश्छिन्ना। तेन तत्प्राप्तिसद्भावाद् दुःखे धर्मज्ञानक्षान्त्यवस्थायां स पुद्गलः पृथग्जनः स्यात्। न चासौ तस्यामवस्थायां पृथग्जन इति शक्यते व्यवस्थापयितुम् अधिगतार्यमार्गत्वात्। तथा हि पृथग्जनत्वं कतमत्। आर्यधर्माणामलाभ इति पृथग्जनत्वलक्षणम्। स चार्यधर्माणां लाभेनालाभो व्यावर्त्यते। तस्मादार्य एवासाविति। इदं तावद्भवन्तो वैभाषिकाः प्रष्टव्याः तत्पृथग्जनत्वं किं भावनामार्गप्रतिलम्भादेव प्रहीयते। नेत्युच्यते। तत्पृथग्जनत्वं नभौमिकम् कामावचरं यावद्भावाग्रिकम्। तच्चाक्लिष्टम्। तेन प्रतिभूमिनवमक्लेशप्रकारप्रहाणावस्थायां प्रहीयते। सर्व ह्यक्लिष्ट सास्रवं नवम एव विमुक्तिमार्गे प्रहीयते। यद्येवमवीतरागावस्थायामार्गः पृथग्जनः स्यात्। न पृथग्जनत्वस्य विहीनत्वात्। दुःखे धर्मज्ञानक्षान्तेः प्रभृति हि तद्विहीनमेव न तु प्रहीणम्। कः पुनर्विहानप्रहाणयोर्विशेष इति। विहानं प्राप्तिछेदे व्यवस्थापितम् प्रहानं तु प्रतिपक्षलाभे व्यवस्थापितम्। तस्मात्प्राप्तिच्छेदात्तेन पृथग्जनत्वेनासमन्वागमात्तस्यामवस्थायामार्ग एव भवति न पृथग्जन इत्यदोष एषः।। ४०।।

[ चक्षुश्च धर्मधातोश्च प्रदेशो दृष्टिरप्टधा ।
पञ्चविज्ञानसहजा धीर्न दृष्टिरतीरणात्।। ४१।। ]

चक्षुश्च धर्मधातोश्च प्रदेशो दृष्टिः

इति। चक्षुरेव धर्मधातुप्रदेश एव च दृष्टिरित्यवधार्यते। सत्काय दृष्ट्यादिकेति सत्कायदृष्टिरनुग्राह दृष्टिर्मिथ्यादृष्टिर्दृष्टिपरामर्शः शीलव्रतपरामर्शश्चेति। शैक्षस्यानास्रवेति प्रज्ञेत्यधिकृतम्। अशैक्षस्याशैक्षीति। अशैक्षस्यानास्रवा प्रज्ञाऽशैक्षी। क्षयानुत्पादज्ञानवर्ज्येति वक्तव्यम्। वक्ष्यति हि

क्ष्यानुत्पादधीर्न दृक्

इति। समेघामेघेति विस्तरेण यावत् क्लिष्टाक्लिष्टलौकिकीशैक्ष्यशैक्षीभिर्दृष्ठिभिर्धर्मदर्शनमिति। लोके भवा लौकिकी। क्लिष्टा चाक्लिष्टा च क्लिष्टाक्लिष्टा। क्लिष्टाक्लिष्टा चासौ लौकिकी च क्लिष्टाक्लिष्टलौकिकी। क्लिष्टाक्लिष्टलौकिकी च शैक्षी चाशैक्षी च क्लिष्टाक्लिष्टलौकिकीशैक्ष्यशैक्ष्यः ताभिर्धर्मदर्शनम्। कीदृशमित्याह समेघमेघारात्रिंदिवरूपदर्शनवदिति। यथा समेधायां रात्रौ रूपदर्शनम् एवं क्लिष्टया लौकिक्या सत्कायदृष्ट्यादिकया दृष्ट्या धर्मदर्शनम्। अव्यक्तरमित्यर्थः। यथा तस्यामेव रात्रावमेघायां रूपदर्शनम् एवमक्लिष्टया लौकिक्या दृष्ट्या धर्मदर्शनम्। अव्यक्तमित्यर्थः। यथा समेघे दिवसे रूपदर्शनम् एवं शैक्ष्या दृष्ट्या धर्मद्र्शनम्। व्यक्तं न त्वत्यर्थम्। यथा पुनरमेघे दिवसे रूपदर्शनम् एवमशैक्ष्या दृष्ट्या धर्मदर्शनम्। अत्यर्थ व्यक्तमित्यर्थः। इत्यसंतीरणात्। संतीरणं पुनर्विषयोपनिध्यानपूर्वकं निश्चयाकर्षणम्। अत एव चान्यापीति विस्तरः। अत एवासंतीरणादन्यापि मानसी क्लिष्टा रागादिसंप्रयुक्ता अक्लिष्टा वा क्षयानुत्पाद ज्ञानानिवृताव्याकृता प्रज्ञा न दृष्ठिः। रूपालोचनार्थनेति। चक्षुर्न संतीरकत्वेन दृष्टिः। किं तर्हि रूपालोचनार्थेन। प्रज्ञा तु संतीरकत्वेनेति दर्शितं भवति।। ४१।।

[ चक्षुः पश्यति रूपाणि सभागं न तदाश्रितम्।
विज्ञानं दृश्यते रूपं न किलान्तरितं यतः।। ४२।। ]

अन्यविज्ञानसमङ्गिन इति अन्यविज्ञानसंमुखीभाविनः पुद्गलस्यान्य विज्ञानव्यासक्तस्येत्यर्थः। पश्येच्चक्षुरिन्द्रियम् विषयादिसांनिध्यात्। यस्य तु चक्षुर्विज्ञानं पश्यतीति पक्षः तस्य तद्विज्ञानासंभवाददोषः। तदेव चक्षुराश्रितं विज्ञानं पश्यतोत्यस्तीति दर्शनस्य तद्भावे भावात्तदभावे चाभावात्।

दृश्यते रूपं न किलान्तरितं यतः

इति। किलशब्दः परमतौ। तस्याप्रतिघत्वादिति। विज्ञानममूर्त कुड्यादीन्यतिक्रम्यापि पश्येत्। विज्ञानवाद्याह नैव ह्यावृते चक्षुर्विज्ञानमुत्पद्यत इति। अनाभासगतत्वाद्विपस्येत्यभिप्रायः। किं खलु नोत्पद्यत इति। अप्रतिघत्वात्कुड्यादीनि व्यतिभिद्य कुड्याद्यव्यवहित इव विषये विज्ञानमुत्पत्स्यत इति भावः। यस्य त्विति। यस्य मम वैभाषिकस्य पक्षः चक्षुः पश्यतीति तस्य मम चक्षुपः सप्रतिघत्वाद् व्यवहिते कुड्यादिभिर्वृत्त्यभावः तस्य चक्षुप आलोचनवृत्त्यभावः। विज्ञानं तहि वैभाषिकस्य व्यवहितेऽपि प्राप्नोतीति चोद्यमन्तर्नीतमाशङ्कय स एव वैभाषिकः पुनराह विज्ञानस्याप्यनुत्पत्तिरिति। यथैव चक्षुषो व्यवहिते वृत्त्यभावो युज्यते विज्ञानस्याप्यनुत्पत्तिर्विज्ञानवृत्त्यभावः आश्रयेण सहैकविषयप्रवृत्तत्वाद्युज्यते। य एव हि चक्षुवो व्यवहितोऽर्थो विषयः स्यात्स एव विज्ञानस्येति युक्ता विज्ञानस्याप्यनुत्पत्तिः। तवतु विज्ञानवादिनोऽप्रतिघत्वाद्विज्ञानस्य व्यवहिते विज्ञानमुत्पद्येत न तूत्पद्यते। तस्माच्चक्षुः पश्यति न विज्ञानमिति सिद्धम्। एवं विज्ञानवादिनि प्रतिषिद्धे तत्पक्षमाचार्यो गृहीत्वाह किं नु व चक्षुः प्राप्तविषयमिति विस्तरः। यथा कायेन्द्रियं प्राप्तविषयं कुड्यादिव्यवहितं विषयं न गृह्णाति कुड्यादिप्रतिघातात् ततः प्ररेण प्रवर्तितुमलभमानत्वात् किमेवं चक्षुः प्राप्तविषयं कुड्यादिप्रतिघातेन प्रतिहतं सत् ततः परेण गन्तुम्लभमानं तं कुड्यादिव्यवहितं विषयं न गृह्णातीति। नैतद्युज्यते। तस्मात्सप्रतिघत्वादावृतं चक्षुर्न पश्येदिति न वक्तव्यम्। काचाभ्रपटलस्फ़टिकाम्बुभिश्चान्तरितं कथं दृश्यत इति। काचेनाभ्रपटलेन स्फ़टिकेनाम्बुना चान्तरितं व्यवहितं रूपं कथं दृश्यते। सप्रतिघत्वाद्धि कुड्यादिव्यवहितवत्काचादिव्यवहितं चक्षुर्न पश्येत् तच्च पश्यतीति सिद्धान्तः। यत्रालोकस्याप्रतिबन्ध इति। आलोके हि सति विषय आभासगतो भवतीति विज्ञानोत्पत्तिसंभवः। एं हि विज्ञानकारणं पट्ःयते चक्षुरिन्द्रियमनुपहतं भवति विषय आभासगतो भवति तज्जश्च मनस्कारः प्रत्युपस्थितो भवतीति। अत आवृते रूपे काचादिभिस्तत्रोत्पद्यत एव चक्षुर्विज्ञानम्। यत्र तु प्रतिबन्दोऽकाचादिस्वभावैः कुड्यादिभिस्तमस्वद्भिः तत्रावृते नोत्पद्यते। किम्। चक्षुर्विज्ञानमिति। अनुत्पन्नत्वादावृतं नेक्ष्यत इति। यत्त्वया किं खलु नोत्पद्यत इत्यनुत्पत्तौ कारणं पृष्टमिदं तत्कारणमिति व्रूमः। यत्तर्हि सूत्र उक्तमिति विस्तरः। चक्षुषा रूपाणि दृष्ट्वा न निमित्तग्राही भवति नानुव्यञ्जनग्राहीति विस्तरः। यस्माच्चक्षुः पश्यति तस्मात्पुद्गलश्चक्षुया पश्यतीत्यभिप्रायः। आचार्यः प्राह तेनाश्रयेणे त्ययमत्राभिसन्धिः। चक्षुराश्रित्येत्येवात्राभिसंधिः। चक्षुषा आश्रयेण विज्ञानेन दृष्टेत्यर्थः। कथं ज्ञायत इत्याह यथा मनसा धर्मान्विज्ञायेति। मनसा आश्रयेण विज्ञानेन विज्ञायेति भवति। न ह्यनन्तरातीतं मनो धर्मान् विजाताति। वर्तमानवस्थायां हि विज्ञानं कारित्रं करोति। आश्रितकर्म वा आश्रयस्योचर्यत इति। आश्रितस्य विज्ञानस्य कर्म दर्शनमाश्रयस्य चक्षुष उपचर्यते। विज्ञाने पश्यति सति चक्षुः पश्यतीत्युपचारः। यथा मञ्चाः क्रोशन्तीति। यथा मञ्चस्थेषु पुरूषेषु क्रोशत्सु मञ्चा क्रोशन्तीत्युपचारस्तद्वत्। यथा च सूत्र उक्तमिति विस्तरः। वैभाषिकाणामप्ययं पक्षः। न चक्षुर्विजानाति किं तर्हि विज्ञानं विज्ञानातीति। अथ चोक्तम् चक्षुर्विज्ञेयानि रूपाणि कान्तानीति। तत्राश्रितकर्म आश्रयस्योपचर्यत इत्यवश्यं प्रतिपत्तव्यम्। द्वारं यावदेव रूपाणां दर्शनायेति। द्वारमिव द्वारम् हेतुराश्रय इत्यभिप्रायः। अनेनागमेन तेनाश्रयेणेति योऽर्थ उक्तस्तमेव समर्थयति। तेन चक्षुषा द्वारेण विज्ञानं पश्यतीति। दर्शने तत्र द्वाराख्येति चक्षुर्ब्राह्यण द्वारं दर्शनं यावदेव रूपाणां दर्शनायेत्यत्रः। न ह्येतद्युज्यते दर्शनं रूपाणां दर्शनायेति। अत्रावाचकत्वान्नैतद्युज्यत इत्यभिप्रायः। यदि दर्शनं करणं दृश्यतेऽनेनेति दर्शनमिति कर्तरि वा ल्युट् पश्यतीति दर्शनमिति। दर्शनायेति वा भावसाधनम् दृष्टिर्दर्शनं तस्मै दर्शनायेति कथमेतन्न युज्यते। यस्माच्चक्षुर्व्यतिरिक्तं दर्शनं नास्ति। आलोचनमिति चेत् न विज्ञानाव्यतिरिक्तत्वात्। विज्ञानमेव ह्यालोचनम्। नातोऽन्त्यत्पश्यामः। यदि तु चक्षुर्द्वारं विवरं रूपाणां दर्शनाय विज्ञानायेत्यर्थो गृह्येत तद्युज्यते। तद्यथा काचित्प्रज्ञा पश्यत्यप्युच्यत इति पश्यतीत्यप्युच्यत इति इतिशब्दोऽत्राध्याहार्यः अनेनोपन्यासेन दर्शनविज्ञानयोरनर्थान्तरभाव इति दर्शयति। का पुनरसौ या प्रज्ञैवमुच्यते। या दर्शनात्मिकोक्ता

तदन्योभयथार्या धीः

इति। तस्यैवं जानत एवं पश्यत इति सूत्रे वचनात्। किंचिदिति वचनान्न सर्वं विज्ञानं पश्यतीत्युक्तं भवति। चक्षुर्विज्ञानं हि पश्यतीत्युच्यते न तु श्रोत्रादिविज्ञानमिति। कान्या दृशिक्रियेति यस्योपलम्भकत्वं तस्य दर्सनं युज्यत इत्यभिप्रायः। तदेतदचोद्यमिति विस्तरः। यदि विज्ञानं विजानाति कर्तृभूतस्य कान्या विज्ञानक्रियेति वक्तव्यमिति तुल्यं चोद्यमापद्यते। न च तत्र कर्तृक्रियाभेदः। न कर्तुर्विज्ञानस्य क्रियायाश्च विज्ञानलक्षणाया भेदोऽन्यत्वमस्ति। भवति च कर्तृक्रियासंबन्धव्यपदेशः विज्ञानं विजानातीति। तद्वदिहापि भवेत् चक्षुः पश्यतीत्यचोद्यमेतत्। चक्षुर्विज्ञानं दर्शनमित्यपरे तस्याश्रयभावाच्चक्षुः पश्यतीत्युच्यते। यथा नादस्याश्रयभावद् घण्टा नदतीत्युच्यते। विज्ञानं तर्हि कस्याश्रयभावाद्रूपं विजानातीत्याह विज्ञानस्याश्रयभावादिति चक्षुर्विज्ञानस्याश्रयभावादित्यर्थः। तद्विज्ञानं दर्शनमिति रूदं लोक इति। दर्शनमिति लोके रूदं न तु विज्ञानमिति रूदम्। कथं गम्यत इत्याह तथा हि तस्मिन्नुत्पन्ने रूपं दृष्टमित्युच्यते न विज्ञातमिति। विभापायामप्युच्यत इति स एवार्थोऽभिधीयत इत्यभिप्रायः। चक्षुःसंप्राप्त चक्षुराभासगतम्। विज्ञानं तु सांनिध्यमात्रेणेति नाश्रयभावयोगेनेति दर्शयति। यथा सूर्यो दिवसकर इति। यथा सांनिध्यमात्रेण सूर्यो दिवसं करोतीत्युच्यते तथा विज्ञानं विजानातीत्युच्यते। कस्मात्। लोके तथा सिद्धत्वात्। निर्व्यापारं हीदमिति विस्तरः। निर्व्यापारमिति निरीहम्। अनेन हि कर्तुरर्थान्तरभूतां क्रियां प्रतिषेधति। धर्ममात्रमिति स्वतन्त्रस्य कर्तुः प्रतिषेधं करोति। हेतुफ़लमात्रं चेति। असत्यपि कर्तरि हेतुफ़लयोः कार्यकारणमर्थत्वं दर्शयति। तत्र छन्दत उपचाराः क्रियन्ते यदि वस्तु व्यवहाराङ्गम् तेनेह व्यवहारार्थसंसिद्ध्यर्थमसदपि सद्रूपेण परिकल्प्य कर्तृक्रियादिव्यवस्थानं क्रियते चक्षुः पश्यति विज्ञानं विजानातीत्येवमादि। नात्राभिनिवेष्टव्यम् भावो भवित्रपेक्षोऽन्य इत्यादि। जनपदनिरूक्तिं नाभिनिविशेतेति। जनपदस्तत्र नियता निश्चिता चोक्तिर्जनपदनिरूक्तिः तां नाभिनिविशेत कस्मात् अत्रेयं निरूक्तिरिति। न वा सर्वामेवार्थवतीं निरूक्ति कल्पयेत्। संज्ञां च लोकस्य नाभिधावेदिति। आत्मा जीव इत्येवमादिकां संज्ञा लोकस्य नाध्यारोपयेत्। अभूतसमारोपेण अस्त्यात्मा शरीरादिव्यतिरिक्त इति नातीव गच्छेदित्यर्थः। अथवा सज्ञां च लोकस्य नाभिधावेन्नातिसरेत्। अर्थाभावात् संज्ञापि नास्तीति न कल्पयेदित्यर्थः। अतिसरणमतिक्रमणमित्येकोऽर्थः।। ४२।।

[ उभाभ्यामपि चक्षुर्भ्या पश्यति व्यक्तदर्शनात्।
चक्षुःश्रोत्रमनोऽप्राप्तविषयं त्रयमन्यथा।। ३।। ]

उभाभ्यामपि

इति। अपिशब्दादेकेनापि नात्र नियमः। द्वयोर्विवृतयोः परिशुद्धतरं दर्शनमित्युक्तं भवति नैकतरान्यथीभावादिति उन्मीलितार्धनि मीलितयोरक्ष्णोरेकतरस्यान्यथीभावात्। द्वयोरेकतरद्यद्यन्यथीभवति यदि यदुन्मीलितं तदर्धनिमीलितं क्रियेत सर्वनिमीलितं वा यच्चार्धनिमीलितं यदि तत्सर्वनिमीलितं क्रियेत सर्वोन्मीलितं वा तदा द्विचन्द्रदर्शनं न भवति। अतोऽवगम्यते द्वयोरपि चक्षुषोरत्र विज्ञानोत्पत्तौ व्यापारोऽस्तीति। देशाप्रतिष्ठितत्वाद् रूपवदिति। विपरीतदृष्टान्तः। यथा रूपस्य देशप्रतिष्ठितत्वादाश्रयविच्छेदाद्विच्छेदो भवति नैवं विज्ञानस्य। न हि विज्ञानं देशप्रतिष्ठितम् किं तर्हि देशाप्रतिष्ठितममूर्तत्वात्। देशाप्रतिष्ठितत्वाच्च नाश्रयविच्छेदाद्विच्छेदो भवति।

तथाहि दूराद्रूपं पश्यतीति। यत्र रूपं दृश्यते न तत्र तद्गाहकं चक्षुरिन्द्रियमस्ति तत्र प्रमाणानुपलभ्यमानत्वात् तत्राविद्यमानदेवदत्तादिवत्। यथा चक्षुरेवं श्रोत्रमपि वक्तव्यम्। इतर आह स्वविषयदेशप्रापि चक्षुः श्रोत्रम् इन्द्रियत्वात् घ्राणेन्द्रियदिवत्। अनेनानुमानेन तत्र प्रमाणानुपलभ्यमानत्व हेतुमसिद्धं दर्शयति। आचार्य आह सति च प्राप्तविषयत्व इति विस्तरः। यदि प्राप्तविषयं चक्षुः श्रोत्रं कल्प्येत दिव्यं चक्षुःश्रोत्रमिह मनुष्येषु ध्यायिनां नोपजायेत। यदि हि चक्षुः श्रोत्रमतिविप्रकृष्टदेशस्थं व्यवहितं च कुड्यादिभिर्यथायोगं रूपं शब्दं गृहणीयादेवमस्य दिव्यत्वं संभवेत् तच्च प्राप्तविषयत्वे न स्यात्। घ्राणादिवत्। यथा घ्राणजिह्वकायाः प्राप्तविषयत्वाद्दिव्या ध्यायिनां नोपजायेरन् तद्वत्। अनेन स्वविषयदेशप्रापित्वपक्षस्य धर्मिविस्ययापक्षालत्वं दर्शयति। संभवद्दिव्यत्वे हि चक्षुः श्रोत्रे धर्मी असंभवद्दिव्यत्वभावो विशेषविपर्ययः स प्राप्नोतीति दोषः। अनेन दोषेणाननुमानत्वात् तत्प्रमाणानुपलभ्यमानत्वं सिद्धं व्यवस्थापयति। तस्मादप्राप्तविषयं चक्षुःश्रोत्रम्। यद्यप्राप्तविषयं चक्षुरिति विस्तरः। आसन्नेनातिदूरस्थेन तिरस्कृतेन वा तुल्या तदप्राप्तिरिति तत्र दर्शनं प्रसञ्जयति। किमिदं परस्य साधनमुत दूषणमिति। यदि तावदेवं साधनम् अतिदूरं तिरस्कृतं तिरस्कृतं चक्षुःश्रोत्रेण गृह्यते अप्राप्तत्वात् आसन्नविषयवदिति। तदसाधनम् हेतोः स्वयमनिश्चितत्वात् पूर्वाभ्युपगमविरोधाद्वा। अथ दूषणम् सर्वाप्राप्तग्राहकत्वं चक्षुःश्रोत्रलक्षणस्य धर्मिणः प्रसज्यते। तददूषणम् अनुमानबाधनात्। कथमित्याह कथं तावदयस्कान्तो न सर्वमप्राप्तमयः कर्षतीति। प्रश्नमुखेनायस्कान्तनिदर्शनमुपन्यस्य सर्वाप्राप्ताग्राहकत्वं चक्षुः श्रोत्रस्य साधयति न सर्वाप्राप्यग्राहकं चक्षुःश्रोत्रम् सर्वाप्राप्तग्रहणशक्तिहीनत्वात् अयस्कान्तवत्। अयस्कान्तो ह्यप्राप्तमयो गृह्णाति कर्षतीत्यर्थः न च सर्वमप्राप्त गृह्णाति तद्वच्चक्षुःश्रोत्रम्। प्राप्तविषयत्वेऽपि चैतत्समानमिति। नातिदूरतिरस्कृतो विषयश्चक्षुःश्रोत्रेण गृह्यते ग्रहणायोग्यत्वात्। संप्राप्ताञ्जनशलाकावत्। अथवा न सर्वस्वग्राह्यग्राहि चक्षुःश्रोत्रम् इन्द्रियस्वभाव्यात् घ्राणेन्द्रियादिवत्। घ्राणदीनां हि प्राप्तो विषयो न तु सर्वः सहभूगन्धाद्यग्रहणात्। घ्राणादिसहभूनि हि गन्धरसस्प्रष्टव्यानि घ्राणादिभिर्न गृह्यन्ते शक्तिहीन्द्रियाणामीदृशीति। मनस्त्वरूपित्वादिति। प्राप्तत्वं मूर्तानामेव व्यवस्थाप्येत नामूर्तानामिति मनोऽप्राप्तविषयमिति न विचारः क्रियते।

त्रयमन्यथा

इति। प्राप्तविषयमेव त्रयमिति इष्टावधारणार्थमारम्भः। अन्यथा हि प्राप्ताप्राप्तविषयमित्यपि संभाव्येत। निरूच्छासस्य गन्धाग्रहणादिति। यदुच्छासेन सार्ध सूक्ष्मं भूतचतुष्कं घ्राणमागतं तस्य गन्धो घ्राणेन घ्रायते। वायौ गन्धान्तरमुत्पन्नमित्यपरे। मिश्रीभवेयुरेकदेशीभवेयुः। अथैकदेशेन। किम्। स्गृशेयुरिति वर्तते। कथं शब्दाभिनिष्पत्तिरिति। यदि न स्पृशन्ति अनभिघाते शब्दाभिनिष्पत्तिर्न प्राप्नोतीत्यभिप्रायः। अत एवेति काश्मीराः। यदि हि स्पृशेयुर्हस्तो हस्तेऽभ्याहतः सज्जत जतुनीव जत्वन्तरम्। कथं चितं प्रत्याहतं न विशीर्यत इति। अन्योन्यमस्पृशतां परमाणूनां संघातः प्रत्याहतः पाण्यादिभिः कथ न विशीर्यते। तदेवैषां निरन्तरत्वं यन्मध्ये नास्ति किंचिदिति आलोकादि मव्ये नास्तीति निरन्तरत्वमेषां व्यवस्थाप्यते। तदेव च प्राप्तत्वम् नान्यथेति। अपि खल्विति अपि चेत्यर्थः। संघाताः सावयवत्वात्स्पृशन्तीत्यदोषः योऽसौ दोष उक्तो यदि सर्वात्मना स्पृशेयुर्मिश्रीभवेयुर्द्रव्याणि अथैकदेशेन सावयवाः प्रसज्येरन्निति। कारणं प्रतीति। यस्य यादृशं कारणं तस्य तत्कारणं स्पृष्टमस्पृष्टं वा प्रति। आह कदाचिदिति विस्तरः। स्पृष्ठहेतुकमिति स्पृष्टमन्योन्यं हेतुरस्य स्पृष्टहेतुकम्। एवमस्पृष्टहेतुकम्। यदा विशीर्यत इति। तद्यथा शुष्का मृच्चूर्णाक्रियमाणा। यदा चयं गच्छतीति। तद्यथा हिमम् तद्धि पूर्व सूक्ष्मं पश्चान्महद्भवति। चयवतां चय इति तद्यथ। मृत्पिण्डद्वयसंनिपाते। उत्तरक्षणावस्थानं स्यादिति उत्पद्य स्पृष्टियोगात्। निरन्तरे तु स्पृश्टसंज्ञेति भदन्तः भदन्तमतं चैष्टव्यमिति। वैभाषिकमतं कस्मान्नैष्टव्यम्। ननु वैभाषिकैरप्येवमुक्तम् तदेवैषां निरन्तरत्वं यन्मध्ये नास्ति किंचिदिति। अस्त्येवम्। सावकाशं तु तद्वचनम्। यन्मध्ये नास्ति किंचिदिति ब्रुवाणा वैभाषिका मध्य आलोकादि नेच्छन्ति अन्यपरमाणुप्रवेशानवकाशं तु न ब्रुवते। अन्यथा हि सान्तराणां परमाणूनां शून्येष्वन्तरेपु गतिः केन प्रतिबध्येत गतिमत इति वाक्यशेषः। अयं चापरो दोपः न च परमाणुभ्योऽन्ये संघाताः यथा वैभाषिकाः कल्पयन्ति। त एव ते संघाताः परमाणवः स्पृश्यन्ते यथा रूप्यन्त इति। संघाता एव नैक इत्यर्थः। यदि च परमाणोरिति विस्तरः। परमाण्वपरिनिष्पत्तिं वक्तु काम आचार्यो विचारयति। यदि परमाणोरेकस्य पूर्वादिदिग्भागभेदः कल्प्येत स्पृष्टस्यान्योन्यमस्पृष्टस्य वा सावयवत्वप्रसङ्गः। न चेत्। किम्। दिग्भागभेद इति वर्तते। स्पृष्टस्याप्यप्रसङ्गः। कस्य। सावयवत्वस्य। अत्र साधनम्। न निरवयवः परमाणु दिग्भागभेदवत्त्वात् माषराशिवदिति। तदेतद्दिग्भागभेदवत्त्वं नेच्छन्ति वैभाषिकाः दिग्भागभेदो हि संघातरूपाणामेव कल्प्यते। एवं च वर्णयन्ति धर्मतैवेयं यत्सप्रतिघानां भिन्नदेशत्वम् तेषां नैरन्तर्येणावस्थानादभिन्नदेशत्वं मा भूदिति सान्तराणामपि सप्रतिघत्वेन गतिः प्रतिबध्यत इति।। ४३।।

[ त्रिभिर्घाणादिभिरूतुल्यविषयग्रहणं मतम्।
चरमस्याश्रयोऽतीतः पञ्चानां सहजश्च तैः।। ४।। ]

आशुवृत्त्या च पर्वतादीनामलातचक्रादिवदिति। आत्मपरिमाणातुल्यस्यैवार्थस्य ग्रहण इष्यमाणे कथं पर्वतादीनां महतां सकृदिव ग्रहणं लक्ष्यते न क्रमेणेत्याशङ्कय युक्तिं तथा ग्रहणे कथयति। आशुवृत्त्या चेत्यादि। यथालातचक्रादिग्रहणं क्रमेण वर्तमानं सकृदिव लक्ष्यते तथा पर्वतनदीशब्दादिग्रहणमशुवृत्त्या भवतीति। आहोस्वित्तुल्यातुल्यस्येति। द्राक्षाफ़लादिर्शने तुल्यस्य वालाग्रपर्वतादिदर्शनेऽतुल्यस्येत्यभिप्रायः। उन्मिषितमात्रेणेति न क्रमदर्शनन्यायेन। एवं श्रोत्रेणेति विस्तरः। कदाचिदल्पीयांसः यदा मशकशब्दं शृणोति। कदाचित्समाः यदा श्रोत्रपरमाणुसमप्रमाणं कस्यचिच्छब्दं शृणोति। कदाचिद्भूयांसः यदा मेघशब्दं शृणोति। अजाजीपुष्पवदवस्थिताः कालजीरकपुष्पवदवस्थिताः। एकतलावस्थिता इत्यर्थः। भूर्जाभ्यन्तरावस्थिता इति। कर्णाभ्यन्तरे यद्भूर्जपत्रवर्णाकारं तर्भूर्जमिवेति भूर्जम् तदभ्यन्तरेऽवस्थिताः श्रोत्रेन्द्रियपरमाणवः। घाटाभ्यन्तरे घाटा नासापुटी। मालावदवस्थितानीति। मण्डलेन समपङ्क्तयावस्थितानीति। वालाग्रमात्रं किलेति। आगमसूचनार्थः किलशब्दः अस्फ़ुटमव्याप्तम्। स किलेति। कर्मसामर्थ्यादेवाविशरणं स्यादिति किलशब्देन अरूचि सूचयति। संचिताश्रयालम्बनत्वादिति संचिता श्रयत्वात्संचितालम्वनत्वाच्च।

चरमस्याश्रयोऽतीतः

इत्यतीत एवेत्यवधारणम्। अत एवोच्यत इति। यस्मात् पञ्च विज्ञानकाया इन्द्रियद्वयाश्रयाः चक्षुरादीन्द्रियाश्रया मन इन्द्रियाश्रयाश्च तस्माच्चतुष्कोटिक उतिष्ठते। प्रथमा कोटिश्चक्षुरिति। चक्षुर्विज्ञानस्य चक्षुराश्रयभावेन न समनन्तरप्रत्ययभावेन। न हि चक्षुश्चित्तचैत्तस्वभावम्।

चित्तचैत्ता अचरमा उत्पन्नाः समनन्तरः

इति च समनन्तरप्रत्ययलक्षणम्। द्वितीया कोटिः समनन्तरातीतश्चैतसिको धर्मधातुः। तस्य समनन्तरभावेन नाश्रयभावेन। पडेव ह्याश्रया विज्ञानस्येष्यन्ते चक्षुरादयो मनःपर्यन्ता नान्ये। तृतीया समनन्तरातीत मनः। उभयलक्षणयुक्तत्वात्। चतुर्थो उक्तनिर्मुक्ता धर्माः। कोटित्रयमुक्ता विप्रयुक्ता असंस्कृतादयः। एवं यावत्कायविज्ञानस्य स्वमिन्द्रियं वक्तव्यमिति। यः श्रोत्रविज्ञानस्याश्रयभावेन समनन्तरातीतं मनः। चतुर्थी कोटिरूक्तनिर्मुक्ता धर्मा इति।एमन्यदपि वक्तव्यम्। मनोविज्ञानस्य पूर्वपादक इति। यो मनोविज्ञानस्याश्रयभावेन समन्तरप्रत्ययभावेनापि स तस्येति पूर्वपादकः। यस्तावदाश्रयभावेन समनन्तरप्रत्ययभावेनापि स इति। मनस्तावदवश्यमसौ समनन्तरप्रत्ययः स्यात्। समन्तर प्रत्ययभावेन नाश्रयभावेन समनन्तरातीतश्चैतसिको धर्मधातुः अचक्षुराद्याश्रयषट्स्वभावत्वा।। ४४।।

[ तद्विकारविकारित्वादाश्रयश्चक्षुरादयः।
अतोऽसाधारणत्वाच्च विज्ञानं तै निरूच्यते।। ४५।। ]

तद्विकारविकारित्वात्

इति विस्तरः। तेषां चक्षुरादीनां विकारस्तद्विकारः तद्विकारेण विकारः तद्विकारविकारः स एषामस्तीति तद्विकारविकारीणि विज्ञानानि तद्भावः तद्विकारविकारित्वम्। तस्माच्चक्षुरादय एवैषामाश्रया इत्यवधार्यते। अनुग्रहोपघातपटुमन्दतानुविधानादिति। चक्षुरादीनामञ्जनादिभिरनुग्रहं रेण्वादिभिश्चोपघातं चक्षुरादिविज्ञानान्यनुविदधते ससुखोत्पादात्सदुःखोत्पादाच्च यथाक्रमम्। पटुमन्दतां च तेषामनुविदधते पटुमन्दतोत्पादातू। अतोऽवगम्यते चक्षुरादिविकारेण विज्ञानविकारो भवतीति। ननु च पटुनि रूपे पटु चक्षुर्विज्ञानमुत्पद्यमानं दृश्यते मन्दे मन्दमिति। तेषां चक्षुरादीनाम्। यद्यपि रूपस्य पटुमन्दते चक्षुर्विज्ञानमनुविदधीत विधुरावस्थयोस्तु चक्षूरूपयोश्चक्षुरवस्थामेव चक्षुर्विज्ञानमनुविधत्ते न रूपावस्थाम्। तथा हि चक्षुष्यनुगृहीते रूपे चोपहते तद्वीतरागाणां मध्यस्थानां च चक्षुर्विज्ञानमविकारमुत् पद्यते न तु सदुःखमुत्पद्यते। रूपे पुनरनुगृहीतेऽपरित्यके चक्षुषि चोपहते कामलव्याधिना तिमिरोपघातेन वा पीतदर्शनं भ्रान्तं केशोण्डुकादिदर्शनं वा प्रवर्तते। तथा पटुनि रूपे जरया मन्दे चक्षुषि मन्दं चक्षुर्विज्ञानमुत्पद्यते। एवं मन्दे रूपे चक्षुर्यद्यतिपटु भवेत्पटु चक्षुर्विज्ञानमुत्पद्यते। तथा हि जातिस्वभावेन पटुनि गृधचक्षुषि मन्देऽपि शवरूपेऽनेकयोजनविप्रकृष्टेऽपि चक्षुर्विज्ञानमुत्पद्यते। इत्येवं श्रोत्रादीन्यपि योज्यानि।

अतोऽसाधारणत्वाच्च

इति। अत आश्रयभावात् असाधारणत्वाच्च। आश्रयभावो व्याख्यात इति न तं प्रत्याद्रियते। असाधारणत्वमेव तु व्याचक्षाण आह कथमसाधारणत्वमित्यादि। अन्यचक्षुर्विज्ञानस्यापीति अन्यसन्तानविज्ञानस्यापीत्यर्थः। तैरेव निदिश्यत इति चक्षुरादिभिः चक्षुर्विज्ञानं यावन्मनोविज्ञानम् न रूपादिभिः रूपविज्ञानं यावद्धर्मविज्ञानम्। यथा भेरीशब्दो यवाङ्कुर इति। असाधारणत्वात्ताभ्यां भेरीयवाभ्याम् यथा निर्देशो लोके भेरीशब्दो यवाङ्कुर इति न तु दण्डशब्दः क्षेत्राङ्कुर इति वा। दण्डो हि पटहादिशब्दस्यापि कारणीभवेत् क्षेत्रं च शालिगोधूमाङ्कस्यापि इत् इसाधारणत्वान्न ताभ्यां निर्देशः क्रियते। असाधारणाभ्यां तु भेरीयवाभ्यां निर्देशः। तद्वदिहापि द्रष्टव्यम्। अपि खलु चक्षुरिव विज्ञानम् उभयोः सत्त्वसंख्यातत्वात् रूपं त्वसत्त्वसंख्यातमपि। चक्षुषा विज्ञानम् चक्षुर्विज्ञानम् तस्य कारणभावत् चक्षुषे विज्ञानं चक्षुर्विज्ञानम् सुखदुःखवेदनासंप्रयुक्तस्य विज्ञानस्य चक्षुरनुग्रहोपघातप्रवृत्तत्वात् चक्षुषो विग़्यानं चक्षुर्विज्ञानम् असाधारणत्वेन ततः प्रवृत्तेः। चक्षुषो विज्ञानं चक्षुर्विज्ञानम् सत्त्वसंख्यातस्यैव स्वामिभावात्। चक्षुषि विज्ञानं चक्षुर्विज्ञानम्। तत्संप्रयोगिन्याः सुखाया दुःखाया वा वेदनायाः चक्षुष्येव परिच्छिद्यमानत्वात्। एवं श्रोत्रादिषु योज्यम्। तदेवं चक्षुरादिभिरेव विज्ञाननिर्देशो युज्यते न रूपादिभिः। एवं तृतीयचतुर्थध्यानभूमिकेन चक्षुषा तद्भूमिकाधरभूमिकानि रूपाणि पश्यतो योजयितव्यमिति तस्यैव कामधातूपपन्नस्य योजयितव्यम्। एवं तृतीयादिध्यानचक्षुषा योज्यमिति। तस्यैव प्रथमध्यानोपपन्नस्य तृतीयचतुर्थध्यानचक्षुषा पश्यतो योज्यम्।। ४५।।

[ न कायस्याधरं चक्षुरूर्ध्वं रूप न चक्षुषः।
विज्ञानं चास्य रूपं तु कायस्योभे च सर्वतः।। ४६।। ]

न कायस्याधरं चक्षुः

इति अधरभूकमित्यर्थः। स्वभूमिकमूर्ध्वभूमिकं चाभ्यनुज्ञातं भवति। पञ्चभूमिकानि हि कायचक्षरूपाणि। कायः शरीरम्। एतानि कायादीनि पञ्चभूमिकानि कामावचराणि प्रथमध्यानभूमिकानि यावच्चतुर्थध्यानभूमिकानि आरूप्यधातावभावात्। द्विभूमिकं चक्षुर्विज्ञानमिति कामाव्चरं प्रथमध्यानभूमिकं च तयोवितर्कविचारसद्भावात् चक्षुर्विज्ञानस्य चावश्यं सवितर्कविचारत्वात्।

ऊर्ध्व रूपं न चक्षुषः

इति नोर्ध्वभूमिकं रूपं चक्षुषो विषयो भवति ऊर्ध्वभूमिकस्य रूपस्य सूक्ष्मत्वात्। स्वभूमिकमधरभूमिकं चाभ्यनुज्ञातं भवति।

विज्ञानं च

किम् ऊर्ध्व न चक्षुष इति प्रकृतम्।ऊर्ध्व न चक्षुष इति प्रकृतम्। कामावचरस्य चक्षुषोऽधरभूमिकस्य प्रथमध्यानभूमिकं चक्षुर्विज्ञानं न भवति। स्वभूमिकमधरभूमिकं वाभ्यनुज्ञातं भवति। कामावचरस्य चक्षुषः स्वभूमिकं कामावचरमेव चक्षुर्विज्ञानं भवति। प्रथमध्यानभूमिकस्य चक्षुषः प्रथमध्यानभूमिकमेव चक्षुर्विज्ञानं भवति कामावचरं तु चक्षुर्विज्ञानमस्य न भवति। ननु चोक्तमधरभूमिकमभ्यनुज्ञातमिति। सत्यमुक्तमेतत्। किन्तु असत्यात्मीयेऽधरभूमिकमिष्यते न सतीति। द्वितीयतृतीयचतुर्थध्यानचक्षुष्ःओ ह्यसति आत्मीये प्रथमध्यानभूमिकमेवाधरं चक्षुर्विज्ञानं भवति न तु कामावचरम् परमनिहीनत्वात्। संभवतस्त्वेवमुक्तमघरभूमिकमभ्यनुज्ञातमिति। अस्येत्यनन्तरोक्तस्य चक्षुर्विज्ञानस्येति चक्षुर्विज्ञानजातेः रूपं सर्वतो विषयः। संभवतस्तु योज्यम्। कामावचरस्य चक्षुर्विज्ञानस्य स्वभूमिकमेव रूपम् प्रथमध्यानभूमिकस्य तु प्रथमध्यानभूमिकचक्षुराश्रयस्य चक्षुर्विज्ञानस्य स्वभूमिकमधरभूमिकमूर्ध्वभूमिकं च रूपं विषयः चौर्थध्यानभूमिकचक्षुराश्रयस्य तु चतुर्थध्यानभूमिकं रूपं ततश्चाधरभूमिकम् सर्वं विषयः। एवं यावद्द्वितीयध्यानभूमिकचक्षराश्रयस्य द्वितीयध्यानभूमिकम् ततश्चाधरभूमिकं रूपं विषयः। एवं चक्षुर्विज्ञानजातेरूर्ध्वमधः स्वभूमौ च रूपं विषयो भवति। कायस्य चोभे रूपविज्ञाने सर्वतो भवत इति। कामावचरस्य कायस्य शरीरस्य स्वभूमिकोर्ध्वभूमिके रूपविज्ञाने भवतः। प्रथमध्यानभूमिकस्य कायस्य प्रथमध्यानभूमिकमेव विज्ञानम् रूपं तु स्वोर्ध्वाधरभूमिकम्। यथा स्वश्रयं चक्षुः द्वितीयादिध्यानभूमिकस्य कायस्य विज्ञानमधरभूमिकमेव प्रथमध्यानभूमिकमेवेत्यर्थः। रूपं तु द्वितीयतृतीयध्यानभूमिकस्य कायस्य स्वोर्ध्वाधरभूमिकम् यथा स्वाश्रयं चक्षुः। चतुर्थध्यानभूमिकस्य कायस्य रूपं स्वाधरभूमिकम् तत ऊर्ध्वं रूपाभावात्।। ४६।।

[ तथा श्रोत्र त्रयाणां तु सर्वमेव स्वभूमिकम्।
कायविज्ञानमधरस्वभूम्यनियतं मनः।। ४७।। ]

तथा श्रोत्रम्

इति। यथा चक्षुरूक्त तथा श्रोत्रं व्याख्यातव्यम्। कथमिति अथ यत्र काये स्थितः श्रोत्रेण शब्दान् शृणोति किं तानि कायश्रोत्रशब्दविज्ञानान्येकभूमिकान्येव भवन्ति आहोस्विदन्यभूमिकान्यपि। आह सर्वेषां भेदः। कामधातूपपन्नस्य स्वेन श्रोत्रेण स्वान् शब्दान् शृण्वतः सर्वं स्वभूमिकं भवतीति विस्तरेणानया दिशा ग्रन्थो वक्तव्यो यावदयं तु नियमः।

न कायस्याधरं श्रोत्रमूर्ध्वं शब्दो न च श्रुतेः।
विज्ञानं चास्य शब्दस्तु कायस्योभे च सर्वतः।।

इति विस्तरेण योज्यम्। कथमिति। न कस्याधरं श्रोत्रम्। पञ्चभूमिका हि कायश्रोत्रशब्दाः कामावचरा यावच्चतुर्थध्यानभूमिकाः। द्विभूमिकं श्रोत्रविज्ञानम् कामावचरं प्रथमध्यानभूमिकं च। तत्र यद्भूमिकः कायस्तद्भूमिकमूर्ध्वभूमिकं वा श्रोत्र भवति न त्वधरभूमिकम्। यद्भूमिकं श्रोत्रं तद्भूमिकोऽधरभूमिको वास्य शब्दो विषयो भवति ऊर्ध्व शब्दो न च श्रुतेः। न हि कदाचिदूर्ध्वभूमिकः शब्दोऽधरभूमिकेन श्रोत्रेण श्रोतुं शक्यते। विज्ञानं च ऊर्ध्वं न श्रोत्रस्य शब्दवत्। अस्य शब्दस्तु कायस्योभे च सर्वतः अस्येत्यनन्तरोक्तस्य श्रोत्रविज्ञानस्य शब्दः सर्वतो विषयः ऊर्ध्वमधः स्वभूमौ च। कायस्य चोभे शब्दविज्ञाने सर्वतो भवत इति।

अनियतं मनः

इति। यथा चक्षुः श्रित्रं वा नियमितम् न कायस्याधरं चक्षुः श्रोत्रं वेत्येवमादिना नैवं नियमितं मनः। अत एवाह पञ्चभूमिकेऽपि काये सर्वभूमिकानि मन आदीनि भवन्तीति। मनोधर्ममनोविज्ञानानि सर्वभृमिकानि कामावचराणि यावद्भावाग्रिकाणि। तद्यथा कामधातूपपन्नो यदि कामावचरान्मनसोऽनन्तरं कामावचरमेव कामावचरधर्मालम्बनं मनोविज्ञानमुत्पादयति सर्वाणि कामवचराणि। यदि प्रथमध्यानभूमिकाद्यावद्भावग्रभूमिकादुपपत्तिकाले समापत्तिकाले वा संभवतः कामावचरं तथैव मनोविज्ञानमुत्पादयति मनस्ततस्त्यम् शेषाणि कामावचराणि। अथ तत्रैव तद्विज्ञानमुत्पादयति धर्मास्त्वालम्वनं प्रथमध्यानभूमिका यावद्भवाग्रभूमिकाः धर्मास्ततस्त्याः शेषाणि पूर्ववत्। एवं प्रथमध्यानोपपन्नो यावद्भवाग्रोपपन्नो यथायोगं वक्तव्यः।


अभ्धर्मकोशव्याख्याम्
द्वितीयं कोशस्थानम्

[ चतुर्ष्वर्थेषु पञ्चानामाधिपत्यं द्वयोः किल।
चतुर्णा पञ्चकाष्टानां संक्लेशव्यवदानयोः।। १।। ]

उक्तानीन्द्रियाणीति। प्रथमस्य द्वितीयस्य च कोशस्थानस्य सम्बन्धोपनिपततां दर्शयन्नाह उक्तानीन्द्रियाणीति। प्रथमकोशस्थानावसाने यस्मात् धर्मार्ध इन्द्रियम् इत्युक्त तस्मादिदमायातमिति सम्बन्धः। कः पुनरिन्द्रियार्थ इति। वैयाकरणै रन्यथा इन्द्रियशब्दार्थव्युत्पत्तिः कृतेत्यतः प्रश्नयति कः पुनरिन्द्रियार्थ इति। इदि परमैश्वर्य इति पठ्यते। तस्य धातोरिन्दन्तीतीन्द्रियाणीति रूपं द्रष्टव्यम्। कथं कृत्वा इन्दन्तीति इन्द्राणि रप्रत्यय औणादिकः इन्द्राण्येवेन्द्रियाणीति स्वार्थे घस्तद्धितः। अथवा इन्दतीतीन्द्रियम् बहुत्वात्तु बहुवचनेन कृतो निर्देश इन्दन्तीतीन्द्रियाणीति तस्मात् इन्दतीत्यस्य शब्दस्य इन्द्रियमित्यादेशः। कथम् अवर्णस्य रभावः तिशब्दस्य चेयादेशः तेन नैरूक्तेन विधानेनेन्द्रियमिति भवति। तद् यथा कुञ्जर इति। वैयाकरणैर्हि कुञ्जोऽस्यास्तीति कुञ्जर इति मत्वर्थोयेन कुञ्जरशब्दो व्युत्पाद्यते। नैरूक्तैस्तु तदनादृत्य कुञ्जरः कुञ्जचारित्वादिति नैरूक्तेन न्यायेन साध्यते। तद्वदिहापि द्रष्टव्यम्। यदि वैयाकरणनयेन इन्द्रस्य लिङ्गमिन्द्रियमिति व्युत्पाद्येत आधिपत्यार्थ इन्द्रियार्थो हीयेत आधिपत्यार्थश्चेत्ष्यते तस्मादित्थमिन्द्रियशब्दस्य व्युत्पत्तिर्नैष्टव्येति। दृष्टा श्रुत्वा च विपमपरिवर्जनादिति। दृष्ट्वा श्वभ्रादि श्रुत्वा च व्याघ्रादिरूतं श्वभ्रादिव्याघ्रादिरूतविषमपरिवर्जनात्। ससंप्रयोगयोरिति सचैतसिकयोः। रूपदर्शनशब्दश्रवणयोश्चेति। चक्षुः पश्यति श्रोत्रं शृतीत्यादि वैभाषिकाणां सिद्धान्तः। तेनालोचनविशेषलक्षणयोर्दर्शनश्रवणयोरसाधारणकारणत्वे चक्षुःश्रोत्रयोराधिपत्यम्। आत्मभावशोभायां पूर्ववदिति। अघ्राणादीनां सत्त्वानामकान्तरूपत्वादकान्तात्मभावत्वादित्यर्थः। तैः कवडीकाराहारपरिभोगादिति। तैर्घाणादिभिस्तत्परिभोगादिति। कथं गन्धस्य कवडीकाराहारत्वम् नासिकया गन्धग्रासव्यवच्छेदेन कवडीकरणात्। कथं स्प्रष्टव्यस्य कवडीकाराहारत्वम् कायेन स्नानाभ्यङ्गदिकस्प्रष्टव्यस्य रोमकूपमुखग्रासव्यवच्छेदेन कवडीकरणात्।

द्वयोः किल

इति किलशब्दः परमतद्योतने। स्वमतमस्य पश्चात् वक्ष्यते। द्वयोरिति प्रत्येकमभिसम्बन्धः। सत्त्वभेदः स्त्रीपुरूष इति। स्त्रीत्येको निकायसभागः पुरूष इत्यपरस्तयोर्भेदः सत्त्वविकल्प इति स्तनादेः संस्थानस्य स्वरस्याचारस्य चान्यथात्वं विशेष इत्यर्थः। संक्लेशव्यवदानयोरित्यपर इति पूर्वाचार्यः। न सत्त्वभेदविकल्पयोरन्तरेणापि पुरूषेन्द्रियं रूपावचराणां विकल्पसिद्धेः। विकल्पकृतश्च सत्त्वभेद इत्यभिप्रायः। तद्वियुक्तिविकलानामिति। वियुक्ताश्च ते विकलाश्च वियुक्तविकलाः। ताभ्यां स्त्रीपुरूषेन्द्रियाभ्यां वियुक्तविकलास्तद्वियुक्तविकलाः। के श पण्डकोभयव्यञ्जनाः। तद्वियुक्ताः शण्ठपण्डकाः। तेषां स्त्रीपुरूषेन्द्रियाभावात्। शण्ठपण्डकानां पुनः कः प्रतिविशेषः। शण्ठकाः स्वभावतो निःस्त्रीपुरूषेन्द्रियाः। पण्डका उपक्रमेणोपहतेन्द्रियाः। विनये तु पण्डका एव पञ्च पठ्यन्ते। प्रकृतिपण्डक ईर्ष्यापण्डकः पक्षपण्डक आसेकपण्डको लूनपण्डकश्चेति। तत्र प्रकृतिपण्डकः शण्ठ इहाभिप्रेतः। यस्य हि प्रकृत्या व्यञ्जनं नास्ति स प्रकृतिपण्डकः। शेषा इह पण्डका इष्यन्ते। लूनपण्डको हि तावदिन्द्रियच्छेदादिन्द्रियविकल इति स्फ़ुट एषः। पक्षपण्डकादयस्त्विन्द्रियाकर्मणयत्वेन तद्विकला एव इन्द्रियकर्मणयत्वकालेऽपि तद्विकला इति व्यवस्थाप्यन्त एव तदिन्द्रियकर्मण्यत्वस्य पुरूषसुखविशेषाजनकत्वात् प्रसवाजनकत्वाच्च। इन्द्रियसद्भावाशङ्कानिवृत्त्यर्थमेव चेह शण्ठपण्डका इति पृथक् पाठः। अन्यथा हि विनयवदिहाप्यभिधर्मे पण्डका इत्येवं पठ्येरन्। उभयव्यञ्जनास्तद्विकलाः स्थानभ्रशवैकल्यादल्पसुखहेतुत्ववैकल्याच्च। अपरे व्याचक्षते तद्वियुक्ताः शण्ठाः तद्विकलाः पण्डका उपक्रमवैकल्यात्। उभयव्यञ्जनाश्च तद्विकलाः स्थानभ्रशवैकल्यादल्पसुखहेतुत्ववैकल्याच्चेति। तेषामसंवरादीनि न भवन्ति।

नृणामसंवरो हित्वा शण्ठपण्डद्विधाकृतीन्।
आनन्तर्य शण्ठादीनां तु नेष्यते अल्पोपकारालज्जित्वात्।
छिनत्ति स्त्रीपुमान् दृष्टिचरितः

इति वचनात्। स्त्रीपुरूपाणां तु तानि भवन्ति। अतः संक्लेशे आधिपत्यं स्त्रीपुरूषेन्द्रिययोः। संवरफ़लप्राप्तिवैराग्याणि चेति। संवरस्त्रिविधः प्रातिमोक्षसंवरो ध्यानसंवरोऽनास्रवसंवरश्च। तेषामेकोऽपि संवरो न भवति किमङ्ग सर्वः

संवरोऽप्येवम्

इति वचनात्। अत एव च स्रोत आत्त्यादिफ़लप्राप्तिः। कामादिवैराग्यञ्च तेषां न सम्भवति। स्त्रीपुरूषाणां तु भवतीति। अतो व्यवदानेऽपि स्त्रीपुरूषेन्द्रिययोराधिपत्यमिति। निकायसभागसम्बन्धसन्धारणयोरिति। जीवितेन्द्रियस्य निकायसभागोत्पत्तौ निकायसभागसम्बन्धे तस्याधिपत्यं व्यवस्थाप्यते। निकायसभागसन्धारणे चाधिपत्यं। जीवितेन्द्रियवशेन तदूर्ध्वमवस्थानात्। मन इन्द्रियस्य पुनर्भवसम्बन्ध इति क्लिष्टेन पुनर्भवसम्बन्धात्। जीवितेन्द्रियादस्य को विशेषः जीवितेन्द्रियस्य अन्तराभाव एव सम्बन्धनं मन इन्द्रियस्य तूपपत्तिभवेऽपि। समानकालञ्च जीवितेन्द्रियं निकायसभागेन तत्सम्बन्धनं करोति। मन इन्द्रियं तु भिन्नकालमपि पुनर्भवे तत्सम्बन्धन करोति। वशिभावानुवर्तन इति। चित्तस्य वशिभावमनुवर्तते लोको धर्मो वा यथोक्तम्। चित्तेनायं लोको नीयत इति विस्तरः। गाथायामप्युक्तम्

चित्तेन नीयते लोकश्चित्तेन परिकृष्यते।
एकधर्मस्य चित्तस्य सर्वधर्मा वशानुगाः।।

इति। रागादीनां तदनुशयित्वादिति तेषु सुखादिष्वनुशायितुं शीलमेषामालम्बनतः संप्रयोगतो वा त इमे तदनुशायिनो रागादयः तद्भावस्तदनुशायित्वम् तस्मादिति। यथोक्त सुखायां वेदनायां रागोऽनुशेते। दुःखायां द्वेषः अदुःखासुखायां मोह इति। तैर्हि व्यवदायत इति। तैर्विशुध्यतीत्यर्थः। तदेवं क्लेशविशुद्धावेषां श्रद्धादीनामाधिपत्यमुक्तं भवति। व्यवदानेऽपि सुखादीनामाधिपत्यमित्यपर इति। न केवलं संक्तेशे सुखादीनामाधिपत्यम्। किं तर्हि व्यवदानेऽपीत्यपिशब्दस्यार्थः। आभिधार्मिकाः केचिदेवमाहुः। व्यवदानेऽपि तेषामाधिपत्यमस्तीत्यागसमानयन्ति। यस्मात् सुखितस्य चित्तं समाधीयत इत्युक्तं सूत्रे। दुःखोपनिपच्छद्धा। दुःखमुपनिपदस्याः सेयं श्रद्धा दुःखोपनिषद् दुःखहेतुकेत्यर्थः। दुःखे सति कस्यचिद्धर्मे रत्नत्रये वा श्रद्धा जायते प्रव्रज्यां वाभिलपति। षण्णैष्क्रम्याश्रिताः सौमनस्यादय इति। पण्णैष्क्रम्याश्रितानि सौमनस्यानि पण्णैष्क्रम्याश्रितानि दौर्मनस्यानि पण्णैष्क्रम्याश्रिता उपेक्षाः। नैष्क्रम्यं सास्रवोऽनास्रवो मार्गः। धातोः संसारद्वा निष्क्रमणं वैराग्यमित्यपरे। यथोक्त सूत्रे चक्षुर्विज्ञेयानि रूपाणि प्रतीत्योत्पद्यते सौमनस्य नैष्क्रम्याश्रितं नष्क्रम्यालम्बनमित्यर्थः नैष्क्रम्यानुकूलमिति वा। एवं यावन्मनः प्रतीत्य धर्माश्चोत्पद्यते सौमनस्यं नैष्क्रम्याश्रितमिति। तथा चक्षुर्विज्ञेयानि रूपाणि प्रतीत्योत्पद्यते दौमनस्यं नैष्क्रम्याश्रिता। एवं यावन्मनः। नैष्क्रम्यं प्राप्स्यामीति कस्यचित् सौमनस्यम्। न नैष्क्रम्याय मय यत्नः क्रियत इति कस्यचिद्दौमनस्यम्। कस्यचित् प्रतिसंख्यायोपेक्षा तेषु रूपादिषु भवति।

अपरे पुनराहुरिति सौत्रान्तिकाः। विज्ञाय विषमपरिहारदिति। विज्ञानेन विषमपरिहारः क्रियते न चक्षुःश्रोत्रेणेत्यभिप्रायः। नापि विज्ञानादन्यद्रूपदर्शनं शब्दश्रवणं वास्तीति। न रूपदर्शनं ग्रहणव्यतिरिक्तं विचार्यमाणं लभ्यते ग्रहणं च विज्ञानमेवेति नान्यद्भवति। तस्माच्चक्षुःश्रोत्रविज्ञानयोः ससंप्रयोगयोरूत्पत्तौ यदाधिपत्यमुक्त तदेव तद्भवति। नान्यत्राधिपत्यमेतदित्यभिप्रायः।। १।।

[ स्वसार्वार्थोपलब्धौ त्वाधिपत्यादिन्द्रियाणि षट्।
स्त्रीत्वे पुंस्त्वे चाधिपत्यात् कायात् स्त्रीपुरूषेन्द्रिये।। २।।
निकायस्थितिसंक्लेशव्यवदानाधिपत्यतः।
जीवित वित्तिश्रद्धादि पञ्चकेन्द्रियता मताः।। ३।।
निर्वाणाद्युत्तरोत्तरप्रतिलम्भाधिपत्यतः।
अनाज्ञातमाग़्यास्याम्याज्ञाज्ञातावीन्द्रियाणि च।। ४।। ]

मनसः पुनः सर्वार्थोपलब्धाविति

स्वार्थोपलब्ध्याधिपत्यात्

इत्येव सिद्धे मनसः सर्वार्थोपलब्धाविति वचनं धमेधातोरसर्वधर्मस्वभावत्वात्। व्याख्यातञ्चैतत् पुरस्तात्। ननु चार्थानामप्यत्राधिपत्यमिति। द्वयं प्रतीत्य विज्ञानस्योत्पत्तिरिति वचनात्। अधिकं हि प्रभुत्वमाधिपत्यमिति अधिकः प्रभुरधिपतिस्तद्भाव आधिपत्यमिति। सवरूपोपलब्धौ सामान्यकारणत्वादिति नीलपीतादिसर्वरूपोपलब्धौ एकरूपस्य चक्षुषः कारणत्वात्। न तु रूपस्यैकरूपस्य नीलपीतादिसर्वरूपोपलब्धौ कारणत्वम्। न हि नीलरूपं पीतरूपोपलब्धौ कारणं भवति। तत् पटुमन्दताद्यनुविधानाच्चोपलब्धेरिति। यस्मादुपलब्धिश्चक्षुरादिपटुमन्दतानमनुविधत्ते। तद्यथा पटुनि चक्षुषि पटी तदुपलब्धिः मन्दे मन्देति। आदिशब्देन अकुशलकुशलसंवदनावेदनानुविधानम्। अकुशले मनसि अकुशलोपलब्धिः कुशले कुशला सवेदने सवेदना अवेदने चावेदनेति। न रूपस्य पटुमन्दताद्यनुविधत्ते उपलब्धिः। तेनाह तद्विपर्ययादिति। तस्माच्चक्षुरादीनामधिकमैश्वर्य न रूपादीनाम्।

कायात् स्त्रीपुरूषेन्द्रिये

इति। अत्र साधनम् कायेन्द्रियस्वभावं स्त्रीपुरूषेन्द्रियम् स्प्रष्टव्यविज्ञानजनकत्वात् अस्त्रीपुरूषेन्द्रियस्वभावकायेन्द्रियवत्। वैधर्म्येण चक्षुरिन्द्रियवत्। स्त्रयाकृतिस्वरचेष्टाभिप्राया इति। स्त्रयभिप्रायः पुरूषाभिप्रायो विपर्ययेण। तदेवं सति सत्त्वविकल्प एव स्त्रीपुरूषेन्द्रिययोराधिपत्यम्।

निकायसभागस्थितौ जीवितेन्द्रियस्याधिपत्यम्। न तु वैभाषिकवत् निकायसभागसम्बन्धे तत्र मनस एवाधिपत्यात्। संक्लेशे वेदनानामिति। अत्र वैभाषिकैः सार्धमैकमत्यम्। तथाहि तैरिति विस्तरः। तथाहि तैः श्रद्धादिभिः क्लेशाश्च विस्कम्भ्यन्ते लौकिकमार्गगतैर्मार्गश्चावाह्यते निर्वेधभागीयादिगतैः। तदेवं व्यवदानसम्भारे श्रद्धादीनां प्रत्येकमाधिपत्यमुक्त भवति।

न ह्यविमुक्तचित्तस्यास्ति परिनिर्वाणमिति। आज्ञातावीन्द्रियं क्षयज्ञानाद्यनास्रवमिन्द्रियम्। तदेव च विमुक्त क्लेशविमुक्त्या सन्तानविमुक्त्या च। तत्प्राप्तस्य निरूपधिशेषनिर्वाणं भवति। तस्मादाज्ञातावीन्द्रियस्य निरूपधिशेषनिर्वाण आधिपत्य व्यवस्थाप्यते। दृष्टधर्मसुखविहारं प्रतीति विस्तरः। दृष्टो धर्मो दृष्टधर्मः दृष्टजन्मेत्यर्थः। सुखो विहारः सुखविहारः। दृष्टधर्मे सुखविहारः दृष्तधर्मसुखविहारः। तं प्रत्याज्ञातावीन्द्रियस्याधिपत्यं विमुक्तिप्रीतिसुखप्रतिसंवेदनादिति। विमुक्तिः क्लेशप्रहानं प्रीतिः सौमनस्यं सुखं प्रस्रब्धिसुखं विमुक्त्या प्रीतिसुखस्य प्रतिसंवेदनं विमुक्तिप्रीतिसुखप्रतिसंवेदनम् तस्मादिति। तदुक्त भवति विमुक्तिप्रीतिसुखप्रतिसंवेदनमेव दृष्टधर्मसुखविहार इति।। २-४।।

वाक्पाणिपादपायूपस्थानामपि चेन्द्रियत्वमुपसंख्यातव्यमिति। सांख्याश्चक्षुरिन्द्रियादिव्यतिरिक्तानि वागिन्द्रियादीनि कल्पयन्ति वागिन्द्रियं येन व्चनं क्रियते पाणीन्द्रियं येन किञ्चिद् द्रव्यमादीयते। पादेन्द्रियं येन विहरणं येन वचनं क्रियते चंक्रमणमित्यर्थः पाव्विन्द्रियं येन पुरीषोत्सर्गः क्रियते उपस्थेन्द्रियं कायेन्द्रियैकदेशव्यतिरिक्त येनानन्दः सुखविशेषः प्राप्यते। न खलूपसंख्यातव्यमावद्यादीनामिन्द्रितय्तं येनार्थेन भगवता द्वाविंशतिरिन्द्रियाण्युक्तानि। तत्राविद्यादीनामयोगात्। कोऽसावर्थ इत्याह

[ चित्ताश्रयस्तद्विकल्पः स्थितिः संक्लेश एव च।
संभारो व्यवदानञ्च यावदेतावदिन्द्रियम्।। ५।। ]

चित्ताश्रयस्तद्विकल्पः

इति विस्तरः। चित्तस्याश्रयस्तदाश्रयस्य विकल्पो स्थितिः संक्लेशः व्यवदानसंभारो व्यवदानञ्चेति। एतच्च षडायतनं मौलं सत्त्वद्रव्यमिति तदितरेषां तदाश्रितत्वात्। तथाहि षडिन्द्रियाधिपत्यसंभूतमिन्द्रियाधिष्ठानम्। षड् वा विषया विज्ञानकायाश्च। तदेतदपि सत्त्वद्रव्यमिष्यते न तु मौलम्। न ह्यधिष्ठानाद्याधिपत्यसंभूतं षडायतनमिति। व्यवदानसंभरणं पञ्चभिरिति श्रद्धादिभिः। व्यवदानं त्रिभिरिति अनाज्ञातमाज्ञास्यामीन्द्रियादिभिः।। ५।।

अपरः कल्पः।

[ प्रवृत्तेराश्रयोत्पत्तिस्थित्युपभोगतोऽथवा।
चतुदेश तथान्यानि निवृत्ताविन्द्रियाणि च।। ६।। ]

प्रवृत्तेराश्रयोत्पत्तिरिति विस्तरः प्रवृत्तिपक्षं निवृत्तिपक्षं चाधिकृत्योच्यते। प्रवृत्तेः संसारस्याश्रय उत्पत्तिः। स्थितिरूपभोगश्च निवृत्तेरपि निर्वाणस्याश्रध उत्पत्तिः स्थितिरूपभोगश्च। एतावता च पुरूषार्थपरिसमाप्तिरिति। निरर्थिका तदन्येन्द्रियप्रज्ञप्तिः भवतामपि पुरूषार्थपरिसमाप्तिः पठ्यते। तस्य शब्दाद्युपलब्धिरादिर्गुणपुरूषान्तरोपलब्धिरन्त इति। तत्र षडायतनं मूलसत्त्वद्रव्यभूतं संसरतीति प्रवृत्तेराश्रयः। उत्पत्तिस्त्रीपुरूषेन्द्रिय इति। उत्पद्यतेऽस्या इत्युत्पत्तिः। कस्मादित्याह तत उत्पत्तेः। कस्य षडायतनस्य। मनःकायेन्द्रिययोः साक्षात्ताभ्यामुत् पत्तेश्चक्षुरादीनां चतुर्णा क्रमेणोत्पत्तेः स्थितिजीवितेन्द्रियेण षडायतनावस्थानात्। उपभोगो वेदनादिभिः। सुखादिभिः। श्रद्धादयो हि निवृत्तेराश्रय इति श्रद्धादीनां प्रतिष्ठाभूतत्वात्। आज्ञास्यामीन्द्रियं प्रभव इत्यादिभवः प्रथमतोऽनास्रवोत्पत्तेः। स्थितिराज्ञेन्द्रियं प्राबन्धिकत्वात्। उपभोग आज्ञातावीन्द्रियेणेति तेन विमुक्तिप्रीतिसुखप्रतिसंवेदनात्। अत एतावन्त्येवेन्द्रियाणीति नाविद्यादीनामिन्द्रियत्वमिष्टमित्यर्थः। अत एव चैषामेषोऽनुक्रम इति। चक्षुरिन्द्रियं यावदाज्ञातावीन्द्रियमिति प्रवृत्तिनिर्वृत्योराश्रयादिभावात्। वाचस्तु नेन्द्रियत्वं वचने शिक्षाविशेषापेक्षत्वात्। जातमात्रो हि बालको विनैव शिक्षया चक्षुषा रूपाणि पश्यति न त्वेवं वचनं करोति। तस्मादिन्द्रियधर्मातिकान्तत्वान्न वाक् इन्द्रियं भवितुमर्हति। जिह्वेन्द्रियाधिष्ठानस्यैव त्वेतत् कर्मवचनमिति। पाणिपादस्य चादानविहरणादनन्यत्वादिति। पाणिरेव ह्यन्यथान्यत्र चोत्पन्न आदानमुच्यते। पाद एव चान्यथान्यत्र चोत्पन्नो विहरणमिति कर्माभावात् स्वात्मनि च वृत्तिविरोधात् न पाणिपादस्येन्द्रियत्वम्। उरगप्रभृतीनामिति। सर्पादीनां पाणिपादं नास्ति। अथ च तेषामादानविहरणं भवति। न पाणिपादस्येन्द्रियत्वम्। तेषामप्यस्ति सूक्ष्ममिति चेन्न साध्यत्वात् पायोरपि नेन्द्रियत्वमुत्सर्ग इत्यशुच्युत्सर्ग गुरूद्रव्यस्य यस्य कस्यचिदाकाशे छिद्रे सर्वत्र पायुस्थानादन्यत्रापि पतनात्। गुरूद्रव्यस्य गुरूत्वादेवं स्वयं पतनं नेन्द्रियकृतम्। वायुना च तत्घ्रेरणादिति। वायुना तस्य गुरोरशुचिद्रव्यस्य प्रेरणा। वायोरेव तत्कर्म स्यान्न पाय्विन्द्रियस्य तदनुपलब्धेः। उपस्थस्यापि नेन्द्रियत्वमानन्द इति। कायेन्द्रियैकदेशस्त्रीपुरूषेन्द्रियव्यतिरिक्तकल्पितस्य उपस्थस्य नेन्द्रियत्वमानन्दे। कायेन्द्रियैकदेशभूतस्त्रीपुरूषेन्द्रियकृतं हि तत् क्लिष्ट सौख्यमिति वाक्यार्थः। कण्ठदन्ताक्षिवर्त्माङ्गुलपर्वणामपीति विस्तरः। यदि यथोक्तात् कारणादेतावन्त्येवेन्द्रियाणीति नेष्यते कण्ठस्याभ्यवहरणे दन्तस्य चर्वणे अक्षिवर्तमन उन्मेपनिमेपे पर्वणोऽस्थिसन्धिसङ्कोचविकाशक्रियायामिन्द्रियत्वं प्रसज्येत। सर्वस्य वा कारणभूतस्येति विस्तरः। सर्वस्य वा कारणभूतस्य बीजादेः स्वस्यां क्रियायां स्वकार्यक्रियायामङ्करादिलक्षणायामिन्द्रियत्वं प्रसज्येतेत्यधिकृतम्। यदि यस्य यत्र पुरूशकारोऽस्ति तस्य तत्रेन्द्रियत्वमिष्यते स च नियमहेतुः पूर्वोक्तो नेष्यते। तस्मादयुक्त वागादीनामिन्द्रियत्वम्।

तत्र चक्षुरादीनामिति विस्तर। तवेति वाक्योपन्यासे। कृतो निर्देश इति।

तद्विज्ञानाश्रया रूपप्रसादाश्चक्षुरादयः।
कायात् स्त्रीपुरूषेन्द्रिये।
विज्ञानं प्रतिविज्ञप्तिः

इति। जीवितेन्द्रियस्येति।

आयुजीवितमाधार उष्मविज्ञानयोर्हि यः

इत्यत्र। श्रद्धादीनां चैत्तेष्विति।

श्रद्धाप्रमादः प्रस्रब्धिः

इत्यत्र प्रदेशे। ननु च वेदनाया अपि कृतो निर्देशश्चैत्तेषु च करिष्यते

वेदनानुभवः

इति।

वेदना चेतना संज्ञा

इति वचनात्। सत्यम् सामान्यं रूपं वेदनाया उक्तम् वक्ष्यते च। विशेषविभागरूपं त्विह विवक्षितमिति सुखादीनां कर्तव्यो निर्देश इत्याह। आज्ञास्यामीन्द्रियादीनां तर्हि न कर्तव्यः यस्मान्मनसो लक्षणमुक्तम् श्रद्धादीनां चैत्तेषु करिष्यते सुखसौमनस्योपेक्षाणामिह क्रियते। एषामपि कर्तव्य एव यस्मान्नवद्रव्यस्वभावत्वमेषां दर्शयितव्यम्। एतस्यां चावस्थायामेतानि नव द्रव्याण्यनाज्ञातमाज्ञास्यामीन्द्रियाख्यां लभन्ते एतस्यामवस्थायमाज्ञेन्द्रियाख्यामेतस्यामाज्ञातावीन्द्रियाख्यां लभन्त इति। स एषा मवस्थाविशेषो दर्शयितव्य इत्यतः सूक्तमेतत् सुखादीनामाज्ञास्यामीन्द्रियादीनां च कर्तव्य इति।। ६।।

[ दुःखेन्द्रियमसाता या कायिकी वेदना सुखम्।
साता ध्याने तृतीये तु चैतसी सा सुखेन्द्रियम्।। ७।।
अन्यत्र सा सौमनस्यमसाता चैतसी पुनः।
दौर्मनस्यमुपेक्षा तु मध्योभय्यविकल्पनात्।। ८।। ]

असाता या कायिकी वेदना

इति। असातेति सातानिवृत्त्यर्थम्। कायिकीति मानसीनिवृत्त्यर्थम्। तत्र कायाश्चक्षुरादयः पञ्च परमाणुसञ्चयात्मकत्वात्। तत्र काये भवाकायेन वा आश्रयेण सह चरतीति कायिकी। या उपघातिका पञ्चेन्द्रियाश्चया वेदना तत्

दुःखेन्द्रियम्

इत्यवगन्तव्यम्।

सुखम्

साता

इति। अत्रेन्द्रियमित्यनुवर्तते कायकीति च। सातेति ग्रहणमसातानिवृत्त्यर्थम्। तदेतदुक्त भवति तत् सुखेन्द्रियं या अनुग्राहिका पञ्चेन्द्रियाश्रया वेदनेति।

ध्याने तृतीये तु चैतसी सा सुखेन्द्रियम्

इति। तृतीये तु ध्याने चैतस्यपि साता वेदना सुखेन्द्रियमिति व्यवस्थाप्यते। कस्नाच्चैतस्येव साता तत्र गृह्यते। न कायिकीति। अत आह न हि तत्र कायिकी वेदनास्ति पञ्चविज्ञानकायाभावादिति।

तृतीये ध्याने कस्मात् सा न सौमनस्येन्द्रियम्। अत आह तृतीये तु ध्याने प्रीतिवीतरागत्वात् सुखेन्द्रियमेव सा न सौमनस्येन्द्रियम्। सातत्वाद्धि सुखमुच्यते न प्रीतिरसंप्रहर्षाकारत्वात्। तथाहि सूत्र उक्त प्रीतेर्विरागादुपेक्षको विहरतीति विस्तरेण यावत् स्मृतिमान् सुखविहारी तृतीयं ध्यानमुपसम्पद्य विहरतीति।

सौमनस्यादन्या प्रीतिरिति चेदत आह। प्रीति हि सौमनस्यमिति।

असाता चैतसी पुनः

दौर्मनस्यम्

इति। उपघातिका चैतसिकी वेदना दौर्मनस्यम्।

उपेक्षा तु मध्या

इति उपेक्षेन्द्रियं तु या मध्या वेदना नैव साता नासातेत्यर्थः।

उभयी

इति। उभयावयवावस्या उभयी कायिको चैतसिकीत्यर्थः।

अविकल्पनात्

इति अभिनिरूपणविकल्पाभावादित्यर्थः। प्रायेणेति ग्रहणं समाधिजविपाकजप्रीतिसुखपरिवर्जनार्थम्। न तु कायिकमिति। न कायिकं सुखदुःखं विकल्पनादुत्पद्यते। किं कारणमित्याह विषयवशादर्हतामप्युत्पत्तेरिति। प्रहीणप्रियाप्रियविकल्पानामप्यर्हतां विषयवशेनैव कायिकसुखदुःखोपादात्। अतस्तयोरिन्द्रियत्वेन भेद इति तयोः कायिकचैतसिकयोः सुखयोर्दुःखयोश्च इन्द्रियत्वेन भेदः पृथकत्वं सुखेन्द्रियं सौमनस्येन्द्रियं दुःखेन्द्रियं दौर्मनस्येन्द्रियमिति। उपेक्षा तु स्वरसेनैवानभिसंस्कारेणाविकल्पयत एवानभिनिरूपयत एवोत्पद्यते कायिकी चैतसिकी वा विपाकजा नैष्यन्दिकी वा। तस्मादेकमिन्द्रियं क्रियते इन्द्रियत्वेनाभेद उपेक्षेन्द्रियमिति। अन्यथा च कायिकमिति विस्तरः। अन्येनानुभवरूपविशेषेण कायिकं सुखमनुगृह्णाति अन्येन चैतसिकम्। स्थिरं हि कायिकम् अस्थिरं हि चैतसिकम्। एवं दुःखमन्ये नानुभवरूपविशेषेण कायिकमुपहन्ति। अन्येन चैतसिकमिति। उपेक्षायां नैप विकल्प इति। एप स्वरूपविशेषलक्षणो विकल्पो नास्ति। अत उपेक्षणं प्रति उपेक्षाक्रियां प्रति। अविकल्पनादस्वभावविशेषादभेदः।। ७-८।।

[ दृग्भावनाशैक्षपथे नव त्रीण्यमलं त्रयम्।
रूपीणि जीवितं दुःखे सास्रवाणि नव द्विधा।। ९।। ]

दग्भावनाशैक्षपथे

इति। दृग् दर्शनम् दृशो भावनाया अशैक्षस्य च पन्था दृग्भावनाशैक्षपथः। तस्मिन्नेव मार्गत्रये यानि मनःसुखसौमनस्योपेक्षाश्रद्धावीर्यस्मृतिसमाधिप्रज्ञाख्यानि नव द्रव्यानि तानि दर्शनमार्गे अनाज्ञातमाज्ञास्यामीन्द्रियम् भावनामार्ग आज्ञेन्द्रियम् अशैक्षमार्गे आज्ञातावीन्द्रियमिति व्यवस्थाप्यन्ते अन्योन्यमपेक्षमाणानि तानि नव द्रव्याणि तत्तन्नम लभन्ते। नवेतिच कलापान्तरापेक्षयैवमुक्त नत्वेकस्मिन् चित्तकलापे नव द्रव्याणि भवन्ति। सुखसौमनस्योपेक्षन्द्रियाणामेकतरस्यैव भावात्। यदि हि स मार्गोऽनागम्यध्यानान्तरचतुर्थध्यानाकाशविज्ञानाकिञ्चन्यायतनभूमिकः तत्रोपेक्षेन्द्रियमेव न सुखसौमनस्येन्द्रिये। यदि प्रथमद्वितीयध्यानभूमिकः तत्र सौमनस्येन्द्रियमेव। यदि तृतीयध्यानभूमिकः तत्र सुखेन्द्रियमेव नान्यदिति। अनाज्ञातमाज्ञातुं प्रवृत्त इति अनाज्ञातं सत्यचतुष्टयमाज्ञातुं वेदितुं प्रवृत्त आज्ञास्यामीति प्रारब्धः। तस्येन्द्रियमनाज्ञातमाग़्यास्यान्द्रियम्। अलुकसमासः। आख्यातप्रतिरूपकश्चायमाज्ञास्यामीति शब्दः। भावनामार्गे नास्त्यपूर्वमाज्ञेयं तदेव तु सत्यचतुष्टयमाजानाति शेपानुशयप्रहाणार्थं भावनाहेयक्लेशप्रहाणार्थम्। तस्याज्ञस्य पुद्गलस्येन्द्रियमाज्ञेन्द्रियम् आज्ञमेवेन्द्रियमिति वा। अशैक्षमार्ग त्वाज्ञातमित्यवगम आज्ञाताव इति। अर्थकथनमात्रमेतत् शब्दविग्रहस्त्वेवं कर्तव्यः। आज्ञातमित्याव आज्ञातावः अवतेर्घञि रूपमेतदाव इति। सोऽस्यास्तीति मत्वर्थीय आज्ञातावी। आज्ञातमवितु शीलमस्येति वेति ताच्छीलिको णिनिः। तथा भूतस्येन्द्रियमिति तथाभूतस्य पुद्गलस्येन्द्रियम् आज्ञाताविन इत्यर्थः।

अमलं त्रयम्

इति। अमलमेव त्रयमित्यवधायते। ननु चायमनास्रवसास्रवप्रकारभेद उक्तो धातुनिर्देशे।

अनास्रवा मार्गसत्यम्

इति तथा

सास्रवानास्त्रवा एते त्रयः शेषास्तु सास्रवाः

इत्यादिवचनात्। सत्यमुक्तोऽयमेवमादिः प्रकारभेदः। स तु सामान्यरूपेणोक्तो न भेदरूपेण। अतः शिष्यसुखप्रतिपत्त्यर्थमयमेवमादिप्रकारभेदः प्रतिपदरूपेण पुनरभिधीयत इत्येवमवगन्तव्यम्। द्विधा नवेति न सूत्रयितव्यम्। एकान्तानास्रवसास्रवनिर्धारणादेव हि द्विधा न वेति सिद्धेः यदि ह्येतानि नवैकान्तेनानास्रवाणि स्युरेकान्तानास्रवेष्वाज्ञास्यामीन्द्रियादिषु पठ्येरन् तथैकान्तसास्रवाणि स्युः। एकान्तसास्रवेषु रूपीन्द्रियजीवितदुःखदौर्मनस्येषु पठ्येरन्। न चैवम् अतो न द्विधेति सिद्धम्। अस्त्येतदेवम् मतान्तरनिवृत्त्यर्थ तु पुनरिदमुच्यते

नव द्विधा

इति। द्विधैव नव नानास्रवाणि यथैके कथयन्ति। तत्सिद्धये चागममानयन्ति यस्येमानीति विस्तरः। सर्वेण सर्वाणि न सन्तीति। सर्वेण प्रकारेण मृदुमध्याधिमात्रभेदेन सर्वाणीति पञ्चापि न सन्तीत्यर्थः। पृथगजनपक्षावस्थितं वदामीति वचनात्। अर्थादेतदुक्त भवति। यस्येमानि सन्ति स आर्य इति। नेदं ज्ञापकं तेषामनास्रवत्वमधिकृत्येयाचार्यः तथाह्यार्य पुद्गलव्यवस्थानं कृत्वा यस्येमानीत्याहेति कथम् पञ्चेमानि भिक्षव इन्द्रियाणि कतमानि पञ्च श्रद्धेन्द्रियं यावत् प्रज्ञेन्द्रियम् एषां पञ्चानामिन्द्रियाणां तीक्ष्णत्वात् परिपूर्णत्वादर्हन् भवति। ततस्तनुतरैर्मृदुतरैरनागामी भवति ततस्तनुतरैर्मृदुतरैः सकृदागामी ततस्तनुतरैर्मृदुतरैः स्त्रोत आपन्नः ततोऽपि तनुतरैर्मृदुतरैर्धर्मानुसारी ततस्तनुतरैर्मृदुतरैः श्रद्धानुसारी। इति हि भिक्षव इन्द्रियपारमितां प्रतीत्य फ़लपारमिता प्रज्ञायते फ़लपारमितां प्रतीत्य पुद्गलपारमिता प्रज्ञायते। यस्येमानि पञ्चेन्द्रियाणि सर्वेण सर्वाणि न सान्त। तमहं बाह्यं पृथगजनपक्षावस्थितं वदामीति। तदेवमार्यपुद्गलव्यवस्थानं कृत्वा यस्येमानीत्याह भगवानिति। पृथग्जनो वा द्विविध इति। आभ्यन्तरकश्च बाह्यकश्च। असमुच्छिन्नकुशलमूल आभ्यन्तरको बौद्धसंगृहीतत्वात्। समुच्छिन्न कुशलमूलस्तु बाह्यकस्तद्विपर्ययात्। अत एव च बाह्यमिति विशेषणम्। इतरथा हि पृथग्जनपक्षावस्थितं वदामोत्येवावक्ष्यत्। उक्तं च सूत्र इति। अथ भगातोऽचिराभिसंबुद्धस्यैतदभवत्। अधिगतो मे धर्मो गम्भीरो गम्भीरावभासो दुर्दशो दुरवबोधोऽतर्क्योऽतर्काव्चरः सूक्ष्मो निपुणः पण्डितविज्ञवेदनीयः। तं चाहं परेषामावेदयेयम्। तं च परे न विजानीयुः। स मम स्याद्विघातः स्यात् क्लमथः स्याच्चेतसोऽनुदयः यं न्वहमेकाकी अरण्ये प्रवणे दृष्टधर्मसुखविहारतायोगमनुयुक्तो विहरेयम्। अथ ब्रह्यणः सहापतेर्ब्रह्यलोके स्थितस्यैतदभवत्। नश्यति बतायं लोकः प्रणश्यति बता लोकः। यत्रेदानीं कदाचित् कर्हिचित् तथागता अर्हन्तः सम्यक्संबुद्धा लोक उत्पद्यन्ते। तद्यथोदुम्बरपुष्पम्। तस्य चाद्य भगवतोऽल्पोत्सुकविहारितायां चित्तं क्रामति न धर्मदेशनायाम्। यं न्वहं गत्वा अध्येषयेयम्। अथ ब्रह्या सहापतिः तद्यथा बलवान् पुरूषः सम्मिञ्जितं बाहुं प्रसारयेत् प्रसारितं वा सम्मिञ्जयेत्। एवमेव ब्रह्या सहापतिर्व्रह्यलोके अन्तर्हितो भगवतः पुरस्तात् प्रत्यस्थात्। अथ ब्रह्या तस्यां वेलायां गाथामभाषत

प्रादुर्बभूव मगधेषु पूर्वं धर्मो ह्यशुद्धः समलानुबद्धः।
अपावृणीष्व अमृतस्य द्वारं वदस्व धर्म विरजं निरङ्गणम।।

अथ भगवानस्यां वेलायां इमे गाथे अभाषत्।

कृच्छेण मे अधिगतो ब्रह्यन् खिलां प्रविदाल्य भवरागपरीतैश्च नायं धर्मः सुसंबोधः।
प्रतिस्रोतोपमं मार्ग गम्भीरमतिदुर्दृशम् न द्रक्ष्यन्ते रागरक्तास्तमस्कन्धेन चावृताः।।

ब्रह्यावोचत् सन्ति भदन्त सत्त्वा लोके जाता लोके वृद्धास्तीक्ष्णेन्द्रिया अपि मध्येन्द्रिया अपि मृद्विन्द्रिया अपि इत्यप्रवर्तित एव स्वधर्मचक्र इति विस्तरः। इन्द्रियाणि श्रद्धादीनि यैस्ते भव्या उक्ताः। यस्मादप्रवर्तितेऽपि धर्मचक्रे सन्ति तीक्ष्णेन्द्रिया इत्याद्युक्तम् तस्मात् सन्त्येव सास्रवाणि श्रद्धादीनीति। सदेवकाल्लोकादिति विस्तरः। न तावदहमस्मात् सदेवकाल्लोकात् समारकात् सब्रह्यकात् सश्रमणब्राह्यणिकायाः प्रजायाः सदेवमानुषाया मुक्तो निःसृतो विसंयुक्तो विप्रमुक्तो विपर्यासापगतेन चेतसा बहुलं व्यवहार्षमिति विस्तरवचनम्। न चानास्रवाणामेष परोक्षाप्रकार इति। न ह्यनास्रवाणामास्वाद आदीनवो निःसरणं वा युज्यते।। ९।।

[ विपाको जीवितं द्वेधा द्वादशान्त्याष्टकादृते।
दौर्मनस्याच्च तत्तेकं सविपाकम्। ]

अर्हन्निति नानागामी क्लेशाविमुक्तसन्तानत्वात्। ऋद्धिमानिति प्राप्ताभिज्ञः। चेतोवशित्वं प्राप्त इति असमयविमुक्तः। जीवितपरिष्कारमिति जीविताय परिष्कारस्तदनुगुणत्वात् दत्त्वा तत्प्रणिधायेति तदायुः प्रणिधाय चेतसि कृत्वेत्यर्थः। कथमित्याह यन्मे भोगविपाकं कर्म तदायुर्विपाकं भवत्विति। प्रान्तकोटिकमिति।

वृद्धिकाष्ठागतम्

इति लक्षणमस्य वक्ष्यते। चित्तमुत्पादयति वाचं च भाषत इति। चित्तवाचावपि तत्सिद्धये कुर्यात्। नैककारणसाध्यं हि कार्यम् तदनेन विपाक एव जीवितेन्द्रियमिति दर्शयति। यन्मे भोगविपाकं कर्म तदायुर्विपाकदायि भवत्विति। ध्यानभावनाबलं तु तस्या आकर्षकमिति।

विपाकोच्छेपं विपच्यत इति। अकालमरणेनापरिसमाप्तफ़लस्य त्यक्तस्य जन्मान्तकर्मणो भावनाबलेन विपाकोच्छेपमाकृष्य प्रतिसंवेदयते। तेषां तादृश इति। तेषां योगिनाम्। पूर्वकर्मजं स्थितिकालावेधमिति पूर्वस्मिन् जन्मनि कर्म पूर्वकर्म ततो जातः पूर्वकर्मजः स्थितिरिन्द्रियं महाभूतानां प्रवाहः स्थितेः कालः स्थितिकालः तस्यावेध आक्षेपः स्थितिकाला वेधः तावत् संस्कारक्षणानुबन्धसामर्थ्यमाक्षेपः। तेन ह्यसौ स्थितिकाल आविध्यते। तं पूर्वकर्मजं स्थितिकालावेधमिन्द्रियमहाभूतानां व्यावर्तयन्ति योगिनः अपूर्वं च समाधिजमागन्तुकमाक्षिपन्ति।

प्रश्नात् प्रश्रान्तमुपजायत इति। अथ यदर्हन् भिक्षुरायुःसंस्कारान् स्थापयति तज्जीवितेन्द्रियं कस्य विपाक इत्यस्मात् प्रश्नात् किमर्थमायुःसंस्कारा नधितिष्ठन्तीति प्रश्नान्तरम्। परहितार्थ शासनस्थित्यर्थञ्चेति। परहितार्थ बुद्धा भगवन्तः शासनस्थित्यर्थमेव श्रावकाः। रोगादिभूतं चात्मभावमिति। रोगगण्डशल्यादिभूतं त्रिदुःखतायोगात्। क्क कस्य चेति। क्वेत्यस्य प्रश्नविसर्जनम् मनुष्येष्वेव त्रिषु द्वीपेष्विति। कस्येत्यस्य विसर्जनम् स्त्रीपुरूषयोरसमयविमुक्तस्यार्हतः प्रान्तकोटिध्यानलाभिन इति। तस्य हीति विस्तरः। समाधौ च वशित्वं प्रान्तकोटिकध्यानलाभिनः तीक्ष्णेन्द्रियत्वात्। क्लेशैश्चानुपस्तब्धा सन्ततिर्निरवशेषक्लेशप्रहाणात्। दृष्टिप्राप्तस्य यद्यपि समाधौ वशित्वमस्ति न तु तस्य क्लेशौरनुपस्तब्धा सन्ततिः। समयविमुक्तस्य यद्यपि क्लेशैरनुपस्तब्धा सन्ततिः न तु समाधौ वशित्वम्। असमयविमुक्तस्य तभूयमस्ति।

बहुवचनमिति जीवितसंस्कारानिति यद्वचनं तदबहुवचनम्। कस्मादित्याह बहूनामिति विस्तरः। बहूनां सन्तानवर्तिनां जीवितसंस्काराणामुतसर्जनाधिष्ठानात्। न ह्येकस्य क्षनस्य उत्सर्जनेऽधिष्ठाने वा प्रयोजनमस्ति। प्रवाहेण परकार्याभिनिष्पादानात्। एकस्य च क्षणस्यापीडाकरत्वात्। न च कालान्तरस्थावरमिति। कालान्तरस्थानशीलं कालान्तरस्थावरमक्षणिकम्। तच्चैतदायुर्द्रव्यं न भवतीति द्योतनार्थ बहुवचनमित्येके। बहुष्वेव संस्कारेष्विति सौत्रान्तिकानामयं पक्षः। एकस्मिन्नपि क्षणे वहवस्ते संस्कारा येष्वायुरिति प्रज्ञप्तिः। नैकमायुर्नाम द्रव्यमस्ति  ते च संस्काराः पञ्हस्कन्धस्वभावाः चतुः स्कन्धस्वभावा वा द्रष्टव्या। अन्यथा हि नैव संस्कारग्रहणमकरिष्यत। एवं तु वक्तव्यमभविष्यत्। भगवान् जीवितान्यधिष्टायायूष्युत् सृष्टवानिति। मरणवशित्वज्ञानपनार्थमिति मरणे वशित्वमस्तीति। त्रमास्यमेव नोर्ध्वमिति। त्रयो मासाः समाहृतास्त्रिमासम् त्रिमासमेव त्रैमास्यम्। अत्र कालाध्वनोरत्यन्तसंयोगे द्वितीया भवति। नोर्ध्वं त्रैमास्याद्विनेयकार्याभावात् सुभद्रावसानत्वात् बुद्धकार्यस्य। तस्यापि सम्पादनार्थमिति प्रतिज्ञातसम्पादनार्थम् अन्यथा वचनमात्रं स्यादिति। कल्पावशेषः कल्प एकः सकलः कल्पाधिकः कल्पः सातिरेक इत्यर्थः। स्कन्धरणमारयोरिति। चत्वारो माराः देवपुत्रमारः क्लेशमारः स्कन्धमारो मरणमारश्च। तत्र प्रथमे यामे देवपुत्रमारो निर्जितः। द्वितीये यामे दिव्येन चक्षुषा लोकं व्यवलोक्य तृतीये यामे क्लेशमारो निर्जितः। वैशाल्यां तु त्रैमास्यं जीवितसंस्कारानधिष्ठाय आयुःसंस्कारानुत्सृष्टवान्। स्कन्धमारनिर्जयार्थमुत्ससृष्टाः स्कन्धाः तेषूत्सृष्टेषु मर्तव्यं स्यात्। अतो मरणमारनिर्जयार्थमधिष्ठा इति वेभाषिकाः। निष्ठितमानुषङ्गिकं यत् प्रश्नात् प्रश्नान्तरमुपजातम्।

द्वेधा द्वादश

इति। द्वेधैव द्वादश एवेत्यवधार्यते। ऋते अन्त्यादष्टकाच्छद्धादिकादाज्ञातान्द्रियपर्यन्तात्

दौर्मनस्याच्च।

जीवितेन्द्रियादेकान्तविपाकादन्यानि द्वादशेन्द्रियाणि विपाकश्चाविपाकश्च। तत्र चक्षुरादीनि पुरूषेन्द्रियावसानानि सप्त स्वप्नाद्यभिनिर्वृत्तानि औपचयिकान्यविपाकः। मनोदुःखसुखमिति विस्तरः। यानि मन आदीनि कुशलक्लिष्टानि तान्यविपाकः। यानि च यथायोगमैर्यापथिकशैल्पस्थानिकनैर्माणिकस्वभावानि अव्याकृतानि तान्यविपाकः। यथायोगमिति विशेषणमैर्यापथिकादीनां मानसत्वेन दुःखेन्द्रियासम्भवात् सुखसौमनस्ययोश्च क्वचिदसम्भवात्। तत्र कामधातावैर्यापथिकं मन इन्द्रियं तत्संप्रयुक्ते च सौमनस्योपेक्षिन्द्रिये अविपाकः। रूपधातावैर्यापथिकं मन इन्द्रियमविपाकः। वेदनेन्द्रियञ्च तत्संप्रयुक्त यथाभूमि। नैर्माणिकं पञ्चभूमिकम्। तत्र चोपेक्षेन्द्रियमेवाविपाकः। ऐर्यापथिकशैल्पस्थानिकनैर्माणिकानि नित्यमुपेक्षेन्द्रियेण संप्रयुक्तानीति भदन्तानन्तवर्मा। शेपाणि विपाक इति। कुशलक्लिष्टैर्यापथिकशैल्पस्थानिकनैर्माणिकस्वभावेभ्यो मन इन्द्रियादिभ्योऽन्यानि मन इन्द्रियादीनि विपाकजानि विपाकः। शेपाण्यविपाक इति सिद्धमिति। जीवितेन्द्रियं द्वादश चक्षुरादीनि हित्वा तदवधारणादेव शेपाण्यविपाक इति सिद्धम्। कतमानि पुनस्तानि। दौर्मनस्येन्द्रियं न विपाकः कुशलाकुशलत्वात्। तथाहि वक्ष्यति

तत्त्वेकं सविपाकम्

इति। श्रद्धादीन्यष्टकं कुशलमित्यविपाकः।

विपाकोऽव्याकृतो धर्मः सत्त्वाख्यः

इति विपाकलक्षणाभावात्।

यदि दौर्मनस्येन्द्रियं न विपाक इत्यनेनागमविरोधं दर्शयति। संप्रयोगवेदनीयतामधिकॄत्येति। वेदनीयं वेदना दौर्मनस्यं वेदनीयमस्मिन्निति दौर्मनस्यवेदनीयं कर्म। सौमनस्योपेक्षावेदनीये अपीति संप्रयोगमातवचनाद्दौर्मनस्यवत् सौमनस्योपेक्षे अपि न विपाकः प्राप्नुत इति परस्याभिप्रायः। संप्रयोगेऽपि न दोषो विपाकेऽपोति। सौमनस्यं वेदनीयमस्मिन् सौमनस्यवेदनीयं कर्म। तथा सौमनस्यं विपाकत्वेन वेदनीयमस्य सौमनस्यवेदनीयं कर्मेति। अगत्या हेय्तदेवं गम्येतेति। यदि दौर्मनस्यं युक्त्या परिच्छिन्न न विपाक इति तत एवमगत्याख्यायेत संप्रयोगवेदनीयतामधिकृत्योक्तमिति। तेनाह का पुनरत्र युक्तिर्दौमनस्यं न विपाक इति। अथ वा अगत्या ह्येतदेवं गम्येत क्वचित् संप्रयोगवेदनीयता क्वचित् विपाकवेदनीयतेति। ब्रूयास्त्वं सर्वत्रैव तर्हि संप्रयोगवेदनीयतेति। अत एतदन्तराभिप्रायमभिसमीक्ष्याह। का पुनरत्र युक्तिर्दौर्मनस्य न विपाक इति। दामनस्यं हीत्यनिष्टचिन्तनादिकैः परिकल्पविशेषैरूत्पाद्यते च व्युत्पाद्यते च व्युपशाम्यते च। सौमनस्यमप्येवमिति। परिकल्पविशेषैरिष्टचिन्तनादिभिरूत्पाद्यते च व्युपशाम्यते च। वीतरागादीनां तर्हीति। यस्माद्वीतरागादीनां दौर्मनस्यं व्यावर्तते। न हि चक्षुरादिको विपाकभूतो वीतरागादीनां व्यावर्तते। दौर्मनस्यं तु व्यावर्तते। वचनाद् दौर्मनस्येन कामवीतरागोऽसमन्वागत इति। सूत्रेऽप्युक्तम् अवीतरागस्य द्विशल्या वेदनोक्ता कायिक दुःखं प्रतिसंवेदयते चैतसिकं च दौर्मनस्यमिति वचनाद् वीतरागस्य च एकशल्या कायिकमेव दुःखं प्रतिसंवेदयत इति। सौमनस्यमप्येषामिति विस्तरः। वीतरागाणामव्याकृतं विपाकरूपं सौमनस्यं कीदृशं स्यात्। समापत्तिसंगृहीतं तेषां सौमनस्यं सम्बह्वति। तच्च कुशलत्वान्न विपाकः। अतो वक्तव्यम् कीदृशं तेषां सौमनस्यं विपाक इति। यादृशं तादृशमस्त्विति। अपरिच्छिद्यमानमपि तदस्त्येवेति दर्शयति तस्यास्ति विपाकावकशो न दौर्मनस्यस्य। सर्वथाप्यसमुदाचारात् समापत्त्यवस्थायामप्यसमापत्त्यवस्थायामपीत्यतो न विपाक इति सिद्धम्। मन इन्द्रियमुभयोरूभयस्येति। उभयोः सुगतिदुर्गत्योः। उभयस्य कुशलाकुशलस्य। विपाक इत्यधिकारः। इदमुत्सृष्ट जीवितेन्द्रियाष्टमानि सुगतौ कुशलस्य विपाक इति। तत्र कथमुभयव्यञ्जनमासाधुसम्मतं कुशलस्य विपाक इत्याह। सुगतावुभयव्यञ्जनस्याकुशलेन ततस्थानप्रतिलम्भ इति। स्थानमस्य भ्रष्टमतोऽस्याकुशलेन प्रतिलम्भो विप्रयुक्तो धर्मः। उभयं तु व्यञ्जनं कुशलस्यैव विपाक इत्यभिप्रायः।

तत्त्वेकं सविपाकम्

इति। तदेकं सविपाकमेवेत्यर्थः। तेनाह। तुशब्द एवकारार्थो भिन्नक्रमश्चेति। भिन्नस्थान इत्यर्थः। तदेकं सविपाकं त्विति हि क्रमो न भिन्नः स्यात्। श्र्लोकवन्धानुगुण्येन त्वेवमुक्तम्। न हि तदव्याकृतमिति। सविपाकमेवेत्यवधारणे युक्ति दर्शयति। द्वे हि वस्तुनी अविपाके इष्येते। अव्याकृत मनास्रवञ्च। विकल्पविशेषोत्पाद्यत्वान्न तदव्याकृतम्। असमाहितत्वाच्च नानास्रवम्। अव्याकृतं हि पूतिबीजवन्न विपाकदानाय समर्थम् अनास्रवं तु तृष्णानभिष्यन्दितत्वान्नालं विपाकदानायानभिष्यन्दितसारबीजवत्। पारिशेष्यादकुशलं वा तद्भवेत् कुशलसास्रवं वा। अतः सविपाकमेव नास्त्यविपाकं दौर्मनस्यम्।

[ दश द्विधा।। १०।।

मनोऽन्यवित्तिश्रद्धादीन्यष्टकं कुशलं द्विधा।
दौर्मनस्यं मनोऽन्या च वित्तिस्त्रेधान्यदेकधा।। ११।। ]

दश द्विधा इति। दशैव द्विधा। द्विधैव च दशेत्यवधारणम्। द्विधेति सविपाकाविपाकानि।

मनोऽन्यवित्तिश्रद्धादीनि

चेति। मनश्च अन्यवित्तयश्च श्रद्धादीनि चेति। वित्तिर्वेदना। अन्यग्रहणेन दौर्मनस्यवर्जितं गृह्यते दौर्मनस्यस्योक्तत्वात्। श्रद्धादीनि श्रद्धावीयस्मृतिसमाधि प्रज्ञाः गृह्यन्त इत्यधिकृतम्। अन्यदविपाकमिति। यथोक्तदौर्मनस्याद्यवधारणाज्जीवितं रूपीणि च सप्तेन्द्रियाण्याज्ञास्यामीन्द्रियादीनि च त्रीण्यविपाकानीति सिद्धम्। अव्याकृतत्वादनास्रवत्वाच्च यथाक्रमम्।

अष्टकं कुशलम्

इति अष्टकं कुशलमेवेत्यवधारणम्।

द्विधा दौर्मनस्यम्

इति। द्विधैव दौर्मनस्यं दौर्मनस्यमेव च द्विधेत्यवधारणम्। द्विधेति कुशलञ्चाकुशलञ्च। अन्यदपि द्वैधमस्ति। कुशलं चाव्याकृतञ्च अकुशलं चाव्याकृतञ्चेति। तत् कथमिदमवधार्यते कुशलं चाकुशलं चेति व्याख्यानतो विशेषप्रतिपत्तिः। अथवा दौर्मनस्यं सविपाकमेवेति निर्ह्दारितम्। तस्मादिदमेव द्वैधं भवति नान्यत्।

अन्या च वित्तिः

इति। दौर्मनस्यवर्ज्यं वेदनाचतुष्टयं तस्योक्तत्वात्।

त्रेधा

इति। कुशलाकुशलाव्याकृतानि। त्रयः प्रकारस्त्रेधा द्वित्रयोश्च धमुञ् एधाच्चेति त्रेधेत्येषा शब्दव्युत्पत्तिः। अलोभादिसम्प्रयुक्तानि कुशलानि लोभादिसम्प्रयुक्तान्यकुशलानि। अतोऽन्यान्यव्याकृतानि।

अन्यदेकधा

इति। जीविताष्टममन्यदेकधैवेत्यवधार्यते अव्याकृतमेवेत्यर्थः। एतदर्थं च पुनरस्य करणम्। अन्यथा ह्यकुशलमेव कुशलाव्याकृतमेवाकुशलाव्याकृतमेव वा तत् सम्भाव्यते। तस्मादभीप्सितैकधात्वप्रसिद्धयर्थं पुनरूच्यते। यस्यैकधात्वं सम्भवति तद्भवति किञ्च सम्भवत्यव्याकृतत्वमिति।। ११।।

[ कामाप्तममलं हित्वा रूपाप्त स्त्रीपुमिन्द्रिये।
दुःखे च हित्वा रूपाप्तं सुखे चापोह्य रूपि च।। १२ ।। ]

कामाप्तममलं हित्वा

इति। अमलमेव हित्वा कामाप्त भवति। तद्धयप्रतिसंप्रयुक्तमेवेति। अधातुपतितमेवेत्यर्थः।

रूपाप्त स्त्रीपुमिन्द्रिये

इति विस्तरः स्त्री च पुमांश्च स्त्रीपुमांसौ। समासान्तो विधिरनित्य इति परिभाषया समासान्तो न भवति। तयोरिन्द्रिये स्त्रीपुमिन्द्रिये।

दुःखे च

इति। दुःखवेदनास्वभावे इन्द्रिये दुःखदौर्मनस्ये इत्यर्थः। ते स्त्रीपुमिन्द्रिये दुःखदौर्मनस्ये अमलं चेहानुवर्तमानं हित्वा। शेषं रूपाप्तमिन्द्रियं भवति। क्वोच्यन्त इति पृष्टे सूत्रं दर्शयति अस्थानमनकाश इति विस्तरः। अत सूत्र इत्यभिप्रायः। अन्यः पुरूषभावोऽस्ति यः कामधातौ पुरूषाणां भवतीति। स्तनादिसंस्थानस्वराचारान्यथात्वम्। दुःखेन्द्रियं नास्तीत्याश्रयस्याच्छत्वात् तदभिघातजं नास्ति। अकुशलभावाच्च विपाकजं नास्ति। दौर्मनस्येन्द्रियं नास्ति शमथस्निग्धसन्तानत्वादिति। यस्माच्च शमथेन समाधिना प्रतिघविगमाद् रौक्ष्यं सन्ताने नास्ति। तस्माद् दौर्मनस्येन्द्रियं नास्ति। आघातवस्त्वभावाच्चेति। आघातः कोपस्तस्य वस्तु विषय आघातवस्तु नव चाघातवस्तूनि। अनर्थ मेऽकार्षीत् करोति करिष्यति चेत्याघातवस्तुत्रयम्। मित्रस्य मेऽनर्थमकार्षीत् करोति करिष्यत्यपरमाघातवस्तुत्रयम्। अमित्रस्य मेऽर्थमकार्षीत् करोति करिष्यति चेत्यपरमाघातवस्तुत्रयमिति। एषां नवानामाघातवस्तूनामभावाद्विषयकृतमपि दौर्मनस्यं नास्ति। न केवलं हेतुकृतं नास्तीति दर्शयति। हेतुकृतं हि तद् यत् स्वसन्तानप्रतिघकृतम्। प्रत्ययकृतं च तद् यन्नवाघातवस्तुकृतमिति।

सुखे चापोह्य रूपि च

इति। चशब्देन पूर्वोक्तमनुकृष्यते। तेनाह स्त्रीपुमिन्द्रिये दुःखे चामलञ्च हित्वेति वर्तत इति सुखे इति सुखवेदनास्वभावे सुखसौमनस्येन्द्रिये  रूपीन्द्रियं चक्षुरादि।। १२।।

[ मनो वित्तित्रयं त्रेधा द्विहेया दुर्मनस्कता नव भावनया पञ्च न हेयान्यपि न त्रयम्।। १३।। ]

वित्तित्रयं सुखसामनस्योपेक्षा इति। सुखेन्द्रियं यत्तृतीयध्यानभूमिकं दर्शनहेयानुशयसंरयुक्त तद्दर्शनहेयम्। तत्रैव अतोऽन्यत् सास्रवम् पञ्चविज्ञानकायिकञ्च कामावचरम्। प्रथमध्यानभूमिकञ्च त्रिविज्ञानकायिकं भावनाप्रहातव्यम्। अनास्रवं तु सुखेन्द्रियमहेयम्। सौमनस्यं दर्शनहेयसंप्रयुक्त दर्शनहेयम्। अतोऽन्यत् सास्रवं भावनाहेयम्। अनास्रवमहेयम्। उपेक्षेन्द्रियं तु सर्वगमिति सुगमम्।

द्विहेया दुर्मनस्कता

इति। दौर्मनस्ययोगाद् दुर्मनस्कः तद्भावो दुर्मनस्कता दौर्मनस्यमित्यर्थः। यस्य गुणस्य हि भावाद्द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलाविति लक्षणात् तद्दर्शनहेयसंप्रयुक्त दर्शनहेयम्। अतोऽन्यद्भावनाहेयम्। नाहेयमसमाहितत्वात्।। १३।।

[ कामेष्वादौ विपाकौ द्वे लभ्येते नोपपादुकैः।
तैः षड् वा सप्त वाष्टौ वा षड् रूपेष्वेकमुत्तमे।। १४।। ]

कामेष्वादौ विपाकौ द्वे लभ्येते

इति। कामप्रधानत्वात् कामधातुः। काम इति निर्दिश्यत इति वक्ष्यते। अण्डजजरायुजसंस्वेदजैः सत्त्वैः कामधातावादौ प्रथमतो द्वे इन्द्रिये विपाकात्मके लभ्येते। कायेन्द्रियं जीवितेन्द्रियं च। कस्मात् प्रतिसन्धिकाले मन उपेक्षेन्द्रिययोरवश्यं क्लिष्टत्वात्।

उपपत्तिभवः क्लिष्टः सर्वक्लेशैः स्वभूमिकैः

इति वचनात्। चक्षुरादीनां च तस्यामवस्थायामविद्यमानत्वात्।

नोपपादुकैः

इत्यपवादः। अविशेषितत्वाद्धि उपपादुकैरपि तथैव द्वे एव लभ्येयातामिति प्रसङ्गः। तस्मादयं प्रतिषेधः। किमुपपादुकैस्ते द्वे नैव लभ्येते लभ्येते न तु द्वे एव। तेनाह

तैः षड् वा

इति विस्तरः। यद्यव्यञ्जना भवन्ति यद्यविद्यमानस्त्रीपुरूषेन्द्रियाः। यथाप्राथमकल्पिका इति। युगाद्यु तपन्नाः

प्रागासन् रूपिवत् सत्त्वाः

इति वचनात्। कतमानि षट् चक्षुरादीनि पञ्च जीवितञ्च षप्ठमिति। यथा देवादिष्विति। आदिशब्देन नारकादयोऽपि गृह्यन्ते। अन्तराभवोपपत्तिभवप्रतिसन्ध्यवस्थायां तानि प्रथमतो लभ्यते। किं पुनरूभयव्यञ्जना अप्युपपादुका भवन्तीति। निहीनोभयव्यञ्जनोत्पत्तिः। विशिष्टा चोपपादुका योनिः। कथमनयोः समायोग इति चोदनाभिप्रायः। रूपप्रधानत्वाद् रूपाणीति रूपधातुनिर्दिश्यते। रूपप्रधानत्वादिति रूपाणां स्वच्छत्वात् भास्वरत्वादित्यर्थः। अथवा न कामगुणप्रधानो रूपधातुः। किं तर्हि रूपमात्रप्रधानः। नाप्यारूप्यधातुवदरूपप्रधान इति सूत्रेऽप्युक्तमिति सूत्रेऽप्येवं दृष्टम्। न मदुपग़्यमेवैतदिति दर्शयति। येऽपि ते शान्ता विमोक्षा अतिक्रम्य रूपाण्या रूप्याः। तेऽप्यनित्या अधुवा अनाश्वासिका विपरिणामधर्मान इति विस्तरः। अव्यञ्जनैरूपपादुकैरिति प्राथमकल्पिकैः। समापत्तितश्च परत्वादिति। यस्मात्पूर्वं रूपसमापत्तिः पश्चादारूप्यसमापत्तिः। तस्माद्रपधातोरूत्तर आरूप्यधातुः। उपपत्तितश्च प्रधानतरत्वादिति। यस्माच्चोपपत्तितः प्रधानतरो रूपधातोरारूप्यधातुः। बहूनि कल्पसहस्राणि तत्रातिप्रशान्तो विपाको भवति। अतोऽप्यसावुत्तरः न तूपपत्तिदेशतः

आरूप्यधातुरस्थान

इति वचनात्।। १४।।

[ निरोधयत्युपरमन्नारूप्ये जीवितं मनः।
उपेक्षाञ्चैव रूपेऽष्टौ कामे दश नवाप्ट वा।। १५।। ]

निरोधयत्युपरमन्

इति। म्रियमाण आरूप्यधातावेतान्येव त्रीणीन्द्रियाणि निरोधयति। सापवादं चैतद्वेदितव्यम्

शुभे सर्वत्र पञ्च च

इति वचनात्।

रूपेऽष्टौ

इति। रूपधातावष्टावेतान्येव। सह पञ्चभिश्चक्षुरादिभिर्निरोधयेत्। सकृत् समग्रेन्दियमरणात्। अत एवाह सर्वे ह्युपपादुकाः समग्रेन्द्रिया उपपद्यन्ते म्रियन्ते चेति।

कामे दश नवाष्ट वा

इति। उभयव्यञ्जनो दशेन्द्रियाणि निरोधयति यदि समग्रपञ्चेन्द्रियो भवति। एकव्यञ्जनो नव। अव्यञ्जनोऽष्टौ। यदि तु विकलेन्द्रियोऽन्धो वधिरो वा भवति। तदा तदन्द्रियं परिहार्यम्।। १५।।

सापवादं चैतत्सर्वकामधातावेव वेदितव्यम्। तदपवादमाह

[ क्रममृत्योस्तु चत्वारि शुभे सर्वत्र पञ्च च।
नवाप्तिरन्त्यफ़लयोः सप्ताष्टनवभिर्द्वयोः।। १६।। ]

क्रममृत्योस्तु चत्वारि

इति। न ह्येषां पृथग्निरोध इति। न ह्येपां कामधातावन्योन्यं विरहय्य निरोधोऽस्तीत्यभिप्रायः।

शुभे सर्वत्र पञ्च च

इति। सर्वस्य पूर्वोक्तस्य मरणविधेः

निरोधयत्युपरमन्नारूप्ये जीवितं मनः

इत्येवमादेरपवादाः। त्रिविधं हि मरणचित्तं संभवति। क्लिष्टमव्याकृतं कुशलञ्च। तत्र क्लिष्टाव्याकृतचित्तस्योत्सर्गन्यायेन मरणविधिरूक्तः। कुशलचित्तस्य तु मरणे श्रद्धादयः पञ्चाधिकः प्रक्षेप्तव्याः। एषां हि श्रद्धादीनां कुशले चेतस्यवश्यम्भावः। तेन यत्र त्रीण्युक्तानि तत्राष्टौ। यत्राष्टौ तत्र त्रयोदश। यत्र दश तत्र पञ्चदश। यत्र नव तत्र चतुर्दश। यत्र पुनरष्टौ तत्र त्रयोदश। यत्र चत्वारि तत्र नवेति विस्तरेण गणनीयम्। रूपारूप्यधात्वोर्नास्ति क्रममरणम्।

इन्द्रियप्रकरणे सर्व इन्द्रियधर्मा विचार्यन्त इति। इन्द्रियप्रकरणे इह क्रियमाणे सर्व इन्द्रियधर्मा इन्द्रियावस्थाविशेषाः कारित्रविशेषा वा विचार्यन्त इत्येके व्याचक्षते। अपरे तु व्याचक्षते। इन्द्रियप्रकरणे इन्द्रियस्कन्धके सर्व इन्द्रियधर्मा अवस्थाविशेषाः कारित्रविशेषा वा विचार्यन्ते। तेनेहापि ते विचार्यन्ते। तत्प्रत्यासत्वादस्य शास्त्रस्येत्यभिप्रायः।

नवाप्तिरन्त्यफ़लयोः

इति नवभिरिन्द्रियैराप्तिर्नवाप्तिः। कस्य अन्त्यफ़लयोः। अन्ते भवे अन्त्ये अन्त्ये फ़ले अन्त्यफ़ले तयोः। के पुनरन्त्ये। स्रोतत आपत्तिफ़लं अर्हत्त्वफ़लं च। यथा दण्डस्य द्वावन्तौ भवतः। एवं पंक्तयवस्थितानां चतुर्णा फ़लानां स्त्रोत आपत्तिफ़लं अर्हत्त्वफ़लं चान्ते भवतः। सकृदागामिफ़लमनागामिफ़लञ्च मध्ये भवतः। तयोरन्त्ययोः फ़लयोर्नवभिरेवेन्द्रियैः प्राप्तिः। कतमैर्नवभिरित्याह। श्रद्धादिभिराज्ञातावीन्द्रियवर्ज्यैर्मन उपेक्षेन्द्रियाभ्यां चेति नवभिरिति। तत्रैवमभिसमयक्रमः। दुःखे धर्मज्ञानक्षान्तिः। दुःखे धर्मज्ञानम्। दुःखेऽन्वयज्ञानक्षान्तिः। दुःख्ऽन्वयज्ञानम्। समुदये धर्मज्ञानक्षान्तिः। समुदये धर्मज्ञानम्। समुदयेऽन्वयज्ञानक्षान्तिः। समुदयेऽन्वयज्ञानम्। निरोधे धर्मज्ञानक्षान्तिः निरोधे धर्मज्ञानम्। निरोधेऽन्वयज्ञानक्षान्तिः। निरोधेऽन्वयज्ञानम्। मार्गे धर्मज्ञानक्षान्तिः। मार्गे धर्मज्ञानम्। मार्गेऽन्वयज्ञानक्षान्तिः मार्गेऽन्वयज्ञानमिति षोडश क्षणा अभिसमय इत्युच्यन्ते। तत्र दुःखे धर्मज्ञानक्षान्तिर्यावन्मार्गेऽन्वयज्ञानक्षान्तिरिति पञ्चदश क्षणा दर्शनमार्गः ।

अदृष्टदृष्टेर्दृङ्मार्गस्तत्र पञ्चदश क्षणाः

इति वचनात्। तच्चाज्ञास्यामीन्द्रियमित्युच्यते मार्गेऽन्वयज्ञानं तु षोडशः स भावनामार्गः। ततः प्रभृत्या वज्रोपमसमाधेर्यावाननास्रवो मार्गः सर्वोऽसौ भावनामार्गः। तच्चाज्ञेन्द्रियमित्युच्यते। क्षयज्ञानात्प्रभृति सर्वोऽनास्रवो मार्गोऽशैक्षमार्गः। तच्चाज्ञातावीन्द्रियमित्युच्यते। तत्र स्रोत आपत्तिफ़लं मार्गेऽन्वयज्ञान क्षान्त्यवस्थायां प्राप्यते। श्रद्धादीनि चात्र पञ्चेन्द्रियाण्यवश्यं भवन्ति तस्या अवस्थायाः कुशलत्वात्। आज्ञास्यामीन्द्रियस्वभावा चासौ मार्गेऽन्वयज्ञानक्षान्तिर्वर्तमाना। मन इन्द्रियं च तत्संप्रयुक्त भवत्युपेक्षेन्द्रियं चावश्यमनागम्याश्रयत्वात्। अनागम्यस्य चोपेक्षेन्द्रियसंप्रयुक्तत्वात्। मार्गेऽन्वयज्ञानं त्वस्यामवस्थायामाज्ञेन्द्रियस्वभावमुत्पादाभिमुखं वर्तते। तेन श्रद्धादिभिः पञ्चभिराज्ञास्यामीन्द्रियेणाज्ञेन्द्रियेण मन उपेक्षेन्द्रियाभ्यां चेति तत्फ़लं नवभिः प्राप्यते। उभाभ्यां हि तस्य प्राप्तिरिति। आनन्तर्यमार्गेणज्ञास्यामीन्द्रियस्वभावेन विमुक्तिमार्गेण चाज्ञेन्द्रियस्वभावेन तस्य प्राप्तिः। विसंयोगप्राप्तरावाहकसंनिश्रयत्वाद् यथाक्रमम्। तस्या विसंयोगच प्राप्तेरानन्तर्यमार्गस्यावाहकत्वात् जनकत्वात् विमुक्तिमार्गस्य च तस्या सन्निश्रयत्वात् आधारत्वादित्यर्थः। द्वाभ्यां चौरनिष्कासनकपाटपिधानवत्। यथा हि द्वयोर्मनुष्ययोरेकेन चौरो निष्कास्यते द्वितीयेनास्य कपाटं पिधीयते तथानन्तर्यमार्गेण विसंयोगप्राप्तिरावाह्यते क्लेशप्राप्तिमादाय निरोधात् विमुक्तिमार्गेणाधार्यते विसंयोगप्राप्तिहोत्पादात्। अर्हत्त्वस्य पुनः श्रद्धादिभिराज्ञास्यामीन्द्रियवर्ज्यैरिति। वज्रोपमसमाध्यवस्थायामर्हत्त्वफ़लं प्राप्यते। श्रद्धादीनि मन इन्द्रियं च पूर्ववत्। वज्रो पमसमाधिकलापस्तस्यामवस्थायामानन्तर्यमार्ग आज्ञेन्द्रियस्वभावो वर्तमानः। सुखसौमनस्योपेक्षेन्द्रियाणां चान्यतमत्। यदि तृतीयं ध्यानं निश्रित्यार्हत्त्वं प्राप्यते सुखेन्द्रियं तत्र वर्तमानम्। अथ प्रथमं द्वितीयं ध्यानं निश्रित्यार्हत्त्वं प्राप्यते सुखेन्द्रियं तत्र वर्तमानम्। अथ प्रथमं द्वितीयं ध्यानं निश्रित्य तत्र सौमनस्येन्द्रियम्। अथानागम्यध्यानान्तरचतुर्थध्यानाकाशविज्ञानाकिञ्चन्यायतनानामन्यतमं निश्रित्य तत्रोपेक्षेन्द्रियं वर्तमानम्। क्षयज्ञानकलापस्त्वस्यामवस्थायां विमुक्तिमार्ग आज्ञातावीन्द्रियस्वभाव उत्पादभिमुखो भवति। तेन श्रद्धादिभिः पञ्चभिराज्ञेन्द्रियेणाज्ञातावीन्द्रियेण मन इन्द्रियेण सुखसौमनस्योपेक्षेन्द्रियाणां चान्यतमेनेति तत्फ़लं नवभिः प्राप्यते। आनन्तर्यविमुक्तिमार्गाभ्यां तत्प्राप्तिरिति पूर्ववद्वयाख्यानम्।

सप्ताष्टनवभिर्द्वयोः

प्राप्तिरिति वाक्यशेषः। प्रत्येकमिति विस्तरः। सकृदागामिफ़लस्य सप्त भिरष्टाभिर्नवभिर्वा प्राप्तिः। एवमनागामिफ़लस्य। तत्प्रतिपादयन्नाह। सकृदागामिफ़लं तावद्यद्यानुपूर्वकः प्राप्नोति। स च लौकिकेन मार्गेणेति। लौकिको मार्गः शान्ताद्यु दाराद्यकारः।

शान्ताद्युदाराद्याकारा उत्तराधरगोचराः

इति वचनात्। तेनोत्तरां भूमिं शान्ततः प्रणीततो निःसरणतश्चेह योगी पश्यति। अधरामौदारिकतो दुःखलितः स्थूलभित्तिकतश्च पश्यति। स चायं चतुःप्रकारो वर्ण्यते। प्रयोगमार्ग आनन्तर्यमार्गो विमुक्तिमार्गो विशेषमार्गश्च। तत्र प्रयोगमार्गो यत आनन्तर्यमार्ग उत्पद्यते। स पुनर्येन क्लेशान्प्रजहाति। विमुक्तिमार्गोऽप्यानन्तर्यमार्गादनन्तरमुत्पद्यते। क्लेशप्रहाणप्राप्तेराधारकः। विशेषमार्गस्तत उच्च विशिष्टो मार्गः। तेन मार्गेण नवप्रकाराः क्लेशाः प्रहेयाः। अधिमात्राधिमात्रो ऽधिमात्रमध्योऽधिमात्रमृदुः मध्याधिमात्रो मध्यमध्यो मध्यमृदुः मृद्वधिमात्रो मृदुमध्यो मृदुमॄदुश्चेति। तद्यदि पृथग्जनः प्रजहाति दर्शनभावनाहेयान् क्लेशान्मिश्रीकृत्य। तेन मृदुमध्याधिमात्रादिभेदेन नवधा कृत्वा प्रजहाति। मृदुमृदुभ्यामानन्तर्यविमुक्तिमार्गाभ्यामधिमात्राधिमात्र क्लेशप्रकारं प्रजहाति। एवं यावदधिमात्राधिमात्राभ्यामानन्तर्यविमुक्तिमार्गाभ्यां मृदुमृदुक्लेशप्रकारं प्रजहाति। आर्यस्तु भावनाहेयानेव क्लेशास्तथैव नवधा कृत्वा प्रजहाति। दर्शनहेयानां दर्शनमार्गेण प्राक्प्रहीणत्वात्। लोकोत्तरस्तु भावनामार्गस्तथैव षोडशाकरोऽनित्याद्याकारभेदात्। स चापि तथैव प्रयोगादिमार्गभेदाच्चतुर्भेदः। इहापि मृदुमृदुभ्यामानन्तर्यविमुक्तमार्गाभ्यामधिमात्राधिमात्रं क्लेशप्रकारं प्रजहाति। एवं यावदधिमात्राधिमात्राभ्यामानन्तर्यविमुक्तिमार्गाभ्यां मृदुमृदुक्लेशप्रकारं प्रजहाति। एष लौकिकलोकोत्तरयोर्मार्गयोर्दिङ्मात्रनिर्देशः। तत्सकृदागामिफ़लमानुपूवकेण वा लभ्येत भूयोवीतराणेन वा। तत्रानुपूर्विको यः स्रोत आपत्तिफ़लं प्राप्य क्रमात् सकृदागामिफ़लं प्राप्नोति। कश्चासौ। यः सकलबन्धन एकप्रकाराद्यु पलिखितो वा यदि न षष्टप्रकारोपलिखितो नियाममवक्रामति। षोडशे चित्तक्षणेस स्रोत आपन्नो भवति। स भावनाहेयस्यैकस्य यावत्षष्ठस्यैव वा प्रकारस्य प्रहाणाय शमथचरितत्वाल्लौकिकमपि मार्गमुत्पादयति। स षष्ठप्रकारप्रहाणे सकृदागामिफ़लं प्राप्नोति। तस्य फ़लस्य सप्तभिरिन्द्रियैः प्राप्तिः। श्रद्धादिभिः पञ्चभिर्मन इन्द्रियेणोपेक्षेन्द्रियेण च सप्तमेनानागम्यनिश्रयत्वात् अथ लोकोत्तरेण मार्गेण तस्याष्टाभिरिन्द्रियेः प्राप्तिः। तैरेवाज्ञेन्द्रियेण चाष्टमेन। तान्येव हि श्रद्धादीनि सप्तेन्द्रियाण्याज्ञेन्द्रियाख्यां लभन्ते अनास्रवत्वात्। अथ भूयोवीतराग इति। यो लौकिकेन मार्गेण पृथग्जनावस्थायां षट्प्रकारोपलिस्वितोऽभूत्। स भूयोवीतराग इत्युच्यते भूयसा प्रकारेण वीतराग इति कृत्वा। स यदि सकृदागामिफ़लं प्राप्नोति कथं स प्राप्नोति इति। अभिसमयक्रमेण पूर्वोक्तेन मार्गेऽवयज्ञानक्षान्त्यवस्थाया प्राप्नोति। तस्य नवभिर्यथैव स्रोत आपत्तिफ़लस्य। श्रद्धादिभिराज्ञातावीन्द्रियवर्ज्येः मन उपेक्षेन्द्रियाभ्यां चेति पूर्वव्रद्वयाख्यानम्। अयं हि स्स्रोत आपत्तिफ़लमप्राप्यैव षोडशे क्षणे सकृदागामी भवति। अनागामिफ़लं यद्यानुपूर्वकः प्राप्नोतीति। इहानुपूर्वको यः स्रोत आपत्तिफ़लं सकृदागामिफ़लं च प्राप्यानागामिफ़लं प्राप्नोति। यो वा भूयोवीतरागो भूत्वा स्रोत आपत्तिफ़लमलब्ध्वैव सकृदागामिफ़लमेव च लब्धानागामिफ़लं प्राप्नोति। स च यदि लौकिकेन मार्गेण प्राप्नोति। तस्य सप्तभिरिन्द्रियैः प्राप्तिः। यथा सकृदागामिफ़लस्यानुपूर्विकीयस्येत्यभिप्रेतम्। श्रद्धादिभिः पञ्चभिर्मन उपेषेन्द्रियाभ्यां चेत्यर्थः। अथ लोकोत्तरेण मार्गेण तस्याष्टाभिस्तथैवेति। यथा सकृदागामिफ़लस्यैवाष्टाभिरित्यर्थः। आज्ञेन्द्रियमष्टमं भवतीति। अथ वीतराग इति। कामधातुमात्रवीतरागो लौकिकेन मार्गेण नवमे प्रकारे प्रहीणे। प्रथमादपि वा ध्यानाद्यावदाकिच्चन्यादपि वा वीतरागो योऽनागामिफ़लं प्राप्नोति। तस्य नवभिः प्राप्तिः। यथा स्रोत आपत्तिफ़लस्य। स्रोत आपत्तिफ़लस्य हि दर्शनमार्गेण प्राप्तिः। अस्य च दर्शनमार्गेणैव प्राप्तिरिति तुल्यत्वम्। अयं तु विशेषः। सुखसौमनस्योपेक्षेन्द्रियाणामन्यतमं भवति निश्रयविशेषादिति। यदि तृतीयं ध्यानं निश्रित्य नियाममवक्रामति सुखेन्द्रियं तत्र भवति। अथ प्रथमद्वितीये ध्याने निश्रित्य सौमनस्येन्द्रियं तत्र भवति। अथानागम्यध्यानान्तरचतुर्थध्यानानामन्यतमं निश्रित्योपेक्षेन्द्रियं तत्र भवतीति। यदाप्ययमानुपूर्विक इति विस्तरः। यदाप्ययमधिगतपूर्वफ़ल आनुपूर्विकस्तीक्ष्णेन्द्रियः। स नवमे विमुक्तिमार्गे ध्यानं प्रविशति मौलं लौकिकेन मार्गेण तदाप्यष्टाभिरिन्द्रियैरनागामिफ़लं प्राप्नोति। तत्र मौलध्यानसंगृहीतो विमुक्तिमार्गो भवति। तत्र च सौमनस्येन्द्रियम्। आनन्तर्यमार्गस्त्वनागम्यसंगृहीत एव। यदि न प्रविशति तत्र चोपेक्षेन्द्रियमेव नान्यथा। तस्य प्राप्तिरष्टाभिः श्रद्धादिभिः पञ्चभिर्मन उपेक्षासौ अनस्येन्द्रियैश्चेति। उभाभ्यां च तस्य प्राप्तिरिति। आनन्तर्यविमुक्तिमार्गाभ्यां चौरनिष्कासनकपाटपिधानवदिति व्याख्यातमेमत्। अथ लोकोत्तरेण प्रविशतीति। स एवानुपूर्विकस्तीक्ष्णेन्द्रियो वेदितव्योऽधिकारानुवृत्तेः। तस्य नवभिरिन्द्रियैः प्राप्तिः। तैरेवेदानीमुक्तैरिन्द्रियैः आज्ञेन्द्रियेण च नवमेन। तान्येव हीन्द्रियाण्यनास्रवत्वदाज्ञेन्द्रियाख्यां लभन्ते।

इदमिह चोद्यते। कस्मादानुपूर्विक एवमुक्तो न पुनर्वीतरागपूर्वी। न हि वीतरागपूर्व्यनागम्यनिश्रयेण दर्शनमार्गमुत्पाद्य षोडशे चित्तक्षणे मौलं प्रथमं ध्यानं प्रविशति। तत्राधिगतेऽनादरात्। आनुपूर्विको हि मौलध्यानार्थी तस्यानधिगतपूर्वत्वात्। तस्मादस्ति सम्भवो यदसौ मौलमेव प्रविशति। वीतरागपूर्वी तु चतुःसत्यदर्शनं प्रति कृतादरः न ध्यानं प्रति इति न तत्र षोडशे चित्तक्षणे मौलं ध्यानं प्रविशतीत्यभिप्रायः।। १६ ।।

नवाप्तिरन्त्यफ़लयोः

इत्युक्तम् तद्विरोधयति यत्तर्हि अभिधर्म ऊक्तम् ज्ञानप्रस्थाने। कतिभिरिन्द्रियैरहर्त्त्वं प्राप्नोतीति आह

[ अर्हत्त्वस्यैकादशभिरूक्तमेकस्य सम्भवात्।
उपेक्षाजीवितमनोयुक्तोऽब्वश्यं त्रयान्तिः।। १७।। ]

एकादशभिः

इति। तत्कथं न विरूध्यत इत्यभिप्रायः।

एकस्य सम्भवात

इति। कस्यचिदेवैकस्य पुद्गलस्य सम्भवः न सर्वस्य सम्भवः। यो हि मृद्विन्द्रियः परिहाय परिहाय सुखसौमनस्योपेक्षाभिः निश्रयविशेषात्पार्यायिकीभिरर्हत्त्वं प्राप्नुयात् तं प्रत्येवमुक्तम्। एकादशभिरिति। न तु सम्भवोऽस्ति सुखसौमनस्योपेक्षाणां एकस्मिन्काले समवधानमित्यर्थः। चित्तचैत्तानामेकैकद्धव्योत्पत्तेः यो हि कश्चिन्मुद्विन्द्रियः पुद्गलोऽनागम्यं वोपेक्षेन्द्रियनिश्रयं निश्रित्यार्हत्त्वं प्राप्नुयात् तस्य तत्प्राप्तिरूपेक्षेन्द्रियेण। ततः पुनरपि परिहीयते। ततः प्रथमं द्वितीयं वा ध्यानं निश्रित्य पुनरर्हत्त्वं प्राप्नुयात्। तस्य तत्प्राप्तिः सौमनस्येन्द्रियेण। ततः पुनरपि परिहीयते। ततः स तृतीयं ध्यानं निश्रित्य पुनरर्हत्त्वं प्राप्नुयात्। तस्य तत्प्राप्तिः सुखेन्द्रियेण। इति प्रत्येकं तत्र फ़लप्राप्ताववश्यं नवैवेन्द्रियाणि व्याप्रियन्ते। श्रद्धादीनि पञ्च मन आज्ञाज्ञातावीन्द्रियाणि सुखसौमनस्योपेक्षेन्द्रियाणां चान्यतमदिति। पुनः पुनः प्राप्तेस्तदेकादशभिरित्युक्तम्। कथमनागामिनोऽप्येष प्रसङ्गो न भवतीति । कस्मात्तत्र शास्त्रेऽर्हत्त्वफ़लमेवैकादाचित्सुखेन्द्रियेण प्राप्नोतीति। असावनागामी तृतीयध्यानोर्ध्वभूमिलाभात् परिहीणो भवति। ऊर्ध्वभूमेरेव परिहीणो भवति। नासावनागामिफ़लात्परिहीण इत्युच्यते। एवं यावद्द्वितीयध्यानात्। यदा तु प्रथमात्परिहीणो भवति तदानागामिफ़लात्परिहीण इत्युच्यते। पञ्चावरभागीयप्रहाणाद्धि अनागामिफ़लं व्यवस्थाप्यते। यदा च स कामवैराग्यात्परिहीणस्तदा तृतीयं ध्यानमस्य नास्ति। तत्कथं मुखेन्द्रियेणानागामिफ़लं प्रानुयात्। तत आह। न ह्यसौ परिहीणः कदाचित्सुखेन्द्रियेण प्राप्नोतीति। किम् सौमनस्येन्द्रियेण प्राप्नुयात्। यत एवं सुखेन्द्रियस्यैव प्रतिषेधः प्रानुयाद् यदि नवभे विमुक्तिमार्गे मौलं ध्यानं प्रविशेत्। नैतदस्ति। यो हि परिहीणो भवेत् स मृद्विन्द्रियः। यश्च मृद्विन्द्रियः स न शक्नोति नवमे विमुक्तिमार्गे मौलं ध्यानं प्रवेष्टुम् तीक्ष्णेन्द्रियस्तु शक्नोति इन्द्रियसञ्चारस्यादुष्करत्वात्। अस्त्येतत्। किं तु यद्यसौ मृद्विन्द्रियं आनुपूर्विकोऽनागामिफ़लं प्राप्य ततश्च परिहीणो भूत्वा इन्द्रियसञ्चारं कुर्यात् इन्द्रियसञ्चारेण च तीक्ष्णेन्द्रियो भूत्वा पूर्वकेणैव क्रमेणानागामिफ़लं प्राप्नुवन् यदि नवमे विमुक्तिमार्गे मौलं प्रविशेत् तस्य तदानागामिफ़लप्राप्तिरष्टाभिर्नवभिर्वा भवति श्रद्धादिभिः पञ्चभिर्न इन्द्रियेणोपेक्षेन्द्रियेण चानन्तर्यमार्गसंगृहीतेन सौमनस्येन्द्रियेण च मौलध्यानविमुक्तिमार्ग संगृहीतेनेति। लोकोत्तरेण चैन्मौलं ध्यानं प्रविशेत् एभिश्चाष्टाभिराज्ञेन्द्रियेण च नवमेनेत्यवगन्तव्यम्। तस्मात् सूक्त न ह्यसौ परिहीणः कदाचित्सुखेन्द्रियेण प्राप्नोतीति। वीतरागपूर्वी तर्ह्येकादशभिस्तत्प्राप्नुयात्। कथम् यो मृद्विन्द्रियः पुद्गलस्तृतीयध्यानलाभी तृतीयं ध्यानं निश्रित्य नियाममवक्रामेत्। स षोडशे चित्तक्षणे अनागामी भवति। सा तत्फ़लप्राप्तिः सुखेन्द्रियेण श्रद्धादिभिः पञ्चभिर्मन आज्ञास्यामीन्द्रियाज्ञेन्द्रियैश्चेति। स ततोऽनागामिफ़लात्परिहीण इन्द्रियोत्तापनेन तीक्ष्णेन्द्रियमात्मानं कृत्वा अनागम्यनिश्रयेणैवानागामिफ़लं प्राप्नु वन्नवमे विमुक्तिमार्गे मौलं प्रविशेत्। तस्य तत्फ़लप्राप्तिः पूर्ववदुपेक्षेन्द्रियेण सौमनस्येन्द्रियेण च श्रद्धादिभिश्चापि पञ्चभिमर्न इन्द्रियेण चाष्टमेन लोकोत्तरमार्गत्वादाज्ञेन्द्रियेणापि नवमेन। इत्येवं द्वयोः कालयोरेकादशभिरिन्द्रयैः स पुद्गलस्तदनागामिफ़लं प्राप्नुयादिति। ततस्तत्प्रतिषेधार्थमिदमाह। न च वीतरागपूर्वी परिहीयते। तद्वैराग्यस्य द्विमार्गप्रापणादिति। न च कामवीतरागः केनचिन्निश्रयेण नियाममवक्रान्तः परिहीयते। कस्मात् तद्वैराग्यस्य कामवैराग्यस्य द्विमार्गप्रापणात् लौकिकलोकोत्तरमार्गप्रापणात्। इह फ़लं द्विविधम् संस्कृतमसंस्कृतं च

संस्कृतासंस्कृतं फ़लम्

इति वचनात्। तत्र यदसंस्कॄतं विसंयोगलक्षणमनागामिफ़लम् तत्पूर्व लौकिकेन मार्गेण प्राप्तम् नियमावक्रान्तौ च लोकोत्तरेण मार्गेण पुनस्तत्प्राप्तम्। द्विविधा हि तस्य प्राप्तिः। लौकिकी लोकोत्तरा च। तस्मात्स्थिरं तद्वैराग्यम्। तस्मादतो न परिहीयते।

ननु च

फ़लाद्धानिर्न पूर्वकात्

दर्शनहेयानामवस्तुकत्वादित्येतदपि कारणान्तरमस्ति। कस्मात्तदिह नोक्तमिति। एतदपि वक्तव्यम्। अपि खलु पर एवं व्रूयात्। मा भूद्दर्शनहेयक्लेशवैराग्यपरिहाणिः। भावनाहेयक्लेशमात्रवैराग्यपरिहाणिस्तु कस्मादस्य परिहीणकस्य न भवेत्। पञ्चावरभागीयप्रहाणाद्धि अनागामिफ़लात् भवति। तत्र च सत्कायदृष्टिः शीलव्रतपरमाशो विचिकित्सा च दर्शनहेयाः। कामच्छन्दो व्यापादश्च  भावनाहेयौ। तयोश्च वीतरागपूर्विणोऽभिसमयान्ते षोडशे चित्तक्षणे प्रहाणस्य लोकिकेन मार्गेण प्राप्तस्य तत्सामर्थ्यात् पुनरनास्रवा प्राप्तिर्भवति अनास्रवगोत्राणां लब्धत्वात्। अनास्रवं हि नवमविमुक्तिमार्गस्वभावं संस्कृतमनागामिफ़लमसंस्कृतं च कामच्छन्दादिप्रहाणं तस्यामवस्थायां लभ्यते। तस्मादिदमेव कारणमुक्तम्। आर्येण तद्वैराग्यस्य द्विमार्गप्रापणादिति कामच्छन्दादिप्रहाणस्य द्विमार्गप्रापणादित्यर्थः।

उपेक्षाजीवितमनोयुक्तोऽवश्यं त्रयान्वितः

इति। उपेक्षया जीवितेन मनसा वा युक्तोऽन्वितोऽवश्यं त्रयेण समन्वागतः। तेनैवोपेक्षाजीवितमनःस्वभावेन। न ह्येषामन्योन्येन विना समन्वागम इति। यदैकस्य समन्वागमस्तदेतयोरपि समन्वागमः। तेनैषां समन्वागमव्यवस्थानं क्रियते चक्षुरादीनां तु न क्रियते। तस्मादाह चक्षुः श्रोत्रघ्राणजिह्वेन्द्रियैरिति विस्तरः। चक्षुः श्रोत्रघ्राण्जिह्वेन्द्रियैरारूप्यधातुपपन्नो न समन्वागत इत्यत्र कयेन्द्रियाग्रहणम्। कामधातौ च येनाप्रति लब्धविहीनानीत्यस्योपचयार्थस्य चक्षुरादिष्वेव सम्भवान्न कायेन्द्रिये। अन्यथा हि रूपिभिरिन्द्रियैरारूप्योपपन्नो न समन्वागत इत्येवोच्यते। अप्रतिलब्धानि कललाद्यवस्थायाम्। विहीनानि लब्धविनाशादन्धत्वाद्यवस्थायां क्रममरणे वा। पृथग्जना न समन्वागता इति विशेषणम् आर्यस्यावश्यं समन्वागतत्वात्। न हि तस्य भूमिसञ्चारेण अनास्रवसुखादित्यागः। दौर्मनस्येन कामवीतराग इति। इहस्थो धात्वन्तरस्थो वा पृथग्जनो  वार्यो वा न समन्वागतः। पृथग्जनफ़लस्था इति। फ़लस्थाः स्रोत आपन्नादयः। अभिसमयान्ते विहीनत्वात् तेनानाज्ञातमाग़्यास्यामीन्द्रियेणासमन्वगताः। आज्ञेन्द्रियेण दर्शनमार्गस्था अप्राप्तत्वादसमन्वागताः। अशैक्षामार्गस्थाः फ़लप्राप्तौ विहीनत्वादसमन्वागताः। अप्रतिषिद्धास्ववस्थासु यथोक्तसमन्वागमो वेदितव्य इति। या अप्रतिषिद्धा अवस्थाश्चक्षुरादिभिरिन्द्रियैः समन्वागमं प्रति तास्ववस्थासु यद्यदिन्द्रियमुक्तम्। तैस्तैः समन्वागतो वेदितव्य इत्यर्थः। तद्यथा कामधातावप्रतिलब्धविहीनावस्थां हित्वा चक्षुरादिभिर्जिह्वान्तैः समन्वागतः। कायेन्द्रिन्येण कामरूप्धातूपपन्नः समन्वागत इत्यादि।। १७।।

[ चतुर्भिः सुखकायाभ्यां पञ्चभिश्चक्षुरादिमान्।
सौमनस्यी च दुःखी तु सप्तभिः स्त्रीन्द्रियादिमान्॥ १८।।
अष्टाभिरेकादशभिराज्ञाज्ञाताविसान्वयः।
आज्ञास्यामीन्द्रियोपेतास्त्रयोदशभिरन्वितः ।। १९।। ]

चतुर्भिः सुखकायाभ्याम्

इति। युक्त इति वर्तते। अवश्यमिति च। संख्यानुक्रमविवक्षायां तु तदनन्तरं तैरित्येवानन्तरं सुखादिग्रहणम्। सुखेन्द्रियेण समन्वागत इति। चतुर्थध्यानारूप्पधातूपन्न पृथग्जनं मुक्त। सर्वः सुखेन्द्रियेण समन्वागतः। तस्यान्यैर्नावश्यं समन्वागतः। चक्षुरादिभिर्जिह्वेन्द्रियान्तैरारूप्यधातौ कामधातौ चाप्रतिलब्धविहीनावस्थायामसमन्वागमः। कायेन्द्रियेण चारूप्यधातौ। स्त्रीपुरूषेन्द्रियाभुं रूपारूप्यधात्वोश्च। कामधातौ चालब्धविहीनावस्थायाम्। दुःखेन्द्रियेण रूपारूप्यधात्वोः। सौमनस्येन्द्रियेण पृथग्जनस्तृतीयध्यानोपपन्नः। दौर्मनस्येन्द्रियेण कामवीतरागावस्थायाम्। श्रद्धादिभिः पञ्चभिः समुच्छिन्नकुशलमूलावस्थायाम्। आज्ञास्यामीन्द्रियेण पृथग्जनफ़लस्थावस्थायाम्। आज्ञेन्द्रियेरा पृथय्जनदर्शनमार्गस्थाशैक्षावस्थायाम्। आज्ञातावीन्द्रियेण पृथग्जनशैक्षावस्थायामसन्वागत इति। यः कायेन्द्रियेण सोऽपि चतुर्भिरिति। कामधातूपपन्नः कायेन्द्रियेण समन्वागतः। तस्य नान्यैरवश्यं समन्वागमः। चक्षुरादिभिः कामधातावलब्धविहीनवस्थायामसम्वागमः। स्त्रीपुरूषेन्द्रियाभ्यामेतस्यामेवावस्थायां रूपधातौ चासमन्वागमः। दुःखेन चास्मिन्नेव। सुखेन च पृथग्जनस्य चतुर्थध्यानोपपत्तावसमन्वागमः। सौमनस्येन पृथग्ज्ञनस्तृतीयचतुर्थध्यानोपपन्नोऽसमन्वागतः। दौर्मनस्येन श्रद्धादिभिश्चान्यैः पूर्ववदसमन्वागमो वक्तव्यः।

पञ्चभिश्चक्षुरादिमान्

इति। चक्षुः श्रोत्रघ्राणजिह्वावानित्यर्थः। तेन चेत् तेन चक्षुषा। चक्षुषि सत्यवश्यं कायेन्द्रियम्। न तु श्रोत्रादीनि। कामधातावलब्धविहीनत्वसम्भवात्। स्त्रीपुरूषेन्द्रियादीनां पूर्ववद्वयभिचारो वक्तव्यः। एवं श्रोत्रघ्राणजिह्वेन्द्रियैरिति। यः श्रोत्रेन्द्रियेण सोऽवश्यं पञ्चभिरूपेक्षाजीवितमनः कायैस्तेन च। इत्येवं षर्वं नेयम्।

सौमनस्यी च।

किम् पञ्चभिरवश्यं समन्वागत इत्यधिकृतम्। चक्षुरादिष्वेव सौमनस्यं कस्मान्न प्रक्षिप्तम् अन्यस्थानपाठात्। तथा ह्यादिशब्देन प्रक्षेप आकुलः स्यात्। द्वितीयध्यानजस्तृतीयालाभी कतमेन सुखेन्द्रियेण समन्वागत इति। सुखेन्द्रियं कामधातौ पञ्चविज्ञानकायिकं प्रथमे च ध्याने त्रिविज्ञानकायिकमस्ति तृतीये तु ध्याने मानसम्। अतो द्वितीयध्यानजो नाधरेण सुखेन्द्रियेण समन्वागतः तस्य भूमिसञ्चारेण त्यक्तत्वात् न तृतीयध्यानभूमिकेन तस्यालाभित्वादिति मत्वा चोदयति। कतमेन सुखेन्द्रियेण समन्वागत इति। आह क्लिष्टेन तृतीयध्यानभूमिकेनेति। सर्वे ह्यधरभूम्युपपन्नाः सत्त्वा उपरिभूमिकेनाप्रहीणेन क्लिष्टेन समन्वागता इति सिद्धान्तः। शेषेन्द्रिय व्यभिचारः पूर्ववद्वक्तव्यः।

दुःखी तु सप्तभिः

इति। कामधातूपपन्नो ह्येषः। तस्मादवश्यं कायेन्द्रियेण चतुर्भिश्च वेदनेन्द्रियैरिति दौर्मनस्यवर्ज्यैः। तद्वीतरागावस्थायां दौर्मनस्यं व्यभिचरति। मनोजीवितेन्द्रिये च स्त इत्यवश्यं सप्तभिरिन्द्रियैः समन्वागतः। शेषेन्द्रियव्यभिचारस्तु पूर्ववद्वाच्यः।

स्त्रीन्द्रियादिमान्

अष्टाभिः

इति। स्त्रीपुरूषदौर्मनस्यश्रद्धावीर्यस्मृतिसमाधिप्रज्ञेन्द्रियवानित्यर्थः। जीवितमनः सुखदुःखसौमनस्योपेक्षेन्द्रियाणामुक्तत्वात् आज्ञातावीन्द्रियादीनां च त्रयाणां वक्ष्यमाणत्वात् एषामेवाष्टानामिन्द्रियाणां ग्रहणं भवति। यः स्त्रीन्द्रियेण समन्वागत इति स कामधातूपपन्न एव स्त्रीन्द्रियवत्त्वात्। अतः स्प्ऽवश्यमष्टाभिरिन्द्रियैः समन्वागतः। कतमैरित्याह तैश्च सप्तभिः स्त्रीन्द्रियेण चेति। कायजीवितमनोभिश्चतुर्भिश्च वेदनेन्द्रियैरिति सप्तभिः स्त्रीन्द्रियेण चाष्टमेन। शेषैरनियमः। यथोक्त चक्षुरादीनां वैकल्यसम्भवादित्यादिभिः कारणैः। स्त्रीन्द्रियवत् पुरूषेन्द्रियवानपि वतव्यः। दौर्मनस्यवानपि कामोपपन्नः कामावीतराग इति तथैव तैः सप्तभिर्दौर्मनस्येन च। श्रद्धावानपि त्रैधातुकः सत्त्व इति तैः पञ्चभिः श्रद्धादिभिरविनाभाविभिरूपेक्षाजीवितमनोभिश्च समन्वागतः। शेषैरनियमः पूर्ववत्। यथा श्रद्धावानेवं यावत्प्रज्ञावान्।

आज्ञाते इन्द्रियमाज्ञात्र्न्द्रियमिति। आज्ञात एवेन्द्रियमज्ञातेन्द्रियम् । निरवशेषाज्ञात इन्द्रियमित्यर्थः। आज्ञेन्द्रियमपि ह्याज्ञात इन्द्रियम् न तु निरवशेषे सावशेषत्वात् प्रहेयस्य। अथवा पदैकदेशग्रहणेन आज्ञातावी पुद्गल आज्ञात इत्युच्यते तस्येन्द्रियमाज्ञातेन्द्रियमिति। य आज्ञेन्द्रियेण सोऽवश्यमेकादशभिरिति। आज्ञेन्द्रियवान् फ़लस्थः शैक्षस्त्रिष्वपि धातुषु भवति। स चतुर्थध्यानारूप्योपपन्नः कथ सुखसौमनस्येन्द्रियाभ्यां समन्वागतः। यस्मादार्यः कामवैराग्येऽवश्यं सौमनस्येन्द्रियं प्रतिलभते द्वितीयध्यानवैराज्ये च सुखेन्द्रियम्। ते च भूमिसञ्चारेऽपि न त्यज्येते। तथा हि वक्ष्यति

भूमिसञ्चारहानिभ्यां ध्यानाप्तं त्यज्यते शुभम्।
तथारूप्याप्तमार्य तु फ़लाप्त्युत्तप्तिहानिभिः।।

इति। फ़लप्राप्तीन्द्रियोत्तापनेऽपि यद्यपि ते प्रतिपन्नकमार्गमृद्विन्द्रियमार्गसंगृहीते त्यज्येते तथाप्यपरे फ़लस्थतीक्ष्णेन्द्रियमार्गस्वभावे लभ्येते। तस्मात्ताभ्यां सुखसौमनस्याभ्यां भूमिसञ्चारेऽप्यपरित्यक्ताभ्यां चतुर्थध्यानारूप्योपपन्नोऽप्यार्यः समन्वागत एव भवति। शेषैः पूर्ववदनियमः।

आज्ञास्यामीन्द्रियोपतस्त्रयोदशभिरन्वितः

इति विस्तरः। आज्ञास्यामीन्द्रियसमन्वागतः कामावचरः सत्त्वः कामधातावेवाज्ञास्यामीन्द्रियोत्पादनात्।

असंवेगादिह विधा तत्र निष्ठेति वाचनात्

इति। तस्मादवश्यं कायेन्द्रियमस्यास्ति। चतस्रो वेदना दौर्मनस्यवर्ज्याः। तस्य वीतरागावस्थायां व्यभिचारात्। तत्रावश्यमिति वर्तते। त्रयोदशभिरेभिरिन्द्रियैरवश्यमेव समन्वागत इत्यवधार्यते न तु त्रयोदशभिरेवेति। शेषैरनियमः। अन्धादिष्वपि दर्शनमार्गसम्भवात्। स्त्रीपुरूषेन्द्रिययोर्वैकल्ये कथं दर्शनमार्गोत्पत्तिः। स्त्रीपुरूषेन्द्रियवियुक्तविकलानां हि संवरफ़लप्राप्तिवैराग्याणि न सन्तीति। केचित्तावादाहुः। प्रतिलब्धसंवराणां फ़लप्राप्तिर्भवति। द्विव्यञ्जनोदयाद्धि प्रातिमोक्षसंवरत्यागो भवति न तद्वैकल्यात्। क्रममरणाद्वा स्त्रीपुरूषेन्द्रियनिरोधेऽप्यभ्यस्तनिर्वेधभागीयस्य दर्शनमार्गोत्पत्तिर्भवति। अपरे पुनराहुः। पुद्गलसामान्यमिहाधिक्रियते नैकत्रैवेन्द्रियैरावश्यकसमन्वागमव्यभिचारावुच्येते। कथम्

उपेक्षाजीवितमनोयुक्तोऽवश्यं त्रयान्वितः

इति यावत्। उपेक्षासमन्वागतः पुद्गलः कामधातूपपन्नो वा यावद्भवाग्रोपपन्नो वा सर्वोऽसाववश्यं त्रयेण समन्वागतः। चक्षुरादिव्यभिचारस्तु सम्भवतो न सर्वत्र। कश्चिदेव हि रूपिभिरिन्द्रियैरसमन्वागतो य आरूप्यधातूपपन्नः न तु यो रूपधातूपपन्नः। विस्तरेण यावत्कश्चिदेव श्रद्धादिभिरसमन्वागतो यः समुच्छिन्नकुशलमूलः न तु स एवारूप्यधातूपपन्नः। तथेहापि यावानाज्ञास्यामीन्द्रियोपेतः सर्वोऽसावेभिर्यथोकैस्त्रयोदशभिरिन्द्रयैरवश्यं समन्वागतः। व्यभिचारस्तु सम्भवतः कस्यचिदेव। तथा हि कस्यचिच्चक्षुरिन्द्रियेणासमन्वागमो योऽन्ध कस्यचिच्छोत्रेन्द्रियेण यो बधिरः। एवं घ्राणादिभिः यावत् कस्य चित्स्त्रीन्द्रियेण यः पुरूषः कस्यचित्पुरूषेन्द्रियेण या स्त्री कस्यचिद्दौर्मनस्येन यो वीतरागः इत्येवमेवावगन्तव्यम्।। १९।।

[ कायविज्जीवितमनः सर्वाल्पैनिःशुभोऽष्टभिः।
अपि वालस्तथारूप्य उपेक्षायुर्मनःशुभैः।। २०।। ]

सर्वाल्पैर्निःशुभोऽष्टभिः

इति। एकः पुद्गलः सर्वेभ्योऽल्पैर्यः समन्वागतः। स कियद्भिरल्पैः समन्वागत इत्याह निःसुभो यः समुच्छिन्नकुशलमूलः। स च कामधातावेव।

छिनत्ति स्त्रीपुमान् दृष्टिचरितः

इति। कामवैराग्यं वास्य न संभवति। तस्मादस्य पञ्चापि वेदनेन्द्रियाणि सन्ति। कायेन्द्रियं च जीवितमनसी च स्त एव सर्वत्र। चक्षुरादीनि तु न सन्ति क्रममरणावस्थायामन्धत्वाद्यवस्थायां च तेषामभावात्। वेदयत इतिकृत्वेति कर्तरि क्विप्। वेदनं वा विदिति भावसाधन औणादिकः क्विप्। ज्ञापकं दर्शयति यथा संपदनं संपदिति।

तथारूप्ये

इति। संख्यामात्र तथाशब्देन संबध्यते। एकान्तकुशलत्वाच्छद्धादीनि शुभग्रहणेन गृह्यन्त इति। शुभान्येव नाकुशलाव्याकृतानि यानि तानि शुभानीत्यर्थः। आज्ञास्यामीन्द्रियादीनामपि ग्रहणप्रस ण्ग इति। तान्यप्येकान्तकुशलानि। तस्मात्तद्गहणप्रसङ्ग इति। न। अष्टाधिकारादिति।

निःशुभोऽष्टभिः

इत्येतस्मात्।

उपेक्षायुर्मनःशुभैः

अष्टाभिरित्यप्यज्ञास्यमीन्द्रियादीनां निरासः कृतो भवति। अष्टशब्देन कृतावधित्वात्। बालाधिकाराच्चेति। वालोऽत्राधिक्रियते।

बालस्तथारूप्ये

इति वचनात्। आज्ञास्यामीन्द्रियाद्यभावे च पृथग्जनो भवति। पृथग्जनत्वं कतमत् आर्यधर्माणामलाभ इति वचनात्। तस्मात्तेष्वनास्रवेष्वप्रसङ्ग इति।। २०।।

[ सर्वबहुभिरेकान्नविंशत्यामलवर्जितैः। २१।। ]

द्विव्यञ्जनो यः समग्रेन्द्रिय इति। द्विव्यञ्जनोऽपि हि समग्रचक्षुरादिक एवमेकान्नविंशत्या समन्वागतो नान्यथा । आज्ञातावीन्द्रियं द्वयोश्चान्यतरदिति। रागित्वादाज्ञातावीन्द्रियमेकान्तेन वर्जयितव्यम्। आर्यस्य चाज्ञास्यामीन्द्रियाज्ञेन्द्रियाभ्यामवश्यं पर्यायेण समन्वागमात्। यदाग़्यस्यामीन्द्रियं न तदाज्ञेन्द्रियं न तदाज्ञास्यामीन्द्रियम्। उक्त इद्न्रियाणां धातुप्रभेदप्रसङ्गेनागतानां विस्तरेण प्रभेद इति। अष्टादशानां धातूनां कतीन्द्रियं कति नेन्द्रियमिति धातुप्रभेदप्रसङ्गेन।

धर्मार्ध इन्द्रियं ये च द्वादशाध्यात्मिकाः स्मृताः

इति इन्द्रियाण्यागतानि। तेषां प्रभेदः।

अमलं त्रयम्

इत्येवमादिविस्तरेणोक्तः।। २१।।

[ कामेऽष्टद्रव्यकोऽशब्दः परमाणुरनिन्द्रियः।
कायेन्द्रियो नवद्रव्यो दशद्रव्योऽपरेन्द्रियः।। २२।। ]

किमेते संस्कृता धर्मा इति। ये ते स्कन्धधात्वायतनत्वेनाभिहिताः पूर्वम्। यथा भिन्नलक्षणा इति। रूप्यते इति रूपम्। अनुभवो वेदना। निमित्तोद्गहणं संज्ञेत्यादि। संस्कृतग्रहणमुत्पत्तिमत्त्वात्। उताहो नियतसहोत्पादा अपि। केचित् सन्तीति। सन्ति हि केचित्सहोत्पादाः न तु नियतसहोत्पादाः। यथा चक्षुरादिसहोत्पादास्तद्विज्ञानादयश्चक्षुरादीनां सभागतत्सभागभावात्। तस्मादेवं पृच्छति सर्व इमे धर्माः पञ्च भवन्तीति। पञ्चवस्तुकनयेनैवं सर्वधर्मसंग्रहो व्यवस्थाप्यते। रूपादिकलापमुखेन धर्मनिर्देशः सुखप्रतिपत्त्यर्थम्। तत्रासंस्कृतं नैवोत्पद्यत् इति। न तत्प्रति सहोत्पादनियमश्चिन्त्यते। सर्वसूक्ष्मो रूपसंघातः परमाणुरिति। संघातपरमाणुर्न द्रव्यपरमाणुः। यत्र हि पूर्वपरभागो नास्ति तत्सर्वरूपापचितं द्रव्यं द्रव्यपरमाणुरितीष्यते। तस्माद्विशिनष्टि संघातः परमाणुरिति।

कामेऽष्टद्रव्यकोऽशब्दः

इति। कामधातौ यदा शब्दोऽत्र नोत्पद्यते तदा नियतमष्टद्रव्यक एव भवति नातो न्यूनद्रव्यकः।

अपरेन्द्रियः

इति। अपरमिन्द्रियस्मिन्नित्यपरेन्द्रियः चक्षुरादिमानित्यर्थः। यत्र हि चक्षु श्रोत्रादि वा तत्र कायेन्द्रियेण भवितव्यम् तत्प्रतिबद्धवृत्तित्वाच्चक्षुरादीनाम्। सशब्दाः पुनरेते परमाणव इत्यष्टद्रव्यकादयः संघातपरमाणवः सशब्दा उत्पद्यमाना यथाक्रमं नवदशैकादशद्रव्यका उत्पद्यन्ते। योऽष्टद्रव्यकः स नवद्रव्यकः। यो नवद्रव्यकः स दशद्रव्यकः। यो दशद्रव्यकः स एकादशद्रव्यक इति। अस्ति हीन्द्रियाविनिर्भागी शब्दोऽपीति। इन्द्रियाद्विनिर्भक्तुं यो न शक्यते स इन्द्रियाविनिर्भागी शब्द इन्द्रियापृथग्वर्तीत्यर्थः। अविनिर्भागीति केचिद्भुजि पठन्ति। कथमविनिर्भागे भूतानां कश्चिदेव संघातः कठिन इत्यादि। कठिनः पृथिवीधातुः। द्रवोऽब्धातुः। उष्णस्तेजोधातुः। समुदीरणा वायुधातुः। तुल्यभूतसद्भावात्तुल्यरूपैस्तत्संधातैर्भवितव्यमित्यभिप्रायः। यद्यत्र पटुतमिति विस्तरः। यद्द्रव्यं पृथिव्यादिलक्षणम् यत्र संधाते पटुतमं स्फ़ुटतमम्। प्रभावतः शक्तितः। न तु द्रव्यतः। उद्भूतमुत्पन्नम्। तस्य तत्रोपलब्धिः। तस्य द्रव्यस्य तत्र संघात उपलब्धिर्ग्रहणम्। सूचीतूलीकलापस्पर्शवत्। तत्र सूच्यो लोहमय्यः प्रतीता लोके। तूल्यो वीरणादिपुष्पमूलदण्डाः याः सिका इति प्राकृतजनप्रतीताः तासां सूचीनां तूलीनां च कलापः तस्य स्पर्शः सूचीतूलीकलापस्पर्शः। तस्य चोपलब्धिः तस्य पटुतमस्य प्रभावत उद्भूतस्य भूतस्येति। तत्र तस्येवेत्यनेन लक्षणेन वतिः। एतदुक्त भवति। तथा तुल्येऽपि सूचीनां तूलीनां कलापसद्भावे तीक्ष्णत्वात्सूचीनाभेव स्पर्शो व्यक्तमुपलभ्यते न तूलीनामतीक्ष्णत्वात्। तथा क्वचिदेव संघाते काष्ठादिके कठिनमुपलभ्यते। क्वचिद्दवः पानीये। क्कचिदुष्णोऽग्नौ। क्कचित्समुदीरणा वायौ। न च तत्र तत्र संघाते चत्वारि महाभूतानि न सन्ति। सक्तुलवणचूर्णरसवच्च। सक्तुचूर्णानां लवणचूर्णानां च यथा रसस्योपलब्धिः लवणचूर्णरस एव व्यक्तमुपलभ्यते न तु सक्तुचूर्णरसः तद्वदिहापीति। संग्रहधृतिपक्तिव्यूहनादिति। संग्रहकर्मणाब्धातोरस्तित्वं गम्यते काष्ठादिके। अन्यथा पांसुमुष्टिवत्तद्विशीर्यते। यदि तत्राब्धातुर्न स्यात्। धृतिकर्मणाप्सु नौप्रभृतीनां पृथिवीधातोरस्तित्वं गम्यते। पक्तिकर्मणा तेजोधातोरस्तित्वं गम्यते। यदि हि तन्न स्यात्काष्ठादिकं न पूतीभवेत्। व्यूहनकर्मणा वायुधातोरस्तित्वं गम्यते। प्रसर्पणं हि तस्य न स्याद्वद्धिर्वा यदि वायुधातुस्तत्र न स्यात्। एवमन्यत्रापि योज्यम्। प्रत्ययलाभे च सतीति विस्तरः। प्रत्ययानामग्नयादीनां लाभे सति कठिनदीनां द्रवद्रव्याणां च द्रवणादिब् हावात् द्रवणघनत्वादिभावात्। तद्यथाग्निभूते सति कठिनस्य लोहस्य द्रवणम्। तेन ज्ञायते लोहेऽब्धातुरस्तीति। तथा द्रवस्य शैत्यादिप्रत्ययलाभे काठिन्यम् तेन ज्ञायते पृथिवीधातोरत्रास्तित्वमिति। तथा कठिनसंघर्षादौष्ण्यमुपलभ्यते तेन तेजोधातोरत्रास्तित्वं गम्यते। इत्येवं संभवतोऽन्यत्रापि योज्यम्। अप्सु शैत्यातिशयादौष्ण्यं गम्यते इत्यपर इति भदन्तश्रीलाभः। यस्मादापः शीताः शीततराः शीततमाश्चोपलभ्यन्ते। ततो ज्ञायते तेजसस्तत्रान्यतरतमोत्पत्तेः शैत्यातिशयः। तेन च तत्र तेजोऽस्तीति गम्यते।

अव्यतिभेदेऽपीति विस्तरः। तं मतमाचार्यो दूषयति। यथा न च शब्दस्य द्रव्यान्तरेण व्यतिभेदो मिश्रीभावोऽस्ति। अतिशयश्च भवति स्वभावभेदात्पटुः शब्दः पटुतरः पटुतम इति। एवमिहापि भवेत्। यथा च वेदनाया न केनचिद्दव्यान्तरेण व्यतिभेदो भवतीति स्वभावभेदात्तारतम्येनातिशयः तथेहापीति। नानेन तेजोऽस्तित्वं गम्यते। ता एव ह्यापः काश्चिच्छीताः काश्चिछीततराः काश्चिच्छीततमा इति  बीजास्तेषु तेषां भावो न स्वरूपत इत्यपर इति सौत्रान्तिकाः। बीजतः शक्तितः सामर्थ्यत इत्यर्थः। न स्वरूपतो न द्रव्यत इत्यर्थः। शक्तिरेव हि नानाविधास्ति यया योगिब् हिरधिमोक्षविशेषेण सुवर्णधातू रूप्यधातुस्ताम्रधातुरित्येवमादयो धातवः क्रियन्ते। कस्मादित्याह सन्त्यस्मिन्दारूस्कन्धे विविधा धातव इति वचनात्। धातुशक्तयो हि तत्रैवं भगवतोक्ताः। न हि तत्रातिबहूनां सुवर्णरूप्यादीनां स्वरूपतस्तत्रावकाशोऽस्तीति।

कथं वायौ वर्णसद्भाव इति। वैभाषिकानेवं चोदयन्ति।

कामेऽष्टद्रव्यकः

इति नियमे कथं वायौ वर्णोऽस्तीति निर्धार्यते। न हि कथञ्चित्तत्र वर्ण उपलभ्यते। श्रद्धानीय एषोऽर्थो नानुमानीय इति वैभाषिकाः। परमाप्तैरयमुक्तोऽर्थ इति प्रत्येतव्यो नार्थोऽनुमानसाध्य इत्यभिप्रायः। संसर्गतो गन्धग्रहणाद्वेति। अस्ति वानुमानमिति दर्शयति। गन्धवता तु द्रव्येण वायोः सम्पर्काद्गन्ध उपलभ्यते। स च गन्धो गर्ण न व्यभिचरति। यत्र हि गन्धस्तत्र वर्णेन भवितव्यमिति। अत्र च साधनवचनम्। वर्णवान् वायुर्गन्धवत्त्वाज्जातिपुष्पवदिति।

रूपधातौ गन्धरसयोरभाव उक्त इति।

विना गन्धरसघ्राणजिह्वाविज्ञानधातुभिः

इति वचनात्। तेन तत्रत्याः परमाणवः षट्साप्तष्तद्रव्यका इति। तत्रत्यास्तत्र भवाः। तत्रत्याः परमाणवः संघातपरमाणवोऽधिकृताः। य इहाष्टद्रव्या उक्तो निरिन्द्रियोऽशब्दः स तत्र षड्द्रव्यकः। यो नवद्रव्यकः कायेन्द्रियी स सप्तद्रव्यकः। यो दशद्रव्यकोऽपरेन्द्रियः सोऽष्टद्रव्यकः। सशब्दकाः पुनरेते सप्ताष्टनवद्रव्यका इत्यवगन्तव्यम्। उक्तरूपत्वान्न पुनरूच्यन्त इति। उक्तकल्पत्वान्न पुनः सूत्र्यन्त इत्यर्थः।

किं पुनरत्र द्रव्यमेव द्रव्यमिति विस्तरः। मुख्यवृत्या यद्द्रव्यं यस्य स्वलक्षणमस्ति तद्द्रव्यं गृह्यते। आहोस्विदायतनम् द्रव्यमित्यधिकृतम् आयतनमपि हि द्रव्यमिति शक्यते वक्तुं सामान्यविशेषलक्षणसद्भावात्। किं चातः कश्चातो दोष इत्यर्थः। यदि द्रव्यमेव द्रव्यं गृह्यते। यदि रूपपर्यन्तलक्षणं पृथिव्यादिपरमाणुद्रव्यं गृह्यते। अत्यल्पमिदमुच्यते अष्टद्रव्यक इत्यादि। संस्थानगुरूत्वलघुत्वश्र्लक्ष्णत्वकर्कशत्वशीतजिघत्सापिपासानां सम्भवतो द्रव्यान्तराणां क्वचित्क्वचित्सद्भावात्। तथा च सति योऽष्टद्रव्यकः स नवद्रव्यको यावच्चतुर्दशद्रव्यक इत्यष्टद्रव्यकनियमो भिद्यते। एवं नवद्रव्यकादिषु योज्यम्। एवं रूपधातावपि षट्सप्ताष्टद्रव्यनियमभेदा वक्तव्यः। चतुर्द्रव्यको हि वक्तव्य इति। यस्माद्भूतान्यपि पृथिव्यादीनि स्प्रष्टव्यायतनम्

स्प्रष्टव्यं द्विविधम्

इति वचनात्। तस्मात्कामे चतुर्द्रव्यकोऽशब्दः। रूपं गन्धो रसः स्प्रष्टव्यमिति। सशब्दस्तु पञ्चद्रव्यक इति वक्तव्यम्। यदाश्रयभूतमिति। पृथिव्यादीनि चत्वारि। यदाश्रयिभूतमिति। रूपं गन्धो रसः स्प्रष्टव्यैकदेशश्च। तदेवं संस्थानस्य रूपेऽन्तर्भावात् गुरूत्वादीनां च स्प्रष्टव्य इति नात्यल्पमिदमुच्यते नाप्यतिबहु आश्रयभूतानां स्प्रष्टव्यायतनान्निःकृष्य चतुर्धा निर्देशात्। एवमपि भूयांसीति विस्तरः। यद्भूतचतुस्कमाश्रय एकस्योपादायरूपस्य नीलस्य पीतस्य वा न तदेवान्यस्योपादयरूपस्य गन्घस्य रसस्य वाश्रयः। कि तर्हि अन्यदेव भूतचतुष्कं तस्याश्रय इति वैभाषिकसिद्धान्तः। तत्र पुनर्जातिद्रव्यमिति। भूतचतुष्कजातिरत्र गृह्यते। या ह्येकस्य भूतचतुष्कस्य जातिस्तामन्यानि भूतचतुष्काणि नातिक्रामन्ति। एवं विकल्पेन वक्तुमिति। किञ्चिदत्र द्रव्यमेव द्रव्यंगृह्यते यदाश्रयभूतम्। किञ्चिदत्रायतनद्रव्यं गृह्यते यदाश्रयिभूतम्। यच्च तदाश्रयभूतं तज्जात्या गृह्यत इति। छन्दतो हि वाचां प्रवृत्तिः अर्थस्तु परीक्ष्य इति। छन्दत इच्छातः संक्षेपविस्तरविधानानुविधायिन्यो वचः प्रवर्तन्ते। अर्थास्तु तासां परीक्ष्यः। किमेवं नियतसहोत्पादानि तानि भवन्ति न भवन्तीति। योगाचारचित्तास्तु संघातावस्थाने भूतानां भौतिकानां च नियमं वर्णयन्ति। कथमिति उच्यते। अस्ति समुदाय एकभौतिकः तद्यथा शुष्को मृत्पिण्डः। अस्ति द्विभौतिकः स एवार्द्रः। अस्ति त्रिभोतिकः स एवोष्णः। अस्ति यावत् सर्वभौतिकः स एवार्द्र उष्णाश्च मृत्पिण्डो गमनावस्थायामिति। उपादायरूपेऽपि यदुपादायरूपं यस्मिन् समुदाये उपलभ्यते तत्तत्रास्तीति वेदितव्यम्। अस्ति समुदाय एकोपादायरूपिकः तद्यथा प्रभा। अस्ति द्वयुपादायरूपिकः तद्यथा सशब्दगन्धो वायुः। व्युपादायरूपिकः तद्यथा धूमः तस्य रूपगन्धस्प्रष्टव्यविशेषप्रभावितत्वात्। स्प्रष्टव्यविशेषः पुनरत्र लघुत्वं वेदितव्यम्। चतुरूपादायरूपिकः तद्यथा गुडपिण्डः। पञ्चोपादायरूपिकः तद्यथा स एव सशब्दः इत्येवमाद्यपि वक्तव्यम्।। २२।।

[ चित्तचैत्ताः सहावश्यं सर्व संस्कृतलक्षणैः।
प्राप्त्या वा पञ्चधा चैत्ता महाभूम्यादिभेदतः।। २३।। ]

शेपाणां वक्तव्य इति चित्तचैत्तानां विप्रयुक्तानां च।

चित्तचैत्ताः सहावश्यम्

इति। न चित्तं चैत्तैर्विना उत्पद्यते नापि चैत्ता विना चित्तेनेत्यवधार्यते न तु सर्वं चित्तं सर्वचैत्तनियतसहोत्पादम् नापि सर्वचैत्ताः सर्वचित्तनियतसहोत्पाद इति।

सर्व संस्कृतलक्षणेः

इति। संस्कृतलक्षणैर्युक्तं तत्सर्व तैः संस्कृतलक्षणैर्जात्यादिभिरवश्यं सहोत्पद्यते। किं पुनस्तदित्याह यत्किंचिदुत्पद्यते रूपं चित्तं चैतसिकाश्चित्तविप्रयुक्ताश्चेति। पूर्वमेव ह्यसंस्कृतं बहिष्कृतम् तत्रासंस्कृतं नैवोत्पद्यते इति वचनात्। विकल्पार्थो वाशब्द इति। किञ्चित्प्राप्त्या सहोत्पद्यते यत्सत्त्वसंख्यातम् किञ्चिन्न यदसत्त्वसंख्यातमिति विकल्पः। प्रतिसंख्याप्रतिसंख्यानिरोधयोर्यद्यपि प्राप्तिरस्ति न तु तावुत्पद्येते इति न तयोर्ग्रहणम्। सहोत्पादननियमो ह्ययमारम्भ इति असत्त्वसंख्यातस्य प्राप्तिर्नास्तीति किमत्र कारणम् सर्वसत्त्वसाधारणत्वात्। सहजयैव च प्राप्तया प्राप्तिमान् सहोत्पद्यते न पूर्वपश्चात्कालजयेत्यवगन्तव्यम्।

गतिविषय इति उत्पत्तिविषय इत्यर्थः महाभूमिका इति महत्त्वं सर्वचित्तभवत्वात्।। २३।।

[ वेदना चेतना संज्ञा छन्दः स्पर्शो मतिः स्मृतिः।
मनस्कारोऽधिमोक्षश्च समाधिः सर्वचेतसि।। ]

इमे किलेति। किलशब्दः परमतद्योतने। स्वमतं तु छन्दादयः सर्वचेतसि न भवन्ति। तथा ह्यनेनैवाचार्येण पञ्चस्कन्धके लिखितम्। छन्दः कतमः अभिप्रेते वस्तुन्यभिलाषः। अधिमोक्षः कतमः निश्चिते वस्तुनि तथैवावधारणमित्यादि। चेतना चित्ताभिसंस्कार इति चित्तप्रस्पन्दः। प्रस्पन्द इव प्रस्पन्द इत्यर्थः। विषयनिमित्तग्राह इति। विषयविशेषरूपग्राह इत्यर्थः। स्पर्श इन्द्रियविषयविज्ञानसन्निपातजा स्पृष्टिरिति। इन्द्रियविषयविज्ञानानां सन्निपाताज्जाता स्पृष्टिः। स्पृष्टिरिव स्पृष्टिः। यद्योगादिन्द्रियविषयविज्ञानान्यन्योन्यं स्पृशन्तीव स स्पर्शः। धर्मप्रविचय इति। प्रविचिनोतीति प्रविचयः। प्रविचीयन्ते वानेन धर्मा इति प्रविचयः। येन संकीर्णा इव धर्माः पुष्पाणीव प्रविचीयन्ते उच्चीयन्त इत्यर्थः। इमे सास्रवाः इमेऽनास्रवाः इमे रूपिणः इमे अरूपिण इति। धर्माणां प्रविचयो धर्मप्रविचयः। प्रतीतत्वात् प्रज्ञेति वक्तव्ये श्र्लोकबन्धानुगुण्येन मतिरिति कारिकायामुक्तम्। स्मृतिरालम्बनासंप्रमोप इति। यद्योगादालम्बनं न मनो विस्मरति तच्चाभिलपतीव सा स्मृतिः। मनस्कारश्चेतस आभोग इति। आलम्बने चेतस आवर्जनम् अवधारणमित्यर्थः। मनसः कारो मनस्कारः। मनो वा करोति आवर्जयतीति मनस्कारः। अधिमुक्तिस्तदा लम्बनस्य गुणतोऽवधारणम्। रूचिरित्यन्ये। यथानिश्चयं धारणेति योगाचारचित्ताः। समाधिश्चित्तस्येकाग्रतेति। अग्रमालम्बनमित्येकोऽर्थः। यद्योगाच्चित्तं प्रबन्धेन एकत्रालम्बने वर्तते स समाधिः। यदि समाधिः सर्वचेतसि भवति किमर्थ ध्यानेषु यत्नः क्रियते बलवत्समाधिनिष्पादनार्थम्।

कथमेकस्मिंश्चित्ते दशनां भिन्नलक्षणानां चैत्तनामस्तित्वं गम्यते इति। अत आह। सूक्ष्मो हि चित्तचैत्तानां विशेष इति विस्तरः। स एष विशेषश्चित्तचैत्तानां दुर्लक्ष्यः प्रबन्धेष्वपि तावत् किं पुनः क्षणेपु कालपर्यन्तलक्षणेषु। रूपिणीनामप्योषधीनां मूर्तानामपि कासञ्चित् हरीतकीप्रभृतीनां बहुरसानां षड्सानामिन्द्रियग्राह्या जिह्वेन्द्रियग्राह्या दुरवधारा दुःपरिच्छेदा भवन्ति किं पुनर्ये धर्मा अमूर्ता बुद्धिग्राह्या मनोविज्ञानमात्रग्राह्याः। तस्मादाप्तोपदिष्टा इति कृत्वा तथैव ते प्रतिपत्तव्या इत्यभिप्रायः।। २४।।

[ श्रद्धाप्रमादः प्रस्रव्धिरूपेक्षा ह्रीरपत्रपा।
मूलद्वयमविहिंसा वीर्यञ्च कुशले सदा।। २५। । ]

श्रद्धा चेतसः प्रसाद इति क्लेशोपक्लेशकुलषितं चेतः श्रद्धायोगात्प्रसीदति उदकप्रसादकमणियोगादिवोदकम्। सत्यरत्नकर्मफ़लाभिसंप्रत्यय इत्यपरे इति। आकारेण श्रद्धानिर्देशः सत्येषु चतुर्षु रत्नेषु च त्रिषु कर्म्सु च शुभा शुभेषु तत्फ़लेषु च इष्टानिष्टेषु सन्त्येवैतानीत्यभिसंप्रत्ययोऽभिसंप्रतिपत्तिः श्रद्धेति। अप्रमादः कुशलानां धर्माणां भावनेति भावना नाम कुशलानां प्रतिलम्भनिषेवणस्वभावा

प्रतिलम्भनिषेवाख्ये शुभसंस्कृतभावने

इति वचनात्। सा कथमप्रमादो नाम चैतसिको भविष्यति यस्मिन्सति सा प्रतिलम्भनिषेवणभावना भवति सोऽप्रमादस्तात्पर्यलक्षणः। अत आह या तेष्ववहिततेति तदेवं सति भावनाहेतावयं भावनोपचारः कृत इति। चेतस आरक्षेति यः सांक्लेशिकेभ्यश्चित्तमारक्षते सोऽप्रमाद इति। चित्तकर्मण्यतेति। यद्योगाच्चित्तं कर्मण्यं भवति सा चित्तकर्मण्यता चित्तलाघवमित्यर्थः। ननु च सूत्रे कायप्रस्रब्धिरप्युक्तेति। कश्च पर्यायो यत्प्रस्रब्धिसंबोध्यङ्गद्वयं भवति। अस्ति कायप्रस्रब्धिः अस्ति चित्तप्रस्रब्धिः। तत्र यापि कायप्रस्नव्धिस्तदपि प्रस्रब्धिसंबोध्यङ्गमभिज्ञायै संबोधये निर्वाणाय संवर्तते। यापि चित्तप्रस्रब्धिस्तदपि प्रस्रब्धिसंबोध्यङ्गमभिज्ञायै संबोधये निर्वाणाय संवर्तत इति। कथमियमेकैवोच्यते प्रस्रव्धिश्चित्तकर्मण्यतेति। सा तु यथा कायिकी वेदनेति यथा चेतस्यपि वेदना परमाणुसञ्चयात्मकेन्द्रियाश्रयत्वात् कायिकीत्युच्यते तथेयमपि प्रस्रब्धिरवगन्तव्या। कथं सा बोध्यङ्गेषु योक्ष्यत इत्यसमाहितत्वात् पञ्चानां विज्ञानकायानां पृच्छति। तत्र तर्हीति विस्तरः  तत्र सूत्रे कायवैशारद्यमेव कायकरण्यता भूतविशेषलक्षणा प्रीत्यध्याकृता प्रीतमनसः कायः प्रस्रभ्यत इति वचनात्। कथं सा बोध्यङ्गमिति। पृथक्कलापत्वात्सास्रवत्वाच्च न युज्यत इत्यभिप्रायः। प्रीतिः प्रीतिस्थानीयाश्च धर्माः प्रीतिसंबोध्यङ्गमिति विस्तरः। तीर्थिकाः किल भगवच्छावकानेवमाहुः। श्रमणो भवतो गौतम एवमाह एत यूयं भिक्षवः पञ्च निवरणानि प्रहाय चेतस उपक्लेशकराणि प्रज्ञादौर्वल्यकराणि सप्त बोध्यङ्गानि भावयतेति। वयमप्येवं व्रूमः। तत्रास्साकं श्रमणस्य च गौतमस्य को विशेषो धर्मदेशनायाः। तेभ्यो भगवता एतदुपदिष्टम् पञ्च सन्ति दश भवन्ति दश सन्ति पञ्च व्यवस्थाप्यन्ते। प्रतिघः प्रतिघनिमित्तं च नवाघातवस्तूनि व्यापादनिवरणमुक्तं भगवता तदानुकूल्यात्। तथा सप्त सन्ति चतुर्दश भवन्ति चतुर्दश सन्ति सप्त व्यवस्थाप्यन्ते प्रीतिः प्रीतिनिमित्तं चेत्यनेन भेदेन तदानुकूल्यादिति। न च संकल्पव्यायामौ प्रज्ञास्वभावाविति तयोर्यथाक्रमं वितर्कवीर्यस्वभावत्वान्न तौ प्रज्ञास्वभावौ। यदा च त्रिस्कन्धो मार्गः क्रियते शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्ध इति। तत्र प्रज्ञास्कन्धनिर्देश उक्तम्। प्रज्ञास्कन्धः कतमः सम्यग्दृष्टिः सम्यक्संकल्पः सम्यग्व्यायाम इति। उपेक्षा चित्तसमतेति। यद्योगाच्चित्तं सममनाभोग वर्तते सोपेक्षा संस्कारोपेक्षा नाम। त्रिविधा हि उपेक्षा वेदनोपेक्षा संस्कारोपेक्षा अप्रमाणोपेक्षा चेति।

ननु चोक्तं दुर्ज्ञान एषां विशेप इति। सूक्ष्मो हि चित्तचैत्तानां विशेषः स एष दुःपरिछेदः प्रवाहेष्वपि तावदित्यादिवचनाद्दुःखेन ज्ञायते दुर्ज्ञानः। अस्ति हि नाम दुर्ज्ञानमपि ज्ञायते। यदविरूद्धमेकस्मिंश्चित्तक्षणे धर्मान्तरेण स्पर्शादिना। इदं तु खलु अतिदुर्ज्ञानं यद्विरोधेऽप्यविरोध इति आभोगानाभोगयोरेकस्मिंश्चित्तक्षणेऽविरोधो व्यवस्थाप्यत इति वाक्यशेषः। न हि विरूद्धयोः सुखदुःखयोरेकस्मिंश्चित्तक्षणे भावो दृष्ट इति। अन्यत्राभोग इति। अन्यत्रालम्वने आभोग अन्यत्रानाभोग इत्यविरोधः। एवंजातीयकमत्रान्यदप्यायास्यतीति। विरोधजातीयं यथा वितर्कविचारौ। तयोर्हि लक्षणम् चित्तौदारिकता वितर्कः चित्तसूक्ष्मता विचार इति।

वितर्कविचारौदार्यसूक्ष्मते

इति वचनात्। तयोस्त्वेकत्र चित्ते विरोध इति वक्ष्यते। यस्तस्य नयः सोऽस्यापीति। पर्यायेणानयोर्वृत्तिरित्यभिप्रायः। हीरपत्राप्यं च पश्चाद्वक्ष्यते इति।

अहीरगुरूतावद्ये भयादर्शित्वमत्रपा

इत्यत्र विपर्ययग्रहणात्। स तु प्रज्ञात्मक इति। स त्वमोहः प्रज्ञास्वभावः। प्रज्ञा च महाभूमिकेति।

मतिः स्मृतिः

इति वचनात्। नासौ कुशलमहाभूमिक एवोच्यते। किं तर्हि अकुशलादिभूमिकोऽपीति। अविहेठनेति। यद्योगात्परो न विहेठ्यते। साविहिंसा। विहिंसाप्रतिपक्षश्चैतसिकः। चेतसोऽभ्युत्साह इति। कुशलक्रियायां यश्चेतसो ऽभ्युत्साहस्तद्वीर्यम्। यस्त्वकुशलादिक्रियायां चेतसोऽभ्युत्साहो नैतद्वीर्यम् कौसीद्यभेव तत् प्रवचने पठ्यते सीदनात्मकत्वात्। तथा ह्युक्तं भगवता इतो बाह्यकानां यद्वीर्यं कौसीद्यमेव तदिति।। २५।।

[ मोहः प्रमादः कौसीद्यमाश्रद्धय स्त्यानमुद्धतिः।
सर्वदा क्लिष्टेऽकुशले त्वाहियमनपत्रपा।। २६।। ]

मोहो नामाविद्येति।

विद्याविपक्षो धर्मोऽन्योऽविधा

इति पश्चाद्वयाख्यायते। भावनाविपक्षौ धर्म इति। भावनाया अभावमात्रप्रतिपत्तिर्मा भूदिति भावनाविपक्ष इत्याह। एवं कौसीद्यादिष्वपि व्याख्येयम्। कायगुरूता चित्तगुरूतेति। प्रस्रब्धिप्रतिपक्षो धर्मः। यथा कायिकी वेदनेति। यथा वेदना रूपिन्द्रियाश्रयत्वाच्चैतसिक्यपि कायिकीति व्याख्याता। तथा कायिकं स्त्यानम् पञ्चविज्ञानकायसंप्रयुक्त स्त्यानं कायिकमित्युच्यते। औद्धत्यं चेतसोऽव्युपशम इति। नृत्यगीतादिशृङ्गारवेपालंकारकाद्योद्धत्य संनिश्रयदानकर्मकश्चैतसिको धर्मः।

न चात्र स्त्यानं पठ्यते इत्यभिधर्मे। प्राप्तिज्ञो देवानां प्रियो न त्विष्टिज्ञ इति। पाठप्रामाण्यमात्रेण दश क्लेशमहाभूमिकाः प्राप्ता इत्येतामेव प्राप्तिं जानीते देवानां प्रियः न त्वाचार्याणामिष्टिमिच्छां जानीते। कोऽयं देवानां प्रियो नाम ऋजुकजातीयो देवानां प्रिय इत्येके व्याचक्षते अशठो हि देवानां प्रियो भवति मूर्खो देवानां प्रिय इत्यपरे।

यो हीश्वराणामिष्टः स न ताडनेन शिक्षते

इति मूर्खो भवतीति। यथैवामोह इति। यथैवामोहः कुशलमूलं प्रज्ञास्वभावत्वान्महाभूमिक इति व्यवस्थापितो न कुशलमहाभूमिक एवेत्यवधार्यते ततश्च कूशलमहाभूमिकेषु न पठितः। तथा मुषितस्मृत्यादयोऽपि पञ्चमहाभूमिकत्वान्न क्लेशमहाभूमिका एवेत्यवधार्यन्ते। ततश्च इमे न क्लेशमहाभूमिकमध्ये पठ्यन्ते। कथमित्याह। रमृतिरेव हि क्लिष्टा मुपितस्मृतिता समाधिरेव क्लिष्टो विक्षेप इत्येवमादीति। आदिशब्देन प्रज्ञैव क्लिष्टा असंप्रजन्यम्।  मनस्कार एव क्लिष्टोऽयोनिशोमनस्कारः अधिमुक्तिरेव क्लिष्टा मिथ्याधिमोक्ष इति दर्शयति।

अत एवोच्यत इति विस्तरः। यत एवं स्मृत्यादयो मुषितस्मृतितादयो व्यव स्थाप्यन्ते नैतद्वयतिरिक्ताः। अत एवोच्यते चतुष्कोटिक इति। ये महाभूमिकाः क्लेशमहाभूमिका अपि त इति काक्वा पृच्छति। चतुष्कोटिकाः। स्युर्महाभूमिका न क्लेशमहाभूमिकाः स्युः क्लेशमहाभूमिका न महाभूमिकाः स्युर्महाभूमिकाश्च क्लेशमहाभूमिकाश्च स्युर्नै महाभूमिका न क्लेशमहाभूमिकाः। तृतीया स्मृत्यादय इति। ये मुषितस्मृत्यादयः पञ्च यथोक्ताः। एते हि महाभूमिकाः क्लेशमहाभूमिकाश्च। चतुर्थी एतानाकारान् स्थापयित्वेति। उक्तनिर्मुक्ता धर्माः कुशलमहाभूमिकादयश्चैतसिका रूपादयश्चान्य इति तेषामन्यथा चतुष्कोटिक इति द्वितीयायां कोट्यां विक्षेपः प्रक्षेप्तव्यः न तु तृतीयायाम्। अत एव वक्तव्यम् प्रथमा कोटिः पुर्ववत् द्वितीया आश्रद्धय कौसीद्यमविद्या औद्धत्यं प्रमादो विक्षेपश्च। तृतीया स्मृत्यादयश्चत्वारः मुषितस्मृत्यसंप्रजन्यायोनिशोमनस्कारमिथ्याधिमोक्षा इत्यर्थः। चतुर्थी पूर्ववत्। यत्तूक्त न चात्र स्त्यानं पठ्यत् इति तान्प्रति व्रवीति स्त्यानं पुनरिष्यत इति विस्तरः तस्यापाठे कस्यापराध इति किमस्य स्त्यानस्यापाठे ममापराधः किमाभिधार्मिकस्येति अभिदह्र्मकारस्यायमपराधो न ममेत्यभिप्रायः स्त्यानस्य सर्वक्लेशसंप्रयोगित्वेनाभिमतत्वात्। एवं त्वाहुरिति तत्र शास्त्रे स्त्यानस्यापाठे कारणमाहुरा भिधार्मिकाः। क्षिप्रतरं किलेति किलशब्दोऽसम्भावनायाम्। कथं हि नाम क्लिष्टो धर्मः शुक्लस्य समाधेरनुगुणो भविष्यति। लयौद्धत्ये हि समाधिपरि पन्थिनी। तत्कथं परिपन्थ्येवानुगुण इति। न ह्येते जातु सहचरिष्णुतां जहीत इति न ह्येते स्त्यानौद्धत्ये कदाचित्सहचरधर्मतां त्य्जत इत्यर्थः। तथापि यद्यस्याधिमात्रमिति एवमपि च स्त्यानमौद्धत्यं वा यस्य पुद्गलस्याधिमात्रम् स पुद्गलस्तच्चरितः स्त्यानचरित औद्धत्यचरितो वावगन्तव्यः। क्वचिद्धि कलापे कश्चिद्धर्म उद्भूतो भवतीति। नान्यत्रेति कुशलादिषु।

अकुशले त्वाहीक्यमनपत्रपा

इति तुशब्दो विशेषणे अवधारणे वा अकुशल एवेति।। २६।।

[ क्रोधोपनाहशाठयेर्ष्याप्रमादम्रक्षमतूसरः।
मायामदविहिंसाश्च परीत्तक्लेशभूमिकाः।। २७।। ]

परीत्तक्लेशभूमिकाः

इति। परीत्तोऽल्पकः। कोऽसौ अविद्यामात्रम् अविद्यैव केवलेत्यर्थः। तेनाविद्यामात्रेणेति नान्येन रागादिना क्लेशेन। भावनाहेयेनेति न दर्शनहेयेन। मनोभूमिकेनैवेति नौच्यन्ते।  पञ्चविज्ञानकायिकेन। यस्मादिमे क्रोधादय उपक्लेशा मनोभूमिका एव भवन्ति अतो मनःसंप्रयोगात्परीत्तक्लेशभूमिका उच्यन्ते। रागादिकलापे ह्यवश्यमविद्यया भवितव्यमिति न परीत्तो रागादिकः। तदेवं ये सर्वत्र चैतसिके ते महाभूमिकाः ये कुशल एव ते कुशलमहाभूमिकाः ये क्लिष्टे निवृते चाकुशले च ते क्लेशमहाभूमिकाः। ये त्वकुशल एव तेऽकुशलमहाभूमिकाः ये परीत्तक्लेशसंप्रयुक्ते चेतसि ते परीत्तक्लेशभूमिकाः एषां तु निर्देश उपक्लेशेपु करिष्यत इति अनुशयनिर्देशे।। २७।।

[ सवितर्कविचारत्वात् कुशले कामचेतसि।
द्वाविंशतिश्चैतसिकाः कौकृत्यमधिकं क्वचित्।। २८।।
आवेणिके त्वकुशले दृष्टियुक्ते च विंशतिः।
क्लेशैश्चतुर्भिः क्रोधाद्यैः कौकृत्येनैकविंशतिः।। २९।।
निवृतेऽष्टादशान्यत्र द्वादशाव्याकृते मताः।
मिद्ध सर्वाविरोधित्वाद् यत्र स्यादधिकं भवेत्।। ३०।। ]

अन्येऽपि चानियता इति ये कदाचित्कुशले कदाचिदकुशले कदाचिदव्याकृते चेतसि भवन्ति। मिद्धादय इति आदिशब्देनारतिविजृम्भिकातन्द्रीभक्तेऽसमतादय उपक्लेशाः क्लेशाश्च रागादयोऽप्यनियतत्वेन गृह्यन्ते। न ह्येते रागादयः पञ्चानां प्रकाराणां अन्यतमस्मिन्नियता भवन्ति। न महाभूमिकाः सर्वत्र चेतस्यभावात्। न कुशलमहाभूमिकाः कुशलत्वायोगात्। न क्लेशमहाभूमिकाः सर्वत्र क्लिष्टे तदभावात्। न हि सप्रतिघे चेतसि रागो भवति सरागे च चेतसि प्रतिधः। इत्येवमन्येऽपि क्लेशा वक्तव्याः। अत्राचार्यवसुमित्रः संग्रहश्र्लोकमाह

वितर्कचारकौकृत्यमिद्धप्रतिघसक्तयः।
मानश्च विचिकित्सा चेत्यष्टावनियताः स्मृताः।।

इति। तदिदमष्टानियमवचनं न वुध्यामह दृष्टयोऽपि कस्मान्नानियता इष्यन्ते। न हि सप्रतिघे सविचिकित्से वा चित्ते मिथ्यादृष्टिः प्रवर्तते

आवेणिकत्वेऽकुशले दृष्टियुक्ते च विशतिः।
क्तेशैश्चतुर्भिः क्रोधाद्यैः कौकृत्येनैकविंषतिः।।

इति वचनात् तस्माद्यद्वा तद्वेदमुक्तमिति पश्यामः।

कामावचरं तावत्पञ्चविधमिति कुशलमेकम् अकुशलं द्विविधम् आवेणिकमविद्यामात्रसंप्रयुक्त रागाद्यन्यक्लेशसंप्रयुक्त च। अव्याकृतमपि द्विविधम् निवृताव्याकृतं सत्कायान्तर्ग्राहदृष्टिसंप्रयुक्तमनिवृताव्याकृतं च विपाकजादीनि। कुकृतभावः कौकृत्यमिति। अर्थस्य कुकृतस्य धर्मः स तु चैतसिक इति न संबध्यते। तस्मादाह इह तु पुनः कौकृत्यालम्बनो धर्म इति। किंस्वभाव इत्याह चेतसो विप्रतिसार इति। यदि कौकृत्यालम्बनो धर्म इति। किंस्वभाव इत्याह चेतसो विप्रतिसार इति। यदि कौकृत्यालम्बनो धर्मः कौकृत्यमुच्यते तत्संप्रयुक्ता अप्यन्ये चित्तचैत्ताः कौकृत्यं प्राप्नुवन्ति न प्राप्नुवन्ति तेषामप्राधान्यात्। विप्रतिसारावस्थायां हि कौकृत्यलक्षणं चैतसिकं कौकृत्याकारमुद्भूतवृत्तिकम् अन्ये चित्तचैत्तास्तदाकारेणानुवर्तन्ते कस्यचिदेव हि धर्मस्य कस्मिंश्चिच्चित्तकलापे प्राधान्यमिति वर्णयन्ति। शून्यतालम्बनविमोक्षमुखं शून्यतेति स्कन्धानामन्तव्यापारपुरूषरहितालम्बनं विमोक्षमुखं समाधिविशेषः शून्यतेत्युच्यते विनीलकव्याध्मातकाद्यशुभालम्बनोऽलोभोऽशुभेत्युच्यते। भावनासंबद्धत्वात् स्त्रीलिङ्गनिर्देशोऽशुभा भावनेति। तथेहापि कौकृत्यालम्बनश्चैतसिको धर्मः कौकृत्यमिति। स्थानेन स्थानिनामतिदेशः सर्वो ग्राम आगत इति। सभूमिकः शालासमुदायो ग्रामः। स्थानिषु मनुष्येष्वागतेषु वक्तारो भवन्ति सर्वो ग्राम आगत इति। एवं सर्वो देश आगत इति । स्थानभूतं च कौकृत्यं विप्रतिसारस्येति विप्रतिसारालम्वनत्वात्। तस्माद्युक्तस्तथा निर्देशः। फ़ले वा हेतूपचार इति। हेतुः कौकृत्यम् फ़लं विप्रतिसारः तस्मिन्फ़ले हेतुरूपचर्यते हेतुवाचकेन शब्देन फ़लमुच्यत इत्यर्थः। यथा षडिमानि स्पर्शायतनानि पौराणं कर्मेति। पूर्वजन्मकृतस्य पौराणस्य कर्मणश्चक्षुरादीनि पट् स्पर्शायतनानि फ़लानि तेषु यथा कर्मोपचर्यते तद्वत्। यत्तर्ह्यकृतालम्बनं तत्कथं कौकृत्यमिति। यदकृतं तन्न कृतमिति मत्वा चोदयति अकृतेऽपि कृताख्या भवतीति अकृतेऽप्यर्थे कृतशब्दप्रयोगो भवति। कथमित्याह न साधु मया कृतं यत्तन्न कृतमिति कृतमिव तदिति कृत्वा। यत्कुशलमकृत्वा तप्यत इति। यत् कुशलं दानादिकमकृत्वा तप्यते पश्चात्तापी भवति तत् कुशलम्। अकुशलं च कृत्वा। किम् तप्यत इत्यधिकृतम्। यच्चाकुशलं प्राणातिपातादिकं कृत्वा तप्यते तदपि कुशलम्। विपर्ययादकुशलम् यदकुशलमकॄत्वा तप्यते कुशलं च कृत्वेति। यत्पापमकृत्वा पश्चात्तापी भवति न साधु मया कृतं यत्तन्न कृतमिति तदकुशलं कौकृत्यम्। यच्च कुह्सलं दानादिकं कृत्वा पश्चात्तापी भवति न साधु मया कृतं यद्दानादिकं कृतमिति तदप्यकुशलम्। तदेतदुभयमप्युभयाधिष्ठानं भवतीति। तदेतत्कौकृत्यमुभयमाप कुशलं चाकुशलं चोभयाधिष्ठानं भवति यथोक्तेन विधानेन।

आवेणिके

इति रागादिपृथग्भूत इत्यर्थः।

दृष्टियुक्ते

इति। चशब्दोऽकुशल इत्यनुकर्षणार्थः। महाभूमिक एव कश्चित्प्रज्ञाविशेषो दृष्टिरिति। संतीरिका या प्रज्ञा सा दृष्टिः। सा चेहाकुशला गृह्यते। तस्मादाह मिथ्यादृष्टिश्चेत्यादि।

कौकृत्येनेकविंशतिः

इति। कौकृत्येन चेति लुप्तनिदृष्टश्चकारो द्रष्टव्यः।

क्लेशेश्चतुर्भिः

इत्यादिषु प्रत्येकं वाक्यपरिसमाप्तिर्वेदितव्या। न हि रागादयः परस्परेण संप्रयुज्यन्त इत्याभिधार्मिकाः। स च क्लेश आवेणिकोक्ताश्च विंशतिरिति। दश महाभूमिकाः षट् क्लेशमहाभूमिकाः। द्वावकुशलमहाभूमिकौ वितर्को विचारश्चेति विंशतिः। स च क्लेशो रागः प्रतिघो मानो विचिकित्सा चेत्येकविंशति। एकविंशतिर्भवत्येवेति क्रियावधारणमवगन्तव्यम्। क्रोधादिभिरपीति।

क्रोधोपनाहशाठ्येर्ष्याप्रदास म्नक्षमत्सराः ।

मायामदविहिंसाश्च

इति। एभिरपि संप्रयुक्ते चित्ते एकविंशतिरेव चैतसिकाः। ते चावेणिकोक्ताः पूर्ववत्। स चोपक्लेशः क्रोधो वा यावद्विहिंसा वेति। कौकृत्येन च संप्रयुक्ते। ते च पूर्वोक्तास्तच्च कौकृत्यमित्येकविंशतिः। कौकृत्यमपि ह्युपक्लेशः स्वतन्त्रमिष्यते। समासत आवेणिक इति विस्तरः। अविद्यामात्रेसयुक्ते चेतस्यकुशले दृष्टिसंप्रयुक्ते चाकुशले विंशतिः। अन्यक्लेशोपक्लेशसंप्रयुक्ते त्वकुशल एवैकविंशतिः निऱ्ताव्याकृतमिति। क्लेशाच्छादितं कुशलाकुशलत्वेनाव्याकृतं यत् तन्निवृताव्याकृतम्। अनाच्छादितं त्वनिवृताव्याकृतं विपाकजैर्यापथिकशैल्पस्थानिकनैर्माणिकस्वभावम्। बहिर्देशका अव्याकृतमपि कौकृत्यमिच्छातीति। कश्मीरमण्डलाद् ये बहिर्देशस्थितास्ते वहिर्देशकाः। त्रयोदशेति। क्वचिदनिवृताव्याकृते कौकृत्यं त्रयोदशममधिक प्रक्षिप्य। मिद्धं प्रचलायनमानावस्थायां स्वप्नदर्शनावस्थायां वा कुशलाकुशलाव्याकृतत्वादिति। शास्त्रे वचनात्। कथं मिद्धं कुशलं वक्तव्यमकुशल वक्तव्यमव्याकृतं वक्तव्यमिति। आह कुशलं वक्तव्यमकुशलं वक्तव्यमव्याकृतं वक्तव्यमिति। यत्र द्वाविंशतिस्तत्र त्रयोविंशतिरिति विस्तरः। यत्र द्वाविंशतिश्चैतसिका इत्युक्त तत्र तन्मिद्धं त्रयोविंशम्। त्रयोविशतेः पूरणमित्यर्थः। यत्र त्रयोविंशतिः कौकृत्यमधिकं क्वचिदिति। तत्र तन्मिद्धं चतुर्विशम्। एवं यावत्

अन्यत्र द्वादशाव्याकृते मताः

मिद्धं त्रयोदशं वक्तव्यम्। वहिर्देशकमतेन तु कौकृत्याधिके चतुर्दशं मिद्धं भवतीति योज्यम्।। २८-३०।।

[ कौकृत्यमिद्धाकुशलान्याद्ये ध्याने न सन्त्यतः।
ध्यानान्तरे वितर्कश्च विचारश्चाप्यतः परम्।। ३१।। ]

अतो यथाक्तादिति। अतो यथावर्णिताच्चैत्तसहोत्पादनियमात्। कौकृत्यं मिद्धं च सर्वथा नास्तीति। न कुशलं नाप्यव्याकृतम्। कुत एवाकुशलमिति। सर्वथा मिद्धं कौकृत्यं च नास्ति। शाठयमदमायावर्ज्या इति।

माया शाठय च कामाद्यध्यानयोर्व्रह्यवञ्चनात्

स्त्यानौद्धत्यमदा धातुत्रये

इति वचनात्। एतातर्ज्यन्ते तेषां तत्र सद्भावात्। अन्यत्सर्व तथैवेति। कुशले चित्ते पूर्ववत् द्वाविशतिः। आवेणिके दृष्टियुक्ते च निवृताव्याकृतऽष्टादश कामधातुवत्। रागमानविचिकित्सान्यक्लेशसंप्रयुक्ते मायाशाठ्यमदोपक्लेशसंप्रयुक्ते च एकान्नविंशतिः । ते च स च क्लेश उपक्लेशो वा तत्रैकान्नविशो भवति। अनिवॄताव्याकृते विपाकजैर्यापथिकनैर्माणिके पूर्ववत् द्वादश।

ध्यानान्तरे वितर्कश्च

इति। कौकृत्यमिद्धाकुशलानि चेति चशब्दः। किम् न सन्तीत्यधिकृतम्। शेषं तथैव वितर्कन्यूनं यथा प्रतिपिद्ध नास्तीति। कौकृत्यमिद्धाकुशलवितर्का न सन्तीत्यर्थः। विचारश्च मायाशाठय चेत्यपिशब्दादिति। विचारश्चेति एतावति वक्तव्ये

विचारश्चापि

इत्यपिशब्दाधिक्यादर्थाधिक्यमिति। मायाशाठ्यमष्ठि तत्र नास्तीत्ययमपरार्थो लभ्यते। मदस्तु नापास्यते

स्त्यानौद्धत्यमदा धातुत्रये।

इति वचनसामर्थ्यात्। शेपं तथैवेति। कुशले वितर्कविचारनिर्मुक्ता विशतिः। आवेणिके दृष्टियुक्ते पोडश। रागादिक्तेशसंप्रयुक्ते मदोपक्तेशसंप्रयुक्ते च सप्तदश। दश महाभूमिकाः षट् क्लेशमहाभूमिकाः। स च क्लेशः सा वोपक्लेशः। अनिवृताव्याकृते दश महाभूमिका य एवेति गमनीयम्। ब्रह्यणो हि यावच्छाठयमिति विस्तरः। तत्र शाठयपूर्वकत्वान्मायापि गृहीता भवति। पर्पत्संबन्धान्नोर्ध्वमिति। येषां पपदस्ति तेषां पर्पद्गहणार्थ मायाशाठ्य प्रवर्तते। अष्टौ पर्षदः पठ्यन्ते क्षत्रियपर्षद्वाह्यणपर्षद्गृहपतिपर्षच्छमणपर्षच्चातुर्महाराजिकपर्षत्रयस्त्रिशत्पर्षन्मारपर्षद्वह्यपर्षत्। तासामन्यतमाऽपि ऊर्ध्वमतो नास्तीति मायाशाठ्याभावः। ब्रह्याणस्तु पर्षदस्ति। तस्मादाह स हि स्वस्यां पर्षदि निपणोऽश्वजिता भिक्षुणा ब्रह्यलोकगतेन प्रश्न पृष्टः कुत्रेमनि चत्वारि महाभूतान्यपरिशेषं निरूध्यन्त इति। अप्रजानन्नारूप्यधातौ चत्वारि महाभूतान्यशेषं निरूध्यन्त इत्यनववुध्यमानः क्षेपं कथाप्रकरणमकार्पीत्। अहमस्मि ब्रह्येति विस्तरः। ब्रह्येत्युक्तामहा ब्रह्येतिवचनं ब्रह्यान्तरेभ्य आत्मनो विशिष्टत्वप्रदर्शनार्थम्। ईश्वरं ईशनशीलः कर्ता निर्माता स्रष्टा सृज इति पर्यया उत्तरोत्तरव्याख्यायोगो वा। पितेव पितृभूतः। केषाम् भावानाम्।। ३१।।

[ अहीरगुरूतावद्ये भयादर्शित्वमत्रपा।
प्रेम श्रद्धा गुरूत्वं ह्रीरूभयं कामरूप्ययोः।। ३२।। ]

उक्तमेतदिति विस्तरः। या भूमिर्यच्च्त्तं यावन्तश्च चैत्ताः सा भूमिस्तच्चित्तं तावन्तश्च ह्चैत्ता इत्युक्तमेतत्। तत्र विहितमिति। शास्त्रेविहितम्। स एव चात्रार्थः। गुणेषु गुणवत्सु चेति। तत्र विहितमिति केचित्पठन्ति। स्वपरसान्तानिकेषु मैत्रीकरूणादिषु। गुणेषु गुणवत्सु च पुद्गलेप्वाचारगोचरगौरवादिसंपन्नेषु। यद्योगाद्गौरवं न करोत्यसावगौरवता। नास्ति गौरवमस्येत्यगौरवः तद्भावोऽगौरवता चैतसिकविशेष। कोऽसाविति पर्यायावाहुः अप्रतीशता अभयवशवर्तितेति। शिष्यं प्रति इष्ट इति प्रतीशी गुरूस्थानीयः नास्ति प्रतीशोऽस्येत्यप्रतीशः। तद्भावोऽप्रतीशता। भावाभिधानेन चैत्तो गृह्यते।  भयं नाम मानसश्चैत्तो धर्मः। भयेन वशे वर्तितुं शीलमस्येति भयवशवर्ती न भयवशवर्ती अभयवशवती तद्भावोऽभयवशवर्तिता। तदेव चाहीक्यम्। नास्ति हीरस्येत्यह्रीकः तद्भाव आहीक्यम्। स च गौरवप्रतिद्वन्द्वो धर्मः न तदभावमात्रम्।

अवद्ये भयादर्शिवमत्रपा

इति। अवाच्यमवद्यम्। अतश्चाह अवद्य नाम यद्गर्हितं सद्भिरिति। तत्राभयदर्शिता अनपत्राप्यमिति। अवद्येऽनिष्टफ़लादर्शितेत्यर्थः। भीयतेऽस्मादिति। अत्र भयशब्दोऽपादानसाधनः। तस्माद्भयशब्देन अनिष्ट फ़लमुच्यते। अभयस्य दर्शनमभयदर्शितेति विस्तरः। यदि तावदेवं क्रियेत न भयमभयम् अभयं द्रष्टु शीलमस्येत्यभय शी तद्भावोऽभयदर्शितेति प्रज्ञा विज्ञास्यते। प्रज्ञया ह्यभयं पश्यति। अथ पुनरेवं क्रियेत भयं द्रष्टु शीलमस्येति भयदर्शी न भयदर्शी अभयदर्शी तद्भावोऽभयदर्शिता अभयदर्शितेत्यविद्या विज्ञास्यते। तथा ह्यविद्यायोगाद्भयं न पश्यति। नैव हि दर्शनं दर्शितेति विस्तरः। न प्रज्ञा नाप्यविद्या। किं तर्हि तयोः प्रज्ञाविद्ययोर्यो निमित्तमुपक्लेशस्तदभयदर्शनम्। तच्चानपत्राप्यमिति। अपत्रपतेऽनेनेत्यपत्राप्पम्  कृत्यल्युटो बहुलमिति करणे ण्यत्प्रत्ययः। न अपत्राप्यमनपत्राप्यमिति।

ही लज्जायां त्रपूप लज्जायामित्येकार्थयोरनयोर्धात्वोः कथमर्थान्तरे वाचकत्वमित्यपरितुप्यन्तोऽन्ये पुनराहुः आत्मापेक्षयेति विस्तरः। एवमपि द्वे अपंक्षे युगपत्कथं सेत्स्यत इति। अस्मिन्नपि पक्षे युगपदपेक्षाद्वयासंभव इति पश्यंश्चोदक आह। एवमपीति। अपिशब्देनायमपि पक्षो दुप्यतीत्यभिप्रायः। आहीक्यमनपत्राप्यं चैकस्मिंश्चित्ते कथं भवत इति मत्वा चोदयति द्वे अपेक्षे युगपत्कथं सेत्स्यत इति। न खलुच्यते युगपदात्मानं परं चापेक्षत इति विस्तरः। पर्यायेण वॄत्तिमनयोर्दर्शयति। कस्यचिद्धि दोषैरात्मानपेक्षमाण स्यापि न पर्वर्तते लज्जा। कस्यचित्परमपेक्षमार्णस्येति। विपर्ययेण हीररपत्रप्यं चेति विस्तरः। प्रथमेन तावत्कल्पेन

अहीरगुरूतावद्ये भयादर्शित्वमत्रपा

इत्यनेन। सगौरवतेति विस्तरेण भयदर्शिता अपत्राप्यमिति। भयदर्शितानिमित्तमपत्राप्यमित्यर्थः। द्वितीयेन कल्पेन आत्मापेक्षया दोपैरलज्जनमाहीक्यं परापेक्षयानपत्राप्यमित्यनेन आत्मापेक्षया दौपैर्लज्जनं हीः। परापेक्षयापत्राप्यमिति। एवमपि द्वे अपेक्षे इति विस्तरेण चोद्यपरिहारौ वक्तव्यौ।

प्रेमगौरवयोरेकत्वं मन्यन्ते केचित्। तस्मादनयोर्नानाकरणप्रदर्शनार्थमाह

प्रेम श्रद्धा

इति। प्रमेव श्रद्धा न गौरवम्। न तु श्रद्धैव प्रेम। तेनाह द्विविधं हि प्रेम क्लिष्टमक्किष्ट चेत्यादि। स्याच्छद्धा न प्रेमेति चतुष्कोटिकः। दुःखसमुदयसत्ययोः श्रद्धैवाभिसंप्रत्ययरूपा न प्रेम अस्पृहणीयत्वात्। स्यात्प्रेम न श्रद्धेति। प्रियतारूपा तृष्णा नाभिसंप्रत्ययरूपेति श्रद्धा न भवति। उभयं श्रद्धा च प्रेम च। अभिसंप्रत्ययरूपत्वात्स्पृहणीयत्वाच्च निरोधमार्गसत्ययोस्तदुभयात्मकं भवतीत्यर्थः। नोभयमेतानाकारान् स्थापयित्वेति। अन्ये चैतसिका वेदनादयो विप्रयुक्तादयश्च। एवं धर्मालम्वनस्य प्रेम्नः श्रद्धायश्च चतुष्कोटिकं कृत्वा पुद्गलालम्वनस्य चतुष्कोटिकं करोति। पुद्गलेप्विति विस्तरः। तत्र सार्ध विहरन्तीति सार्धविहारिणः शिष्याः। ये प्रव्रजिता गुरोरन्ते वसन्तीत्यन्तेवासिनो निश्रयाध्ययनसंबन्धिनः। तेषु पुत्रादिषु प्रम न गौरवं क्लिष्टमक्लिष्टं चेति संबह्वतः। गौरवं न प्रेम।

गुरूत्वं हीः

इति वक्ष्यमाणलक्षणं गौरवं न प्रेम गौरवस्थानत्वात्। उभयम् प्रेम गौरवं च तदुभयात्मकं भवतीत्यर्थः। नोभयमेतानाकारान् स्थपयित्वा। योऽन्यो जनोऽसंबद्धो निर्गुणः तत्र न प्रेम न गौरवमिति। तत्पूर्विका च प्रियता प्रेमेति। गुणसंभावनापूर्विका प्रियता तच्च पेम। तस्मान्न सैव श्रद्धा प्रेमेत्याचार्यः।

गुरूत्वं ह्रीः

इति। यथोक्ता हीः सगौरवता सप्रतीशता सभयवशवतितेत्युक्ता। या ह्रीस्तद्गौरवम्। तदेवं प्रेम श्रद्धालक्षणं भवति। हीलक्षणं तु गौरवमित्युक्त तयोर्नानाकरणम्। एवं सप्रतीशतापीति। एवं ह्रीरपि। धर्मेषु च पुद्गलेषु च। ये पुद्गलालम्बने श्रद्धाहियौ ते तत्र नस्त इति। पुद्गलालम्वने श्रद्धाह्रियावधिक्रियेते ययोरैक्यं मन्यन्ते। ते आरूप्यधातौ न स्तः। कामरूयधात्वोरेव भवत इत्युक्तम्।। ३२।।

[ वितर्कविचारौदार्यसूक्ष्मते मान उन्नतिः।
मदः स्वधर्मे रक्तस्य पर्यादानं तु चेतसः।। ३३।। ]

कथं पुनरनयोरेकत्र चित्ते योग इति। न हि तदेव चित्तं तद्योगादौदारिकं च सूक्ष्मं च युज्यते विप्रतिषेधात्। निष्ठ्यूतमिति निःपूर्वस्य ष्ठीवतेर्निष्ठायाभेतद्रूपं निष्ठूतम् निरस्तमित्यर्थः। नातिश्यायते नातिघनीभवति। नातिविलीयते नातिद्रवीभवति। नातिसूक्ष्मं भवति नात्यौदारिकमिति। मध्यमावस्थमित्यर्थः। एवं तर्हि निमित्तभूताविति विस्तरः। यथोदकातपौ सर्पिपः श्यानवविलीनत्वयोर्निमित्तभूतौ न तु पुनस्तत्स्वभावौ श्यानत्वविलीनत्वस्वभावौ। एवं वितर्कविचारौ चित्तस्यौदारिकतासूक्ष्मतयोर्निमित्तभूतौ न तु पुनरौदारिकसूक्ष्मतास्वभावाविति। अत एवं वक्तव्यम्। चित्तौदारिकताहेतुर्वितर्कः चित्तसूक्ष्मताहेतुर्विचार इति। ब्रूयास्त्वमभ्युपगमाददोप एप इति। तत इदं दोषान्तरमाह आपेक्षिकी चौदारिकसूक्ष्मतेति विस्तरः। भूमिप्रकारभेदात्। भूमिभेदात्प्रकारभेदाच्च। भूमिभेदात्तावत् प्रथमध्यानमपेक्ष्य कामधातुरौदरिकोमहाभिसंस्कारतरत्वात्। कामधातुमपेक्ष्य प्रथमं ध्यानं सूक्ष्ममल्पाभिसंस्कारतरत्वात् प्रशान्तमिति। तदेव पुनर्द्वितीयं ध्यानमपेक्ष्यौदारिकम्। एवं यावद्भावाग्र सूक्ष्मम्। प्रकारभेदादपि तस्यामेव भूमावापेक्षिक्यावौदारिकसूक्ष्मते। तद्यथा य एव ते त्रयः क्लेशानां मूलप्रकारा मृदुमध्याधिमात्रा गुणानां च। कामधातौ यावद्भवाग्रेतेषामधिमात्रः क्लेश औदारिकः। मृदुः सूक्ष्म। क्लेशविपर्ययेण गुणानामिति। एवं भूमिप्रकारभेदेनापेक्षिक्यावौदारिकसक्ष्मते इति आभवाग्रादौदारिकसूक्ष्मते याताम्। अनिष्ट चैतत् वितर्कविचारयोः कामधातुप्रथमध्यानभूमिकत्वादिति। न चोदारिकसूक्ष्मतया जातिभेदो युक्त इति। वितर्कविचारयोर्जातिभेद इष्यते। अन्यो वितर्कोऽन्यो विचार इति। न चौदारिकत्वेन सूक्ष्मत्वेन च वितर्कविचारयोर्यथाक्रमं स्वभावभेदो युक्तः। किं कारणम् जातिभिन्नयोर्हि वेदनासंज्ञयोरौदारिकसूक्ष्मता भवति। न च पुनरौदरिकसूक्ष्मतयैव तयोः स्वभावमेदः। किं तर्हि अनुभवलक्षणतया निमित्तोद्गहणलक्षणतया च तयोः स्वभावभेदः। तस्मादप्यनयोर्नास्ति लक्षणम्। अन्ये पुनराहुरिति सौत्रान्तिकाः। वाक्संस्कारा इति वाक्समुत्थापका इत्यर्थः। वितर्क्य विचार्य वाचं भापते नावितर्क्य नाविचार्येति। वितर्कविचारैरेवं चैवं च भापिष्य इति। तत्र ये औदारिकास्ते वितर्का वाक्संस्काराः। कर्मणा स्वभावो द्योतितो न शक्यमन्यथा स्वलक्षणं प्रदर्शयितुमिति। एवं सूक्ष्मास्ते विचाराः। एतस्यां कल्पनायां समुदायरूपा वितर्कविचाराः पर्यायभाविनश्च भवन्ति चित्तचैत्तकलापस्य वाक्समुत्थापकत्वात्। कथं पुनरनयोरेकत्र चित्ते योग इत्युक्तम्। अतो वैभाषिक आह। यदि चैकत्र चित्तेऽन्योधर्म औदारिक इति विस्तरः। एकत्र चित्ते वितर्क औदारिकस्वभावोऽन्यो धर्मः विचारस्तु सूक्ष्मस्वभावोऽपरः। तौ च यथाक्रमं चित्तौदारिकतासूक्ष्मताहेतुत्वाच्चित्तौदारिकतासूक्ष्मतेत्युच्यते अथ वा चित्तस्यौदारिकश्चित्तौदारिकः चित्तौदारिकभावश्चित्तौदारिकता। एवं चित्तसूक्ष्मतापि वक्तव्येति कोऽत्र विरोधः। न स्याद्विरोधो यदि वितर्कविचारयोर्जातिभेदः स्याद्वेदनासंज्ञावत्। वेदना ह्यौदारिकी संज्ञा सूक्ष्मा तयोस्तु जातिभेदोऽस्तीति औदारिकसूक्ष्मतयामप्येकत्र चित्ते न विरोधः। एकस्यां तु जातावनवधृतलक्षणायामैक्येन च कैश्चिद्गृहीतायां मृद्वधिमात्रता औदारिकसूक्षतालक्षणा युगपन्न संभवतीत्यर्थादयुगपत् संभवतीत्युक्तम्। तथा हि वेदना अन्यो वा धर्मः पर्यायेण मृदुतामधिमात्रतां च भजते। नैवं व्यक्तो भवति। किम् जातिभेदः। कस्मात् प्रत्येकं जातीनां मृद्वधिमात्रत्वात्। वेदना ह्यौदारिकी भवति सूक्ष्मा वापेक्षाभेदात्। कथमिति वेदना संज्ञामपेक्षौदारिकी रूपमपेक्ष्य सूक्ष्मा। तथा संज्ञा संस्कारानपेक्ष्यौदारिकी वेदनामपेक्ष्य सूक्ष्मा। वितर्कविचारवदेव वा। भवतोऽपि हि कामावचरौ वितर्कविचारावौदारिकौ प्रथमध्यानभूमिकौ सूक्ष्मौ ध्यानान्तरे च विचारः सूक्ष्मतर इति। तदेवं प्रत्येकं जातीनां मृद्वधिमात्रत्वान्नैवं व्यक्तो भवति न मृद्वधिमात्रतया जातिभेदो व्यक्तो भवतीत्यर्थः। अत्र संघभद्र आचार्य आह एकत्र च चित्ते औदारिकसूक्ष्मते भवतः। न च विरोधः प्रभावकालन्यत्वात्। यदा हि चित्तचैत्तकलापे वितर्क उद्भूतवृत्तिर्भवति तदा चित्तमौदारिकं भवति। यदा विचारस्तदा सूक्ष्मम् रागमोहचरित व्यपदेशवत्। रागमोहयौगपद्येऽपि हि तयोरन्यतरोद्भूतवृत्तियोगा रागचरितो मोहचरित इति वा व्यपदिश्यते। तद्वदिहापि द्रष्टव्यमिति। अत्र वयं ब्रूमः भवति कस्मिंश्चित्कलापे कस्यचिद्धर्मस्योद्भूतवृत्तित्त्वम् किं त्वनयोर्न लक्षणं विवेचितमिति न किञ्चिदेतत्। ननु च चित्तौदारिकतासूक्ष्मतालक्षणौ वितर्कविचारावुक्तौ। सत्यमुक्तौ। प्रत्येकं तु जातीनामौदारिकसूक्ष्मते इति तावौदारिकसूक्षतालक्षणौ भवितुमर्हतो यथोक्तमिति नैतदस्मानाराधयति। नैव हि वितर्कविचारावेकत्र चित्ते भवत इत्यपर इत्याचार्यमतम्। अस्मिन्मते यथोक्तदोषप्रसङ्गो न भवति। कस्त्वनयोः पर्यायवर्तिनोर्विशेषः। अत्र पूर्वाचार्या आहुः। वितर्कः कतमः चेतनां वा निश्रित्य प्रज्ञां वा पर्येषको मनोजल्पोऽनभ्यूहाभ्यूहावस्थयोर्यथाक्रमं सा च चित्तस्यौदारिकता। विचारः कतमः चेतनां वा निश्रित्य प्रज्ञां वा प्रत्यवेक्षको मनोजल्पोऽनभ्यूहाभ्यूहावस्थयोर्यथाक्रमम्। सा च चित्तसूक्ष्मतेति। अस्मिन्पक्षे वितर्कविचारावेकस्वभावौ समुदायरूपौ पर्यायवर्तिनौ पर्येषणप्रत्यवेक्षणाकारमात्रेण भिन्नाविष्येते। तत्रोदाहरणं केचिदाचक्षते तद्यथा बहुषु घटेष्वस्थितेषु कोऽत्र दृदः को जर्जर इति मुष्टिनाभिघतो य ऊहः स वितर्कः। इयतो जर्जरा दृदा वेति यदन्ते ग्रहणं स विचार इति। कथमिदानीं प्रथमं ध्यान पञ्चाङ्गमिति विस्तरः। विविक्त कामैर्विविक्त पापकैरकुशलैर्धर्मैः सवितर्क सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसंपद्य विहरतीति सूत्रे पञ्चाङ्गमुक्तम्। तत्कथम्। भूमितस्तत्पञ्चाङ्गमुक्त न क्षणत इति। प्रथमध्यानभूमिः कदाचिद्वितर्केण व्यवकीर्णा कदाचिद्विचारेण। तदेवं सन्तानमधिकृत्य पञ्चाङ्गमुक्तम् न क्षणमधिकृत्येत्यदोषः।

येन केनचित्परतो विशेषपरिकल्पेनेति। भूतेनाभूतेन वा परत उत्कर्षपरिकल्पेन शूरोऽर्थवानस्मि शीलवान् बुद्धिसंपन्न इति वा या चेतस उन्नतिः स मानो नाम चैतसिको धर्मः।

पर्यादानं तु चेतसः

इति तुशब्दो विशेषणार्थो भिन्नक्रमश्चावगन्तव्यः अत एवाह। मदस्तु स्वधर्मेषेव रक्तस्येति विस्तरः। चेतसः पर्यादानमिति। येन स्वधर्मेष्वेव रूपशौर्यादिषु रक्त चेतः पर्यादीयते संनिरूध्यते स रागनिष्यन्दो मदः। यः स्वधर्मेष्वेव रक्तस्य दर्पचेतसः पर्यादानात्कुशलधर्मक्रियाभ्यः प्रतिसंहारो मद इत्याचार्यसघभद्रः। संप्रहर्षविशेषो मद इति। क्लिष्टसौमनस्यमभिप्रेतम्। तदेतन्नेच्छन्ति वैभाषिकाः। यस्मात्सौमनस्यमा द्वितीयाद्धयानात्। मदश्च त्रैधातुकः

स्त्यानौद्धत्यमदा धातुत्रये

इति वचनात्।। ३३ ।।

[ चित्तं मनोऽथ विज्ञानमेकार्थ चित्तचैतसाः।
साश्रयालम्बनाकाराः संप्रयुक्ताश्च पञ्चधा।। ३४।। ]

उक्ताः सह चित्तेन चैत्ताः प्रकारेणेति। चित्तं तावत्प्रकारेणोक्त विज्ञानं प्रतिविज्ञप्तिः इत्येवमादिनास्वलक्षणस्कन्धधात्वायतनकुशलादिप्रभेदेन। चैत्ता अपि खलक्षणपरस्परविशेषेण चित्तसंख्यावधारणकामप्रथमध्यानादिभूमिप्रभेदेन

एकार्थम्

इति। यच्चित्तं तदेव मनस्तदेव विज्ञानमित्येकोऽर्थोस्येत्येकार्थम्। निर्वचनभेदस्तूच्यते ॅहिनोतीति चित्तमिति। कुशलमकुशलं वा चिनोतीत्यर्थः। नैरूक्तेन विधिनैवं सिद्धम्। मनुत इति मनः। मन ज्ञान इत्यस्य औणादिकप्रत्ययात्तस्यैतद्रूपं मन इति। विजानात्यालम्बनमिति विज्ञानम् कर्तरि ल्युट्। चितंशुभाशुभैर्धातुभिरिति चित्तम्। वासनासंनिवेशयोगेन सौत्रान्तिकमतेन योगाचारमतेन वा। आश्रयभूतं मन आश्रितभूतं विज्ञानमिति। आश्रयभावापेक्षं मनः

षण्णामनन्तरातीतं विज्ञानं यद्धि तन्मनः

इत्यर्थपरिग्रहात्। आश्रितभावापेक्षं विज्ञानम् द्वयं प्रतीत्य विज्ञानस्योत्पत्तिरिति वैचनात्

चित्तचैतसाः।

साश्रयालम्बनाकाराः संप्रयुक्ताश्च

इति। चशब्द एकानुकर्षणार्थः। य एव हि चित्तचैत्ता इत्यनेन शबेनाभिहितास्त एव साश्रया इत्यनेनापि शब्देनाभिधीयन्ते। एवं सालम्बनाः साकाराः संप्रयुक्ताश्च। तत्र साश्रया इन्द्रियाश्रितत्वात् षडायतनश्रितत्वादित्यर्थः। सालम्बना विषयग्रहणात्। न हि विनालम्बनेन चित्तचैत्ता उत्पद्यन्ते। साकाराः तस्यैवालम्बनस्य प्रकारेणाकारणात्। येन ते सालम्बना तस्यैवालम्बनस्य प्रकारेण ग्रहणात्। कथम्। विज्ञानं हि नीलं पीतं वा वस्तु विजानाति उपलभत इत्यर्थः। तदेव तथालम्बनं वस्तु वेदनानुभवति संज्ञा परिच्छिनत्ति चेतनाभिसंस्करोतीत्येवमादि। अथ वा तस्यैवालम्बनस्य विज्ञानं सामान्यरूपेणोपलभ्यतारूपं गृह्णाति। विशेषरूपेण तु वेदनानुभवनीयतारूपं गृह्णाति संज्ञा परिच्छेद्यतारूपं गृह्णातीत्येवमादि। संप्रयुक्ताः सर्म प्रयुक्तत्वादिति। समा अविप्रयुक्ताश्चान्योन्यमिति संप्रयुक्ताः। आश्रयालम्बनाकारकालद्रव्यसमताभिरिति। येनाश्रयेण चित्तमुत्पद्यते तेनैवाश्रयेण वेदासंज्ञाचेतनादय उत्पद्यन्ते। तथा येनालमब्नेन चित्तम् तेनैव वेदनादयः। येनाकारेण चित्तम् तेनैव वेदनादयः। यदि हि नीलाकारं चित्तम् नीलाकारा एव तत्संप्रयुक्ता वेदनादय उत्पद्यन्ते। यस्मिंञ्च काले चित्तम् तस्मिन्नेव वेदनादयः। यथा च चित्तद्रव्यमेकमेवोत्पद्यते न द्वे त्रीणि वा तथा वेदनाद्रव्यमेकमेवोत्पद्यते न द्वे त्रीणि वा। तथा संज्ञाद्रव्यं चेतनाद्रव्यमित्येवमादि। तेनेदमेवान्त्यं द्रुगममिति व्याचष्टे। यथैव ह्येकं चित्तम्। एवं चैत्ता अपि एकैका इति।। ३४।।

[ विप्रयुक्तास्तु संस्काराः प्राप्त्यप्राप्तिसभागता।
आसंग़्यिकसमापत्ती जीवितं लक्षणान्यपि।। ३५।। नामकायादयश्चेति ]

विप्रयुक्तान् वक्तुकाम आचार्य उपोद्धातं करोति। निर्दिष्टाश्चित्तचैत्ताः सविस्तरप्रभेदाः विप्रयुक्तास्त्ववसरप्राप्ता इदानीमुच्यन्त इत्यभिप्रायः। सविस्तरप्रभेदा इति। विस्तरश्च प्रभेदश्च विस्तरप्रेभदौ सह विस्तरप्रभेदाभ्यां सविस्तरप्रभेदाः। अथ वा विस्तरेन प्रभेदः विस्तरप्रभेदः सह विस्तरप्रभेदेन सविस्तरप्भेदाः। तत्र चित्त तावत् सविस्तरप्रभेद निर्दिष्टम्

विज्ञानं प्रतिविज्ञप्तिर्मन आयतनं च

इत्येवमादिना। चैत्ता अपि

वेदनानुभवः

इत्यारभ्य यावत्

पञ्चधा चैत्ताः

इति विस्तरेण।

नामकायादयश्च

इति। चशब्द एवंजातीयकानुक्तविप्रयुक्तप्रदर्शनार्थः। संघभेदप्रभृतयो हि द्रव्यतश्चित्तविप्रयुक्ता इष्यन्त इति। येऽप्येवंजातीयका इति शास्त्रेऽप्युक्तत्वात्। चित्तविप्रयुक्ता इति चित्तग्रहणं चित्तसमानजातीयप्रदर्शनार्थम्। चित्तमिव चित्तेन च विप्रयुक्ता इत्यर्थः। किं च तेषां चित्तेन समानजातीयत्वम्। यदरूपिणोऽमी भवन्ति। रूपित्वादेव हि विप्रयुक्तत्वेऽपि रूपं न विप्रयुक्तत्वे नाम लभते। यद्वामीषां नामरूपमिति नामत्वम्। तत्तेषां चित्तेन समानजातीयत्वम्। चैत्ता अपि चित्तेन तुल्यजातीयाः। ते तु चित्तेन सहालम्बने संप्रयुक्ताः। तद्विशेषणार्थ विप्रयुक्तग्रहणम्। असंस्कृतमपि तत्समानजातीयमनालम्बनत्वेनेति तत्परिहारार्थ संस्कारग्रहणम्। अत एवाह। इमे संस्कारा न चित्तेन संप्रयुक्ताः न च रूपस्वभावा इति चित्तविप्रयुक्ता उच्यन्त इति।।

[ प्राप्तिर्लाभः समन्वयः।
प्राप्त्यप्राप्ती स्वसन्तानपतितानां निरोधयोः।। ३६।।]

तत्रेति वाक्योपन्यासे निर्धारणे वा। तावच्छन्दः क्रमे।

प्राप्तिर्लाभः समन्वयः

इति। प्राप्तिरिति सामान्यसंज्ञा। लाभः समन्वय इति विशेषसंज्ञा। लाभः प्रतिलम्भ इत्येकार्थः। समन्वयः समन्वागम इत्यनर्थान्तरम्। प्रतिलम्भ इत्युक्ते समन्वागमस्याग्रहणम्। समन्वागमैत्युक्ते प्रतिलम्भस्याग्रहणम्। प्राप्तिरित्युक्ते तूभयोद्गहणम्। अत एवाह द्विविधा हिप्राप्तिप्राप्तविहीनस्य च प्रतिलम्भः प्रतिलब्धेन च समन्वागम इति। अप्राप्त च विहीनं चाप्राप्तविहीनम्। तस्याप्राप्तविहीनस्य प्रतिलम्भः। अप्राप्तस्य तद्यथा दुःखे धर्मज्ञानक्षान्तेः। विहीनस्य तद्यथा कामावचरस्य कामवैराग्येण त्यक्तस्य धातुप्रत्यागमनात् परिहाण्या वा पुनः प्रतिलम्भः। प्रतिलब्धेन च द्वितीयादिषु क्षणेषु समन्वागमः तस्याः समनुवर्तनात्। यश्च प्रतिलम्भो यश्च समन्वागमः। सा द्विधा प्राप्तिरिति प्रतिलम्भे समन्वागमे च प्राप्तिशब्दो वर्तते। अभेदविवक्षायां तु प्राप्तिः प्रतिलम्भः समन्वागम इत्येक एवार्थः। तथा हि प्रथमे क्षणे दुःखे धर्मज्ञानक्षान्तेः प्राप्ति प्रतिलम्भ इष्यते। सापि समन्वागम इत्युच्यते। प्रथमक्षणस्थ आर्यपुद्गलो दुःखे धर्मज्ञानक्षान्त्या समन्वागत इत्युच्यते

आज्ञास्यामीन्द्रियोपेतस्त्रयोदशभिरन्वितः

इत्यादिवचनात्। कथमयं लक्षणनिर्देशः। न हि भेदविवक्षायामपि पर्याय वचनेन लक्षणनिर्देशः कल्पते। प्राप्तिः कतमा। यः प्रतिलम्भो यः समन्वागम इति। पर्यायवचनमपि कदाचित् लक्षणाय कल्पते अनलो जातवेदा अग्निरिति। सूत्रेऽप्युक्तम्। अविद्या कतमा। यत्पूर्वान्ते अज्ञानमपरान्त अज्ञानमिति विस्तरः। विपर्ययादप्राप्तिरिति सिद्धमिति। विपर्ययादेवाप्रातिरिति सिद्धे नैतदर्थ सूत्र कर्तव्यमित्यभिप्रायः। अप्राप्तिरप्रतिलम्भोऽसमन्वागम इति विपर्ययादेत्तयं गम्यते। तथैव चाप्रतिलम्भासमन्वागमयोरप्राप्तिरिति सामान्यसंज्ञा। तस्मादेवं च वक्तव्यम्। द्विविधा अप्राप्तिरप्राप्तपूर्वाणामप्रतिलम्भः प्राप्तविहीनानामसमन्वागम इति। अथ वाप्रतिलब्धस्य विहीनस्य चाद्याप्राप्तिरप्रतिलम्भः। अप्रतिलब्धेन विहीनेन च द्वितीयादषु क्षणेष्वसमन्वागम इति।

प्राप्त्यप्राप्ती स्वसन्तानपतितानाम्

इति। संस्कॄतानां प्राप्त्यप्राप्ती स्वसन्तानपतितानामेवेत्यवधार्यते। न परसन्तानपतितानामिति। न परसत्त्वसन्ततिपतितानां धर्माणां स्वसन्ततौ प्राप्त्यप्राप्ती भवत इत्यर्थः। तेनाह न हि परकीयैः कश्चित्समन्वागत इति। नाप्यसन्ततिपतितानामिति। नासत्त्वसन्ततिपतितानामित्यर्थः। तस्मादाह न ह्यसत्त्वसंख्यातैः कश्चित्समन्वागत इति। माल्याभरणादयः काष्ठकुड्यादिगताश्च रूपादयोऽसत्त्वसंख्याताः। चक्षुरादयः सत्त्वसंख्याताः। केशादयो रूपीन्द्रियसंबद्धाः सत्त्वसंख्याता एव वेदितव्याः। तदनुग्रहोपघातपरिणामानुविधानात्। तथा हि रूपीन्द्रियोपघातात् पालित्यादिविकारः केशादीनां दृश्यते रसायनोपयोगेन चानुग्रहात्पालित्यादिप्रत्यापत्तिरिति सर्वेषां सत्त्वसंख्यातानां प्राप्तिर्भवतीति सिद्धान्तः।

निरोधयोः

इति प्रतिसंख्याप्रतिसंख्यानिरोधयोरसत्त्वसंख्यातयोरपि प्राप्त्यप्राप्ती भवतः। सर्वसत्त्वा अप्रतिसंख्यानिरोधेन यथा प्रत्ययवैकल्यं समन्वागताः सकलबन्धना दिक्षणस्थवर्ज्या इति। आदौ क्षणः दुःखे धर्मज्ञानक्षान्तिक्षणः तत्र स्थिता आदिक्षणस्थाः। सकलानि बन्धनान्येषामिति सकलबन्धनाः अप्रहीणसर्वप्रकारक्लेशाः। सकलबन्धनाश्चादिक्षणस्थाश्च त इति सकलबन्धनादिक्षणस्थाः ते वर्ज्या एषां तैर्वा वर्ज्याः सकलबन्धनादिक्षणस्थवर्ज्याः। के सर्व आर्याः। ते प्रतिसंख्यानिरोधेन समन्वागताः। सकलबन्धनादिक्षणस्थास्त्वार्या न समन्वागताः। तस्यां ह्यवस्थायां क्षान्तिवध्याः केल्शाश्छिद्यन्ते न छिन्नाः। तन्निरोधोऽपि प्राप्यते न प्राप्तः।

निरूध्यमानो मार्गस्तु प्रजहाति तदावृतिम्

इति सिद्धान्तात्। एकप्रकारोपलिखितादयस्त्वार्या लौकिकमार्गप्राप्तेन निरोधेन तस्यामवस्थायां समन्वागताः। अत ऊध द्वितीयादिषु क्षणेषु समन्वागता एव अनास्रवमार्गप्राप्तेनापि निरोधेन। पृथग्जनाश्च केचित्समन्वागता इत्येकप्रकारोपलिखितादयः। आकाशेन तु नास्ति कश्चित्समन्वागत इति। असंबन्धात्। निरोधाभ्यां त्वस्ति संबन्धः। तस्मादाकाशस्य प्राप्तिर्नास्ति। यस्य च नास्ति प्राप्तिः तस्याप्राप्तिरपि नास्तीति सिद्धान्त एष वैभाषिकाणाम्।

कुत एतदिति। रूपादिचक्षुरादिवत्स्वरूपकार्यानुपलम्भात्पृच्छति। सूत्रादिति। व्याख्यानमेव वैभाषिकः साधयति। दशानामशैक्षानां धर्माणामिति विस्तरः। दशाशैक्ष धर्मा अष्टावशैक्षाण्यार्यमार्गाङ्गानि सम्यग्विमुक्तिः सम्यग्ज्ञानञ्च। तेषामुत्पादात् संमुखीभावात् प्रतिलम्भादादितः प्राप्तेः समन्वागमात् पश्चात्प्राप्तेः पञ्चाङ्ग विप्रहीनः प्रहीणपञ्चाङ्ग इत्यर्थः। पञ्चाङ्गानि सत्कायदृष्टिः शीलव्रतपरामर्शो विचिकित्सा कामच्छन्दो व्यापाद इति। एतान्यनग्फ़ामिफ़लप्राप्तौ प्रहीणानीति न युज्यन्ते। इमानि तु प्रयुज्यमानानि पञ्चङ्गानि पश्यामो यदुतोर्धभागीयानि रूपराग आरूप्यराग औद्धत्यं मनोऽविधा चेति। प्रतिनिधिभूतायाः प्राप्तेर्योगात् प्रकृतिस्थोऽप्यर्हन्नार्य इत्युच्यते। साधनं चात्र। द्रव्यतोऽस्ति समन्वागमः सूत्रोक्तत्वात् आयतनद्रव्यवदिति। आचार्यस्तं प्रत्याह तेन तर्ह्यसत्त्वाख्यैरपि चकरत्नादिभिः परसत्त्वैरपि स्त्रीरत्नादिभिः समन्वागमो द्रव्यसत् प्राप्नोति। सूत्रे वचनात्। कथमिति सूत्र दर्शयति। राजा यावद्विस्तर इति। राजा भिक्षवश्चकवर्ती सप्तभी रत्नैः समन्वागतः। तस्येमानि सप्त रत्नानि। तद्यथा चक्ररत्न हस्तिरत्नमश्वरत्न मणिरत्न स्त्रीरत्न गृहपतिरत्न परिणायकरत्नमेवं सप्तमिति विस्तरः। एभिः सप्तभी रत्नैः समन्वागमः सूत्र उक्तः। न च द्रव्यतोऽस्तीत्यनैकान्तिकतां दर्शयति प्रतिज्ञादोषं चायमुद्गाहयत्यनुमानविरोधात्। कथमित्युच्यते। न द्रव्यसन् दशाशैक्षधर्मसमन्वागमः समन्वागमस्वाभाव्यात् चक्रवर्तिसप्तरत्नसमन्वागमवदिति। अनेन प्रतिज्ञाया धर्मस्वरूपं विपर्यासयति। वशित्वं कामचार इति। इच्छानुविधायित्वम्। तत्र विशत्वमिति। चक्रवर्तिसूत्रे। अन्यत्र पुनर्द्रव्यान्तरमिति। दशाशैक्षधर्मसमन्वागमसूत्रे। कः पुनरेवमयोग इति। प्रवचने हि द्विविधमिष्यते द्रव्यसच्च वस्त् प्रज्ञप्तिसह्चेति। कथमयुक्तिरिति वैभाषिकाः। आयार्य आह। अयमयोग इति विस्तरः। इह यद्दव्यसद्वस्तु तत्प्रत्यक्षग्राह्यं वा भेदनुमानग्राह्यं वा। तत्र प्रत्यक्षग्राह्यं रूपशब्दादि पञ्चेन्द्रियग्राह्यत्वात्। मनोविज्ञानग्राह्यमपि किंचित्प्रत्यक्षं रागद्वेषादि स्वसंवेद्यत्वात्। चक्षुः श्रोत्रादि त्वनुमानग्राह्यं चक्षुर्विज्ञानादिकृत्यानुमेयत्वात् तद्भावाभावयोस्तद्भावाभावात्। प्राप्तिः पुनर्न प्रत्यक्षग्राह्या न चानुमानग्राह्या। तत्सिद्धौ निरवद्यानुमानादर्शनात्। तस्माद्दव्यधर्मासंभवादयोग इति स्थितमेतत्। इदानीमाचार्यस्तत्पक्षमुत्थाप्योत्थाप्य दूषयति। उत्पत्तिहेतुरिति विस्तरः। यस्य प्राप्तिरस्ति स उत्पद्यते हेतुसद्भावात् असंस्कृतस्य न स्यात् प्राप्तिर्यस्मादसंस्कृतमनुत्पाद्यम्। ये च धर्मा अप्राप्ता दुःखे धर्मज्ञानक्षान्त्यादयः। ये च त्यक्ताः भूमिसञ्चारवैराग्यतः। तद्यथा कामावचरा अक्लिष्टा ऊर्ध्वभूम्युपपत्त्या क्लिष्टाश्च वैराग्येण त्यक्ता। तेषां धातुप्रत्यामगतः परिहाण्या वा कथमुत्पत्तिः स्यात्  न हि तेषां प्राप्तिरस्त्य नुत्पन्ननिरूद्धत्वात्। सहजप्राप्तिहेतुका चेत्। का तेषामुत्पत्तिरधिकृता। सहजा या प्राप्तिरिदानीमुत्पद्यते सा तेषां जनिकेति। आह। जातिरिदानीं कींकरी जातिजातिर्वेति। किकण्णशीला किङ्करी। जातिर्लक्ष्यं धर्म जनयति। जातिजातिस्तु तल्लक्षणं जातिं जनयति। तेन यदि लक्ष्याणां धर्माणामुत्पत्तिः प्राप्तिहेतुकोच्येत तत्र जातिः किङ्करी। अथ लक्षणानाम् उत्पत्तिस्तद्धेतुकोच्येत। तत आह जातिजातिर्वा किकरीति विकल्पः। अथ वा यदि भवतैवं कल्प्येत जातिर्धर्मं जनयति प्राप्तिः पुनर्जातिं जनयतीति। तत्रोच्यते जातिजातिर्वा किङ्करीति। सकलबन्धानां खल्वपीति विस्तरः। येषामेकोऽपि क्लेशप्रकारो न प्रहीणस्ते सकलबन्धनाः तेषां सकलबन्धनानां खल्वपि मृदुमध्यधिमात्रक्लेशोत्पत्तिप्रकारभेदो न स्यात्। कस्मात्। प्राप्त्यभेदात्। विकलबन्धनानां हि प्राप्तिवैकल्यान्मृदुमध्याधिमात्रक्लेशोत्पत्तिभेदः परिकल्प्येत न तु सकलबन्धनानाम् प्राप्तीनां तुल्यत्वात्। यतो वा स भेद इति। यतो वा कारणादभ्यासतोऽन्यतो वा स भेदः। कस्यचित्सकलबन्धनस्याधिमात्रः कस्यचिन्मध्यः कस्यचिन्मृदुः। तत एव भेदकारणात्तदुत्पत्तिरस्तु। तेषां मृद्वादीनां क्लेशानामुत्पत्तिः। तस्मान्नोत्पत्तिहेतुः प्राप्तिरिति। वैभाषिक आह। कस्चैवामाहेति विस्तरः। व्यवस्थाहेतुः प्राप्तिः। असत्यां हि प्राप्तौ लौकिकमानसानाम् इति। लोके मानसाः। आर्यपृथग्जनाः। आर्याश्च पृथग्जनाश्च। लौकिकमानासग्रहणमार्यविशेषणम्। पृथग्झना हि नित्यमेव लोकिकमानसाः। आसंज्ञिकसंज्ञिसमापत्त्यवस्थायां वा पॄथग्जनविशेषणमपि संभवति। तेषामार्यपृथग्जानाम्। तेषामिति निर्धारणे ष्ठी संबन्धलक्षणा वा। तेषां न स्यद्वयवस्थानमिति परिच्छेदः। यत्कृतं व्यवस्थानं सा प्राप्तिः। प्रहीणाप्रहीणक्लेशताविशेषाद्ति। प्रहीणक्लेशा आर्या अप्रहीणक्लेशाः पृथग्जनाः तद्भावः स एव विशेषः इति प्रहीणाप्रहीणक्लेशताविशेषः तस्मात्। एतद्वयवस्थानं भवितुमर्हति। ननु च पृथग्जना अपि केचित्प्रहीणक्लेशा भवन्ति। कथमवधार्यते आर्या एव प्रहीणक्लेशा इति। अत्यन्तसमुद्धातवचनादेवमुक्तम्। एतच्चैव कथमिति। एषां प्रहीणः क्लेश एषामप्रहीण इति यदेतद्वयवस्थानम्। तत्कथं भविष्यति। प्राप्तौ तु सत्यां क्लेशप्राप्त्या  एतत्सिध्यति व्यवस्थानम् तद्विगमाविगमात् क्लेशप्राप्तिविगमाविगमात् छेदाच्छदादित्यर्थः। येषां तत्प्राप्ति विगमाः ते आर्याः। येषाविगमाः ते पृथग्जना इति। ननु च पृथग्जनानामपि केषंचित् क्लेशप्राप्तिर्विगता। विगता न तु लोकोत्तरेण मार्गेण। स तर्हि लोकोत्तरमार्गकृतो विशेषः कथं परिच्छिद्यते लोकोत्तरेणेयं क्लेशप्राप्तिर्विगता लौकिकेनेयमिति। सास्रवानास्रवविसंयोगप्राप्तिभेदात्। आश्रयविशेषादेतत्सिध्यतीति। आत्मभावविशेषादेतद्वयवस्थानमेषां प्रहीणः क्लेश एषामप्रहीणः क्लेश इति सिध्यति। तथा परावृत्त इति। तथान्यथाभूतः। तत्प्रहेयाणां दर्शनभावनामार्गप्रहेयाणाम्। अग्निदग्धव्रीहिवदिति। यथाग्निदग्धो व्रीहिरबीजीभूतो भवति। एवं यथोक्तेन न्यायेनाबीजीभूत आश्रयः क्लेशानां प्रहीणक्लेश इत्युच्यते। उपहतबीजभावे वा। आश्रय इत्यधिकृतम्। तेन लौकिकेन मार्गेण प्रहीणक्लेश इति शक्यते वक्तु बीजस्योपधातमात्रभावात्। विपर्ययादप्रहीण इति। अनिर्दग्धबीज आश्रयेऽनुपहतबीजभावे वा। यश्चाप्रहीण इति विस्तरः। यश्चाप्रहीणोऽनन्तरोक्तेन विधिना दर्शनप्रहातव्यः कामावचरो यावद्भावाग्रिकः। भावनाप्रहातव्यो वा कामवचरो यावद्भावाग्रिकः। तेन समन्वागतः। यश्च प्रहीणस्तथैव यावद्भावाग्रिकः। तेनासमन्वागत इति प्रज्ञप्यते। प्रज्ञप्तिधर्मोऽयमिति दर्शयति। कुशला अपि द्विप्रकारा इति विस्तरः। यथा क्लिष्टा द्विप्रकारा इत्यपिशब्दार्थः। समुच्चये वा कुशलाश्चेत्यर्थः। तद्बीजभावानुपघातादिति। तेषामुत्पत्तिलाभिकानां कुशलानां बीजं तद्वीजम् तद्वीजस्य भावस्तद्वीजभावः। कस्य आश्रयस्य। तद्वीजभावस्यानुपघातस्तद्वीजभावानुपघातः तस्मात् तद्वीजभावानुपघातात्। समन्वागतः। कैः अयत्नभाविभिः कुशलैः। उपघाता दसमन्वागत उच्यते। कोऽसावित्याह। समुच्छिन्नकुशलमूलः। त्यस्य त्विति। तस्याश्रयस्य तद्वीजभावस्य उपघातो मिथ्यादृष्ट्या वेदितव्यः नान्यथा। तेनाह। न तु खलु कुशलानां धर्माणां बीजभावस्यात्यन्तं सन्ततौ समुद्धातो यथा क्लेशानामार्यमार्गेणात्यन्तं सन्ततौ समुद्धात इत्यभिप्रायः। ये पुनरिति विस्तरः। ये प्रायोगिकाः। तैरूत्पन्नैः तेषामुत्पत्ति स्त्दुत्पत्तिः। तदुत्पत्तौ वशित्वं सामर्थ्यविशेषस्तस्याविघातात्। कस्य सन्ततेः। समन्त्रागम उच्यते। कैः तैर्यत्नभाविभिः कुशलैः। यस्मादेवं तस्मादबीजमेव शक्तिविशेष एवात्र समन्वागमावस्थायामनपोद्धृतं क्लिष्टानां धर्माणामार्गमार्गेण। अनुपहतं लौकिकेन मार्गेण। अयत्नभाविनां च कुशलानां धर्माणां मिथ्यादृष्ट्या। परिपुष्टं च वशित्वकाले यत्नभाविनां कुशलानां बीजमिति प्रकृतम् समन्वागमाख्यां लभते। नान्यद्दव्यं यद्वैभाषिकैः कल्पितम्। किं पुनरिदं बीजं नामेति द्रव्याशङ्कया पृच्छति। यन्नामरूपं फ़लोत्पत्तौ समर्थम्। यत्पञ्चस्कन्धात्मकं रूपं फ़लोत्पत्तिसमर्थम्। साक्षादनन्तरं पारंपर्येण दूरतः। कोऽयं परिणामो नामेति सांख्यीयपरिणामाशङ्कया पृच्छति। सन्ततेरन्यथात्वमिति। अन्यथोत्पादः। काचेयं सन्ततिरिति। किं यथा सांख्यानामवस्थितद्रव्यस्य धर्मान्तरनिवृत्तौ धर्मान्तरप्रादुर्भावः तथावस्थायिन्याः सन्ततेरन्यथात्वमिति। नेत्युच्यते। किं तर्हि हेतुफ़लभूता। हेतुश्च फ़लं च हेतुफ़लम्। हेतुफ़लमिति नैरन्तर्येण प्रवृत्तास्त्रैयध्विकाः संस्काराः संततिरिति व्यवस्थाप्यन्ते। यत्र तूक्तमिति विस्तरः। यत्र तु सूत्र उक्तम्। किमित्याह। लोभेन समन्वागतोऽभव्योऽयोग्यश्चत्वारि स्मृत्युपस्थानानि कायस्मृत्युपस्थानादीनि उत्पादयितुमिति। यदि बीजं प्राप्तिः। बीजं नित्यमस्तीति स्मृत्युपस्थानोत्पत्तिर्न स्यात्। भवदीयायामपि प्राप्तौ तदुत्पत्तिर्न स्यादिति तुल्यमेतत्। तस्मादुभाभ्यामपि वक्तव्यम्। तत्राधिवासनं लोभसाविनोदनं वा समन्वागम इति। अधिवासनमभ्युनज्ञानमविनोदमव्युपशमनम्। सर्वथा प्रज्ञप्तिधर्मो न द्रव्यधर्म इति सर्वप्रकारेण यद्युत्पत्तिहेतुर्यदि व्यवस्थाहेतुर्यद्याश्रयविशेषो यद्यधिवासनमविनोदनं वा सर्वथा प्रज्ञप्तिधर्मः। प्रज्ञप्तया संवृत्या व्यवहारेण धर्मः प्रज्ञप्तिधर्मः। न द्रव्यधर्मः। न रूपादिवत् विद्यमानस्वलक्षणो धर्म इत्यर्थः। तस्य च प्रतिषेधः। तस्य च प्रज्ञप्तिधर्मस्य प्रतिषेधोऽसमन्वागम इति। इदमस्येति ज्ञानचिह्न प्रतिलब्धधर्माविप्रणाशकारणं च प्राप्तिरित्याचार्यसंघभद्रः। इदमस्येति ज्ञानचिह्नमित्यसिद्धमेतत्। आश्रयविशेषेण तज्ज्ञानमिति व्रूमः। यदि च प्रतिलब्धधर्माविप्रणाशकाराणं प्राप्तिरिष्यते। प्राप्तरित्यागो नैव स्यात्। भवति च। तस्मादकारणमेतत्। स एव च शक्तिविशेषलक्षणं बीजभावमाचार्येण व्यवस्थापितं दूषयति। किमयं शक्तिविशेषश्चित्तादर्थान्तरमुतानर्थान्तरम्। किं चातः। अर्थान्तरं चेत् सिद्धं प्राप्तिरस्तीति संज्ञामात्रे तु विवादः। अनर्थान्तरं चेत् नन्वकुशलं कुशलस्य बीजमभ्युपगतं भवत्यकुशलस्य च कुशलम्। को हि नाग्रौष्ण्यस्य तेजसोऽनर्थान्तरत्वे सत्यौष्ण्यमेव दाहकमध्यवस्येन्न तेजः। कुशलबीजं ह्यकुशले चेतस्यव्याकृते वा वर्तते।एवमकुशलवीजं कुशले चेतस्याव्याकृते वा वर्तते। तथैव चाव्याकृतबीजमपि कुशले चाकुशले च वर्तते। सास्रवबीजं चानास्रवेऽनास्रवबीजं च सास्रवे चेतसि वर्तत इति सांकर्यदोषः प्रसज्यत इति। अत्रं वयं ब्रूमः। अनर्थान्तरभावे सांकर्यदोषो भवेत्। तत्तु बीजं न चित्तादर्थान्तरं वक्तव्यम् नाप्यनर्थान्तरम् उपादायप्रज्ञप्तिरूपत्वात्। अथाप्यनर्थान्तरभावः तथाप्यदोषः। कुशलेन हि चित्तेनोत्पन्नेन स्वजातीयेऽन्यजातीये वा स्वसंतानचित्ते बीजमाधीयेत। ततः कारणविशेषात्कार्याविशेष इति विशिष्टम्। तेन तच्चित्तमुत्पद्येत। तद्विशिष्टं चित्तं कुशलबीजकार्यक्रियायां समर्थमुत्पद्येत। एवमकुशलेनापि स्वजातीयेऽन्यजातीये वा स्वसंतानचित्ते बीजमाधीयेत। तच्च तेन विशिष्टमकुशलबीजकार्यक्रियायां समर्थमुत्पद्येत। एवमव्याकृतेनापि चित्तेन स्वजातीये अन्यजातीये वा स्वसंतानचित्ते बीजमाधीयेत। तच्चापि तेन विशिष्टमव्याकृतबीजकार्यक्रियायां समर्थमुत्पद्येत। सास्रवेगाप्यनास्रवे चित्ते बीजमाधीयेत अनास्रवेणापि सास्रवे। इत्येवमन्योन्यबीजाधायकमन्योन्यजनकं च चित्तं चित्तान्तरादुत्पद्यमानमन्योन्य वास्यवासकत्वेन प्रवर्तते। न च कुशले नाकुशले चित्ते शक्तिविशेष आहित इति तदकुशलं कुशलतामापद्यते कुशलं वा तदकुशलतां शक्तिविशेषमात्रत्वात्। शक्तिर्वीजं वासनेत्येकोऽयमर्थः। एवमकुशलादिवासनापि वक्तव्या। यावत् सास्रवेणानास्रवे शक्तिविशेषाधानेऽपि। अनास्रवेणापि सास्रवे शक्तिविशेषाधाने। न तत्सास्रवमनास्रवं संपद्यते अनास्रवं वा सास्रवमिति। भवतामपि वैभाषिकाणामिदं चिन्त्यते। यदा सास्रवचित्तसमनन्तरमनास्रवमनास्रवचित्तसमन्तरं वा सास्रवचित्तमुत्पद्यते। तदा किं पूर्वकः सास्रवकलापोऽनास्रवकलापो वा शक्तिमान् समनन्तरप्रत्ययादिभावेनोत्तरकलापोत्पत्तावुताशक्तिमान्। किं चातः। यद्यशक्तिमान् समनन्तरप्रत्ययादिभावोऽप्यस्य हीयेत। अथ शक्तिमान् स शक्तिः किं सास्रवे चेतसि सास्रव आहोस्विदनास्रवा। तच्चित्तं सास्रवस्यानास्त्रवस्य च चित्तान्तरस्य समनन्तरप्रत्ययादिभावं कुर्वत् किं ययैव शक्तया सास्रवस्य समनन्तरप्रत्ययादिभावं कुर्यात्तयैवानास्रवस्य। यदि तयैव कथं शक्तिकार्यसांकर्य न भवेत् । अथान्यया शक्तया सास्रवस्यान्ययानास्रवस्य समनन्तरप्रत्ययादिभावं कुर्यात् कथमनयोरेकत्र शक्तयोस्तस्माच्चित्तादनन्ययोर्भिन्नरूपता भिन्नकार्यता च युज्यते। युज्यते चेत् अस्माकमपि चित्तादनन्यासां शक्तीनां तत्रावस्थानं कार्यभेदश्च भविष्यति। एवमनास्रवस्यापि चित्तस्य सास्रवानास्रवचित्तसमनन्तरप्रत्ययादिभावेन संभवतः तथैव शक्तयोर्भिन्नरूपता कार्यभेदश्च वक्तव्यः। तेन यदुक्त नन्वकुशलं कुशलस्य बीजमभ्युपगतं भवतीत्यादि तदयुक्तम्। न हि कुशलाहितेन शक्तिविशेषेण विशिष्ट समर्थकुशलमकुशलबीजकार्य करोति। कि तर्हि कुशलबीजकार्यमेव करोति। स्वाहितेन तु शक्तिविशेषेण तदकुशलं स्वबीजकार्यं करोति। तत् कथमिदमुच्यते कुशलस्याकुशलं बीजमिति। व्रूयास्त्वमकुशलचित्ते तत्कुशलबीजमाहितं किमकुशलं न भवतीति। न भवन्तो बीजार्थ जानते। कुशलेन चित्तेन निरूध्यमानेन तथा शक्तिविशिष्टमकुशलं चित्तं जन्येत। यथा तच्चित्तं स्वोत्पत्तियोग्यं भविष्यति साक्षात् पारम्पर्येण वेति शक्तिविशेष एव बीजम्। न बीजं नाम किञ्चिदस्ति प्रज्ञप्तिसत्त्वात्। अत एव पाप्त्यप्राप्ती प्रज्ञप्तिसत्यावुच्येते। द्रव्यसत्यावेव तु वैभाषिका वर्णयन्ति।। ३६।।

[ त्रैयध्विकानां त्रिविधा शुभादीनां शुभादिका।
स्वधातुका तदाप्तानामनाप्तानां चतुर्विधा।। ३७।। ]

अतीतानां धर्माणामतीतापि प्राप्तिरिति विस्तरः। अतीतानां धर्माणां तद्यथा क्लिष्टानामतीता प्राप्तिः। या उत्पन्ननिरूद्धा साग्रजापि संभवति सहजापि पश्चात्कालजापि। तेषामेवानागता प्राप्तिरनुत्पन्ना। प्रत्युत्पन्ना या पश्चात्कालजा उत्पन्नानिरूद्धा। अनागतानामपि प्राप्तिरतीता याग्रजोत्पन्ननिरूद्धा। अनागता यानुत्पन्ना प्रत्युत्पन्नग्रजोत्पन्नानिरूद्धा। तथा प्रत्युत्पन्नानामप्यतीता प्राप्तिर्याग्रजोत्पन्ननिरूद्धा। अनागता यानुत्पन्ना प्रत्युत् पन्ना या सहजा। अतीतादिजातिसामान्यं च गृहीत्वैवमुक्तम्। न त्वेकस्यातीतस्यावश्यं त्रिविधा प्राप्तिरस्ति। न हि विपाकजस्यानागतातीता वा प्राप्तिः संभवति।

अव्याकृताप्तिः सहजा

इति वचनात्। यदि तु प्रतिद्रव्यं प्राप्तिव्यवस्था क्रियेत संभवं प्रत्येतदेवं भवेत्। क्लिष्टानामुत्पत्तिप्रतिलम्भिकानां च कुशलानामतीतादीनामतीतादयः प्राप्तयोऽवश्यं भवन्ति। न हि पृथग्जनस्यानुत्पन्नस्यानास्रवस्य मार्गस्यातीता प्रत्युत्पन्ना च प्राप्तिरस्ति। सापवादश्चायमुत्सर्गोऽवगन्तव्यः।

अव्याकृताप्तिः सहजा

इति वचनात्। असंस्कृताना तु प्राप्तिरूत्पन्ननिरूद्धातीता अनुत्पन्नानागता उत्पन्नानिरूद्धा प्रत्युत्पन्ना। सुगमत्वात्तु न सूत्रितमेतत्। कामरूपारूप्यावचराणां कामरूपारूय्यावचरी यथाक्रममिति। कामधातूपपन्नस्य कामावचराणां धर्माणां कामावचरी प्राप्तिः। तस्यैव रूपवचराणां रूपावचरी। तस्यैवारूप्यावचराणामारूप्यावचरी रूपधातूपपन्नस्य च कामावचराणाम्। तद्यथा निर्माणचित्तानां कामावचरी रूपावचराणां रूपावचरी आरूप्यावचराणामारूप्यावचरी। आरूप्यधातूपपन्नस्य तद्धातुकानां तद्धातुकैव प्राप्तिः।

अनाप्तानां चतुर्विधा

इति। अधात्वाप्तानां संस्कृतासंस्कृतानामनास्रवाणां चतुर्विधा प्राप्तिः। कामरूपारूप्यावचरी चानास्रवा च समासेन सर्वाननाप्तानभिसमस्येत्यर्थः। प्रत्येकं तु न चतुर्विधा। तत आह। तत्राप्रतिसंख्यानिरोधस्येति विस्तरः। कामधातूपपन्नस्य कामावचरादीनां यथासंभवमप्रतिसंख्यानिरोधस्य प्राप्तिः कामावचरी। रूपधातूपपन्नस्य रूपावचरादीनामप्रतिसंख्यानिरोधप्राप्ती रूपावचरी। आरूप्यधातूपपन्नस्यारूप्यावचरादीनामप्रतिसंख्यानिरोधप्राप्तिरारूप्यावचरी। सत्त्वसंतानवशेनैव हि तत्प्राप्तिर्व्यवस्थाप्यते। न तु तेषां वशेन येषामप्रतिसंख्यानिरोधः। यदि ह्येवं स्यात् मार्गसत्यस्याप्रतिसंख्यानिरोधप्राप्तिरनास्रवा स्यात्। प्रतिसंख्यानिरोधस्य रूपारूप्यावचरी चानास्रवा चेति। न कामावचरी। कामधातोरप्रतिपक्षत्वात्। रूपावचरेण तु मार्गेण प्राप्तस्य रूपावचरी प्राप्तिः। आरूप्यावचरेणारूप्यावचरी। अनास्रवेण मार्गेणानास्रवा। आर्यस्य तु रूपावचरेण मार्गेण प्राप्तस्य रूपावचरी चानास्रवा च आरूप्यावचरेणारूप्यावचरी चानास्रवा च।

लौकिकेनार्यवेराग्ये विसंयोगाप्तयो द्विधा

इति वचनात्। मार्गसत्यस्यानास्रवैवेति। लौकिकीमस्य प्राप्तिं प्रतिषेधयति सेयं समस्य चतुर्विधेति सम्मसेन त्रैधातुकी चानास्रबा चेत्युक्तमर्थं निगमयति।। ३७।।

[ त्रिधा न शैक्षाशैक्षाणामहेयानां द्विधा मता।
अव्याकृताप्तिः सहजाभिज्ञानैर्माणिकावृते।। ३८।। ]

शैक्षाराग़्यमिति। शैक्षा धर्माः  शैक्षस्यानास्रवा धर्माः। अशैक्षा अशैक्षस्यानास्रवाः। मार्गसत्यभावा एवैते द्रष्टव्याः। शैक्षाशैक्षेभ्यस्त्वन्ये नैवशैक्षा नाशैक्षाः। असंस्कॄता अपि यावन्नैवशैक्षा नाशैक्षा इष्यन्ते। तेषाम्

त्रिधा

प्राप्तिः शैक्षादिभेदेन शैक्ष्यशैक्षी नैवशैक्षी नाशैक्षी चेति। अनार्येण प्राप्तस्येति। पृथग्जनेन प्राप्तस्य। तस्यैव शैक्षेणेति। तस्यैव प्रतिसंख्यानिरोधस्य शैक्षेण मार्गेण प्राप्तस्य शैक्षी। क्षयज्ञानसंप्रयुक्तेन मार्गेण प्राप्तस्य विसंयोगप्राप्तिसन्निश्रयत्वात् क्षयज्ञानस्य। यद्याप स वज्रोपमेन शैक्षेण प्राप्यते तदावाहकत्वात् तत्प्राप्तत्ववचने तु शैक्ष्याः प्राप्तेरशैक्षी प्राप्तिविशेषिता स्यादिति न तेन शैक्षेणशैक्षीत्युक्तम्। तस्यैवार्यमार्गप्राप्तस्यानास्रवेति। तस्यैव प्रतिसंख्यानिरोधस्यार्यमार्गप्राप्तस्यानास्रवा मार्गसत्यस्य चानास्रवा। प्राप्तिरित्यधिकृतम्। आर्येण लौकिकमार्गप्राप्तस्य प्रतिसंख्यानिरोधस्य प्राप्तिः किं सास्रवा उताहोऽनास्रवा। उभयथेत्याह। सा कस्मान्नोक्ता। सावशेषं भाष्यम्। पश्चाद्दर्शयिष्यते

लौकिकेनार्यवैराग्ये विसंयोगाप्तयो द्विधा इति नोच्यते। या त्वसंकीर्णा प्राप्तिः सैवेहोच्यत इति वेदितव्यम्।

दुर्बलत्वादिति। अनभिसंस्कारवत्त्वाद्दुर्बलत्वम्। द्वे अभिज्ञे इति। दिव्यचक्षुरभिज्ञां दिव्यश्रोत्राभिज्ञाम्। निर्माणचित्तं च वर्जयित्वा। किम्

अव्याकृताप्तिः सहजा

इति संबन्धनीयम्। तेषां हि बलवत्त्वादिति विस्तरः। तेषां हि दिव्यचक्षुरभिज्ञादीनां बलवत्त्वात्। किम् पूर्वपश्चात्सहजा प्राप्तिः। प्रयोगविशेषनिष्पत्तेरिति प्रयोगविशेषेण निष्पत्तिर्दिव्यचक्षुरभिज्ञादीनाम्। तस्याः प्रयोगविशेषनिष्पत्तेर्बलत्त्वम्। बलत्त्वात्पूर्वपश्चात्सहजा प्राप्तिरित्यर्थसंबन्धः। शैल्पस्थानिकस्यापि कस्यचित् तद्यथा विश्वकर्मणः। ऐर्यापथिकस्य च तद्यथा स्थविरस्याश्वजितः। अत्यर्थमभ्यस्तस्य भृशमात्मसात्कृतस्येच्छन्ति वैभाषिकाः। किम् पूर्व पश्चात्सहजा प्राप्तरिति।। ३८।।

[ निवृतस्य च रूपस्य कामरूपस्य नाग्रजा।
अक्लिष्टाव्याकृताप्राप्तिः सातीताजातयोस्त्रिधा।। ३९।। ]

निवृतस्य च रूपस्य

इति। चशब्दः समुच्चयार्थः। प्राप्तिः सहजेति समुच्चीयते। तच्च क्लिष्ट रूपं प्रथमध्यानभूमिकमेव विज्ञप्तिरूपं वेदितव्यम्। ततोऽन्यासु भूमिषु तदुत्थापकाभावात्। अधिमात्रेणापीति विस्तरः। अधिमात्रेणापि चित्तेन निवृता विज्ञप्तिरूत्थापिता। तदेव चाधिमात्रं विज्ञप्तिचित्तमविज्ञप्तिं नोत्थापयति। अतो दौर्बल्यसिद्धिः। तस्या दौर्बल्यसिद्धेः सहजैव प्राप्तिः। प्रप्तिभेद इति। विपाकजादीनामनिवृताव्याकृतानां सहजा प्राप्तिः। अभिज्ञाद्वयदीनां त पूर्वपश्चात्सहजा प्राप्तिरिति तद्भेदः।

कामरूपस्य नाग्रजा

इति। कामावचरस्य कुशलाकुशलस्य विज्ञप्त्यविज्ञप्तिरूपस्याग्रजा प्राप्तिः सर्वथा नास्ति। यदि कुशलस्य यद्यकुशलस्य नास्त्येव सर्वर्थेत्यर्थः। सहजा चास्ति पश्चात्कालजा चेति संभवतः। तद्यथा प्रथमस्य विज्ञप्त्यविज्ञप्तिक्षणस्यादौ सहजा प्राप्तिर्भवति। द्वितीयादिषु क्षणेषु तस्यैवाद्यस्य क्षणस्य पश्चात् कालजा भवति। एवमन्येषामपि द्वितीयादीनां क्षणानां सहजा पश्चात्कालजा प्राप्तिर्वेदितव्या। कामावचरस्यैव रूपस्याग्रजा प्राप्तिप्रातषेधाद्वयानानास्रवसंवररूपस्याग्रजा प्राप्तिरस्त्येवेत्युत्सृष्टा भवति।

अप्राप्तिरनिवृताव्याकृतैव सर्वा। कस्माव्द्यवस्थाप्यते। यद्यप्राप्तिः क्लेशानां क्लिष्टा भवेत् प्रहीणक्लेशस्य क्लेशवदेव न स्यात्। यदि कुशला स्यात् समुच्छिन्नकुशलमूलस्य न स्यात्। अनास्रवाणां धर्माणामप्राप्तिरनास्रवा स्यात्। किं स्यात्। पृथग्जनो न स्यान्नित्यमार्यधर्मसमन्वागतत्वात्। पारिशेष्यादनिवृताव्याकृतैवाप्राप्तिरिति व्यवस्थाप्यते। प्रत्युत्पन्नस्य नास्त्यप्राप्तिः प्रत्युत्पन्नेति। प्रत्युत्पन्नस्य धर्मस्य प्राप्तिर्वर्तते। तस्मादस्याप्राप्तिर्नास्ति प्रत्युत्पन्ना। तस्य प्राप्त्यप्राप्त्योः समवधानासम्भवात्। अतीनातागतयोस्तु त्रैयध्विकीति। अप्राप्तानां प्राप्तविहीनानां च प्रायोगिकारणां गुणानामनागतानां च चक्षुरादीनामपि च येषां प्राप्तिर्नास्ति अतीताप्यस्त्यप्राप्तिरनागतापि प्रत्युत्पन्नापि। स्त्रोतोन्यायेन हि तेषामप्राप्तिरूत्पद्यते निरूध्यतेऽनागतावस्थानेति।। ३९।।

[ कामद्याप्तामलानाञ्च मार्गस्याप्राप्तिरिष्यते।
पृथग्जनत्वं तत्प्राप्तिभूसञ्चराद् विहीयते ।। ४०।। ]

कामाद्याप्तामलानां च

इत्यनुकर्पणार्तह्श्चकारः। कामादिषु धातुष्वाप्ता अवियुक्ताः कामद्याताः। कामाद्याप्तानाममलानां चाप्राप्तिस्त्रिविधा उपपत्त्याश्रयवशेन तव्द्यवस्थापनात्। धर्मसहाव्यवस्थापीनी ह्यप्राप्तिः स प्राप्तिवद्धर्मशेन व्यवस्थाप्यते। तस्मात्काम धातूपपन्नस्य कामरूपारूप्यावचाराणामनास्रवाणां च धर्माणामप्राप्तिः कामावचरी रूपधातूपपन्नस्य रूपावचरी आरूप्यधातूपपन्नस्यारूप्यावचरी। तद्यथा कामधातूपन्नस्य प्रायोगिकाणां गुणानामुपपत्तिलाभिकानामपि कूशलसमुच्छेदा वस्थायामप्राप्तिरवीतरागत्वाच्च रूपारूप्यावचराणामक्लिष्टानामप्राप्तिः पृथग्जनत्वाच्चानास्रवाणामप्राप्तिः कामवचरी। तथा रूपधातूपपन्नस्य कामावचराणां भूमिसंचारत्यक्तानां रूपारूप्यावचराणां च प्रायोगिकाणां गुणानां पृथग्जनत्वाच्चा नास्रवाणामप्राप्ती रूपावचरी। तथैव चारूप्यधातूपपन्नस्य कामरूपावचराणां भूमिसंचारत्यक्तानामारूप्यवचराणां च प्रायोगिकाणां गुणानां पृथग्जनत्वादेव चानास्रवाणामप्राप्तिरारूप्यावचरीति नेयम्।

पृथग्जनत्वं कतमत्। आर्यधर्माणामलाभ इत्यनेन शास्त्रपाठेनानास्रवत्वाभावमप्राप्तेर्दर्शयति। कतमेषामार्यधर्माणामलाभ इति। आर्यधर्मा दुःखे धर्मज्ञानक्षान्तिमारभ्य सर्वोऽनास्रवो मार्ग इति। अत एवं पृच्छति। सर्वेषामविशेषवचनादिति। सर्वेषां दुःखे धर्मज्ञानक्षान्त्यादीनां शैक्षाशैक्षज्ञानानामलाभः। कस्मात् अविशेषितत्वात्। यद्येवमुत्पन्नायामपि दुःखे धर्मज्ञानक्षान्तौ परिशिष्टानामार्यधर्माणामलाभोऽस्यास्तीत्यनार्यः स्यात्। तस्मादिदमाह स तु यो विना लाभेनेति। यो विना लाभेनालाभः तत्पृथग्जनत्वमिति। अन्यथा हीति विस्तरः। यद्यार्यधर्माणां लाभेऽपि सत्यन्येषामपि धर्माणामलाभः पृथग्जनत्वमिष्यते बुद्धोऽपि श्रावकप्रत्येकबुद्धसंतानिकैरार्यधर्मैरसमन्वागमादनार्यः स्यात्। केवलालाभग्रहणात्त्वप्रसङ्गः। एवशब्दस्तर्हि पठितव्य इति। आर्यधर्माणामलाभ एवेति एकपदान्यपि हावधारणानीति। केवलपदान्यपीत्यर्थः। अब्भक्षो वायुभक्ष इति। अब्भक्ष एव वायुभक्ष एवेति नोच्यते। एवशब्दस्य चार्था गम्यते। तद्वदिहापीति। अथ वा अप यो भक्षयति सोऽभक्षः यो वायुमेव भक्षयति स वायुभक्ष इति। यथात्र लुप्तनिर्दिष्टस्यैवकारस्यावधारणार्थो गम्यते तद्वदिहाप्यलाभ एवेति। दुःखे धर्मज्ञानक्षान्तितत्सहभुवामित्यपर इति विस्तरः। दुःखे धर्मज्ञानक्षान्तेस्तत्सहभुवां च वेदनादीनां धर्माणामलाभः पृथग्जनत्वम्। अस्मिन्पक्ष उत्पन्नायामपि दुःखे धर्मज्ञानक्षान्तौ परिशिष्टानामार्यधर्माणामलाभोऽस्तीत्यनार्यः स्यादिति यो दोष उक्तः स न संभवति। यदा तर्हि फ़लप्राप्तिस्तदा दुःखे धर्मज्ञानक्षान्तितत्सहभुवां विहानिरिति फ़लप्राप्तावनार्यः स्यादिति दोषपरिहारार्थमाह। न च तत्त्यागात् न च तेषां क्षान्तिसहभुवां त्यागात् अनार्यत्वप्रसङ्गः तदलाभस्यात्यन्तं हतत्वात् तस्यालाभस्यात्यन्तविहीनत्वात्। कथम् असावत्यन्तं हतस्तत्संताने पुनरनुत्पत्तेः। ते तर्हि त्रिगोत्रा इति। श्रावकप्रत्येकबुद्धबुद्धगोत्रा इति। कतमेषामलाभः सर्वेषामिति। श्रावकादिगोत्राणाम्। एवं तर्हि स एव दोष इति। बुद्धोऽपि त्रिगोत्रालाभादनार्यः स्यादित्यर्थः। पुनः स एव परिहार इति। स तु यो विना लाभेनेति पूर्ववत्प्रपञ्चो यावत्तद्यथा अब्भक्षो वायुभक्ष इति। यत्नस्तर्हि व्यर्थ इति। क्षान्तिपरिशिष्टार्यधर्मालाभसद्भावादनार्यः स्यादित्यस्य दोषस्य परिहाराय क्षान्तितत्सहभुवामलाभः पृथग्जनत्वमिति यो यत्नः स व्यर्थः स्यात्। पूर्वपक्षदोषपरिहार एवायमास्थीयते। अनुत्पन्नार्यधर्मा संततिरिति। अनुत्पन्ना आर्यधर्मा अस्यामित्यनुत्पन्नार्यधर्मा संततिः पृथग्जनत्वम्। अनुत्पन्नार्यमार्गा स्कन्धसंततिरित्यर्थः। अर्थादुत्पन्नार्यधर्मा संततिरार्यत्वमित्युक्तं भवत्याश्रयपरावृत्तेः।

अथेयमप्राप्तिरिति। सर्वधर्माप्राप्तिश्चोद्यते नार्यधर्माप्राप्तिरेव। यथा तावदिति। उदाहरणमेतत्। तस्य लाभात्तद्विहीयत इति। तस्यार्यमार्गस्य लाभात्तत्पृथग्जनत्वमलाभलक्षणं विहीयते। किधातुकं तत्पृथग्जनत्वम्। त्रिधातुकमित्येके। ननु चोपपत्त्याश्रयवशेनालाभो व्यवस्थाप्यते। पृथग्जनत्वं चालाभस्वभावम्। तस्मादस्य कामवचरस्य सत्त्वस्य कामावचरमेव पृथग्जनत्वमस्ति न रूपारूप्यावचरम्। अतस्त्रैधातुकं विहीयत इत्ययुज्यमानमेतत्पश्यामः। अथ पुनरनुत्पत्तिधर्मतां तदापन्नमिति कृत्वा त्रैधातुकं तद्विहीयत इत्युपच्चराकल्पना। भवत्वेषा। नैषा वार्यते। कामवचरस्यैव त्वेकस्य पृथग्जनत्वस्य प्राप्तिरस्ति। तल्लौकिकाग्रधर्मावस्थायां विहीयत इति वेदयामः। तच्च कामवैराग्ये नवमे विमुक्तिमार्गे प्रहीयते। रूपारूप्यधात्वोरूत्पद्यमानस्य त्वार्यस्य प्रतिभूम्यवस्थितानां पृथग्जनत्वानामार्यमार्गप्राप्तिसामर्थ्यान्नैव प्राप्तिरूत्पद्यते। प्रतिभूमि तु नवमे विमुक्तिमार्गे तेषां प्रहाणं भवतीत्यवगन्तव्यम्।

भूमिसंचाराच्चेति। यदा च कामधातोर्वैराग्यं कृत्वा प्रथमं ध्यानम् सञ्चरति तदा च तत्कामाबचरं पृथग्जनत्वं विहीयते। ना चार्यो भवति प्रथमध्यानभूमिकपृथग्जनत्वप्रादुर्भावात् । एवमारूप्यधातुसंचाराद्रूपावचरं पृथग्जनत्वं विहीयते। ऊर्ध्वभूमेश्चाधरां भूमि संचरते। ऊर्ध्वभूमिकं पृथग्जनत्वं विहीयत इति वक्तव्यम्। एवमन्येषामपि योज्यमिति। यथार्यमार्गस्य प्राप्त्या पृथग्जनत्वमप्राप्तिर्विहीयत इति योजितम् एवमन्येषामपि श्रुतचिन्तामयादिकानां धर्माणाम प्राप्तिर्विहीयत इति योज्यम्। कथम् कामावचराणां तावच्छुतचिन्तामयादिकानां धर्माणां प्राप्तिलाभादप्राप्तिर्विहीयते। उपपत्तिलाभिकानां च कुशलानां प्राप्त्या समुच्छिन्नकुशलस्याप्राप्तिर्विहीयते। भूमिसंचाराच्च। यदा चायं कामघातोश्च्युत्वा प्रथमं ध्यानमुपपत्त्या संचरति तदा च तद्भूमिकानां गतिसंगृहीतानां स्कन्धानामप्राप्तिविहीय्ते। अक्लिष्टाव्याकृता एव हि गतयो वक्ष्यन्ते।

अव्याकृताप्तः सहजा

इति चोक्तम्। एवं प्रथमध्यानभूमिकानां प्रायोगिकाणां गुणानां प्राप्तेरप्राप्तिर्विहीयते। भूमिसंचाराच्च। ऊर्ध्वभूमिकानां गतिसंगृहीतानां स्कन्धानां तद्भूमिसंचाराद्विहीयत इति। इदमेकेषां भूमिसंचारव्याख्यानोदाहरणम्। तत्राविविक्त पश्यामः। ऊर्ध्वभूमिकानां गतिसंगृहीतानां स्कन्धानामप्राप्तिर्न केवलं भूमिसंचाराद्विहीयते। किं तर्हि तत्प्रप्तितोऽपीति। इदं त्वसंकीर्णमुदाहरणं पश्यामः। तद्यथा द्वितीयादिध्यानभूमिकानां प्रायोगिकाणां गुणानां तदलाभिनः कामावचरस्य सत्त्वस्याप्राप्तिरस्ति। स यदि कामवैराग्यं कृत्वा प्रथमध्यान उपपद्यते सा तेषामप्राप्तिर्भूमिसंचाराद्विहीयते। प्रहमध्यानभूमिका तु तेषामप्राप्तिरूद्भवतीति। एवमन्येषामपि योज्यम्।

ननु चैवमनवस्थाप्रसङ्गः प्राप्तीनामिति। प्राप्तेरपि प्राप्तिः अस्या अप्यन्या तस्या अप्यन्या इत्यनवस्था। परस्परसमन्वागमादिति। प्राप्तिप्राप्तियोगात् प्राप्त्या समन्वागतः। प्राप्तियोगात् प्राप्तिप्राप्त्या समन्वागत  इत्यर्थः। प्राप्त्युपादादिति विस्तरः। प्राप्त्युत्पादात्तेन धर्मेण चित्तेन वा समन्वागतो भवति। प्राप्तिप्राप्त्या च समन्वागत इति वर्तते। प्राप्तिप्राप्त्युत्पत्तेः प्राप्त्येव समन्वागतो भवतीति। एवं प्राप्तिरूभयत्र व्याप्रियते। प्राप्तिप्राप्तिस्त्वेकत्रेति। अतो नानवस्था। कुशलस्य क्लिष्तस्य चेति। अनयोरग्रजपश्चात्कालजप्राप्तित्वाद्गहणम्। अव्याकृतस्य हि सहजैव प्राप्तिरिति। द्वितीये क्षण इति विस्तरः। द्वितीये क्षणे तस्य धर्म्स्य तत्प्राप्तेः प्राप्तिप्राप्तेष्च प्राप्तय इति तिस्रः प्राप्तयः। प्राप्तियोगाद्धि तैः समन्वागतो भवति। ताभिस्तिसॄभिः प्राप्तिभिः समन्वागमार्थं पुनस्तिस्रोऽनुप्राप्तय उद्भवन्तीति षड्भवन्ति प्राप्तयः। प्रथमद्वितीयक्षणोत्पन्नानां द्रव्याणामिति। धर्मेण सार्धं नवानां द्रव्याणां नव प्राप्तयः सार्धमनुप्राप्तिभिरष्टादश भवन्ति। एवमुत्तरोत्तरवृद्धिप्रसङ्गेनेति विस्तरः। उत्तरोत्तरस्य क्षणस्य वृद्धिः प्राप्तिभिः। उत्तरोत्तरे वा क्षणे वृद्धिः प्राप्तीनाम् तस्याः प्रसङ्ग उत्तरोत्तरवृद्धिप्रसङ्गः तेन उत्तरोत्तरवृद्धिप्रसङ्गेन। एताः प्राप्तयो विसर्पन्त्य इति। दिङ्मात्रं दर्शयिष्यामः। चतुर्थे क्षणे प्रथमक्षणात्पन्नैस्त्रिभिर्धर्मैः प्राप्त्यनुप्राप्तिमद्भिर्भवितव्यम्। द्वितीयक्षणोत्पन्नाभिरपि षड्भिः प्राप्त्यनुप्राप्तिभिः पुनः प्राप्त्यनुप्राप्तिमतीभिर्भवितव्यम्। एवं तृतीयक्षणोत्पन्नाभिरष्टादशाभिः प्राप्त्यनुप्राप्तिभिः पुनरपि प्राप्त्यनुप्राप्तिमतीभिर्भवितव्यमिति प्रथमद्वितीयतृतीयक्षणोत्पन्नानां सप्तविंशतिः प्राप्तयः सार्धमनुप्राप्तिभिस्तावतीभिरिति चतुः पञ्चाशत्प्राप्तयश्चतुर्थे क्षणे भवन्ति। पञ्चमे तु क्षणे प्रथमद्वितीयतृतीयक्षणोत्पन्नाः प्राप्त्यनुप्राप्तयः पुनश्चतुःपञ्चाशच्चतुर्थक्षणोत्पन्नप्राप्त्यनुप्राप्तयश्च द्विश्चतुःपञ्चाशद्भवन्ति। त्रीरिण चतुःपञ्चाशत्कानि द्वाषष्टयुत्तरशतं प्राप्तीनां जायते। एवमुत्तोरोत्तरवृद्धिप्रसङ्गो वक्तव्यः। अतीतानागतानामिति। अत्र प्रत्पुत्पन्नाग्रहणमनावश्यकत्वात्। उत्पत्तिलाभिकानां चेति। अत्र प्रायोगिकाग्रहणमनावश्यकत्वादेव। ससंप्रयोगसहभुवामिति। सवेदनादिसजात्यादीनाम्। अनाद्यन्तसंसारपर्यापन्नानाम्। अनादावनन्ते च संसारे संगृहीतानाम्। अनन्ता अप्रमेया एकस्य प्राणिनः। किमङ्ग बहनाम्। क्षणे क्षण उपजायते प्राप्तय इति। अनन्तद्रव्या एव। अनन्तप्राप्तिद्रव्या इत्यर्थः। अत्युत्सवो बतायं प्राप्तीनामिति। परिहासवचनमेतत्। केवलं न प्रतिघातिन्योऽरूपणीत्वात् यतोऽवकाशं लभन्ते प्राप्तयः।। ४०।।

[ सभागता सत्त्वसाम्यमासंज्ञिकसंज्ञिषु।
निरोधश्चित्तचैत्तानां विपाकस्ते बृहत्फ़लाः।। ४१।।

सभागता सत्त्वसाम्यम्

इति विस्तरः। समानो भागो भजनमेषामिति सभागाः तद्भावः सभागता। समानो भागो भजनं सभाग सभाग एव सभागता। यद्योगात्सभागो भवति तद्दव्यम्। सत्त्वानां साम्यं सामान्यं सादृश्यमित्यर्थः। सत्त्वग्रहणमसत्त्वनिरासार्थम्। सत्त्वानां सत्त्वसंख्यातानां च धर्माणां सादृश्यं सभागता। असत्त्वसंख्यातानां शालियवादीनां नेष्यते। निकायसभाग इत्यस्याः शास्त्रेसंज्ञेति। ज्ञानप्रस्थानादिके शास्त्रे निकायसभाग इत्यनया संज्ञायं चित्तविप्रयुक्तो निर्दिश्यते। इह तु श्र्लोकबन्धानुगुण्यात् सभागतेत्यनया संज्ञयेत्यभिप्रायः। सा पुनरभिन्ना भिन्ना चेति या सर्वसत्त्ववर्तिनो।  प्रतिसत्त्वमन्यान्याप्यभिन्नेत्युच्य्तते। सादृश्यात्। न हि सा यथा वैशेषिकाणामेका नित्या चेति। भिन्ना या क्वचिद्वर्तते क्वचिन्न वर्तते। तत आह  भिन्ना पुनरिति विस्तरः। धातवस्त्रयः कामादयः। गतयः पञ्च नरकादयः। योनयश्चतम्रोऽण्डजादयः। जातयो ब्रह्यणादयः। आदिशब्देन उपासिकाभिक्षुणीनैवशैक्षनाशैक्षादयः संगृह्यन्ते। स्कन्धायतनधातुत इति। रूपस्कन्धसभागता यावद्धर्मधातुसभागता। अविशिष्टमिति। सामान्यरूपम्। प्रज्ञप्तिश्चेति। अभिधानं चेत्यर्थः। एवं स्कन्धादिबुद्धिप्रज्ञप्तयोऽपि योज्या इति। स्कन्धसभागताद्रव्यमविशिष्ट न स्यादन्योन्यविशेषभिन्नेषु स्कन्धेषु स्कन्धः इत्यभेदेन बुद्धिर्न स्यात् प्रज्ञप्तिश्चेति। एवं धात्वादिबुद्धिप्रज्ञप्तयोऽपि योज्या इत्येके पठन्ति। तेषामेवं वक्तव्यम्। यदि सभागतेति विस्तरेण यावदन्योन्यविशेषभिन्नेषु धातुषु कामावचरः कावचर इत्यभेदेन बुद्धिर्न स्यात्प्रज्ञप्तिश्चेति।

चतुःकोटिक इति। स्याचच्यवेतोपपद्येत न च सत्त्वसभागतां विजह्यान्न च प्रतिलभेतेति। सत्त्वसभागताति। सत्त्वानां सभागता सत्त्वसभागता मनुष्यत्वादिलक्षणा। सत्त्वग्रहणं हि धर्मविशेषणार्थम्। सत्त्वसभागता ह्यत्र चतुःकोटिके विवक्षिता न धर्मसभागतेति न तु सत्त्वस्सत्त्व इत्याकारसभागतेहाभिप्रेता। यदि हि साभिप्रेता स्यात् तृतीया कोटिर्न सिध्येत गतिसंचारेऽपि तस्याः सत्त्वसभागतायास्तादवस्थ्यात्। तत्रैवोपपद्यमान इति। तद्यथा मनुष्यगतेश्च्युत्वा मनुष्यगतावेवोपद्यमानो मनुष्यगतेश्च्यवते मरणादुपपद्यते च तस्यामेव प्रतिसन्धिबन्धात्। न चसौ मनुष्यसभागतां विजहाति न च प्रतिलभते। तस्या मनुष्यसभागतायास्तादवस्थ्यात्। द्वितीया नियममावक्रामन्निति। स सत्त्वसभागतां पृथग्जनत्वस्वभावां सभागतां विजहाति आर्यत्वस्वभावां सभागतामपरां प्रतिलभते। तृतीया गतिसंचारादिति। तद्यथा मनुष्यगतेश्च्युत्वा देवगतावुपपद्यमानः च्यवते तथैव मरणादुपपद्यते च प्रतिसन्धिबन्धात्। सत्त्वसभागतां मनुष्यसभागतालक्षणां विजजाति प्रतिलभते च देवसभागतालक्षणामपरामिति। चतुर्थ्येतानाकारान् स्थापयित्वेति। पूर्वोक्तकोटिस्वभावप्रकारान् वर्जयित्वेत्यर्थः। तद्यथा जीवन् पृजग्जन आर्यो वा किचिदलभमानः।

यदि पृथग्जनसभागता नाम द्रव्यमस्ति किं पुनः पृथग्जनत्वेनार्य धर्मालभस्वभावेन कल्पितेन प्रयोजनमिति वाक्यशेषः। पृथग्जनसभागतयैव पृथग्जन इति परिच्छेद्यत यथा मनुष्यसभागतयैव मनुष्य इति। न हि मनुष्यसभागताया अन्यन्मनुष्यत्वं कल्प्यते वैभाषिकैरलाभवदन्यस्वभावम्। तत्र च साधनम् न स्वसभागताया अन्यत्पृथग्जनत्वं स्वसभागताप्रत्ययाभिधेयत्वात् मनुष्यत्ववत्। नैव च लोकः सभागतां पश्यत्यरूपिणीत्वादिति। न लोकश्चक्षुषा सभागतां पश्यत्यरूपिणीत्वादरूपवतीत्वादरूपस्वभावत्वाद्वा। यथा न पश्यति एवं न शृणोति यावन्न स्पृशतीति। अनेन प्रत्यक्षासिद्धतां दर्शयति। न चैनां प्रज्ञया परिच्छिनत्तीति। अनेनानुमानेनापि न सिध्यतीति दर्शयति। प्रतिपद्यते च सत्त्वानां जात्यभेदमिति। सत्या अपि तस्याः कथं तत्र व्यापार इति। जात्यभेदप्रतिपत्तौ जात्यभेदप्रतिपत्तिरस्ति। सा तु न सभागतया द्रव्यान्तरकल्पितया कृता प्रमाणेनानुपलभ्यमानत्वेन तस्या व्यापारासंभवात्। ब्रूयास्त्वम् न निर्निमित्ता सामान्यबुद्धिर्भवितुमर्हति। तेन यन्निमित्तं तस्याः सामान्यबुद्धेः तत् सभागता नाम द्रव्यमिति। वयमपि तां सामान्यबुद्धिं सनिमित्तां व्रूमः। सादृश्यकृता हि सा बुद्धिः। तच्च सादृश्यं न द्रव्यान्तरमिति ब्रूमः। तेनोच्यते। अपि चासत्त्वसभागतापि किं नेष्यत इति विस्तरः। न द्रव्यान्तरसभागतानिमित्ता सत्त्वः सत्त्व इति सामान्यबुद्धिः सामान्याकारप्रवृत्तत्वात्। शालियवमुद्गमाषादिसामान्यबुद्धिवत्। शालियवस्वजातिसादृश्यऋता ह्येषा सामान्यबुद्धिः। न च तेषां स्वजातिसादृश्यं स्वतोऽर्थान्तर भवति। तसाञ्च सभागतानामिति विस्तरः। अन्या सत्त्वसभागता अन्या धातुसभागता अन्यागतिसभागतेत्यन्योऽन्यभिन्नाः सभागता इष्यन्ते। तासां सभागतेति प्रज्ञप्तिरियं सभागतेयं सभागतेत्यभेदेन कथं भवद्भिः क्रियते व्यवहारः प्रत्ययश्च कथं जायते। यद्यत्रापि सभागतान्तरं प्रतिज्ञायेत येन सभागतासामान्यबुद्धिर्भवेत्। भवेत् सोऽयमपक्षः प्राक्पक्षविरोधात्। वैशेषिकाश्चैवं द्योतिता इति। ज्वलिताः समर्थिता इत्यभिप्रायः। तेऽपि हि सामान्यपदार्थवादिनो भवन्तोपीति। अयं तु तेषां वैशेषिकाणां विशेषः। एकोऽप्यनेकस्मिन् वतते स्रकसूत्रवत् भूतकण्ठे गुणवच्चेति यदि द्योतिताः सामान्यपदार्थवादित्वात् यदि न द्योतिता एकानेकनित्यानित्यत्वादिविशेषवादित्वात्। नहि परलोकास्तित्वादीनि वैशेषिकैः कल्पितानीति न व्यवस्थाप्यन्ते। स चेदित्थत्वमागच्छतीति। प्राणातिपातेनासेवितेन भावितेन बहुलीकृतेन नरकेषूपपद्यते स चेदित्थंत्वमागच्छति मनुष्याणां सभागतां प्राप्नोति प्राणातिपातेनाल्पायुर्भवतीति विस्तरः। इदं प्रकार इत्थम् तद्भावः इत्थंत्वमिति। शरीरेन्द्रियसंस्थानचेष्टाहारादिसाभाग्यकारणम् अन्योन्याभिरभिसम्बन्धनिमित्तं च सभागतेत्याचार्यसङ्घभद्रः। तदेतदेतेनैव प्रयुक्तम्। वयमपि ह्येवमिच्छामः। न तु सा सभागता द्रव्यान्तरम्। त एव हि संस्कारास्तथाकारणभावं प्रतोपद्यन्त इति।

आसंज्ञिकमसंज्ञिषु

निरोधश्चित्तचत्तानाम्

इति विस्तरः। असंज्ञिनामिदमासंज्ञिकम् असंज्ञिषु वा भवमासंज्ञिकम्। निरूध्यन्तेऽनेन चित्तचैत्ताः चित्तचैत्तान् वा निरूणद्धीति निरोधः। येनानागतेऽध्वन्यवस्थिताश्चित्तचैत्ताः कालान्तरं तावत्कालं स्ननिरूद्ध्यन्ते नोत्पत्तुं लभन्त इत्यर्थः। तदासंज्ञिकं नाम द्रव्यम्। नदोतोयसन्निरोधवत् सेतुनदित्यर्थः। ध्यानान्तरिकावदिति। यथा ब्रह्यपुरोहिता नाम ते देवा येषां केचिन्महाब्रह्याणः प्रदेशे भवन्ति ध्यानान्तरिकायाम् तथा बृहत्फ़ला नाम ते देवा येषामसंज्ञिसत्त्वाः प्रदेशे भवन्ति। न भूम्यन्तरे भवन्ति। उपपत्तिकाले च्युतिकाले च संज्ञिन इति सम्बन्धनीयम्। क्लिष्टेन मनसा प्रतिसन्धिबन्धात्।

उपेक्षायां च्युतोद्भवौ

इति च नियमात्। पूर्वसमापत्तिसंस्कारपरिक्षयादिति पूर्वसमापत्तिसंस्कारलक्षणस्य विपाकहेतोः परिक्षयात् ततः समाप्तफ़लत्वादित्यर्थः। पूर्वसमापत्तिसंस्कारावेधपरिक्षयदित्यपरे व्याचक्षते। अपूर्वानुपचयाच्चेति। चित्ताभावात् कर्मानुपचयादित्यभिप्रायः। क्षिप्ता इव क्षीणवेगा इषवः पृथिवीमिति उपपद्यन्त इति प्रकृतम्। पूर्वमयं पदिर्जन्यर्थः इदानीमर्थवशाद्गत्यर्थः। सम्पद्यन्ते गच्छन्तीत्यर्थः। पृथीवीं गच्छतीति वाक्यशेष इत्यपरे।। ४१।।

[ तथासंज्ञिसमापत्तिर्ध्यानेऽन्त्ये निःसृतीच्छया।
शुभोपपद्यवेद्यैव नार्यस्यैकाध्विकाप्तये।। ४२।। ]

असंज्ञिनां सत्त्वानां समापत्तिरसंज्ञा वा समापत्तिरित्यसंज्ञिसमापत्तिः। अव्याकृतभेव ह्यासंज्ञिकम्। कुशलैव चेयं समापत्तिरिति वक्ष्यते।

पञ्चस्कन्धको विपाक इति च्युत्युपपत्तिकाले चित्तचैत्तानां विपाकत्सद्भावात्। तत एव तल्लाभीति। यत एव परिहीणोऽपि पुनरूत्पाद्यासंज्ञिसत्वेषूपपद्यते तत एव तल्लभी नियामं नावक्रामति। नियामावक्रान्त्यैव ह्यार्योऽपायगत्यासंज्ञिकमहाब्रह्यकौरवोपपत्त्यष्टमभवादीनामप्रतिसंख्यानिरोधं प्रतिलभते। विनिपातस्थानमिवैनां पश्यन्तीति। अपायस्थानमिवैनां पश्यन्तीत्यर्थः। गिरितटादिविनिपातस्थानमिवेत्यपरे। निःसरणसंज्ञिनो हि तां समापद्यन्ते। पृथग्जना मोक्षसंज्ञिन इत्यर्थः। न चैवमार्या विपरीतसंज्ञिनः प्रतिलभन्ते। ध्यानवदिति। चतुर्थध्यानलाभादतीतानागतमनादिमति संसारे लब्धपूर्वं चतुर्थ्ध्यानं प्रतिलभन्ते योगिनः। तस्मात् किं तद्वेदवातीतानागतां तां प्रतिलभन्त इति पृच्छति। अन्येऽपि तावन्न प्रतिलभन्त इति। पृथग्जना अपि तावन्नातीतानागतां प्रतिलभन्ते येषां तावदियमात्मीया समापत्तिः। किं पुनरार्या येषामियमनात्मीयेति। उचितापि सतीति। अनादिमति संसारे लब्धपूर्वापि महाभिसंस्कारसाध्यत्वान्महायत्नाभिनिष्पाद्यत्वादित्यर्थः ऽ चित्तकत्वाच्च।

एकाध्विकाप्यते

समानाध्विका लभ्यत इत्यर्थः। यथा प्रातिमोक्षसंवर इति। प्रातिमोक्षसंवरोऽष्टविधोऽपि यदा समादीयते तदा स प्राप्यते। प्राप्तिश्च तस्य तस्मिनेव क्षण उत्पद्यते लब्धया तु तया समापत्त्या द्वितीयादिषु क्षेणेषु प्रातिमोक्षसंवरवदेव समन्वागतो भवति यावन्न त्यजति तां समाप्त्तिम्। तत्त्यागस्तु परिहाण्या भूमिसञ्चराद्वा। अचैत्तिकत्वान्नानागता भाव्यते। कुशलं हि चित्तमनागतं भाव्यते। न त्वियमचित्तकेति न तद्वदनागता भाव्यते।। ४२।।

निरोधाख्या तथैवेय विहारार्थं भवग्रजा।
शुभा द्विवेद्याऽनियता चार्यस्याप्या प्रयोगतः।। ४३।।

निरोधाख्या तथैव

इति समापत्तिरिति वर्त्तते। एवशब्दोऽवधारणे। यथाऽसंज्ञिसमापत्तिनिर्देशे तथाशब्देन निरोधश्चित्तचैत्तानामित्यतिदिश्यते तथैवेहापि निरोधसमापत्तिनिर्देशे स एवंप्रकारोऽतिदिश्यत इति। शान्तविहारसंज्ञा पूर्वकेण मनसिकारेणेति। विहारः क्रीडा विहार इव विहारः समाधिविशेषः। शान्तो विहारः शान्तविहारः शान्तविहारे संज्ञा शान्तविहारसंज्ञा सा पूर्वा अस्येति शान्तविहारसंज्ञापूर्वकः। मनसिकारो मनस्कार इति योऽर्थः अलुकसमासात् स मनसिकार इति भवति। संज्ञावेदितसमुदाचारपरिश्रान्ता हि तत्र शान्तविहारसंज्ञिनस्तथाविधेन मनसिकारेणैनां निरोधसमापत्ति समापद्यन्ते तां  त्वसंज्ञिसमापत्ति निःसरणसंज्ञापूर्वकेण मोक्षसंज्ञापूर्वकेणेत्यर्थः। अपरपर्यायवेदनीया चेति। अपरः पर्यायस्तृतीयादिजन्म तत्र वेदनीया। कथम्। य आर्यः कामधातौ निरोधसमापत्तिमुत्पाद्य भवाग्र उत्पद्येत तस्य सा परिपूरिकोपपद्यवेदनीया। यस्तु ततः परिहीणो रूपधातावुपपद्य कालान्तरेण च पुनरपि भवाग्र लब्धा निरोधसमापत्तिमुत्पाद्यानुत्पाद्य वा भवाग्र उपपद्यते तस्य साऽरपर्यायवेदनीया भवति। यस्त्विह परिनिर्वायात्तस्यानियतेति।

उच्छेदभीरूत्वादिति। सर्वात्मभावोच्छेदभीरूत्वात्

व्यथन्ते ह्यपुनर्भवात् प्रपातादिव वालिशः।

असंज्ञिसमापत्तौ कस्मादुच्छेदभयं न भवति तत्र रूपसद्भावात्। रूपे ह्यात्मसंज्ञामभिनिवेश्य तां समापयन्ते। निरोध्समापत्तौ त्वारूप्यभूमिकत्वाद्रूपमपि नास्तीति सर्वात्मभावाभावं पश्यन्तो ना तां समापत्तुमुत्सहन्ते। ननु चारूप्येषु निकायसभागजीवितेन्द्रियादयश्चित्तविप्रयुक्ताः सन्ति कस्मात्तत्रात्मसंज्ञामभिनिवेश्य तां न समापद्यन्ते। विप्रयुक्तानामदृश्यत्वात् आर्यमार्गबलेन चोत्पादनात्। कथं पुनर्गम्यत आर्यमार्गबलेन तदुत्पादनमित्यत आह दृष्टधर्मनिर्वाणस्य तदधिमुक्तित इति। दृष्टे जन्मनि निर्वाणं दृष्टधर्मनिर्वाणम् तस्य। तदधिमुक्तितः तदित्यधिमुक्तिस्तदधिमुक्तिः तेन वाधिमुक्तिस्तदधिमुक्तिः तदधिमक्तेस्तदधिमुक्तितः। दृष्टे जन्मन्येतन्निर्वाणमित्यार्यस्तामधिमुच्यते। केचित् पुनरेवं पठन्ति दृष्टनिर्वाणस्य तदधिमुक्तित इति। एवं च व्याचक्षते दृष्टं निर्वाणमनेनेति दृष्टनिर्वाणस्तस्यार्यस्य तस्यामधिमुक्तिस्तदधिमुक्तिः तदधिमुक्तेस्तदधिमुक्तितः। एतदुक्त भवति दृष्टनिर्वाण आर्यस्तामधिमुच्यते नान्य इति। ननु च पृथग्जनोऽपि लौकिकेन मार्गेण दृष्टनिर्वाणः। न पृथग्जनो दृष्टनिर्वाणः प्राप्तनिर्वाणस्तु भवेत् तदुत्तरां हि भूमिं पृथग्जनः शान्ततः पश्यन् वैराग्यं लभते न निर्वाणमित्यचोद्यमेतत्। प्रयोगलभ्यैवेयमिति इयमपि समापत्तिरसंज्ञिसमापत्तिवदेव महाभिसंस्कारसाध्येति। तथैव

एकाध्विकाप्यते।

कथमित्याह न चातीता लभ्यत इति। यदा परिहीणः पुनस्तामुत्पादयति तदा प्रयोगेणापूर्वैव लभ्यते। प्रातिमोक्षसंवरवदिति विस्तरेण व्याख्येया। चित्तबलेन तद्भावनादिति। चित्तबलेनानागतभावनादित्यर्थः।। ४३।।

बोधिलभ्या मुनेर्न प्राक् चतुस्त्रिशत्क्षणाप्तितः।
कामरूपाश्रये तूभे निरोधाख्यादितो नृषु।। ४४।।

बोधिलभ्या मुनेः

प्रयोगलभ्यैवेयमित्युत्सर्गस्यायमपवादः श्रावकप्रत्येकबुद्धानां स विधिरिति कृत्वा क्षयानुत्पादज्ञाने बोधिरिति बक्ष्यति। तेनाह क्षयज्ञानसमकालमिति विस्तरः। सास्रवाश्च क्षयज्ञान इति बुद्धा भगवन्त एतां प्रतिलभन्ते। नास्ति बुद्धानां किञ्चित् प्रायोगिकं नामेति यथोक्त स्तोत्रकारेण

न ते प्रायोगिकं किचित् कुशलं कुशलान्तग।
इच्छामात्रावबद्धा ते यत्र कामावसायिता।।

इति। कथं पुनर्भगवानुभयतो भागविमुक्त इति क्लेशावरणं समापत्त्यावरणं चोभयतो भागः ततो विमुक्तः। सिध्यत्युत्पादितायामिवेति। सिध्यत्युभयतो भागविमुक्तो भगवान् सम्मुखीकृतपूर्वायामिव। तस्यां वशित्वलाभात्। तत्सम्मुखीकारणसामर्थ्ययोगातः। प्रागेव तमिति विस्तरः। धर्मतैषा यद्वोधिसत्त्वश्चरमभविको भवाग्रलाभी भूत्वा चतुर्थध्यानसन्निश्रयेण दर्शनमार्गमुत्पाद्य ततश्च व्युत्थाय भवाग्र समापद्यते ततो निरोधसमापत्तिं समापद्यते। ततो व्युत्थाय पुनश्चतुर्थध्यानसंनिश्रयेण भावाग्रिकभावनाप्रहातव्यक्लेशप्रहाणं कृत्वा क्षयज्ञानकालात् प्रभृत्यनुत्तरसम्यक्संबुद्धो भवतीत्येवं शैक्षावस्थायां स तामुत्पादयीति पाश्चात्त्याः। कश्मीरमण्डलात् पश्चाद्भवाः पाश्चात्त्याः। नेत्रीपदमिति शास्त्रनाम स्थविरोपगुप्तस्य। यत्रेदं वाक्यम् निरोधसमापत्तिमुत्पाद्य क्षयज्ञानमुत्पादयतीति वक्तव्यं तथागत इति। सत्याभिसमये षोडशभिरिति। दुःखे धर्मज्ञानक्षान्तिमारभ्य यावन्मार्गऽन्वयज्ञानमिति षोडशभिश्चित्तक्षणैः। भवाग्रवैराग्ये चाष्टादशभिरिति। नवप्रकाराणां क्लेशानां भावाग्रिकाणां भावनाहेयानां प्रहाणाय नवानन्तर्यमार्गा नव  च विमुक्तिमार्गा इत्यष्टादशभिः। त ए ते चतुस्त्रिंशद्भवन्ति षोडश चाष्टादश चेति। अधोभूमिका न पुनः प्रेहया भवन्तीति। कामावचरादीनां क्लेशानां लौकिकेन मार्गेण पृथग्जनत्वावस्थायामेव प्रहीणत्वात् यद्येष नियमः प्रहीणक्तेशप्रतिपक्षोत्पादनं न कर्तव्यमिति। अथ किमर्थं प्रहीणेषु कामावचरेषु क्लेशेषु तत्प्रतिपक्षं धर्मज्ञानपक्षं मार्गमभिसमयकाल उत्पादयति। तन्नान्तरीयकत्वादन्वयज्ञानपक्षस्य मार्गस्य न ह्यसत्यां धर्मज्ञानपक्षोत्पत्तावन्वयज्ञानपक्षसम्मुखीभावः सम्भवति एतद्धयन्वयज्ञानस्यान्वयज्ञानव्तं यदतः पश्चाद् भवतीति। पाश्चात्त्या आहुः किं पुनः स्यादिति विस्तरः। को दोषः स्याद् यदि विसभागं सास्रवं चित्तमन्तरा सम्मुखीकुर्यात्। वैबहषिका आहुः। व्युत्थानाशयः स्यादिति विस्तरः। व्युत्थानाभिप्रायो बोधिसत्त्वः स्यात्। व्युत्थानकुशलः स्यादित्यपरे। कुशलमूलार्थो ह्याशयार्थः। तदेतदुक्त भवति ईदृशानि कुशलमूलानि बोधिसत्त्वानां यैः सम्मुखीभूतैस्तावन्न व्युत्तिष्ठन्ते यावदेकासन एवानुत्तरा सस्यक्सम्बोधिः प्राप्तेति। बहिर्देश का आहुः। सत्यमव्युत्थानाशयो न तु यथा भवन्तो वर्णयन्तीति। पूर्वमेव तु वर्णयन्ति। क्षयज्ञानसमकालमिति यः पक्षः।

यद्यप्यनयोर्बहुप्रकारो विशेष इति एका

ध्यानेऽन्त्ये

अपरा

भवाग्रजा

एकां निःसरणसंज्ञया समापद्यते अपरां विहारकामतयेत्येवमादि बहुप्रकारो विशेषः। साम्यं त्वनयोः

कामरूपाश्रये तूभे

इति। स्याद्रूपभव इति विस्तरः। यः क्वचिद्रूपभवः सर्वोऽसौ भवः। पञ्चव्यवचार इति चतुःकोटिकः। स्याद्रूपभवो न चासौ भवः पञ्चव्यवचारः। रूपावचराणां संज्ञिनां देवानां विसभागे चित्ते स्थितानामसंज्ञिसमापत्तिं निरोधसमापत्ति च समापन्नानामसंज्ञिनाम् च देवानामासंज्ञिके प्रतिलब्धे यो भवः। स्याद् भवः पञ्च व्यवचारो न चासौ रूपभवः। कामवचराणां सत्त्वानां सभागे चित्ते स्थितानां यो भवः। स्याद्रूपभवः स च भवः पञ्चव्यवचारः। रूपावचराणां संज्ञिनां देवानां सभागे चित्त स्थितानां [ असंज्ञिनां ] च देवानामासंज्ञिकेऽप्रतिलब्धे यो भवः। स्यान्नैव रूपभवो न चासौ भवः पञ्चव्यवचारः। कामवचराणां सत्वानां विसभागे चित्ते स्थितानामसंज्ञिसमाप्त्तिं निरोधसमापत्तिं च समापन्नानां यो भवः। आरूप्यभवश्व। तत्र प्रथमा कोटिरूदाहरणम्। रूपभवो रूपावचरं स्कन्धपञ्चकम्। पञ्चव्यवचारः पञ्चस्कन्ध इत्यर्तः। व्यवचार इति काश्य्पस्य तथागतस्य स्कन्धसंज्ञा। विशेषेणावचारो व्यवचारः। अन्यथीभावेन विसंवादनमित्यर्थः सोऽस्यास्तीति व्यवचारः। अर्श आदिभ्योऽजित्यकारो मत्वर्थीयः। विसंवादनीत्यर्थः।

फ़ेनपिण्डोपमं रूपं वेदना बुद्धदोपमा

इत्यादिना विसंवादनात्। तत्र यदि रूपधातवसंज्ञिसमापत्तिर्नेष्यते असंज्ञिसमापत्ति निरोधसमापत्तिं समापन्नानामिति नोच्येत। तेन रूपावचर्यसंज्ञिसमापत्तिरिति गम्यते। तत्रापि त्वयं विशेष इति। तत्र साधर्म्येऽपि विशेषोभवति। पश्चाद्रूपधाताविति। य आर्या निरोधसमापत्तिमुत्पाद्य ततः परिहीणा ध्यानं च लब्ध्वा रूपधातावुपपद्यन्ते तैः परिहीणपूर्वैः पूर्वाभ्यासवशादूपधातौ निरोधसमापत्तिरूत्पाद्येत असंज्ञिसमापत्तिस्तु कामरूपधातौ प्रथमतोऽपि पृथग्जनैरूत्पाद्यत इत्ययं विशेषः।

किमप्यस्ति परिहाणिरिति। निर्वाणसदृशीयं समापत्तिः कथमतः परिहाणिरित्यसम्भावयन् पृच्छति। उदायिसूत्रमिति। आर्यशारिपुत्रभाषितमेतत् सूत्रम्। उदायी तु तत्र विबन्धक इत्युदायिसूत्रमित्युच्यते। कथमिति श्रावस्त्यां निदानम्। तत्रायुष्मान् शारिपुत्रो भिक्षूनामन्त्रयते स्म इहायुष्मन्तो भिक्षुः शीलसम्पन्नश्च भवति समाधिसम्पन्नश्च प्रज्ञासम्पन्नश्च। सोऽभीक्ष्णं संज्ञावेदितनिरोधं समापद्यते च व्युत्तिष्ठते च। अस्ति चैतत् स्थानमिति यथाभूतं प्रजानाति। स न हैव दृष्ट एव धर्मे प्रतिपद्येवाज्ञामारागयति। नापि मरणकालसमये। भेदाच्च कायस्यातिक्रम्य देवान् कवडीकारभक्षानन्यतमस्मिन् दिव्ये मनोमये काय उपपद्यते स तत्रोपपन्नोऽभीक्ष्णं संज्ञावेदितनिरोधं समापद्यते च व्युत्तिष्ठते च। अस्ति चैतत् स्थानमिति यथाभूतं प्रजानाति। तेन खलु पुन समयेनायुष्मानुदायी तस्यामेव पर्षदि सन्निषण्णोऽभूत् सन्निपतितः। अथायुष्मानुदाय्यायुष्मन्तं शारिपुत्रमिदमवोचत्। अस्थानमेतदायुष्मञ् छारिपुत्रानवकाशो यद्भिक्षुरन्यतमस्मिन् दिव्ये मनोमये काय उपपन्नोऽभीक्ष्णं संज्ञावेदितनिरोधं समापद्यते च व्युत्तिष्ठते च अस्ति चैतत् स्थानमिति यथाभूतं प्रजानाति। द्विरपि त्रिरप्यायुष्मानुदाय्यायुष्मन्तं शारिपुत्रमिदमवोचत् अस्थानमेतदयुष्मन्निति पूर्ववत्। अथायुष्मतः शारिपुत्रस्यैतदभवद् यावत्रिरपि मेऽयं भिक्षुर्भाषितं प्रतिवहति प्रतिक्रोशति न च मे कश्चित् सब्रह्यचारी भाषितमभ्यनुमोदते यं न्वहं येन भगवांस्तेनोपसंक्रामेयम्। अथायुष्माञ् छारिपुत्रो येन भगवंस्तेनोत्पसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः। एकान्ते निषण्णश्चायुष्माञ्छारिपुत्रो भिक्षूनामन्त्रयते स्म। इहायुष्मन्तो भिक्षुः शीलमम्पन्नश्च भवति पूर्ववत्। तेन ख्लु समयेनायुष्मानुदायी पूर्ववत्। एवं द्विरपि त्रिरप्यायुष्मानुदाय्यायुष्मन्तं शारिपुत्रमिदमवोचत् पूर्ववत्। अथायुष्मतः शारिपुत्रस्यैतदभवत्। शास्तुरपि मे पुरस्तादयं भिक्षुर्यावत्रिरपि भाषितं प्रतिवहति प्रतिक्रोशति। न च मे क्श्चित् सब्रह्यचारी बहषितमभ्यनुमोदते यं न्वहं तुष्णीं स्याम्। अथायुष्माञ् छारिपुत्रस्तुष्णीमभूत्। तत्र भगवानायुष्मन्तमुदायिनामामन्त्रयते स्म कं पुनस्त्वमुदायिन्नन्यतमं दिव्यं मनोमयं कायं संजानीषे। ननु यावदेवारूपिणं संज्ञायमेवं भदन्त त्वं तावन्मोहपुरूषान्ध एव सन्नचक्षुश्चक्षुष्मता शारिपुत्रेण भिक्षुना सार्धमभिधर्मेऽभिविनये संलपितव्यं मन्यस इति। तत्र भगवानायुष्मन्तमुदायिनं सम्मुखमवासाद्यायुष्मन्तमानन्दमामन्त्रयते स्म त्वमप्यानन्द स्थविरं भिक्षुं विहेठयमानमध्युपेक्षसे कारूण्यमपि ते मोहपुरूष नोत्पन्न स्थविरे भिक्षौ विहेठ्यमान इति। तत्र भगवानायुष्मन्तमुदायिनमायुष्मन्तं चानद्नं सम्मुखमवसाद्य भिक्षूनामन्त्रयते स्म इह भिक्षवा भिक्षुः शीलसम्पन्नश्च भवति समाधिसम्पन्नश्च विस्तरेण यावदस्ति चैतत् स्थानमिति। यथाभूतं प्रजानातीत्युक्ता भगवानुत्थायासनाद् विहारं प्राविक्षत् प्रतिसंलयनायेति। अत्रायुष्मानुदाय्यरूप्यावचरोऽयं मनोमयः काय उक्त इति मनसि कृत्वा प्रतिबन्धमकार्षीत्। तत्र हि रूपं नास्ति मन एव तु ससंप्रयोगमस्ति तस्मान्मनोमयः कायः। तत्र चेयं समापर्त्तिन समापद्यत इति तस्याभिप्रायः। आर्यशरिपुत्रस्य तु रूपावचरो दिव्यो मनोमयः कायोऽभिप्रेतः शुक्रशोणितमनुपाय्य प्रादुर्भावात्। अत एव चासावायुषानुदायी भगवता पृष्टः कं पुनस्त्वमुदायिन्नन्यतमं दिव्यं मनोमयं कायं संजानीषे। ननु यावदेवारूपिणं संज्ञामयमिति । तेनाप्येवं भदन्तेति प्रतिपन्नम्। भगवानपि रूपावचरमेव दिव्यं मनोमयं कायभिप्रेत्यार्यशारिपुत्रस्य मतं समर्थयन् तमायुष्मन्तमुदायिनमवासदायति स्म। त्वं तावन्मोहपुरूषान्ध एव सन्नचक्षुश्चक्षुष्मता शारिपुत्रेण स्थानमिति। यदेतन्निरोधसमापत्तेः समापदनं व्युत्थानं चेत्येतत् स्थानं यथाभूत् प्राजानाति। प्रतिपद्येवेति। पूर्वमेवेत्यर्थः। आज्ञामारागयतीत्यर्हत्त्वं प्राप्नोतीत्यर्थः। इयञ्च समापत्तिर्भावाग्रिकीति विस्तरः। निरोधसमापत्तिर्भावाग्रिकी। यश्च तल्लाभी तस्य भवाग्र एवोपपत्तिः स्यान्नरूपधातौ। उक्त च सत्रे स तत्र रूपधातावुपपन्नोऽभीक्ष्णं संज्ञावेदितनिरोधं समापद्यते च व्युत्तिष्ठते चेति। तस्मादस्त्यतः परिहाणिरिति गम्यते। युज्यत एवैतद् वैभाषिकाणाम्। सौत्रान्तिकानान्तु कथमेतत्। आर्य एव हि निरोधसमापत्तिलाभी न चार्यमार्गादस्ति परिहाणिरिति सौत्रान्तिकसिद्धान्तः। तस्यार्यस्य कथमुपरिभूमिकादार्यमार्गात् परिहाणिरितीष्यते। तेषामप्येतत् सूत्रं न विरूध्यते। कथम् यो हि कश्चित् भवाग्रलाभी नियाममवकामति सोऽनागामी सन्निरोधसमापत्तिमुत्पादयेत् स भवाग्रान्निर्ह्द्समापत्तेश्च परिहीयेत न तु मार्गात् ऊर्ध्वभूमिकस्यार्यमार्गस्य कदाचिदनुत्पादितत्वात्। स परिहीणो भूट्वा ध्यानमुत्पाद्य रूपधातावुपपद्येत। तस्मादस्त्यतः परिहार्णिर्न चार्यमार्गात् परिहाणिरिति न स्वसिद्धान्तविरोधः। नवानुपूर्वसमापत्तय इति। चत्वारि ध्यानानि चत्वार आरूप्या निरोधसमापत्तिश्च। प्राथमकल्पिकं प्रतीति। आदितः समापत्तिविधायकं प्रतीत्यर्थः।

नियतोभयथावेदनीयत्वादिति। नियतवेदनीयासंज्ञिसमापत्तिरूपपद्यवेदनीयत्वात्। उभयथा वेदनीया निरोधसमापत्तिर्नियता नियतवेदनीयेत्यर्थः। नियतवेदनीया अनागामिनः अनियतवेदनीया अर्हत इहैव परिनिर्वाणात्। प्रथमोत पादनतोऽपीति। असंज्ञिसमापत्तिं कश्चित् प्रथमं मनुष्येषूत्पादयति कश्चित् रूपधातौ निरोधसमापत्तिं तु मनुष्येष्वेवोत्पादयति परिहीणस्तु रूपधातौ। अथ कस्मान्मनुष्येष्वेवैनामुत्पादयति। संज्ञावेदनाद्वारेण वितर्कविचारादिचैत्तप्रचारपरिखिन्नोऽनागामी तां तेन विहारेण सुखं विहरेयमिति निरोधसमापत्तिमुत्पादयति। रूपधातूपपन्नस्त्वनगामी रूपधातोः शान्तत्वान्न तथा तत्रत्यचैतसिकप्रवृत्त्या पीडयत इति न प्रथमतस्तत्रोत्पादयति परिहीणस्तु पूर्वाभ्यासतस्तामुत्पादयति। आरूप्यधातूपपन्नोऽप्यत एव शान्तत्वान्नैवसंज्ञानासंज्ञायतनोपपन्नो नोत्पादयति। निरूपधिशेषनिर्वाणप्रसंगाद्वा। तत्र हि रूपं नास्ति। चित्तवैत्ता यदि निरूध्येरन् परिनिर्वाणमेवास्य स्यात्। चित्तविप्रयुक्तानां केवलानामवस्थानासामर्थ्यान्नियतवेदनीयस्य च कर्मणोऽपरिसमाप्तफ़लस्य विघभावेनावस्थानान्न परिनिर्वाणसम्भवः। असंज्ञिसमापत्तिं तु मोक्षसंज्ञया निःसरणसंज्ञापूर्वकेण मनसिकारेण समापद्यत इति रूपधातावपि प्रथमतः समापद्यते।

कस्मात् पुनरेते इति विस्तरः। सर्वचित्तचैत्तनिरोधस्वभावत्वात् उभे अप्येते समापत्ती चित्तचैत्तनिरोधे इति वक्तव्ये इत्यभिप्रायः। तत्प्रातिकल्येन तत्समापत्तिप्रयोगादिति। संज्ञावेदनाप्रातिकूल्येन तयोः समापत्त्योः प्रयोगात्। संज्ञाप्रातिकूल्येनासांज्ञसमापत्तिप्रयोगः संज्ञारोगः संज्ञाशल्यः संज्ञागण्ड एतच्छान्तमेतत् प्रणीतमिति विस्तरः। संज्ञावेदितप्रतिकूल्येन निरोध समापत्तिप्रयोगः। परचित्तज्ञानवचनवदिति। यथा परचित्तज्ञानवचनं न च परचित्तज्ञानेन चैत्ता न ज्ञायन्ते कदाचित् अथ च परस्य चित्तं ज्ञास्यामीत्येवं प्रथमतः प्रयोगात् परचित्तज्ञानमित्युच्यते न परचित्तचैत्तज्ञानमिति तद्वदिहाप्यनयोः समापत्त्योस्तथा वचनम्।

तत्राचित्तकान्येव निरोधासंज्ञिसमापत्त्यासंज्ञिकानीति वभाषिकादय्ः अपरिस्फ़ुटमनोविज्ञानसचित्तकानीति स्थविरवसुमित्रादयः आलयविज्ञानसचित्तकानीति योगाचाराः इति सिद्धान्तभेदः। तस्मादिदमुपन्यसते कथमिदानीं बहुकालनिरूद्धादिति विस्तरः। बहुकालनिरूद्धग्रहणं समनन्तरनिरूद्धनिरासार्थम्। समनन्तरनिरूद्धादिदानीं कथं भवति यदि समनन्तरनिरूद्धमस्तीत्यभ्युपगतं बहुकालनिरूद्धमप्यस्तीति किं नाभ्युपगम्यत इति वैभाषिकाः। न समनन्तरनिरूद्धस्यास्तित्वं ब्रूमः अपि तु वर्तमानं चित्तमात्मनोऽन्यचित्तहेतुभावं व्यवस्थाप्य निरूध्यतेऽन्यच्चोत्पद्यते तुलादण्डनामोन्नामवत्। तच्च निरूद्धमपरं च चित्तमुत्पन्नं भवतीत्यनन्तरनिरूद्धाच्चित्ताच्चित्तान्तरमुत्पद्यत इत्युच्यते । वर्तमानसामीप्ये वर्तमानवदिति कृत्वा। अपरे पुनराहुरिति सौत्रान्तिकाः। कथं तावदारूप्योपपन्नानामिति विस्तरः। तावच्छब्दः क्रमार्थः। इदमेव तावद् दृष्टान्तार्थं वक्तव्यमित्यर्थः। रूपस्य हि समनन्तरप्रत्ययो नेष्यते। तत् कथमुत्पद्यते तसाच्चित्तादेव तज्जायते न रूपादिति ब्रूमः। अन्योन्यव्रीजकं ह्येतदुभयमिति चित्तेऽपि सेन्द्रियस्य कायस्य बीजमस्ति काये च सेन्द्रिये चित्तस्येति। परिपृच्छायामिति। परिपृच्छा नाम शास्त्र कृतिः स्थविरवसुमित्रस्य। स तस्यामाह। पञ्चवस्तुकादीन्यपि हि तस्य सन्ति शास्त्राणि तस्माद्विशिनष्टि। तस्यैव दोष इति। कतमः स दोषः। कथमिदानीं बहुकालनिरूद्धाच्चित्तादिति य उक्तः। त्रयाणां सन्निपात इति इन्द्रियविषयविज्ञानानाम्। संज्ञावेदनयोरप्यत्र निरोधो न स्यादिति भदन्तवसुमित्रस्यैतन्मतम्। सचित्तकेत्वेऽपि तस्या निरोधसमापत्तेः संज्ञावेदनयोस्तत्र निरोध इति। तस्माद् भदन्तघोषक एवं प्रसङ्ग करोति। अविद्यासंस्पर्शजमिति अविद्यासहितः संस्पर्शोऽविद्यासंस्पर्शः तस्माज्जातमविद्यासंस्पर्शजम्। न तु वेदनोत्पत्ताविति। न तु वेदनोत्पत्तौ स्पर्शो विशेषित ईदृशः स्पर्शो वेदना प्रत्यय इति। स एव भदन्तघोषक उपसंहरति तस्मादचित्तिकेति। कथमचित्तिकायाः समापत्तित्वमिति। ध्यानादिसमापत्तित्वर्महति। समाधिना हि चित्तचैत्ताः समा आपाद्यन्त एकाग्रीक्रियन्त इत्येवं मत्वा पृच्छति ंअहाभूतसमतापादनादिति। महाभूतानि समान्यापद्यन्तेऽनयेति समापत्तिः। एवमस्यां निरोधसमापत्तौ ध्यानादिषु च समापत्तित्वम्। का पुनरिह महाभूतानां समता चित्तोत्पत्तिप्रातिकूल्यसमवस्थान। समागच्छन्तीति समापद्यन्ते। समागच्छन्ति तामिति समापत्तिः कर्मसाधनम्। ध्यानादीन्यपि समागच्छन्ति योगिनः। तस्माद् ध्यानादीनामपि समापत्तित्वं भवति।

द्रव्यत इति स्वलक्षणतः। चित्तोत्पत्तिप्रतिबन्धनात् यस्माचित्तोत्पत्ति प्रतिबन्ध्नीतः। न समापत्तिचित्तेनैवेति। नैतदेवम्। कस्मात्। समापत्तिचित्तेनैव तत्प्रतिबन्धनात्। चित्तोत्पत्तिप्रतिबन्धनादित्यर्थः। कथमिति तत् प्रतिपादयति। समापत्तिचित्तमेव हीति विस्तरः। तत् समापत्तिव्चित्तमेव नान्यद्दव्यम्। चित्तान्तरविरूद्धमनागतचित्तविरूद्धमुत्पद्यते। येन चित्तेन कालान्तरं नात्यन्तमप्रवृत्तिमात्रं भवति। मात्रशब्दो द्रव्यान्तरव्यावर्तनार्थः। तद्विरूद्वाश्रयापादनात्। चित्तविरूद्धस्याश्रयस्य सन्तानस्यापादनात् कारणात्। यदेतदप्रवृत्तिमात्रं सासौ सापत्तिरिति प्रज्ञप्यते प्रज्ञप्तिधर्मोऽयं न द्रव्यधर्म इत्यर्थः। यदि न द्रव्यधर्मः कथमसौ संस्कृतमिति प्रज्ञप्यत इत्याह आह तच्चाप्रवृत्तिमात्रम् न पूर्वमभून्नोत्तरकालं व्युत्थितस्य योगिनो भवतीति। संस्कृतासौ समापत्तिरसंज्ञिसमापत्तिर्निरोधसमापत्तिर्वा प्रज्ञप्यते संव्यवहारतो न तु द्रव्यतः। अथवेति विस्तरः। आश्रयस्यैव तथ समापादनम् तथा व्यवस्थानम् अवस्थाविशेषः समापत्तिजनितो यः सा समापत्तिरित्यर्थः। स चावस्थाविशेषः पूर्वं नासीत् पश्चाच्च न भवति व्युत्थितस्येति संस्कृतत्वं न विरूध्यते। अथवा समापदनमिति पाठः। संस्कृतावस्थाविशेषत्वादस्याः समापत्तेः संस्कृतत्वं सिध्यतीत्यर्थः। एवमासंज्ञिकमिति विस्तरः। चित्तमेवासौ योगी तत्रासंज्ञिषु चित्तप्रवृत्तिविरूद्धं लभते तच्चाप्रवृत्तिमात्रं चित्तचैत्तानामिति वाक्यशेषः। आसंज्ञिकमिति प्रज्ञप्यते न तु द्रव्यतोऽस्तीत्यभिप्रायः।। ४४।।

आयुर्जीवितमाधार ऊष्मविज्ञानयोहि यः।
लक्षणानि पुनर्जातिर्जरा स्थितिरनित्यता।। ४५।।

य ऊष्मण हति विस्तरः। ऊष्मणो विज्ञानस्य च जीवितप्रतिबद्धा प्रवृत्तिः। तस्माज्जीवितमूष्मणो विज्ञानस्य चाधार उच्यते स्थितिहेतुस्तयोरेव। नित्यानिवृत्तिप्रसङ्ग इति। नित्यमेषां स्रातः प्रसज्येत। निकायसभागस्य स्थिति कालावेध इति। निकायसभागो व्याख्यातः। त एव तथाभूताः संस्कारा रूपादिस्कन्धस्वभावा इति। तेषां स्थितिः प्रबन्धः तस्याः कालो यावत् तेन स्थातव्यम् त एव तावन्तः संस्कारक्षणाः तस्या वेधः प्रतिसन्धिक्षणे पूर्वजन्मकर्मणो हेतुभावव्यवस्थानम्। कः पुनरसौ हेतुः सामर्थ्यविशेषः। स हि स्कन्धप्रबन्धलक्षणायाः स्थितेः क्षणपरम्परया कारणं भवति अत एव स्थितिकालावेध उच्यते। तावत्कालं प्रवाहाक्षेपलक्षणत्वात्। तावत् सोऽवतिष्ठत इति। स निकायसभागः सस्यानां पाककालोवेधवत् । यथा सस्यानां पाककालावेधः सामर्थ्यविशेषस्वभावो बीजेनाङ्कर एवाधीयते यः क्षणपरम्परया आ पाककालात् सस्यसन्तानहेतुर्भवात् तद्वदेतत्। क्षिप्तेपुस्थितिकालावेधवच्च। यथा क्षिप्तस्येषोः शरस्य स्थितिराकाशदेशान्तरोत्पत्तिः सन्तानानुवृत्तिः। तस्याः कालो मर्यादा यतः परेण सा न भवति। तस्यावेधो हेतुव्यवस्थानम्। कः पुनरसौ हेतुः। प्रयत्नभूतातिशयनिर्वृत्त्वायुधातुजनितसामर्थ्यविशेषः। तद्यथा क्षिप्तेषुस्थितिकालावेधो न द्रव्यान्तरं तद्वदयमायुर्लक्षणमावेधो द्रष्टव्यः।

यस्तु मन्यत इति वैशेषिकः। संस्कारो नाम गुणविशेष इति। पृथिव्यादीनां वैशेषिको इति वैशेषिकः। संस्कारो नाम गुणविशेष इति। पृथिव्यादीनां वैशेषिको गुणः संस्कारो नाम कर्मजः कर्महेतुश्च वेगद्वितीयनामा इषो जायते। यद्वशात् यस्य गुणस्य वशात् गमनमिषोरा पतनाद् भवतीति तं प्रत्यदृष्टान्त एषः। यथा हि संस्कारो नाम भावान्तरमस्त्येवमायुरपि स्यादिति तेन तन्म दूषयत्याचार्यः तस्येति विस्तरः। तस्य वैशेषिकस्य तदेकत्वात् संस्कारैकत्वात्। प्रतिबन्धाभावाच्च प्रतिबन्धस्य काष्ठप्रत्याघातादिलक्षणस्याभावाच्च। किम् देशान्तरैः शीघ्र तरतमप्राप्तिकालभेदानुपपत्तिः। शीघ्रा शीघ्रतरा शीघ्रतमा प्राप्तिः शीतघ्रतरतमप्राप्तिः। कैः सह देशान्तरैराकाशदेशादिभिः तस्याः कालः तस्य भेदः तस्यानुपपत्तिः। शीघ्रा शीघ्रतरा शीघ्रतमा देशान्तरैः सह प्राप्तिर्नोपपद्यते। पूर्वोक्तादस्मात् कारणद्वयात् संस्कारस्याविशिष्टत्वात् पतनानुपपत्तिश्च। पतनं चेषोर्नोपपद्यते सति संस्कारे। न ह्येतदिष्ट सति कारणे कार्यं न भवतीति। वायुना तत्प्रतिबन्ध इति चेत् स्यान्मतम् वायुरत्न प्रतिबन्धः। प्रतिबन्धविशेषाच्छीघ्रतरतमप्राप्तिकालभेदः पतनं चोपपद्यत इति स्पर्शवद्द्रव्यसंयोगादभावः कर्मण इति वचनात्। अत्रोच्यते अर्वाक्पतनप्रसङ्गो ज्याविभागानन्तरमेवार्वागरवत एव वायुसंयोगात् स इषुः पतेत्। अथ प्रतिबध्यमानोऽपि वायुना नार्वाक् पतेत् न वा कदाचित् पतेत् न पश्चादपि पतेदित्यर्थः। किं कारणम् वायोरविशेषात्। यथा हि समीपे वायुरेवं दूरेऽपीति।

चतुर्थी विषमापरिहारेणेति। अत्यशनादेर्विषमस्यापरिहारेण। क्षीणे त्वायुषि पुण्यक्षयस्य मरणे नास्ति सामर्थ्यम्। तेन तृतीया कोटिर्न प्राप्नोति। तस्मादुभयक्षये सति मरणमुभयक्षयादिति। उभयक्षये सतीति योऽर्थः उभयक्षयादित्ययमर्थ उक्तो वेदितव्यः। न आयुःक्षया दपि मरणं भवतीति कथं गम्यते सस्यादिसाधर्म्यात्। सस्यादीनां हि बीजावेधपरिक्षये सति सत्सु प्रत्ययान्तरेषु क्षेत्रोदकादिषु दृष्टा सन्ताननिवॄत्तिरप्राप्यैव फ़लकालं फ़लपाककालं वा बीजस्य नातिसारत्वात्। सत्यपि च सारबीजाक्षेपे सलिलादिस्थितिवृद्धिप्रत्ययाभावादृष्टा सन्ताननिवृत्तिः। सारबीजाक्षेपस्थितिवृद्धिप्रत्ययाभावेऽपि दृष्टा। यदा बीजाक्षेपश्च परिसमाप्तो भवति सलिलस्य चाभावः। सत्यपि च सारवीजाक्षेपे सलिलादिस्थितिवृद्धिप्रत्यये च जङ्गमाद्यु पक्रमकृता दृष्टा सस्यादीनां सन्ताननिवृत्तिरिति। यस्याश्रयोपघातादुपघातस्तत्सन्तत्यधीनत्वादिति। बहिर्देशिकमतमेतत्। आश्रयसन्ततिप्रतिबद्धं तदायुरिति सन्तत्युपनिबद्धमित्युच्यते काश्मीरमतेऽपि स एवार्थः। शब्दमात्र तु भिद्यते। सान्तरायं निरन्तरायमिति। अथवा सन्त्युपनिबद्धामति स्वसन्तत्युपनिबद्धम्। सन्तानवर्त्येव तत् केवलं न तु सकृदुत्पन्न तिष्ठतीति सान्तरायमित्युच्यते। अनेनागमेन अस्त्यकालमृत्युरिति दर्शयन्नाह। सूत्रेऽप्युक्त चत्वार आत्मभावप्रतिलम्भा इति विस्तरः। आतसञ्चेतना आत्मना मारणम् परसञ्चेतना परेण मारणम्। बुद्धानाञ्चेति वक्तव्यम्। किम् आत्मसञ्चेतनैव क्रमते स्वयंमृत्युत्वात्। अनुपक्रमणधर्माणो हि बुद्धा भगवन्त आयुरूत्सर्ववशित्वलाभिनश्च। प्रायेणेतिग्रहणं चतुर्थकोट्यभिहितनारकान्तराभविकादिपरिवर्जनार्थम्। राजर्षयश्चकवर्तिपूर्वाः प्रव्रजिताः। जिन दूतो यो बुद्धेन भगवता दूतः कश्चित् संप्रेषितः तद्यथा शुकः कश्चिद् भगवता आम्रपाल्याः प्रेषितो लिच्छविभिश्च योग्यां कुर्वाणैर्दृष्टः। शरजालेनापूर्यमाणोऽपि मारयितुं न शक्यते। यावद्धि स दूतकृत्य न करोति तावन्नात्मसंचेतना क्रमते न परसञ्चेतना। जिनादिष्ट इयन्तं कालमनेन जीवितव्यमिति य आदिष्टो भगवता। धर्मिलादयः पूर्वयोगविद्भय आगमितव्याः। आदिशब्देन चान्येऽपि तत एव चागमयितव्याः। तेषां नात्मसञ्चेतना क्रमते न परसन्चेतना चरमभविकानां च ये तस्मिन्नेव जन्मन्यर्हत्त्वं प्राप्नुवन्ति। बोधिसत्त्वमातुस्तद्गर्भाया बोधिसत्त्वगर्भायाः चक्रवर्तिमातुश्चक्रव्र्तिगर्भाया नात्मसञ्चेतना न परसञ्चेतना। यदि तर्हि सर्वेषां रूपारूप्यावचराणं नात्मसञ्चेतना न परसञ्चेतना अथ कस्मात् सूत्र उतमिति विस्तरः। तत्र चोभयं नास्तीति। तत्र नैवसंज्ञानासंज्ञायतने स्वभूमिक आर्यमार्गो नास्ति यावदेव संज्ञासमापत्तिस्तादाज्ञाप्रतिवेध इति वचनात् नाप्युपरिभूमिसामन्तक ऊर्ध्वभूम्यभावात्। परभूमिक आर्यमाग इत्याकिंचन्यायतनभूमिकः।

आर्याकिचन्यसाम्मुख्याद्भवाग्रेत्वास्रवक्षयः

इति वचनात्। पर्यन्तग्रहणात् तर्हीति। तहीत्यर्थान्तरविवक्षायां निपातः। तदादिसंप्रत्यय इति। तस्य पर्यन्तस्य नैवसंग़्यानासंग़्यातनस्यादिश्चत्त्वारि ध्यानानि त्रयश्च शेषा आरूप्याः। न तु कामधातुस्तदादिरसमाहितत्वेन वैसादृश्यात्। समापत्तितो वा ध्यानारूप्या एव तदादिः नवानुपूर्वसमापत्तय इति वचनात्। तत्र संप्रत्ययस्तदादिसंप्रत्ययः। अस्ति क्वचिदन्यत्राप्येवं दृष्टमिति अस्तीत्याह। क्वचिदादिना पर्यन्त इत्यादि। तद यथा देवा ब्रह्यकायिका इति। देवा ब्रह्यकायिकास्तत्पर्यन्तग्रहणाच्च ब्रह्यपुरोहिता महाव्रह्याणश्च प्रथमा सुखोपपत्तिः। तद्यथा देवा आभस्वरा इति। आभास्वरास्तदाहिग्रहणाच्च परीत्ताभा अप्रमाणाभाश्च द्वितीया सुखोपपत्तिरिति। तिस्र एव हि सुखोपपत्तय इष्यन्ते।

सुखोपपत्तयस्तिस्रो नव त्रिध्यानभूमयः

इति वचनात्। एष हि दृष्टान्तधर्म इति एतदृष्टान्तचरितं यदेकमपि तत्प्रकारं निर्दिशते न सर्वं शेषसंप्रत्ययश्च भवति। तद्यथा अनित्यः शब्दः कृतात्वात् यथा घट इति पटादीन्यपि हि गृह्यन्ते तद्यथा शब्दस्य दृष्टान्तवाचकत्वात्। अनुपसंहार एष इति अदृष्टान्त इत्यर्थः। मनुष्यास्तदेकत्याश्च देवा इति। तदेके देवाः षट् कामावचरा देवाः प्रथमाभिनिर्वृत्तवर्ज्याश्च प्रथमध्यानोपपन्ना देवा इत्येतावन्त एव नानात्वकाया नानात्मसंज्ञिनः सत्त्वाः नैतद्व्यतिरिक्ताः सन्तीति नायं तद्यथाशब्दो दृष्टान्तवाचकः। तस्मादुपदर्शनार्थ एवायं द्रष्टव्यः। उपदर्शनार्थत्वे च सति तदेव स्थितमेतत् पर्यन्तग्रहणात्तदादिसंप्रत्यय इति।

विपययादसंस्कृत इति। यत्रैतानि न भवन्ति सोऽसंस्कृत इति। ननु च स्थितिरसंस्कृतलक्षणमस्ति नासंस्कृतस्य स्थितिर्द्रव्यान्तररूपास्ति। द्रव्यान्तररूपाणि चेह संस्कृतलक्षणानीष्यन्त इत्याचाद्यमेतत्। ननु च त्रीणीमानीति विस्तरः। कथम् सूत्रे त्रोणीमानि भिक्षवः संस्कृतस्य संस्कृतलक्षणानि कतमानि त्रीणि संस्कृतस्य भिक्षव उत्पादोऽपि प्रज्ञायते व्ययोऽपि प्रज्ञायते स्थित्यन्यथात्वमपीति। चतुथमप्यत्र वक्तव्यं स्यादिति वैभाषिकाः। किञ्चात्र नोक्तमिति चोदकः। स्थितिरिति वैभाषिकाः यत्तर्हीदं स्थित्यन्यथात्वमपीति स्थितिशब्दोऽत्र श्रुयते। कथमिदमुच्यते स्थितिर्नोक्तेति चोदकाभिप्रायः। जराया एष पर्याय इति। जरेयमुक्ता स्थितेरन्यथात्वं स्थित्यन्यथात्वमिति। तद् यथा जातेरूत्पाद इति पर्यायः। अनित्यतायाश्च व्ययः। तथा जरायाः स्थित्यन्यथात्वं पर्याय इति। कस्मात् पुनर्लक्षणचतुष्टे सति भगवता त्रीण्येवोक्तानीति। अत आह ये हि धर्मा इति विस्तरः। उद्वेजनार्थ विनेयानां जातिजरानित्यता इति धर्माणां लक्षणान्युक्तानि। आभिप्रायिको हि सूत्रनिर्देशो न लाक्षणिको यथाभिधर्मः जरानित्यते पुनः प्रत्युत्पन्नादतीतमिति सञ्चारयत इत्यधिकारोऽनुवर्तते। जरानित्यते प्रत्युत्पन्नादध्वनोऽतीतमध्वानं सञ्चारयतः। कस्मात् दुर्बलीकृत्य विघातात् जरा दुर्बलीकरोति अनित्यता निहन्तीति कृत्वा। ननु चानित्यतैव धर्मं प्रत्युत्पन्नादध्वनोऽतीतमध्वानं सञ्चारयति न जरा। जरा हि केवलं धर्मं दुर्बलीकरोति। कस्मादेवमुच्यते जरानित्यते प्रत्युत्पन्नादतीतं सञ्चारयत इति आह दुर्बलीकरणमपि तदध्वसञ्चारायैव वर्तते। न ह्यदुर्बलीकृतस्याध्वसञ्चारोऽस्तीति जरापि तत्सञ्चारे व्यवस्थाप्यते। असंस्कृतस्यापि च स्वलक्षणस्थितिभावादिति। स्वलक्षणे स्थितिः स्थित्वा भावः तस्मात् स्थितिभावात्। असौ स्थितिः संस्कृतलक्षणं न व्यवस्थापिता। स्थितिर्ह्यसंस्कृतावस्थाविशेषलक्षणया स्थित्या सदृशीति तस्यासंस्कृतस्य संस्कृतत्वप्रसङ्गपरिजिहीर्षया न लक्षणमुक्तमित्यभिप्रायो भगवतो धर्मस्वामिनः।

अन्ये पुनः कल्पयन्तीति सूत्रेऽपि स्थितिरूक्तेति कथयन्ति। स्थितिं जरां चाभिसमस्य। स्थितिश्च स्थित्यन्यथात्वं च स्थित्यन्यथात्वमित्यभिसमस्यैकं लक्षणमुक्त सुत्रे न विभागशः। कस्मात् त्रीणीमानि संस्कृतलक्षणानीति वचनविरोधप्रसङ्गात्। किमत्र प्रयोजनमित्यत आह एषा ह्येषु संङ्गास्पदमिति विस्तरः। एषा हि स्थितिरेषु जात्यादिषु सङ्गास्पदं सङ्गस्थानम् धर्मोऽनया तिष्ठतीत्यतः। श्रियमिवैनां स्थितिं कलाकर्णीसहिता मलक्ष्मीसहितां दर्शयामास भगवान् तस्यां स्थित्यामसङ्गार्थम्। नास्यामासङ्गः कर्तव्यो यस्मादिमनित्यतयानुबद्धा लक्ष्मीरिवालक्ष्म्येति तदेकीयं व्याख्यानम्। अपरे तु व्याचक्षते नास्यामासंक्तव्यम् यस्मादियं जरयानुबद्धा लल्मीरिवालक्ष्म्येति। जरया ह्यन्यथात्वलक्षणयाऽस्या एकीकरणं नानित्यतयेति। अतश्चत्वार्येव संस्कृतलक्षणानीति। उभयोरपि पक्षयोरयमुपसंहारः।। ४५।।

[ जातिजात्यादयस्तेषां तेऽष्टधर्मैकवृत्तयः।
जन्यस्य जनिका जातिर्न हेतुप्रत्ययैर्विना।। ४६।। ]

अन्यैर्जात्यादिभिर्भवितव्यमिति। जातिसामर्थ्यात् कश्चित् संस्कृतो धर्मो जायते। जातिरपि संस्कृता तस्मात्तस्या अप्यन्यया जात्या भवितव्यं स्वात्मनि वृत्तिविरोधात्।

सर्वं संस्कृतलक्षणैः

इति च सिद्धान्तात्। एवं जरादयोऽपि योज्याः।

जातिजात्यादयस्तेषाम्

इति जातिजात्यादयश्च तेषामिति चशब्दो लुप्तनिर्दिष्टो द्रष्टव्यः। ननु चैकैकस्येति विस्तरः। एकैकस्य लक्षणस्य चतुर्लक्षणी चतुर्णा लक्षणानां समाहारः चतुर्लक्षणी प्राप्नोति। अपर्यवसानदोषश्चानिष्ठादोषश्च तेषामनु लक्षणानां पुनरन्यजात्यातिप्रसङ्गात्। जातेर्जातेर्जातिजातेर्यावदनित्यताया अनित्यताया अनित्यतानित्यतायाश्च प्रसङ्गात्।

तेऽष्टधर्मैकवृत्तयः।

त इति पुंलिङ्गनिर्देशो धर्माभिसम्बन्धात् ते जात्यादिजातिजात्यादिस्वभावा धर्मा यथाक्रममष्टधर्मैकवॄत्तयः। जात्यादीनामष्टासु धर्मेषु वृत्तिः जातिजात्यादीनां चैकधर्मे। आत्मनवमा हीति लक्षणानुलक्षणापेक्ष एवमुक्तम्। न हि यथासम्भवं तत्र प्राप्तयादयो भूतानि भौतिकानि वा नोत्पद्यन्ते।

कामेऽष्टद्रव्यकोऽशब्दः

सर्व संस्कृतलक्षणैः प्राप्त्या वा

इति चैवमादिवचनात् जातिरात्मानं विरहय्येति विस्तरः। स्वात्मनि वृत्तिविरोध इत्यत आत्मानं विरहय्य मुक्त्वाष्टौ धर्मान् जनयति। कतमानष्टौ तं धर्म रूपं चित्तं वा स्थिति जरामनित्यतां जातिजातिं स्थितिस्थितिं जराजरामनित्यतानित्यतांइत्यते च जनयति। जातिजातिस्तु तामेव जातिं जनयति। एवं जरातित्यते अपि यथायोगं योज्ये इति। जरात्मानं विरहय्याष्टौ धर्मान् जनयति जराजरा पुनस्तामेव जराम्। अनित्यतात्मानं विरहय्याष्टौ धर्मान् विनाशयति। अनित्यतानित्यता पुनस्तामेवानित्यतामिति।

तदेतदाकाशं पाट्यत इति विभिद्यत इत्यभिप्रायः। सप्रतिघद्रव्याभावमात्रमाकाशम्। नाकाशं नाम किञ्चिदस्ति। तद् विभक्तुं यथा न शक्यते न युज्यते वा एवमिमे जात्यादयोऽसन्तो धर्मा विभक्तु न शक्यन्ते न युज्यन्ते वा। तत आह न ह्येत इति विस्तरः। नहेय्ते द्रव्यतः स्वलक्षणतः संविद्यन्ते यथा विभज्यन्ते जातिरात्मानं विरहय्याष्टौर्धमान् जनयतीत्येवं विस्तरेण विभज्यन्ते। यथा रूपादीनां धर्माणामिति अत्रादिशब्देन शब्दादिवेदनादिचक्षुरादीनां ग्रहणम्। तत्र रूपशब्दादि तावत् प्रत्यक्षेण चक्षुर्विज्ञानादिलक्षणेन प्रमाणेनोपलभ्यते। वेदनाद्यपि प्रत्यक्षेणैवोपलभ्यते स्वसंवेद्यत्वात्। चक्षुरादि तु चक्षुर्विज्ञानादिनानुमानेनानुमीयते। चक्षुर्विज्ञानादिसन्निश्रयो रूपप्रसादश्चक्षुरादीनि तद्भावाभावयोस्तद्भावाभावात्। आगमोऽपि चक्षुषा रूपाणि दृष्टेति विस्तरः। एवं श्रोत्रेण शब्दाञ्छुत्वेति विस्तरेण। एवं गन्धादिष्वपि योज्यम्। तथा यत्किञ्चिद्रूपमतीतानागतप्रत्युत्पन्नमिति विस्तरः। एवं वेदनादिष्वपि योज्यम्।  पारसान्तानिकानां त्वरूपिणां वेदनादीनामस्तित्वानुमानमात्मीयवच्छरीरविकारं दृष्टा तत्संप्रतिपतेः। आगमोऽपि चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं सहजाता वेदना संज्ञा चेतनेति विस्तरः। जात्यादयस्तु न चक्षुरिन्द्रियादिप्रत्यक्षा भवन्ति। न चैष्मस्तित्वे समर्थमनुमानमस्ति न चाप्यागमो द्रव्यतोऽस्तित्वे। यत्तर्हि सूत्र उक्तमिति विस्तरः। ननु चायमागमोऽस्ति संस्कृतस्योत्पादोऽपि प्रज्ञायत इति विस्तरः। अर्थश्च प्रतिसरणमुक्तं भगवतेति। चत्वारीमानि भिक्षवः प्रतिसरणानि। कतमानि चत्वारि धर्मः प्रतिसरणं न पुद्गलः अर्थः प्रतिसरणं न व्यञ्जनम् नीतार्थसूत्रं प्रतिसरणं न नेयार्थम् ज्ञानं प्रतिसरणं न विज्ञानमिति। तथाऽर्थप्रतिसरणो भवति न व्यञ्जनप्रतिसरण इति। कः पुनस्यार्थ इति। अस्योपन्यस्तस्य संस्कृतलक्षणसूत्रस्य। तमर्थमाह विद्यान्धा हि बाला हि विस्तरः। संस्कारप्रबन्धमात्मत आत्मीयतश्चाधिमुक्ताः कृतरूचयोऽभिष्वजन्त इत्यर्थः। संस्कृतत्वं प्रतीत्यसमुत्पन्नत्वमिति पर्यायावेतौ। समेत्य सम्भूय प्रत्ययैः कृतं संस्कॄतम् तं तं प्रत्ययं प्रतीत्य समुत्पन्न प्रतीत्यसमुत्पन्नमिति। न तु क्षणस्येति। प्रवाहस्यैव संस्कृतत्वं द्योतयितुकाम इदमाह न तु क्षणस्य संस्कृतत्वम्। न हि क्षणस्योत्पादादय उत्पादव्ययस्थित्यन्यथात्वलक्षणा धर्माः प्रज्ञायन्ते क्षणस्य दुरवधारत्वात्। ब्रूयास्त्वम् अप्रज्ञायमाना अप्येते लक्षणं भवितुमर्हन्तीति। अत आह न चाप्रज्ञायमाना एते लक्षणं भवितुमर्हन्तीति। प्रज्ञायमानमेव हि लक्षणं भवति। तद्यथा जलस्य बलाकेति। अत एवात्रेति। अत एवात्र सूत्रे प्रज्ञायत इति पदग्रहणम्। अन्यथा हि संस्कृतस्योत्पादोऽपि व्ययोऽपि स्थित्यन्यथात्वमपीत्येवावक्ष्यत्। संस्कृतत्वे लक्षणानीति। संस्कृतमिति लक्षणानीत्यर्थप्रतिग्रहर्थ पुनः संस्कृतग्रहणम्। जलबलाकावदिति। वैधर्मदृष्टान्तोऽयम्। यथा बलाका जलास्तित्वे लक्षणं न पुनर्जलस्य जलत्वे लक्षणम्। मैवं विज्ञायि किम् संस्कृतस्य वस्तुनोऽस्तित्वेऽमूनि लक्षणानि। साध्वसाधुत्वे वा कन्यालक्षणवदिति। यथा कन्यायाः शुभाशुभानि लक्षणानि यथाक्रमं साध्वसाधुत्वे लक्षणानीति। यदि ह्यमूनि तथा संस्कृतस्य वस्तुनोऽस्तित्वे साध्वसाधुत्वे वा लक्षणानीष्येरन् त्रीणीमानि संस्कृतलक्षणानीत्युच्येत। संस्कृतस्य संस्कृतलक्षणानीति न क्रियेत। कृतं च। तेन ज्ञायते संस्कृतत्वे लक्षणानीति। कथं पुनरविद्यमाना जात्यादयः प्रवाहे व्यवस्थाप्यन्ते प्रज्ञायन्ते  वा। न ब्रूमो जात्यादयो न संविद्यन्त इति। यथा तु द्रव्यरूपेण विभज्यन्ते तथा न संविद्यन्त इति ब्रूमः। यथा तर्हि भवतां संविद्यन्ते तथा कथ्यताम्। अत आह। प्रवाहस्यादिरूत्पाद इति विस्तरः। निवॄत्तिर्व्यय इति। ओरवाहस्योपरतिर्व्ययः। स एव प्रवाहोऽनुवर्तमान इति। सदृशक्षणानुवृत्तेरनुवर्तमानः प्रवाहः स्थितिरित्युच्यते। तस्याः पूर्वापरविशेष इति। पूर्वस्मादपरस्य क्षणस्य विशेषः पूर्वापरयोः क्षणयोर्वा विशेषः पूर्वापरविशेषः। एवञ्च कृत्वोक्तमिति। प्रवाहरूपानेवोत्पादादीन् कृत्वानित्योपस्थितस्मृतितामायुष्मतः सुन्दरनन्दस्यारभ्योक्तम्। प्रवाहगता हि वेदनास्तस्य विदिता इवोत्पद्यन्ते विदिता इव तिष्ठन्ते। विदिता इव अस्त परिक्षयं पर्यादानं गच्छन्ति न क्षनगताः। क्षणस्य दुरवधारत्वादिति विदितस्य च क्षणस्यावस्थानासम्भवात्। एतमेवार्थं श्र्लोकद्वयेन संगॄहन्नाह जातिरादिः प्रवाहस्येति सर्वम्। स्थितिस्तु स इति। स एव प्रवाहः स्थितिः। तस्यैवेति। तस्यैव प्रवाहस्य। तदुच्छेद इति प्रबन्धोच्छेदः। क्षणिकस्य हि धर्मस्येति श्र्लोकः। क्षणिको हि धर्मः स्थितिमन्तरेण विनश्येदित्यर्थः। स्थितिरस्तीति मन्यसे चेत् स च धर्मो व्येत्येव सत्यामपि स्थितौ विनश्यत्येव क्षणिकत्वात्। विनाशहेत्वभावात्। तस्मात् वृथा तत्परिकल्पना। निष्प्रयोजना स्थितिपरिकल्पनेत्यर्थः। द्वितीयादिक्षणावस्थानेन हि स्थितिपरिकल्पना न वृथा भवेत्। तस्मात् प्रवाह एव स्थितिर्यस्मात् क्षणिकस्य हि धर्मस्य स्थितिपरिकल्पना व्यर्थेति। एवं च कृत्वायमपीति। प्रवाह एव स्थितिरिति कृत्वेत्यर्थः। नहि क्षणस्योत्पन्नस्याविनाशोऽस्तीति। अत्र कस्यचिदेवमभिप्रायो भवेत्। स्थितिसद्भावादेकं क्षणमविनाशो धर्मस्योत्पन्नस्य। यदि हि स्थितिर्न स्यात् सोऽप्येकः क्षणो न स्यादिति। न स्यादिति। न हेतुप्रत्ययपूर्वकत्वात्तदस्तित्वस्य अस्मिन् सतीदं भवतीति वचनात्। स्थितिरूपगॄह्नातीति चेत् स्यान्मतं हेतुप्रत्ययेभ्य उत्पद्यमानं धर्म स्थितिरूपगॄह्वातीति। यदि स्थितिर्नोपगृह्नीयात् किं स्यात्। आत्मसत्ता धर्मस्य न भवेत्। जनिका तर्हि स्थितिः प्राप्नोति न स्थापिका। सन्तानमवस्थापयतीति चेत् हेतुप्रत्ययेषु स्थित्याख्या प्रसज्यते हेतुप्रत्ययानां सन्तानहेतुत्वात्। निकायसभागचित्तं युज्यत इति। एकस्मिन् निकायसभागेऽनेकमपि चित्तमेकमित्युच्यते एकनिकायसभागसम्भूतत्वादित्यभिप्रायः। तच्चित युज्यत एकस्मिंश्चित्त इति वक्तुम् अन्यथा हि कथमेकस्यैव चित्तक्षणस्य जातिश्च मरणं चान्यथात्वं च स्यात्।

उत्तरोत्तरक्षणानुबन्धः स्थितिरिति। पूर्वस्य क्षणस्योत्तरः क्षणः प्रतिनिधिभूतः सादृश्यात्। अतः स पूर्वः क्षणोऽद्याप्यवतिष्ठत इवेति कृत्वोत्तरः क्षणः स्थितिरूच्यते। यदा तर्हि सदृशा उत्पद्यन्त इति। यदा सदृशा उत्पद्यन्ते तदा विसदृशत्वं नास्ति। विसदृशत्वं च स्थित्यन्यथात्वमुक्तम्। अतः सदृशोत्पत्तौ स्थित्यन्यथात्वं नास्तीत्यव्यापिलक्षणं स्यादित्यभिप्रायः। क्षिप्ताक्षिप्तबलिदुर्बलक्षिप्तस्येति विस्तरः। क्षिप्त च तदक्षिप्त च क्षिप्ताक्षिप्तम् बलुदुर्बलाभ्यां क्षिप्तं बलिद्रुबलक्षिप्तम् क्षिप्ताक्षिप्तं च तद् बलुदुर्बलक्षिप्त च क्षिप्ताक्षिप्तबलिदुर्बलक्षिप्तम्। किं तत् वजादि। आदिग्रहणेन लोहपाषाणादेर्ग्रहणम्। अपरे पुनरेवं विग्रहं कुर्वन्ति क्षिप्तश्चाक्षिप्तश्च क्षिप्ताक्षिप्तौ बलिदुर्बलाभ्यां क्षिप्तौ बलिदुर्बलक्षिप्तौ क्षिप्तस्यैवायं द्विधाभेदः। क्षिप्ताक्षिप्तौ च बलिदुर्बलक्षिप्तौ च क्षिप्ताक्षिप्तबलिदुर्बलक्षिप्तम्। वज्रमादिरस्य वज्रादिः। अस्मिन् विग्रहे वज्रादि विशेषणम् क्षिप्ताक्ष्ःइप्तबलिदुर्बलक्षिप्तं विशेष्यम्। तस्य वज्रादेरेवंविधस्य यथासम्भवं चिराशुतरपातः क्षिप्तस्य चिरं पातः अक्षिप्तस्य चिरतरः पातः दुर्बलक्षिप्तस्याशुपातः बलिक्षिप्तस्याशुतरः पातः तस्य कालः कालस्य भेदः चिराशुतरपातकालभेदात्। तद्भूतानां बज्रादिमहाभूतानाम्। परिणामविशेषः क्षिप्तस्यान्यथापरिणामो येन चिरं पातः। एवं यावद्वलिक्षिप्तस्यान्यथापरिणामो येनाशुतरः पातः। तस्य परिणामविशेषस्य सिद्धिः। तस्याः परिणामविशेषसिद्धेः। न ते निर्विशेषा भवन्तीत्यधिकृतम् अन्तिमस्य तर्हीति विस्तरः शब्दस्यार्चिषश्च दीपादेर्योऽन्त्यः क्षणः सन्तानोपरतिकाले निरूपधिशेषनिर्वाणकाले वार्हतः। तस्य षडायतनस्योत्तरक्षणाभावात् स्थितिर्नास्ति। स्थितेरभावात् स्थित्यन्यथात्वं नास्तीत्यव्यापिनी लक्षणव्यवस्था प्राप्नोति येयौक्ता तस्याविसदृशत्वं स्थित्यन्यथात्वमिति यस्यास्ति स्थितिस्तस्यावश्यमन्यथात्वं भवति। यस्य नस्ति स्थितिस्तस्य नास्ति स्थित्यन्यथात्वमित्युक्त भवति। सम्भवं हि प्रत्येवमुक्तं सूत्रे त्रीणीमानि संस्कॄतलक्षणानीति। तस्मादन्त्यशब्दार्चिः क्षणप्रभृतीनामुत्पादव्ययावेव द्वे लक्षणे इत्यभिप्रीयेते तदन्येषां तु स्थित्यन्यथात्वमपीति। अपर आह अन्त्यानामपि शब्दार्चिःक्षणप्रभृतीनां स्थितिरस्ति यत् स्वावस्थानम् तस्याश्चान्यथात्वं पूर्वक्षणापेक्षमिति तेषामपि त्रीणि संस्कॄतलक्षणानि व्यवस्थाप्यन्त इति। कथमिदानीं स एव धर्मो लक्ष्यः तस्यैव च लक्षणमिति। लक्ष्यलक्षणयोर्जलबलाकावदन्त्यत्वं पश्यन्तश्चोदयन्ति। तदव्यभिचारयन्तः सौत्रान्तिका आहुः कथं तावन्महापुरूषलक्षणानीत्यादि। महापुरूषलक्षणानि महापुरूषसंगृहीत्वान्नातोऽन्यानि। ब्रूयात् न महापुरूषलक्षणानि  महापुरूषाख्यानि महापुरूषलक्षणाख्यानि च भवन्ति एवं संस्कृतो धर्मः संस्कॄतश्चोच्यते संस्कॄतलक्षणं च। उत्पादादिलक्षणेन ह्यवस्थाविशेषेण स धर्मो लक्ष्यते। यदा च प्रवाहलक्षणव्यवस्था क्रियते तदा समुदायिभिः समुदायो लक्ष्यते। यथा महापुरूषसंज्ञः समुदायो महापुरूषलक्षणैः समुदायिभिरिति। एतेन सास्नादीनि लक्षणानि व्याख्यातानि। काठिन्यादीनि चेति विस्तरः। उभयसिद्धोऽयं दृष्टान्तः प्रवचनसिद्धत्वात्। कठिनलक्षणो हि पृथिवीधातुरूच्यते। न च पृथिवीधातोरन्यत् काठिन्यम्। एवं सर्वत्र योज्यम्। स एव हि पॄथिवीधातुः कठिनो लक्ष्यमाणः कठिनलक्षण उच्यते। एतदेव संस्कृतमभूत्वाभवद्भूत्वाचाभवल्लक्ष्माणं संष्कृतलक्षण मुच्यते लक्ष्यत इति लक्षणमिति कृत्वा। न च तत्तस्मादन्यत्। यथाचोर्ध्वगमनेनेति विस्तरः। क्षणिकवादिनो वैभाषिकस्य धूमस्योर्ध्वगमनं नान्यदस्ति। स एवोर्ध्वदेशान्तरेषु निरन्तरमुत्पद्यमान ऊर्ध्वगमनाख्यां लभते। तदूर्ध्वगमनं ततो भिन्नमिव लक्ष्यते। न च धूमस्योर्ध्वगमनत्वमन्यदिष्यते। न च तत्तस्मादन्यत्। न च तदूर्ध्वगमनं तस्माद् धूमादन्यत्। स एवात्र न्याय इति। एवमुत्पादो विनाशोऽन्यथात्वं च ततो भिन्नमिव लक्ष्यते। न च संस्कृतस्य संस्कृतमन्यद् भवतीति। न च संस्कृतानां रूपादीनां तावत् संस्कृतत्वं लक्ष्यते गृह्णतापि स्वभावम् गृह्नतापि रूपादीनां स्वभावम् यावत् प्रागभावो न ज्ञायते। यावत् तेषां रूपादीनां प्रागुत्पत्त्यभावो न ज्ञायते। पश्चाच्च। किम् अभावः प्रागभावश्च प्रध्वंसाभावश्च यावन्न ज्ञायते। सन्ततेश्च विशेषो यावन्न ज्ञायत इति वर्तते। तस्मान्न तेनैव तल्लक्षितं भवति। न तेनैवं संस्कृतत्वेन संस्कृतत्वं लक्ष्यते। किंतर्हि। प्रागभावादिभिस्तत् संस्कृतत्वं लक्ष्यते। यदि हि रूपादीनां स्वभावं गृह्नन् संस्कृतमिति गृह्नीयात् प्रागभावं पश्चादभावं च सन्ततेश्च विशेषमज्ञात्वा तेनैव तल्लक्षितं स्यात्। न त्वेवं जानीत इति। न तेनैव तल्लक्षितं भवति। न च तेम्योऽपि रूपादिभ्यो द्रव्यान्तराण्येव जात्यादीनि विद्यन्ते। जातिरादिः प्रवाहस्येति विस्तरेण वचनात्। एषां सहभूतत्वात्। जात्यादीनां समानकालोत्पादत्वात्। न कारित्रकालभेदादिति। नैतदेवम्। कस्मात्। कारित्रकालमेदात् पुरूषकारकालभेदादित्यर्थः। तत् प्रतिपादयन्नाह अनागता हि जातिः कारित्रं करोतीति विस्तरः।

किमनागतं द्रव्यतोऽस्ति नास्तीति। अनागतमेव तावद्द्रव्यतो नास्तीति प्रतिपादयिष्यते। कुतोऽनागता जातिः कारित्रं करोतीत्यभिप्रायः। सत्यपि तु तस्मिन्निति। सत्यपि तु द्रव्यतोऽनागते जातिरनागतावस्थायां कारित्रं कुर्वती कथमनागता सिध्यति। अप्राप्तकारित्रं ह्यनागतमिति सिद्धान्तः। स विरूध्येत। तस्मात्तद् वक्तव्यम् कथं वर्तमाना सिध्यतीति। उपरतकारित्रोऽतीत इष्यते जातिश्चानागतैव। उपरतकारित्रे हि वर्तमानावस्थायामे एवातीता प्राप्नोतीति न वर्तमाना भवेदिति वत्रमानलक्षन वक्तव्यमिति। अपरिसमाप्तकारित्रो वर्तमान इति चेत् अतीतोऽपि वर्तमानः स्यात् अतीतस्यापि हि फ़लदानकारित्रमिष्यते। यदैवं ह्येनं स्थितिरिति विस्तरः। स्थितिजराविनाशवृत्तयो ह्यन्योन्यविप्रातषिद्धाः। न हि स एव धर्मस्थिष्ठति च जीर्यति च विनश्यति चेति युक्तो व्यवस्थापयितुम्। तस्य क्षणिकत्वं बाध्यत इति। प्रथमं स्थितिः स्थापयति ततो जरा जरयति ततोऽनित्यता विनाशयति। क्षणत्रयावस्थानात् क्षणिकत्वं बाध्यत इति। एष एव हि नः क्षण इति। कार्यपरिसमाप्तिलक्षणः। न तूत्पत्त्यनन्तरविनाशलक्षण इत्यर्थः। एवमपीति विस्तरः। सहोत्पन्नानां क्रमेण कारित्र न युज्यते। कुत एतत्। स्थितिस्तावत् स्थापयति। न तु तस्मिन् काले जरा जरयति नाप्यनित्यता विनाशयतीति। पुनः केनाबलीयस्त्वं पश्चात् केनाबलीयस्त्वं यदेनां यस्मादेनां स्थिति सह धर्मेण यस्यासौ स्थितिः। तेन धर्मेण सहानित्यता निहन्ति। कृतकृत्या पुनः कर्तु नोत्सहते जातिवदिति। यथा जातिः कृतकृत्या जन्यं जनयित्वा परिक्षीणशक्तिर्न पुनर्जनयति तथा स्थितिरपि तद्वदेव न पुनः स्थापयतीति । न हि शक्यमिति विस्तरः। न वर्तमानतामानीतं जन्यं पुनरानेतुं शक्यतेऽनवस्थाप्रसङ्गात्। शक्यं तु खलु स्थित्या स्थाप्यमत्यन्तं स्थापयितुम् स्थितेर्विनाशप्रतिबन्धलक्षणत्वात्। ते एव जरानित्यते इति। ते एव जरानित्यते प्रतिबन्धः येन स्थितिः स्थाप्यमत्यन्त स्थापयितु न शक्नोति। जरा हि स्थितिं द्रुबलीकरोति दुर्बलामनित्यता निहन्तीति।

आचार्य आह। यदीति सर्वम्। यदि हि ते जरानित्यते बलीयस्यौ स्यातां पूर्वमेव स्यातां स्थितिकारित्रकाले। यतः सा स्थितिर्न लभते करित्रं कर्तुम्। निवृत्तकारित्रायामिति विस्तरः। यदा निवृत्तकारित्रा स्थितिः। तदा ते अपि जरानित्यते न तिष्ठतः। स चापि धर्मः। स्थितिकारित्नाद्धि तेषां स्थितिः कल्पते। तस्मात्ते अपि न तिष्ठतः। कथमतिष्ठन्त्यौ जरानित्यते कुत्र वा ध्र्मिण्यतिष्ठति कारित्रं कर्तुमुत्सहिष्येते। किं वा पुनस्ताभ्यां जरानित्यताभ्यां कर्तव्यम्। स्थितिसामर्थ्याद्धि स धर्म उत्पन्नमात्रो न विनष्टोऽभूत्। स तया उपरतकारित्रया स्थित्याप्युपेक्ष्माणोऽस्थाप्यमानो ध्रुवं न स्थास्यतीति। अयमेवास्य विनाशो यदिदमनवस्थानम्। किं पुनर्जरानित्यताभ्यां कार्यमित्यभिप्रायः। न च तस्मादेव तस्यान्यप्रकारता युज्यत इति। यदि स एव नासावन्यथा। अथान्यथा न स एव। ययोर्ह्यन्यथात्व तयोरन्यत्वं दृष्टम् तद्यथा देवदत्तयग़्यदत्तयोः।

योऽप्याह निकायान्तरीय इति। आर्यसम्मतीयः। स घटादेर्मुद्ररादिकृतो विनाश इति मन्यते। कालान्तरावस्थायि हि तस्य रूपम्। चित्तचैत्तानां च क्षणिकत्वम्। अत उच्यते। चित्तचैत्तानां च क्षणिकत्वाभ्युपगमात्तदनित्यतायाश्चित्तचैत्तानित्यताया विनाशकारणानपेक्षत्वात् स्वयं विनश्वरत्वात् स्थित्यनित्यते कारित्रं युगपत् कुर्याताम्। अत एकस्य चित्तस्य चैत्तस्य वा युगपतस्थितिविनिष्टता अन्योन्यविरूद्धापि संप्रसज्यते। एवमेतत् सूत्रं सुनीतमिति। यदेतत्रीणीमानि भिक्षवः संस्कृतस्य संस्कृतलक्षणानीति। सति सामग्रेय भावात् असति चाभावादिति। सति हेतुप्रत्ययानां सामग्रयेभावाद् जन्यस्य असति चाभावात्। न जातेः। किम्। सामर्थ्यं पश्याम इत्यधिकृतम्। नहि हेतुप्रत्ययसामग्रयेऽपि तज्जन्यं कदाचिद् भवति कदाचिन्न भवति। अत्र भदन्तानन्तवर्माह। यथा चक्षुर्न विनालोकादिभिश्चक्षुर्विज्ञानं जनयति न चातस्तदुत्पत्तौ न कारणम्। एवं जातिर्न विना हेतुप्रत्ययैर्धर्मं जनयति न चातस्तदुत्पत्तौ न कारणमिति। अत्रोच्यते। असमानमेतत्। चक्षुर्हि दृष्तसामर्थ्यं सत्स्वालोकादिष्ःवन्धानन्धयोश्चक्षुर्विज्ञानस्यानुत्पत्त्युत्पत्तिदर्शनात्। न त्वेवं जातिरिति। सूक्ष्मा अपि हि धर्मप्रकृतय इति। तद्यथा स्पर्शादीनां चैतसिकानां प्रकृतयः स्वभावाः दुःपरिच्छेद्यत्वात् सूक्ष्माः। अस्त्येतदेवम्। अदृश्यमानोऽपि कश्चिद्धर्मः कारित्रेण निर्धार्यते। न त्वेवं जातिः करित्रेण निर्धार्यते। स्पर्शस्य हि कारित्रं भगवतैव निर्धारितम्। यः कश्चिद् वेदनास्कन्धः संज्ञास्कन्धः संस्कारस्कन्धः सर्वः स स्पर्श प्रतीत्येति विस्तरः। जातमित्येव तु न स्यादसत्यां जाताविति। स्वलक्षणापेक्षा रूपे रूपबुद्धिः। न तु जातमिति स्वलक्षणापेक्षा जातबुद्धिः। वेदनादिष्वपि भावात्। तस्मादर्थान्तरभूतजातिद्रव्यापेक्षेयं जातबुद्धिरिति निर्धार्यते। षष्ठीवचनं च न स्याद् रूपस्योत्पाद इति। वैयधिकरण्ये हि षष्ठीनिर्देशो न सामानाधिकरण्ये। तेनाह यथा रूपस्य रूपमिति। वैधर्मदृष्टान्त एषः। यथा रूपं रूपादनन्यदिति कृत्वा षष्ठीनिर्देशो न भवति रूपस्य रूपमिति तथा रूपस्योत्पाद इति न स्यात्। तस्माज्जातिनिमित्तोऽयं षष्थीनिर्देश इति गम्यते। एवं यावदनित्यता यथायोगं वक्तव्येति। स्थितमेव तु न स्यादसत्यां स्थितौ। षष्ठीवचनं च रूपस्य स्थितिरिति यथा रूपस्य रूपमिति। जीर्णमित्येव तु न स्यादसत्यां जरायाम्। षष्ठीवचनं च रूपस्य जरेति यथा रूपस्य रूपमिति। तथा विनष्टमित्येव तु न स्यादसत्यामनित्यतायाम्। षष्ठी वचनं च रूपस्य विनाश इति यथा रूपस्य रूपमिति।

तेन तर्हीति विस्तरः। यदि जातमित्येवमादिबुद्धिसिद्ध्यर्थं षष्ठीविधानार्थं च जात्यादयः कल्प्यन्ते अनात्मत्वमप्येष्टव्यम् न हि निर्निमित्तानात्मबुद्धिर्भवितुमर्हति। अथानात्मत्वं प्रज्ञप्तिसदिष्यते तन्निमित्ता नात्मबुद्धिः। जात्याद्यपि प्रज्ञप्तिसदेष्टव्यम्। तन्निमित्ता च जात्यादिबुद्धिरिति। साधनं चात्र प्रज्ञप्तिसज्जात्यादि द्रव्यसदपेक्ष्य गृह्यमाणत्वादनात्मत्ववदिति। सत्तादयोऽपीति। आदिशब्देन द्रव्यत्वरूपघटत्वादि गृह्यते। एकं रूपं द्वे रूपे महदणु पृथक् संयुक्तं विभक्तं परम्परं सद्रूपमिति। तथा द्रव्यमेतद्रूपमिदं घटोऽयमित्येवमादिबुद्धिसिद्ध्यर्थ संख्या दयोऽपि वैशेषिकपरिकल्पिता अभ्युपगन्तव्याः। षष्ठीविधानार्थं च रूपस्य संयोग इति। संयोगग्रहणमुदाहरणमात्रम्। रूपस्य विभागः परत्वापरत्वमित्येवमाद्यपि योज्यम्। एषा च षष्ठी कथं कल्प्यते रूपस्य स्वभाव इति। न हि वैभाषिकाणां रूपादन्यो रूपस्य स्वभाव इष्टः। जातमिति। जातमेव न विनष्ट मित्यभूत्वाभावज्ञापनार्थं क्रियते प्रज्ञप्तिः। बहुविकल्प इति। बहुभेदो रूपवेदनादिभेदात्। तस्य विशेषणार्थ रूपस्योत्पाद इति न वेदनादीनामुतपाद इति विशेषणार्थं षष्ठीं कुर्वन्ति। मान्यः प्रत्यायि रूपसंज्ञक एवोत्पादो न वेदनादिसंज्ञक इति। दृष्टान्तं कथयन्ति चन्दनस्य गन्धादयः शिलापुत्रकस्य शरीरमिति। अर्थान्तरभावेऽपि षष्ठीनिर्देशः क्रियते। गन्धादिसमूहमात्र हि चन्दनमिति बौद्धसिद्धान्तः। वैशेषिकसिद्धान्तापेक्षया त्वसिद्धश्चन्दन इत्यपरो दृष्टान्त उपन्यस्यते शिलापुत्रकस्य शरीरमिति। शिलापुत्रकशरीरयोर्वैशेषिकाणामपि सिद्धान्ते नार्थान्तरभावः। भवति च षष्टीनिर्देशः। अर्थान्तरपरिकल्पकृतो हि तथा निर्देशः। एवं स्थित्यादयोऽपि यथायोगं वेदितव्या इति। तस्मात् प्रज्ञप्तिमात्रमेवेदं प्रवाहावस्थानज्ञापनार्थ क्रियते स्थितमिति। स च प्रवाहावस्थालक्षणा स्थितिर्बहुविकल्पा। तस्या विशेषणार्थं रूपस्य स्थितिरिति षष्ठीं कुर्वन्ति। यथा रूपसंज्ञकैव स्थितिः प्रतीयेत मान्या प्रत्यायीति तथा प्रज्ञप्तिमात्रमेवैतत् पूर्वापरविशेषज्ञापनार्थ क्रियते जीर्णमिति। सा च पूर्वापरविशेषलक्षणा जरा बहुविकल्पा। तस्या जीर्णमिति। सा च पूर्वापरविशेषलक्षणा जरा बहुविकल्पा। तस्या विशेषणार्थ रूपस्य जरेति षष्ठीं कुर्वन्ति। यथा रूपसंज्ञकैव जरा प्रतीयेत मान्या प्रत्यायीति। तथा प्रज्ञप्तिमात्रमेवैतत् प्रवाहनिवृत्तिज्ञापनार्थ क्रियते विनष्टमिति। स च प्रवाहनिवृत्तिलक्षणो विनाशो बहुविकल्पः  तस्य विशेषणार्थ रूपस्य विनाश इति षष्ठी कुर्वन्ति। यथा रूपसंज्ञक एव विनाशः प्रतीयेत मान्यः प्रत्यायीति। सर्वत्र च दृष्टान्तद्वयं वक्तव्यम्। तद्यथा चन्दनस्य गन्धादयः शिलापुत्रकस्य शरीरमिति।

यथा  च धर्मतयेति। धर्मता धर्मप्रकृतिर्धर्मस्वभावो धर्मशैलीत्यर्थः। धर्मता धर्मप्रकृतिरिति कुत एतत्। चक्षुः समृद्धे शून्यं नित्येन ध्रुवेण शाश्वतेनाविपरिणमधर्मेणात्मनात्मीयेन च। तत् कस्य हेतोः प्रकृतिरस्यैषेति। यथा च धर्मतया न सर्वं जातिमदिष्यते आकाशादि तथा धर्मतया न सर्व जायत इत्येष्टव्यम्। न ह्यत्र किञ्चित् कारणमस्ति यत् संस्कॄतमेव जातिमद्भवति नासंस्कॄतमित्यन्यत्र धर्मतायाः। एवमसत्यामपि जातौ संस्कृतमेवोत्पद्यते नासंस्कृतमिति। यथा च तुल्यजातिमतां केषाञ्चिद्रूपवेदनादीनाम्। तदन्ये प्रत्ययाः तेभ्यो रूपोत्पत्तिप्रत्ययेभ्योऽन्ये वेदनादुयत्पत्तिप्रत्ययास्तदन्ये ते तदन्ये प्रत्ययास्तदन्यस्योत्पादने न समर्था भवन्ति। तेभ्यो वेदनादिभ्योऽन्यत् तदन्यत् किं तत् रूपम् तस्य तदन्यस्य ते वेदनादिप्रत्यया उत्पादने यथा न समर्था भवन्ति। एवमसंस्कृतस्याकाशादेरूत्पादने सर्वेऽपि रूपवेदनादिप्रत्यया न समर्थाः स्युरिति पूर्वं स्वभावनियमेनोक्तामिदानीं शक्तिनियमेनेति।

न हि दूषकाः सन्तीति विस्तरः। यथा न मृगाः सन्तीति यवा नोप्यन्ते उप्यन्त एवेत्यर्थः। द्वौ प्रतिषेधो प्रकृतमर्थं गम्यतः। यथा न मक्षिकाः पतन्तीति मोदका न भक्ष्यन्ते। किं तर्हि भक्ष्यन्त एव। तथा न दूषकाः सन्तीत्यागमोऽभिधर्मशास्त्राण्यपास्यन्ते। तस्माद्दोषेषु प्रतिविधातव्यम् दोषेषु परव्यवस्थापितेषु परिहारः कर्तव्यः। सिद्धान्तश्चानुसर्तव्यो न परित्याज्य इत्यभिप्रायः।। ४६।।

[ नामकायादयः संज्ञावाक्याक्षरसमुतयः।
कामरूपाप्तसत्त्वाख्या निष्यन्दाव्याकृतास्तथा।। ४७।। ]

नामकायादयः संज्ञावाक्याक्षरसमुक्तयः

इति। संज्ञासमुक्तयो नामकायाः वाक्यसमुक्तयः पदकायाः अक्षरसमुक्तयो व्यञ्जनकायाः। संज्ञाकरणमिति लोकभाषेयम्। संज्ञाकरणं नामधेयमिति पर्यायह्। तथा हि लोके वक्तारो भवन्ति देवदत्त इत्यस्य संज्ञाकरणमिति। संज्ञायाः करणं संज्ञाकरणम् येन संज्ञा चैतसिको धर्मः क्रियते जन्यते। संज्ञैव वा करणं संज्ञाकरणम्। संज्ञाग्रहणं चान्य करणनिवृत्त्यर्थम् करणग्रहणं चैतसिकविशेषणार्थम्। यदि हि संज्ञा नामेत्युच्येत चैतसिकोऽपि सम्भाव्येत। तत पुनः संज्ञाकरणं नाम रूपं शब्दो रसो गन्धो वेत्येवमादि। वाक्यं पदमिति। पद्यते गम्यतेऽनेनेति। पदं तु सुप्तिङन्तं पदं गृह्यते। तेनाह यावतार्थपरिसमाप्तिस्तदयथा

अनित्या बत संस्काराः

इत्येवमादीति। आदिशबेन

उत्पादव्यधर्मिणः

उत्पद्य हि निरूध्यन्ते।

तेषां व्युपशमः सुखम्

इत्येवमादि। अस्था गाथाया एवमर्थ व्याचक्षते अनित्या बत संस्कारा इति प्रतिज्ञा उत्पादव्ययधर्मिण इति हेतुः यस्मादुत्पादव्ययधर्मवन्तस्तस्मादनित्या इति परिच्छिद्यन्ते। उत्पद्य हि निरूध्यन्त इति दृष्टान्तः। य उत्पद्यन्ते। उत्पद्य हि निरूध्यन्त इति दृष्टान्तः। य उत्पद्यन्ते निरूध्यन्ते च तेऽनित्याः तद्यथा घटादयः। तथा च संस्कारा इति। अपरे पुनर्व्याचक्षते असिद्धहेतुसाधनार्थमेतदिति। कथमेतद्गम्यते। उत्पादव्ययधर्मिणस्त इति यस्मादेते उत्पद्य निरूध्यमाना दृष्टा इति। अपरे वर्णयन्ति अनित्या बत संस्कारा उत्पादव्ययधर्मिण इति पर्यायद्वयमेतदुच्यते। कस्मादित्याह यस्मादुत्पद्य निरूध्यत इति हेतुवचनम्। तेषां व्युपशमः सुखम्। ये ह्यनित्यास्ते दुःखा अतस्तेषां व्युपशमः सुखमिति विनेयजनं नियोजयति। येन क्रियागुणकालसम्बन्धविशेषा गम्यन्ते। साव्ययकारकविशेषणं वाक्यमिति वाक्यविदो वदन्ति। तद्यथा पचति पठति गच्छतीति कृष्णो गौरो रक्त इति पचति पक्ष्यत्यपाक्षीदिति क्रियागुणकालानां सम्बन्धविशेषा गम्यन्ते। तत् पदम। तथा हि सामान्ये वर्तमानानां पदानां यद्विशेषेऽवस्थानं स वाक्यार्थ इत्याहुः। तदेवं स्वलक्षणाभिद्योतकं नाम क्रियादिसम्बन्दविशेषाभिद्योतकं पदमित्युक्त भवति। व्यञ्जनमक्षरमिति। वर्ण इत्यर्थः न तु हल् एव अचामपि व्यञ्जनकत्वेनेष्टत्वात्।

ननु चाक्षराण्यपि लिप्यवयवानां नामानीति। लिपयो मनुष्यादिभिः पत्रादिषु ये लिखिताः तेषामक्षराणि नामानि। रूपनामग्रहणे रूपप्रतीतिवद् व्यञ्जनग्रहणे लिपिप्रतीतिः। अतो व्यञ्जनमपि लिप्यवयवानां नाम भवतीति लक्षणसाङ्कर्यम्। ततश्च यदभिप्रेतं नाम्नो व्यतिरिक्तमन्यदेव व्यञ्जनमक्षरमिति तन्नोपपद्यते। न वै लिप्यवयवानामिति विसत्रः। विपरीतमेतदिति व्याचष्टे यत्तु व्यञ्जनग्रहणे लिपिप्रतीतिरिति तत्प्रत्याय्यप्रत्यायकभावेन सङ्केतितत्वात् न तु तन्नामभावात्।

समुक्तिरित्युच समवाय इत्येतस्य धातोः क्तिनि समुक्तिरित्येतद्रूपं भवति। योऽर्थः समवाय इति सोऽर्थः समुक्तिरिति समवाय इत्यर्थः।

ननु च ते इति सौत्रान्तिकवचनम्। नैते वाक्स्वभावा इति विस्तरेण वैभाषिकवचनम्। न च घोषमात्रेणेति नानक्षरात्मकेन घोषेणार्थोऽवगम्यते किं तर्हि वाङ्नाम्नि प्रवर्तते तन्नामात्मरूपतामिव वाच आपादयदर्थत्वं द्योतयति। तां वाचमुपादाय पदार्थं द्योतयति प्रत्यायतीत्यर्थः। सौत्रान्तिक आह। न वै घोषमात्रं वागिति विस्तरः। न वयं घोषमात्र वागिति वर्णयामः कश्चिदेव तु घोषो वर्णात्मकः। सैव वाग्योऽर्थेषु कृतावधिः। कृतमर्यादः। एतेन सङ्केतापेक्षः शब्दोऽर्थ प्रत्याययति न यः कश्चिच्छब्द इति दर्शयति कृतसङ्केतः शब्दोऽर्थ प्रत्याययतीति। तच्चैतच्छब्दाज्जात्याद्यभिधेयपदार्थकात् सिध्यतीत्ययमस्यार्थ इति। यद्युत्पादयतीति विस्तरः। वाचि सत्यां स चित्तविप्रयुक्त उत्पद्यत इतीष्यते तेनाशंक्यते यद्युत्पादयतीति। एवं चेत् सर्वघोषमात्रं वृषभादिगर्जितमपि नामोत्पादयिष्यति घोषस्वभावा वागिति कृत्वा। ब्रूयास्त्वं विशिष्ट एव घोषो यो वर्णात्मकः सम्भावितः स एव नामोत्पादयतीति। अत्रोच्यते। यादृशो वा घोषविशेष इष्यते नाम्न उत्पादकः स एवार्थस्य द्योतको भविष्यति। न तु स चित्तविप्रयुक्त इत्यभिप्रायः। अथ प्रकाशयतीति विस्तरः। घोषेनोत्पद्यमानेन स चित्तविप्रयुक्त उत्पद्यते स तं प्रकाशयत्यर्थद्योतनायेति यदीष्यते अत्रोच्यते। सर्वं घोषमात्रं नाम प्रकाशयिष्यतीति पूर्ववद्वाच्यम्। न खल्वपि शब्दानां समाग्रयमस्तीति। यदनेकाक्षरं नाम तदुत्पत्तिपरिकल्पोऽनेकशब्दापेक्षः। तेनैवं विचार्यते इहोच्चरिप्रध्वंसिनः शब्दाः तस्मादेषां युगपदवस्थानं नास्ति। एकस्य च द्रव्यसतो धर्मस्य भागशः खण्डश उत्पादो न युक्तो यथा घटपटादेः प्रज्ञप्तिसतः कल्प्यत इति कथमुतपादयन्ती वाङ्नामोत्पादयेत्। यदा तदुत्पादयति तदा कथं सा तदुत्पादयतीति वाक्यार्थः। वर्तमाना हि वाङ्नामोत्पादयन्त्युत्पादयेत् न च सर्वे वाक्छब्दक्षणा युगपद्वर्तमाना भवन्ति। यदा हि रूपमिति र शब्दो वर्तमानो भवति तदा ऊकारपकाराकारा अनागता भवन्ति यदा ऊकारो वर्तमानो भवति तदा रशब्दोऽतीतः पकाराकारावनागतौ । एवं पकाराकारावपि क्रमशो यदा वर्तमानौ भवतस्तदेतरे न वर्तमाना इति एवं सा वाङ्नाम नैवोत्पादयेत्। ब्रूयास्त्वं वर्तमानो रशब्दस्तस्य रूपनाम्नः पूर्व भागमुत्पादयति ऊशब्दोऽपि वर्तमानो द्वितीयं भागम् एवं यावदकारशब्दस्तस्य चतुर्थभागमुत्पादयतीति। तदयुक्तम्। एकस्य धर्मस्य भागश उत्पादासम्भवादिति। उक्तमेतत्। कथं तावदतीतापेक्षः पश्चिमो विज्ञप्तिक्षण उत्पादयत्यविज्ञप्तिमिति। प्रातिमोक्षसंवरसमादाने कायवाग्विज्ञप्तयः प्रवर्तन्ते तासां नास्ति सामग्रयम्। अथ चातीतकायवाग्विज्ञप्तिक्षणापेक्षः पश्चिमो विज्ञप्तिक्षणः प्रातिमोक्षसंवरसंगृहीतामविज्ञप्तिमुत्पादयति। एवमतीतशब्दक्षणापेक्षः पश्चिमो वाक्छब्दक्षणो नामोत् पादयतीति। एवं तर्हीति विस्तरः। पश्चिमशब्द एव नाम्न उत्पादात् योऽपि तमेवैकं शृणोति योऽपि पश्चिममेवैकं शब्दं शृणोति रूपमिति। सोऽप्यर्थ प्रतिपद्येत।  सो ऽपि रूपनामार्थं गृहणीयात्। तन्नामोत्पत्तेः। न चैवं प्रतिपद्यते। तस्मादयुक्तमेतत्। अथाप्येवं कल्प्येत इति विस्तरः। क्षणप्रतिभासा वर्णवाग् व्यञ्जनमपि तत्प्रतिभासमिति पक्षान्तरमुपन्यस्यते। वाग् व्यञ्जनं जनयति व्यञ्जनं तु नाम जनयतीति। व्यञ्जनं तु नाम जनयतीति। अत्रापि स एव प्रसङ्गो व्यञ्जनानां सामग्रयाभावात्। कथम् न खलु व्यञ्जानानां सामग्रयमस्ति। न चैकस्य धर्मस्य भागश उत्पादो युक्त इति कथमुत्पादयद् व्यञ्जनं नामोत्पादयेत् कथं तावदतीतापेक्षः पश्चिमो विज्ञप्तिक्षण उत्पादयत्यविज्ञप्तिम्। एवं तर्हि पश्चिम एव व्यञ्जने नाम्न उत्पादाद् योऽपि तमेवकं पश्चिमं व्यञ्जनोत्पादकं शब्दं शृणोति यो वा तदेवैकं पश्चिमं व्यञ्जनं शृणोति सोऽप्यर्थ प्रतिपद्येत। एष एव तु प्रसङ्गो नाम्नः प्रकाशकत्वे वाच इति। न खल्वपि शब्दानां सामग्रयमस्ति। न चैकस्य धर्मस्य भागशः प्रकाशो युक्त इति कथं प्रकशयन्ती वाङ् नाम प्रकाशयेत्। कथं तावदतीतापेक्षः पश्चिमो विज्ञप्तिक्षणः प्रकाशयत्यविज्ञप्तिम् एवं तर्हि पश्चिम एव शब्दे नाम्नः प्रकाशाद् योऽपि तमेवैकं शब्दं शृणोति। सोऽप्यर्थं प्रतिपद्येत। अथाप्येवं कल्प्येत। वाग् व्यञ्जनं प्रकाशयति व्यञ्जनं तु नामेति। अत्रापि स एव प्रसङ्गो व्यञ्जनानां सामग्रयभावात्। यस्य तर्हि शब्दमात्रं नामानेकाक्षरं च नाम भवति न च शब्दानां सामग्रयमस्ति तस्य कथं नामार्थं प्रत्यायति। सर्वाक्षरस्मृत्यनन्तरत्वादर्थप्रतिपत्तेः। अत एव च नान्तरीयकन्यायेन प्रथमाक्षरश्रवणकाल एव शेषाक्षरानुस्मृतिबलेन कश्चिदर्थं प्रतिपद्यत एवेति। व्यञ्जनस्यापि वाङ् नैवोतपादिका न प्रकाशिका युज्यत इति। पूर्व शब्दस्योत्पाद्य शब्दस्य व्यङ्ग्यं वा व्यङ्जनमभ्युपगम्य दोष उद्ग्राहितः इदानीं शब्दव्यतिरिक्तानुपलब्धेरूत्पाद्यव्यङ्गयत्वमपि तस्य नास्तीति तदेवोन्मूलयति। न तु शब्दानां सामग्रयभावादिति दोषो वक्तव्यः। न ह्यनेकशब्दापेक्षा व्यञ्जनप्रतिपत्तिः। अपि च घोषस्वभावत्वाद् वाचः सर्व घोषमात्र व्यञ्जनमुत्पादयिष्यति प्रकाशयिष्यति वा। यादृशो वा घोषविशेष इष्यते व्यञ्जनस्योत्पादकः प्रकाशको वा स एव व्यङ्जनार्थ करिष्यतीति। अथाप्यर्थसहजं नाम जात्यादिवदिष्येतेति विस्तरः। अथ सहजे नाम्नि कल्प्यमाने वाचोत्पाद्य प्रकाश्यं वा नामेत्येवमादिघोषप्रसङ्गो न भविष्यतीति मत्वा पक्षान्तरमिदं विकल्प्यते। यथा जात्यादीनि लक्षणान्यर्थसहजान्येवेष्यन्ते नातीतानागतस्यार्थस्य वर्तमानानि भवन्ति एवमेव यदि नामेष्येत। अतीतानागतस्यार्थस्य वर्तमानं नाम न स्यात्। ततश्चातीतानागतार्थव्यवहारो न शक्येत कर्तुम्। न ह्यतीतानागतं नामार्थं द्योतयितुमर्हति यथातीतानागता वाङ्नाम नोत्पादयितुं व्यञ्जयितुं चार्हति। नामबहुत्वे च न सहजं नाम परिच्छिद्येत। असंस्कृतानां चानुत्पत्तिमत्त्वात् सहजं नाम न स्यादित्यनिष्टिरेवेयम् न कर्तव्यैवेयमिष्टिरित्यभिप्रायः।

नामसनिश्रिता गाथा

इति। गाथा वाक्यम्। सा नामानि संनिश्रिता नामसूतपन्नेषु भावात् तस्मात् सन्ति नामानि वाक्यं चेति वचनावकाशोऽस्तीत्याह। तत्रार्थेषु कृतावधिः शब्दो नामेति विस्तरः। अर्थकृतावधिशब्दस्वभावानां नाम्नां रचनाविशेषो गाथा। विन्यासविशेष इत्यर्थः। पंक्तिवदिति। यथा पंक्तिः पिपीलिकादीनां रचनाविशेषो न ततो द्रव्यान्तरमुपपद्यते तद्वत्। एककालवर्तिनां पक्षिपीलिकादीनां रचनाविशेषः पंक्तिरित्युच्यते क्रमवर्तिनां तु शब्दानां न रचनाविशेषः तेन वैशम्यमिति वचनावकाशमभिसमीक्ष्य द्वितीयो दृष्टान्त उपन्यस्यते चित्तानुपूर्व्यवच्चेति। यथानुक्रमवर्तिभ्यश्चित्तेभ्यो नान्यदानुपूर्व्यमस्ति तद्वत्। अपार्थिका तत्प्रक्लप्तिरिति। निष्प्रयोजना नामपदयोरर्थानतरपरिकल्पनेत्यर्थः। न हि सर्वे धर्मास्तर्कगम्या इति। केचिदेव तर्कगम्या न सर्वे। ये हि तथागतग़्यानगोचरपतिता एव न ते तर्कगम्या इत्यभिप्रायः।

चित्तविप्रयुक्तप्रभेदविवक्षयेदमुपन्यस्यते अथ किं प्रतिसंयुक्ता इति विस्तरः। कस्मिन् धातौ प्रतिसंयुक्ताः किंप्रतिसयुक्ताः। सत्त्वाख्यासत्त्वाख्येति किमिति।

कामरूपाप्तसत्त्वाख्या निष्यन्दाव्याकृता

इति। कामरूपाप्ता एव सत्त्वाख्या एव निष्यन्दा एवाव्याकृता एव चेत्यवधारणम्। ते त्वनभिलाप्या इति। ते त्वारूयाप्ता नामकायादयोऽकथ्या वाचस्तत्राभावात्। कथं ते सन्तीति गम्यन्ते। यदा ते नाभिलप्यन्त्ते। तस्मात् कामरूपाप्ता एव नारूप्याप्ता इति वैभाषिकाः। सत्त्वाख्या एव च सत्त्वप्रयत्नाभिनिवृत्तवर्णादिस्वभावत्वात्। यश्च द्योतयति सतै ःसमन्वागत इति। कुतः पुनरियमाशङ्का अन्योन्यस्य तैः समन्वागमः स्यादिति। अस्येदं नामेति व्यपदेशात्। यथात् चक्षुरिन्द्रियेण द्रष्टैव समन्वागतो न दृश्यः सत्त्वः तथा द्योतयितैव तैः समन्वागतो न द्योत्यः। नैष्यन्दिकाः सभागहेतुजनितत्वात्। न विपाकजा इच्छातः प्रवृत्तेः। नौपचयिका अरूपिणां चयाभावादिति अनिवॄताव्याकृताश्च। न कुशला नाकुशलाः। कस्मात् समुछिन्नकुशलमूलकामवीतरागाणामपि तत्समन्वागमप्रसङ्गात्। इतरथा हि यदा समुछिन्नकुशलमूलः कुशलान् धर्मान् द्योतयति तदास्य कुशलधर्मसमन्वागमः स्यात्। एवं कामवीतरागस्याप्यकुशलधर्मद्योतने योज्यम्। तस्मादनिवृताव्याकृता एव अनिवृताव्याकृतानां कुशलाकुशलैरविरोधात्।। ४७।।

[ सभागता विपाकापि त्रैधातुक्याप्तयो द्विधा।
लक्षणानि च निष्यन्दः समापत्त्यसमन्वयाः।। ४८।। ]

तथा सभागतेति। तथाशब्देन सत्त्वाख्यनैष्यन्दिकाव्याकृतत्वमेव सभागताया अतिदिश्यते त्रिधात्वाप्ताया अपवादरूपेण वक्ष्यमाणत्वात्। सा त्विति। तुशब्दो विशेषणार्थः। नामकायादिभ्यो हि सभागता विशिष्यते। कथमित्याह

विपाकापि

इति। विपाकजापीत्यर्थः। न केवलमियं नैष्यन्दिकी। किं तर्हि विपाकजापीति। न त्वौपचयिकी तथैव चयाभावात्।

आप्तयोद्विधा

इति द्विधाशब्देन नैष्यन्दिकविपाकजत्वप्रभेदावेव प्राप्तीनामुच्येते प्रभेदान्तरत्वोक्तत्वात्। लक्षणानामपि जात्यादीनां तावेव प्रभेदावेवमेव वक्तव्यौ। असमन्वागमः अप्राप्तिः सानिवॄताव्याकृतापि न विपाकजा। न हि विपाकस्याप्यसमन्वागमो विपाको भवितुमर्हति। तथा ह्यकुशलस्य कुशलसास्रवस्य च विपाक इष्यते। न चानयोरप्राप्तिर्विपाको भवितुमर्हति। यो हि बुद्धिपूर्वकश्चेतनात्मकस्तत्संप्रयुक्तसमुत्थो वा धर्मः स विपाकहेतुः। न चासमन्वागम एवं बुद्धिपूर्वककर्मकृत इत्यतो न विपाकजः। शेषमेषां वक्तव्यमुक्तमिति। एषां प्राप्तिलक्षणसमापत्त्यसमन्वागमानां वक्तव्यं व्याख्यातव्यमुक्त व्याख्यातमित्यर्थः। किं पुनस्तच्छेषमिति। धात्वाप्तता सत्त्वासत्त्वाख्यता कुशलाकुशलाव्याकृतता च। कथं पुनस्तदुक्तम्। प्राप्तेस्तावद्धात्वाप्ततोक्ता

स्वधातुका तदाप्तानाम्

इति वचनात्। सत्त्वाख्यतोक्ता समन्वागमवचनात्। न ह्यसत्त्वसंख्यातेन संस्कृतेन सन्ति समन्वागमाः।

प्राप्त्यप्राप्ती स्वसन्तानपतितानाम्

इति वचनात्। कथं कुशलास्कुहलाव्याकृततोक्ता शुभादीनां शुभादिका इति वचनात्। लक्षणानामपि त्रैधातुकप्रतिसंयुक्ततोक्ता सर्व संस्कॄतलक्षणैः इति वचनात्। सत्त्वासत्त्वाख्यताप्यत एवोक्ता सर्वसंस्कृतसहभूत्वात्। अतव च कुशलाकुशलाव्याकृतताप्युक्ता

चैत्ता द्वौ संवरौ तेषां चेतसो लक्षणानि च।
चित्तानुवर्तिनः कालफ़लादिशुभतादिभिः।।

इति वचनात्। असंज्ञिसमापत्तेरूपधात्वाप्ततोक्ता

ध्यानेऽन्त्ये

इति वचनात्। कुशलताप शुभा इति वचनात्। सत्त्वाख्याताप्यत एव उपपद्यवेद्यैव इति वचनात्। निरोधसमापत्तेरप्यारूप्यधात्वाप्ततोक्ता भवाग्रजा इति वचनात् कुशलतापि शुभा इति वचनात् सत्त्वाख्यताप्यत एव कुशलसंस्कृतत्वात्। असमन्वागमस्य त्रिधात्वाप्ततोक्ता कामाद्याप्तामलानां च इति वचनात्। सत्त्वाख्यता समन्वागमवचनात्। अव्याकृतताप्युक्ता अक्लिष्टाव्याकृता प्राप्तिः इति वचनात्। शेषयोश्चासंज्ञिकजीवितयोः। किम् वक्तव्यमुक्तमिति वर्तते। आसंज्ञिकस्य रूपाप्तसत्त्वाख्यविपाकाव्याकृततोक्ता विपाकस्ते बृहत्फ़लाः

इति वचनात्। जीवितस्य त्रिधात्वाप्ततोक्ता

आयुर्जीवितम्

इति वचनात् आयुषश्च् त्रैधातुकत्वात्। सत्त्वाख्यतप्युक्ता विपाको जीवितम्

इति सूत्रात्। विपाको हि सत्त्वाख्य एव

विपाकोऽव्याकृतो धर्मः सत्त्वाख्यो व्याकृतोद्भवः

इति वचनात्। अत एवास्यानिवृताव्याकृतताप्युक्तेति। आचार्येण तु यद्दर्शनं वक्तव्यमुक्त तद्ववृतम्। कथं प्राप्त्यादीनां सत्त्वाख्यतोक्ता समन्वागम वचनादित्यादि।। ४८।।

[ कारण सहभूश्चैव सभागः संप्रयुक्तकः।
सर्वत्रगो विपाकाख्यः षड्व्धो हेतुरिष्यते।। ४९।। ]

क इमे हेतवः के च प्रत्यया इति। हेतूनां प्रत्ययानां च कः प्रतिविशेषः। न कश्चिदित्याह। तथा ह्युक्त भगवता। द्वौ हेतू द्वौ प्रत्ययौ सम्यग्दृष्टेरूत्पादाय। कतमौ द्वौ। परतश्च घोषोऽध्यात्मं च योनिशोमनस्कार इति। हेतुः प्रत्ययो निदानं कारणं निमित्तं लिङ्गमुपनिषदिति पर्यायाः। उपनिषच्छब्दस्तु कदाचिदुपांशौ कदाचित् प्रामुख्य इति। तद् यथापि सूर्योपनिषदो देवा इति उपांशुप्रयोग उपनिषत्प्रयोग इति। यद् प्रतिविशेषो नास्ति किमर्थ हेतूनां प्रत्ययानां च पृथङ्निर्देशः। अन्येनार्थविशेषेण हेतुनिर्देशोऽन्येन प्रत्ययनिर्देशः। हेतुनिर्देशे ह्यविग़्हभावसहभूत्वसदृशत्वादिरर्थविशेष उक्तः। प्रत्ययनिर्देशे तु हेतुसमनन्तरत्वादिभिरपरो।र्थविशेष उक्त इति। अथ कतमस्मिन् सूत्रे षड्देतव उक्ताः। सर्वो ह्यभिधर्मः सूत्रार्थः सूत्रनिकषः सूत्रव्याख्यानमिति। अन्तर्हितं तत् सूत्रमिति वैभाषिकाः। तथा ह्येकोत्तरिकागम आशताद्धर्मनिर्देश आसीत्। इदानीं त्वा दशकाद् दृश्यन्त इति कथयन्ति। अपि तु सन्ति प्रतिनियतहेतुवाचकानि सूत्राणि। तान्युदाहरिष्यामः। चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानमिति कारणहेतुः। जननाविघभावेन ह्येष व्यवस्थाप्यते। इमानि त्रीणि मार्गाङ्गानि सम्यग्दृष्टिमनुपरिवर्तन्ते। तैः सह जाता वेदना संज्ञा चेतना चेति सहभूहेतुः। अन्योन्यानुपरिवतनैककृत्यार्थेन ह्येष वयवस्थाप्यते। समन्वागमोऽयं पुद्गलः कशलैरपि धर्मैरकुशलैरपि यावदस्ति चास्याणुसहगतं कुशलमूलमसमुछिन्न यतोऽस्य कुशलमूलादन्यत् कुशलमूलमुत्पत्स्यते। एवमयं पुद्गल आयत्यां विशुद्धिधर्मा भविष्यतीति सभागहेतुः। एष ह्यतीतत्प्रत्युत्पन्नानां धर्माणां स्वफ़लनिर्वतनार्थेन व्यवस्थाप्यते। इयमुच्यते दर्शनमूलिका श्रद्धा वेत्यज्ञानसम्प्रयुक्ता। यद्विजानाति तत् प्रजानातीति सम्प्रयुक्तकहेतुः। एकालम्बनकृत्यार्थेन ह्येष व्यवस्थाप्यते मिथ्यादृष्टेः पुरूषपुद्गलस्य यच्च कायकर्म तद्दृष्टेर्यच्च वाक्कर्म या चेतना यः प्रणिधिर्ये च संस्कारास्तदन्वयाः सर्वेऽप्येते धर्मा अनिष्टत्वाय संवर्तन्तेऽकान्तत्वायाप्रियत्वायामन आपत्वाय। तत् कस्य हेतोः। दृष्टिर्ह्यस्य पापिका यदुत मिथ्यादृष्टिरिति सर्वत्रगहेतुः। एष हि सभागविसभागक्लिष्टधर्मप्रबन्धजनकार्थेन व्यवस्थाप्यते। इह कृतस्य कर्मणः कुशलस्य सास्रवस्य भावनामयस्य तत्रोत्पन्ना विपाकं प्रतिसंवेदयन्ते। संचेतनीयस्य कर्मणः कृतस्योपचितस्य विपाक इति विपाकहेतुः। एष हि विसदृशफ़लाक्षेपकत्वेन व्यवस्थप्यते। इत्यत एते षड्देतवः सूत्रत एव प्रसिद्धा इति।

षडविधो हेतुरिष्यते।

वैभाषिकैरित्यभिप्रायः।। ४९।।

स्वतोऽन्ये कारण हेतुः सहभूर्ये मिथः फ़लाः।
भूतवच्चित्तचित्तानुवतिलक्षणलक्ष्यवत्।। ५०।।

स्वतोन्ये

इत्यात्मनोऽन्य इत्यर्थः। स्वात्मनि वृत्तिविरोधात् स्वात्मा न हेतुः। सर्वधर्माः संस्कृतासंस्कृताः कारणहेतुरिति। कारणमेव हेतुः कारणहेतुः। यो हेतुविशेषसंज्ञया नोच्यते सामान्यं हेतुभावं परिगृह्योच्यते स कारणहेतुः। अन्येषु हि विशेषसंज्ञानिरूक्तेषु हेतुषु यो न विशेषितः कारणं च। तस्य तदेव विशेषणं भवति। यथा रूपायतनमुक्तमिति उत्पादं प्रत्यविग़्हभावावस्थानादिति। यस्मादुत्पादं प्रत्युत्पत्तिमतां स्वतोऽन्ये धर्मा अविग़्हभाव्नावतिष्ठन्ते तस्मात् कारणहेतुरिच्यते।

ननु च येऽस्याजानत इति विस्तरः। ज्ञानञ्चेन्नोदपतस्यत। उदपतस्यन्तास्रवास्त इति विस्तरो लृङोऽर्थः। तेनाह अस्याजानत अनुत्पन्नदर्शनभावनामार्गपुद्गलस्य ये दर्शनभावनामार्गवध्या रागादय आस्रवा उद्पत्स्यन्त। जानत उत्पन्नदर्शनभावनामार्गस्यास्य पुद्गलस्य तद्वध्यास्ते रागादयो नोत्पद्यन्ते। ततः किमित्याह ज्ञानमेषां विग़्हमुत्पत्तौ करोति दर्शनभावनामार्गसंगृहीतम्। सूर्यप्रभा च ज्योतिषाम् दर्शनस्य। विग़्हमुत्पत्तौ करोतीत्यधिकृतम्। एवं षति कथं स्वभाव्वर्ज्याः सर्वधर्माः संस्कृतस्य कारणहेतुर्भवन्ति। यस्मादास्रवोत्पत्तौ न ज्ञानं कारणहेतुः। ज्योतिर्दर्शनोत्पत्तौ च सूर्यप्रभा। एवं हि वक्तव्यं स्यात्। आस्रवोत्पत्तौ स्वभावज्ञानवर्ज्याः सर्वधर्माः कारणहेतुः ज्योतिर्दशनोत्पत्तौ च स्वभावसूर्यप्रभावर्ज्याः सव्रधर्माः कारणहेतुरिति। उत्पद्यमानस्याविग़्हभावावस्थानादिति। समग्रेषु हेतुप्रत्ययेष्वनन्तरभावी धर्म उत्पद्यमान उच्यते। तस्योत्पद्यमानस्योत्पादं प्रति सर्वधर्मा एवाविग़्हभावेनावतिष्ठन्ते न सर्वस्येत्यवगन्तव्यम्। ज्ञाने पुनः सति त आस्रवा नोत्पद्यमाना भवन्ति प्राप्त्याद्यभावेन प्रत्ययसामग्रयभावात्। ज्योतिर्दर्शनमपि प्रत्ययवैकल्यादेव नोत्पद्यमानमिति योज्यम्। अतस्तदवस्थमिदं स्वभाववर्ज्याः सर्वधर्माः संस्कृतस्य कारणहेतुर्भवन्तीति। तदयथाऽनुपद्रोतारं भोजकमिति विस्तरः। अनुपद्रवकरं ग्रामपतिमभिसन्धाय मनुष्या  ब्रयुः स्वामिना स्मः सुखिता इति। कस्मात् त एवं वक्तारो भवन्ति। यस्मादसावुपद्रवकरणे समर्थ उपद्रवं न करोति। तद्यथा निर्वाणस्यानुत्पत्तिधर्माणां च। किम् कथं हेतुभावः सर्वोत्पत्तौ। नारकादीनाञ्च नारकतिर्यगयोन्यादिकानामारूप्यस्कन्धोत्पत्तौ कथं हेतुभावः। नारकादिग्रहणं मनुष्यादीनां कदाचिद् भवेदुपदेशादिनेत्यभिप्रायः असन्तोऽपि ह्येवेति। असन्तोऽपि ह्येते निर्वाणादयस्तथैव। यथा सन्तो विद्यमाना विग़्ह कतुमसमर्थाः स्युः। अतोऽसतां सतां चैषां निर्वानादीनां विग़्हकरणे निर्विशिष्टत्वम्। असत्तुल्यास्त इत्यर्थः। असमर्थेऽपीति विस्तरः उपद्रवं कर्तुमसमर्थऽपि भोजके ग्रामीणास्तथा वक्तारो भवन्ति स्वामिना स्मः सुखिता इति। स एवात्र दृष्टान्तो यः प्राक्तनः। अतोऽनेनैव दृष्टान्तेन विघयितुमसमर्थानामपि निर्वाणादीनामविग़्हभावावस्थानात् कारणहेतुभावः सिद्धः। कस्मात् पुनरसत्तुल्यानां निर्वाणादीनां कारणहेतुत्वमिष्यते न पुनरसतां शशविषाणादीनाम्। असद्दृष्ठान्ताभावात्। न ह्यसन्तं भोजकमधिकॄत्य ग्रामीणा भवन्ति वक्तारः स्वामिना स्मः सुखिता इति न वा शशविषाणेन स्मः सुखिता इति। अचोद्यमेतत्। सामान्येनैव निर्देश इति। यश्च प्रधानः कारणहेतुर्यश्चाप्रधानः सर्वमधिकृत्योक्तम्

स्वतोऽन्ये कारण हेतुः

इति। यो हि प्रधानो जनकः स कारनहेतुः। स सुतरामविग़्हभावेनावतिष्ठते न केवलमितरः। आहारः शरिरस्योत्पादनेऽपि समर्थ इत्यधिकृतम्। आहारसमुदयात् कायसमुदय इति वचनात्। रसादिपरिणामयोगात्। बीजादयोऽङ्कुरादीनामिति। बीजाङ्कुरनालगण्डप्रसवादीनामुत्पादने समर्था इत्येवम्।

यस्त्वेवं चोदयतीति विस्तरः। कारणे सति कार्येन भवितव्यमिति मत्वा चोदयति। कस्मान्न सर्वस्योत्पादो युगपद् भवति। यथा च प्राणातिपातकारकः प्राणातिपातभाग् भवति तथा सर्वेऽपि कस्मान्न तद्भाजो भवतीति। न कारकभावेनेति। न मुख्यवृत्त्यास्य कारणत्वमिति दर्शयति। तेन सर्वस्य तावद् युगपदुत्पादो न प्राप्नोति प्रत्ययसामग्रयभावेनानुत्पद्यमानत्वात्। प्राणातिपातयोगश्च भवत्यकारकत्वात्। यस्तु कारकः स प्राणातिपातभागेव भवति।

मनोविज्ञानमुत्पद्यते कुशलाकुशलमिति। कुशलं मनोविज्ञानमिति निर्वाणलम्बनत्वात्। निर्वाणलम्बनात् कुशलादकुशलाद्वा मनोविज्ञानमुत्पद्यते। ततश्चक्षुर्विज्ञानमिति। एवं परम्परया तस्यापि निर्वाणस्य प्रत्ययीभावादस्ति सामर्थ्यम्। क्व चक्षुर्विज्ञान इत्यधिकृतम्। एवमन्यस्यापि प्रतिपत्तव्यमिति। नारकादीनामप्यारूप्यस्कन्धोत्पत्तौ सामर्थ्यम्। कथम् अमी वत नारकप्रेतादयः परमदुःखिता इति नारकाद्यालम्बनं मनोविज्ञानं कुशलमुत्पद्यते यतः क्रमेण शीले व्यवस्थितस्य भावनायां प्रयोगादारूप्यसमापत्तिरूपपत्तिश्चोपपद्यत इति।

सहभूर्ये मिथःफ़लाः

इति। हेतुरिति वर्तते। सहभूर्हेतुस्ते धर्मा भवन्ति ये धर्मा मिथः फ़ला ये परस्परफ़ला इत्यर्थः। सहभूहेतुः सहभुव इति नोक्तम्। कस्मात्। सन्ति हि धर्माः केचित् सहभुवो न तु सहभूहेतुः तद्यथा नीलाद्युपादायरूपं भूतैः सहभूर्भवति। न चान्योन्यं सहभूहेतुः। अतो मिथः फ़ला इत्यर्थपरिग्रहः। इदञ्च सावशेषं लक्षणम्। अतो वक्ष्यति विनापि चान्योन्यफ़लत्वेन धर्मोऽनुलक्षणानां सहभूहेतुः न तानि तस्येत्युपसंख्यातव्यमिति। उपसंख्यानकरणञ्च महाशास्त्रताप्रदर्शनार्थम्। सोपसंख्यानं हि व्याकरणादि महाशास्त्रं दृश्यते।

भूतवत्

इति। तद्यतार्थे वति प्रत्ययः। एवञ्च कृत्वा सर्वमेव संस्कृतं सहभूहेतुर्यथायोगमिति। यस्मात् संस्कृतलक्षणानि लक्ष्यस्य सहभूहेतुः सोऽपि तेषाम्। अतो यथायोगं यथासम्भवं सर्व संस्कृतं सह हेतुः संस्कृतस्य लक्षणवत्त्वात् लक्ष्यलक्षयोश्च सहभूहेतुत्वात्। नतु सर्व सर्वस्य। अपरलक्षणैरसहभूहेतुत्वादिति यथायोगग्रहणम्।। ५०।।

चैत्ता द्वौ संवरौ तेषां चेतसो लक्षणानि च।
चित्तानुवतिनः कालफ़लादिशुभतादिभिः।। ५१।।

तेषाञ्च ये जात्यादयश्चित्तस्यः चेति। तेषाञ्च चित्तसम्प्रयुक्तानां चेतानादीनां ध्यानसंवरस्यानास्रवसंवरस्य ये जात्यादयश्चत्वारो धर्माश्चित्तानुपरिवर्तिन उच्यन्ते।

कालफ़लादिशुभतादिभिः

इति। कालेन च फ़लादिभिश्च शुभतादिभिश्चेति कालफ़लादिशुभतादिभिः। कालतस्तावदिति विस्तरः। चित्तेन सहते एकोत्पादा एकस्थितय एकनिरोधाश्च तद्भावः तया एकोत्पादस्थितिनिरोधयेति एकमध्वानं पतिताः एकाध्वपतिताः तद्भावः तेन। एकाध्वपतितत्वेन चतुर्थेनेति। कालतश्चित्तमनुपरिवर्तन्ते एकफ़लतयैकविपाकतयैकनिष्यन्दतया च चित्तमनुपरिवर्तन्ते। फ़लमिह पुरूषकारफ़लं विसंयोगफ़लं च विपाकफ़लनिष्यन्दयोः पृथग्गृहीतत्वात्। अधिपतिफ़लं तु सर्वसाधारणत्वान्न गण्यते। अयं चैकशब्दः संख्याने साधारणे वा एकफ़लतयेत्यादि पूर्वकस्त्वेकशब्दः सहार्थे चित्तेन सहोत्पादस्थितिनिरोधतयेत्यर्थः। न ह्यत्र संख्यानार्थः सम्भवति। न हि यश्चित्तस्योत्पादः स एव चित्तानुपरिवर्तिनाम् यो वा तेषां स चित्तस्येति। एवं दशभिः कारणैरिति। कालतश्चतुर्भिरेकोत्पादतयैकस्थितितयैकनिरोधतयैकाध्वपतितत्वेन चेति। ननु चैकोत्पादस्थितिनिरोधतयेत्येतेनैवैकाध्वपतितत्वमुक्तम् न सर्वमुक्तम्। अनुत्पत्तिधर्मिणि हि चित्ते ते चित्तानुपरिवर्तिन एकाध्वपतिता भवन्ति नैकोत्पादस्थितिनिरोधा इति। तस्मादेकाध्वपतित्वं चतुर्थं कारणमुच्यते। एकफ़लविपाकनिष्यन्दतयेति त्रिभिः कुशलाकुशलाव्याकृततया चेति पुनस्त्रिभिरिति दशभिः। पर्यायवृत्तिं जाति वा प्रत्येवमुक्त दशभिरिति। न ह्येकत्र चित्ते दश कारणानि भवन्ति। न हि कुशले चेतस्यकुशलाव्याकृते कारणे भवतः न चाकुशलाव्याकृते चित्त अनुत्पत्तिधर्मिणि। एकाध्वपतितत्वेनैकफ़लनिष्यन्दताभ्यामव्याकृतत्वेन चेति चतुर्भिः। उत्पत्तिधर्मिणि त्वेभिरेव चतुर्भिरेकोत्पादस्थितिनिरोधाभिश्चेति सप्तभिः। अनास्रवेऽप्येवम्। अव्याकृततां तु केवलमपनीय कुशलता प्रक्षेप्तव्या। अकुशले तु कुशलसास्त्रवे चानुत्पत्तिधर्मिण्यकुशलतया कुशलतया च यथावस्त्वेकाध्वपतितत्वेनैकफ़लविपाकनिष्यन्दताभिश्चेति पञ्चभिः। उत्पत्तिधर्मिणि तु तस्मिन्नेभिरेव पञ्चभिरेकोत्पादस्थितिनिरोधाभिश्चेत्यष्टाभिः।

सर्वाल्पं चित्तमिति। सर्वेभ्यो यदल्पपरिवारं चित्तं तत् सर्वाल्पमित्युच्यते। तत्पुनः कतमत्। द्वितीयध्यानात् प्रभृत्यूर्ध्वमनिवॄताव्याकृतं चित्तम्। तत्र वित्र्कविचारौ न स्तः। न चापि कुशलादिमहाभूमिका केवलमहाभूमिका एव दश भवन्ति। तल्लक्षणानामिति। दशमहाभूमिकलक्षणानाम् न तदनु लक्षणानाम् विप्रकृष्टत्वात्। स्वानुलक्षणानां तु भवति सन्निकृष्टत्वात्। अत आह अष्टानाञ्ह स्वलक्षणानुलक्षणानामिति। स्वान्यनुलक्षणानि स्थापयित्वेति लक्षणेष्वनुलक्षणानां व्यापारः न विशिष्टे च चित्ते। न्यूनानि तानि। राजायेते हि चित्तं लक्षणानुलक्षणानाम्। अतश्चित्तमनु लक्षणानां सहभूहेतुः न तु तानि चित्तस्य। लक्षणानां तु चित्तेऽस्ति व्यापार इति तानि चित्तस्य सहभूहेतुर्भवन्ति।

चतुर्दशेत्यपर इति। यथानुलक्षणानां नास्ति धर्मे व्यापारः। किं तर्हि धर्मस्य

। अतो न तेषां हेतुभावो धर्म इष्यते। तथा सम्प्रयुक्तेष्वेव तलक्षणानां व्यापारो न चित्त इति न तानि चित्तस्य सहभूहेतुः। चित्त तु तेषां राजकल्पमिति सहभूहेतुर्भवतीत्यपरेषामभिप्रायः। प्रकरणग्रन्थो ह्येवं विरूध्येत दशानां महाभूमिकानां यानि चत्वारिंशल्लक्षणानि तानि यदि चित्तस्य सहभूहेतुर्नेष्येरन्। यस्मात् प्रारणेषूक्तम् चत्वार्यार्यसत्यानि दुःखसत्यं यावन्मार्गसत्यम्। एषां कति सत्कायदृष्टिहेतुकानि न सत्कायदृष्टेर्हेतुः कति सत्कायदृष्टेर्हेतुर्न सत्कायदृष्टिहेतुकानि कति सत्कायदृष्टिहेतुकानि सत्कायदृष्टेश्च हेतुः कति नैव सत्कायदृष्टिहेतुकानि न सत्कायदृष्टेर्हेतुरिति प्रश्नेकृते विसर्जनं करोति। द्वे नैव सत्कायदृष्टिहेतुके न सत्कायदृष्टेर्हेतुः निरोधसत्य मार्गसत्यं च। द्वयोर्भेदः। दुःखसमुदयसत्ययोर्विभङ्गः। कथमिति। दुःखसत्यं स्यात् सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर्हेतुः स्यात् सत्कायदृष्टिहेतुकं सत्कायदृष्टेश्च हेतुः कति नैव सत्कायदृष्टिहेतुकानि न सत्कायदृष्टेर्हेतुरिति प्रश्नेकृते विसर्जनं करोति। द्वे नैव सत्कायदृष्टिहेतुके न सत्कायदृष्टेर्हेतुः निरोधसत्य मार्गसत्यं च। द्वयोर्भेदः। दुःखसमुदयसत्ययोर्विभङ्गः। कथमिति। दुःखसत्यं स्यात् सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर्हेतुः स्यात् सत्कायदृष्टिहेतुकं सत्कायदृष्टेश्च हेतुः स्यान्नैव सत्कायदृष्टिहेतुकं सत्कायदृष्टेर्हेतुरिति त्रिकोटिकम्। द्वितीया कोटिर्नास्ति। तत्र सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर्हेतुः अतीतप्रत्युत्पन्नान् दुःखदर्शनप्रहातव्याननुशयांस्तत्संप्रयुक्त च दुःखसत्यं स्थापयित्वा। अतीत प्रत्युत्पन्नान् समुदयदर्शनप्रहातव्यान् सर्वत्रगाननुशयान् तत्संप्रयुक्त च दुःखसत्यं स्थापयित्वा। अनागतं च सत्कायदृष्टिसंप्रयुक्तं दुःखसत्यं स्थापयित्वा। सत्कायदृष्टेस्ततसंप्रयुक्तानां च धर्माणां जातिं जरां स्थितिमनित्यतां च स्थापयित्वा यत्तदन्यत् क्लिष्टं दुःखसत्यम्। सत्कायदृष्टिहेतुकं सत्कायदृष्टेश्च हेतुर्यदेतत् स्थापितमिति। नैव सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर्हेतुरक्लिष्ट दुःखसत्यम्। यथा दुःखसत्यमेवं समुदयसत्यमिति प्रकरनग्रन्थः। तस्यार्थ विवृनमहेयेऽतितप्रत्युत्पन्ना दुःखदर्शनप्रहातव्या दशानुशयाः सत्कायदृष्टयादयः ते स्थापिताः। तैर्दशभिरनुशयैः सम्प्रयुक्त दुःखसत्यं वेदनादिकं स्थापितम्। किमत्रास्थापितम्। एव एवानागता दशानुशयस्तत्सम्प्रयुक्तं च वेदनादिकं दुःखसत्यं वर्जयित्वानागतसत्कायद्ऱ्इष्टिसम्प्रयुक्त दुःखसत्यम्। तद्धि स्थापयिष्यते अनागतं च सत्कायदृष्टिसम्प्रयुक्त दुःखसत्यं स्थापयित्वेति वचनात्। तत्प्राप्तिजात्यादयश्चास्थापिता वर्जयित्वा सत्कायदृष्टेस्तत्सम्प्रयुक्तानां च धर्माणां जात्यादीन्। ते हि स्थापयिष्यन्ते सत्कायदृष्टेस्तत्सम्प्रयुक्तानां च धर्मणां जाति जरां स्थिति मनित्यतां च स्थापयित्वेति वचनात्। तदेवं तावदनागतोऽनुशयस्ततसम्प्रयुक्त च स्थापितादन्यत्। तदन्यत् क्लिष्टमित्युच्यते सत्कायदृष्टिहेतुकम्। सत्कायदृष्टिर्हेतुरस्येति सत्कायदृष्टिहेतुकम्। सभागहेतुना सर्वत्रगहेतुना चातीतप्रत्युत्पन्नसत्कायदृष्टिहेतुकत्वात्। न तु सत्कायदृष्टेर्हेतुः। न ह्यनागतो धर्मः सभागहेतुः सर्वत्रगहेतुर्वा व्यवस्थाप्यते। न च सहभूहेतुः संप्रयुक्तकहेतुर्वात्र सम्भवति। न हि सत्कायदृष्टिः सत्कायदृष्ट्या श भवति सम्प्रयुज्यते वा एकस्मिन् कलापे द्वितीयसत्कायदृष्टभावात्। न चाप्यन्तग्राहदृष्टयादिभिः सह भवति सम्प्रयुज्यते वा पृथक्कलापत्वात्। विप्रयुकास्तेषामतीतप्रत्युत्पन्नानां दुःखदर्शनहेयानां प्राप्तयो जात्यादयश्चस्थापिताः। ते स्थापितकादन्ये क्लिष्टाश्च। तेऽपि सर्वत्रगहेतुना पूर्वोत्पन्नसत्कायदृष्टिहेतुकाः। न तु ते सत्कायदृष्टेर्हेतुः। कस्मात्। प्राप्तयस्तावद् वृषप्रपाटिकावत् स्वसर्वत्रगेभ्यो बहिरवस्थितत्वान्न सर्वत्रगा व्यवस्थाप्यन्ते। सर्वत्रगजात्यादयोऽपि यद्यपि सर्वत्रगा इष्टाः

प्राप्तिवर्ज्याः सहभुवो येऽप्येभिस्तेऽपि सर्वगाः

इति सिद्धान्तवचनात्। न तु ते चित्तचैत्तवत् पश्चिमानां चित्तचैत्तानां सर्वत्रगहेतुः। स्वलक्ष्यव्यापारपरत्वेनाप्राधान्ये सति चित्तचैत्तान्तरेषु सर्वत्रगत्वे सति पुरूषकाराभावत्। सर्वत्रगव्यवस्थानं तु तेषां जात्यादीनां स्वसन्तानसर्वत्रगहेतुत्वात्। तस्मान्न ते सत्कायदृष्टेर्हेतुरिति शास्त्रार्थो लक्ष्यते। सभागहेतुस्तर्हि कस्मान्न भवति। सभागहेतुव्यवस्था हि पुरूषकारापेक्ष्यापि। यस्य हि धर्मस्य जनने यः पुरूषकारवान् धर्मः स तस्य सभागहेतुः। इदमेव च ज्ञापकं यथेष्टं सभागहेतुव्यवस्थेति। विभाषायामप्येवमुक्तम्। चतुश्च चक्षुषः सभागहेतुर्देवदत्तचक्षुषो देवदत्तचक्षुः सभागहेतुः। दक्षिणं दक्षिणस्य वामं वामस्य यावच्चक्षुर्द्रव्यं चक्षुर्द्रव्यान्तरस्य। बाह्येष्वपि यवो यवस्य शालिः शालेरिति। यदि हि सर्वचक्षुः सर्वस्य चक्षुषः सभागहेतुरिष्येत अव्याकृतत्वं तुल्यमिति कृत्वा नैवं विशेषणमुच्येत। तस्मान्न ते सत्कायदृष्टेः सभागहेतुरित्यवगन्तव्यम्। अपरे त्वाहुः सावशेषमेतद् भाष्यम्। तस्मात् सजात्यादिकास्तेऽनुशयास्तत्सम्प्रयुक्ताश्च धर्मः स्थापिता वेदितव्याः। ये हि धर्मस्य तत्सम्प्रयुक्तानां च जात्यादयः सहभूहेतुर्भवन्ति तैः सार्धं ते धर्माः पूर्वोत्पन्नाः सर्वत्रगहेतुः सभागहेतुर्वा भवन्तो भवन्ति।

प्राप्तिवर्ज्याः सहभुवो येऽयेभिस्तेऽपि सर्वगाः

इति सिद्धान्तात्। अत एवोक्तम् सत्कायदृष्टेस्तत्संप्रयुक्तानां च धर्माणां जाति जरां स्थितिमनित्यतां च स्थापयित्वेति। तस्माज्जात्यादयोऽपि केचित् स्थापिताः। अतोऽन्यदस्थापितमित्यवगन्तव्यम्। युक्तिरिह द्रष्टव्या। यतो युक्तिस्ततोऽवगन्तव्यम्। समुदयदर्शनप्रहातव्या अपि ये सर्वत्रगा अतीतप्रत्युत्पन्नास्तत्सम्प्रयुक्त च दुःखसत्यं वेदनादिकम् तत् स्थापितम्। किमन्यत् समुदयदर्शनप्रहातव्यमस्थापितम्। ये सर्वत्रगा अनागतास्तत्सम्प्रयुक्त च दुःखसत्यं वेदनादिकम् तदस्थापितम् येऽप्यसर्वत्रगा रागादयस्त्रैयध्विका अपि याश्च तेषां सर्वेषां प्राप्तयः न ते स्थापिताः। जात्यादयस्त्वेकस्मिन् पक्षे नैव स्थापिताः पक्षान्तरे तु केचित् स्थापिताः केचिन्न स्थापिताः। तदेतत् सर्वमस्थापितं समुदयदर्शनप्रहातव्यं सर्वत्रगहेतुना सत्कायदृष्टिहेतुकं भवति पूर्वोत्पन्नसत्कायदृष्टिहेतुकत्वात्। न तु सत्कायदृष्टेर्हेतुः सर्वत्रगाणां तत्सहभुवां चानागतत्वेनासर्वत्रगहेतुत्वात्। असर्वत्रगाणां च रागादीनां तत्सहभुवां च वेदनदीनां जात्यादीनां चैकस्मिन् पक्षे सर्वप्राप्तीनां चासर्वत्रगत्वात्। निरोधमार्गदर्शनप्रहातव्या भावनाप्रहातव्याश्च क्लिष्टा अनुशयतत्सम्प्रयुक्तत्समुत्थजात्यादिस्वभावा अस्थापिताः। ते सर्वत्रगहेतुना सतूकायदृष्टिहेतुकाः। न तु ते सत्कायदृष्टेर्हेतुः सवत्रगहेतुत्वासम्भवादितरहेत्वयोगाच्च। सत्कायदृष्टिहेतुक सत्कायदृष्टेश्च हेतुर्यदेतत् स्थापितमिति। येऽतीतप्रत्युत्पन्ना दुःखदर्शनप्रहातव्या दशानुशयास्तत्संप्रयुक्त च दुःखसत्य यच्च पक्षान्तरे जात्यादिकं तत् सभागहेतुना सर्वत्रगहेतुना च पूर्वसत्कायदृष्टिहेतुकम्। ये च सत्कायदृष्टिजात्यादयस्तत्सम्प्रयुक्तजात्यादयश्च ते सहभूहेतुना पूर्वोक्ताभयं च हेतुभ्यां तद्धेतुकाः। ये पुनः सत्कायदृष्टिसम्प्रयुक्तास्ते सम्प्रयुक्तहेतुना च पूर्वाक्तैश्च हेतुभिस्तद्धेतुकाः। सत्कायदृष्टेश्च ते तथैव हेतुः। येऽप्यतीतप्रत्युत्पन्नाः समुदयदर्शनप्रहातव्याः सर्वत्रगास्तत्सहभुवश्च वेदनादयो जात्यादयश्च पक्षान्तरे ते सर्वत्रगहेतुनैव सत्कायदृष्टिहेतुकाः सत्कायदृष्टेश्च हेतुः। पूर्वोत्पन्ना हि सत्कायदृष्टिस्तेषां हेतुः ते च पूर्वोत्पन्नाः सत्कायदृष्टेरिति। असंक्लिष्ट तु दुःखसत्य कुशलमनिव्ऱ्इताव्याकृतं च न सत्कायदृष्टिहेतुकं न च सत्कायदृष्टेर्हेतुः पञ्चविधहेतुत्वासम्भवात्। जनको ह्यत्र हेतुरधिक्रियते न कारणहेतुः साधारणत्वात्। विपाकहेतोश्चेहायोगः। सत्कायदृष्टेर्निवृताव्याकृतत्वेनाविपाकत्वात्। तत्र यदेतदुक्त सत्कायदृष्टेस्तत्सम्प्रयुक्तानां च धर्माणां जाति जरां स्थितिमनित्यतां च स्थापयित्वेति तद्विरूध्येत। यदि हि सत्कायदृष्टिसम्प्रयुक्तधर्मजात्यादयो न सहभूहेतुर्भवेयुः न ते स्थाप्येरन्। ये हि स्थापितास्ते सत्कायदृश्टिहेतुकाः सत्कायदृष्तेश्चहेतुरिति। ये तर्हि तत्सम्प्रयुक्तानामित्येतन्न पठन्ति तेषां कथं प्रकरणग्रन्थो विरूध्येतेत्यध्याहार्यम्। ते हि सत्कायदृष्टेर्जाति जरां स्थितिमनित्यतां च स्थापयित्वेत्येवं पठन्ति। तत्सम्प्रयुक्तेष्वेव तल्लक्षणानि व्याप्रियन्ते न सत्कायदृष्टौ। अतस्तानि तस्या न सहभूहेतुरिति तेषामेवंवादिनामभिप्रायः। तैरप्येतत् पठितव्यमिति। एवमपाठे दोष इत्यतस्तैरेतत् परं पठितव्यम्। तत्संप्रयुक्तानां चेति। तत्सम्प्रयुक्ता हि सत्कायदृष्टेरात्मकल्पा एकालम्बनकृत्याद्यर्थत्वात्। तस्माद् यथा तेषु तत्सम्प्रयुक्तेष्वेतानि लक्ष्णानि सहभूहेतुस्तथा सत्कायदृष्टावपीति वैभाषिकाभिप्रायः। अर्थतो वैवं बोद्धव्यमिति। सत्कायदृष्टिग्रहणेन सत्कायदृष्टिसम्प्रयुक्तानामपि ग्रहणम्। अधिकारानुवृत्तेर्वा तेनैवं बोद्धव्यम् तत्सम्प्रयुक्तानाञ्चेति। काश्मीरा न बहिर्देशका इति दर्शयति।

सहम्वपि तदिति। चैत्तादि। चित्तस्य हि चैत्तास्तानि च लक्ष्णानि सहभूहेतः सहभूनि च तानि भवन्ति। धर्मस्यानुलक्षणानीति विस्तरः। धर्मस्य जातिजात्यादीनि सहभूनि। न सहभूहेतुना हेतुर्विप्रकृष्टत्वात्। जात्यादिषु हि तेषां व्यापारो न धर्मे। तानि चान्योन्यम्। तानि चानुलक्षणान्यन्योन्यं  सहभूनि जात्यादिषु व्यापारात्। न सहभूहेतुना हेतुः। धर्मस्तु तेषां सहभूहेतुर्भवति प्राधान्यात्। स हि राजेव यात्रायां सभृत्यस्तदभृत्यवर्गं सर्व स्वकलापमाकर्षन्निव प्रवर्तते। चित्तानुपरिवर्त्यनुलक्षणानि चेति। चित्तानुपरिवर्तिनां चैत्तध्यानानास्रवसंवराणाम् अनुलक्षणानि च तथैव चित्तस्य सहभूनि। न तु सहभूहेतुना हेतुः। एवशब्दोऽर्थप्रदर्शनार्थः। तानि चान्योन्यमनुपरिवर्त्यनुलक्षणानि सहभूनि न तु सहभूहेतुना हेतुः। सप्रतिघं चोपादायरूपमन्योन्यमष्टद्रव्यकादिषु परमाणुषु रूपशब्दगन्धरसस्प्रष्टव्यात्मकं सहभूः न तु सहभूहेतुना हेतुः। सप्रतिघग्रहणमप्रतिघनिरासार्थम्। अप्रतिघ हि ध्यानानास्रवं संवररूपं सप्तविधाविज्ञप्तिस्वभावं परस्परं सहभूः। सहभूहेतुना च हेतुरिति। सर्व च भूतैरिति। सप्रतिघ चाप्रतिघ चोपादयारूपं यथास्वभूतैः सहभूः न तु सहभूहेतुना हेतुः। प्राप्तयश्च सहजाः प्राप्तिमतो धर्मस्य सहोत्पादेऽपि न सहभूहेतुः पूर्वपश्चात्कालजात् प्राप्तीनाम्। असहभूत्वादेव शभूहेतुत्वाप्रसङ्ग इति सहज इति विशेषणम्। कस्मादित्याह अनेकफ़लविपाकनिष्यन्दत्वादिति। यस्मात्तासां प्राप्तिमता शा नैकं फ़लं पुरूषकारफ़लं वृक्षप्रपाटिकावत् पृथकस्रोतत्वात् नाप्येकं विपाकफ़लम्

नाक्षेपिके समापत्ती अचित्ते प्राप्तयो न च

इति वचनात्। न चाप्येकनिष्यन्दफ़लं प्राप्तीनां हि प्राप्तय एव निष्यन्दफ़लं पृथक्सन्तानत्वात्। चित्तानुपरिवर्तिनामेवैकं फ़लं विपाकनिष्यन्दफ़लं चेष्यते न प्रप्तीनाम्। न चैत्ताः सहचरिष्णवः सहचरणशीलाः।

सर्वमप्येतत् स्यादिति। यत्तावत् सहभूहेतुना हेतुरिति विस्तरेण यदुक्तम्। बीजादीनामिति आदिशब्देनाङ्कुरनालकाण्डादीनां ग्रहणम्। एष न्यायो न दृष्ट इति। सहोत्पन्नयोर्हेतुफ़लभावलक्षणो न्यायो न दृष्टः। पूर्वं हि बीजं पश्चादङ्करः पूर्वमभिघातः पश्चाच्छब्द इति। तद्यथा प्रदोपप्रभयोरङ्कुरच्छाययोश्च। किम् हेतुफ़लभाव इति वर्तते। प्रदीपः सप्रभ एवोत्पद्यते न निष्प्रभः। अङ्कुरस्यातपे उत्पद्यमानस्यैव छाया भवति। अथ च प्रदीपः प्रभायाः सहोत्पन्नाया हेतुर्भवति छायायाश्चाङ्करः। तद्वत्। संप्रधार्य तावदिति विस्तरः। असिद्धो दृष्टान्त इति परस्याभिप्रायः। यस्मात् पूर्वोतपन्नैव वर्तिस्नेहादिका समाग्रीसप्रभस्य प्रदीपस्योत्पत्तौ हेतुः। प्रदीपस्य प्रभायाश्च सैव सामग्री हेतुः न तु प्रदीपः प्रभाया हेतुरिष्यते। एवं सच्छायस्याङ्कुरस्योत्पत्तौ पूर्वोत्पन्नैव सामग्री बीजातपादिका वाच्या। नियमत इति। यस्य धर्मस्य भावे यस्य धर्मस्य भावो नियमेन न यदृच्छया स हेतुः इतरो हेतुमान् कार्यधर्म इत्यर्थः। सहभुवां च धर्माणाम् तद्यथा भूतानां चतुर्णा चित्तचैत्तानुपरिवर्तिनां लक्ष्य लक्षणानां चैकस्य भावे सर्वेषां भाव एकस्य चाभावे सर्वेषामभाव इति युक्तो हेतुफ़लभावः।

स्यात्तावत् सहोत्पन्नानामिति विस्तरः। सहोत्पन्नानां हेतुफ़लभाव इष्यते। तद्यथा चक्षुः सहोत्पन्नमपि चक्षुर्विज्ञानेन तदुत्पत्तौ हेतुर्भवति। परस्परं तु कथ। न हि चक्षुर्विग़्यानं तस्य चक्षुषो हेतुर्भवतीति। आह अत एव कारणाद् भावाभावयोस्तद्वत्त्वादित्यर्थः। चैत्तादीनां भावे चित्तस्य भावादभावे चाभावात् तेऽपि चित्तस्य हेतवो भवन्तीति। एव तर्हीति विस्तरः। यद्येकस्य भावे सर्वेषां भावः सर्वेषा चाभाव एकस्येत्यतोऽन्योन्यं हेतुफ़लभावः।

कामेऽष्टद्रव्यकः

इत्यविनाभाविनोऽपि रूपरसगन्धस्प्रष्टव्यस्वभावस्योपादायरूपस्यान्योन्यमेष प्रसङ्गः। अन्योन्यसहभूहेतुप्रसङ्ग इत्यर्थः। भूतैश्च सार्धमुपादायरूपस्य सहभूहेतुत्वप्रसङ्गः। चित्तानुलक्षणादीनां चेति ऽदिशब्देन चित्तानुपरिवर्त्यनुलक्षणानां च। चित्तादिभिरिति। अत्राप्यादिशब्देन चित्तानुपरिवर्तिभिश्चान्योन्यहेतुप्रसङ्गः। तेनैव चादिशब्देन प्राप्तिभिः सहजाभिः प्राप्तिमतामेष प्रसङ्गै ति वक्तव्यम्। त्रिदण्डान्योन्यबलावस्थानवदिति। अन्योन्यबलेनावस्थानमन्योन्यबलावस्थानम् त्रिदण्डस्यान्योन्यबलावस्थानं त्रिदण्डान्योन्यबलावस्थानम् तद्वत् त्रिदण्डस्य दण्डत्रयस्यान्योन्यबलेनावस्थानम् एवं सहभुवां चित्तचैत्तचैत्तादीनां हेतुफ़लभावः सिध्यति। मीमांस्य तावदेतदिति विस्तरः। परीक्ष्यमेतत् न सिद्धोऽयं दृष्टान्त इत्यभिप्रायः। सहोत्पन्नास्त्रयो दण्डास्तेषां बलम्। तेन सहोत्पन्नबलेन किमेषां दण्डानामवस्थानम् आहोस्वित पूर्वसमाग्रीवशात्तथोतपादः। आहोस्विद् यथैवैषामवस्थितः पूर्वभूतभौतिकसमुदायलक्षणसामग्रीवशात् सहभावस्तथैव पश्चादपि परस्पराश्रितानामुत्पाद इति। अन्यदपि च तत्र किंचिद् भवति नान्योन्यबलमेवेति दर्शयति। किं तदित्याह। सूत्रकं दण्डत्रयं निवेशितम् शङ्कुको वा कीलको वेत्यर्थः। पृथिवी वा धारिकाधस्तात्। एषामपि नामेति। एषामपि सहभुवामन्येऽपि सभागसर्वत्रगविपाककारणा हेतवः सूत्रकादिस्थानीया भवन्तीति सिद्धः सहभूहेतुः।। ५१।।

[ सभागहेतुः सदृशाः स्वनिकायभुवोऽग्रजाः।
अन्योन्यं नवभूमिस्तु मार्गः समविशिष्टयोः।। ५२।। ]

क्लिष्टाः क्लिष्टानामिति। क्लिष्टा अकुशला निवृताव्याकृताश्च। क्लिष्टत्वसामान्येन सभागहेतुत्वमेषाम्। तेनाकुशला अकुशलानां सभागहेतुः निवृताव्याकृता निवृताव्याकृतानाम्। अकुशला निवृताव्याकृतानाम्। निवृताव्याकृताश्चाकुशलानां सभागहेतुरिति दर्शितं भवति। अव्याकृता अव्याकृतानामिति। अनिवृताव्याकृता अनिवृताव्याकृतानामित्यर्थः।

रूपमव्याकृतमव्याकृतो रूपस्कन्धः पञ्चानां स्कन्धानां सभागहेतुः। चत्वारस्तु स्कन्धा वेदनादयो न रूपस्य सभागहेतुर्विशिष्टत्वात्। न हि विशिष्टोन्यूनस्य सभागहेतुरिष्यते।

समविशिष्टयोः

इति वचनात्। कुशलाकुशलं तु रूपमाभिसंस्कारिकत्वात् समं विशिष्ट चेति चत्वारस्तस्य सभागहेतुर्भवन्ति।

कललं कललादीनामिति। पञ्च गर्भावस्थाः कलालर्वुदपेशीघनप्रशाखावस्थाः पञ्च जातावस्था वालकुमारयुवमध्यवृद्धावस्थाः इत्येते दश दशानामवस्थानां सभागहेतुः। कललं कललान्तरस्य यावद् वार्धस्य। अर्बुदमर्बुदस्य यावद्वार्धस्य। एवं यावद्वार्धं वार्धस्यैव। एकैकापहासेन एकस्मिन्निकायसभागे वक्तव्यम्। अन्येपु समानजातीयेषु निकायसभागेषु यदा मनुष्यजन्मनो मनुष्यजन्मैवोत्पद्यते तदा दशाप्यवस्था दशानामप्यवस्थानाम्। वृद्धावस्थापि यावद्दशानामवस्थान्तराणाम्। सा हि वृद्धावस्था क्षणान्तरे तज्जन्मवृद्धावस्थायाः सभागहेतुः। अन्त्या तु जन्मान्तरकललादीनां दशानामप्यवस्थानां सभागह्तुरित्यवगन्तव्यम्। बाह्येष्वपि यवो यवस्येति विस्तरः। यवो यवस्य सभागहेतुर्न शालेः शालिः शालेरेव न यवस्य इत्यनेन तुल्येऽयव्याकृत्वे स्वसन्तान एव सभागहेतुत्व नान्यसन्ताने जननशक्तयभावादिति दर्शयति।

अतीतानि महाभूतान्यनागतानां महाभूतानां हेतुरधिपतिरिति। हेतुप्रत्ययोऽधिपतिप्रत्ययश्चेत्यर्थः। अयुगपद्भावान्न सहभूहेतुः अत एवाचित्तचैत्तात्वाच्च न सम्प्रयुक्तकहेतुः असर्वत्रगत्वान्न सर्वत्रगहेतुः अव्याकृतत्वान्न विपाकहेतुः पारिशेष्यात् सभागहेतुरेवेत्यवगम्यते। यदि सदृशाः सदृशानां सभागहेतुः एवं पश्चादुत्पन्नोऽपि पूर्वोत्पन्न्स्य सभागहेतुः प्राप्नोति सहोत्पन्नोऽपि सहोत्पन्नस्य अनुत्पन्नोऽप्यनुत्पन्नस्य। इत्यत आह। तेऽपि न सर्वे। किं तर्हि।

अग्रजाः।

अग्रे जाता अतीताः प्रत्युत्पन्ना वा सभागहेतुः। अनागता न सभागहेतुरित्यर्थादुक्त भवति। एवमतीतान्यतीतप्रत्युत्पन्नानामिति। पूर्वोत्पन्नान्यतीतानि पश्चादुत्पन्नातीतानामिति विभज्यव्याख्यम्। अतीतप्रत्युत्पन्नान्यनागतानां सभागहेतुर्न त्वनागतान्यनागतानामित्युक्तम् अतो गम्यते नास्त्यनागतः सभागहेतुरिति न कदाचिदिति। न कदाचिन्न हेतुरित्यधिकृतम् हेतुरेवेत्यर्थः। तस्मादस्त्यनागतः सभागहेतुरित्यभिप्रायः। सहम्विति विस्तरः। सहभूसम्प्रयुक्तकविपाकहेतुष्वभिसन्धिरभिप्रायः तेन वचनम् तस्मात् सहभूसम्प्रयुक्तविपाकहेत्वभिसन्धिवचनाददोषो न कदाचिन्न हेतुरिति वचने। बाहुलिको ह्येष निर्देश इष्यते। चरमामवस्थामभिसन्धायेति। अन्त्यमनागतावस्थामभिप्रेत्येत्यर्थः। अध्यवत्रयेऽपि हेतुर्भवतीति तस्याभिप्रायः। तस्यायमपरिहार इति विस्तरः। तस्य वादिनोऽयमपरिहारः। कस्मात्। यस्मात् स धर्म उत्पद्यमानावस्थायाः पूर्वं सभागहेतुरभूत्वा पश्चाद् भवति न नित्यं सभागहेतुरित्यर्थः। बह्नीनामनागतावस्थानामेका चरमावस्था सभागहेतुत्वे नियतीभूता। तदन्या बह्वयस्तत्रानियतीभूताः सन्ति। तत्र च सामान्येनोक्त न कदाचिन्न हेतुरिति। एवं कृत्वायमपरिहारः। एकस्यामपि ह्यवस्थायां स न सभागहेतुरिति शक्यमेवं वक्तुं स्यात्। यो धर्मो यस्य धर्मस्य समनन्तर इति। समनन्तरप्रत्यय इत्यर्थः। शक्यमनया कल्पनयेति। स धर्म उत्पद्यमानावस्थायां समन्तरप्रत्ययत्वे नियतीभूतो भवति। अतः शक्यं तां चरमावस्थामभिसन्धायेत्यनया कल्पनया वक्तुं स्यान्न कदाचिन्न समनन्तर इति। कस्मादेवमाह यदि स धर्मो नोत्पन्नो भवतीति। यदि स धर्मोऽनागतो भवै नासौ समनन्तरप्रत्ययो भवतीत्यर्थः। चरमावस्थावाद्याह द्विमुख सन्दर्शनार्थमिति विस्तरः। यथा तत्र यो धर्मो यस्य धर्मस्य हेतुः कदाचित् स धर्मस्तस्य धर्मस्य ने हेतुः। आह न कदाचिदिति। तथेहापि कर्तव्यम्। यो धर्मो यस्य धर्मस्य समनन्तरः कदाचित् स धर्मस्तस्य धर्मस्य न समनन्तर इति। आह न कदाचिदिति कर्तव्यम्। यदि स धर्मो नोत्पन्नो भवतीति यथा चेह तथा तत्रेति। कथम् यो धर्मो यस्य धर्मस्य समनन्तरः कदाचित् स धर्मस्तस्य धर्मस्य न समनन्तरः। आह यदि स धर्मो नोत्पन्नो भवतीति एवं तत्र कर्तव्यम्। कथम् यो धर्मो यस्य धर्मस्य हेतुः कदाचित् स धर्मस्तस्य धर्मस्य न हेतुः। आह यदि स धर्मो नोत्पन्नो भवतीति। यदि स धर्मोऽनागतो भवति नासौ हेतुप्रत्ययो भवतीत्यर्थः।

अत्राचार्य आह एवं सति को गुण इति विस्तरः। इति द्विमुखसन्दर्शनेन कश्चिद् गुणो लभ्यते। नैव ह्युत्पद्यमानावस्थायां स धर्मो हेतुः समनन्तरो वा मुख्यवॄत्त्या भवतीत्यकौशलमेवात्र शास्त्रकारस्यैवं सम्भाव्यते। क्वचित् सावकाशं व्रुवतः क्वचिन्निरवकाशम्। सावकाशं तावद् यदिदमुक्तम्। यो धर्मो यस्य धर्म्स्य हेतुः कदाचित् स धर्मस्तस्य धर्मस्य न हेतुः। आह न कदाचिदिति। कथं न कदाचिन्न हेतुरित्येवमुक्ता पुनर्वर्णयति चरमावस्थायां सभागहेतुरिति। निरवकाशं यदि स धर्मो नोत्पन्नो भवति न समनन्तरः उत्पन्नस्तु समनन्तर इति। अयमत्राभिप्रायार्थ ऐकान्तिकमर्थ व्यवस्थाप्य पुनरन्यथाकरोतीति तस्मात् पूर्वक एवैष परिहारः साधुरिति। सहभूसम्प्रयुक्तकविपाकहेत्वभिसन्धिवचनाददोष इति।

यत्तर्हीदमुक्तमिति विस्तरः। कुत एतदायातम्। अनागतो नैव सभागहेतुरित्युक्तम्। तद् यद्यनागतो नैव सभागहेतुः कस्मादनागता सत्कायदृष्टिः स्थापिता। यद्धि स्थापितं तत् सत्कायदृष्टिहेतुकं सत्कायदृष्टेश्च हेतुरिति व्याख्यातम्। तत्र कथमनागता सत्कायदृष्तिः सत्कायदृष्टेर्हेतुः। न तावत् सहभूहेतुः सम्प्रयुक्तकहेतुर्वा सम्भवत्यसहभूत्वात्। न विपाकहेतुरव्याकृतत्वात् न कारणहेतुः साधारणत्वेनागण्यमानत्वात् पारिशेष्यात् सभागहेतुः सर्वत्रगहेतुर्वा भवन्ती भवेत्। इह च सभागहेतुरेव सर्वत्रगहेतुः। अतो यद्यनागता सत्कायदृष्टिः सत्कायदृष्टेर्न सभागहेतुः कस्मादसौ तृतीयकोट्यर्थ स्थापितेति। वैभाषिक आह अनागतसतकायदृष्टिसम्प्रयुक्तकं दुःखसत्यं स्थापयित्वेत्येवमेतत् कर्तव्यमिति। सत्कायदृष्टिसम्प्रयुक्तकमेव स्थापयितव्यम्। न तु सत्कायदृष्टिः। तद्धि वेदनादिकं सहभूहेतुना सम्प्रयुक्तकहेतुना वा सत्कायदृष्टिहेतुकं सत्क्रायदृष्टेश्च हेतुः न सभागहेतुना। विनष्टको ह्ययमनागतां सत्कायदृष्टिमिति पाठः। पश्चात्पदस्थेन तच्छब्देन सह न पठितव्यः। सम्प्रयुक्तदुःखसत्यविशेषणार्थ तु समस्यैतत् पदद्वयं पठितव्यम्। अनागतसत्कायदृष्टिसम्प्रयुक्तमिति। अर्थतो वैवं बोद्धव्यं यद्येवं न क्रियते पाठः। भाष्याक्षेपनिर्वृत्तः पाठो न तन्त्रमित्यभिप्रायः प्रज्ञप्तिभाष्यं कथं नीयते सर्वधर्मश्चतुष्के नियता इति। हेतौ नियता यस्य धर्मस्य यो धर्मो हेतुः। स धर्मस्तस्य धर्मस्य न कदाचिन्न हेतुः। त्रिष्ःवपि कालेषु हेतुरित्यर्थः। एवं फ़ले नियता यस्य धर्मस्य यो धर्मः फ़लं पुरूशाकारादि योज्यम्। एवमाश्रये नियता यस्य धर्मस्य चक्षुर्विज्ञानादेर्यो धर्म आश्रयश्चक्षुरादिरिति योज्यम्। एवमालम्बने नियता यस्य धर्मस्य चक्षुर्विज्ञानादेर्यो धर्म आलम्बनं रूपादिरिति योज्यम्। तेन धर्माणां हेतौ नियतत्वात् त्रिष्वपि कालेषु सभागहेतुर्भवतीति चोदकाभिप्रायः। सर्वहेत्वनभिसन्धेरदोष इति दर्शयन् वैभाषिक आह। हेतुरत्र सम्प्रयुक्तकहेतुः सहभूहेतुश्च न सभागहेतुः सर्वत्रगहेतुर्वा अनागतावस्थायामव्यवस्थापितत्वात्। न विपाकहेतुः अनानिञ्जयस्य कर्मणः कस्यचिद् गत्यन्तरेऽपि विपाकादानात्। फ़लं पुरूशकारफ़लमधिपतिफ़लं च। तयोः सहभूसम्प्रयुक्तकहेत्वोः फ़लत्वात्। वैभाषिकाणामेतन्मतम् अनागतं विद्यमानमुत्पद्यत इति। तस्मादयं प्रसञ्जयति। ननु चैवं सति सभागहेतुरभूत्वा अनागतावस्थायां हेतुर्भवति वर्तमानावस्थायामिति प्राप्तं प्रसक्तमित्यर्थः। इष्यत एवावस्थां प्रति न द्रव्यमिति। इष्यत एव सभागहेतोः सभागहेतुत्वावस्था पूर्व नासीदिदानीं भवतीति। न तु द्रव्यस्वलक्षणं पूर्व नासीदिदानीं भवतीति। अवस्थाफ़लं हि सामग्रय न द्रव्यफ़लमिति। हेतुप्रत्ययसामग्रया वर्तमानावस्थाफ़लं न द्रव्यम्। यस्मादनागतोऽपि स धर्मो द्रव्यतोऽस्ति न पुनः प्रत्युत्पन्न एवेति। चोदक आह। किं पुनः स्यादिति विस्तरः। वैभाषिक आह। शास्त्रे तस्य ग्रहणम् स्यादिति। तस्यानागतस्य सभागहेतोः। न चास्ति ग्रहणम्। न हि तत्र शास्त्र उक्तम् अनागतानि कुशलमूलान्यनागतानां कुशलमूलानां सभागहेतुरिति। चोदक आह य एव हीति विस्तरः। चोदकस्यायमभिप्रायः यद्यप्यनागतोऽस्ति सभागहेतुर्न त्वसौ फ़लदानग्रहणक्रियायां समर्थः। य एव हि फ़लदानग्रहणक्रियासमर्थः फ़लाक्षेपक्रियासमर्थश्च तस्यैव सभागहेतोरतीतस्य वर्तमानस्य च ग्रहणात्। अदोपोऽनागतस्य सभागहेतोरग्रहणम्। तस्य फ़लदानग्रहणक्रियायामसामर्थ्यात्। तस्मादस्त्यनागतः सभागहेतुः। अथ च शास्त्रे नोक्त इति। वैभाषिक आह नैतदस्तीति विस्तरः। नैतद् युज्यते। निष्यन्दफ़लेन हि सफ़लः सभागहेतुः।

सभागसर्वत्रगयोर्निष्यन्दः

निष्यन्दो हेतुसदॄशः

इति वचनात्। तच्चानागतस्यायुक्तम्। तन्निष्यन्दफ़लमयुक्तम्। कस्मात् पूर्वपश्चिमताभावात्। अनागतावस्थायामिदं पूर्वमिदं पश्चिममिति न परिच्छिद्यते विप्रकीर्णत्वात्। न चासति पूर्वापरभावे सदृशः सदृशस्य निष्यन्दा युज्यते। अथ मतम्। उत्पन्नमतीतं वर्तमानं वा अनागतस्य निष्यन्द इति। अत आह न चोत्पन्नमनागतस्य निष्यन्दो युज्यत इति। यथातीतं वर्तमानस्य निष्यन्दो न भवति तथाऽनागतस्याप्युत्पन्नो न निष्यन्दो भवितुमर्हति। कस्मादित्याह माभुद्धेतोः पूर्व फ़लमिति दोषात् विपाकफ़लस्य पूर्व सह चायोगादिति मा भूद्धेतोः पूर्वं फ़लमिति पूर्वमयोगः सह चायोगोऽनागतावस्थायाम्। न हि प्रत्युत्पन्नावस्थायां सहभूहेतोरिव विपाकहेतोः सहोत्पन्न दलमुपलभ्यते। तस्मात्। अनागते चाध्वनि पूर्वप्श्चिमताभावात्। विप्रकीर्णत्वादनागतस्याध्वनो न पूर्वं विपाकहेतुः पष्चाद् विपाकफ़लं युज्यते। तस्माच्च सभागहेतुवद् विपाकहेतुरप्यनागतो न प्राप्नोति। वैभाषिक आह नैतदस्ति यदुक्त विपाकहेतुरप्येवमिति। न चान्योन्यनिष्यन्दता युक्तिमतीति। यस्य सः सभागहेतुः सदृशो धर्मस्तस्य स एव धर्मस्तदानीव कथं निष्यन्दो योक्ष्यते न हि पुत्रः स्वस्यैव पितुस्तदानीमेव पिता भवतीति। न त्वेवं विपाकहेतुः। किम् अन्योन्यहेतुफ़लता न पौर्वापर्येन विना सम्प्रयुज्यते प्राप्नोति। कस्मात् भिन्नलक्षणत्वाद्धेतुफ़लयोः। हेतोरन्यल्लक्षणं स्वभाव इत्यर्थः। अकुशलता कुशलसास्रवता वा तस्य लक्षणम्। फ़लस्य चान्यल्लक्षणमनिवृताव्याकृतत्वम्।

विपाकहेतुरशुभाः कुशलाश्चैव सास्रवाः।
विपाकोऽव्याकृतो धर्मः

इति वचनात्। तसादिति विस्तरः। अवस्थाव्यवस्थित एव सभागहेतुः। अवस्थायां व्यवस्थितः अतीतावस्थः प्रत्युत्पन्नावस्थश्च सभागहेतुर्नानागतावस्थः। लक्षणव्यवस्थितस्तु विपाकहेतुः। लक्षणेन व्यवस्थितस्त्रिष्वपि कालेषु यथोक्तलक्षण इत्यनागतोऽपि विपाकहेतुर्न वार्यते न प्रतिषिध्यते। इदमिह विचार्यते किमनागतेऽध्वनि सदृशा धर्मा विप्रकीर्ण इति न शक्यते परिच्छेत्तुमयं हेतुरिदमस्य निष्यन्दफ़लमित्यतो नानागतः सभागहेतुर्व्यवस्थाप्यते आहोस्विद् योधर्मो यस्य धर्मस्य सभागहेतुर्भवेत् स धर्मस्तस्य हेतुप्रत्ययवशान्निष्यन्दफ़लं भवेदित्ययोऽनागतः सभागहेतुर्न व्यवस्थाप्यते। नैतद् व्याख्यानकारैर्विचारितम् मम तु पूर्वक एवायं पक्षः प्रतिभातीति।

किमेष नियम इति। कि स्वभूमिक एवेत्यवधार्यते। नान्यथाप्यस्तीत्यभिप्रायः।

अन्योन्यं नवभूमिस्तु मार्गः

इति तुशब्दो विशेषणे। मार्ग इति मार्गसत्यं विवक्षितम्। सास्रवान्मार्गसत्यं विशिष्यते। सास्रवो हि धर्मः स्वभूमिक एव सभागहेतुर्नान्यभूमिकः। मार्गस्त्वन्यभूमिकोऽपि सभागहेतुः। इह भूमिग्रहणे सास्रवानास्रवग्रहणम् धातुग्रहणे तु सास्रवस्यैव इत्यत आह यत् सास्रवाणां मार्गस्य च तुल्ये भूमिभेदे मार्ग एव नवभूमिकोऽन्योऽन्यं समागहेतुर्न सास्रव इति। कुत इत्याह आगन्तुको ह्यसौ तासु भूमिषु न तद्धातुपतितः तद्भूमिकाभिस्तृष्णाभिरस्वीकृतत्वादिति। न हि कामरूपारूप्यचर्यस्तृष्णाः सास्रवानिवानास्रवान् धर्मान् स्वीकुर्वन्ति। यदा तर्हि निर्वाणं मार्ग वाभिलषति कुशलोऽसौ धर्मच्छन्दः न रागः तस्य वर्ज्यत्वादिति वचनात्। समानजातीयस्येत्यनास्रवजातीयस्य। एवं तर्हि सर्वः सरव्स्य सभागहेतुः प्राप्नोति। अत आह इति। अन्योन्यग्रहणं तर्हिकिमर्थम् ऊर्ध्वभूमिकाधारभूमिकयोरन्योन्यमित्येवमर्थम्। ऊर्ध्वभूमिकोऽप्यधरभूमिकयोः समविशिष्टयोः सभागहेतुर्भवति अधरभूमिकोऽप्यूर्ध्वभूमिकयोरिति  तद्यथेति विस्तरः। दुःखे धर्मज्ञानक्षान्तिस्तस्या एवानागतायाः समेति कृत्वा सभागहेतुः विशिष्टस्य च दुःखे धर्मज्ञानस्य दुःख़्हेऽवयग़्यानक्षान्तेर्यावदनुत्पादज्ञानस्य। न तु न्यूनस्य। न हि दुःखे धर्मज्ञानमगातया दुःख़्हे धर्मज्ञानक्षान्तेः सभागहेतुर्भवति। दर्शनभावनाशैक्षमार्गास्त्रिद्वयेकेषामिति। दर्शनमार्गो दर्शनमार्गान्तरस्य भाव्नामार्गस्याशैक्षमार्गस्य च सभागहेतुरिति त्रयाणाम्। भावनामार्गो भावनामार्गान्तरस्याशैक्षमार्गस्य च सभागहेतुः न दर्शनमार्गस्येति द्वयोः। अशैक्षमार्गोऽशैक्षमार्गान्तरस्य न दर्शनमार्गभावनामार्गयोरित्येकस्य सभागहेतुः। तत्रापीति। तत्र दर्शनमार्गदिषु मृद्विन्द्रियमार्गो दर्शनमार्गस्वभावो मृदुतीक्ष्णेन्द्रियमार्गस्य तत्स्वभवस्यैव। तीक्ष्णेन्द्रियमार्गस्तीक्ष्णेन्द्रियमार्गस्यैव न मृद्विन्द्रियमार्गस्य न्यूनत्वात्। एवं भावनामार्गोऽशैक्षमार्गश्च वक्तव्यः। तद् दर्शयन्नाह तद्यथेति विस्तरः। एकस्यापि मृद्विन्द्रियस्य पुद्गलस्य पन्मार्गाः सन्ति। प्रकृतितीक्ष्नेन्द्रियस्य त्रयः। तत्र श्रद्धानुसारिमार्गः श्रद्धानुसारिमार्गान्तरस्यात्मीयस्य सभागहेतुः। धर्मानुसारिमार्गस्य चात्मीयस्यानागतावस्थस्य श्रद्धाधिमुक्तदृष्टिप्राप्तसमयविमुक्तासमयविमुक्तमार्गाणां चात्मीयानां यथायोगमुत्पत्त्यनुत्पत्तिधर्माणां चेति षण्णां सभागहेतुः। श्रद्धाधिमुक्तमार्गः श्राद्धाधिमुक्तमार्गान्तरस्य दृष्टिप्राप्तसमयविमुक्तासमयविमुक्तमार्गाणां चापरेषामपि त्रयाणामिति चतुर्णा सभागहेतुः। समयविमुक्तमार्गः समयविमुक्तमार्गान्तरस्यासमयविमुक्तमार्गस्य चेति द्वयोः सभागहेतुः। न तु श्रद्धाधिमुक्तमार्गः श्रद्धानुसारिधर्मानुसारिमार्गयोर्हेतुः पूर्वकालीनत्वाद् दर्शनमार्गस्य भावनामार्गस्य च विशिष्टत्वात्। एवमन्यत्रापि योज्यम्। धर्मानुसारिमार्गो धर्मानुसारिमार्गान्तर्स्य दृष्टिप्राप्तासमयविमुक्तमार्गयोश्चेति त्रयाणां सभागहेतुः। दृष्टिप्राप्तमार्गो दृष्टिप्राप्तासमयविमुक्तमार्गयोश्चेति त्रयाणां सभागहेतुः। दृष्तिप्राप्तमार्गो दृष्टिप्राप्तमार्गान्तरस्यासमयविमुक्तमार्गस्य चेति द्वयोः। असमयविक्तमार्गोऽसमयविमुक्तमार्गान्तरस्यैवेत्येकस्य सभागहतुः। न तु धरानुसारिमार्गः श्रद्धानुसारिमार्गस्य सभागहेतुः धर्मानुसारिमार्गस्येन्द्रिय विशिष्टत्वात् नापि श्रद्धाधिमुक्तमार्गस्येन्द्रियतो विशिष्टत्वात् नापि समयविमुक्तमार्गस्येन्द्रियतो विशिष्टत्वात्। समयविमुक्तमार्गस्तहीन्द्रियतो विशिष्टस्य दृष्टिप्राप्तमार्गस्य सभागहेतुः प्राप्नोति। न प्राप्नोति अशैक्षमार्गसंगृहीतत्वात्। न हि पूर्वकालीनं फ़लं पश्चात्कालीनो हेतुरिति। दृष्टिप्राप्तमार्गः पुनः समयविमुक्तमार्गस्य न सभागहेतुरिन्द्रियतो न्यूनत्वात्। कथं पुनरिति विस्तरः। कथं पुनरूर्ध्वभूमिकस्य द्वितीयध्यानात् प्रभृति यावदाकिञ्चन्यायतनभूमिकस्य दर्शनमार्गस्य भावनामार्गस्य वा अशैक्षमार्गस्य वा यथायोगमधोभूमिको मार्गो विज्ञानानन्त्यायतनात् प्रभॄति यावदनागम्यभूमिको यथायोगं दर्शनमार्गो भावनामार्गो वा अशैक्षमार्गो वा समो वा विशिष्टो वा भवति। कथंचन भवितव्यम् हीनत्वादधराया भूमेः। इन्द्रियतो हेतूपचयतश्च। इन्द्रियतस्तावत् समो भवति विशिष्टो वा दर्शनमार्गे श्रद्धानुसारिमार्गश्चतुर्थध्यानभूमिकोऽधरभूमिकस्य तस्यैव श्रद्धानुसारिमार्गस्य समः उभयोर्मृद्विन्द्रियत्वात्। तस्यैवाधरभूमिको धर्मानुसारिमार्गो विशिष्टः तीक्ष्णेन्द्रियत्वात्। तथा धर्मानुसारिमार्गश्चतुर्थव्यानभूमिकोऽधरभूमिकस्य धर्मानुसारिमार्गस्य समः। एवमेतावेव श्रद्धानुसारिधर्मानुसारिमार्गो चतुर्थध्यानभूमिकावधस्भूमिकयोर्भावनाशैक्षमार्गयोः प्रत्येकं भूमीद्न्रियभेदभिन्नयोः समौ वा विशिष्टौ वेति सम्भवतो योज्यौ। तथा भावनामार्गे आकिञ्चन्यायतनभूमिकस्य श्रद्धाधिमुक्तमार्गस्याधरभूमिकः श्रद्धाधिमुक्तमार्गः समः उभयोर्मृद्विन्द्रियत्वत्। तस्यैवाधरभूमिको दृष्टिप्राप्तमार्गो विशिष्टः तीक्ष्णेन्द्रियत्वात्। तथा तस्यैव सम्मयविमुक्तमार्गोऽधरभूमिकः समः उभयोर्मृद्विन्द्रियत्वात्। तस्यैवासमयविमुक्तमार्गोऽधरबूमिको विशिष्ट तीक्ष्णेन्द्रियत्वात्। एवमशैक्षमार्गे आकिञ्चन्यायतनभूमिकस्याशैक्षमार्गस्याधरभूमिकः समो विशिष्टो वेति यथायोगं योज्यम्। अनया दिशा सर्वभूमयो योज्याः। कथं हेतूपचयतः। ऊर्ध्वभूमिकस्याधरभूमिको मार्गः समो विशिष्टो वा भवतीत्यत इदमुचय्ते। तत्र दर्शनादिमार्गाणामिति विस्तरः। आदिग्रहणेन भावनाशैक्षमार्गोपसंग्रहः। ऊर्ध्वभूमिकाया दुःखे धर्मज्ञानक्षान्तेरधोभूमिकं दुःखे धर्मज्ञानं हेतूपचयतो विशिष्ट भवति। दुःखे धर्मज्ञानादप्यूर्ध्वभूमिकादधरभूमिका दुःखेऽन्वयज्ञानक्षान्तिर्यावदूर्ध्वभूमिकान्मार्गे धर्मज्ञानदधरभूमिका मार्गेऽन्वय ग़्यानक्षान्तिह्र्तूपचयतो विशिष्टा भवति एकैकाधिकसभागहेतूपचितत्वात्। दर्शनमार्गादूर्ध्वभूमिकादधोभूमिको भावनामार्गो हेतूपचयतो विशिष्टो भवति। दर्शनमार्गो हि दर्शनमार्गहेतूपचितो भावनामार्गस्तु दर्शनभावनामार्गहेतूपचितः। ऊर्ध्वभूमिकाभ्यां दर्शनभावनामार्गाभ्यामधरभूमिकोऽशैक्षमार्गो हेतूपचयतो विशिष्टो भवति दर्शनभावनामार्गहेतूपचितत्वात्। ऊर्ध्वभूमिकस्य दर्शनमार्गस्याधोभूमिको दर्शनमार्गो हेतूचयतः समानक्षणापेक्षया समो भवति। एवं भावनामार्गस्य भावनामार्गोऽशैक्षमार्गस्याशैक्षमार्ग इति। तदेवं कश्चिदिन्द्रियतः समो भवति हेतूपचयतो विशिष्टः सत्यप्यधरभूमिकत्वे। तद्यथा प्रथमध्यानभूमिकाच्छद्धानुसारिमार्गादधरभूमिकौ श्रद्धाधिमुक्तसमयविमुक्तमार्गौ। कश्चिद्धेतूपचयतः समो भवतीन्द्रियतो विशिष्टः। तद्यथा चतुर्थध्यानभूमिकाच्छद्धानुसार्यादिमार्गादधोभूमिकधर्मानुसार्यादिमार्गः समानक्षणापेक्षया।कश्चिन्द्रियतो हेतूपचयतश्च विशिष्टः। तद्यथा चतुर्थध्यानभूमिकाच्छद्धानुसारिमार्गादधरभूमिकौ दृष्टिप्राप्तासमयविमुक्तमार्गौ। मृदुमृद्वादीनां चोत्तरोत्तरे हेतूपचिततरा इति। दर्शनमार्गवर्ज्याः तस्मिन् मृदुमृद्वाद्यसम्भवात्। तत्र मृदुमृदोः प्रकारादूर्ध्वभूमिकादधरभूमिकोऽपि मृदुमध्यो यावदधिमात्रमध्यादधिमात्राधिमात्रः समानासमानक्षणापेक्षया हेतूपचयतः समो विशिष्टो वा भवति एकैकाधिकप्रकारहेतूपचितत्वात्। यदुक्त श्रद्धानुसारिमार्गः षण्णां सभागहेतुरिति कथं श्रद्धान्सुरिमार्गो धर्मानुसारिमार्गस्य सभागहेतुर्भवति न हि तयोरेकसन्ताने सम्मुखीभावोऽस्ति। तेनाह यद्यप्येकसन्ताने श्रद्वाधर्मानुसारिमार्गयोरसम्भवः उत्पन्नस्त्वनागतस्य हेतुरिति। असम्भवो ह्यत्रासम्मुखीभावः। न त्वभावः सन्ति हि मृद्विन्द्रियाणां मृद्विन्द्रियमागवदात्मीयास्तीक्ष्णेन्द्रियमार्गा अपि दृष्टिप्राप्तसमयविमुक्तमार्गास्तु तत्सन्ताने सम्मुखीभवेयुरपि यदीन्द्रियसञ्चारः क्रियेत। तस्मादुत्पन्नः श्रद्धान्सुरिमार्गोऽनुत्पत्तिधर्मिणो धर्मानुसारिमार्गस्य श्रद्धाधिमुक्तदृष्टिप्राप्तसमयविमुक्तासमयविमुक्तमार्गाणां च यथायोगमनागतानामुत्पत्तिधर्माणामनुत्पत्तिधर्माणां वा समविशिष्टानां सभागहेतुरिति। आचार्यवसुमित्रस्त्वाह। उत्पन्नः श्रद्धानुसारिमार्गोऽनुत्पन्नस्य धर्मानुसारिमार्गस्य दृष्टिप्राप्तमार्गस्य वा हेतुर्यदा श्रद्धानुसार्यादय इन्द्रियाणि सञ्चरन्तो धर्मानुसारिमार्गादीन् सम्मुखीकुर्वन्ति। तदयुक्तम् न हि श्रद्धानुसारीन्द्रियाणि सञ्चरति श्रद्धाधिमक्तादयत्सु सञ्चरेयुः।। ५२।।

[  प्रयोगजास्तयोरेव श्रुतचिन्तामयादिकाः।
सम्प्रयुक्तहेतुस्तु चित्तचैत्ताः समाश्रयाः।। ५३।।]

प्रायोगिका इति प्रयोगेण निर्वृत्ताः प्रायोगिकाः प्रायोगिकग्रहणमुपपत्तिप्रतिलम्भिकनिरासार्थम्। कामावचराः श्रुतमया इति ये बुद्धवचनश्रुतेन निर्याताः ते श्रुतमयाः। चिन्तामयाश्च चिन्तामयानामिति चिन्तामयानामेव न श्रुतमयानाम्

तयोरेव समविशिष्टयोः

इति वचनात् भावनामयाभावादिति कामधातोरसमाहितत्वाद् भावनामया न सन्ति। चिन्तामयाभावादिति। यदा हि चिन्तयितुमारभन्ते तदैषां समाधिरेवोपतिष्ठत इति चिन्तामयाभावकारणम्। तेषामपीति। श्रुतमयादीनाम्। मृदुमृदवः सर्वेषामिति मृदुमृदवो मृदुमृद्वन्तराणां समानां मृदुमध्यादीनां चान्येषामष्टानां विशिष्टानामिति सर्वेषां सभागहेतुः। मृदुमध्या अष्ठानां मृदुमृदुप्रकारमपास्य तस्य न्यूनत्वात्। एषा नीतिरिति। तद्यथा मृद्वधिमात्राः सप्तानां मध्यमृदवः पण्णां यावदधिमात्राधिमात्रा अधिमात्राधिमात्रान्तराणमेकरूपाणां  सभागहेतुरिति। पुर्वान् पूर्वानपास्य तेषां तेषां न्यूनत्वात्। उपपत्तिप्रतिलम्भिकास्तु कुशला इति उपपत्त्या प्रतिलम्भ उपपत्तिप्रतिलम्भः स एषामस्तीत्युपपतिप्रतिलम्भिकाः अत इनिठनाविति ठन्। सर्व ते नव प्रकाराः परस्परं समागहेतुः मृदुमृदूनां यावदधिमात्राधिमात्राणामेव अह्दिमात्राधिमात्रा मृदुमृदूनां यावदधिमात्राधिमात्राणां सभागहेतुः न समविशिष्टानामेव अनाभिसंस्कारिकत्वात्। आभिसंस्कारिकस्य हि सभागहेतोर्न्यूनं फ़लं नेष्यते। नानाभिसंस्कारिकस्य। क्लिष्ता अप्येवमिति। सर्वे नव प्रकाराः परस्परं सभागहेतुरप्रायत्निकत्वात्। पूर्वोत्पन्नाः सर्वे समानभूमिकानां पश्चाद्वर्तिनां सर्वेषां सभागहेतुः। नात्र समविशिष्टते अपेक्षेते ते यथाक्रमं चतुस्त्रिद्वयेकेषां सभागहेतुरिति। विपाकजाविपाकजादीनां चतुर्णा सभागहेतुः। ऐर्यापथिका ऐर्यापथिकादीनामेव त्रयाणाम् न विपाकजानाम् तेषामनाभिसंस्कारिकत्वेन न्यूनत्वात्। शैल्पस्थानिका द्वयोः शैलस्थानिकनैर्माणिकयोः नैर्माणिका नैर्माणिकाना मेव न पूर्वेषाम् उत्तरेषामुत्तरेषामाभिसंस्कारिकत्वात्। निर्माणचित्तमपि कामावचरं च्तुर्ध्यानफ़लमिति। चतुर्णा ध्यानानां फ़लं प्रथमद्वितीयतृतीयचतुर्थध्यानफ़लमिति चतुष्प्रकारं कामावचरं निर्माणचित्तम्। तद्यथाक्रमं चतुर्स्त्रि व्द्येकेषां च सभागहेतुरिति वर्तते। प्रथमध्यानफ़लं चतुर्णा प्रथमद्वितीयतृतीयचतुर्थ्ध्यानफ़लानां सभागहेतुः। द्वितीयध्यानफ़लं त्रयाणां द्वितीयतृतीयचतुर्थध्यान फ़लानाम् तृतीयध्यानफ़लं द्वयोस्तृतीयचतुर्थध्यानफ़लयोः चतुर्थध्यानफ़लमेकस्य चतुर्थध्यानफ़लान्तरस्यैव सभागहेतुः। का पुनरत्र युक्तिर्ययैवं नियम इति तां युक्तिं निर्दिदिक्षुराह। नोत्तरध्यानफ़लमधरध्यानफ़लस्येति विस्तरः। न चतुर्थध्यानफ़लं कामावचरं निर्माणचित्तं प्रथमध्यानफ़लस्य कामावचरस्य निर्माणचित्तस्य यावत् तृतीयध्यानफ़लस्य कामावचरस्य निर्माणचित्तस्य सभागहेतुः। कस्मादित्याह न ह्याभिसंस्कारिकस्य महायत्नसाध्यस्य सभागहेतोर्हीयमानममहायत्नसाध्यं फ़लं भवति। यादृशेन हि यत्नविशेषेण प्रथमं ध्यानं यावत् तॄतीयं ध्यानं निष्पाद्यते न तादृशेनैव चतुर्थं ध्यानं निष्पाद्यते। किं तर्हि उत्कृष्टतरेण यत्नविशेषेण निष्पाद्यते। तस्मात् फ़लमस्योत्कृष्टतरेणैव यत्नविशेषेण निष्पाद्यत इत्यवगम्यते। तेन अधरध्यानफ़लमुत्तरध्यानफ़लस्य सभागहेतुः न तूत्तरध्यानफ़लमधरध्यानफ़लस्य। यथा च चतुर्थध्यानफ़लं योजितम्। एवं तृतीयद्वितीयध्यानफ़लमपि योज्यम्। अत एवाहुरिति। यस्मादाभिसंस्कारिकस्य सभागहेतोहीयमानं फ़लं न भवति तस्मादाहुरित्यर्थः। किमाहुरित्याहुः। स्यादुत्पन्न इति विस्तरः। दुःखे धर्मज्ञानमनास्रवमुत्पन्नमनुत्पत्तिधर्माणामनास्रवाणां दुःखे धर्मज्ञानक्षान्तीनां न हेतुः। दुःखे धर्मज्ञानक्षान्तिभ्यो दुःखे धर्मज्ञानस्याभिसंस्कारिकत्वेन विशिष्टत्वात्। एवं हि तद् विशिष्टम्। यत् क्लेशविसंप्रयोगप्राप्त्या सहोत्पद्यते। विशिष्टं च न्यूनस्य न हेतुः। तद्यथार्हत्त्वात् परिहीणस्याशैक्षो मार्गः पूर्वोत्पन्नः सकृदागाम्यनागामिमार्गयोः पश्चादुत्पद्यमानयोर्न सभागहेतुः। स्यादेकसन्ताननियतः पूर्वप्रतिलब्ध इति विस्तरः। अनागता दुख़्हे धर्मग़्यानक्षान्तयः प्रथम एव क्षणे प्रतिलब्धा एकसन्तानगताः। दुःखे धर्मज्ञानं द्वितीयक्षणोत्पन्नम्। तस्य ता न हेतुः। यस्मान्न पूवतरं हि दुःखे धर्मज्ञानं दुःखे धर्मज्ञानक्षान्तिभ्यः। तस्योत्पन्नत्वात् तासाञ्चानुत्पन्नत्वात्। अनागतो वा धर्मो यस्मान्न सभागहेतुः। अनागता दुःखे धर्मज्ञानक्षान्तयोऽपरिमिताः प्रतिलब्धा एव न तूत्पन्नाः। स्यात् पूर्वोपन्न इति विस्तरः। पूर्वं प्रतिलब्धमात्रो धर्मः पृष्टो न तूत्पन्नः अनुत् पनश्च न सभागहेतुर्भवतीति। इदानीं पूर्वोत्पन्नोऽपि किमस्ति न सभागहेतुरित्यतिशयरूपेण पृच्छयते। अधिमात्रो न्यूनस्येति विशिष्टो न्यूनस्येत्यर्थः। तद्यथोत्तरफ़लपरिहीणस्य अर्हत्त्वफ़लपरिहीणस्यानागामिफ़लपर्हीणस्य वा अधरफ़लसम्मुखीभावेऽनागामिफ़लसम्मुखीभावे सकृदागामिफ़लसम्मुखीभावे वा योऽर्हत्त्वमार्गोऽधिमात्रः पूर्वोत्पन्नः स पश्चादुत्पन्नस्यानागामिफ़लस्य सकृदागामिफ़लस्य वा न सभागहेतुः न्यूनत्वात्। एवमनागामिफ़लपरिहीणस्य योऽनागामिफ़लमार्गः स पूर्वोत्पन्नः पश्चादुत्पन्नस्य सकृदागामिफ़लस्य न सभागहेतुः न्यूनत्वात्। एवमनागामिफ़लपरिहीणस्य योऽनागामिफ़लमार्गः स पूर्वोत्पन्नः पश्चादुत्पन्नस्य सकृदागामिफ़लस्य न सभागहेतुः न्यूनत्वात्। दुःखे धर्मज्ञानप्राप्तिश्चेति विस्तरः। दुःख़्हे धर्मज्ञानप्राप्तिर्या पूर्वोत्पन्ना सा उत्तरक्षणसहोत्पन्नानामुत्तरैः क्षणैर्दुःखेऽन्वयज्ञानक्षान्तिक्षणादिभिरा मार्गेऽवयज्ञानक्षान्तेः सहोत्पन्नानां दुःखे धर्मज्ञानक्षान्तिप्राप्तीनां न सभागहेतुः। किं कारणम्। तासांन्यूनत्वात् तस्याश्च विशिष्टत्वात्। कथं पुनस्तासां न्यूनतं तस्याश्च विशिष्टम्। दुःखे धर्मज्ञानक्षान्तेर्दुःखे धर्मज्ञानं विशिष्ट तद्वध्यक्लेशप्राप्तिविमुक्तत्वात् हेतूपचिततरत्वाच्च। तस्माद्धेतूपचिततराभ्योऽपि दुःखे धर्मज्ञानक्षान्तिप्राप्तिभ्यो दुःखे धर्मज्ञानप्राप्तिर्विशिष्टा। ताश्च न्यूनास्तत्प्राप्तिवात्। किञ्च प्रथमक्षणोत्पन्नाया दुःखे धर्मज्ञानक्षान्तिप्राप्तेर्दुःखे धर्मज्ञानप्राप्तिस्तस्मादेव हेतुद्वयाद्विशिष्टा। न्यूना च सा दुःखे धर्मज्ञानक्षान्तिप्राप्तिः। अतस्तत्पूर्विका अप्यन्या उत्तरक्षणसहोत्पन्ना दुःखे धर्मज्ञानक्षान्तिप्राप्तयो हेतूपचिततरत्वेऽपि न्यूना एवेति। तस्मान्न सा तासां सभागहेतुरिति।

सम्प्रयुक्तकेहेतुस्तु वित्तचैत्ताः

इति। तुशब्दोऽवधारणे भिन्नक्रमश्च। चित्तचैत्ता एव सम्प्रयुक्तकहेतुरिति एवं सतीति विस्तरः। यदि चित्तचैत्ता एव सम्प्रयुक्तकहेतुरित्येतावदुच्यते भिन्नकालजा अपि भिन्नकालजैः सह भिन्न सन्तानजा अपि च भिन्नसन्तानजैः सह सम्प्रयुक्तकहेतुः संप्रयुज्यते। न हि ते कालसन्तानभिना न चित्तचैत्ता भवन्ति। एकाकारलम्बनस्तर्हीति। यदि चित्तचैत्ता एकाकारा एकनीलाद्याकारा एकालम्बनाश्च एकनीलाद्यालम्बना एवं ते संप्रयुक्तकहेतुर्नान्यथेति। एवं भिन्नकालजत्वं भिन्नसन्तानजत्वं च व्यावर्तितं भवतीत्यभिप्रायः। एवमपि स एव प्रसङ्गः। भिन्नकालसन्तानजनामन्योन्यं संप्रयुक्तकहेतुत्वप्रसङ्ग इत्यर्थः। सम्भवति हि भिन्नकालसन्तानजानामपि चित्तचैत्तानामेकाकारलम्बनत्वम्। भिन्नसन्तानजानामपि प्रसङ्ग इति। भिन्नकालजत्वमेकं परिहृतम्। नवचन्द्रादीनि हि पश्यतां बहूनामेकाकारालम्बनाश्चित्तचैत्ता वर्तन्ते।

समाश्रयाः

इति। समः अभिन्नाश्रय एषामिति समाश्रयाः। तुल्यार्थे समशब्दग्रहणे हि जातितुल्यत्वात् स एव प्रसङ्गः स्यात्।

अन्योन्यफ़लार्थेनेति विस्तरः। यथा सहसार्थिकानां परस्परबलेन मार्गप्रयाणम् एवं चित्तं चैत्तस्य फ़लम् चैत्तोऽपि चित्तस्येत्यन्योन्फ़लमिति तेनार्थेन सहभूहेतुः। पञ्चभिरिति विस्तरः। पञ्चभिः समताभिः आश्रयालम्बनाकारकालद्रव्यसमताभिरित्यर्थः। समप्रयोगार्थन समप्रवृत्त्यर्थेन सम्प्रयुक्तकहेतुः। यथा तेषामेव सार्थिकानामन्योन्यबलेन मार्ग गच्छतां समोऽन्नपानस्नानशयनादिपरिभोगक्रियाया प्रयोगः तद्वत् सम्प्रयोगत्वमेषामन्योन्यं भवति। अत एवाह। एकेनापि हि विना न सर्वे सम्प्रयुज्यन्त इति।। ५३।।

सर्वत्रगाख्यः क्लिष्टानां स्वभूमौ पूर्वसर्वगाः।
विपाकहेतुरशुभाः कुश्लाश्चैव सास्रवाः।। ५४।।

पूर्वसर्वगाः

इति। पूर्वे ह ते सर्वगाश्च पूर्वसर्वगाः। पूर्वात्पन्नाः सर्वगा इत्यर्थः।

स्वभूमिकाः पूर्वोत्पन्ना अतीताः प्रत्युत्पन्ना वा सर्वत्रगा अनुशयाः क्लिष्टानां क्लेशस्वभावसम्प्रयुक्तसमुत्थानां पश्चिमानां पश्चादतीतप्रत्युत्पन्नानामनागतानां च सर्वत्रगहेतुः। व्याख्यास्याम इति।

सर्वत्रगा दुःखहेतुदृग्घेया दृष्टयस्तथा।
विमतिः सह ताभिश्च याविद्यावेणिकी च या।।

इत्यत्र पञ्चमे कोशस्थाने निर्देक्ष्यामः। क्लिष्टधर्मसामान्यकारणत्वेनेति विस्तरः। यस्मादयं सर्वत्रगहेतुः क्लिष्टानामेव सामान्येन पञ्चनिकायानामपि भवति सभागहेतुस्तु क्लिष्टानां चाक्लिष्टानां च तस्मात् पृथग्व्यवस्थाप्यते। कथं क्लिष्टधर्मसामान्यकारणत्वमस्येति प्रतिपादयन्नाह। निकायान्तरीयाणामपि हेतुत्वादिति। एषां हि प्रभावेणेति। एषां हि सर्वत्रगाणां प्रभावेण अन्यनैकायिका अन्यनिकायभवाः क्लेशा रागादय उपजायन्ते। के पुनस्ते। दुःखदर्शनप्रहातव्यस्य सर्वत्रगहेतोः समुदयनिरोधमार्गदर्शनभावनाप्रहातव्या निकायान्तरीया भवन्ति। समुदयदर्शनप्रहातव्यस्य सर्वत्रगहेतोर्दुःखनिरोधमार्गदर्शनभावनाप्रहातव्या निकायान्तरीया भवन्ति। सर्वान् क्लेशनिकयान् गच्छन्ति भजन्ते आलम्बन्ते सर्वेषां वा क्लेशनिकायानां हेतुभावं गच्छन्तीति सर्वत्रगाः। अत एवोक्तम्। सत्कायदृष्टिमूलकाः सर्वक्लेशाः सत्कायदृष्टिप्रभवाः सत्कायदृष्टिसमुदया इति आत्मग्राहद्वारेण रागमानप्रतिघादिसमुदाचारात्। किमार्यपुद्गलस्यापीति। सर्वत्रगा आर्यपुद्गलस्य सर्व एव प्रहीणा दर्शनप्रहातव्यत्वात्। रागादयश्च शैक्षाणां समुदाचरन्ति। ते रागादयस्तेषां न सर्वत्रगहेतुका इति मन्यमान एवं पृच्छति। क्लिष्टा धर्मा इति। अविशेषितत्वात् पृथग्जनार्यसन्तानजा इति गम्यते। यश्च दर्शनप्रहातव्यानां धर्माणां विपाक इति। अर्थपरिसमाप्त्यर्थमेतदुक्तम्। नैतदुदाहरणम्। अव्याकृताः संस्कृता धर्मा इति। निवृताव्याकृता अनिवृताव्याकृताश्च गृह्यन्ते। निवृताव्याकृताः कामधातौ सत्कायान्तग्राहदृष्टितत्सम्प्रयुक्तसमुत्था धर्मा रूपारूप्यावचराश्च क्लिष्टा धर्माः। संस्कृतग्रहणमाकाशाप्रतिसंख्यानिरोधनिरासार्थम्।

परमव्याकृते ध्रुवे

इति तयोरव्याकृतत्वात्। तत्र कामवचराः क्लिष्ता धर्मा यथायोगं सभागसर्वत्रगसहभूसम्प्रयुक्तकहेतुभूतैस्तैरेव सत्कायदृष्ट्यादिभिरव्याकृतहेतुकाः नान्यै रागादिभिः। ऊर्ध्वभूमिकस्त्वन्यैरपीति सुगममेतत्। अनिवृताव्याकृताः सभागहेतुनानिवॄताव्याकृतहेतुकाः। अकुशलाः कामावचरा रागादयः। ते च सर्वत्रगहेतुना सत्कायदृष्ट्यादिहेतुकः। इदमत्रोदाहरणम्। अकुशलाश्चेति ह्यविशेषितत्वाद् दर्शनप्रहातव्या भावनाप्रहातव्याश्च गृह्यन्ते। इदमत्र द्वितीयज्ञापकम्। यत् तदन्यत् क्लिष्टं दुःखसत्यमिति तृतीयं ज्ञापकम्। तदन्यद्धि क्लिष्ट दुःखसत्यं दर्शनप्रहातव्यं भावनाप्रहातव्यं चाविशेषितत्वाद् गृह्यते। सर्वत्रगहेतुना हि भावनाप्रहातव्यं पृथग्जनानमिवार्णामपि सत्कायदृष्टिहेतुक न सत्कायदृष्टेर्हेतुरिति व्याख्यातमेतत्। इदं तर्हि प्रज्ञप्तिभाष्यमिति। यद्यकुशला अव्याकृत हेतुका अपि भवन्ति न केवलमकुशलहेतुकाः प्रज्ञप्तिभाष्यं कथं नीयते स्यात् आर्यपुद्गलः कामवैराग्यात् परिहीयमाणो यस्तत्प्रथमतः क्लिष्टां चेतनां संमुखीकरोतीति। कामवैराग्यपरिहाणिकाले हि सा आर्यपुद्गलस्य चेतना सहभूहेतुना च सम्प्रयुक्तकहेतुना च अकुशलहेतुकैव नाव्याकृतहेतुका सत्कायान्तग्राहदृष्टयोः प्रहीणत्वात्। इति प्रज्ञप्तिभाष्युर्थो लक्ष्यत इति अनेनाभिप्रायेण चोदयति। वैभाषिक आह। अप्रहीणं हेतुमेतत् सन्धायोक्तैति। अप्रहीणं सहभूहेतुं सम्प्रयुक्तकहेतुञ्च सन्धाय अभिप्रेत्य एतत् प्रज्ञप्तिभाष्यमुतम्। दर्शनप्रहातव्यो हि सत्कायदृष्टयादिकः तस्याश्चेतनाया हेतुः। प्रहीणत्वात् दर्शनमार्गेण नोक्तः प्रज्ञप्तिभाष्य इति। विशेष्यन्ते। कुशलास्तु द्विप्रकाराः सास्रवा अनास्रवाश्चेति। अतो विशेष्यन्ते। ये सास्रवाः कुशलाः ते विपाकहेतुर्नानास्रवा इति। विपाकधर्मत्वादिति। विपक्तिप्रकृतित्वादित्यर्थः।

दुर्बलत्वात् पूतिबीजदिति विस्तरः। यथा पूतीनि बीजान्यभिष्यन्दितान्यपि दुर्बलत्वान्नाङ्करोत्पत्तिहेतुर्भवन्ति एवमव्याकृता धर्मास्तृष्णाभिष्यन्दिता अपि न विपाकोत्पत्तिहेतुर्भवन्ति दुर्बलत्वात्। अनास्रवा बलवन्तोऽपि तृष्णानभिष्यन्दितत्वाद्विपाकं न निर्वर्तयन्ति। यथाद्भिरनभिष्यन्दितत्वाच्छुष्काणि बलवन्त्यपि सारबीजानि नाङ्कुरं निर्वर्तयन्ति तद्वत्। पूर्वेषां स्वशक्तिवैकल्यमपरेषां सहकारिकारणान्तरवैकल्यम्। किंप्रतिसंयुक्तमिति। कस्मिन् प्रतिसंयुक्त किप्रतिसंयुक्तम्। विपाकमप्रतिसंयुक्ताः कामादिष्वप्रतिसंयुक्ता अनास्रवा अभिनिर्वर्तयेयुः। प्रतिसंयुक्तेन विपाकेन भवितव्यम् नाप्रतिसंयुक्तेन कामधात्वादिप्रतिसंयुक्तधर्मस्वभावत्वात्। शेषास्त्विति विस्तरः। अकुशलाः कुशलासास्रवाश्च शेषा उभयविधत्वात् उभयप्रकारत्वात् बलदभिष्यन्दितप्रकारत्वादित्यर्थः। निर्वर्तयन्ति विपाकं यथा सारण्यभिष्यन्दितानि बीजान्युङ्कुरम् तद्वत्।

विपाकस्य हेतुरिति विस्तरः। यदि विपाक इति भावसाधनो घञ् विपक्तिर्विपाक इति। तत्र षष्ठीसमासो विपाकस्य हेतुरिति। अथ विपच्यते स्वयमिति कर्मसाधन् घञ् तत्र कर्मधारयो विपाक एव हेतुर्विपाकहेतुरिति। किंचातः। कश्चातो दोषः। यदि विपाकस्य हेतुरिति भावसाधनपरिग्रहः विपाकजं चक्षुरित्येतन्न प्राप्नोति। न हि चक्षुर्विपक्तेर्जातम्। किं तर्हि विपक्तिहेतोः कर्मण इत्यर्थः। न हि विपाको हेतुः। अथ बिपाक एब हेतुरिति कर्मसाधनपरिग्रहः सिध्यते तद् विपाकजं चक्षुरिति। कर्मैव हि विपाको विपच्यत इति कृत्वा। किन्तु कमणो विपाक इत्येतन्न प्राप्नोति विपाको हि कर्मैवोच्यते न विपक्तिः। कर्मणो विपाक इति चात्र भावसाधनार्थ इष्टे न कर्मसाधनार्थ इति। तस्मात् कर्मणो विपाक इत्येतन्न प्राप्नोति उभयथापि योग इत्युक्तं प्रागिति।

विपाकजौपचयिकाः पञ्चाध्यात्मम्

इत्यत्रोक्त विपाकहेंतोर्जाता विपाकजाः मध्यपदलोपाद् गोरथवदिति भावसाधनपरिग्रहः। फ़लकालप्राप्तं वा कर्म विपाक इत्युच्यते विपच्यत इति कृत्वा। तस्माज्जाता विपाकजा इति कर्मसाधनपरिग्रहः। फ़लं तु विपक्तिरेवेति विपाकः। फ़लविवक्षायां भावसाधन एवं परिगृह्यत इत्यर्थः। तस्माद् विपाकजं चक्षुरिति मध्यपदलोपात् कर्मसाधनपरिग्रहाद् वा सिध्यति। कर्मणो विपाक इति च सिध्यति भावसाधनपरिग्रहात्। विवक्षितपूर्विका हि शब्दप्रतिपत्तिरिति। विसदृशः पाको विपाक इति। हेतोर्विसदृशं फ़लमित्यर्थः। हेतुर्हि व्याकृत एव। फ़लं त्वव्याकृतमेवेति। सहभूहेत्वादीनां तु सदृश एव पाक इति विशेषणम्। अभिधर्मशास्त्र एवं व्युत्पाद्यते तेनेदं प्रत्यादिश्यते।

एकस्कन्धको विपाकहेतुरेकफ़ल इति विस्तरः। इह प्राप्तयो वृक्षप्रपाटिकावच्चित्तादिभ्यः पृथगवस्थिताः। तासां परिपूरकन्यायेन पृथक् फ़लं वर्ण्यते। एकः स्कन्धोऽस्येत्येकस्कन्धको विपाकहेतुः। यत्र स्कन्धे प्राप्तयः तत्रैव च तज्जात्यादम इत्येकस्कन्धकः यदेव च प्राप्तीनां फ़लं तदेव तज्जात्यादीनामिति। साधारनफ़लत्वादेकफ़लः। द्विस्कन्धक एकफ़लो विपाकहेतुः। कायवाक्कर्मतज्जात्यादयश्च। कायवाक्कर्मणो रूपस्कन्धसंगृहीतत्वात् तज्जात्यादीनां च संस्कारस्कन्धसंगृहीतत्वाद् द्विस्कन्धः एकफ़लश्च तेषामपृथक्फ़लत्वात्। चतुःस्कन्धक एकफ़लः कुशलाकुशलश्चित्तचैत्ता इति। ते सह जात्यादिभिरिति। तेषां चित्तचैत्तानां यथायोगं वेदनासंज्ञासंस्कारविज्ञानस्कन्धसंगृहीतत्वात्। जात्यादीनाञ्च संस्कारस्कन्धसंगृहीतत्वाच्चतुःस्कन्धको विपाकहेतुरेकफ़लः साधरणफ़लत्वात् न हि चित्तस्यान्यत् फ़लमन्यच्चैत्तादीनामिति असमाहितत्वात्। कामधातौ पञ्चस्कन्धको विपाकहेतुर्नास्ति। न ह्यत्र रूपस्कन्धसंगृहीतं कायवाक्कर्मचित्तचैत्तेरेकफ़लं भवति पृथक्कलापत्वात्। त्रिस्कन्धकस्तु त्रिष्वपि धातुषु नास्ति चित्तचैत्तानामवश्यमेकफ़लत्वात्। यथायोगं चतुःस्कन्धस्वभावत्वात्। रूपधातवेकस्कन्धक इति  विस्तरः। प्राप्तिः सह जात्यादिभिः। संष्कारस्कन्धसंगृहीतेत्येकस्कन्धकः। तथैव साधारणफ़लत्वादेकफ़लः। असंज्ञिसमापत्तिरपि सह जात्यादिभिस्तथैव वक्तव्या विज्ञप्ते रूपस्कन्धसंगृहीतत्वात् जात्यादीनाञ्च संस्कारस्कन्धस्वभावत्वात्। द्विस्कन्धक एकफ़लः पूर्ववत्। कुशले चेतस्यसमाहितेऽमुपरिवर्तिरूपं नास्तीति रूपस्कन्धवर्जितवेदनादिस्कन्धसंगृहीतत्वाच्चतुःस्कन्धकः। पञ्चस्कन्धकः समाहिते चेतसि। अनुपरिवर्तिरूपस्य चित्तादिभिरेकवर्तित्वात्। आरूप्यधाताविति विस्तरः। तत्र सर्वमेव रूपं नास्तीत्येकस्कन्धकश्चतुःस्कन्धकश्च विपाकहेतुः। प्राप्तिरिति। तत्र सह स्वजात्यादिभिरेकस्कन्धकः पूर्ववत्। निरोधसमापत्तिरपि सह स्वजात्यादिभिरेकस्कन्धको विपाकहेतुरेकफ़ल इति सुगमम्।

अस्ति कर्मेति विस्तरः। यस्य जीवितेन्द्रियं विपाकः। तस्य कर्मणोऽवश्यं तज्जीवितेन्द्रियं विप्रयुक्ता विपाकः। तच्चैतत् सर्वं धर्मायतनसंगृहीतमित्येकमायतनं विपाको विपच्यते। यस्य मन आयतन तस्य द्वे मनोधर्मायतने। तस्य हि मन आयतनस्य कलापे अवश्यं वेदनादयः सहभुवो जात्यादयश्च विपाकरूपा भवन्ति। वेदनादिजात्यादयो धर्मायतनसंगृहीता इति ते द्वे मनोधर्मायतने विपाको विपच्यते। एवं यस्य स्प्रष्टव्यायतनमिति। तस्य स्प्रष्टव्यस्यावश्यं जात्यादयः सन्तीति धर्मायतनमपि विपच्यते। न केवलं स्प्रष्टव्यायतनमिति द्वे आयतने तस्य विपच्येते। यस्य कायायतनं तस्य त्रीणि। तदेव कायायतनं स्प्रष्टव्यायतनं च तदाश्रयभूतचतुष्कम् तस्यावश्यं भूतचतुष्काश्रितत्वात्। तस्य च जात्यादिभिर्भवितव्यमिति धर्मायतनमपि तत्र तृतीयं विपच्यते। एवमिति विस्तरः। एवं यस्य रूपगन्धरसायतनानामन्यतमद् विपाकस्तस्य त्रीण्यायतनानि विपाकः। तदेवायतनं रूपादीनामन्यतमत् स्प्रष्टव्यायतनं च तदाश्रयभूतस्वभावं धर्मायतनं च तज्जात्यादिस्वभावमिति। यस्य चक्षुरायतनम् तस्य चत्वारि। तदेव चक्षुःकायायतनं चावश्यं चक्षुषः कायप्रतिबद्धवृत्तित्वात्। स्प्रष्टव्यधर्मायतने च पूर्ववत्। एवं यस्येति विस्तरः। एवं यस्य श्रोत्रादीनामन्यतमद विपाकस्तस्यापि चत्वार्यायतनानि विपाकः। तदेव श्रोत्रादीनामन्यतमदायतनं कायस्प्रष्टव्यधर्मायतनानि च पूर्ववत्। अस्ति तत् कर्मेति विस्तरः। पञ्च यावदेकादशायतनानीति सम्भवतः। न तु द्वादशायतनानि विपाकः शब्दायतनस्याविपाकस्वभावत्वात्।

अत्राचार्यवसुमित्रो व्याख्यापयति। अस्ति कर्म यस्यैकमेव धर्मायतनं विपाको विपच्यत इति नोपपद्यते। किं कारणम् आक्षेपककर्मफ़लत्वाज्जीवितेन्द्रियस्य। यदि तावत् कामधातौ जीवितं विपाको विपच्यते कर्मणस्तत्रावश्यां कायजीवितेन्द्रिये भवतः कललाद्यवस्थासु अनुत्पन्ने षडायतने। उत्पन्ने तु षडायतने सप्तभिरायतनैर्भवितव्यम्। चक्षुरादिभिः षड्भिर्मन आयतनेन चेति। रूपधातावपि सप्तभिरारूप्यधातावपि मनोधर्मायतनाभ्यामवश्यं भवितव्यम् सकलजन्माक्षेपफ़लत्वाज्जीवितेन्द्रियस्य। को वात्र धातुरभिप्रेत इति व्रूमः। आरूप्यधातुः। ननु च तत्राक्षेपककर्मफ़ात्वाज्जीवितेन्द्रियस्यावश्यं मन आयतनेनापि भवितव्यम्। न च जीवितेन्द्रियमेव विपाको विपच्यते। वेदनाप्रभावितत्वाद् विपाकस्येति। वेदनयापि तत्र भवितव्यमिति। अत्रोच्यते क्षणोत्पत्तिमेतत् सन्धायोक्तम्। यस्मिन् क्षणे आरूप्योपपन्नस्य विपाकजं चित्तं न समुदाचरति तस्मिन् क्षणे जीवितेन्द्रियमेव विपाको विपच्यते। विपाकस्य जीवितेन्द्रियस्यैवोत्पादान्मन आयतनस्य चासमुदाचारादिति किमर्थं तत्समुदाचारे मन आयतनमपरं न भवतीति तस्य द्वे मनोधर्मायतने इति। तदिदं विचार्यते। भवत्येवं चाक्षेपकशय् कर्मणो जीवितेन्द्रियं विपाक इति। जीवितेन्द्रिये च विपच्यमाने मन आयतनादीन्यपि विपच्यन्ते। नायतनान्तरविपाकः प्रतिषिध्यते। विपाकहेतुरिह चिन्त्यते। अस्ति तत् कर्म यस्यैकमेव धर्मायतनं विपच्यते। नान्यदायतनमित्येतावद् विवक्षितम्। अथ मतं जीवितेन्द्रियाक्षेपकस्यैव कर्मणो मन आयतनादीन्यपि विपच्यन्ते नैकमायतनमिति। अत्र ब्रूमः। तस्यैव कर्मणोऽन्येऽपि मन आयतनादयपि विपच्यन्ते नैकमायतनमिति। अत्र ब्रूमः। तस्यैव कर्मणोऽन्येऽपि मन आयतनादयस्तत्र वर्तमाना विपाको न पुनरन्यस्य कर्मण इति किं कृतोऽयं नियमः। अस्ति हि सम्भवो यदेकस्य कर्मणो निकायसभागो विपाकोऽन्यस्य जीवितेन्द्रियम् अन्यस्यैव च मन आयतनादीनीति। ब्रूयास्त्वम्। यथा यस्य चक्षुरायतनं तस्य चक्षुःकायस्प्रष्टव्यधर्मायतनानीति वचने यस्य चक्षुरायतनं विपाकस्तस्य कायायतनमावश्यकत्वात् एवं मन आयतनादीन्यपि तस्यैव कर्मणो विपाक इति। तन्न क्वचिदेव कस्यचित् प्रतिबद्धवृत्तित्वात्। न हि विना कायेन्द्रियेण चक्षुरिन्द्रियप्रादुर्भावोऽस्ति। असत्यपि तु विपाके मनसि जीवितेन्द्रियप्रादुर्भावोऽस्तीत्यसममेतत्। आचार्यसङ्घभद्रस्त्वाह। अस्ति कर्म यस्य धर्मायतनमेव विपाको विपच्यते यस्य जीवितेन्द्रियम् यस्य चक्षुरायतनम् तस्य पञ्च चक्षुः कायरूपस्प्रष्टव्याधर्मायतनानि। एवं यावज्जिह्वायतनम्। यस्य कायायतनम् तस्य चत्वारः। कायरूपस्प्रष्टव्यधर्मायतमानीति। रूपाविनाभावित्वाद् रूपायतनमपि तस्यैव चक्षुर्निर्वर्तकस्य कर्मणो कर्मणो विपाक इत्यपरं पक्षमवलम्बते। यस्य कायायतनं तस्य त्रीणि यस्य चक्षुरायतनं तस्य चत्वारीति। न ह्यन्योन्यमविनाभाविनो जीवितनिकायसभागादीन्यावश्यकमेकस्यैव कर्मणो विपाक इत्यभिप्रायः। तावेतौ पक्षौ विभाष्यकारैर्लिखितौ। तयोर्यो यस्मै रोचते स तेन परिगृह्यते। इत्यलं प्रसङ्गेन।

अथ कथं कस्यचित् कर्मण एकमायतनं विपाको विपच्यते। कस्यचिद् यावदेकादशेत्यत आह। विचित्राविचित्रफ़लत्वात् कर्मणो बाह्यबीजवदिति विस्तरः। पद्यदाडिमन्यग्रोधादीनां बीजानि विचित्रफ़लानि। मूलाङ्कुरनालपत्रकेशरकिञ्जल्क कर्णिकारैश्च रूप्यं हि पद्यबीजादीनाम्। अनेकस्कन्धशाखाविटपपत्रपल्लवाङ्कुरपुष्पफ़लसमृद्धाश्च न्यग्रोधादयः पादपा जलधरायमान दृश्यन्ते। कानिचिदविचित्रफ़लानि। तद्यथा यवगोधूमादीनां बीजानि। एकरूपफ़लत्वात् बीजध्र्मतैषा। एकाध्विकस्य कर्मणोऽतीतस्य त्रैयध्विको विपाको विपच्यते अतीतप्रत्युत्पन्नानगतः। न तु द्वैयध्विकस्याप्यतीतस्य प्रत्युत्पन्नस्य चैकध्विकोऽनागतः। न तु विपर्ययादिति। बहुक्षणिकस्य कर्मण एकक्षणिकः। मा भूदति न्यूनं हेतोः फ़लमिति वर्तते। न च कर्मणा सह विपाको विपच्यते। सहोत्पन्ने सहभूसम्प्रयुक्तकहेत्वोर्व्यापारात् विपाकहेतोश्च विसदृशपाकापेक्षत्वात्। नाप्यनन्तरं विपाको विपच्यते। किं कारणम्। समनन्तरप्रत्ययाकृष्टत्वात् समनन्तरक्षणस्य। यस्मात् समनन्तरक्षणः समनन्तरप्रत्ययबलेनाकृष्टो न विपाक हेतुबलेन। यद्यप्सौ समनन्तरप्रत्ययो विपाकहेतुरित्थं चैतदेव यस्मात् समनन्तरक्षणो विपाकहेतोः समनन्तरप्रत्ययात् कदाचित् कुशलः कदाचिदकुशलः कदाचिदव्याकृतः अन्यथा हि अव्याकृत एव स्यात्। अथ वा समनन्तरक्षणस्याविपाकस्वभावस्य समनन्तरप्रत्ययाकृष्टत्वादित्यभिप्रायः। प्रवाहापेक्षो हि विपाकहेतुश्चित्तचैत्तादिप्रवाहे सत्यतिक्रान्ते विपाकहेतुर्विपाकं दद्यात्। धर्मतैषेत्यभिप्रायः।। ५४।।

सर्वत्रगः सभागश्च द्वयध्वकौ त्र्यध्वकास्त्रयः।
संस्कृतं सविसंयोगं फ़लं नासंस्कृतस्य ते।। ५५।।

उक्तमेषामर्थतोऽध्वनियम इति। अर्थत उक्तो न शब्दत इत्यर्थः। द्विविधं हि वचनं स्वशब्दाभिहितमार्थोक्त च। कथम्

सभागहेतुः सदृशाः स्वनिकायभुवोऽग्रजाः

तथा

सर्वत्रगाख्यः क्लिष्टानां स्वभूमौ पूर्वसर्वगाः

इति वचनात्। सभागसर्वत्रगहेतू अतीतप्रत्युत्पन्नावेव स्तो नानागतौ। अविशेषवचनादेव सहभूसम्प्रयुक्तकविपाकहेतवस्त्रैयध्विका इत्यर्थत उक्ताः। सभागसर्वत्रगहेतू एव हि पूर्वोत्पन्नौ पूर्वोत्पन्नावेव च तावित्यवधारणात्। परस्परफ़लत्ववचनात् चिन्ताद्यकुशलादिस्वभाव्याच्चैषामनध्वपतितत्वं व्यावर्तितम्। सूत्र्यत इति। सूत्र सूत्री वा क्रियते सूत्रयते। उक्तं चात्र कारणमिति। कथमुक्तम् निष्यन्दफ़लेन हि सफ़लः सभागहेतुः। तच्चानागतस्यायुक्त पूर्वपश्चिमताभावादित्येवमादि। यच्चैतत् कारणमुक्तं सभागहेतोः सर्वत्रगहेतोरप्युक्तरूपं वेदितव्यम्। सभागहेतुकल्पो हि सर्वत्रगहेतुः। सभागहेतुर्हि क्लिष्टः क्लिष्टानम् सर्वत्रगहेतुरपि क्लिष्टः क्लिष्टानामेव। क्लिष्टधर्मसामान्यकारणत्वेन त्वयं सभागहेतोः पृथगव्यवस्थाप्यत इत्युक्तमेतत्। सभागहेतुवदेव चायं नानागतः निष्यन्दफ़लेन च सफ़ल इति तद्वदेवास्य वार्ता।

त्रयध्वकास्त्रयः

इति। त्र्यध्वका एव त्रयस्त्रय एव त्र्यध्वका इत्यवधारणात्। कारणहेतुरन्यथाभवति। कथं चान्यथा। सर्वार्ध्वकश्चाध्वविनिर्मुक्तश्चेति। स्वतोऽन्ये हि स्वभाववर्ज्याः सर्वधर्माः कारणहेतुरिति। अत एवमेव भवति नान्यथा। हेतुः फ़लमित्यन्योन्यापेक्षैतद्द्वयमित्यतः पृच्छति किं पुनस्तत् फ़लं यस्यैतद्धेतव इति।

संस्कृतं सविसंयोगं फ़लम्

इति। आकाशाप्रतिसंख्यानिरोधवर्ज्याः सर्वधर्माः फ़लमित्युक्त भवति।

एवं तर्हीति विस्तरः। फ़लत्वादसंस्कृतस्य फ़लमसंस्कृतमिति कृत्वा हेतुना स्वतोऽन्येनास्य भवितव्यम् यस्य हेतोस्तदसंस्कृतं फ़लम्। हेतुत्वाच्चासंस्कृतस्य स्वतोऽन्येनास्य फ़लेन भवितव्यम्। यस्य फ़लस्य तदसंस्कृतं हेतुः। नासांस्कृतस्य ते हेतुफ़ले। असंस्कृतं प्रतिसंख्यानिरोधलक्षणं विसंयोगफ़लं भवति। न च तस्य हेतुरजन्यत्वात् हेतुश्च भवति संस्कृतोत्पादाविग़्हभावावस्थानात्। न च तस्य फ़लं व्यवस्थाप्यते फ़लप्रतिग्रहणदानासमर्थत्वाच्च। अत एव च षड्विधहेत्वसम्भवादिति विस्तरः। न सहभूहेतुरस्य सम्प्रयुक्तकहेतुर्वा सम्भवति तेन कस्यचिद् धर्मस्यासहभवत्वात् असम्प्रयोगाच्च। न सभाग हेतुरस्य कश्चिद् सभवति असंस्कृतस्यासदृशत्वात् समानभूमित्वायोगाच्च। अत एव चास्य न सर्वत्रगहेतुः अस्य चाक्लिष्टत्वात्। न चास्य विपाकहेतुः असंस्कृतस्याविपाकस्वभावत्वात्। विपाको हि सत्त्वसंख्यातो धातुपतितो धर्मः। अनुत्पाद्यत्वादेव चास्यैते हेतवो न भवन्ति। अनुत्पाद्यत्वादेव चास्य कारणहेतुर्न भवति। अत एवोच्यते। कस्मान्मार्गो विसंयोगस्य कारणहेतुर्नेष्यते। यस्मात् स उत्पादाविग़्हभावेन व्यवस्थापितः। न चासंस्कृतमुत्पत्तिमदिति। अनध्वपतितत्वाच्चस्य हेतवो न भवन्ति अध्वपतितस्य हि धर्मस्य हेतुर्व्यवस्थाप्यते। एवं षड्विधहेत्वसम्भवान्नासंस्कृतस्य हेतुः। पञ्चविधफ़लासम्भवाच्च नासंस्कृतस्य फ़लम्।  कस्मात् सामान्यतस्तावदध्वविनिर्मुतस्य फ़लप्रतिग्रहणदानासमर्थत्वात्। तथा ह्यक्तुम्

वर्तमानाः फ़लं पञ्च गृह्णन्ति द्वौ प्रयच्छतः

इत्येवमादि। किञ्च न तावदधिपतिफ़लं भवति। तद्धि सहोत्पन्नं पश्चादुत्पन्न चेष्यते।

अपूर्वः संस्कृतयैव संस्कृतोऽधिपतेः फ़लम्

इति। तच्चानुत्पत्तिमदिति नास्य सहजं पश्चाज्जातं वा फ़लं भवति। अनुत्पत्तिमत्त्वादेव। न च निष्यन्दफ़लम् उत्पत्तिमतो हि सदृशो धर्म उत्पत्तिमान् निष्यन्दफ़लम्। अत एव च न पुरूषकारफ़लमसंस्कृतस्य पुरूशकाराभावात्। यस्य हि बलेन य उत्पद्यते प्राप्यते वा स तस्य पुरूषकारफ़लम्। अत एव च न विसंयोगफ़लम् मार्गस्यैव हि बलेन विसंयोगः प्राप्तः न चासंस्कृतो मार्ग इति। न चापि विपाकफ़लम् विपाकहेतुवैधर्म्यात्। सस्रवो हि विपाकहेतुः न चासंस्कृतं सास्रवमिति। अथ वा पञ्चविधहेतुवैधर्म्यात् पञ्चविधफ़लासम्भव इति नासंस्कृतस्य फ़लं सम्भवति। यदि मार्गो विसंयोगस्य कारणहेतुर्नेष्यते कस्येदानीं तत् फ़लम्। हेतुमता हि फ़लेन भवितव्य कथं वा केन वा प्रकारेन तत् फ़लम्। आह यत्तावदुक्त कस्येदानीं तत् फ़लमिति मार्गस्य। यदप्युक्तं कथं वा तत् फ़लमिति फ़लं तद्बलेन मार्गवलेन प्राप्तेरित्यर्थः। अथ वैवं पदसम्बन्धः। कस्य तत् फ़लमिति मार्गस्य तत् फ़लम्। कथं वा तत्फ़लमिति तद्बलेन प्राप्तेरिति। प्राप्तिरेव तर्हि मार्गस्य फ़लं प्राप्नोति। तस्यामेव प्राप्तौ तस्य मार्गस्य सामर्थ्यान्न विसंयोगः। किम्। मार्गस्य फ़लमित्यधिकृतम्। तर्तासामर्थ्यादिति। एवं तत्र विसंयोगे मार्गस्यासामर्थ्यादित्यर्थः। तस्मान्न च तावदस्य मार्गः कथञ्चिदपि हेतुः। षण्णां हेतूनामन्यतमोऽपि हेतुरस्य मार्गो न भवति। फ़लं चास्य विसंयोगः। प्राप्यं फ़लं न जन्यमित्यभिप्रायः। पञ्चविधो हि हेतुरिति केचिदिच्छन्ति कारको ज्ञापको व्यञ्जको ध्वंषकः प्रापकश्चेति। कारको हेतुर्बीजमङ्कुरस्य ज्ञापको धूमोऽग्नेः व्यञ्जको दीपो घटस्य ध्वंसको मुद्गरो घटस्य प्रापको रथो देशान्तरप्रापणीयस्येति। तदेवं मार्गः प्रापकोऽस्य न जनको हेतुः। प्राप्यं च विसंयोगफ़लं न जन्यमिति दर्शितं भवति। अथासत्यधिपतिफ़ल इति विस्तरः। असंस्कृतस्य यदि फ़लं स्यादधिपतिफ़लं स्यात् तस्य कारणहेतुत्वेन व्यवस्थापनात्।

नासंस्कृतस्य ते

इति वचनात्तदयस्य निवारितमिति परिच्छिन्ने चोदकः पृच्छति। अथासत्यधिपतिफ़ले कथमसंस्कृतं कारणहेतुः। उत्पत्त्यनावरणभावेन कारणहेतुः। उत्पत्त्यनावरणभाववचनात्। संस्कृतमेव प्रतीदमसंस्कृतं कारणहेतुर्व्य वस्थाप्यते नासंस्कृतं प्रतीति दर्शितं भवति। कस्मादस्य संस्कृतवत् फ़लं न व्यवस्थाप्यत इत्यत आह न चास्य फ़लमस्ति अध्वविनिमुक्तस्य फ़लप्रतिग्रहणदानासमर्थत्वादिति। अध्वसंगृहीतस्यैव हि धर्मस्य फ़लप्रतिग्रहणदानसामर्थ्यमस्ति नान्यस्य। वक्ष्यति हि

वर्तमानाः फ़लं पञ्च गृह्णन्ति द्वौ प्रयच्छतः

इति। उक्त तु पर्यायेण हेतुरिति। पर्यायेणोक्तं न स्वशब्देनेत्यर्थः।

तेऽप्यनित्या इति। तेऽप्यनित्या एवेत्यवधारणादर्थान्न नित्यो हेतुरित्युक्त भवति। आलम्बनप्रत्ययोऽपीति। यथा हेतवोऽत्रानित्या उक्ताः। एवं प्रत्यया अप्यनित्या एवोक्ता ये हेतवो ये प्रत्यया इति वचनात्। तस्मादसंस्कृतमालम्बन प्रत्ययो न प्राप्नोति । उत्पादायेत्वधारणादिति। ये हेतवो ये प्रत्यया रूपस्योत्पादाय तेऽप्यनित्याः न तु येऽनुत्पादाय। द्विविधा हि प्रत्ययाः जनकाश्चजनाकाश्च। आलम्बनप्रत्ययश्चाजनक आलम्बनमात्रत्वात्। आलम्बनप्रत्ययो हि निरूध्यमाने धर्मे कारित्रं करोति वर्तमानैश्चित्तचैत्तेर्ग्रहणात्

निरूध्यमाने कारित्रं द्व हेतू करूः

इति वचनात्। ननु च हेतवोऽपीति विस्तरः। हेतुरपि जनकश्चाजनकश्च। तस्मादसंस्कृतस्यानावरणभावमात्रेणाजनकस्यापि कारणहेतुत्वाप्रतिषेधः। उक्त आलम्बनप्रत्ययः सूत्र इति। चतस्रः प्रत्ययता इत्यत्र सूत्रे। न तु प्रतिषिद्धः। धर्मताया अविरोधान्न दोष इत्यभिप्रायः। सूत्राणि च बहून्यन्तर्हितानि। मूलसङ्गीतिभ्रंशात्। अत्राचार्यो न निर्बन्धं करोति। धर्मताविरोधो नास्तीति । किन्तु असंस्कृतमेव विचार्यतेऽस्ति वा न वेति। सर्वमेवासंस्कृतमिति। न केवलं प्रतिसंख्यानिरोधः। रूपवेदनादिवदिति। आदिशब्देन संज्ञादीनां ग्रहणम्। यथा रूपाद् वेदनाभावान्तरं वेदनायाश्च संज्ञा यावत् संस्कारेभ्यो विज्ञानम् तथा न रूपादिभ्यः पञ्चभ्योऽसंस्कृतं भावान्तरमस्ति। अतो नासंस्कृतं द्रव्यमिति सौत्रान्तिकाः। स्प्रष्टव्याभावमात्रमिति। सप्रतिघद्रव्याभावमात्रमित्यर्थः। अविन्दन्त इत्यलभमानाः। उत्पन्नानुशयजन्मनिरोधे उत्पन्नानामनुशयानां जन्मनश्च निरोधे प्रतिसंख्याबलेन प्रज्ञाबलेन अन्यस्यानुशयस्य जन्मनश्चानुतपादः प्रतिसंख्यानिरोधः। तदेवमनुशयनिरोधः समुदयसत्यनिरोधो जन्मनिरोधो दुःखसत्यनिरोध इत्युक्त भवति। सोपधिशेषनिरूपधिशेषनिर्वाणव्यवस्थापनार्थं चोभयनिरोधवचनम्। सौत्रान्तिकनयेन केऽनुशयाः कथं च तेषां जन्मनश्च प्रतिसंख्याबलेन निरोधः। अष्टानवतेरनुशयानां वासनानुशयः। यस्य चानुशयस्य यः प्रतिपक्षो मार्गः प्रतिसंख्या तेन सह प्रथमे क्षणे सोऽनुशय उत्पद्यते तद्बलाद् द्वितीयादिषु क्षणेषु तस्य निरोधः तद्बलादेव च पौनर्भविकस्य जन्मनोऽप्रतिसन्धिको निरोधः। तद्यथा निकायसभागशेषस्येति। विस्तरः। निकायसभागो मनुष्यत्वादिलक्षणः। तद्यथा निकायसभागशेषस्येति विस्तरः। निकायसभागो मनुष्यत्वादिलक्षणः। आत्मभावो वा पञ्चस्कन्धलक्षणः। तस्य शेषस्तल्लक्षण एवोत्पद्यमानः। तस्य निकायसभागशेषस्यान्तरामरने आयुष्परिसमाप्त एव प्रत्ययवैकल्याद् योऽनुत्पादः सोऽप्रतिसंख्यानिरोधः। प्रत्ययवैकल्यं पुनरन्त्यानां स्कन्धानां मरनभवाख्यानां निकायसभागसम्बन्धने यदसामर्थ्यमुपकरणादिप्रत्ययासामग्रयात्। अतोऽसौ प्रतिसंख्यानिरोध इति। सोपधिशेषो निर्वाणधातुः। दुःखस्यानुत्पाद इति निरूपधिशेषः। सोऽपि तु दुःखस्यानुत्पादो योऽप्रतिसंख्यानिरोध इत्युक्तः। नान्तरेण प्रतिसंख्यां सिध्यति उत्पत्तिकारणानुशयवैकल्यस्य प्रतिसंख्यानकृतत्वात्। अतः प्रतिसंख्यानिरोध एवासौ। स्वरसं निरोधादिति। स्वात्मना निरोधान्न प्रज्ञासामर्थ्येनेत्यर्थः। अविनष्टे तद्भावादिति। अविनष्टे तस्मिन्ननुशये तस्याप्रतिसंख्यानिरोधस्याभावात्। अकृतोत्पत्तिप्रतिबन्धानामिति। अकृत उत्पत्तौ प्रतिबन्ध एषामित्यकृतोत्पत्तिप्रतिबन्धाः तेषाम्। य उत्पत्तिप्रतिबद्नभावः। एतदत्र प्रपिसंख्यायः सामर्थ्यम् यदि तर्ह्यनुत्पाद एवेति विस्तरः। प्रहाणं हि निर्वाणमभिप्रेतम्। अनागतस्यैव चातुत्पाद इति यदि निर्वाणमुच्यते अतीतत्प्रत्युत्पन्नस्योत्पन्नत्वान्नस्त्यनुत्पाद इति कथमिदमुक्त सूत्रे। अतीतानागतप्रत्युत्पन्नस्य दुःखस्य प्रहाणाय संवर्तन्त इति तत् सूत्रपदं कथं नीयते। यस्य पुनर्द्रव्यान्तरं निर्वाणं तस्यातीतप्रत्युत्पन्नयोरपि तदासेवनादिभिर्निर्वाणं प्राप्यत इति सुनीतमिदं सूत्रं भवतीति। तदालम्बनक्लेशप्रहानादिति। अतीतप्रत्युत्पन्नदुःखालम्बनक्लेशप्रहाणादित्यर्थः। यो रूपे च्छन्दराग इति। छन्दोऽनागतेऽर्थे प्रार्थना रागस्तु प्राप्तेऽर्थेऽध्यवसानम्। विस्तरेण यावद् विज्ञानमिति। यो वेदनायां संज्ञायां संस्कारेषु विज्ञाने च्छन्दरागस्तं प्रजहीत। छन्दरागे प्रहीणे एवं वस्तद्विज्ञानं प्रहीणं भविष्यति। एवं त्रैयध्विकस्यापि दुःखस्येति। छन्दरागप्रहाणमेव रूपादिदुःखप्रहाणम् तस्य चानागतस्य च्छन्दरागस्यानुत्पादो भवति। अतस्त्रैयध्विकस्यापि दुःखस्य प्रहाणं युज्यत इति दर्शयति। एष एव नय इति। यद्यतीतानागतप्रत्युत्पन्नस्य क्लेशस्य प्रहाणायेति पाठस्तत्राप्येष एव नय इति। यः क्लेशे रागे द्वेषे वा च्छन्दरागस्तं प्रजहीतेति विस्तरः। तदालम्बनक्लेशप्रहाणादपि क्लेशस्य प्रहाणम्। न स्वभावत एवेति त्रैयध्विकस्यापि क्लेशस्य प्रहाणं युज्यत इत्यर्थः। अथवेति विस्तरः। पूर्वजन्मनि भवः पौर्वजन्मिकः। इहजन्मनि भव ऐहजन्मिकः। तदेवमैकक्षणिकः क्लेशः पर्युदस्तो भवति कथमेतत् प्रत्येतव्यम् पौर्वजन्मिकः सर्वक्लेशः सम्बध्यते ऐहजन्मिकश्च न पुनरैकक्षणिक इत्यत आह। अन्यत्राप्येवंदर्शनादेवं प्रत्येतव्यम्। यथा तृष्णाविचरितेष्विति विस्तरः। अष्टादश तृष्णाविचरितानि कथमतीतेऽध्वन्येकस्मिन् क्षणे योज्यन्त इत्यतोऽतीतं जन्माधिकृत्योक्तम्। अष्टादश तृष्णाविचरितानि। अस्मीति भिक्षवः सतीत्थमस्मीति भवति एवमस्मीत्यन्यथास्मीति सदस्मीत्यसदस्मीति भवति। भविष्यामीत्यस्य भवति न भविष्यामीत्थं भविष्याम्येवं भविष्याम्यन्यथा भविष्याम्येवं भविष्याम्यन्यथा भविष्यामीत्यस्य भवति। स्यामितस्य भवति इत्थं स्यामेवं स्यामन्यथा स्यामित्यस्य भवति। अपि स्यामित्यस्य भवति अपीत्थं स्यामप्येवं स्यामप्यन्यथा स्यामित्यस्य भवति। एव यावत् प्रत्युत्पन्नम्। तथेहापि पौर्वजन्मिकः कृतस्नः क्लेशप्रवाह ऐहजन्मिकश्च सम्बध्यते नैकक्षणिक इति। तदेवं प्रसाध्यताभिप्राय ब्रवीति। तेन च क्लेशद्वयेनेति विस्तरः। पौर्वजन्मिकेनैहजन्मिकेन चेति क्लेशद्वयेनास्यां सन्ततौ प्रत्युत्पन्नायां बीजभावो वासनालक्षनं सामर्थ्यमाहितोऽनागतेऽस्योत्पत्तये। तस्य बीजभावस्य प्रहाणात्तदपि क्लेशद्वयं प्रहीणं भवति। यथा विपाकक्षयाद् विपाकोपभोगात् कर्म क्षीणं भवतीत्युपचर्यते तद्वत्। अनागतस्य तर्हि कथं प्रहाणं व्यवस्थाप्यते। न हि तेन सन्ततौ बीजभाव आहितो यस्य प्रहाणात् प्रहाणं भवेदित्यत आह। अनागतस्य पुनर्दुःखस्य क्लेशस्य वा बीजाभावादत्यन्तमनुत्पादः प्रहाणमिति। बोजाभावश्च प्रतिसंख्याबलेन भवति। न हि निरूद्धेऽतीते निरोधाभिमुखे च प्रत्युत्पन्ने यत्नः प्रतिपक्षोत्पादने यत्न सार्थकः सप्रयोजनमित्यर्थः। विरागस्तेषामग्र इति। रागक्षयो विरागः प्रतिसंख्यानिरोध इत्यर्थः। कथमसतामसन्नग्रो भवितुमर्हतीति। कथमसतामाकाशादीनामसंस्कृतानामसन्नसंस्कृतो विरागोऽग्रो भवितुमर्हतीति। अस्योत्तरं ब्रवीति। अभावोऽपि कश्चिदिति विस्तरः। द्वितीयस्य चेति द्वितीयस्य समुदयसत्यस्यानन्तरं दृष्ट स्वयं प्रज्ञया उद्दिष्ट परेभ्यो देशनया त्रयाणां पूरणं तृतीयं भवति। किं स्यादिति। को दोषः स्यादित्यर्थः। किञ्च पुनः स्यादिति। को गुणः स्यादित्यर्थः। किञ्च पुनः स्यादिति गुणपरिप्रश्न आह वैभाषिकपक्षः पालितः स्यादिति। यत्तूक्त किं स्यात् को दोषः स्यादित्यत्रोच्यते। अभूतं तु परिकल्पितं स्यादिति। दोषः स्यादित्यर्थः। रूपवेदनादिवदिति। प्रत्यक्षतः। चक्षुरादिवदिति। कर्मतोऽनुमानत इत्यर्थः। असकृद् व्याख्यातमेतत्। अवस्तुन इति। रागादिवस्तुनः। हेतुफ़लादिभावासम्भवादिति। आदिशब्देन स्वस्वाम्यवयवावयविसम्बन्धादयो गृह्यन्ते। न हि वस्तुनो निरोधे हेतुः फ़लमवयवावयवीत्येवमादि। तस्यैतर्हि निरोधस्य प्राप्तिर्नान्यस्येति तस्मिन् प्राप्तिनियमे को हेतुः। न हि निरोधस्य प्राप्त्या सार्ध कश्चित् सम्बन्धोऽस्ति हेतुफ़लादिभावासम्भवात्। दृष्टधर्मनिर्वाणप्राप्त इति। प्रत्यक्षे जन्मनि निर्वाणप्राप्तः सोपधिशेषनिर्वाणस्थ इत्यर्थः। यद्यभावः कथमस्य प्राप्तिः स्यात् प्रतिपक्षलाभेनेति विस्तरः। आर्यमार्गलाभेन क्लेशस्य पुनर्भवस्य चोतपादेऽत्यन्तविरूद्धस्याश्रयस्य लाभात् प्राप्त निर्वाणमित्युच्यते। अभावमात्रत्वमिति। मात्र्शब्दो द्रव्यान्न्तरत्वनिवृत्त्यर्थः। यत् खल्वस्येति विस्तरः। प्रहाणं यावदप्रादुर्भाव इति पर्यायशब्द एते। अप्रादुर्भाव इत्येतत् स्फ़ुटमित्युदाहरणमुक्तम् नास्मिन् प्रादुर्भाव इत्यतोऽप्रादुर्भाव इत्यधिकरणसाधनमिति दर्शयन्ति न तु अप्रादुर्भूतिरप्रादुर्भाव इति भावसाधनमित्यर्थः। यत एव तत्प्राप्तिः परिकल्प्यते यतो मार्गात् प्रहाणप्राप्तः परिकल्प्यते तस्मिन् सति मार्गे प्राप्ते वा दुःखस्येष्यतामप्रादुर्भावः किमन्येन निर्वाणेन परिकल्पितेन। विमोक्षस्तस्य चेतस इति। निरूपधिशेषनिर्वाणकाले भगवतः। यथावस्तु यथालम्बनम्। संयोगस्य वस्तु यत्न क्लेशेन संयुज्यते। सवस्तुका धर्मा इति सहेतुकाः। परिग्रहवस्तु। परिगृह्यत इति परिग्रहः  स एव वस्तु परिग्रहवस्तु।। ५५।।

[ विपाकः फ़लमन्त्यस्य पूर्वस्याधिपजं फ़लम् 
सभागसर्वत्रगयोर्निष्यन्दः पौरूषं द्वयोः।। ५६।। ]

अन्तेऽभिहितत्वादिति। कारिकाया अन्ते विपाकहेतुः पठितः। तस्य विपाकफ़लमेव। पूर्वः कारनहेतुः श्र्लोकादौ पठितत्वात्। तस्य

अधिपजं फ़लम्।

अधिपतिरधिपः तस्माज्जातमधिपजम् अधिपतिफ़लमित्यर्थः। पूर्वस्याधिपतमिति केचित् पठन्ति। अधिपतेरिदं फ़लमाधिपतमिति। आधिपत्यमिति तु प्राप्नोति। दित्यदित्यादित्यपत्युत्तरपदाण्ण्य इत्यपवादात्। अथापवादविषयेऽप्युत्सर्गसमावेश इति भवेत् भवेदेतद्रूपम्। एतदेवाधिपत्यमिति यदनावरणभावमात्रावस्थानम्। अङ्गोभावोऽपि वस्तीति। प्रधानभवोऽपि जनकभावोऽपीत्यर्थः। तदनेन द्विविधस्यापि कारणहेतोः कारकस्य वाऽध्युपेक्षकस्य वाधिपतिफ़लमस्तीति दर्शितं भवत्यन्यत्रासंस्कृतात्। यस्माद् वक्ष्यति इति। दशानामायतनानामिति। चक्षूरूपायतनयोर्यावत् कायस्प्रष्टव्यायतनयोः। चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं यावत् कायं प्रतीत्य स्प्रष्टव्यानि चोत्पद्यते कायविज्ञानमिति वचनात्। कारणहेतुरेव चायम्। न हि चक्षुरादीन्यायतनानि चक्षुर्विग़्यानादीनां सहभूहेत्वादयः पञ्च हेतवः सम्भवन्ति। मन आयतनं द्धु मनोविज्ञानस्य सभागहेत्वादि सम्भवति धर्मायतनमपि सहभूसम्प्रयुक्तकहेत्वादि सम्भवतीति न कारणहेतुरेवेत्यवधार्यते। तस्माद् दशानामित्युक्त न द्वादशानामिति। भाजनलोके च कर्मणाम्। किम् अङ्गीभावोऽस्ति। कारणहेतोरित्यधिकृतम्। भाजनलोको हि कुशलाकुशलकर्मजनितोऽप्यव्याकृतोऽपि न विपाकफ़लमिष्यते सत्त्वाख्यो विपाक इति लक्षणात्। तस्मात् कारणहेतोरेतदधिपतिफ़लम्। श्रोत्रादीनामपि। न केवलं चक्षुषोऽस्ति। किम् चक्षुर्विज्ञानस्योत्पत्तौ पारम्पर्येणाधिपत्यम् न साक्षाद् यथा चक्षुषः। कथं ज्ञायत इत्याह श्रुत्वा द्रष्टुकामतोत्पत्तेः। द्रष्टुकामताया च चक्षुर्विज्ञानमुत्पद्यत इत्यभिप्रायः। एवमादि योज्यमिति। घ्रात्वा द्रष्टुकामतोत्पत्तेरित्यादि योज्यम्।

सभागसर्वत्रगयोर्निष्यन्दः

फ़लमिति वर्तते। सभागसर्वत्रगहेत्वोरेव निष्यन्दफ़लमित्यवधार्यते। पुरूषकारफ़लमपि हि तयोरनन्तरं सम्भवति। 

पौरूषं द्वयोः

इति। पुरूषकारफ़लमेव सहभूसम्प्रयुक्तकहेत्वोरित्यवधारणम्। पुरूषकारस्य फ़लं पौरूषम् पुरूषकारफ़लमित्यर्थः। पुरूषभावाव्यतिरेकात् पुरूषकारः पुरूषभावन्न व्यतिरिक्तः। पुरूषकर्मैव हि पुरूषकारो न पुरूषादन्यः। न हि कर्म कर्मवद्भयोऽन्यदिष्यते बौद्धेः। तस्मात् पुरूषकारस्य यत् फ़लं तत् पुरूषस्यैवेति पौरूषमित्युच्यते। यस्य धर्मस्य यत् कारित्रमिति। यस्य धर्मस्य यत् कर्म या क्रिया सा तस्य पुरूषकार इत्यर्थः। ननु चान्तर्व्यापारपुरूषाभावे धर्ममात्रं पुरूष इत्यतो धर्मकार इति प्राप्नोति न पुरूषकार इत्यत आह पुरूषकार इव हि पुरूषकारः। यथा लोके कल्पितस्य पुरूषस्य पुरूशकार एवं धर्मस्यापीति पुरूषकार इव पुरूषकारः। दृष्टान्तं कथयति काकजङ्घा अषधिरित्यादि। काकजङ्घाकारा अषधिः काकजङ्घेत्युच्यते। मत्तहस्तीव यो दृष्टः शूरो वा स मनुष्यो मत्तहस्तीति। किमन्येषामिति। हेतूनाम्। अन्येषामप्यस्तीति। सभागसर्वत्रगकारणहेतूनाम्। अन्यत्र विपाकहेतोः। कस्मादित्याह यस्मात् सहोत्पन्नं समन्तरोत्पन्नं वा पुरूषकारफ़लमिति। सहभूषम्प्रयुक्तकहेत्वोर्हि सहोत्पन्नं फ़लमुक्तम्। तह्च्च पुरूषकारफ़लमेव। न ह्यन्यत् फ़लं सहोत्पन्नमस्ति। सभागसर्वत्रगहेत्वोरनन्तरोत्पन्नमेव पुरूषकारफ़लम्। कारणहेतोस्तूभयथा। किं पुनर्निष्यन्दफ़लादधिपतिफ़लाद् वान्यत् पुरूषकारफ़लम्। नेत्युच्यते। तदेव हि फ़लं तत्तान्नम लभते। तथा हि तद्धेतुसदृशोत्पत्तेर्निष्यन्दफ़लम्। तद्दलेनोत्पत्तेः पुरूषकरफ़लम्। अविघभावावस्थानेनोत्पत्तेश्चाधिपतिफ़लमिति। न चैव विपाकः। किम्। सहोत्पन्नो वा समनन्तरोत्पन्नो वेत्यधिकृतम्।। ५६।।

[ विपाकोऽव्याकृतो धर्मः सत्त्वाख्यो व्याकृतोद्भवः।
निष्यन्दो हेतुसदृशो विसंयोगः क्षयो धिया।। ५७।। ]

विपाकोऽव्याकृतो धर्मः

इति विस्तरः। अव्याकृत एव सत्त्वाख्य एव व्याकृतोद्भव एवेत्यवधारणम्। अव्याकृत इति अनिवृताव्याकृतो विवक्षितः। सत्त्व इति आख्या यस्य सः

सत्त्वाख्यः

सत्त्वसन्तानज इत्यर्थः। व्याकृतादुद्भवतीति

व्याकृतोद्भवः।

औपचयिकनैष्यन्दिकौ तु न व्याकृतादुद्भवतः। ननु च इन्द्रियमहाभूतोपचयां ध्यानविशेषसमापन्नस्य भवति असावपि व्याकृतादुद्भवति स विपाकः प्राप्नोति निर्माणचित्तं चापि तथैव समाधिचित्तासम्भूतत्वात्। नैष दोषः। व्याकृतोद्भव इत्युच्छब्द उत्तरकालार्थः। व्याकृतात् कुशलादकुशलाद्वा य उत्तरकालमेव भवति न युगपन्नाप्यनन्तरं स विपाक इति। समाधिजस्तूपचयः समाधिना सह चानन्तरञ्च भवति। निर्माणचित्तं त्वनन्तरमेव च भवति। विपाकश्च समानभूमिक एवाभिप्रेत इत्येतच्चोभयं भिन्नभूमिकमपि भवतीति न विपाकस्य प्रसङ्गः।

निष्यन्दो हेतुसदृशाः

इति। कुशलक्लिष्टानिवृताव्याकृतसादृश्यमधिकृत्य। यद्येवम् उशलसास्रवस्य हेतोरनास्रवं निष्यन्दफ़लं प्राप्नोति कुशलसादृश्यात्। न निकायसादृश्याभावात्। समाननिकायो हि सभागहेतुरिष्यते न सर्वः। भूमितः क्लिष्टतया चास्य सादृश्यमिति। अस्य सर्वत्रगहेतोः सादृश्यं भूमितः क्लिष्ततया च। केन श। स्वफ़लेन कथमिति। भूमितस्तावत् सर्वत्रगहेतुः कामावचरो यावद्भावाग्रिकः तत्फ़लमपि कामावचरं यावद्भावाग्रिकमिति। क्लिष्टतया च सर्वतगहेतुंरपि क्लिष्तः तत्फ़लमपि क्लिष्टम्। न तु प्रकारतः सादृश्यं यथा सभागहेतोः। यस्य तु प्रकारतोऽपि सादृश्यम्। यस्य सर्वत्रगहेतोः स्वफ़लेन सह प्रकारतोऽपि सादृश्यम् स सर्वत्रगहेतुरभ्युपगम्यत एव सभागहेतुरिति। भूमिक्लिष्टत्वसादृश्याद्धि सर्वत्रगहेतुर्भवति सभागहेतुश्च स भवति प्रकारतोऽपि सादृश्यात्। अत एव चतुष्कोटिकः क्रियते। उभयस्वभावतया तृतीयकोटिसम्भवात्। प्रथमा कोटिरसर्वत्रगः सभागहेतुरिति। रागादिकः सभागहेतुः। स हि सभागहेतुरेव स्वनैकायिकस्य क्लेशस्य न तु सर्वत्रगहेतुरसर्वत्रगस्वभावत्वात्। द्वितीयान्यनैकायिकः सर्वत्रगहेतुरिति। सत्कायदृष्ट्यादिकः सरवत्रगः। स हि सर्वत्रगहेतुरेव सर्वत्रगस्वभावत्वात् अन्यनैकायिकक्लिष्टहेतुत्वाच्च। न सभागहेतुः अन्यनैकायिके क्लिष्टे सभागहेतुत्वाभावात्। तृतीयैकनैकायिकः सवत्रगहेतुरिति। सत्कायदृष्ट्यादिकः सर्वत्रगः। स ह्येकनैकायिकस्य क्लेशस्य सभागहेतुः एकनैकायिकक्लिष्टसादृश्यात्। सर्वत्रगहेतुश्च सः तस्य सर्वतगत्वादेकनैकायिकक्लिष्टहेतुत्वयोगेन सर्वत्रगहेतुत्वयोगाच्च। चर्तुर्थेतानाकारान् स्थापयित्वेति। त्रिकोट्युक्तां धर्मप्रकारां वर्जयित्वेत्यर्थः। तद्यथा क्लिष्टा धर्माः कुशलानां न सभागहेतुरसादृश्यात्। न सर्वत्रगहेतुरत एव कुशलानां चाक्लिष्टत्वात् एवं कुशलाः क्लिष्टानां योज्यम्। क्लिष्टा अपि क्लिष्टानां न सभागहेतुः नापि सर्वत्रगहेतुर्भवन्ति। तद्यथा रागादयोऽन्यनैकायिकानां क्लिष्टानां न सभागहेतुरन्यनैकायिकत्वात् न सर्वत्रगहेतुरसर्वत्रगत्वाद् रागादीनामिति। सर्वत्रगा अपि धर्माः क्लिष्टानामेक नैकायिकानामपि न सभागहेतुर्न सर्वत्र्गहेतुः। यद्यनागतास्ते भवन्तीति योज्यम्।

विसंयोगः क्षयो धिया

इति। धिया प्राप्यमाणो निरोधो विसंयोगफ़लमितयर्थः। तेनेति। तेन कारणेन। यस्मात् क्षयो निरोधः धीः प्रज्ञा तेन कारणेन प्रतिसंख्यानिरोधो विसंयोगफ़लमित्युक्तं फ़लमित्युक्तं भवतीत्याचष्टे।। ५७।।

[ यद्बलाज्जायते यत्तत् फ़लं पुरूषकारजम्।
अपूर्वः संस्कृतस्यैव संस्कृतोऽधिपतेः फ़लम्।। ५८।। ]

यद्बलाज्जायते

इति विस्तरः। यस्य बलं यद्वलमिति षष्ठीसमासः। यस्य बलाज्जायते

यत् संस्कृतम्

तत् फ़लम्

तस्य

पुरूषकारजम्।

पुरूषकाराज्जातं पुरूषकारजं पुरूषकारफ़लमित्यर्थः। उदाहरणं कथयति। तद्यथा अधरभूमिकस्य कामावचरस्य प्रथमध्यानभूमिकस्य वा तत्प्रयोगचित्तस्योपरिभूमिकः प्रथमध्यानभूमिको द्वितीयध्यानभूमिको वा समाधिः। फ़लं पुरूषकारजमित्यधिकृतम्। सास्रवस्य धर्मस्यानास्रवः। ध्यानचित्तस्य निर्माणचित्तं तदेव फ़लं भवति। आदिशब्देनान्यदपि। तद्यथा कामावचरान्मरणचित्ताद्रूपावचरः प्रथमोऽन्तराभवक्षण इत्येवमादि विजातीयोदाहरणं निष्यन्दफ़लविवेचनार्थम्। अधरभूमिकस्य हि प्रयोगचित्तस्योपरिभूमिकः समाधिर्न निष्यन्दफ़लम्। भिन्नभूमिकं हि न हेतुसदृशम्। नापि सास्रवस्यानास्रवमिति वक्तव्यम्। न तु सर्वं निष्यन्दफ़लं पुरूषकारफ़लं भवति। यद्धि यस्य बलाज्जायते सदृशं समानभूमिकमनन्त्रं च भवति तत्तस्य पुरूषकारफ़लं निष्यन्दफ़लं च भवति। चतुकोटिकं चात्र भवति। अस्ति पुरूषकारफ़लमेव न निष्यन्दफ़लम्। उयथोदाहृतम्। अस्ति निष्यदफ़लमेव न पुरूषकारफ़लम्। सभागसर्वत्रगहेत्वोर्व्यवहितं फ़लम्। अस्त्युभयम्। समनन्तरोत्पन्न सभागसर्वत्रगहेत्वोः फ़लम्। अस्ति नोभयम्। तद्यथा विपाकहेतोर्विपाकफ़लम्। प्रतिसंख्यानिरोधोऽपि पुरूषकारफ़लमिष्यते। न चासौ हेतुबलाज्जयते नित्यत्वादित्यतः कारिकायामनुक्त तदुपसंचष्ट। प्रतिसंख्यानिरोधस्तु यद्बलात् प्राप्यत इति वक्तव्यमिति। प्रतिसंख्याबलेन हि प्रतिसंख्यानिरोधः प्राप्यते। तस्मात् स प्रतिसंख्यायाः पुरूषकारफ़लं भवति।

अपूवः

इति विस्तरः। अपूर्वः पूर्वोत्पन्नादन्यः। कः पुनरसौ। सहोत्पन्नः पश्चादुत्पन्नश्च। न हि पूर्वं फ़लं पश्चाद्धेतुर्भवति। संस्कृत एव धर्मोऽधिपतिफ़लं नासंस्कृतः। संस्कृतस्यैव नासंस्कृतस्य फ़लप्रतिग्रहणदानासमर्थत्वात्। सर्वस्येति। जनकस्याविग़्हभावावस्थायिनश्च। कर्तुः पुरूषकारफ़लमिति।

यद्बलाज्जायते यत्तत् फ़लं पुरूषकारजम् इति वचनात्। अकर्तुरप्यधिपतिफ़लमिति। अपुर्वः संस्कृतस्यैव संस्कृतोऽधिपतेः फ़लम्

इति वचनात्। अन्येषामधिपतिफ़लमेवेति। अशिल्पिनामविग़्हभावावस्थायिनां तच्छिल्पमधिपतिफ़लमेव न पुरूषकारफ़लम्। तदेवं चतुःकोटिकं भवति। अत्सि पुरूषकारफ़लमेव नाधिपतिफ़लम् तद्यथा विसंयोगफ़लम्। अस्त्यधिपतिफ़लमेव न पुरूषकारफ़लम् उदासीनस्य हेतोर्व्यवहितञ्च फ़लम्। अस्त्युभयम् सहोत्पन्ननन्तरोत्पन्नञ्च कारकस्य हेतोः। अस्ति नोभयम् तद्यथा आकाशमप्रतिसंख्यानिरोधश्चेति।। ५८।।

[ वर्तमानाः फ़लं पञ्च गृह्णन्ति द्वौ प्रयच्छतः।
वर्तमानाभ्यतीतौ द्वावेकोऽतीतः प्रयच्छति।। ५९।। ]

वर्तमानाः फ़लं पञ्च

इति। वर्तमाना एव फ़लं

गृह्णन्ति

इत्यवधारणम्। प्रतिगृह्णन्तीति। आक्षिपन्ति हेतुभावेनावतिष्ठन्त इत्यर्थः। कारनहेतुरप्येवमिति। वर्तमान एव फ़लं प्रतिगृहणाति नातीतो नानागतो वा। स तु नावश्यं सफ़ल इति नोच्यते। तथा ह्यसंस्कृतं कारणहेतुरिष्यते। न चास्य फ़लमस्ति। अनागतश्च कारणहेतुः। न च पूर्वमुत्पद्यमानेन धर्मेण सफ़लः।

द्वौ प्रयच्छतः

इति। वर्तमानावधिकृतम्। सहभूसम्प्रयुक्तहेतू वर्तमानावेव फ़लं प्रयच्छतः। युक्त तावद् यदतीताविति। निष्यन्दफ़लेन सफ़ लावेतावुक्तौ।

सभागसर्वत्रगयोर्निष्यन्दः

इति वचनात्। अथ कथं वर्तमानौ निष्यन्दफ़लं प्रयच्छतः। न हि तयोर्वर्तमानावस्थायां निष्ःयन्दो दृश्यत इत्यत आह समनन्तरनिर्वर्तनात्। किम्। फ़लं प्रयच्छत इत्यधिकृतम्। तौ चाभ्यतीतौ भवत इति। हेतुफ़लयोरसमवधानात्। न पुनस्तदेव दत्त इति। न पुनस्तदेव फ़लं प्रयच्छत इत्यर्थः। दत्त इति ह्याख्यातपदं द्विवचनान्तम्। वर्तमानावस्थायामेव दत्तत्वात्। न हि वर्तमानतामानीतं पुनरानेतुं शक्यते। यदा च तावतीतौ फ़लं प्रयच्छतस्तदैव तत् स्वफ़लं प्रयच्छतः। उत्पद्यमानावस्थायामेव हि फ़लं निर्वर्तते नान्यदा। केवलं तु व्यवहितं तत् फ़लमित्यवगन्तव्यम्। कुशलमूलानि समुच्छिन्दन् याः प्राप्तीः सर्वपश्चाद्विजहातीति। इह कुशलमूलानि क्रमेण समुच्छिद्यन्ते। कथम्। मिथ्यादृष्टिर्नवप्रकारा मृदुमृद्वी यावदधिमात्राधिमात्रः। कुशलमूलान्यपि नवप्रकाराणि तद्विपर्ययेण मृदुमृद्वया मिथ्यादृष्टयाधिमात्राधिमात्राणि कुशलमूलानि समुच्छिद्यन्ते यावदधिमात्राधिमात्रया मिथ्यदृष्टया मृदुमृदूनि कुशलमूलानि समुच्छिद्यन्ते भावनाहेयक्लेशवत्। तत्रान्त्या वस्थायां मृदुमृदूनि कुशलमूलानि न समुदाचरन्ति। प्राप्तयस्तु तेषां मृदुमृदूनां समुदाचरन्ति। ताः सर्वपश्चिमादिका यास्तदा विजहाति। तासां प्राप्तीनां प्राप्तीर्निरोधयतीत्यर्थः। ताः प्राप्तयोऽन्त्यावस्थाः कुशलः सभागहेतुः फ़लं प्रतिगृह्णाति फ़लपरिग्रहं करोति। न ददाति स्वनिष्यन्दफ़लम्। कुशलस्य क्षणान्तरस्य जन्यस्याभावात्। द्वितीया कोटिः। ददाति न प्रतिगृह्णातीति। कुशलमूलानि प्रतिसन्दधानो याः सर्वप्रथमं प्रतिलभते। याः प्राप्तीः सर्वपूर्वं प्रतिलभते ताः कुशलः सभागहेतुः फ़लं ददातीति। प्राप्ति स्वनिष्यन्दं जनयति न तु प्रतिगृह्णाति पूर्वमेव प्रतिगृहीतत्वात्। अयं तु सावद्यो द्वितीयकोटिनिर्देशः। कुशलमूलप्रतिसन्धानकाले हि नवप्रकाराणामपि कुशलमूलानां प्राप्तयोऽतीतानागतप्रत्युत्पन्नाः फ़लं प्रतिलभ्यन्ते। तासां या अतीताः प्राप्तयः स कुशलः सभागहेतुः फ़लं ददाति न प्रतिगृह्णाति प्रतिगृहीतत्वादिति युक्तमेतत्। यास्तु वर्तमानास्तथैव प्रतिलब्धाः प्राप्तयः स कुशलः सभागहेतुः कथमवधार्यते फ़लं ददात्येव न प्रतिगृह्णातीति स हि प्रतिगृह्णाति च ददाति चेति। एवमविशेषित्वात् सावद्योऽयं द्वितीयकोटिनिर्देशः। तस्मादाचार्य आह एव तु वक्तव्यं स्यात्। ता एव प्रतिसन्दधानस्येति। ता एव प्राप्तयः कुशलः सभागहेतुः फ़लं ददात्येव स्वनिष्यन्दफ़लदनात्। न प्रतिगृह्णाति पूर्वप्रतिगृहीतत्वात्। तृतीया कोटिः। फ़लं प्रतिगृह्णाति ददाति चेति। असमुच्छिन्नकुशलमलस्य शेषास्ववस्थास्विति। द्वे अवस्थे हित्वा। यस्यामवस्थायां कुशलमूलानि समुच्छिन्दन् याः प्राप्तीः सर्वपश्चाद्विजहाति यस्यां चावस्थायां कुशलाः प्राप्तयः फ़लं प्रतिगृहणन्ति ददति चेति। विसभागक्षणान्तराव्यवहित इति वक्तव्यम्। न वक्तव्यम्। विसभागक्षणान्तरव्यवधानेऽपि प्राप्तिलक्षणस्य सभागहेतोः फ़लप्रतिग्रहणदानसम्भवात्। चतुर्थ्येतानाकारात् स्थापयित्वा। तद्यथा ऊर्ध्वभूमेः परिहीणस्य ऊर्ध्वभूमिकानां कुशलानां याः प्राप्तयस्ताः कुशलः सभागहेतुर्न फ़लं प्रतिगृह्णाति पूर्वं प्रतिगृहीतत्वात्। न ददाति तद्भूमिपरिहीनस्य तद्भूमिकानां कुशलमूलानां धर्माणां प्राप्त्यभावात्। एवं समुच्छिन्नकुशलमूलावस्थायामपि वक्तव्यम्।

अत्राचार्यः सङ्गभद्र आह नैतद् युज्यते यदुक्तम्। एवं तु वक्तव्यं स्यात् ता एव प्रतिसन्धधानस्येति। कस्मात् न हि यास्ताः सर्वपश्चाद्विहीनास्तासामेव तन्निष्यन्दफ़लम्। याः प्रतिसन्दधानः सर्वप्रथमं प्रतिलभत इति पूर्वनिरूद्धस्यापि हि तत्प्राप्तिसन्तानस्य स निष्यन्द इति। अतः कथं फ़लग्रहणात् कृतस्न एव तत् सभागहेतुर्गृहोतः स्यादिति तदर्थमेवेदमुच्यते। तस्माद् यथान्यास एव साध्विति। तदेवमुभयत्रापि पाठदोष उद्ग्राहिते कतरः पाठः श्रेयानिति। अत्राभिधर्मपाठ एव श्रेयानिति पश्यामः। ननु चोक्तप् अविशेषितत्वात् कुशलप्रतिसन्धानकाले प्रतिलब्धा वर्तमानाः प्राप्तयः फ़लं ददति प्रतिगृह्णन्त्यपि। ननु ददत्येव न प्रतिगृह्णन्तीति दोष इति। नैष दोषः। कुशलमूलानि प्रतिसन्दधान इति कुशलमूलप्राप्त्युत्पद्यमानावस्थायामेतदुच्यते न वर्तमानावस्थायाम्। तत्र च न काश्चिदपि कुशलमूलप्राप्तयो वर्तमाना भवन्ति। ताः कथं फ़लं प्रतिगृह्णन्ति ददति चेति शक्यते वक्तुम्। अतीतास्तु स्वसन्ताने कुशलमूलप्राप्तयः सर्वा अपि सभागहेतुभूताः स्वनिष्यन्दफ़लं तदानीं ददत्येव समनन्तरनिर्वर्तनन्यायेन न प्रतिगृह्णन्ति पूर्वं प्रतिगृहीतत्वात्। इत्यनया युक्त्त्याऽभिधर्मपाठमेव समर्थयामः। ननु चैवमविशेषिते पाठेऽनागतानां कुशलमूलप्राप्तीनां द्वितीयकोटित्ववचनप्रसङ्गः ता अपि हि तदानीमतीतप्राप्तिवत् प्राप्यन्ते। नैष दोषः अनागतानां सभागहेतुत्वाभावात् सभागहेतोश्चेहाधिकृतत्वात्। एवमपि न प्राप्तय एव वक्तव्याः। या एव सर्वप्रथमं प्रतिलभत इति। एवं तु वक्तव्यं स्यात्। यान् सर्वप्रथमं प्रतिलभत इति। यान् कुशलान् धर्मानित्यर्थः। चित्तचैत्ता अपि हि कुशलप्रतिसन्धाने प्रथमतः प्रतिलभ्यन्ते न केवलं तत् प्राप्तयः। अस्त्येतत्। किन्तु प्राप्तीनामेव कुशलप्रतिसन्धाने आवश्यकत्वादेवं वचनम्। कुशलप्राप्तयो हि सम्यग्दृष्टया विचिकित्सयापि वा कुशलप्रतिसन्धानेऽवश्यमुत्पद्यन्ते। चित्तचैत्तास्तु विचिकित्सया कुशलप्रतिसन्धाने न तावदुत्पद्यन्त इति प्राप्तय एवोत्पद्यन्त इति वर्णयन्ति।

अकुशलस्येति विस्तरः। अकुशलोऽपि सभागहेतुश्चतुष्कोटिकः। अस्त्यकुशलः सभागतुः फ़लं प्रतिगृह्णाति न ददातीति विस्तरेण। प्रथमा कोटिः कामवैराग्यमनुप्राप्नुवत् याः प्राप्तीः सर्वपश्चाद्विजहाति ता अकुशलः सभागहेतुः फ़लं प्रतिगृह्णाति न ददाति। कथं कृत्वा। इह क्लेशो नवप्रकारः मार्गोऽपि नवप्रकारः। तत्र मृदुमृदुना मार्गेणाधिमात्राधिमात्रः क्लेशप्रकारः प्रहीयते यावदधिमात्राधिमात्रेण मृदुमृदुः प्रहीयते। तत्प्राप्तयोऽपि तथैव प्रहीयन्ते। कामवैराग्यमनुप्राप्नुवन् या मृदुमृदूनामकुशलानां प्राप्तीः सर्वपश्चाद्विजहाति ता अकुशलः सभागहेतुः फ़लं प्रतिगृह्णाति न ददाति अकुशलप्राप्तिक्षणान्तराभावात्। द्वितीया कामवैराग्यात् परिहीयमाणो याः सर्वप्रथमं प्रतिलभतेऽकुशलानां प्राप्तीः ता अकुशलः सभागहेतुः फ़लं ददाति न प्रतिगृहणाति पूर्ववद् वक्तव्यम्।

अत्राचार्यो ब्रवीति। एवं तु वक्तव्यं स्यात्। ता एव परिहीयमाणस्येति। ता एव याः कामवैराग्यमनुप्राप्नुवन् प्राप्तीः सर्वपश्चाद् विजहातीति ता हि प्रतिगृहीतत्वान्न प्रतिगृहणन्ति। ददत्येव तु केवलं फ़लम्। पूर्वपाठे तु द्वितीया कोटिर्न सम्भवति यथोक्त प्राक्।

अत्राचार्यसङ्घभद्रस्तथैव प्रत्याचष्टे नैतद् युज्यत इति। पूर्वेण समानमेतत्। सर्व प्रपञ्चयितव्यम्।

तृतीया कामावीतरागस्य शेषास्ववस्थास्विति। द्वे अवस्थे हित्वा। एते एव यथोक्ते प्रथमद्वितीयावस्थे शेषास्ववस्थासु । यथास्माकम्। या अकुशलानां प्राप्तयस्ता अकुशलः सभागहेतुः फ़लं प्रतिगृह्णाति ददाति च। चतुर्थी एतानाकरात् यथोक्तान् स्थापयित्वा। तद्यथा कामवीतरागस्यापरिहाणधर्मणो या अकुशलानां प्राप्तयः सोऽकुशल सभागहेतुर्न फ़लं प्रतिगृह्णाति पूर्वं प्रतिगृहीतत्वात् न ददाति तस्य प्राप्त्यभावात्। एवं निवृताव्याकृतस्यापीति विस्तरः। एवं निवृताव्याकृतस्यापि चतुः कोटिकविधानम्। अर्हत्त्वप्राप्तितोऽर्हत्त्वपरिहाणितश्च यथायोगं योज्यम्। अस्ति निवृताव्याकृतः सभागहेतुः फ़लं प्रतिगृह्णाति न ददातीति विस्तरः। प्रथमा कोटिः अर्हत्त्वं प्राप्नुवन् याः प्राप्तीः सर्वपश्चाद्विजहाति स निवॄताव्याकृतः सभागहेः फ़लं प्रतिगृह्णाति न ददाति क्लिष्टक्षणा न्तराभावात्। द्वितीया अर्हत्त्वात् परिहीयमाणो यः सर्वप्रथमं प्रतिलभते। एवं तु वक्तव्यं स्यात्। ता एव परिहीयमाणस्यति। एवं हि फ़लदानमेवैकमुपपादितं भवति। पूर्वपाठसमर्थनमपि तेनैवानुक्रमेण वक्तव्यम्। तृतीया भवाग्रावीतरागस्य शेषास्ववस्थासु। चतुर्थी एतानाकरान् स्थापयित्वा। तद्यथा अर्हत्त्वं प्राप्तस्य यास्त्रिधातुक्यो निवृताव्याकृतानां प्राप्तयो यथासम्भवम् स निवृताव्याकृतः सभागहेतुर्न फ़लं प्रतिगृह्णाति प्रतिग्ऱ्इहीतत्वात्। न ददाति प्रहीनत्वात्। अनिवृताव्याकृतस्य पश्चात्पादक इति। पश्चात्पादकलक्षणं व्याख्यातमिति न पुनरूच्यते। योऽनिवृताव्याकृतः सभागहेतुः फ़लं प्रतिगृह्णाति ददात्यपि सः। आह। यस्ताद्ददाति प्रतिगृह्णात्यपि सः। अनिवृताव्याकृतस्या परिनिर्वाणात् सन्निहितत्वा। स्यात् प्रतिगृह्णाति न ददाति। अर्हतश्चरमाः स्कन्धाः सर्वोपधिनिःसर्गेणानिवृताव्याकृतनिष्यन्दाभावात्। सालम्बन नियमेन तु क्षणश इति। पूर्वमनालम्बानां सम्भवतो नियम उतः सालम्बन नियमेन तु चित्तचैत्तानामेव सभागहेतुत्वमुच्यते क्षणशः क्षणान्तरापेक्षया। न तु पर्यादाय विच्छेदत इत्यर्थः। कुशलचित्तानन्तरमिति विस्तरः। यदा कुशलचित्तानन्तरं क्लिष्टमव्याकृतं वा चित्तं सम्मुखीकरोति तदा तत् कुशलं चित्तं फ़लं प्रतिगृह्णाति यतस्तत्सन्तानपतितं व्यवहितमनागतं कुशलं फ़लं भविष्यति। अनुत्पत्तिधर्मि वा। न ददाति। यस्मादस्यानन्तरं कुशलमेव नास्ति। सदृशेन हि फ़लेन सफ़लः सभागहेतुरिष्यते। द्वितीया विपर्ययादिति। यदा क्लिष्टानिवृताव्याकृतचित्तानन्तरं कुशलं चित्तं सम्मुखीकरोति तदा येन कुशलेन चित्तेन तत् कुशलं चित्तं फ़लत्वेन प्रतिगृहीतमासीत् तद् ददाति न तत् प्रतिगृहणाति पूर्वं प्रतिगृहीतत्वात्। तृतीया कुशलचित्तानन्तरं कुशलमेवेति। सम्मुखीकरोतीत्यधिकृतम्। तत्पूर्वकं कुशलं चित्तं द्वितीयं चित्तं फ़लत्वेन प्रतिगृह्णाति ददाति च समनन्तरनिर्वर्तनात्। चतुर्थी एतानाकारान् स्थापयित्वेति। यदा क्लिष्टाव्याकृतचित्तानन्तर्ं क्लिष्टमव्याकृतं वा चित्तं सम्मुखीकरोति। तदासौ सालम्बनः कुशलः सभागहेतुर्न फ़लं प्रतिगृहणाति प्रतिगृहीतत्वात्। न ददाति क्लिष्टाव्याकृतचित्ताम्मुखीभावात्। एवमकुशलादयोऽपि योज्या इति। अस्ति सालम्बनोऽकुशलः सभागहेतुः फ़लं प्रतिगृह्णाति न ददाति चतुःकोटिकः। प्रथमा कोटिः। अकुशलानन्तरं कुशलमनिवृताव्याकृतं वा चित्तं सम्मुखीकरोति। द्वितीया विपर्ययात्। तृतीया अकुशलानन्तरमकुशलमेव। चतुर्थी एतानाकारान् स्थापयित्वा। आदिशब्देन निवृताव्याकृतोऽनिवृताव्याकृतश्च सभागहेतुर्योज्यः। निवृतस्य तावत् प्रथमा कोटिः निवृताव्याकृतचित्तानन्तरं कुशलमनिवृताव्याकृतं वा चित्तं सम्मुखीकरोति। द्वितीया विपर्ययात्। तृतीया निवृताव्याकृतचित्तानन्तरं निवृताव्याकृतमेव  चतुर्थी एतानाकारान् स्थापयित्वा। अनिवृतस्य प्रथमा कोटिः अनिवृताव्याकृतानन्तरं कुशलं क्लिष्टं वा चित्तं सम्मुखीकरोति। द्वितीया विपर्ययात्। तृतीया अनिवृताव्याकृतानन्तरमनिवृताव्याकृतमेव। चतुर्थी एतानाकारान् स्थापयित्वा। तस्य बीजभावोपगमनादिति। तस्य फ़लस्य हेतुभावोपगमनादित्युपमा सौत्रान्तिकप्रक्रियैषा। क्वचित् पुस्तके नास्त्येवंपाठः। यथा जलमण्डलमिति विस्तरः। यथेति दृष्टान्तप्रदर्शनम्। जलमण्डल वायुमण्डलस्य प्रतिष्ठाफ़लम् यावच्छब्देन जलमण्डलस्य काञ्चनमयी पृथिवी काञ्चनमय्याः पृथिव्यास्तथा सस्यौषधिप्रभृतयः प्रतिष्ठाफ़लमित्यधिकारः। अशुभायाः स्मृत्युपस्थानान्यारभ्य यावदनुत्पादज्ञानम्। एवमन्यस्याप्यानापानस्मृत्यादेः। प्रयोगस्य फ़लं योज्यम्। सामग्रयाः फ़लं समाग्रीफ़लम्। चक्षुरादीनामिति। आदिशब्देन चक्षुरूपालोकमनस्कारानां ग्रहणम्। एवं भावनायाः फ़लं भावनाफ़लमिति समासः। एतत्तु सर्वमिति विस्तरः। एतच्चतुर्विधं फ़लं पुरूषकाराधिपतिफ़लयोरन्तर्भूतम्। प्रतिष्ठाफ़लमधिपतिफ़लान्तर्भूतम् प्रयोगफ़लादि पुरूषकाराधिपतिफ़लयोः ।। ५९।।

क्लिष्टा विपाकजाः शेषाः प्रथमाया यथाक्रमम्।
विपाकं सर्वगं हित्वा तौ सभागञ्च शेषजाः।। ६०।। ]

[ क्लिष्ता इति विस्तरः। क्लेशतत्सम्प्रयुक्तत्समुत्थाः क्लिष्ताः। विपाकहेतुजा विपाकजाः। दुःखे धर्मज्ञानक्षान्तितत्सहभुवः प्रथमानास्रवाः। तेभ्याश्च शेषाः क्लिष्टादिभ्यस्त्रिभ्यः। विपाकवर्ज्या अव्याकृता ऐर्यापथिकशैलपस्थानिकनैर्माणिकाः। प्रथमानास्रवक्षणवर्ज्याश्च कुशला इति। कुशलग्रहणेन सास्रवानास्रवा गृह्यन्ते। तत्र दुःखे धर्मज्ञानकलापादयः सर्व एव शैक्षाशैक्षमार्गा लौकिकाश्च कुशलाः शेषा इत्यवगन्तव्य। शेषाश्चात्र तृतीयो राशिः क्रियते। तेनाह त एते चतुर्विधा धर्माः

क्लिष्टा विपाकजाः शेषाः प्रथमार्या यथाक्रमम्। विपाकं सर्वगं हित्वा तौ सभागञ्च शेषजाः।।

इति। विपाकमिति विपाकहेतुम्। क्लिष्टा धर्मा विपाकहेतुं हित्वा शेषेभ्यः पचभ्यः कारणसहभूसभागसम्प्रयुक्तकसर्वत्रगेभ्यो यथासम्भवं जायन्ते। स्वभाववर्ज्यात् सर्वधर्मलक्षणात् कारणहेतोः स्वकलापचित्तादिलक्षणात् सहभूहेतोः। पूर्वोत्पन्नस्वसन्तानक्लिष्टलक्षणात् सभागहेतोः स्वकलापचित्तलक्षणात् सम्प्रयुक्तकहेतोः। यस्मात्ते चित्तचैत्तस्वभावाः पूर्वोत्पन्नसत्कायदृष्टयादिलक्षणात् सर्वत्रगहेतोर्जायन्ते न तु विपाकहेतोः। विपाकफ़लेन हि सफ़लो विपाकहेतुः। न च क्लिष्टा धर्मा विपाकस्वभावा इति ते न ततो जायन्ते। विपाकजाः सर्वत्रगहेतुं हित्वा शेषेभ्यः पञ्चभ्य एव हेतुभ्यो जायन्ते न तु सर्वत्रगहेतोः विपाकजानमक्लिष्टत्वात्  सर्वत्रगेभ्यो विपाकजा जायन्ते न तु सर्वत्रगहेतोरिति कृत्वा ततो जायन्ते। किं तर्हि। विपाहेतोरिति। शेषा इति विस्तरः। शेशाणामविपाकस्वभावत्वान्न विपाकहेतुरस्ति। अक्लिष्टस्वभावत्वाच्च न सर्वत्रगहेतुरस्ति। अतस्तौ विपाकसर्वत्रगहेतू वर्जयित्वा शेषेभ्यश्चतुर्भ्यो जायन्ते। पूर्ववदव्याख्यानम्। प्रथमानस्रवास्तौ विपाकसर्वत्रगहेतू पूर्वोक्तौ। चशब्देनानुकृष्टौ सभागहेतु च हित्वा शेषेभ्यः कारणसहभूसम्प्रयुक्तकहेतुभ्यो यथासम्भवं जायन्ते। अनास्रवाणामविपाकस्वभावत्वान्न विपाकहेतुरस्ति। अक्लिष्टत्वान्न सर्वत्रगहेतुः। मार्गस्य पूर्वमनुत्पादितत्वान्न सभागहेतुरस्ति। न हि सास्रवा अग्रधर्मा अनास्रव्स्य कलापस्य सभागहेतुर्युज्यते। तस्मान्न तेभ्यो जायन्ते।। ६०।।

[ चित्तचैत्तस्तथान्येऽपि सम्प्रयुक्तकव्र्जिताः।
चत्वारः प्रत्यया उक्ता हेत्वाख्याः पञ्च हेतवः।। ६१।। ]

चित्तचैत्ताः

इति। सम्प्रयुक्तकहेतुसम्भवार्थ चित्तचैत्तग्रहणम्। प्राप्तिजात्यादयश्च चित्तविप्रयुक्ताः। अनास्रवसंवरश्च रूपिस्वभावोऽनास्रवेषु वेदितव्यः। ते चित्तविप्रयुक्ता रूपिणश्च चित्तचैत्तेभ्योऽन्ये क्लिष्टादयः क्लिष्टविपाकज शेषप्रथमानास्रवसंगृहीतास्तथैवोत्पद्यन्ते यथा चित्तचैत्ताः। केवलं तु सम्प्रयुक्तकहेतुनैकेन वर्जिताः। तेषामसम्प्रयुक्तकस्वभावत्वान्न सम्प्रयुक्तकहेतोर्जायन्ते। कथमिति क्लिष्टाश्चित्तविप्रयुक्तरूपिणो विपाकसम्प्रयुक्तकहेतू हित्वा शेषेभ्यश्चतुर्भ्यो हेतुभ्यो जायन्ते। विपाकजा अपि सम्प्रयुक्तकसर्वत्रगहेतू हित्वा शेषेभ्यश्चतुर्भ्य एव। शेषा विपाकसर्वत्रगसम्प्रयुक्तकहेतून् हित्वा शेषेभ्यस्त्रिभ्यः। प्रथमानास्रवा विपाकसर्वत्रगहेतू सभागहेतुं च सम्प्रयुक्तकहेतुं च हित्वा शेषाभ्यां हेतुभ्यां जायन्त इति। एकहेतुसम्भूतो नास्तीति। कारनहभूहेत्वोरवश्यमविनाभावात्।

जन्यस्य जनिका जातिर्न हेतुप्रत्ययैर्विना

इत्युक्तम्। अतो हेतुविस्तरवचनानन्तरं पृच्छति प्रत्ययाः कतम इति।

प्रत्ययजातिः प्रत्ययतेति । प्रत्ययप्रकार इत्यर्थः गोतावत्।। ६१।।

[ चित्तचैत्ता अचरमा उत्पन्नाः समनन्तरः।
आलम्बनं सर्वधर्माः कारणाख्योऽधिपः स्मृतः।। ६२।। ]

चित्तचैत्ताः

इति विस्तरः। चित्तचैत्ता एव समनन्तर इत्यवधारणम्। अचरमग्रहणं सोत्तराणां समनन्तरत्वात्। उत्पन्नग्रहणमनागतनिरासार्थम्। समश्चायमनन्तरश्च प्रत्यय इति समनन्तरप्रत्यय इति। सामानार्थे संशब्दः। कामावचरस्य रूपस्येति। अविज्ञप्तिरूपस्य कदाचित् कामावचरमविज्ञप्तिरूपं रूपावचरं चाविज्ञप्तिरूपमुत्पद्यते सास्रवध्यानसम्मुखीभावे गृहीतसंवरस्य। कदाचित् कामावचरं चानास्रवं चानास्रवध्यानसम्मुखीभावे। न तु कामावचरचित्तानन्तरं कदाचित् कामावचरं रूपावचरं य युगपच्चित्तमुत्पद्यते। कामावचरं चानास्रवं चेत्याकुलो रूपसंमुखीभावः।

द्वितीयोत्पत्तेरिति। द्वितीयौपचयिकोत्पत्तेः। यदा हि भुता स्वपिति ध्यानं वा समापद्यते तदाहारज औपचयिकः स्वप्नजश्च समाधिजो वा औपचयिक उत्पद्यते।

अल्पबहुतरोत्पत्तेरिति। किम्। रूपम् न समनन्तरप्रत्यय इति प्रकृतम्। भदन्तः स्थविरः सौत्रान्तिकः।

कुशलाकुशलाव्याकृतेषु चित्तेष्वति।

सवितर्कविचारित्वात् कुशले कामचेतसि।
द्वारिंशतिश्चैतसिकाः कौकृत्यमधिकं क्वचित्।।
आवेणिके त्वकुशले दृष्टियुक्ते च विंशतिः।
क्लेशैश्चतुर्भिः क्रोधाद्यैः कौकृत्येनैकविशतिः ।।
निवृतेऽष्टादशान्यत्र द्वादशाव्याकृते मताः।

इत्यनेन क्रमेण कदाचिद्वहुभ्यश्चैत्तेभ्यस्त्रयोविंशतेरेकविंशतिरष्टादश द्वादश वाल्पे चैत्ता उत्पद्यन्ते कदाचिदल्पाद्बहवो विपर्ययात्। सवितर्कविचारादौ च समाधित्रये। अस्ति सवितर्कः सविचारः समाधिः अस्त्यवितर्को विचारमात्रः अस्त्यवितर्कोऽविचार इति। एतस्मिन् समाधित्रये चैत्तानामल्पबहुतरोत्पत्तिः। अतश्च चित्तचैत्ता अपि न समनन्तरप्रत्ययाः स्युरिति। अस्ति जात्यन्तरं प्रति न स्वजातिमिति। अस्त्यल्पबहुतरोत्पत्तिर्जात्यन्तरं प्रति न स्वजातिम्। वितर्कविचारादीनां हि क्वचिच्चित्ते जात्यन्तरभूतानां सतां वृत्तिरवृत्तिश्च भवति। न कदाचिद्बहुतरा वेदनेति। नहि कदाचिद्वेदनैकस्मिंश्चित्ते एका क्वचिदपरस्मिन् द्वे तिस्रो वेति। रूपस्य तु स्वजातिं प्रत्यल्पबहुतरोत्पत्तिः।

किं पुनः स्वजातेरेवेति । किं वेदना वेदनाया एव समनन्तरप्रत्ययः। अनेकवेदनोत्पत्तावसामर्थ्यात्। एवं संज्ञादयः। न परजातेः न वेदना संज्ञादीनाम् यतश्चैत्तानामल्पबहुतरोत्पत्तिर्न परिगृहीता भवेत्।

सान्तानसभागिकास्त्विति विस्तरः। चित्तं चित्तान्तरस्य समनतरप्रत्ययः न वेदनायाः। वेदना वेदनान्तरस्य न चित्तस्येति। सन्तानसभागः सभागहेतुरित्यर्थः। सन्तानसभागेन दीव्यन्ति व्यवहरन्ति वा सान्तानसभागिकाः केचिदाभिधर्मिकाः। यदि सन्तानः सन्तानन्तरस्य सभागहेतुः अक्तिष्टानन्तरं यदा क्लिष्तमुत्पद्यते कथं तत्र समनन्तरप्रत्ययव्यवस्थेति। अत आह यदा त्वक्लिष्टानन्तरमिति विस्तरः। तस्य क्लेशस्य पश्चादुत्पन्नस्य पूर्वनिरूद्वक्लेशः क्षणान्तरव्यवहितः समनन्तरप्रत्यय इति व्यवस्थापयन्ति तुल्यजातीयेन चित्तान्तरेणाव्यवधानात्। अक्लिष्टेन व्यवधानं त्वव्यवधानमेव अतुल्यजातीयत्वात् तद्यथा निरोधसमापत्तिचित्तं व्युत्थानचित्तस्य चित्तान्तरेणाव्यवधानात्। समापत्तिद्रव्येन व्यवहितमपि समनन्तरप्रत्ययो व्यवस्थाप्यते तद्वत्।

त्रैधातुकाप्रतिसंयुक्तानां युगपत्सम्मुखीभावादिति। कामधात्ववीतराग्स्यार्यस्य कामावचर्याः प्राप्तेरनन्तरं त्रैधातुकाप्रतिसंयुक्तानां प्राप्तय उत्पद्यन्ते त्रैधातुकैः केल्शैः समन्वागत्वात्। एवं तज्जात्यादयोऽप्युत्पद्यन्ते। इत्येवं व्याकुलसंमुखीभावात् विप्रयुक्ता अपि संस्काराः प्राप्तिजात्यादयो न समनन्तरप्रत्ययः।

कस्मादनागत इति विस्तरः।

उत्पन्नाः समनन्तरः

इत्यतीतप्रत्युत्पन्ना एव समनन्तरप्रत्यय इति पूर्वमुक्तम्। अत एवं पृच्छति। व्याकुलत्वादिति। व्याकुलत्वादनागतो नेष्यते समनन्तरप्रत्ययः। व्याकुलत्वं पुनरनागतस्याध्वनः पूर्वोत्तरोभावात्। पूर्वोत्तरताया अभावात् वर्तमानो ह्यनागतात् पूर्वो वर्तमानादतीत इति शक्यते वक्तुम् पूर्वोत्तरकालयोगात्। न त्वनागतस्य पूर्वपश्चिमतास्ति। अत एव च वर्तमानो वर्तमानस्य न समनन्तरप्रत्यय इष्यते पूर्वपश्चिमताया अभावात्तुल्यकालत्वात्। अतीतसाम्प्रतानुमानादिति। अतीतेन च साम्प्रतेन चानुमानात्। अतीतेनानुमानमिति दर्शयन्नाह अतीतं किलाध्वानं पश्यतीति विस्तरः। साम्प्रतेनानुमानमिति दर्शयन्नाह इदं चापि सम्प्रत्येवंजातीयकमिति विस्तरः। अपरान्त न जानीयादिति। सर्ववित्त्वमस्य हीयेतेत्यभिप्रायः। फ़लचिह्नभूतः फ़ललिङ्गभूतः। न साक्षातकारी न साक्षाद्दर्शी।

अनागतो नेष्यते समनन्तरप्रत्ययो व्याकुलत्वात् पूर्वपश्चिमताया अभावादित्युक्तेऽयमाह कस्मादग्रधर्मानन्तरमिति विस्तरः । तस्य वैभाषिकः परिहारमाह यस्य यत्प्रतिबाद्ध उत्पाद इति विसतरः। यस्य धर्मस्य दुःखे धर्मज्ञानक्षान्त्यादेर्यस्मिन् धर्मे लौकिकाग्रधर्मादौ प्रतिबद्ध उत्पादः स तस्यानन्तरमुत्पद्यते। तद्यथा बीजादीनामङ्कुरादयः। अङ्करस्य हि बीजे प्रतिबद्ध उत्पादः तस्मात्तदनन्तरमुत्पद्यते। एवं काण्डादीनामङ्कुरादिषु। विनापि समनन्तरप्रत्ययेनासत्यपि समनन्तरप्र्तयये। अपिशब्दात् सति समनन्तरप्रत्यये सुतरामुत्पद्यत् इत्यभिप्रायः। तस्मान्नस्ति च क्रानियमावस्थानम् तद्वत् समनन्तरोत्पत्तिनियमश्च भवतीति वाक्यार्थः।

कस्मादर्हतश्चरमा इति

अचरमाः

इति वचनादयं प्रश्न आगतः। अन्यचित्तासम्बन्धादिति। यस्मात् तदनन्तरमन्यचित्तं न सम्बन्धि। आश्रयभावंप्रभावितं मन इति। यथा चक्षुरूत्पन्न चक्षुर्विज्ञानाश्रयभावेनावस्थितम् यदि कारणान्तरवैकल्याह्चक्षुर्विज्ञानं नोत्पद्यते न तत्र चक्षुरपराध्यते। एवमर्हतोऽपि चरमं चित्तमाश्रयभावेनास्थितम्। कारणान्तरवैकल्यात्तु विज्ञानान्तरं नोततद्यत इति न तदपराध्यते। तद्धि न कारित्रप्रभावितम्। न जजनपुरूषकारप्रभावितमित्यर्थः। यदि हि तज्जननप्रभावितं स्यात् जायमान एव सति कार्ये तन्मनः स्यात्। न चैवम्। अतोऽस्त्यपि जन्ये तन्मनो भवत्येव। कारित्रप्रभावितस्तु समनन्तरप्रत्ययः सत्येव जन्ये समनन्तरप्रत्ययो भवति नासति। तेन योधर्मः फ़लं प्रतिगृहीतः। तेन समनन्तरप्रत्ययेन यो धर्मः फ़लं प्रतिगृहीतो जायतामेतदिति स सर्वेरपि धर्मैरबुद्धिमद्भिः सर्वप्राणिभिर्वा सञ्चिन्त्यकारिभिर्न शक्यः प्रतिबन्धु यथा नोत्पद्येत मोत्पादीति।

ये धर्माश्चित्तसमनन्तरा इति विस्तरः। समनन्तरप्रत्ययचित्तजनिताश्चित्तसमनन्तराः। चित्तस्य समाश्च तेऽनन्तराश्च ते इति चित्तसमनन्तराः। अथ वा चित्त समनन्तरम् समनन्तरप्रत्यय एषामिति चित्तसमनन्तराः। क्षणान्तराव्यवहितात्तु चित्तनिरन्तराः। ते पुनश्चित्तसमनन्तराश्चित्तचैत्ता द्वे च समापत्ती असंज्ञिनिरोधसमापत्ती नासंज्ञिकं चित्तसमनन्तरं शास्त्रे पठितं कर्मसामर्थ्योत्पत्तेः। प्रथमा कोटिरिति विस्तरः। समापत्तिव्युत्थानचित्तं समापत्तिप्रवेशचित्तजनितम्। अतश्चित्तसमनन्तरं न चित्तनिरन्तरम् समापत्तिक्षणव्यवहितत्वा। द्वितीयादयश्च समापत्तिक्षणाः प्रथमक्षणवर्ज्या इत्यर्थः। चित्तसमनन्तराः तत्प्रत्ययजनितत्वात् न चित्तनिरन्तराः यथायोगं प्रथमादिषणव्यवहितत्वात्। द्वितीया। प्रथमस्य समापत्तिक्षणस्य जात्यादयश्चित्तनिरन्तराः क्षणान्तराव्यवहितत्वात्। न तु चित्तसमनन्तराः अचित्तसमनन्तरस्वभावत्वात्। चित्तचैत्ता एव हि सह समापत्तिद्वयेन चित्तसमनन्तरा इष्टाः। सचित्तिकावस्थायाञ्च जात्यादयः। तेषामविशेषितत्वात् सर्वेषां चित्तचैत्तादीनां जात्यादयः। आदिग्रहणेन च सर्व एव विप्रयुक्ता गृह्यन्ते समापत्तिद्वयं वर्जयित्वा। ते च तथैव चित्तनिरन्तरा न चित्तसमनन्तराः। पूर्ववद् व्याख्यानम्। सचित्तिकावस्थेति। यदा चित्ताचित्तान्तरमुत्पद्यते तदा पश्चिमाश्चित्तचैत्ताः पूर्वकेण चित्तेन चित्तसमनन्त्राश्चित्तनिरन्तराश्च भवन्ति। चतुर्थी। द्वितीयादीनां समापत्तिक्षणानां व्युत्थानचित्तस्य च जात्यादयः न चित्तसमनन्तराः अचित्तसमनन्तरस्वभावत्वात् न चित्तनिरन्तराः प्रथमदिसमापत्तिक्षणव्यवहितत्वात्। ये तृतीयचतुर्थो ते ओरथमद्वितीये इति विस्तरः। प्रथमा कोटिः प्रथमसमापत्तिक्षनः सचित्तिका चावस्था। ते हि चित्तसमनन्तराः समनन्तरप्रत्ययजनितत्वात् न समापत्तिनिरन्तराः प्रथमसमापत्तिक्षणस्य सर्वसमापत्तिक्षणाभावेन न तन्निरन्तरत्वा भावात् सचित्तिकावस्थायाञ्च समापत्त्यभावात्। द्वितीया। द्वितीयादीनां समापत्तिक्षणानां जात्यादयो व्युत्थानचित्तस्य च इमे धर्माः समापत्तिनिरन्तरा न चित्तसमनन्तराः। तृतीया। अचित्तिकायाः समापत्तेर्व्युत्थानचित्तं द्वितीयादयश्च समापत्तिक्षणाः। एते चित्तसमनन्तराः समापत्तिनिरन्तराश्च। चतुर्थी। प्रथमस्य समापत्तिक्षणस्य सचित्तिकायां चावस्थायां जात्यादयः इमे धर्मा न चित्तसमनन्तरा न समापत्तिनिरन्तरा अच्त्तसमनन्तरस्वभावत्वात् पूर्वसमापत्तिक्षणाभावाच्च।

ससम्प्रयोगस्य सचैतसिकस्य। तथालक्षणत्वादिति। आलम्ब्यलक्षणत्वात्। आयतनद्रव्यक्षणनियमेनेति। आयतनञ्च द्रव्यञ्च क्षणश्च तेषां नियमः तेनैव। ते चित्तचैत्ताः स्वस्मिन् स्वस्मिन्नालम्बने नियताः। यथा तावच्चक्षुर्विज्ञानं ससम्प्रयोगं रूपायतने आलम्बने नियतं न शब्दायतनादौ एवमायतननियमेन। तत्राप्यातने आलम्बने नियतं न शब्दायतनादौ एवमायतननियमेन। तत्राप्यायतने द्रव्यन्यमेन नीलरूपे नीलरूपग्राहकमेव चक्षुर्विज्ञानं ससम्प्रयोगं नियतम् नान्यत्र पीतादौ। एवं द्रव्यनियमेन। तत्रापि नीलरूपे आलम्बने यो नीलरूपक्षणो यस्यालम्बनं स तस्यैव नान्यस्य। इत्येवं क्षणनियन। एवं शब्दायतनादिष्वपि श्रोत्रादिविज्ञानं ससम्प्रयोगं योज्यम्। किमाश्रयनियमेनापीति। किं चक्षुराद्याश्रयनियमेनाप्येते चित्तचैत्ता नियताः। अमित्याह। एवमित्यर्थः।

आलम्बनप्रत्ययोऽपि सर्वधर्मा इति मनोविज्ञानापेक्षया। अधिकोऽयं प्रत्यय इत्यधिपतिप्रत्यय इति। हेतुप्रत्ययदिभ्यः। हेतुप्रत्ययो हि परं पञ्च हेतवः। आलम्बनप्रत्ययो हि सहभुवां न सम्भवतीति नाधिकः। अधिकस्य वा प्रत्यय इति। पूर्वमदिकः पतिरधिपतिः स प्रत्यय इति समासः। इदानीमधिकस्य भूयसः पतिरधिपतिः स प्रत्यय इत्यधिपतिप्रत्यय इति समासः। कथमित्याह। सर्व इति विस्तरः। स्रर्वः संस्कृतासंस्कृतः सर्वस्य संस्कृतस्य स्वभाववर्ज्यस्य सालम्बनस्यानालम्बनस्य च प्रत्ययोऽधिपतिप्रतययः आलम्बनप्रत्ययस्तु सालम्बनस्यैव नानालम्बनस्य। प्रथमे विग्रहे ओप्रत्ययस्याधिक्यं दर्शितम् द्वितीये प्रत्ययवतः।। ६२।।

[ निरूध्यमाने कारित्रं द्वौ हेतू कुरूतस्त्रयः।
जायमाने ततोऽन्यौ तु प्रत्ययौ तद्विपर्ययात्।। ६३।। ]

निरूध्यमाने कारित्रम्

इति। निरूध्यमान् एवेत्यवधारणम् मिथःफ़लत्वात् समाश्रयत्वाच्च सहभूसम्प्रयुक्तकहेत्वोर्यथाक्रमम्।

त्रयो जायमाने इति जायमान एवेत्यवधारणम्।

ततोऽन्यौ तु प्रत्ययौ तद्विपर्ययात्

इति। समनन्तरप्रत्ययः पूर्वोक्तस्यं पश्चादुक्त कारित्रकालनियममाश्रयते। जायमाने कारित्रं करोतीत्यर्थः। पश्चादुक्त आलम्बनप्रत्ययः पूर्वोक्त कारित्रकालनियममाश्रयते। निरूध्यमाने कारित्रं करोतीत्यर्थः। एवं तौ विपर्ययात् कारित्रं कुरूतः। तेनाह समनन्तरप्रत्ययो जायमाने कारित्रं करोत्यवकाशदानात् आलम्बनप्रत्ययो निरूध्यमाने। वर्तमानैश्चित्तचैत्तैर्वर्तमान ग्रहणादिति यवत्। ग्रहणार्थेन ह्यलम्बनप्रत्ययो व्यवस्थाप्यते। न चातीतानागताश्चित्तैचैत्ता ग्राह्यमर्थ गृह्णन्तीति।

एतदेवास्य कारित्रमिति। यदनावरणभावेन सर्वस्यामवस्थायामवस्थानम् एतदेवास्याधिपतिप्रत्ययस्य कारित्रामति सुगमत्वान्नाधिपतिप्रत्ययस्य कारित्रकालनियमः सूचित इत्यभिप्रायः।। ६३।।

[ चतुर्भिश्चित्तचैत्ता हि समापत्तिद्वय त्रिभिः।
द्वाभ्यामन्ये तु जायन्ते नेश्वरादेः क्रमादिभिः।। ६४।। ]

द्विविधो हेतुरिति। सम्प्रयुक्तकसर्वत्रगविपाकहेतूनामसम्भवात्। समानभूमिकाः कुशला धर्मा इति। निरोधसमापत्तेर्भावाग्रिकाः कुशला धर्माः सभागहेतुर्हेतुप्रत्ययः। असंज्ञिसमापत्तेरपि चतुर्थध्यानभूमिकाः। येषां बलेन ते समापत्ती भवतः। समनन्तरप्रत्ययः ससम्प्रयोगं समाप्त्तिचित्तमिति। सर्वेषां निरोधसमापत्तिक्षणानामसंज्ञिसमापत्तिक्षणानाञ्च चित्तान्तरेणा जत्वादिति। चित्ताभोगजत्वादित्यर्थः। चित्तोत्पत्तिविबन्धान्न समनन्तर प्रत्यय इति। समनन्तरप्रत्ययस्य चित्तोत्पत्तिहेतुत्वात्।

द्वाभ्यामन्ये तु

इति। तुशब्दोऽवधारणे भिन्नक्रमश्च। द्वाभ्यामेव हेत्वधिपतिप्रत्ययायाभ्यामन्ये वै चित्तचैत्तसमापत्तिद्वयविनिर्मुक्ता धर्मा जायन्ते। ईश्वरपुरूशप्रधानादिकमिति। आदिशब्देन कालस्वभावप्रमाण्वादि गृह्यते। ननु चात एवेति। यदि वेश्वरं एकं कारणं पुरूष इति वात्र पक्षे को हेतुरिति हेतुर्मृग्यते ईश्वरव्यतिरिक्त हेतुं कृत्वा तत्सैद्धेरित्यभ्युपगतं भवति। तदभ्युपगमाच्चैकमीश्वरः पुरूष इति वा करणं सर्वस्य जगत इत्यस्य वादस्य व्युदासः पर्त्यागः प्राप्नोतीत् पिण्डेन वाक्यार्थः।

नेश्वरादेः क्रमादिभिः

इति। नेश्वरादेर्भावा जायन्ते। कस्मात् क्रमादिभिः। आदिग्रहणेन देशकालादीनां ग्रहणम्। अथ वानेककारणत्वानवस्थाप्रसङ्गादन्यपुरूषकाल निह्नवादीनां ग्रहणम्। यदि ह्येकमेवेति विस्तरः। यदि हेय्कमेव कारणमीश्वरः स्यात् महादेवो वा वासुदेवो वा अन्यद्वा पुरूषादि वेत्यर्थः युगपत् सर्वेण जगता भवितव्य कारणस्य सद्भावात्। न ह्येतदिष्टम् सति कारणे कार्यं न भवतीति। दृश्यते च भावानां कललादीनामङ्कुरादीनाञ्च क्रमसम्भवः। तस्मात् स्वकारणपरम्परानिर्वृत्त इति नेश्वरादि कारणमिति गम्यते। ईश्वराद्येककारणं जगदिति हि प्रतिजानानस्य स्वकारणक्रमोत्पादितादिलक्षणेन धर्मविशेषेण तस्य सापक्षालत्वं पक्षस्योपलक्ष्यते। स तर्हि छन्दवशादिति। स क्रमभेद इच्छावशादीश्वरस्य स्यात्। कथमित्याह। अयमिदानीं भाव उत्पद्यतां यावदयं पश्चादुत्पद्यतामिति। एवं क्रमसम्भवश्च भावानामीश्वरश्च कारणमितीश्वरकारणिकाभिप्रायः। छन्दभेदादिति विस्तरः। ईश्वरच्छन्दभेदादनेककारणत्वाभ्युपगमात् प्राक्पक्षविरोधाद् धर्मस्वरूपविपर्ययः पक्षस्योत्पद्यते। स चापीति विस्तरः। स चापि छन्दोभेदो युगपत् स्यात् तद्धेतोश्छन्दभेदहेतोरीश्वरस्याभिन्नत्वादेकत्वादित्यर्थः। ततश्चैव स पूर्वोक्तो दोषो युगपत् स्यादिति। अथ मन्यसे अन्यदपि कारणान्तरं भिन्नं तदुत्पत्तावीश्वरोऽपेक्षत इत्यत इदमुच्यते। कारणान्तरभेदापेक्षणे चेति विस्तरः। नेश्वर एव कारणमित्यभ्युपगमे स एव दोषः। तेषामपि चेति विस्तरः। तेषामपि च कारणान्तराणाम् क्रमोत्पत्ताविष्यमाणायां कारणान्तरभेदानामपि पुनः कारणान्तरभेदापेक्षणादनवस्थाप्रसङ्गः तेषामपि कारणान्तरभेदापेक्षणं तेषामपि कारणान्तरभेदापेक्षणमित्यपर्यवसानप्रसङ्गः स्यात्। शाक्यपुत्रीयमेव न्यायमिति। अनादिः संसार इति शाक्यपुत्रीयं  न्यायं नातिक्रान्तः स्यात्। यौगपद्येऽपीति विस्तरः। अथापि स्यात्। यौगपद्येऽपीश्वरच्छन्दानां न जगतो यौगपद्यम्। कस्मात् यथाच्छन्दमुतपादात्। यः पश्चादुत्पद्यतामिति तस्य तस्मात् पश्चादुत्पत्तिः। इदं च पश्चात् पश्चात्तरमेवंप्रकारमिति तस्य तस्मात् पश्चात्तरं तथैवोत् पत्तिरिति। तच्च न तेषां पश्चाद्विशेषाभावात्। तेषां छन्दानां पश्चान्न कश्चिद्विशेष इति। यथैव पूर्वं नारभन्ते तथा पश्चादपि नारभेदन्। यथा वा पश्चादारभन्ते तथा पूर्वमपीति। अथ वा एक एवोत्पादयिता नेतर इति तेषां विशेषाभावः। अतः प्राप्तमेव भावानामीश्वरच्छन्दनामिव यौगपद्यम्। कारणान्तरापेक्षत्वे वा छन्दविशेषाणां पुर्ववद्दोषः। न तस्यामीश्वरः स्यादिति। न तस्यां प्रीतावीश्वरः स्यात् विनोपायेन तत्कारणाशक्तेः। एतदीश्वरस्येश्वरत्वम् यदसौ कारणान्तरानपेक्षः कुर्यात्। तथैव चान्यस्मिन्निति। यथा प्रीतावनीशवर एवमन्यस्मिन्नपि त्रैलोक्ये नेश्वर इत्यनुमीयते। यदि चेश्वर इति विस्तरः। नरकादिषु प्रजां सृष्टा बहुभिश्चेतिभिरूपसृष्टाम्। बहुभिरनेकैः प्रकारैरीतिभिरूपसर्गे रोगादिभिरूपसृष्तामुपद्रुतां प्रजां सृष्टा यदि प्रीयेत नमोऽस्तु तस्मै इत्युत्प्रासवचनमेतत्। सुगीतश्चेति विस्तरः। सूक्तश्चायं तमारभ्य तमीश्वरमधिकृत्य श्लोक ःशतरूद्रीये व्यासेन

यन्निर्दहति

इत्यादि। यस्मान्निर्दहति तस्माद्रुद्र इत्येवं सर्वत्र। अन्येषामिति। बीजादीनामङ्कुरादिषु प्रत्यक्षः पुरूषकारो निह्नुतः स्यात् कारणेभ्योऽन्यस्य व्यापारादर्शनादिति। चक्षुरूपालोकमनस्कारादिभ्यश्च चक्षुर्विज्ञानाद्यु तपत्तौ बीजक्षेत्रोदकादिभ्यश्चाङ्कुराद्युत्पत्तावन्यस्य व्यापारानुपलब्धेः। यथा हि चक्षुरादीनां चक्षुर्विज्ञानाद्युत्पत्तौ बीजादीनां चाङ्कुराद्युत्पत्तौ व्यापारो दृश्यते तद्भावे भावात्तदभावे चाभावात् न तथा चक्षुरादिभावे बीजादिभावे चेश्वरस्याभवे चक्षुर्विज्ञानाङ्कराद्यभावो दृष्टः। पुनश्च तद्भावे भावः यतस्यापि तदुत्पत्तौ व्यापारो गम्येत इत्यतस्तदव्यापारादर्शनात् सह कारणैरीश्वरं कारणं कल्पयतां केवलो भक्तिवादः स्याद्। किं च सहकारिषु चेति विस्तरः। यानि सहकारीण्यन्यानि तस्येश्वरस्य। किं तेष्वीश्वरो नेश्वरः स्यात्। तानि हि कार्योत्पत्तौ स्वसामर्थ्येन व्याप्रियन्ते। अन्येषु तु सहकारिष्वीश्वरः स्यादित्यन्य ग्रहणम्। आदिसर्ग ईश्वरहेतुकः। तथा हि प्रत्यक्षपुरूषकारनिह्नवो न स्यात् कारणेभ्योऽन्यस्य व्यापारादर्शने चादोषो जगतश्चेश्वरः कारणमिति। तस्याप्यन्य कारणानपेक्षत्वात्। तस्याप्यादिसर्गस्यान्कारणानपेक्षत्वात्। ईश्वर एवैकः कारणं नान्यदिति। ईश्वरवदनादित्वप्रसङ्गः। अनिष्टं चैतत्। तस्मान्नेश्वरः कारणम्।

एवं प्रधानेऽपि यथायोगं योज्यमिति। प्रधानमचेतनम्। तस्मात्तत्र छन्दविकल्पनां हित्वा शेषप्रतिषेधविधानं योज्यम्। यद्येकमेव कारणं प्रधानं स्यात् युगपत् सर्वेण जगता भवितव्यं स्यात्। दृश्यते च भावानां क्रमसम्भवः। कारणान्त्र भेदापेक्षणे वा न प्रधानमेव कारणं स्यात्। तेषामाप क्रमोत्पत्तौ कारणान्तरभेदापेक्षणादनवस्थाप्रसङ्गः स्यादिति विस्तरः। एवं खल्वपि जगतः कारणं परिगृह्णता अन्येषामर्थानां प्रत्यक्षः पुरूषकारो निह्नुतः स्यात्। सहापि च कारणैः कारणं प्रधानं कल्पयतां केवलो भक्तिवादः स्यात्। करणेभ्योऽन्यस्य व्यापारादर्शनात् सहकारिषु चान्येषु कारणेषु तत् प्रधानमप्रधानं स्यात्। अथादिसर्गः प्रधानहेतुकः। तस्यापि महदाद्युतपादस्वभावस्यादिसर्गस्याद्यलक्षणत्वात् प्रधान्वदनादित्वप्रसङ्गः। नितयं हि प्रधानं प्रधानञ्च महतः कारणमिति पूर्वप्रधानं पश्चान्महानिति न सिध्यति। प्रसवधर्मि च प्रधानमिति तेन नित्य प्र्वर्तितवं कारणान्तरनिरपेक्षत्वात्। नहि प्रकाशः प्रकाश्यमर्थ प्रकाश्य पुनर्न प्रकाशयतीति। स्वभावो हि कृतार्थतां नोपेक्षते। अकृतबुद्धयः। परमार्थशास्त्रैरसंस्कृतबुद्धय इत्यर्थः।। ६४।।

[ द्विधा भूतानि तद्धेभौतिकानि तु पञ्चधा।
त्रिधा भौतिकमन्योन्यं भूतानामेकधैव तत्।। ६५।। ]

द्विधा भूतानि तद्धेतु ः

इति। पूर्वोत्पन्नानि भूतानि पश्चादुत्पन्नानां स्वासन्तानिकानां सभागहेतुरविनिर्भागवर्तीनि सहभूहेतुः। भूतानुविधायित्वादिति। भौतिकं भूतान्यनुविधत्ते। तद्विकारे विकारात्। आचार्यादिनिश्रयवदिति। यथा भिक्षुराचार्यमाश्रयते आदिशब्देन उपाध्यायञ्च निश्रयते तद्वद्भूतानि भौतिकं निश्रयते। एवमेषामिति विस्तरः। जन्महेतुत्वमेषां भूतानामाख्यातं तु भौतिकस्य तेभ्य उत्पत्तेः। विकारहेतुत्वं तदनुविधायित्वात्। आधारहेतुत्वमाधारभावात्। स्थितिहेतुत्वमनुच्छेदहेतुत्वात्। वृद्धिहेतुत्वमुपवृहणहेतुत्वादिति। अविशेषवर्तित्वादिति। अविग़्हभावावस्थानेनान्येषामपि हेतुत्वादियर्थः। अन्योन्यं चित्तानुपरिवर्तिकायवाक्कर्मेति। कायकर्म चित्तानुपरिवर्ति ध्यानानास्रवसंवरसंगृहीतं त्रिविधं प्राणातिपातादत्तादानकाममिथ्याचारविरतिभेदेन। वाक्कर्मापि चित्तानुपरिवर्ति ध्यानानस्रवसंवरसंगृहीतमेव चतुर्विधम्। मृषावादपैशुन्यपारूष्यसम्भिन्नप्रलापविरतिभेदेन। तदेवं सप्तविधं कायवाक्कर्मान्योन्यं सहभूहेतुः प्राणातिपातिविरतिरूपादायरूपमितरेषां षण्णां सहभूहेतुः। तान्यपि षट् तस्य सहभूहेतुरिति सर्वं योज्यम्। नान्यदिति। चक्षुरादिकं सर्वमुपदायरूपं प्रातिमोक्षसंवरादिसंगृहीतमपि यावन्नान्योन्यं सहभूहेतुः पृथक्कलापत्वात्। सभागस्येति। कुशलं कुशलस्य स्वासन्तानिकस्य क्लिष्ट क्लिष्टस्येत्यादि। यस्य कायवाक्कर्मण इति। विज्ञप्त्यविज्ञप्तिस्वभावस्य समाहितस्यासमाहितस्य वा यथायोगम्। एकधैव तदिति विपाकहेतुरेवैक इत्यवधारणम्। कारणहेतोस्तथैवागण्यमानत्वात्। पृथक्कलापत्वादिति सहभूहेत्वाद्ययोगात्।। ६५।।

[ कुशलकुशलं कामे निवृतानिवृतं मनः।
रूपारूप्येष्वकुशलादन्यत्रानास्रवं द्विधा।। ६६।। ]

रूपधातावकुशलं नास्तीति। स विविक्तं कामैर्विविक्तं पापकैरकुशलैर्धर्मैः सवितर्क सविचार विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपपसम्पद्य विहरतीति वचनात्। तत्र रूपधातावकुशलं नास्ति। अकुशलविवेकाद्धि यज्जातं शुभं तद्विवेकजमित्युच्यते। यथा च हेतुः तथा फ़लमिति। तत्रोपपत्तावपि नास्त्यकुशलमिति गम्यते। रूपारूप्यधातौ सर्व एव क्लेशोपक्लेशावविपाकत्वान्निवृता एव नाकुशलाः।। ६६।।

[ कामे नव शुभाच्चित्ताच्चित्तान्यष्टभ्य एव तत्।
दशभ्योऽकुशलं तस्माच्चत्वादि निवृतं तथा।। ६७।।
पञ्चभ्योऽनिवृतं तस्मात् सप्त चित्तान्यनन्तरम्।
रूपे दशैकञ्च शुभान्नवभ्यस्तदनन्तरम्।। ६८।।
अष्टभ्यो निवृतं तस्मात् षट् त्रिभ्यो निवृतं पुनः।
तस्मात् षडेवामरूप्ये तस्य नीतिः शुभात् पुनः।। ६९।।
नव चित्तानि तच्छक्तान्निवृतात् सप्त ततथा।
चतुर्भ्यः शैक्षमस्मात्तु पञ्चाशैकं तु पञ्चकात्।। ७०।। ]

अनन्तरमिति पश्चाद्वक्ष्यत इति कारिकान्ते। तदिह सम्बन्धनीयम्। समापत्तिकाले कुशलमिति। कामावहरप्रायोगिककुशलचित्ताननत्रं प्रथमध्यानभूमिकं सामन्तकीयं मौलीयं वा चित्तमुत्पद्यते। प्रतिसन्धिकाले निवृतमिति। कामवचरोपपत्तिप्रतिलम्भिकमरणचित्तान्तरं रूपाचवरं निवृताव्याकृतं चित्तमुत्पद्यते प्रतिसन्धिकाले।

उपपत्तिभवः क्लिष्टः सर्वक्लेशैः स्वभूमिकैः

इति वचनात्। उपपत्तिरत्रान्तराभवोपपत्तिरभिप्रेता। एवमन्तराभवप्रतिसन्धिरपि क्लिष्टो वेदितव्यः। चतसृभिर्दूरताभिर्दूर इति। तत्रेयमाश्रयदूरता यदारूप्यावचरेणाश्रयेण कामवचरः कश्चिदपि धर्म् न सम्मुखीक्रियते। यथा रूपावचरेणाश्रयेण कामावचरं निर्माणचित्तं सम्मुखीक्रियत इति। अनयाश्रयदूरतया कामधातोरारूप्या दूरे भवन्ति। आकादूरता यदारूप्यवचरेण चित्तेन कामधातुर्नाकार्यते। यथा रूपावचरेण औदारिक इत्यादिभिराकारैः। आलम्बनदूरता यदारूप्यावचरेण चित्तेन न कामधातुरालम्ब्यते यथा रूपावचरेण। ननु च रूपधातुरपि नारूप्यवचरेण चित्तेनालम्ब्यते।

न मौलाः कुशलारूप्याः सास्रवाधरगोचराः

इति वचनात्। तत् कथमिदमुच्यते कामधातोरेवारूप्या दूरत इति। सत्यं न मौलारूप्यावचरेण चित्तेन रूपधातुरध्यालम्ब्यते। किन्त्वाकाशानन्त्यायतन सामन्तकचित्तेनौदारिकाद्याकारैश्चतुर्थध्यानमालम्ब्यत इति। अतो न काम धातोरिव रूपधातोरारूप्या दूरे व्यवस्थाप्यन्ते। प्रतिपक्षदूरता यदारूप्या न कामधातोः प्रतिपक्षः। यथा रूपधातुः। इत्येवमाश्रयालम्बनाकारप्रतिपक्षदूरताभिरपि कामधातोरारूप्या दूरे भवन्ति। तस्मान्न कामवचरकुशलानन्तरमारूप्यावचर कुशलमुत्पद्यते। शैक्षमशैक्षञ्चेति। कामावचरप्रायोगिककुशलचित्तान्तरं समापत्तिकाले लब्धपूर्वं शैक्षमुत्प्द्यते तथैव चाशैक्षम्। क्लिष्टसमापत्त्युत्पीडितस्येति क्लिष्टया समापत्त्योत्पीडितस्य योगिनोऽधरायाः कुशलाया भूमेः संश्रयणान्निवृताव्याकृतादपि कुशलं चित्तमुत्पद्यते। वरमधरापि कुशला भूमिर्नोर्ध्वा क्लिष्टेति। सर्वेभ्यो रूपारूप्यचित्तेभ्य इति। कुशलाव्याकृतचित्तस्य मरणसम्भवात्।

तस्माच्चत्वारि

इति। तस्मादकुशलाच्चत्वारि स्वभूकान्येव अकुशलस्योर्ध्वभूमिकुशलप्रयोगत्वासम्भवादप्रहाणाच्चोर्ध्वभूम्युपपत्तिचित्तानुत्पादात्। कुशलं निर्माणचित्तादनन्तरमिति। निर्माणदव्युत्थानकाले। तस्मादनन्तरमेकादशेति। प्रतिसन्धिसमापत्तितदव्युत्थाननिर्माणप्रवेशकालेष्वेकादशचित्तोत्पत्तिसम्भवः। कथम् स्वभूमिकानि त्रीणि कामवचाराणि च। व्युत्थानकाले कुशलम् प्रतिसन्धिकाले क्लिष्टद्वयम्। अनिवृताव्याकृतं च निर्माणचित्तम्। आरूप्यवचरं च निवृताव्याकृत प्रतिसन्धिकाले। कुशलं च समापत्तिकाले। शैक्षमशैक्षं चेति। न त्वारूप्यावचरमनिवृताव्याकृतम्। अवश्याक्लिष्टत्वात् समापत्त्याद्ययोगाच्च। न हि तत् प्रयोगलभ्यं यथा रूपावचरं कामवचरं च निर्माणचित्तम्। कामावचर च क्लिष्टद्वयमारूप्यावचरं चानिवृताव्याकृतं हित्वेति। न कामावचरात् क्लिष्टद्वयाद्रूपावचरं कुशलमुत्पद्यते। तस्य क्लिष्टद्वयस्य तत्प्रयोगानर्हत्वात्। अत एव च नारूप्यावचरादनिवृताव्याकृतात्तदुत्पद्यते। कुशलेन च प्रतिसन्धिबन्धाभावात्। कामावचरं क्लिष्टद्वयं शैक्षाशैक्षे च स्थापयित्वेति। न कामावचरात् क्लिष्टद्वयाद्रूपावचरं निवृताव्याकृतमुत्पद्यते तदप्रहाणे रूपधातौ प्रतिसन्धिबन्धाभावेन निवृताव्याकृतचित्तासम्भवात्। न शैक्षाशैक्षाभ्याम्। ततस्त्येन क्लिष्टेन व्युत्थानासम्भवात्। कामावचराणि चेति। त्रीणीत्यधिकृतम्। प्रतिसन्धिकाले क्लिष्टद्वयं क्लिष्टसमाध्युत्पीडितस्य च कुशलम्। कामावचरे च क्लिष्टे आरूप्यावचरं चेति। प्रतिसन्धिकाले। अधरधातुकानि च क्लिष्टानि प्रतिसन्धिकाले। आरूप्यावचरात् कुशलान्नवेति। स्वभूमिकानि त्रीणि। रूपावचरं कुशलं तत्समापत्तिव्युत्थानकाले प्रतिलोम समापत्तौ च। अधरभूमिकानि च क्लिष्टानि प्रतिसन्धिकाले। शैक्षमशैक्षं च। कामावचरं कुशलं कामरूपावचरे चानिवृताव्याकृते हित्वेति। न कामावचरेण कुशलेन तत्समापत्तेर्व्युत्थानं सम्भवत्यतिविप्रकृष्टत्वात् अत एव च नानिवृताव्याकृतेनाप्यपटुत्वाच्च। अत एव च न रूपावचरेणानिवृताव्याकृतेन व्युत्थानम्। न चैभिः प्रतिसन्धिबन्धोऽस्तीति नैषामत उत्पत्तिः। तत् षण्णामनन्तरमिति वर्तते। रूपावचरात् कुशलादिति। समापत्तिकाले। शैक्षाशैक्षाभ्यां चेति। व्युत्थानकाले। रूपावचरं कुशलमिति। क्लिष्टसमाध्युत्पीडितस्य। निवृतं चेत्यादि। प्रतिसन्धिकाले। कामरूपावचराणि क्लिष्टानि शैक्षाशैक्षे च हित्वेति। अधोभूम्यवीतरागस्य तेन प्रतिसन्धेरभावात्। शैक्षाशैक्षाभ्याञ्च तेन व्युत्थानासम्भवान्न तेभ्यस्तदुत्पत्तिः। तान्येव चत्वार्यशैक्षं चेति। त्रीणि त्रैधातुकानि कुशलानि व्युत्थानकाले शैक्षं च प्रवाहे वज्रेपमानन्तरं क्षयज्ञानमित्यशैक्षं चेति पञ्च। पञ्चकादत एवानन्तरोक्तादिति। त्रैधातुकेभ्यः कुशलेभ्यः समापत्तिकाले। वज्रोपमानन्तरोत्पत्तौ प्रवाहेचेति। तस्माच्चत्वारीति। शैक्षं हित्वा। न ह्यशैक्षात् शैक्षमुत्पद्यते। परिहाणिकाले कथं नोत्पद्यते। क्लेशोत्पादव्यवहितत्वात् व्युत्थितस्यैव परिहाणेश्च।। ६७-७०।।

[ तस्माच्चत्वारि चित्तानि द्वादशैतानि विंशतिः।
प्रायोगिकोपपत्त्याप्तं शुभं भित्त्वा त्रिषु द्विधा।। ७१।।
विपाकजैर्यापथिकशैल्पस्थानिकनैर्मितम्।
चतुर्धा व्याकृतं कामे रूपे शिल्पविवर्जितम्।। ७२।। ]

प्रायोगिकं चोपपत्तिलाभिकं चेति। प्रायोगिकं यत्प्रयोगाल्लभ्यते। श्रुतचिन्ताभावनामय त्रिषु धातुषु यथासम्भवम् उपपत्तिलाभिकं कामरूपधात्वारन्तराभवप्रतिसन्धिक्षणे प्रथमतो यस्य प्राप्तिरूत्पद्यते आरूप्यधातौ चोपपत्तिभवे यस्य प्राप्तिरूत्पद्यते। विपाकजमैर्यापथिकं शैल्पस्थानिकं निर्माणाचित्तं चेति। हेतुकर्मभेदादयं भेदः। विपाकहेतोर्जातं विपाकजम्। ईर्यापथेषु शयनासनस्थितिचंक्रमणेषु भवमैर्यापथिकम्। शिल्पस्थानेषु भवं शैल्पस्थानिकम्। निर्माणे चित्तं निर्माणचित्तम् निमिते निर्माने वा भवं नैमितं नैर्माणिकमिति वा। तदेवोच्यते पुनर्विशतिर्भवन्तीति। कथमित्याह षोदा कुशलमनिवृताव्याकृतं च सप्तधा भित्त्वेति। त्रिषु धातुषु प्रायोगिकोपपत्तिप्रतिलम्भिकभेदेन कुशलं षोदा भित्त्वा। कामरूपधात्वोश्चानिवृताव्याकृते सप्तधा भित्त्वा। कामधातौ विपाकजैर्यापथिकशैल्पस्थानिकनैर्माणकभेदेन। रूपधातां च विपाकजैर्यापथिकनैर्माणिकभेदेनेति। तान्येतानि त्रयोदश शेषाणि च सप्ताभिन्नान्येव। तद्यथा कामावचरमकुशलं निवृताव्याकृतं च रूपावचरं निवृताव्याकृतमेव आरूप्यावचरं निवृताव्याकृतमनिवॄताव्याकृतं च। शैक्षमशैक्षं चेति विंशतिचित्तानि भवन्ति। ईर्यापथाद्यभावादिति। ईर्यापथशिल्पस्थाननिर्माणाभावात्। एतानि त्रीण्यारूप्यधातौ न सन्ति। आलम्बनभूतस्य रूपस्याभावात्। रूपगन्धरसस्प्रष्टव्यान्येषामालम्बनमिति। तत्र शय्यसनरूपादयः स्वशरीरावयवरूपादयश्चैर्यापथिकस्यालम्बनम् शैल्पस्थानिकस्य शिल्पस्थानरूपादयः नैर्माणिकस्य निर्माणरूपादयः। शैल्पस्थानिकस्य तु शब्दोऽपीति। तुशब्दो विशेषणे। अपिशब्देन रूपादयः। शब्दोऽप्यस्यालम्बनम्। शिल्पोपदेशशब्दमालम्ब्य मनोविज्ञानेन शिल्पं शिक्षत इति। विपाकजस्यावचनात् सर्वेऽपि रूपादय आलम्बनमित्यवगन्तव्यम्। मनोविज्ञानान्येवेति। मनोविज्ञानस्वभावान्यैर्यापथिकादीनि त्रीणि। विकल्पाभिसंस्करणे प्रवृत्तत्वात्। विपाकजमवचनात् षड्विज्ञानस्वभावमिति ज्ञापितं भवति। पञ्च तु विज्ञानकायमैर्यापथिकशैल्पस्थानिकयोः प्रायोगिका इति। तत्प्रयोगावस्थायां भवत्वात् प्रायोगिकाः। यस्मात्ते दृश्टा यावत् स्पृष्टोत्पद्यन्त इति। विपाकस्य प्रयोगो नास्ति कर्मसामर्थ्येन स्वरसवाहित्वात्।

ऐर्यापथिकाभिनिर्हतमिति विस्तरः। ऐर्यापथिकेन मनोविज्ञानेनाभिनिर्हृतमुत्पादितं मनोविज्ञानमस्ति द्वादशायतनालम्बनम्। चक्षुरायतनालम्बनं यवद्धर्मायतनालम्बनमनिवृताव्याकृतस्वभावमित्यपरे। तदेवं प्रदर्शयन्ति। अन्यदप्यनिवृताव्याकृतमस्ति यदैर्यापथिकादिषु नान्तर्भवतीति। इत्थमेव च प्रतिपत्तव्यम्। अन्यथा हि यद् वक्ष्यति

कायाक्षिश्रोत्रविज्ञानं विज्ञप्त्युत्थापकञ्च यत्।
द्वितीयादौ तदाद्यप्तमक्लिष्टाव्याकृतञ्च तत्।
स्वभूमिकेन निर्माण भाषणं त्वधरेण च।

इत्यादि तानि विज्ञानान्येषां चतुर्णा कतमेन संगृहीतानि। न तावद् विपाकजानि ऊर्ध्वोपपन्नानामधरभूमिकविपाकासम्भवात्। नैर्यापाथकादीनि ईर्यापथाद्यभावात्। अज्ञानादिविभ्वासनाचित्तं च क्व प्रवेशयितव्यम्। भदन्तान्तवर्मणापि विभाषाव्याख्यान उक्तम्। एतच्चतुष्टयव्यतिरिक्तान्यव्याकृतानि विज्ञानानि सन्तीति सावशेषमेतद् भाष्यमित्यवगन्तव्यम्।

अन्यत्राभिज्ञाफ़लादिति। कामावचरं निर्माणचित्तं रूपावचरप्रायोगिकानन्तरमेवोत्पद्यते। न कामावचरप्रायोगिकान्तरम्। रूपावचरं प्रायोगिकं शैक्षमशिक्षं चेति। समापत्तिकाले। स्वेभ्यः कुशलक्लिष्टेभ्य इति। स्वाभ्यां कुशलाभ्यां क्लिष्टाभ्याञ्च। प्रयोगकाले क्लिष्टासद्भावात्। क्लेशपरिखिन्नस्य च प्रायोगिकोत्पत्तेः। नानिवृताव्याकृतेभ्यो दुर्बलानभिसंस्कारित्वात्। रूपावचराभ्यां प्रायोगिकक्लिष्टाभ्यामिति। प्रायोगिकात् क्लिष्टात्। शैक्षाशैक्षाभ्याञ्च व्युत्थानकाले। क्लिष्टात् क्लिष्टसमाध्युत्पीडितस्य। रूपारूप्यावचरे च क्लिष्टे इति। प्रतिसन्धिकाले। सम्भवति ह्युपपत्तिप्रतिलम्भिकचित्तस्य मरणम्। पूर्ववदिति। अन्यत्राभिज्ञाफ़कादित्यर्थः। तद्धि रूपावचरप्रायोगिकानन्तरमेवेत्युक्तम्। रूपावचराभ्याञ्चेति विस्तरेण् पूर्ववद्व्याख्यानम्। अकुशलनिवृताव्याकृतानन्तरमिति। अकुशलानन्तरं निवृताव्याकृतानन्तरं चेति विभक्तव्यम्। तुल्यत्वाद्धि तद्युगपदद्वचनम्। रूपावचरेभ्यश्चतुर्भ्यः। अन्यत्र प्रायोगिकाभिज्ञाफ़लाभ्यामिति। प्रतिसन्धिकाले। प्रायोगिकेऽभिज्ञाफ़ले च स्थितस्य नास्ति मरणम्। अतस्ताभ्यां तत् क्लिष्टद्वयं नोत्पद्यते। शेषेषु तु स्थितस्यास्ति मरणम्। अतस्तेभ्यस्तत् क्लिष्तद्वयमुत्पद्यते। प्रतिसन्धिकाले। एवमन्यत्राप्यन्यत्र प्रायोगिकादिति व्याख्येयम्। षडन्यत्र प्रायोगिकाभिज्ञाफ़लाभ्यामिति। दुर्बलानभिसंस्कारिकत्वात्। अनयोरनन्तरं प्रायोगिकं नोत्पद्यते। रूपावचरप्रायोगिकानन्तरोत्पत्तेश्च न ताभ्यामभिज्ञाफ़लोत्पत्तिः। रूपारूप्यावचरे च क्लिष्टे इति। प्रतिसन्धिकाले। शैल्पस्थानिकानन्तरं षडिति। तत्रस्थस्य मरणसम्भवादरियापथिकविपाकजवदिह रूपारूप्यावचरक्लिष्टयोरसम्भवः। स्व चाभिज्ञाफ़लमेवेति। पवाहकाले। रूपावचरं च प्रयोगिकमिति। तद्व्युत्थाने। न तदित्यप्रविश्य ध्यानमभिज्ञाफ़लादव्युत्थानमस्तीति। तदप्यस्मादेव द्वयादिति। तदभिज्ञाफ़लं प्रवाहे तत्प्रवेशकाले च। कामावचरकुशले इति। व्युत्थानकाले। अस्ति हि सम्भव उपपत्तिप्रतिलम्भिकेनापि समापत्तिव्युत्थानं पटुत्वात्। अतो द्वयोरपि कुशलयोर्ग्रहणम्। अभिज्ञाफ़लं चेति। कामावचरं निर्माणचित्तम्। आरूप्यावचरप्रायोगिकशैक्षाशैक्षाणि समापत्तिकाले। अन्यत्रैर्यापथिकविपाकजाभ्यामिति। तयोर्दुर्बलानभिसंस्कारिकत्वात्। प्रायोगिकक्लिष्ताभ्यामिति। व्युत्थानक्लिष्टसमापत्त्युत्पीडितकालयो। कामावचरे क्लिष्टे इति प्रतिसन्धिकाले। अन्यत्राभिज्ञाफ़लादिति। निर्माणचित्तस्य प्रायोगिकानन्तरोत्पत्तेः। आरूप्यावचरं क्लिष्टमिति। प्रतिसन्धिकाले। कुशलक्लिष्टानीति। कुशले च क्लिष्टे च कुशलक्लिष्टानीति समासः कुशलाधरभूमिकाश्रयणात् कुशले क्लिष्टे तु प्रतिसन्धिकाले। कामावचरेभ्य इति विस्तरः। प्रतिसन्धिकाले। प्रायोगिकशैल्पस्थानिकाभिज्ञाफ़लेषु मृत्युर्नास्तीति न तेभ्यः। कामावचरे क्लिष्टे इति। प्रतिसन्धिकाले। आरूप्यावचरमपि क्लिष्टमस्मिन्नेव स्वं प्रायोगिकमतो नोत्पद्यते। ऐर्यापथिकस्य दुर्बलानभिसंस्कारित्वेन प्रयोगनार्हत्वात्। एवं विपाकजमिति। यथैर्यापथिकमुक्त तथेदं विपाकजानन्तरं सप्त यावदन्यत्राभिज्ञाफ़लादिति। तावेव ग्रन्थार्थौ। अभिज्ञाफ़लान्तर द्वे स्वे इति। व्युत्थाने प्रवाहे च। तदप्याभ्यामेवेति प्रवेशे प्रवाहे च। रूपावचरं प्रायोगिकमिति। व्युत्थानकाले। एवं शैक्षमशैक्षञ्च स्वानि चत्वारीति। कुशलं भवतीति स्फ़ुटम्। क्लिष्टमास्वादनाकालेऽनिवृताव्याकृतं तु व्युत्थानकाले। रूपावचरात् प्रायोगिकादिति। समापत्तिकाले। अन्यत्र विपाकजादिति। दुर्बलानबिसस्कारवाहित्वादिति कारणं वक्ष्यते। शैक्षाशैक्षाभ्याञ्चेति। समापत्तिकाले। अधरधातुकानि च क्लिष्टानीति। रूपावचरकामावचराणि प्रतिसन्धिकाले। प्रायोगिकक्लिष्टे इति। प्रायोगिकं क्लिष्टसमाध्युत्पीडनात्। क्लिष्टं प्रतिसन्धिकाले। कामावचरेऽषि क्लिष्टे प्रतिसन्धिकाल एव। कामवचररूपावचरेभ्य इति विस्तरः। तच्चित्तस्थमरणसम्भवात्। अन्यत्र प्रायोगिकादिति। विपाकजानन्तर प्रायोगिकानुत्पत्तेः। अधराणि त्रीणि क्लिष्टानीति। द्विधातुकानि प्रतिसन्धिकाले। कामावचरमुत्पत्तिलाभिकमिति। पटुत्वादेतच्छैक्षाद्व्युत्थानचित्तं सम्भवति। पटुत्वादिति कारणं वक्ष्यति। न तु तथा रूपारूप्यावचरे उपप्त्तिलाभिके पटुनी इति न ते सम्भवतः। शैक्षं प्रवाहे अशैक्षं च वज्रोपमानन्तरम्। शैक्षमेकं हित्वेति। अशैक्षाच्छैक्षं नोत्पद्यते। तस्मादशैक्षानन्तरं पञ्च। न तु षट् यथा शैक्षात्। तानि च पञ्च शैक्षवद्वक्तव्यानि।

अत्र विंशतिचित्तानां समनन्तरप्रत्ययस्यासूत्रितस्य सूत्ररूपाः संग्रह श्र्लोकाः।

प्रायोगिकाच्छुभात् कामे दशाष्टभ्यस्तदन्यतः।
शुभान्नवैकादशतस्तत् सप्त क्लिष्टतः पृथक्।।
चतुर्दशभ्यस्तेऽष्टावैर्यापथिकविपाकजात्।
ते तु सप्ततः षट् शैल्पस्थानिकात्तत्तु सप्ततः ।।
नैर्मिताद्द्वे द्वयोश्चैतद्रूपे प्रायोगिकाच्छुभात्।
द्वादशैतत्तु दशतः शुभादष्टावयत्नजात् ।।
तत् पञ्चभ्यो नव क्लिष्टात्तदेकादशतः पुनः।
विपाकजैर्यापथिकात् सप्त तत् पञ्चतो द्वयम्।।
द्वे अभिज्ञाफ़लाच्चित्ताद्द्वाभ्यामेव तथैव तत्।
आरूप्ये यात्निकात् सप्त कुशलात् षडभ्य एव तत्।।
अयात्निकाच्छुभात् सप्त चतुर्भ्यस्तत् पुनः स्मृतम्।
क्लिष्टादष्टौ दशभ्यस्तत् षट् चित्तानि विपाकजात्।।
चतुर्भ्यस्तत्तु षट् शैक्षाच्चतुर्भ्यः पुनरेव तत्।
अशैक्षात् पञ्च तदपि पञ्चभ्यः समनन्तरम्।।

ईर्यापथशिल्पाभिसंस्करणप्रवृत्तत्वात्। न पुनरेभ्यः प्रायोगिकमुत्पद्यत इत्यधिकृतम्। अतोऽसम्भवादैर्यापथिकशैल्पस्थानिकानन्तरं प्रायोगिकं नोत्पद्यते। तदन्याभिसंस्करणप्रवृत्तत्वादित्यभिप्रायः। यस्मादैर्यापथिकमीर्यपथाभिसंस्करणे प्रवृत्तम् गमनाद्याकारत्वात्। शल्पस्थानिकं च शिल्पाभिसंस्करणे प्रवृतम् इदमेवं करोमीदमेवं करोमीतीत्येवमाकारप्रवृत्तत्वात्। दुर्बलानभिसंस्कारवाहित्वाच्च विपाकजानन्तरं प्रायोगिकं नोत्पद्यते। तद्धि विपाकजमव्याकृतत्वाद्दुर्बलम् पूर्वकर्माप्क्षयात्। अयत्नेन च प्रवृत्तेरनभिसंस्कारवाहीति। अथ वा ईर्यापथशिल्पाभिसंस्करणप्रवृत्तत्वात्। ऐर्यापथिकशैल्पस्थानिकानन्तरं न प्रायोगिकमुत्पद्यते। दुर्बलानभिसंस्कारवाहित्वाच्च ऐर्यापथिकशैल्पस्थानिकल्विपाकजानन्तरं प्रायोगिकं नोत्पद्यते। सर्वेषामव्याकृतत्वेन दुर्बलत्वात्। अनभिसंस्कारवाहित्वाच्च विपाकजस्यैवैकय ऐर्यापथिकशैल्पस्थानिकयोरपि वा प्रयोगिकाभिसंस्काराभावात्। अन्यव्यापारपरत्व पात्राद्धि तयोरभिसंस्करणप्रवृत्तत्वमुक्तम्। अथ वायेम्वास्य वाक्यस्याभिसम्बन्धः। ईर्यापथशिल्पाभिसंस्करणप्रवृत्तत्वात् दुर्बलानभिसंस्कारवाहित्वाच्चैतानि विपाकजरियापथिकशैल्पस्थानिकानि न प्रायोगिकानुकूलानि। अतो न तदनन्तरं प्रायोगिकमुतपद्यत इति सम्बन्धनीयम्। निष्क्रमणचित्तं त्वनभिसंस्कारवाहीति। प्रायोगिकचित्तप्रवाहाद् यदन्यच्चित्त तन्निष्क्रमणचित्तम्। तेन ह्यसौ योगी ततः प्रवाहान्निष्कामति तदवसानत्वात्। निष्क्रमणचित्तमनभिसंस्कारवाह्यनाभोगवाहीति युक्तोऽस्य निष्क्रमणचित्तस्य विपाकजादीनामन्यतमस्वभावस्य प्रायोगिकचित्तानन्तरमुत्पादः। एवं तर्हीति। यदि न प्रायोगिकानुकूलानीति विपाकजादिभ्योऽनन्तरं प्रायोगिकं नोत्पद्यते एवं तर्हि क्लिष्टेभ्योऽपि प्रायोगिकं नोत्पद्यते विगुणत्वात्। विगुणो हि क्लिष्टो धर्मः कुशलस्य नानुकूल इत्यर्थस्तद्विरोधित्वात्। तथापीति विस्तरः। यद्यपि तद्विगुणं तथापि क्लेशसमुदाचारपरिखिन्नस्य योगिनस्तत्परिज्ञानात् क्लेशसमुदाचारपरिज्ञानाद् युक्तः प्रायोगिकसम्मुखीभावः। तत् परिज्ञानमेव हि प्रायोगिकं चित्तमिति। पटुत्वादिति। कामावचरमुत्पत्तिप्रतिलम्भिकं पटू तच्चैक्षादिभ्यो व्युत्थानचित्तं सम्भवति। अत एव क्लिष्टसमाध्युतपीडितस्य तदाश्रयणं भवति। अनभिसंस्कारवाहित्वात्तु तस्य तस्माच्छैक्षादीनि तोत्पद्यन्ते। रूपावचरं तूपपत्तिप्रतिलम्भिकं न कामा वचरवत् पटु। तस्मात् क्लिष्टसमाध्युतपीडितस्य तदाश्रयणं न भवति प्रायोगिकमेवाश्रीयते। अन्योन्यानन्तरं चित्तानामुत्पादः । तानि च मनस्कारवशादुत्पद्यन्त इत्यतो मनस्कारोपक्षेपः। त्रयो मनस्कारा इति विस्तरः। स्वलक्षणस्य मनसिकरणं स्वलक्षणमनस्कारः। तद्यथा रूपणालक्षणं रूपमित्येवमादि। आदिशब्देनानुभवनलक्षणा वेदनेत्येवमादि। अनित्यत्वादिमनसिकरणं सामान्यलक्षनमनस्कारः षोडशाकारसम्प्रयुक्तः। अनित्यतो यावन्नैर्याणिकत इति। अधिमुक्त्त्या न भूतार्थे मनसिकरणमधिमुक्तिमनस्कारः। अशुभायां यावत् कृतस्नायंतनादिषु। आदिशब्देन ऋद्ध्यादीनामभिनिर्हारे लघुत्वाद्यधिमोक्षो गृह्यते तद्यथा महर्धिको महानुभावः परीत्तां पृथिवीसंज्ञामधितिष्ठति। अप्रमाणमपसंज्ञाम्। स आकांक्षन् पृथिवीं चलयतीति विस्तरः। अशुबह्या सहगतं सम्बद्धमशुभासहगतम्। एतदुक्त भवति। अशुभामनस्कारानन्तरं स्मृतिसम्बोध्यङ्ग भावयति जनयत्युत्पादयतीति। स्मृतिसम्बोध्यङ्ग ह्यर्यमार्ग इत्यस्त्यधिमुक्तिमनस्कारानन्तरमार्गमार्गोत्पाद इति दर्शयति। आह यदि सामान्यमनस्कारानन्तरमेव नाधिमुक्तिमनस्कारानन्तरमार्यमाग सम्मुखीकरोति इदं कथं नीयते अशुभासहगतं स्मृतिसम्बोध्यङ्गं भावयतीति। अत इदमुच्यते। अशुभया तु चित्तं दमयित्वेति विस्तरः। प्रयोगावस्थायामशुभया चित्तं दमयित्वा यावदवसाने सामान्यमनस्कारानन्तरमार्गमाग सम्मुखोकरोति अतो न सूत्रविरोध इति। आर्यमार्गानन्तरमपीति विस्तरः। न केवलं सामान्यमनस्कारानन्तरमार्यमार्गं सम्मुखीकरोति आर्यमार्गानन्तरमपि सामान्यमनस्कारमेव सम्मुखीकरोतीत्यपरे। स्यात्तावदिति विस्तरः। अनागम्यादीति। आदिशब्देनानागम्यप्रथमध्यानध्यानान्तरत्रिभूमिसन्निश्रयेण नियामावक्रान्तौ तन्मार्गानन्तरं त्रिमार्गानन्तरं कामावचरं सामान्यमनस्कारं श्रुतमयं  चिन्तामयं वा सम्मुखीकुर्यात् सन्निकृष्टत्वात्। अथ द्वितीयादिध्यानसन्निश्रयेण द्वितीयतृतीयचतुर्थध्यानसन्निश्रयेण नियामावक्रान्तौ कथमार्यमार्गानन्तरं कथं सामान्यमनस्कारं सम्मुखीकरोति। न हि कामावचरः शक्यः सम्मुखीकर्तुमिति वाक्यशेषः। कस्मात् प्रथमध्यानव्यवहितत्वेनातिविप्रकृष्टत्वात्। ब्रूयास्त्वम् द्वितीयादिध्यानभूमिकमेव सम्मुखीकरिष्यतीति। अत आह न च तद्भूमिकः प्रतिलब्धोऽन्यत्र निर्वेधभागीयादिति। द्वितीयध्यानादिभूमिकोऽनागम्यादिभूमिको वानास्रवो मार्गोऽन्यत्र निर्वेधभागीयान्न प्रतिलब्ध आसीत्। अनाकारपतितस्तु लौकिको मार्गः प्रतिलब्ध आसीत्। न तु सः। तस्मायार्याय व्युत्थानार्थं रोचते। निर्वेधभागीयं तर्हि समान्यमनस्कारं सम्मुखीकरिष्यतीति। अत आह न चार्यो निर्वेधभागीयमिति विस्तरः। किमर्थमिति चेत्। अत आह न हि प्राप्तफ़लस्य तत्प्रयोगसम्मुखीभावो युक्त इति प्रयोगस्य कृतार्थत्वान्निहीनत्वाच्च निर्वेधभागीयानि चार्यमार्गस्य प्रयोग इति। अन्योऽप्यस्य तज्जतीय इति। यः सत्यालम्बनत्वान्निर्वेधभायीयजातीयः सामान्यमनस्कारो भावां गच्छति। अनास्रवमार्गोत्पत्तिकाले प्राप्यत इत्यर्थः। कथम् शान्तं निर्वाणमिति वार्यमार्गानन्तरं सम्मुखीकरिष्यतीति। तदेतन्न वर्णयन्ति। कस्मात् एषां तज्जातीयानां समान्यमनस्काराणां निर्वेधभागीयप्रतिबद्धभावनत्वात्। न किलषमनास्रवमार्गप्रतिबद्धाभावेनेति। अनागम्यं निश्रित्येति विस्तरः तद्भूमिकमिति। अनागम्यभूमिकम् तद्भूमिकं भावाग्रिकं वेति। आकिञ्चन्यायतनभूमिकं भावाग्रिकं वा यदि भवाग्रोपपन्नो भवति शेषासु भूमिषु स्वभूमिकमेव व्युत्थानचित्तम् नान्यभूमिकम्। अन्यभूमिकस्य प्रयोगसाध्यत्वात् स्वभूमिकमनभिसंस्कारेण भवतीति। प्रयोगप्रतिबद्धत्वादिति। कस्य आर्यमार्गस्य। मार्गानन्तरं तूपपत्तिप्रतिलम्भिकस्यापि कामावचरस्य सम्मुखीभाव इत्यधिकृतम्।। ७२।।

[ क्लिष्टे त्रिधातु के लाभः षण्णां षण्णां द्वयोः शुभे।
त्रयाणां रूपजे शैक्षे चतुर्णा तस्य शेषिते।। ७३।। ]

क्लिष्टे त्रिधातुके लाभः षण्णां षण्णां द्वयोः

इति। यथासंख्येन निर्देशः। कामावचरे क्लिष्टे पण्णां चित्तानां लाभः प्रतिलभ इत्यर्थः। रूपावचरे षण्णाम् आरूप्यावचरे द्वयोरिति। तेनाह कामावचरे हि क्लिष्ट इति विस्तरः। तैरसमन्वागतस्येति। तैः षड्भिश्चित्तैरसमन्वागतस्य पुद्गलस्य। कथम् इह कुशलप्रतिसन्धानं सम्यग्दृष्ट्या वा विचिकित्सया वा। तद्यदि विचिकित्सया प्रतिसन्धत्ते तत्र विचिकित्सासम्प्रयुक्ते क्लिष्टे चित्ते सम्मुखीभूते रूपधातोरारूप्यधातोर्वा कामधातुं प्रत्यागच्छति। तदास्यान्तराभवप्रतिसन्धिचित्तेऽवश्यक्लिष्टे तस्य कुशलस्य लाभस्तेनासमन्वागतस्येति। अकुशलनिवृताव्याकृतयोरिति विस्तरः। अकुशलं च निवृताव्याकृतं च कामावचरमेवाधिकाराद्रूपावचरस्य च निवृतस्य पृथक्पाठात् तयोरकुशलनिवृताव्याकृतयो रूपावचरस्य क्लिष्टस्य। किम् लाभ इति प्रकृतम् कथं लाभ इत्याह धातुप्रत्यागमनात् परिहाणितश्चेति। यदा रूपधातोरारूप्यधातोर्वा कामधातुं प्रत्यागच्छति तदास्यान्तराभवप्रतिसन्धिचित्तेऽवश्यं क्लिष्टेऽकुशलनिवृताव्याकृतयोरन्यतरस्मिन् सम्मुखीभूते तयोरकुशलनिवृताव्याकृतयोर्लाभो भवति पूर्वविहीनत्वात् तेनासमन्वागतस्य। परिहाणितश्च। यदा च कामवैराग्यात् परिहीयते तदास्य क्लिष्टे परिहाणिचित्ते अम्मुखीभूते तयोः क्लिष्टयोर्लाभस्तेनासमन्वागतस्य। रूपावचरस्य च क्लिष्तस्य धातुप्रत्यागमनात्। यदारूप्यधातोः कामधातुं प्रत्यागच्छति तदास्यान्तराभवप्रतिसन्धिचित्तेऽवश्यं क्लिष्टे रूपावचरस्य क्लिष्टस्य पूर्वविहीनस्य लाभो भवति तेनासमन्वागतस्य। परिहाणितश्च। यदा रूपवैराग्यात् परिहीयते कामावचरेण चित्तेन तदास्य वैराग्यत्यक्तस्य रूपावचरस्य क्लिष्टस्य लाभो भवति तेनासमन्वागतस्य। आरूयावचरस्य क्लिष्टस्य परिहाणितः। यदा कामावचरेण चित्तेनारूप्यवैराग्यात् परिहीयते तदास्यारूप्यावचरस्य क्लिष्तस्य लाभो भवति तेनासमन्वागतस्य। शेक्षस्य च। परिहाणित इत्यधिकृतम्। यदा कामावचरेणु चित्तेनर्हत्वात् परिहीयते तदास्य शैक्षचित्तस्य लाभो भवति तेनसमन्वागतस्य। एवं तावत् कामावचरे क्लिष्टे चित्ते सम्मुखीभूते षण्णां चित्तानां लाभ उक्तस्तैरसमन्वागतस्य। रूपावचरे क्लिष्टे चित्ते सम्मुखीभूते षण्णां लाभस्तरसमन्वागस्तस्य। रूपावचराणामिति विस्तरः। यदारूप्यैसदप्राप्त्धातो रूपधातुं प्रत्यागच्छति तदास्य रूपावचरान्तराभवप्रतिसन्धिचित्तेऽवश्यं क्लिष्टे रूपावचराणां त्रयाणां कुशलस्योपपत्तिप्रतिलम्भिकस्य क्लिष्टस्यानिवृताव्याऱ्तस्य च निर्माणचित्तस्यग्रप्राप्तिसद्भावात्। कामावचरस्य चानिवृताव्याकृतस्य निर्माणचित्त स्यैव। आरूप्यावचरस्य क्लिष्तस्य शैक्षस्य च लाभः। परिहाणितो रूपावचरेण चित्तेनार्हत्वात् परिहीयमाणस्य तदसमन्वागतस्य। एवं रूपावचरेऽपि क्लिष्टे षण्णां लाभ उक्तः। आरूप्यावचरे तु क्लिष्टे द्वयोर्लाभस्ताभ्यामसमन्वागतस्य। परिहाणित आरूप्यावचरेण चित्तेनार्हत्वात् परिहीयमाणस्यैव क्लिष्टस्य यस्यैकदेशः सम्मुखीभूतः शैक्षस्य चेति।

रूपावचरे कुशले त्रयाणाम्

इति। कुशल इति जातिनिर्देशः। कुशले कस्मिंश्चिद्रूपावचरे त्रयाणां लाभः सम्भवः। कथम् आद्ये तावद्रूपावचरे कुशले चित्ते सम्मुखीभूते तस्यैव कुशलस्य रूपावचरस्य लाभस्तेनासमन्वागतस्य। मौलध्यानसंगृहीते तु कुशले चित्ते सम्मुखीभूते कामावचरूपावचरयोरनिवृताव्याकृतयोर्निर्माणचित्तयोर्लाभस्ताभ्यामसमन्वागतस्य। इत्येवं कुशले रूपावचरे चित्ते सम्मुखीभूते त्रयाणां लाभ इत्युच्यते न तु युगपल्लाभ इति।

शक्षे चतुर्णाम्

इति। शैक्षे चित्ते सम्मुखीभूते दुःखे धर्मज्ञानक्षान्तिचित्ते तस्यैव शैक्षस्य दुःखे धर्मज्ञानक्षान्तिकलापस्वभावस्य लाभस्तेनासमन्वागतस्य। कामरूपावचरयोश्चानिवृताव्याकृतयोरारूप्यावचरस्य च कुशलस्य। कस्मिन् कलाप इत्याह। आर्यमार्गेण कामरूपवैराग्ये। कथमिति यदायमनागम्यभूमिकेनार्यमार्गेण कामवैराग्यं करोति तदा नवविमुक्तिमार्गसंगृहीते शैक्षे चित्ते सम्मुखीभूते कामरूपावचरयोरनिवृताव्याकृतयोर्निर्माणचित्तयोर्लाभस्ताभ्यामसमन्वागतस्य। यदा तु षड्भूमिकानामार्यमार्गाणामन्यतमेन रूपवैराग्यं करोति तदाद्यप्रकारचित्ते शैक्षे सम्मुखीभूतेऽतीतानागतप्राप्तिन्यायेनारूप्यावचरस्य कुशलस्य लाभस्तेनासमन्वागतस्य। आर्यमार्गग्रहणं सास्रवचित्तनिरासार्थम्। शैक्षे चित्ते सम्भूतेऽयं लाभो वर्ण्यते।

अत्राचार्यगुणमतिर्व्याचष्टे।

शैक्षे चतुर्णाम्।

तस्यैव शैक्षस्य कामरूपावचरयोश्चानिवृताव्याकृतयोरारूप्यवाचरस्य च कुशलस्येति। कथमित्यतो व्रवीति। आर्यमार्गेण कामरूपवैराग्ये यदायमनाग्म्यमिकेनार्यमार्गेण कामधातुवैराग्यं करोति तदा यो नवमो विमुक्तमार्गस्तस्मिन् मौलध्यानभूमिकमपूर्वकं शैक्षं लभत इति शैक्षय लाभ उचय्ते। कामरूपावचरयोश्चनिवृताव्याकृतयोर्निर्माणचित्तयोरेव तस्मिन् लाभः। षभूमिकेन त्वार्यमार्गेण कामरूपवैराग्ये यो नवमो विमुक्तिमार्गस्तस्मिन्नारूप्यावचरं कुशलं प्रतिलभत इति। तच्छिष्योऽप्याचार्यवसुमित्रस्तमेवार्थ तेन वाक्येन तैरेव पदव्यञ्जनैर्लिखति। तदेतदयुक्त व्याख्यानम्। न ह्येवमेकवाक्येन व्याख्यातार्थो घटते वाक्यभेदेन घटते। तस्यैव शैक्षस्य लाभ इत्येतदेकं वाक्यम् कामरूपावचरयोश्च यावत् कामरूपधातुवैराग्य इत्यपरं वाक्यम्। आर्यमार्गेण कामरूपधातुवैराग्य इत्येतेन विशेषेण तस्यैव शैक्षस्येत्येतत् पूर्वोक्तं न विशेष्यं वाक्यान्तरत्वात्। अतद्वतो ह्ययं चित्तलाभो वर्णयते।

चित्तलाभो ह्यतद्वत

इति वचनात्। कथम् नवमे विमुक्तिर्मार्गे शैक्षचित्तवतः पुद्गलस्य शैक्षचित्तलाभो व्यवस्थाप्यते। ननु चोक्त मौलध्यानभूमिकमपूर्वं शैक्षं लभ्यत इति नातिप्रसङ्गात्। रूपावचरमपि कुशलं चित्तं मौलध्यानभूमिकमपूर्वं प्रतिलभ्यत इति तस्यापि लाभ इति प्रसज्येत। आचार्यवसुमित्र आह। शैक्षचित्तस्थितस्य कामधातुवैराग्ये कुशलमुष्मगतावस्थायमेव रूपावचरं नियामावक्रान्तौ लब्धमिति कृत्वा न गण्यत इति। तदयुक्तम्। शैक्षस्याप्यगणनाप्राप्तेः। शैक्षमपि हि दर्शनमार्गावस्थायं लब्धमिति न भवता तथा स्थापयितव्यमिति प्राप्नोति। अतश्चेदमप्व्याख्यानमिति निश्चीयते यस्मादाचार्येणैव मिश्रश्र्लोकव्याख्यान एवं  लिखितम्। शैक्षस्याशैक्षस्य च नियामावकान्त्यर्हत्त्वयोरिति।

शेषं कृत शेषितम्

इति। प्रातिपदिकधातुरूपमेतदिति दर्शयति यत्र चित्ते लाभो न व्याख्यास्तत्र तस्यैव लाभ इति। कथं कृत्वा कामावचरे तावत् कुशलचित्त इयतां चित्तानां लाभ इति न व्याख्यातः। तत्र तस्यैव लाभो नान्येषाम्। तद्यथा सम्यग्दृष्टया कुशलमूलप्रतिसन्धाने कामावचरे कुशले चित्ते सम्मुखीभूते तस्यैव कुशलस्य चित्तस्य लाभस्तेनासमन्वागतस्य। नान्येषां क्लिष्टानां त्रैधातुकानामपि पूर्वप्रतिलब्धत्वात्। न कामावचरस्यानिवृताव्याकृतस्य विपाकजादीनां सहजप्राप्तित्वात् निर्माणचित्तस्य प्राप्त्यभावत्। न रूपारूप्यावचराणां कुशलादीनां शैक्षाशैक्षयोश्च प्राप्त्यभावात्। अनिवृताव्याकृतेऽपि कामावचरे चित्ते लाभो न व्याख्यातः। तत्र तस्यैव लाभस्तेनासमन्वागतस्य।

अव्याकृताप्तिः सहजा

इति कृत्वा। नान्येषां कुशलादीनां पूर्वप्रतिलब्धत्वात्। तथैव केषाञ्चित् प्राप्त्यभावाच्च। निर्मानचित्ते तु सम्मुखीभूते न कस्यचिल्लाभ इति न वक्तव्यम्। यत्र हि क्लिष्टेऽन्यत्र वा कस्यचिल्लभो नास्ति न तदुच्यते। क्लिष्ट एव हि त्रैधातुके पण्णां यावद्द्वयोर्लाभो न त्ववश्यमित्यवधारणम् रूपावचरेऽप्यनिवृताव्याकृते सम्मुखीभूते तस्यैव लाभः नान्येषाम्। पूर्ववद् वक्तव्यम्। तथारूप्यावचरे आकाशनन्त्यायतनसमन्तकाद्यप्रकारसंगृहीते कुशलचित्ते सम्मुखीभूते तस्यैव लाभास्तेनासमन्वागतस्य नान्येषां केषाञ्चित् पूर्वप्रतिलब्धत्वात् केषाञ्चित् प्राप्त्यभावात्। एवमनिवृताव्याकृते शैक्षे च।

अन्ये पुनरभेदेनाहुरिति। के मिश्रककाराः। अभेदेनेति त्रैधातुकानां क्लिष्टादीनामपृथक्करणात्।

षण्णां तु कुशले चित्ते

इति यदुक्त तन्न्यूनं लक्षणम्। कुशलं हि त्रैधातुकं सास्रवमानस्रवञ्च। तत्र सप्तानां कुशले चित्ते इति वक्तव्यं न षण्णामिति तद्दर्शयन्नाह कामावचरस्येति विस्तरः। कुशलमूलप्रतिसन्धानादिति व्याख्यातमेतत्। अनिवृताव्याकृतयोर्वैराग्यत इति। लौकिकेन लोकोत्तरेण वा मार्गेण कामधातोवैराग्ये नवमे विमुक्तिमार्गे कामरूपावचरयोर्निर्माणचित्तयोर्लाभस्ताभ्यामसमन्वागतस्य। रूपारूप्यावचरयोः कुशलयोस्ततस्त्यसमाधिलाभत इति। यदा रूपावचरमनागम्यं प्रथमतो लभते तदा रूपावचरस्य कुशलस्य लाभः। यदाकाशानन्त्यायतनसामन्तकं प्रथमतो लभते तदारूप्यावचरस्य कुशलस्य लाभः। शैक्षस्य चाशैक्षस्य च नियामावक्रान्त्यर्हत्त्वयोरिति। यदा नियाममवक्रामति तदा शैक्षस्य दुःखे धर्मज्ञानक्षान्तिकलापस्य लाभः। यदार्हत्त्वं प्राप्नोति तदाशैक्षस्य क्षयज्ञानकलापस्य लाभः। इत्यास्ववस्थास्वमीभिश्चित्तैर्यथोक्तैः सप्तभिरसमन्वागतः समन्वागमनं प्रतिलभते। शेषमत एव व्याख्यानादुपधार्यमिति। अत एव मदीयाद्व्याख्यानाच्छेषमवगन्तव्यम्।

क्लिष्टे चित्ते नवानां हि लाभ

इत्येकम्

तस्यैवाव्याकृते खलु

इति द्वितीयम्। इत्येतच्छेषम्। कथम् क्लिष्टे त्रिधातुके चित्ते नवानां लाभः। कामावचराणां चतुर्णा रूपावचराणां त्रयाणामारूप्यावचरस्य निवृतस्य शैक्षस्य चेति नवानां यथायोगं लाभस्तैरसमन्वागतस्य। कोऽयंयथायोगार्थः। कामावचरे च क्लिष्टे कुशलमूलप्रतिसन्धानेन वा धातुप्रत्यागमनेन वा कामावचरस्य कुशलस्य लाभः। अकुशलनिवृताव्याकृतयोश्च धातुप्रत्यागमनेन परिहाण्या वा लभः। रूपावचर एव क्लिष्टे रूपावचरस्य कुशलस्य कामावचररूपावचरयोश्चानिवृताव्याकृतयोनिर्माणचित्तयोर्धातुप्रत्यागमनाल्लाभः। कामावचरे रूपावचरे वा क्लिष्टे रूपावचरस्य वा क्लिष्टस्य वा धातुप्रत्यागमनात् परिहाणितो वा लाभः। कामावचरे रूपावचरे आरूप्यावचरे वा क्लिष्टे आरूप्यावचरक्लिष्टशैक्षयोः परिहाणितो लाभः इति यथायोगार्थः।

 तस्यैवाव्याकृते खलु

इति। यच्छेषं तत् तुल्यमिति पूर्ववत्। अव्याकृतानां हि त्रैधातुकानामन्यतस्मिन् सम्मुखीभूते तस्यैवाव्याकृतस्य लाभास्तेन तेनासमन्वागतस्य।

अव्याकृताप्तिः सहजा

इति सिद्धान्तात्। संग्रहश्र्लोक इति। सर्वम्

उपपत्तौ

धातुप्रत्यागमनादिति वचनात्।

समापत्तौ

तस्यैव। कुशलस्यैवमादिवचनात्। ततस्त्यसमाधिलाभत इति वचानात्।

वैराग्ये

कामरूपधातुवैराग्य इति वचनात्।

परिहाणौ

परिहाणित इति वचनात्।

कुशलप्रतिसन्धौ च

इति विचिकित्सया सम्यग्दृष्ट्या च कुशलमूलप्रतिसन्धानादिति वचनात्।

चित्तलाभः

चित्तप्रतिलम्भः।

अतद्वतः

पुद्गलस्य तैरसमन्वागतस्येति वचनादिति।। ७३।।

आचार्ययशोमित्रकृतायामभिहर्मकोशव्याख्यायामिन्द्रियनिर्देशो नाम द्वितीयं कोशस्थानं समाप्तम्।।


स्फ़ुटार्थभिधर्मशव्याख्यायाम्
तृतीयं कोशस्थानम्

इदमिदानीं वक्तव्यमिति द्वितीयस्य तृतीयस्य च कोशस्थानस्य सम्बन्धप्रदर्शनार्त्नमिदमुक्तम्। कामरूपारूप्यद्
हातुनैयम्येन चित्तादीनां कृतो निर्देश इति। नियमस्य भावो नैयम्यम् नियम एव वा नैयम्यम् तेन चित्तादीनां कृतो निर्देश

कुशलाकुशलं कामे निवृतानिवृतं मनः।
रूपारूप्येष्वकुशलादन्यत्र
इति वचनात्। आदिशब्देन चैत्तादीनां ग्रहणम्
सवितर्कविचारत्वात् कुशले कामचेतसि।
कौकॄत्यमिद्धाकुशलान्याद्ये ध्याने न सन्त्यतः।।
ध्यानान्तरे वितर्कश्च विचारश्चाप्यतः परम्।
इति वचनात्। इन्द्रियाणां कामादिनैयम्येन कृतो निर्दशः
कामाप्तममलं हित्वा रूपाप्तं स्त्रीपुमिन्द्रिये।
दुःखे च हित्वा रूपाप्त सुखे चापोह्य रूपि च।।
इति वचनात्। तेन कामरूपारूप्यधातवोऽनुक्तलक्षणा इत्यतः पृच्छति तत्र कतमे ते कामरूपारूप्यधातव इति। अत इदमुच्यते

[ नरक प्रेत तिर्यञ्चो मानुषाः षड्दिवौकसः।
कामधातुः स नरकद्वीपभेदेन विंशतिः।। १।। ]

नरकप्रेततिर्यञ्चः

इति विस्तरः। चतस्रो गतय इति। नरकप्रेततिर्यगमनुष्यगतयश्चतस्रः साकल्येन कामधातावन्तर्गताः देवगतिस्तु न साकल्येन। किं तर्हि षडेव निकाया इति दर्शयति। तत्र नीर्यन्त इति नृ नये न रञ्जयन्तीति रञ्जेः नरेरिति रि गतिरेषणयोः इत्यस्य प्रतिषेधपूर्वस्य रूपम्। नीर्यन्तेऽस्मिन् सत्त्वा अपुण्येनेति नरकाः। न रञ्जयन्त इति नरका इत्यपरे। नरेरासादनार्थस्यैतद्रूपम्। रञ्जयति प्रावन्ति ना स्पृहयन्ति त्राणमिति नरका इत्याचार्यसङ्गभद्रः। भृशमितोऽपुनरावृत्तेरिताः प्रेताः पिपासया परीता इत्यपरे तिर्यग्गमनात्तिर्यञ्चः। मनस उद्भूतत्वान्मनुष्याः। मनोरपत्या इति लौकिकाः। द्यौरोको येषामिति

दिवौकसः।

कामप्रभावितो धातुः कामधातुरिति वक्ष्यति। चत्वारो महाराजानो लोकपाला विरूदको विरूपाक्षो धृतराष्ट्रो वैश्रवणश्च तेषु भवाः चातुर्महाराजिकाः तन्मध्यगता इत्यर्थः तद् यथा देवेषूपपद्यते देवमध्ये उत्पद्यत इत्यर्थः। चतुर्महाराजस्थाने भवाश्चातुर्महाराजिकाः मध्यपदलोपो गोरथवदित्यपरे। सहकृतसुकृतैरत्रोपपद्यन्त इति त्रयस्त्रिंशाः समानपुण्यैरित्यर्थः। अष्टौ वसवो द्वावश्विनौ एकादश रूद्रा द्वादशादित्या इति तावत्प्रमुखत्वात् त्रयस्त्रिंशा इति लौकिकाः। तदनुसारेण प्रवचनेऽपि तथा नामव्यवहार इत्यपरे। दुःखात् याताः पुण्येन नेति यामाः दुःखानि वा यामयन्तीति यामाः। तुषा तुष्ट्या इताः तुषो वा विद्यन्ते एषामिति तुषिताः। स्वयंकृते निर्माणे रतिरेषामिति निर्माणरतयः। परनिर्मितान् भोगान् वशे वर्तयितुं शीलमेषामिति परनिर्मितवशवर्तिनः। स्थानानीति वाक्यशेष इति। यानि विंशतिस्थानानि

स कामधातुः।

यदि तु विंशतिस्थानो

विंशतिः

इति उत्तरपदलोपः क्रियेत तद्यथा पीतातोया अश्वाः पीता इति सुतरां श्र्लिष्यति। संजीवः यत्र सत्त्वान् म्रियमानान् वायवो जीवयन्ति। कालसूत्रः यत्र कालसूत्राणि पातयित्त्वा सत्त्वास्तक्ष्यन्ते। सङ्घातः यत्र मेषाकृतयः पर्वतादय उभयत आपतन्तः सत्त्वान् पीडयन्ति। रौरवः यत्र सत्त्वा पात्यमानाः परमविकृतं रूदन्ति यत्र तु विशेषेण स महारौरवः। तपनः यत्राग्न्यादिभिस्तप्यन्ते सत्त्वाः यत्र तु विशेषेण स प्रतापनः। अवीचिः यत्रातिमात्राग्निज्वालालिङ्गितानां सत्त्वानां सुखवीचिरन्तरं नास्ति। जम्बुद्वीपः जम्वुचिह्नद्वीपो द्वीपः। पूर्वविदेहः सुमेरोः पूर्वेण। अवरगोदानीयः पश्चिमेन। उत्तरकुरूरूत्तरेण। एवं नामान एते द्वीपा लोकप्रतीताः। षट् चानन्तरोक्ता देवनिकायाः इत्येतानि विंशतिः स्थानानीति। अष्टौ नरकाश्चत्वारो द्वीपाः। षट् चानन्तरोक्ताश्चातुर्महाराजिकादयः प्रेतास्तिर्यञ्चश्चाभिना इति विंशतिस्थानः कामधातुः। यावद्वायुमण्डलमिति। अधस्ताद् यत्राब्मण्डलं तिष्ठति।। १।।

[ ऊर्ध्वं सप्तदशस्थानो रूपधातुः पृथक् पृथक्।
ध्यानं त्रिभूमिकं तत्र चतुर्थं त्वष्टभूमिकम्।। २।। ]

रूपधातुः

इति रूपप्रभावितो धातुः।

पृथक् पृथक् 

ध्यानं त्रिभूमिकं तत्र चतुर्थ त्वष्टभूमिकम्।।

इति। तत्र रूपधातौ सर्वेषामपि ध्यानानां मृदुमध्याधिमात्रभेदेन प्रत्येकं न्निभूमिकम्। ब्रह्यकायिका ब्रह्यपुरोहिता महाब्रह्याण इति प्रथमम्। परीत्ताभा अप्रमानाभा आभस्वरा इति द्वितीयम्। परीत्तशुभा अप्रमानशुभाः शुभकृतस्ना इति तृतीयम्। अनभ्रकाः पुण्यप्रसवा बृहत्फ़ला इति चतुर्थम्। तस्य त्वधिमात्रस्यैवानास्रवध्यानव्यवकिरणेन मृदुमध्याधिमात्राधिमात्रतराधिमात्रतमभेदभिन्नेन पुनः पञ्च स्थानान्तराणि। अबृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठाश्चेति अतश्चतुर्थ ध्यानमष्टभूमिकमित्युच्यते। तत्र बॄहत्कुशलमूलनिर्यातत्वात् ब्रह्या कश्चासौ यो महाब्रह्येत्युच्यते। ध्यानान्तरलाभात् पश्चात्पूर्वच्युत्युपपत्तिलाभात् प्रमाणादिविशेषादिभिश्चास्य महान् तस्य कायो निवास एषां विद्यते इति ब्रह्यकायिकाः। ब्रह्या पुरोधीयते एषामिति ब्रह्यपुरोहिताः। आयुर्वर्णादिभिर्विशेषैर्महान् ब्रह्या एषामिति महाब्रह्याणः। परीत्तैषामाभा स्वभूमिमपेक्ष्येति परीत्ताभाः। नाभाप्रमाणमेषां शक्यं प्रमातुमित्यप्रमानाभाः। कृत्स्नस्थानान्तरोद्भासनादाभास्वराः। मनोभूमिकं सुखं शुभमित्युच्यते तदेषां स्वभूमिमपेक्ष्य परीत्तमिति परीत्तशुभाः। अप्रमानं शुभमेषामप्रमाणशुभाः। शुभं कृत्स्नमेषामिति शुभकृत्स्नाः न तदुत्कृष्टतरमन्यत्रास्ति सुखमित्यभिप्रायः। अभ्रवदेषां भूमिसम्बद्न्हो नास्तीत्यनभ्रकाः। सह सत्त्वेन तद्विमानोदयव्ययादिति वचनान्नैषामुपरि भूम्यन्तरमस्तीत्यनभ्रकाः। अभ्रमिव ह्युपरि न भूमिसम्बन्ध इत्यपरे। आनिञ्जयकर्मसम्भूतत्वात् पुण्येभ्यः प्रसव एषामिति पुण्यप्रावाः। स्थानान्तरप्रतिबद्धं पार्थग्जनिकं सर्वोत्कृष्ट बृहदेषां फ़लमुद्भवतीति बृहत्फ़लाः। पृथग्जनामिश्रत्वाच्छुद्ध आवास एषामिति शुद्धवासाः शुद्धावासान्तरेभ्योऽनुत्कृष्टत्वादबृहिता इत्यबृहाः नाल्पेन वा कालेनात्मनः स्थानं बृहन्ति जहतीत्यबृहाः। विशिष्टसमाधिलाभान्नात्र क्लेशास्तपन्ती त्यतपाः कल्याणाशयत्वाद्वा न परांस्तापयन्तीत्यतपाः परिशुद्धदर्शनत्वात् सुष्ठु पश्यन्तीति सुदृशाः शोभनदर्शनत्वात् सुदर्शनाः तदुत्कृष्टरभूम्यन्तराभावान्नैते कनिष्ठा इत्यकनिष्ठाः ज्येष्ठभूतत्वात्। स्थानिन एते निर्दिष्टाः। कथमिदमुच्यते इत्येतानि सप्तदश स्थानानीति। स्थानिशब्देन स्थानिर्देशाददोष एव। एवं बहिर्देशकनयेन सप्तदशस्थानान्येव रूपधातुः। षोडशेति कश्मीराः। षोडशस्थानानि रूपधातुरिति काश्मीराः। परिगण इवेति परिषण्ड इव आटविककोट्ट इत्यपरे। न तु भूम्यन्तरमिति नतु भूम्यन्तरसम्बन्धमिति।। २।।

[ आरूप्यधातुरस्थान उपपत्त्या चतुर्विधः।
निकायं जीवितं चात्र निश्रिता चित्तसन्ततिः।। ३।। ]

अतीतानगाताविज्ञप्त्यरूपिणो हि धर्मा अदेशस्था इति। अतीतानागतारूपिणोऽप्यदेशस्थाः। अविज्ञप्तिः रूपिणी वर्तमानाप्यदेशस्था। अरूपिणो वेदनादयस्थैव वर्तमाना अप्यदेशस्थाः। किमङ्गातीतानागताः

उपपत्त्या चतुर्विध

इति। कर्मनिर्वृत्ता जन्मान्तरे स्कन्धप्रवृत्तिरूपपत्तिः तया। आरूप्यधातुश्चतुर्विधः चतुःप्रकारः। यदुताकाशानन्त्यायतनमिति विस्तरः। अनन्तमाकाशमिति समापत्तिप्रयोगकालाकारादाकशानन्त्यम्। तस्य तदेव चायतनम्। एवमनन्तं विज्ञानं नास्ति किञ्चिदिति तदाकाराद् विज्ञानानन्त्यायतनमाकिश्चान्यायतनं चोध्यते। संज्ञागण्डः संज्ञाशल्यम् आसंज्ञिकं संमोह इति संज्ञामन्द्योत्पत्तेर्नैवसंज्ञानासंज्ञायतनमित्युच्यते नत्वेषां देशकृतमौत्तराधर्यमित्यदेशस्थत्वात्। इति चशब्देन पृथग्जनत्वासमन्वागमप्राप्तिजात्यादयः संगृह्यन्ते। दुर्बलत्वादिति। कस्यचित् सन्तते। रूपिणां सत्त्वानां दुर्बला चित्तसन्ततिरविभूतरूपसंज्ञत्वाद्विना रूपेण न वर्तते ततो रूपं निश्रित्य वर्तते। तस्याः केन बलवत्त्वमिति। तस्या आरूप्यावचर्याः केन कारणेन बलवत्त्वमत आह। समापत्तिविशेषजत्वादिति विस्तरः। विभूतरूपसंज्ञेति विगतरूपसंज्ञेत्यर्थः। अतस्तज्जा आरूप्या चित्तसन्ततिरपि रूपनिरपेक्षा प्रवर्तते। तत एव तर्हि बलवत्त्वात् समापत्तिविशेषजनितात् प्रवर्तिष्यते। किञ्चिदनिश्रित्येत्यभिप्रायः। यथा रूपिणामिति विस्तरः। यथा रूपिणां रूपनिश्रिते निकायसभागजीवितेन्द्रिये। एवमरूपिणां किनिश्रिते इति वाक्यार्थः। तदेतदेतद्द्वयमन्योन्यमिति। निकायसभागो जीवितेन्द्रियं निश्रित्य प्रवर्तते। जीवितेन्द्रियं च निकायसभागमिति किमर्थं न तदेव द्वयमन्योन्यमिति। किं रूपनिश्रयेणेत्यहिप्रायः। तत्रेदानीमिति तत्रारूप्यधातौ केन बलत्त्वं तयोर्निकायसभागजीवितेन्द्रिययोः। तदेतत् चित्तसन्ततौ समानमिति। असावपि चित्त्सन्ततिः समापत्तिविशेषाज्जाता भवतीति न द्वयं निश्रित्य प्रवर्तिष्यते। अनाश्रिते प्रवर्तिष्यत इति चित्तचैत्तेषु वा समानमिति प्रकृतम्। किं पुनः समानमन्योन्यनिश्रयत्वम्। यथा निकायसभागो जीवितेन्द्रियं निश्रित्य प्रवर्तते जीवितेन्द्रियं च निकाय्सभागं निश्रित्य प्रवर्तते तथा चित्तं निश्रित्य चैत्ताः प्रवर्तिष्यन्ते। चैत्तांश्च निश्रित्य चित्तम् प्रवर्तिष्यत इति तदन्योन्याश्रयकल्पाना निष्प्रयोजनेति। यस्याश्चित्तसन्ततेरिति विस्तरः। चित्तसन्ततेराक्षेपाय हेतुराक्षेपहेतुः कर्मक्तेशलक्षनः। विगता तृष्णा अस्येति वीततृष्णः न वीतृष्णोऽवीततृष्णः। क्व रूपे। तस्याः चित्तसन्ततेः सह रूपेण सम्भवाद्रूपं निश्रित्य प्रवृत्तिः। हेतोस्तद्विमुखत्वादिति आक्षेपहेतो रूपविमुखत्वादित्यर्थः।

वज्रवालकवदिति वज्रेन प्रतिसंयुक्तो वालकोऽङ्गुलीयकः कटको वा वज्रवालकः। मरिचपान्कवच्च। यथा मरिचैः प्रतिसंयुक्तं पानकं मरिचपानकं मध्यपदलोपात् तद्वत् कामप्रतिसंयुक्तो धातुः कामधातुरित्यादिः । रूपणीयो वेति बाधनीय इत्यर्थः। रूपयोगाच्च स शक्यते बाधितुम् तद्भाव आरूप्यमिति यदा धातूत्तरपदमेतद्भवति तदारूप्यधातुरिति युज्यते। यदा तु निरूत्तरपद आरूप्यशब्दप्रयोगः तद् यथा अतिक्रम्य रूपाण्यारूप्या इति तदा आरूपा एवारूप्या इति स्वार्थे तद्धितात् परिग्रहः कार्यः। आरूप्ये वा साधव आरूप्या इति पश्यामः। कामानां वा धातुरिति षष्ठीसमासेनैव साधयति विनापि प्रतिसंयुक्तशब्दलोपेन। कश्चासौ कामानां धातुरित्याह कामान् यो दधातीति एवं रूपारूप्यधातू वेदितव्याविति। रूपाणां धातुः रूपधातुरिति रूपाणि यो दधातीति। आरूप्यस्य धातुरारूप्यधातुरारूप्यं यो दधातीति। कवडीकाराहारमैथुनोपसंहितो राग इति। कवडीक्रियत इति कवडीकारः  स एवाहारः कवडीकाराहारः। मिथुने भवः मैथुनं द्वन्द्वालिङ्गनादि। कवडीकाराहारमैथुनाभ्यामुपसंहितः सम्बन्धो जनित इति वा कवडीकाराहारमैथुन्पांहितो रागः। कामः काम्यतेऽनेनेति काम इति कृत्वा। कथमेवं गम्यत इति। स्थविरशारिपुत्र भाषितया गाथया तमर्थ दर्शयति

न ते कामा यानीति

इति विस्तरः। आजीवकेन यदुक्त गाथान्तरेण

भिक्षोः कामवितक विकल्पयतः कामभोगित्वम्

इति तदभ्युपगतं स्थविरेण। त्रिविधो हि कामोपभोगः कायेन वाचा मनसा च। तत्रावीतरागो मनसा कामोपभोगित्वेऽपि सति नाभिक्षुर्भवति। केवलं त्वस्यशीलमपरिशुद्धं वर्तते। यस्तु कायेन वाचा ताथागतीं शिक्षापदलेखां लंघयित्वा कामान् परिभुक्ते स कामपभोग्यभिक्षुर्भवतीति। तस्मात् स दोषान्तरमाह।

ते चेत् कामा

इति विस्तरः। यदि तव

चित्राः

रूपादयो विषयाः

कामाः

इति पक्षः शास्ता ते अवीतराग इत्यभ्युपगतः। तेन शास्तापि ते भविता

भविष्यति।

कामभोगी

दृष्टैव रूपाणि मनोरमाणि।

कायेनाप्युपभुजानोऽपो तान् विषयान् इति प्रसक्तम्। न चैवमिष्यते। तस्मात् सङ्कल्परागः पुरूषस्य कामः

इति सिद्धम्।

केचनेति केचिदित्यर्थः। नेत्याहेति प्रतिषेधयति। यस्माद् धात्वन्तरधर्मा धात्वन्तरे समुदाचरन्त्यधातुपतिताश्च। कामधातौ हि त्रैधातुकामास्रवा धर्माः समुदाचरन्ति। एवं रूपधातौ कामावचरं हि निर्माणचित्तम् तत्र समुदाचरति आरूप्यधातावारूप्यावचरा अनास्रवाश्च। तस्मात् प्रतिषेधयति नेति। किं तर्हि येषु कामरूपारूप्यरागा अनुशेरते। येषु कामरागो।उशेते आलम्वनतः संप्रयोगतो वा यथासम्भवं ते कामप्रतिसंयुक्ताः। येषु रूपारूप्यरागावनुशयाते ते यथाक्रमं रूपारूप्यप्रतिसंयुक्ता इति। इदमिदानीं तदश्वबन्धियमिति। अश्वश्चाश्वबन्धश्चाश्वबन्धम्। अश्वबन्धमिवाश्वबन्धीयम्। आथवाश्बन्धस्येद मश्वबन्धीयमश्ववन्धीयमिति। कस्यायमश्वबब्द्ग इति कश्चित् पृच्छति। तस्येतर कथयति यस्यायमश्व इति। स पुनः पृच्छति कस्यायमश्व इति। इतरः पुनः कथयति यस्यायमश्वबन्ध इति। उभयमपि न ज्ञायते अश्वबन्धोऽश्व इति च। यथेदमुभयमसिद्धेनान्योन्येन न परिच्छिद्यते तथेहापि न रागैर्धातवः साध्यन्ते धातुभिश्च रागा इत्युभयमप्येतन्न सिध्यति।

कृतनिर्देशानि हि स्थानानि कामधाताविति।

नरकप्रेततिर्यञ्चो मनुष्याः षड्दिवौकसः।
कामधातुः स नरकद्वीपभेदेन विंशतिः।।

इति कामधातौ कृतनिर्देशानि स्थानानि।

तेषु स्थानेष्ववीतरागस्य यो रागः स कामराग इति। एवं रूपारूप्यरागाविति।

कृतनिर्देशानि हि स्थानानि कामधातोः

ऊर्ध्व सप्तदशस्थानो रूपधातुः।

इति। तेष्ववीतरागस्य यो रागः स रूपरागः। तथा कृतिनिर्देशोपपत्तिरारूप्यधातोः।

आरूप्यधातुरस्थान उपपत्त्या चतुर्विधः

इति। तेषु वीतरागस्य यो रागः स आरूप्यराग इति। यथायोगमिति स्थाननिर्देशापेक्षम्। ध्यानारूप्येषु राग इति। समापत्त्युपपत्तिध्यानेषु रागो रूपरागः। एवमारूप्यरागः। निर्मानचित्ते कथं कामराग इति। कामावचरे निर्माणचित्ते ध्यानफ़ले कथं कामवीतरागाणां कामरागः यतस्तस्य कामावचरत्वम् यदा ह्यसाववीतरागस्तदा निर्माणचित्तं न समुदाचरति। यदा निर्माणचित्तं समुदाचरति तदा न तस्य राग उत्पद्यते। कथमस्य कामरागेण विना कामवचरत्वं व्यवस्थाप्यत इत्यर्थः। श्रुत्वा परिहाय च तदास्वादनादिति। श्रुत्वा तत् परतो निर्माणचित्तेऽस्य राग उत्पद्यते परिहाय वा अतमीयान्निर्माणचित्तात् तस्यास्वादनादिति एवंध्यायिनः कामवचरेण निर्माणचित्तेन कामावचरं निर्माणं निर्मिण्वन्तीति श्रुत्वा तदालम्बनो राग उत्पद्यते। अनुस्मृत्य चात्मीयं तत्र राग उत्पद्यते। न्रिमाणवशेनेति। मनोहरं निर्मानं दृष्टा निर्मापके चित्ते निर्मापकस्य वा चित्तेरागः दर्शयतीत्थं निर्माणचित्तं यस्येदृशं निर्माणमिति। गन्धरसनिर्मानद्वेति। यत् कामावचरनिर्माणनिर्मापकं कामावचरं तच्चित्तम्। कामावचरधर्महेतुत्वाद् घटहेतुचित्तवत्। यत्तु न कामावचरं न तत् कामावचरधर्महेतुः। तद्यथा रूपावचरं चित्तम् अत एवाह रूपावचरेण तयोरनिर्माणादिति। कस्मात् पुना रूपावचरेण चित्तेन तयोर्गन्धरसयोरनिर्माणाम् तयोर्गन्धरसयोः कवडीकाराहारस्वभावात्वत्। रूपधातूपपन्न च तद्वीतरागत्वादिति।

ईषाधार इति। ईषाप्रमाणवर्षाधारः। नास्ति वीचिर्वा अन्तरिका वेति नैरन्तर्यं दर्शयति न तूक्तमूर्ध्वमध्श्चेति। अतो लोकधातूनां तिर्यगेवास्थानमिति दर्शयति।। ३।।

[ नरकादिस्वनामोक्ता गतयः पञ्च तेषु ताः।
अक्लिष्टाव्याकृता एव सत्त्वाख्या नान्तराभवः।। ४।। ]

पञ्चम्याश्च प्रदेश इति। देवगतेः षट् कामावचरा देवाः उक्ताः। शेषा रूपारूप्यावचराः। अन्यथा हि गतिसम्भेदः स्यादिति। गतिमिश्रता यदिकुशलक्लिष्टा अपि स्युर्गतिसम्भेदः स्यात्। मनुष्यो नरकसंवर्तनीयं कर्म करोति यावद् देवोपपत्तिसंवर्तनीयम्। इत्यतो मनुष्यगतिर्नकगतिरपि स्यात् यावद् देवगतिरपि तेषां कर्मणां तद्गतिपर्यापन्नत्वात्। कामधातूपपन्नश्चोर्द्धभूमिकैः क्लेशैः समन्वागतः कामवचरेण च सर्वगतिकेन क्लिष्टेन समन्वागत इति। स एव मनुष्यो नारको यावद् देव इति स्यात्।

सत्त्वाख्या एवेति कर्मानुरूपेनात्मभावतस्तद्गमनात्। अत एवोक्त

यथाकर्म गमिष्यन्ति पुण्यपापफ़लोपगाः

इति। न भाजनस्वभावा इति। न चान्तराभवस्वभावा इति। अस्य प्रतिपादनार्थ ज्ञापकमानयन्ति। प्रज्ञप्तिपूक्तमिति विस्तरः। सहेतुकाः सगमना इति। हेतुः कर्मभवः गमनमन्त्राभवः गम्यतेऽनेनेति कृत्वा। गतिस्तु गम्यत इति गतिः। तद्धेतोः कर्मभवस्य ताभ्यो बहिष्करणात्। कुशलाकुशलस्य कर्मभवस्य ताभ्यो गतिभ्यो बहिष्करणात्। कश्मीरे भवाः कश्मीरकाश्च सूत्रं पठन्तीति। मुक्तकं तत्सूत्रं त एव पठन्ति नान्य इत्यभिप्रायः। नारकाणामिति विस्तरः। नरकानुकूला नारकाः। तेषामिति विस्तरः। कायवाङ्मनोवंकानां शाठयसमुत्थितानां कर्मणां दोषकषायाणां द्वेषरागसमुत्थितानाम्। अतोऽप्यनिवृताव्याकृता एव गतय इति। यस्मादुक्तं निर्वॄत्ते विपाके नारक इति संख्यां गच्छतीति। गतिषु सर्वेऽनुशया अनुशेरत इति प्रकरणग्रन्थः परिहार्यः वक्तव्यः परिहार इत्यर्थः विरोधप्रसङ्गात्। यदि हि पञ्चप्रकारा धर्मा गतिस्वभावा भवेयुः एवं सर्वेऽनुशया अनुशयीरन्। यदि त्वव्याकृता एव गतयः स्युरेवं वक्तव्यं स्यात्। भावनाप्रहातव्याः सर्वत्रगाश्चेति। अनिवृताव्याकृता हि संस्कृता धर्मा भावनाप्रहातव्या एव। तेषु च भावनाप्रहातव्या एव सर्वत्रगाश्चानुशया अनुशेरते आलम्बनतः प्रयोगतो वा नान्ये। तेन ज्ञायते नानिवृताव्याकृता एव गतय इति। सन्धिचित्तानि हि गतीनां पञ्चप्रकाराणिति। सन्धिचित्तानि गतीनां प्रवेशः तेषां पञ्चप्रकारत्वात्। दुःखदर्शनप्रहात्व्यं यावद् भावनाप्रहातव्यमिति। तत्र सर्वेऽनुशया अनुशेरत इति युक्तम्। ग्रामोपविचारग्रहणवदिति। ग्रामपरिसामन्तकग्रहणवदित्यर्थः। पञ्चसु कषायेष्विति। पञ्चकषाया आयुःकषायः क्लेशकषायो दृष्टिकषायः कल्पकषायः सत्त्वक्षायश्च तेषु। क्लेशदृष्टिकषायौ पृथगुक्तौ। क्लेशकषायाद्दृष्टिकषायः पृथगुक्त इत्यर्थः। अनयोः पृथग्वचनं गृहस्थप्रव्रजितपक्षाधिकरात्। गतिहेतुज्ञापनार्थमिति। गतीनां कर्मोद्भवो हेतुरिति। अन्तराभवेऽप्येष प्रसंग इति। एवमन्तराभवोऽपि गतिश्च स्यात्। पृथक् चास्य वचनं स्यात् गतिगमनज्ञापनार्थमिति गच्छन्ति तामिति। कर्मसाधन परिग्रहः। न चन्तराभव एव युज्यत इति न गतिः। आरूप्या अपीति विस्तरः। आरूप्या न गतिः स्युः। च्युतिदेश एवोत्पादात्। आरूप्यगा हि यत्र च्यवन्ते विहारे वा वृक्षमूले वा यावच्चतुर्था ध्यानभूमौ तत्रैवोत्पद्यन्त इति। अन्तराभववन्न गतिः स्यात्। एवं तर्हीति। पुर्वपक्षं परित्यज्य पक्षान्तरमाश्रीयते। गत्योरन्तरा अन्तराले भवतीति अन्तराभव इत्यन्वर्थसंज्ञाकरणान्नान्तराभवो गतिरिति। वैभाषिका आहुः यत्तर्हीति विस्तरः। निर्वृत्ते विपाक इति। विपाकशब्दवचनाद्विपाकस्वभावा गतिरिति तदभिप्रायः। इतर आह। निर्वॄत्ते विपाके नारक इति नारको व्यवस्थाप्यते। न तूक्तं विपाक एवेति। न तूक्त विपाकस्वभावैव गतिरिति। किं तर्हि विपाकाविपाकस्वभावा गतिः। तस्मात् कुशलक्लिष्टा अपि गतयो भवन्तीत्यभिप्रायः। वैभाषिकः पुनराह। यत्तर्ह्युक्तं तत्रेति विस्तरः। अन्यत्र तेभ्यो धर्मेभ्य इति। विपाकजेभ्य इत्यभिप्रायः। न तु स्कन्धान्तरप्रतिषेधं करोतीत्यधिकृतम्। ताश्चेति विस्तरः। अव्याकृतत्वपक्षेऽपि द्वविध्यम्। औपचयिकस्वभावा अपीति। अपिशब्दाद्विपाकस्वभावा अपीति। यथोक्त

विपाको जीवितं द्वेधा द्वादश

इति। नैष्यन्दिकास्तु न गृह्यन्ते। विपाकस्वभावा एवेत्याचार्यसङ्घभद्रः पूर्वमेव पक्षमिच्छति।। ४।।

[ नानात्वकायसंज्ञाश्च नानाकायैकसंज्ञिन।
विपर्ययाच्चैककायसंज्ञाश्चारूपिणस्त्रयः।। ५।।
विज्ञानस्थितयः सप्त शेषं तत्परिभेदवत्। ]

कामावचराः षट् प्रथमध्यानिकाश्च। कतमे ते वहिर्देशकनयेन ब्रह्यकायिकाः व्रद्यपुरोहिता महाब्रह्याणश्च प्रथमाभिनिवृत्तवर्ज्याः। काश्मीरनयेन पुनर्ब्रह्यकायिका व्रह्यपुरोहिताश्च प्रथमाभिनिवृत्तवर्ज्याः। व्रह्यपुरोहितेष्वेव हि तेषां नयेन महाब्रह्याणो न स्थानान्तरनयाः। अनेकवर्णलिंगसंस्थानत्वादिति। वर्णो नीलत्वादिः। लिङ्गं वस्त्राभरणादि। संस्थानं दैर्ध्यादि। आरोह उन्नतता। परिणाहस्तिर्यकप्रमाणम्। आकृतिविग्रहः आकृतिलक्षणो विग्रह आकृतिविग्रहः। एवं विशेषिते वेदानादीनां विग्रहः पर्युदस्तो भवति। नासावाकृतिलक्षण इति। विग्रह पुनः शरीरम्। वाग्भापा वागुच्चरणम्। कथमिदानीमिति विस्तरः। प्रथमध्यानप्रत्यागमनेन तैद्वितीयं त्यक्तम्। तद्भूमिकं द्वितीयध्यानभूमिकम्। पूर्वनिवासं कथमन्वस्मापुः। न तावत् प्रथमध्यानभूमिकेन चित्तेन तदविषयत्वात् न द्वितीयध्यानभूमिकेन तस्यालब्धत्वात्। पुनर्लब्धमिति चेत्। अताह। लब्धायां चेति विस्तरः। श्लव्रतपरामर्षदृष्टिर्महाव्रह्यालम्बना प्रथमध्यानभूमिकैव युज्यते। सा च द्वितीयध्यानलाभात् प्रहीना न समुदाचरति। द्वितीयध्यानभूमिकेति चेत् न अधरालम्बनत्वायोगात्। न ह्यधरभूम्यालम्वनः कश्चिदपि क्लेश इष्यते। अन्तराभवस्था अद्राक्षुरिति। अन्तराभवस्थास्ते तं महाब्रह्याणं दुष्टैवमूचुः इमं वयं सत्त्वमद्राक्ष्मेति। अयमपि पक्षो न घटते। तथाहि तत्राप्यन्तराभवे दीर्घमध्वानमवस्थातुं न सम्भवो ह्युपपत्तुं प्रतिबन्धाभावात् शुकशोणितानपेक्षत्वात्। तेषां कथं भवतीयं बुद्धिरिमं वयं सत्त्वम द्राक्ष्म दीर्घायुपं दीघमध्वानं तिष्ठन्तमिति। दीर्घाध्वावस्थानावबोधो न प्राप्नोतीत्यर्थः। तस्मात्तत्रस्था एवेति विस्तरः। प्रथमध्यानभूमिष्टा एव तस्य महाब्रह्यणः पूर्ववृत्तान्तं समनुस्मरन्तः। उत्पद्यमानावस्थायामेव ते तं महाब्रह्याणं पूर्वोत्पन्नं दीर्घमध्वानं तिष्ठन्तं दृष्टवन्तो दृष्टा च पश्चा उत्तरकालमद्राक्ष्मेत्येषां बभूव बुद्धिरिति वाक्यशेषः। एवं तु सतीदमपरिहृतं भवेत्। अस्य च सत्त्वस्यैवं चेतसः प्रणिधिः वयं चोपपन्ना इति। उपपत्तिप्रतिलम्भिकेन प्रथमध्यानभूमिकेन तस्य महाव्रह्यण एवं चेतसः प्रणिधिमन्वस्मार्षुः।समानभूमिकत्वादित्यदोष एव। तत्सकाशं श्रवणाद्वा।

ननु च शुभकृतस्नेप्वप्येष प्रसङ्गः। एकत्वकाया नानात्वसंज्ञिन इति। कथम् यथोक्तम्। ते हि मौल्यां भूमौ सुखेन्द्रियपरिखिन्नाः सामन्तकोपेक्षेन्द्रियं संमुखोकुर्वन्तीति विस्तरेण वक्तव्यं स्यात्। ते चैकत्वकाया एकत्वसंज्ञिन इति पश्चद्वक्ष्यते। तेन सुखेनेति तृतीयध्यानभूमिकेन। चेतस उत्प्लावकत्वादिति औद्विल्यकरत्वात्। इन्द्रसुखेनेति द्वितीयध्यान आगमव्यपगमसंज्ञित्वात्। अचिरोपपन्नानामागसंज्ञित्वाच्चिरोपपन्नानां व्यपगमसंज्ञित्वात्। अथवाऽचिरोपपन्नानामागमसंज्ञित्वाच्चिरोपपन्नानामागमव्यपगमसंज्ञित्वात्। भीता भीतसंज्ञितात्। यथाक्रममचिरचिरोपपन्नत्वात् ते नानात्वसंज्ञिनो न सुखादुःखासुखसंज्ञित्वात् यथोक्त वैभाषिकैरिति।

प्रथमे ध्याने क्लिष्टया संज्ञयेति। श्ल्लव्रतपरामर्शसंप्रयुक्तया अकारणे कारणाभिनिविष्टत्वात्। द्वितीये कुशलया संज्ञयेति। सामन्तकमौलसंगृहीतत्वात्। तृतीये विपाकजया संज्ञेति। विपाकजसुखसम्प्रयोगात्।

आरूप्यास्त्रयो यथासूत्रमिति। अरूपिणः सन्ति सत्त्वा ये सर्वशो रूपसंज्ञानां समतिक्रमादनन्तमाकशमित्याकाशानन्त्यायतनमुपसंपद्य विहरन्ति। तद्यथा देवा आकाशानन्त्यायतनोपगाः। इयं पञ्चमी विज्ञानस्थितिः। अरूपिणः सन्ति सत्त्वा ये सर्वश आकाशानन्त्यायतनं समतिक्रम्यानन्त्यं विज्ञानमिति विज्ञानानन्त्यायतनमुपसंपद्य विहरन्ति। तद् यथा विज्ञानानन्त्यायतनोपगा देवाः। इयं षष्टी विज्ञानस्थितिः। अरूपिणः सन्ति सत्त्वा ये सर्वशो विज्ञानानन्त्यायतनं समतिक्रम्य नास्ति किञ्चिदित्याकिञ्चन्यायतनमुपसंपद्य विहरन्ति। तद्यथा आकिंचन्यायतनोपगा देवाः। इयं सप्तमी विज्ञानस्थितिरिति।

पञ्चस्कन्धाश्चत्वारश्च यथायोगमिति। आकाशानन्त्यायतनादित्रयप्रतिसंयुक्ताश्चतुस्कन्धा अन्यप्रतिसंयुक्ताः पञ्चस्कन्धाः।

शेषं तत्परिभेदत्

इति। परिभिद्यतेऽनेनेति परिभेदः तस्य विज्ञानस्य परिभेदस्तत्परिभेदः। सोऽस्मिन् विद्यत इति तत्परिभेदवत्। शेषं दुर्गत्यादि। अपायेषु चोभयं नास्तीति। नेहस्थानां गन्तुकामता न तत्रस्थानां व्युच्चलितुकामता। अपटुप्रचारत्वादिति। चित्तचैत्तानामत्र मन्दप्रचारत्वात्। अवलवद्विज्ञानं न तिष्ठतीति यक्तु वक्तुम्।

[ भवाग्रासज्ञिसत्त्वाश्च सत्त्वावसा नव स्मृताः।। ६।।
अनिच्छावसनं नान्ये चतस्रः स्थितस्यः पुनः। ]

भवाग्रासंज्ञिसत्त्वाश्चसत्त्वावसा नव

इति सूत्र उक्तम्। नव सत्त्वावासाः। कतमे नव रूपिणः सन्ति सत्त्वा नानात्वकाया नानात्वसंज्ञिनः। तद्यथा मनुप्याः तदेकत्याश्च देवाः अयं प्रथमः सत्त्वावासः। द्वितीयतृतीयचतुर्था अपि यथा विज्ञानस्थितिषु तथा वक्तव्याः। अयं तु विशेषः। रूपिणः सन्ति सत्त्वा असंज्ञिनोऽप्रतिसंज्ञिनः। तद्यथा देवा असंज्ञिसत्वाः अयं पञ्चमः सत्त्वावासः। आरूप्याणाञ्च सत्त्वावासानां त्रयो विज्ञानस्थितिवद् वक्तव्याः। चतुर्थस्त्वारूप्यः अरूपिणः सन्ति सत्त्वाः सर्वश आकिञ्चन्यायतनं समतिक्रम्य नैवसंग़्यानासंज्ञायतनमुपसंपद्य विहरन्ति। तद् यथा देव नैवसंज्ञानासंज्ञायतनोपगाः अयं नवमः सत्त्वावास इति।

असंज्ञिसत्त्वेभ्यो येऽन्ये चतुर्थध्यानोपगाः किं ते सत्त्वावासा उत नेति। नेत्याहुः। कस्मादेवमुक्तमाचार्येण। के पुनरन्ये अपाया इति मुखमात्रेमेतदुक्तम्। असंज्ञिसत्त्वाः सत्त्वासासंगृहीताश्चतुर्थध्यानोपगा इत्यपि वक्तव्यम्। इहापि तदेव कारनं वक्तव्यं यद्विज्ञानस्थितिषूक्तम् इहस्थानां ह्यपायागमनप्रार्थना नास्ति तत्रस्थानाञ्च न वस्तुकामतेति नापायाः सत्त्वावासाः। असंज्ञिसत्त्वासंगृहीतेषु बृहत्फ़लेषु यद्यपीहस्थानां गमनप्रार्थनास्ति। तत्रास्थानां पृथग्जनाना मासंज्ञिकप्रविविक्षा भवति। आर्याणां त्वनभ्रकपुण्यप्रसवेष्वपि शुद्धावासारूप्यप्रविविक्षा। परिनिर्वातुकामता च शुद्धावासानामपीति न तेषां तत्रावस्थानबुद्धिः। अतो न ते सत्त्वावासा इत्याचार्यसङ्घभद्रः। अन्ये पुनर्व्याचक्षते। के पुनरन्ये अपाया इति। अपायानामेव वचनादनभक्रादयः सत्त्वावासा इष्टा आचार्यस्येति। तैर्युक्तिरन्वेष्टव्या। बन्धनस्थानवदिति। यथा बन्धनस्थानानि न सत्त्वावासाः अनिछावसनात् एवमपाया इति।

[ चत्वारः सास्रवाः स्कन्धा स्वभूमावेव केवलम्।। ७।।
विज्ञानं न स्थितिः प्रोक्त चतुःकोटिस्तु सम्ग्रहे। ]

रूपोपगा विज्ञानस्थितिरिति। विज्ञानं तिष्ठत्यस्यामिति विज्ञानस्थितिः। उप गच्छतीति उपगा। विज्ञानस्य समीपचारिणी इत्यर्थः। रूपं च तदुपगा च सा रूपोपगा। एवं यावत् संस्काराश्च ते उपगा च संस्कारोपगेति। भगवद्विशेषस्तु व्याचष्टे। रूपोपगा विज्ञानस्थितिर्यावत् संस्कारोपगेति। सौत्रान्तिकानां नयेनोच्यते। तत्र विज्ञानस्थितिर्भवसन्तत्यनुच्छेदः रूपमुपगमस्या विज्ञानस्थितेः सेयं रूपोपगा उपगमिति उपगम्यते तदात्मीयत इति। एवं यावत् संस्कारा उपगा अस्या विज्ञानस्थितेः सेयं संस्कारोपगा। अथवा तृष्णा स्थितिः तिष्ठत्यनया विज्ञान पुनर्भवसन्तत्यनुच्छेदादिति कृत्वा विज्ञानस्य स्थितिर्विज्ञानस्थितिः। सा रूपमुपगच्छति तदभिष्वङ्गत इति रूपोपगा। एवं यावत् संस्कारोपगा। वैभाषिकाणां पुनर्नयेन कारकर्थो न शक्यते योजयितुमिति दूषयति। अत्र ब्रूमः द्विविधेऽप्यस्मिन् व्याख्याने रूपादिव्यतिरिक्ता विज्ञानस्थितिरूक्ता। ता हि

चत्वारः सासरवाः स्कन्धाः

इति

चतुष्कोटिस्तु संग्रहे

इत्येतत् सर्वं निरस्तं भवतीति दोषान्तरम्। तस्मात् पूर्वकमेव व्याख्यानं साधु एतदवैभाषिकव्याख्यानं वर्णयामो न तैरेवं व्याख्यातम्। रूपमुपगच्छतीति रूपोपगा विज्ञानस्थितिरित्यादि। अपरे पुनर्व्याचक्षते रूपोपगा विज्ञनस्थितिरिति रूपस्वभावेत्यर्थः। यथान्यत्रोकत खक्खटखरगतमिति। स्वभावोऽर्थो गत्यर्थ इत्यभिप्रायः।

स्थातुः परिवर्जनेन। अन्यो लोके स्थात देवदत्तादिरन्या स्थितिः स्थानं गृहादिकमित्यर्थः। विज्ञानं वाहयति प्रवर्तयतीत्यर्थः। नौनाविकन्यायेन। यथा नाविको नावं वाहयति तद्वत्। न तु विज्ञानं विज्ञानमेवाभिरूह्य वाहयतीत्यर्थः। एकसन्ताने विज्ञानद्वयसमवधानम्। परसन्तानविज्ञानं तु यद्यपि युगपद् भवति न तु तदितरस्य समीपे वर्तत इति न तत्तस्य स्थितिर्भवति। नन्दी सौमनस्यम्। सप्त च विज्ञानस्थितस्यः पञ्चस्कन्धस्वभावास्तत् कथमिति। सप्तसु विज्ञानस्थितिषु पञ्चस्कन्धस्वभावत्वेनेष्टासु। तत् कथं विज्ञानं न विज्ञानस्थितिरिष्टमिति। एवं तर्हीति विस्तरः। अभेदेनैकपिण्डरूपेण रूपादीनां स्कन्धानामुपपत्त्यायतनसंगृहीतेषु स्कन्धेषु मनुष्यादिनिकायसभागसंगृहीतेषु साभिरामायां साभिरत्यां विज्ञानप्रवृत्तौ विज्ञानं विज्ञानस्थितिः सप्तविज्ञानस्थितिदेशनायामभिप्रीयते। प्रत्येकं त्वेकमेकं स्कन्धं प्रति। यथा रूपादयो विज्ञानस्य संक्लेशाय भवन्ति आश्रयसम्प्रयोगसहभूभावेनोपगतत्वात्। नैवम् केवलम्। पृथग्। विज्ञानम् किं संक्लेशाय भवतीत्यधिकृतम्। कस्मात् युगपदाश्रयत्वाद्ययोगात्। तस्माच्चतुर्विज्ञानस्थितिदेशनायाम् केवलम्। पृथग्

विज्ञानं न स्थितिः प्रोक्तम्।

तता विनेयजनापेक्षया ह्येकत्र सूत्रे अन्यथा विज्ञानस्थितिरूक्ता अन्यत्र चान्यथेति अत आह। अपि च क्षेत्रभावेनेति विस्तरः। विज्ञानस्य क्षेत्रभावेन चतस्रो विज्ञानस्थितयो रूपवेदनासंज्ञासंसंस्कारस्वभावा देशिताः। विज्ञानं बीजभावेन वपनीयरूपेन सोपादानम्। स्वभूमिकया तृष्णया सतृष्णम्। कृतस्नमेव सन्तानगतं देशितमिति। न पुनर्वीजं वीजस्य क्षेत्रभावेन व्यवस्थापयांबभूव भगवान्। नहि लोके बीजं क्षेत्रभावेन व्यवस्थाप्यते। ये च धरा इति विस्तरः। ये च धर्मा विज्ञानस्य सहवर्तिनो रूपादयः। त एव क्षेत्रभावेन साधुतरा भवन्ति। सहवति हि बीजस्य क्षेत्रं लोके दृश्यते। विज्ञानं तु विज्ञानेन सह नवर्तते युगपदभावात्। अतीतानागतास्तर्हि रूपादयो न विज्ञानस्थितयः प्राप्नुवन्ति। तेऽप्यतीतानागता यथास्वमतीतानागतानां विज्ञानानां स्थितयो भवन्ति। तस्मात् स्वभूमौ सर्व एव सास्रवा रूपादयो विज्ञानस्थितयो भवन्तीत्यवगन्तव्यम्।

प्रथमा कोटिरिति विस्तरः। सप्तसु यद्विज्ञानमिति पञ्चस्कन्धस्वभावत्वात् सप्तानां विज्ञानस्थितीनाम्। तत्र विज्ञानं संगृहीतं न चतसृषु विज्ञानस्य तत्राग्रहणात्। विज्ञानवर्ज्याः स्कन्धा इति अपायादिष्वपि विज्ञानं न चतसृषु संगृहीतं न सप्तस्वपायादिषु विज्ञानपरिभेदेनाग्रहणा। सप्तसु चत्वारः स्कन्धा इति। सप्तसु विज्ञानस्थितिषु ये विज्ञानवर्ज्याश्चत्वारः स्कन्धा उक्ताः ते चतसृष्वपि विज्ञानस्थितिषु संगृहीता इत्युभयत्रापि संगृहीता इति तृतीया कोटिः। चतुर्थ्येतानाकारान् स्थापयित्वेति। अपायेषु चतुर्थे ध्यान् भवाग्रे च यद्विज्ञानमनास्रवाश्च धर्माः ।

[ चतस्रो योनयस्तत्र सत्त्वानमण्डजादयः।। ८।।
चतुर्धा नरतिर्यञ्चो नारका उपपादुकाः।
अन्तराभवदेवाश्च प्रेता अपि जरायुजाः।। ९।। ]

यच्चैतद् गत्यादिभेदभिन्नमिति। आदिशब्देन भाजनान्तराभवभूम्यादिगृह्यते। जरायुर्येन मातुः कुक्षौ गर्भो वेष्टितस्तिष्ठति तस्माज्जाता जरायुजाः। भूतसंस्वेदजा इति। भूतानां पृथिव्यादीनां संस्वेदाद्दवत्वलक्षणाज्जाता भूतसंस्वेदजाः।

अविकलाश्चक्षुरिन्द्रियाद्यवैकल्यात्। अहीनेन्द्रियाः काणविभ्रान्तादेरभावात्। सर्वाङ्गैरूपेता हस्तपादादिभिः। सवैश्च प्रत्यङ्गैरङ्गुल्यादिभिरूपेताः। सकृदुपजायन्ते न कललाद्यनुपूर्व्या अण्डजादिवत्। उपपादने उपपत्तौ साधुकारित्वात्। शुकशोणिताद्यनुपादानेन सकृदुपजातत्वात्। उपपादुका इत्युच्यन्ते। क्रौचीनिर्जाताविति विस्तरः। भिन्नयानपात्रौ किल वणिजौ समुद्रतीरे कौचीं समभिगतौ। ततो निर्जातौ शैलोपशैलौ स्थविराविति। पञ्चालराजस्येति। तस्य महादेव्याः पञ्चाण्डशतानि जातानि। तेन राज्ञा मंजूषायां प्रक्षिप्य गङ्गायामववाहितानि। लिच्छविराजेन सान्तः पुरेण स्नायता सा मंजूषोह्यमाना दृष्टा उद्घाटिता च। तस्यां पञ्चशतानि दारकाणां दृष्टानि गृहीतानि चेति। मांधातृप्रभृतयः संस्वेदजाः। कथम् उपोषधस्य किल राज्ञो मूर्धि पिटको जातः तस्य वृधेरन्वयात्परिपाकान्वयात् परिभेदान्वयद्दारको जातः सोऽयं मान्धातेति संस्वेदजो भवति। राज्ञः खल्वपि मान्धातुर्जानूपरि पिटकौ जातौ तयोर्वृद्धेरन्वयात् पूर्ववद्यावद्दारकौ जातौ ताविमो चारूपचारौ। ब्रह्यदत्तस्य किल राज्ञ उरसि पिटको जातः। तस्य वृद्धेरन्वयात् पूर्ववद्यावद्दारिका जाता सेयं कपोतमालिनीति। आम्रपाल्यपि कदलीस्तंभाज्जातेति श्रूयते। प्राथमकल्पिका इति।

प्रागासं रूपिवत् सत्त्वाः

इति वचनात्। सुपर्णी गरूडः। प्रेतानां जरायुजत्वसिद्धयर्थमुच्यते। आयुष्मत इति विस्तरः। कथं गम्यते जरायुजत्वसिद्धयर्थमिति। रात्रौ पञ्चतां जनित्वेति वचनात्। ननु च सुतरामुपपादुकत्वसिद्धयर्थमिति गम्यते। पञ्च रातौ

दिवापञ्च तथाऽपरान्। नास्ति तृप्तिस्थापि मे इति वचनात्। जरायुजैर्हि भक्षितैस्तृप्तिर्भवेत्। जरायुजसिद्धयर्थमेव नोपपादुकसिद्धयर्थम्। रात्रौ पञ्चानां सकृज्जन्म दिवा चापरेषां पञ्चानां न विरूधय्ते। तावत्कालेन तदात्मभावपर्पूरितः। क्रमेणापि च रात्रौ पञ्चानां दिवापरेषां पञ्चानां जन्म न विरूध्यते। सत्त्वजातिः सा तादृशी करणां चाचिन्त्यो विपाक इति। अभिप्रवृद्धजिघांसादोषत्वात्तु नापि तृप्तिरस्तीति।

प्राप्तोपपत्तिवशित्वोऽपीत्यनेन जरायुजोपपत्तौ कर्मबलात्कारायोगं दर्शयति। यथान्यतीर्थशास्त्रे ऋद्धिं भदन्त को दर्शयति मायावी गौतम इति। तथा भगवन्तमेवोद्दिश्यान्यत्रोक्तम्। कल्पशतस्यात्ययादेवंविधो लोके मायावी प्रादुभुय मायया लोकं भक्षयतीति उपजीवतीत्यर्थः। बाह्यबीजाभावादिति। बाह्यस्य शुकशोणितकर्दमादेरभावादित्यर्थः। आधिष्ठानिकीमिति यदधितिष्ठति इदमेवं भवत्विति तदधिष्ठानम्। तत्प्रयोजनमस्यास्तत्र वा भवा ऋद्धिराधिष्ठानिकी। तामिच्छतां बौद्धानां न युक्त एप परिहार इति। कतमः। य उक्तः। शरीरधातूनामवस्थापनार्थमिति।

प्रशात प्रशान्तरमुत्पद्यत इति। अथ किमर्थ चरमभिवको बोधोसत्त्व इति प्रश्नो उक्तो विस्तरेण। तत्र चोक्तम् शरीरधातूनामवस्थापनार्थमिति विस्तरः। तस्मात् प्रश्नादिदं प्रश्नान्तरमुत्पद्यते। यद्यु पपादुकानामिति विस्तरः। कायनिधनं कायनाशः। उपपादुकः सुपर्णी उपपादुकं नागमिति विशेषणद्वयं किमर्थम् किमनुपपादुका अपि सुपर्णिनो नागाश्च सन्ति। सन्तीत्याहुः। चतुर्विधा हि गरूडा नागाश्चण्डजादिभेदात्। तेषामुपपादुका उत्तमाः संवेदजा उपोत्तमाः जरायुजा मध्याः अण्डजा जघन्याः। तत्रोपपादौकः सुपर्णी सर्वानुपपादकादीनुद्धरति भक्षार्थम् संवेदजस्त्रीन् संस्वेदजादीन् जरायुजो द्वौ जरायुजाण्डजौ अण्डजोऽण्डजमेवेति वर्णयन्ति। यावन्नमृत इति यदा जीवति तदा तन्मांसादि नान्तर्धीयत इति निदर्शितं भवति। न पुनर्मृतस्यास्य तृप्यतीति। न पुनर्मृतानेन तृप्यतीत्यर्थः। तृपिपूरौ विभाषेति विभाषाषष्ठीयते। तस्य मृतस्याकाशस्येव भक्षितस्य मांसपिण्डान्तर्धानान्न तृप्यतीत्यवगन्तव्यम्।

स हि द्वे गती इति नरकगतिर्देवगतिश्च। तिसृणां च प्रदेश इति तिर्यक्प्रेतमनुष्य गत्यन्तरालत्वात्।।

[ मृत्यूपपत्तिभवयारन्तरा भवतीह यः।
गम्यदेशानुपेतत्वान्नोपपन्नोऽन्तराभवः।। १०।। ]

गत्योरन्तरालत्वात्। ननु चाव्याकृतैव गतिरिष्यते। उपपत्तिभवश्चैकान्तेन क्लिष्टः। मरणभवोऽपि कदाचित् कुशलः क्लिष्टो वा भवति न गतिः। कथ तयोर्गतिशब्दमध्यारोप्य गत्यन्तरालत्वादित्युच्यते। नैष दोषः। मरणोपपत्तिभवयोरनिवृताव्याकृतानां निकायसभागजीवितेन्द्रियजात्यादीनां गतिस्वभावानां तत्काले विद्यमानत्वात्। कामरूपधात्वोश्च कायेन्द्रियस्याप्यवश्यम्भावात्। न चोपपत्तिवन्मराणभवोऽवश्यं क्लिष्टो नाप्यवश्यं कुशलः। तस्मात्तेषु गतिशब्दमारोप्य गत्यन्तरालत्वादित्युक्तम्। पदे गत्यर्थत्वादिति। पदगताविति पठ्यते। तेनोपपन्नशब्दस्योपगतार्थ दर्शयति

नोपपन्नोऽन्तराभवः।

किं तर्हि उपपय्दमान इति। अभिव्यक्तिः समाप्तिश्चेति। आक्षेपकेण कर्मणा निकायसभागस्याभिव्यक्तिः परिपूरकैः परिसमाप्तिः सर्वस्मिन् जन्मनि कर्मद्वयस्य व्यापारात्।

एकं जन्माक्षिपत्येकमनेकं परिपूरकम्

इति वचनात्। अथवा यत्र देशे आक्षिप्तस्य कर्मणा नामरूपस्य विपाकस्य प्रादुर्भावोऽभिव्यक्तिः षडायतनपूरितश्च समाप्तिः स देशोऽवगन्तव्यः।। १०।।

[ ब्रीहिसन्तानसाधर्म्यादविच्छिन्नभवोद्भवः।
प्रतिबिम्बमसिद्धत्वादसाम्याच्चानिदर्शनम्।। ११।। ]

ग्रीहिसन्तानसाधर्म्यात्

इति विस्तरः। संबन्ध्नंस्तानः संतानो व्रीहेः संतानो व्रीहिसन्तानः। तेन साधर्म्यादविच्छिन्नस्य भवस्योद्भवो भवति यतोऽपैति यत्र चोत्पद्यते तदन्तरालसन्तानवर्तिरूपपूर्वकमुपपत्तिभवरूपम् स्वोपादानरूपसन्तानरूपस्वभावत्वात् व्रीहिसन्तानपश्चात्तररूपवत्। सन्तानवर्तिनां हि धर्माणामविच्छेदेन देशान्तरोत्पत्त्या देशान्तरेषु प्रादुर्भावो दृष्टः। तद् यथा व्रीहिसन्तानस्य। व्रीहिसन्तानपश्चात्तररूपं हि यतो देशान्तरादपैति यत्र च देशान्तर उत्पद्यते तदन्तरालसन्तानवर्तिरूपपूर्वकमुत्पद्यते। क्षणिकवादिनां ह्यक्मस्माकं सिद्धान्तः। यदा ग्रामाद्गामान्तरं नीयते व्रीहिः न स व्रीहिः पुर्वत्र ग्रामे निरूध्य तद्गामान्तरालेऽनुत्पद्यमानोऽनेकयोजनान्तरितेऽपि ग्रामान्तर उत्पद्यते। किं तर्हि निरन्तराकाशदेशोत्पादनिरोधक्रमेणोत्पद्यते ग्रामान्तरे। तच्च स्वोपादानरूपसन्तानरूपस्वभावम्। तथोपपत्तिभवरूपमप्युत्पद्यत इति। अत्राचार्यगुणमतिः सह शिष्येणाचार्यवसुमित्रेण स्वनिकायानुरागभावितमतिर्व्याख्यानव्यापारमपास्य प्रत्यवस्थापरे एव वर्तते। वयमिह शास्त्रार्थविवरणं प्रत्याद्रियामहे न तद्दूषणम् निःसारत्वात् बहुवक्तव्यभयाच्च। भविष्णुर्भवनशीलः। विच्छिन्नोऽपीति विस्तरः। आदर्शादिषु बिम्बात् प्रतिबिम्बमिति। आदर्शोदकादिषु बिम्बान्मुखात् प्रतिबिम्बं मुखच्छायारूपं विच्छिन्नमुत्पद्यमानं दृष्तमित्यनेनानैकान्तिकतामुद्ग्राहयति प्रतिसाधनं वा करोति यतोऽपैति यत्र चोत्पद्यते न तदन्तरालसन्तानवर्तिरूपपूर्वकमुपपत्तिभवरूपम् स्वोपादानरूप्सन्तानरूपस्वभावत्वात् प्रतिबिम्बरूपवदिति। प्रतिबिम्ब नामान्यदेवोत्पद्यते धर्मान्तरमित्यसिद्धमेतदिति। बिम्बसामर्थ्यादेव तत्रादर्शादिषु प्रतिबिम्वाकारं भ्रान्तं विज्ञानमुत्पद्यत इत्याचार्यस्याभिप्रायः। न तत्र प्रतिबिम्बं नाम किञ्चिदस्तीत्यनेन धर्म्यसिद्धिर्नाम दृष्टान्तदोषं दर्शयति। तस्मान्नानैकान्तिकतास्ति। न चैतत् प्रतिसाधनं साध्विति। सिद्धवपि च सत्याम्

असाम्यादनिदर्शनम्

इति। प्रतिबिम्बस्य द्रव्यसत्त्वेन सिद्धावपि सत्यामसाम्याद्दार्ष्टान्तिकेन न निदर्शनमनुदाहरणं प्रतिबिम्बकमिति। कथं तावदसिद्धमिति तावच्छब्दः क्रमे।। ११।।

असिद्धतायुक्ति तावत् दर्शयन्नाह

[ सहैकत्र द्वयाभावादसन्तानाद्दयोदयात्।
कण्ठोक्तेश्चास्ति गन्धर्वः पञ्चोक्तेर्गतिसूत्रतः।। १२।। ]

सहैकत्र द्वयाभावात्

इति विस्तरः। तत्रैव हि आदर्शदेशे आदर्शरूपं दृश्यते पार्श्वस्थितेन न प्रतिबिम्बकम्। प्रतिबिम्बकं च तत्रैव दृश्यतेऽभिमुखावस्थितेन नादर्शरूपम्। न चैकत्र देशे उपादयरूपद्वयस्यास्ति सहभावः। किं कारणम् आश्रयभूतभेदात्। आश्रयभूतानि हि तयोर्भिन्नानीति। नास्त्यादर्शरूपाश्रयभूतैरवष्टव्धे देशे प्रतिबिम्बकरूपाश्रयभूतानां तत्रावकाशः। अतो नोपादाय रूपद्वयस्यास्ति सम्भवः। तदेवं युगपद्विज्ञानद्वयस्याभावात् उपादायरूपद्वयस्य चैकत्र सहभावाभावात् न तत् किञ्चिदस्तीति दर्शयति। यत्रैव हि देशे आदर्शरूपं दृश्यत इति बिम्वकं च तत्रैव त्वन्यत्र। को दोष इत्याह। न चैकत्र रूपद्वयस्याति सहभाव इति पूर्ववद्वाच्यम्। अथवा सहैकत्र द्वयाभावादित्यस्य सूत्रस्यायमर्थः। एकत्र रूपे पुरूषद्वयस्य पश्यत एवाभावात्। सहदर्शनस्य प्रतिबिम्वमसिद्धमिति वाक्याध्याहारः। कथमित्याह दिग्भेदव्यवस्थितैः पुरूषैकैरूत्तरदिग्व्यवस्थितैरितरैर्दक्षिणदिग्व्यवस्थितैः एकस्मिन् वाप्यम्बुदेशे एकस्मिस्तटाकजलदेशे स्वाभिमुखदेशस्थितानां रूपाणां दक्षिणतटोर्ध्वस्थितानि रूपाण्युत्तरदिग्व्यवस्थितपुरूषस्वाभिमुखस्थान्युत्तरतटोर्ध्वस्थितान्यपि रूपाणि दक्षिणदिग्व्यवस्थितपुरूषस्याभिमुखस्थानि तेषामुभयेषाम्। किम् प्रतिबिम्बकमन्योन्यमुपलभ्यते उत्तरदिग्व्यवस्थितैर्दक्षिणतटाधः प्रतिविम्वकमुपलभ्यते दक्षिणदिग्व्यवस्थितैरप्युत्तरतटाधः प्रतिविम्बकमुपलभ्यते। एवमन्योन्यमुपलभते न तूभयं युगपदुपलभ्यत इति वाक्यार्थः। न हि स्वतटाधः प्रतिविम्वकमेकतटस्थैः समन्ततोऽपि वापीजलं पश्यद्भिरूपलभ्यते। ततः किमिति चेदत आह। न त्वेकत्र रूपे घट् पटे वा द्वयोः पश्युतोः पुरूषयोः सहदर्शनं न भवति  भवत्येवेत्यर्थः। इह तु न भवति सहदर्शनमित्यतो न तत्र रूपान्तरोत्पत्तिर्युक्तेति। अथवास्यायमर्थः। छायातपयोश्च द्वयोः सहैकत्र भावो न दृष्टो लोके। यत्रछाया भवति मण्डपेऽन्यत्र वा न तत्रातपो यत्र वातपो भवत्यभ्यवकाशे न तत्र छाया उपलभ्यते च छायास्थ आदर्शे सूर्यस्य प्रतिबिम्बकमिति। कथम् तटाके सूर्यप्रतिबिम्बकमुत्पद्यते। तत्तटाकतटस्थे च छायावति मण्डपे आदर्श स्थाप्यते। तत्रादर्शके तटाकस्थस्य सूर्यप्रतिबिम्बकस्यापरं प्रतिबिम्बकमुत्पद्यते। तटाके च यत् सूर्यप्रतिबिम्बकं तत् सूर्यसमुत्थमित्यवश्यमातपस्वभावमित्यभ्युपगन्तव्यम्। यच्चापरमादर्शे प्रतिबिम्बकं तदातपस्वभावप्रतिबिम्बकसमुत्थमित्येतदप्यवश्यं आतपस्वभावमभ्युपगन्तव्यम्। एवं सति छायातपयोः सहस्वभावः स्यात्। न चान्यत्र लोके छायातपयोः सहभाव इति। न युक्तोऽस्य प्रतिबिम्बकस्य तत्र प्रादुर्भावः। कूप इवोदकमिति। यथा कूपे दूरान्तर्गतमुदकं दृश्यते। तथा चन्द्रप्रतिबिम्बकमप्यत्रैवान्तर्गतं दृश्यते। न चादर्शस्तावत् वस्तुफ़लोऽस्ति। तच्च तत्रोत्पद्यमानम् तच्च प्रतिबिम्बकमादर्श एवोत्पद्यमानम्। नान्यत्राधस्ता दुपकभ्यते। उपलभ्यते च अतो नास्येव तत् किञ्चित्। सामग्यास्तु बिम्वादर्शदिलक्षणायाः। सा तस्याः प्रभावो यत्तथा दर्शनं भवति। अचिन्त्यो हि धर्माणां शक्तिभेदः अयसोऽयस्कान्ताभिगमनदर्शनान्न काष्ठादीनां यथा चन्द्रकान्ताच्चन्द्रोदयेऽसंभवप्रक्षरणदर्शनं नाङ्गारादीनामित्येवमादि वक्तव्यम्। आदर्शसन्तानसम्बद्धत्वादिति। न बिम्बसन्तानभूतं प्रतिबिम्बमादर्शसम्बन्धत्वादादर्शरूपवत्। सहभावाच्च विम्वसमानकालरूपान्तरवत्। तदेवं यथा मरणभवस्योपपत्तिभवः सन्तानभूतो नैवं बिम्बस्य प्रतिबिम्बकमिति साधनान्वितः प्रतिविम्वकदृष्टान्तः। व्रीहिसन्तानपश्चात्तररूपदृष्टान्तस्तु स्वसन्तानपूर्वरूपसन्तानभूत इति। तस्मादसाम्यं दृष्टान्तस्य प्रतिबिम्बस्य चेति।

द्वयोदयात्

इति विस्तरः। द्वयोनोदयो द्वयोदयः। तस्माद्विम्वाच्चादर्शाच्चेत्यर्थः। यत् प्रधानं कारणमादर्शादि तदाश्रियोत्पद्यते प्रतिबिम्बम्। आदर्शादि हि प्रतिबिम्बस्य प्रधानं कारणं तदनुविधानात्। तद् यथा यद्यसिस्तिर्यगवस्थितो भवति प्रतिबिम्बमपि तिर्यगायतं च दृश्यते। यद्यूर्ध्वमवस्थितो भवति प्रतिविम्वमपि तथैव दृश्यते। न चैवमुपपत्तिभवस्यापि द्वाभ्यां कारणाभ्यां सम्भवो मरणभवाच्चान्यतश्च प्रधानभूतादादर्शस्थानीयात्। ब्राह्य शुकशोणितं प्रधानकारणमिति चेत् न अचेतनत्वात्। उपपादुकानां च तदभावादतोऽप्ययमसमानो दृष्टान्तः। किमनेन दर्शितं भवति। उत्कालितविशेषणे हेतावयमतुल्यो दृष्टान्त इति। कथमिति यतोऽपैति यत्र चोत्पद्यते तदन्त्रालसन्तानवर्तिरूपपुर्वकमुपपत्तिभवरूपम्। अद्वयोत्पन्नस्वोपादानरूपसन्तानरूपस्वभावत्वात्। व्रीहिसन्तानपश्चात्तररूपवदिति। तदेवं सति नास्य साधनस्यानैकान्तिका शक्यमुद्ग्राहयितु नापि प्रतिसाधनं कर्तुमित्युक्त भवति। आगमेनान्तराभवस्यास्तित्वं साधयन्नाह

कण्ठोक्तेश्चास्ति

इति। स्वशब्दाभिधानादित्यर्थः नैतत् सूत्र तैराम्नायत इति। तैर्निकायान्तरीयैः कस्मान्नम्नायते। तदागमेष्वभावात्। निकायान्तरागमप्रसिद्धं किमिति न पमाणं क्रियते। मूलसंगीतिभ्रशेन समारोपितसूत्राशंकितत्वात्। त्रयाणां स्थानानामिति। त्रयाणां हेतूनां माता कल्या माता नीरोगा ऋतुमती रजस्वला तदेतदुभयं प्रथमं स्थानं भवति। रक्तौ सन्निपतिताविति मैथुनधर्मं कुर्वन्तौ इदं द्वितीयं स्थानम्। गन्धर्वश्च प्रत्युपस्थित इति तृतीयम्  स्कन्धभेदश्च प्रत्युपस्थित इति मरणभवः। पञ्चानागामिनः सप्त सत्पुरूषगतयः पुद्गलनिदेशकोशस्थाने वक्ष्यन्ते। उपपद्यादयोपीति। उपपद्या नाम ते देवा इत्येवमादयः संप्रज्यन्ते। सप्त सत्पुरूषगतय इति। एत एव पञ्चान्तरापरिनिर्वायिणं त्रिधा भित्त्वा सप्त भवन्ति तेनाह अन्तरापरिनिर्वायिणस्त्रय उक्ताः। कालप्रकर्षभेदेनेति। कालप्रकर्षभेदेन देशप्रकर्षभेदेन च यथायोगम् सूत्रं चात्र पठ्यते श्रावस्त्यां निदानम्। तत्र भगवान् भिक्षूनामन्त्रयते स्म। सप्त वोऽहं भिक्षवः सत्पुरूषगतीर्देशयिष्याम्यनुपादाय च परिनिर्वाणम् तच्छृणुत साधु च सुष्ठु च मनसिकुरूत भाषिष्ये। सप्त सत्पुरूषगतयः कतमाः इह भिक्षुरेवं प्रतिपन्नो भवति। नो च स्यां नो च मे स्यात् न भविष्यामि न मे भविष्यति यदस्ति यद् भूतं तत् प्रजहामीत्युपेषां प्रतिलभते। स भवेऽस्मिन्न रज्यते स भवेऽस्मिन्न सज्यते।

अथोत्तरं पदं शान्तं प्रज्ञया प्रतिविध्यति

तच्चानेन पदं कायेन साक्षात्कृतं भवति। एवं प्रतिपन्नस्य भिक्षोः का गतिः स्यात् कोपपत्तिः कोऽभिसंपराय इति स्युः प्रष्टारः। तद् यथा भिक्षवः परीत्तशकलिकाग्निरभिनिवर्तमान एव निर्वायात् एवमेव तस्य तावन्मानावशेषमप्रहीनं भवत्यपरिज्ञातम्। तस्य तावन्मानावशेषस्याप्रहाणादपरिज्ञानात् पञ्चानामवरभागीयानां संयोजनानां प्रहाणादन्तरापरिनिर्वायी भवति। इयं प्रथमा सत्पुरूषगतिराख्याता। पुनरपरं भिक्षुरेवं प्रतिपन्नो भवति। नो च स्यामिति पूर्ववत् यावत् स्युः प्रष्टार इति। तद् यथा ऽयोगुडानां वायस्फ़ालानां वा प्रदीप्ताग्निसंप्रतप्तानामयोघनेन हन्यमाना नामयस्प्रपाटिका उत्पतन्त्येव निर्वायात् एवमेव तस्य पूर्ववत् यावत् पञ्चानामवरभागीयानां संयोजनानां प्रहाणादन्तरापरिनिर्वायी भवति। इयं द्वितीया सत्पुरूषगतिः। पुनरपरं भिक्षुरेवं प्रतिपन्नो भवति। पूर्ववद्यावदयस्प्रपाटिका उत्प्लुत्या पतित्वैव पृथिव्यां निर्वायात्। एवमेव तस्य पूर्ववद् यावदन्तरापरिनिर्वायी भवति। इयं तृतीया सत्पुरूषगतिः। पुनरपरं भिक्षुरेवं प्रतिपन्नो भवतीति पूर्ववद् यावदयस्प्रपाटिका उत्प्लुत्य पतितमात्रैव पृथिव्यां निर्वायात्। एवमेव तस्य पूर्ववद् यावत् पञ्चानामवरभागीयानां संयोजनानां प्रहाणादुपपद्यपरिनिर्वायी भवति। इयं चतुर्थी सत्पुरूषगतिः। पुनरपरं भिक्षुरेवं प्रतिपन्न इति पूर्ववद् यावदयस्प्रपाटिका उत्प्लुत्य परीत्ते तृणकाष्ठे निपतेत्। सा तत्र धूममपि कुर्यादर्चिरपि संजनयेत्। सा तत्र धूममपि कृत्वाऽचिरपि संजनय्य तदेवं परीत्तं तृणकाष्ठ दग्ध्वा पर्यादाय निरूपादाना निर्वायात्। एवमेव तस्य पूर्वदयावत् पञ्चानामवरभागीयानां संयोजनानां प्रहाणदनभिसंस्कारपरिनिर्वायी भवति। इयं पञ्चमी सत्पुरूषगतिः। पुनरपरं भिक्षुरेवं प्रतिपन्न इति पूर्ववद् यावदयस्प्रपाटिका उत्प्लुत्य महति विपुले तृणकाष्ठे निपतेत्। सा तत्र धूममपि कुर्यादर्चिरपि संजनयेत्। सा तत्र धूममपि कृत्वाऽर्चिरपि संजनय्य तदेव महद् विपुलं तृणकाष्ठ दग्ध्वा पर्यादाय निरूपादाना परिनिर्वायात्। एवमेव तस्य पूर्ववद् यावत् पञ्चानामवरभागीयानां संयोजनानां प्रहाणात् साभिसंस्कारपरिनिर्वायी भवति। इयं षष्ठी सत्पुरूषगतिः। पुनरपरं भिक्षुरेवं प्रतिपन्न इति पूर्ववद् यावदस्प्रपाटिका उत्प्लुत्य महति विपुले तृण्काष्ठे निपतेत् सा तत्र धूममपि कुर्यादर्चिरपि संजनयेत् सा तत्र धूममपि कृत्वार्चिरपि संजनय्य तदेव महद् विपुलं तृणकाष्ठ दग्ध्वा ग्राममपि दहेद् ग्रामप्रदेशमपि नगरमपि नगरप्रदेशमपि जनपदमपि जनपदप्रदेशमपि कक्षमपि दावमपि द्वीपमपि षण्डमपि दहेत्। ग्राममपि दग्ध्वा यावत् षण्डमपि दग्ध्वा मार्गे ह्यगम्य उदकान्तं वाऽल्पहरितकं वा पृथिवीप्रदेशमागम्य पर्यादाय निरूपादाना निर्वायात्। एवमेव तस्य यावत् पञ्चानामवरभागीयानां संयोजनानां प्रहाणदूर्ध्वस्रोता भवति। इयं सप्तमी सत्पुरूषगतिराख्याता। अनुपादाय परिनिर्वाणं कतमत् इह भिक्षुरेवं इति पूर्ववद् यावत् स्युः प्रष्टार इति। तस्यैवं प्रतिपन्नस्य भिक्षोर्न पूर्वस्यां दिशि गतिं वदामि न दक्षिणस्यां न पश्चिमायां नोत्तरस्यां नोर्ध्व नाधो नानुविदिक्षु नान्यत्र दृष्ट एव धर्मेनिश्छायं परिनिर्वृतं शीतीभूतं ब्रहीभूतमिति। इदमुच्यतेऽनुपादाय परिनिर्वाणम्। सप्त वोऽहं भिक्षवः सत्पुरूषगतीर्देशयिष्यामि। अनुपादाय च परिनिर्वाणमिति यदुक्तम् इदमेतत् प्रत्युक्तम्। अन्ये पुनराहुरितिविस्तरः। आयुषः प्रमाणं तस्यान्तरं तस्मिन् आयुःप्रमाणान्तरेऽपरिसमाप्त आयुषीत्यर्थः। देवसमीपान्तरे वा। देवनामन्तिकं देवसमीपं गतस्यान्तरे यः क्लेशान् प्रजहाति सोऽन्तरापरिनिर्वायी। स पुनर्धातुगतो वा परिनिर्वाति यः क्लेशवीजावस्थायामुपपन्नमात्र असमुदाचारक्लेश इत्यर्थः। संज्ञागतो विपसंज्ञासमुदाचारावस्थायं यः परिनिर्वाति। धातुगताच्चिरतरेणायं परिनिर्वाति। वितर्कगतो वा वितर्कसमुदाचारवस्थायां यः परिनिर्वाति। अयमपि संज्ञगताच्चिरतरेण परिनिर्वाति। तेन त्रिविधो भवत्यन्तरापरिनिर्वायी यथोक्तेन दृष्टान्तत्रयेण। प्रथमो वा निकायसभागपरिग्रहं कृत्वा जातमात्र इत्यर्थः। यं प्रत्येष परीत्तः शकलिकाग्निरिति दृष्टान्तः। द्वितीयो देवसमृद्धिं चानुभूय परिनिर्वातीति यं प्रत्येष दृष्टान्तः। तद् यथाऽयस्प्रपाटिकेति। तृतीयो धर्मसंगीतिमनुप्रविश्य धर्मसांकथ्यमनुप्रविशय् परिनिर्वाति यं प्रत्येष दृष्टान्तः  तद् यथाऽयस्प्रपाटिका उत्प्लुत्य पृथिव्यामपतितैव परिनिर्वायात् तदेवं विनाप्यन्तराभवेन यथान्तरापरिनिर्वायी भवति। यथा च तस्य दृष्टान्तत्रयेण त्रिविधो भेदस्तथा साधितं निकायान्तरीयैः। तस्मिन् साधिते इदं चोद्येत। यदि धर्मसङ्गीतिमन् उप्रविश्य यः परिनिर्वाति सान्तरापरिनिर्वायीष्यते। कीदृश उपपद्यपरिनिर्वायी भविष्यतीत्यत आह। उपपद्यपरिनिर्वायी पुनः प्रकर्ष युक्तां सङ्गीतिमनुप्रविश्य परिनिर्वातीति। प्रकर्षयोगादुत्पत्त्यर्थो भवतीत्यभिप्रायः। सङ्गीत्यनुप्रवेशसामान्यान्नैष भेदो युज्यत इति वचनावकाशं मत्वा पुनराह भूयसा वायुरपहत्येति आयुषो बहु क्षयित्वा परिनिर्वातीत्यर्थः।

त एत इति विस्तरः त एते सर्वेऽपि धातुगतादयस्त्रयः शकलिकादिभिर्दृष्टान्तैर्सम्बध्यन्ते। कस्मात् देशगतिविशेषाभावात् देशगतेविशेषस्याभावात् न ह्येषां देशगतिविशेषोऽस्ति तत्रैव देशे परिनिर्वाणात्। सूत्रोक्तानां त्रयाणां दृष्टान्तानां देर्शगतिविशेषोऽस्तीति नैभैरेते सम्बध्यन्ते। चक्रवर्तिसंवर्तनीयानि कर्माणि विपाकाभिनिवृत्तौ कदाचिदेव वृत्ति लभन्ते बहुप्रत्ययापेक्षित्वात्। सम्भवैषित्वादुपपत्त्यभिलाषित्वात्। कर्माण्येव प्रत्ययानां सामग्रीमावहन्तीति। कर्माधिपत्येनाश्वादीनां प्रसिद्धं कालमतिक्रम्य कालान्यरेऽपि मैथुनं भवतीति। एककर्माक्षेपादिति। येनैव कर्मणा गवादिनिकायसभाग आक्षिप्यते तेनैव कर्मणा तदन्तराभव आक्षिप्यत इत्यतो वक्तव्यमेतत् यदुक्तं येनान्यत्र काले गोषूपपत्तव्यं स गवयेषूपपद्यत इति विस्तरेण। न निकायभेदादेकाक्षेपकत्वं हीयते गोषूपपत्तव्यं स गवयेषूपपद्यत इति विस्तरेण। न निकायभेदादेकाक्षेपकत्वं हीयते तत्कर्मण एकजातीयत्वात् गत्याकृतिसंस्थानान्तरापरित्यागाच्च। गतिनियतानां हि कर्मणामुपपत्तिवैचित्र्यं दृष्टम्। कल्मापपादादिवदिति। नास्त्येष दोष इत्याचार्यसङ्घभद्रः।। १४ ।।

[ विपर्यस्तमतिर्याति गतिदेशं रिरंसया।
गन्धस्थानाभिकामोऽन्य ऊर्ध्वपादस्तु नारकः।। १५।। ]

विपर्यस्तमतिः

इति अनुनयसहगतेन वा प्रतिघसहगतेन वा चित्तेन यथा विपर्यस्तमतिर्भवति तद् दर्शयन्नाह। तत्रास्य पित्रोरोति विस्तरः। मातापित्रोस्तां विप्रतिपत्तिं द्वीन्द्रियसमापत्तिलक्षणम्। पुंसः सतः पुरूशस्यान्तराभवस्य पूंसोऽयं पौस्नो राग उत्पद्यते मातरि भार्यायामिव। स्त्रिया अयं स्त्रैणो राग उत्पद्यते पितरि भर्तरीव। विपर्ययात् प्रतिघ इति पुंसः सतः पौस्नः प्रतिघ ईर्ष्योत्थानभूत उत्पद्यते पितरि प्रतिसपत्नपुरूश इव स्त्रियाः स्त्रैणः प्रतिघ उत्पद्यते मातरि प्रतिसपत्नयामिव। स ताभ्यामेव् विपर्यस्ताभ्यां चित्ताभ्यां विपर्यस्तो रन्तुकामतया मैथुनकर्मकामतया तं देशमिद्न्रिय्द्वयस्थानमाश्र्लिष्य तामवस्थां विप्रतिपत्त्यवस्थामात्मन्यधिमुच्यते मयैतत् कर्म क्रियत इति। तस्मिंश्चाशुचौ शुक्रोशोणिते गर्भस्थानसंप्राप्ते आमाशयपक्काशयान्तर स्थानसंप्राप्ते अभिनिविशते प्रतितिष्ठतीत्यर्थः। पृष्ठाभिमुख उत्कुटुक इति। मैथुक्रियात्माभिनानक्रियायोगात्। आप्यायमानो वर्धमानः। एतान्येवेति शुक्रशोणितमहाभूतानि। भूतान्तराण्येवेति शुक्रशोणितव्यतिरिक्तानि। बीजाङ्कुनिरोधोत्पादन्यायेनैकस्मिन्नेव क्षणे बीजं निरूध्यतेऽङ्करश्चोत्पद्यते तुलादण्डनामोन्नामवन्नाशोत्पादयोः समकालत्वात्। यत्तत् कललमित्याख्यायत इति। कललं प्रथमं भवति कललाज्जायतेऽर्वुदमित्यादिवचनात्। एवं च कृत्वा सूत्रपदमिति। वल्मीक इति भिक्षो अस्य कायस्यैतदधिवचनम्। रूपिण औदारिकस्य चातुर्महाभूतस्य अदनकुल्माषोपचितस्य मातापुत्रशुचिकललसम्भूतस्येति विस्तरः। मातापित्रशुच्येव कललं ततः सम्भ्हुतस्येत्यर्थः। कटसिरिति श्मशानम्। रूधिरबिन्दुरूपात्त इतीदमुदाहरणम्। अस्य कायेन्द्रियभावापत्तितः। भूतान्तराण्येव शुक्रशोणितव्यतिरिक्तानि तद् यथा पर्णक्रिमेरिति। यथा पर्णक्रिमेः पर्णमहाभूतान्युपनिश्रित्य भ्ज़्तान्तराणि कर्मभिर्जायन्ते यानीन्द्रियस्वभावमापद्यन्ते न पर्णमहाभूतानि बहुत्वात्तत्क्रिमीणाम् खण्डशः पत्रस्यादर्शनाच्च। सूत्रपदं कथं तर्हि नीयते मातापित्रशुचिकललसम्भूतस्येति अत आह। अशुचि संनिश्रयोत्पत्त्यभिसन्धिवचनात्तु कललस्य सूत्राबिरोध इति। अशुचिसन्निश्रयेणोत्पत्तिर्भूतान्तराणाम् तत्राभि सन्धिरभिप्रायः तेन वचनं कललस्य तस्मान्मातापित्रशुचिकललसम्भूतस्येत्यस्य सूत्रस्याविरोधः। एतदुक्त भवति शुक्रशोणितसन्निश्रयेण कललाख्यानि भूतान्तराणि शुक्रशोणितसमकालान्युत्पद्यन्ते सेन्द्रियाणि। यथा पर्णसन्निश्रयेण पर्णसमानकालानि सेन्द्रियाणि क्रिमिमहाभूतान्युत्पद्यन्त इति।

अन्यत्र तु यथायोगं वक्तव्यमित्याहुरिति। अन्यत्र संस्वेदजौपपादुकयोर्येन्योर्यथायोगं व्याख्येयमित्याहुरभिधर्माचार्याः। तत्र चायं योगि दृश्येत इत्याचार्यो व्रवीति। शैत्यञ्च नरकेष्विति शीतनरकोपपत्तिकाले। यदवस्थ इति औरभिकाद्यवस्थः। यथाभूतेन तद्वेद्यं कृतं प्राक्कर्म तादृशान् सत्त्वान् स्वप्न इव प्रेक्ष्य नरके स धावति। पूर्वाचार्याः योगाचारा अर्यासङ्गप्रभृतयः।

आसनादिवोत्तिष्ठन्निति। ऊर्ध्वोपपत्तिस्थानगमनात्। मनुष्यादिवदिति। यथा मनुष्यस्तिर्यक् प्रेतश्च गच्छति तद्वत्। ऋषीणामतिवक्तार इति। अधिक्षेप्तारोऽपवदितार इत्यर्थः।। १५।।

[  स्मप्रजानन् विशत्येकस्तिष्ठत्यप्यपरोऽपरः।
निष्क्रामत्यपि सर्वाणि मूदोऽन्यो नित्यमण्डजः।। १६।। ]
[ गर्भावक्रान्तयस्तिस्रश्चक्रवर्तिस्वयंभुवौ।
कर्मज्ञानोभयेषां वा विशदत्वाद्यथाक्रमम्।। १७   ]

नित्यमण्डजः

इति नित्यग्रहणात्

सर्वाणि मूदः

इत्यत्र नास्ति नियमः। भवति तु संप्रजाननपि प्रतिलोमं निर्दिष्टा इति। सूत्रे हि यःस् अर्वाण्यसम्प्रजानन् करोति एषा प्रथमा गर्भावक्रातिरूक्ता तिस्रस्तु यथानिर्दिष्टानुपूर्विका एवेति। योऽपि जनिष्यते सोऽप्यण्डज इति। अण्डाज्जनिष्ःयते अण्डज इत्यभिप्रायः। आवश्यको ह्यभूतार्थो भूतवदुच्यते तथावर्तमानसमीप्ये वर्तमानवद्वा आशंसायां भूतवच्चेति। कश्चित् कस्मैचिद्वक्ता भवेत् आगच्छन्तमेव तथा आगतमेव मां विद्धीति। तस्माददोष एषः। अण्डाज्जातो जनिष्यते जायते चेत्यण्डजः। अन्येभ्योऽपि दृश्यत इति वचनात्। तस्माददुष्टमेतदित्याचार्यसङ्गभद्रः। अथवा भाविन्यापिसंज्ञयेति। भविष्यन्त्यापि संज्ञया निर्देशः क्रियते। तद्यथा संसृतमभिसंस्करोतीति। जनितावस्थायां संस्कृतं भवति न जन्यमानावस्थायाम्। न हि संस्कृतस्य पुनः संस्कारो युज्यते। भविष्यन्त्या तु संज्ञया तथा निर्देशः क्रियते। एवमोदनं पचतीत्यादि योज्यम् कथं पुनरसंप्रजानन् मातुः कुक्षिं प्रविशतीति विस्तरः। सन्निकृष्टावस्था उपपत्तिदेशस्य।

विपर्यस्तमतिर्याति

इति विप्रकृष्टावस्था अभिमोक्षोऽधिमुक्तिः। तथा तिष्ठामि निर्यामीति। कथं तथा तिष्ठतोऽप्येषु तिष्ठामिति निष्क्रामतोऽप्येभ्यो निर्यामीति। अयमनयोर्विपर्यासयोर्विशेष इति। अपरे पुनराहुः न केवलं रागद्वेषाभ्यामेव विपर्यस्तमतिरूत्पत्तिदेशं गच्छति किं तर्हि अन्यथापि। कथमिति वातो वाति देवो वपतीत्यादि। तथा आरामं प्रतिशाम्युद्यानं चेत्यादि। सम्प्रजांनस्तु सम्यक् चित्तेन प्रजानाति मातुज़् कुक्ष्ःइ प्रविशामीत्येवमादि। यदि सम्यक् प्रजानाति कथं क्लिष्टेनैव प्रतिसन्धिवन्धो व्यवस्थाप्यते। मातृस्नेहारियोगात् क्लिष्ट चित्तं भवति। अपर आह मातुः कुक्षिं प्रतिशत एवं विपरीतौ संज्ञाधिमोक्षाविति। उपपन्नमात्रावस्थायागेतद् भवति वातो वाति यावदृक्षमूलं चोपसर्पामि कुड्यमूलं चेति। तिष्ठतोऽप्येषु तिष्ठामीति। निष्क्रामतोप्ऽप्येभ्यो निर्यामीत्येवमादि। तत्र ग्रथमेति विस्तरः। प्रथमा चक्रवर्तिनः। येयं

सम्प्राजनन् विशत्येकः

इति द्वितीया प्रत्येकबुद्धस्य। येयं

तिष्ठत्यपरः

इति। तृतीया बुद्धस्य। येयम्

अपरो निष्क्रामत्यपि

इति अत्रापि भाविन्येति ते न चक्रवर्त्यादयस्तदानीमिति कृत्वा। त एवं त्वेते चक्रवर्त्यादय इति। पर्यायमात्रमेतदुक्तम्। अर्थस्तु स एवेत्यभिप्रायः।। १६-१७।।

[ नात्मास्ति स्कन्धमात्रा तु कर्मक्लेशाभिसंस्कृतम्।
अन्तराभवसन्तत्या कुक्षिमेति प्रदीपवत्।। १८।। ]
[ यथाक्षेपं क्रमाद् वृद्धः सन्तानः क्लेशकर्मभिः।
परलोकं पुनर्यातीत्यनादिभवचक्रकम्।। १९।। ]

सङ्केतो हेतुफ़लसम्बन्धव्यवस्था

क्लेशकर्माभिसंस्कृतम्

इति क्लेशकर्मपरिभावितमित्यर्थः।

प्रदीपवत्

इति। सन्ततिन्यायसञ्चारि स्कन्धपञ्चकं क्षणिकत्वात् प्रदीपवदिति दर्शयति।

यथाक्षेपम्

इति आक्षेपस्तावत् कालप्रवन्धः। एतच्च विशेषणमायुष्यस्यायुःसंवतणीयस्य कर्मणो भेदात्। व्यञ्जनान्यनुपूर्वश इति। व्यञ्जनानि चक्षुराद्यधिष्ठानानि तैर्हि चक्षुरादीन्यभिव्यज्यन्ते। तस्मिन् वर्चःकूप इवेति। तस्मिन् कायनाडीव्रणे निन्दावचनमेतत्। नाडी व्रण इव नाडीव्रण इति। उग्रो दुर्गन्धः उग्रदुर्गन्धः। अन्धकारश्चासावालोकरहितत्वात्। समलानां च पल्वलोऽसौ पल्वल इवेति कृत्वा तस्मिन् सततप्रतिक्रिये नित्यकर्तव्यशैचे। शुक्रेण पौस्नेन। शोणितेन स्त्रैणेन लसीकया द्रवविशेषलक्षणया मलेन च संक्लिन्ने समन्तात् क्लिन्ने विक्लिन्ने विशेषेण क्लिन्ने कथिते पूतौ पिच्छिले च तस्मिन् हस्तौ संप्रवेश्यांङ्गमङ्ग हस्तपादादिकं निकृत्य च्छित्वा अध्याहरन्ति अध्याकर्षयन्ति। तरूणं व्रणं सरूजं तरूणव्रणमिवात्मानमाचरंस्तरूणव्रणायमानम् तरूणव्रणायमान आत्माऽस्येति तरूणव्रणायमानात्मानं बालकम् शस्त्रं च क्षारञ्च शस्त्रक्षारम् तदिवात्मानमाचरन् शस्त्रक्षारायमारणः शस्त्रक्षारायमाणः संस्पर्शोऽयोरिति शस्त्रक्षारायमानसंस्पशौ पाणी ताभ्यां परिगृह्य स्नापयन्ति तस्य वृद्धेरन्वयादनुगमात्

तस्याहेतुकत्वमिति आदेरहेतुकत्वम्। सति चास्याहेतुकत्वे। तद्वदेव सर्वमहेतुकं प्रादुःस्यात्। दृष्ट चाङ्कुरादिपु बीजादीनां आमर्थ्यम्। अङ्कुरनालकाण्डपत्रादिष्ःउ वीजाङ्करनालकाण्डादीनां सामर्थ्यमुत्पादनाय्। कस्मात् देशकालप्रतिनियमात् देशकालयोस्तु प्रतिनियमात्। तत्र देशप्रतिनियमो बीजादिसम्बद्ध एव देश उत्पत्तेः कालप्रतिनियमो बीजानन्तरमुत्पत्तेः। अग्न्यादीनां वाग्निशीतोष्णाभिघातचक्षुरादीनां पाकाजादिषु पाकजसुखदुःखशब्दचक्षुर्विज्ञानादिषु दृष्टं सामर्थ्यं देशकालप्रतिनियमात्। यदि हि निर्हेतुकः प्रादुर्भावः स्यात्। वीजादीनामङ्करादिषु अग्न्यादीनाञ्च पाकजादिषु देशकालप्रतिनियमेनोत्पत्तिप्रति सामर्थ्य न स्यात् सर्व सर्वत्र सर्वदोत्पद्येत। न चैवं दृष्टमित्यतो नास्ति निर्हेतुकः प्रादुर्भावः। नित्यकरणास्तित्वादः प्रागेव पस्र्युदस्तः

नेश्वरादेः क्रमादिभिः

इतिवचनात्।। १८-१९।।

[ स प्रतीत्यसमुत्पादो द्वादशाङ्गस्त्रिकाण्डकः।
पूर्वापरान्तयोर्द्वे द्वे मध्येऽष्टौ परिपूरिणः।। २०।।

शेषान्यष्टौ मध्य इति विज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णोपादानभवाङ्गानि। नापि रूपारूप्यावचर इति रूपावचरस्य विज्ञानाङ्गकालं एव नामरूपपडायतनाङ्गयोः सद्भावत। न मध्येऽष्टावङ्गानि आरूप्यावचरस्य च नामरूपषडायतनाङ्गयोरभावात्। महानिदानपर्यायसूत्रे विज्ञानं चेदानन्द मातुः कुक्षि नवाक्रामेदपि तु तन्नामरूपं कललत्वायाभिसंमूर्च्छेत् नो भदन्तेत्यादि तत् सूत्रं पठ्यते। मातुः कुक्ष्यवक्रमणं हि कामधातावेवेति। सफ़लहेतुकयोः

पूर्वापरान्तयो ः

ग्रहणादिति यथाक्रामेतत्। पूर्वान्तस्य सफ़लस्य ग्रहणादपरान्तस्य च सहेतुकस्य ग्रहणादिति। तत्र पूर्वान्ते हेतुरविद्या संस्काराश्च तस्य फ़लं पञ्चाङ्गानि। विज्ञानं यावद्वेदनेति। अपरान्ते जातिर्जरामरणं चेति फ़लम्। तस्य त्रीण्यङ्गानि हेतवस्तृष्णोपादानभवाः। तदेवं सप्ताङ्गानि पौर्वान्तिकः पञ्चाङ्गान्यपरान्तिक इति व्याख्यातं भवति।। २०।।

पूर्वक्लेशदशाविद्या संस्काराः पूर्वकर्मणः।
सन्धिस्कन्धास्तु विज्ञानं नामरूपमतः परम्।। २१।। ]

अथ क इमेऽविद्यादय इति। किमविद्यैव केवला उताहो सर्वे क्लेशाः आहोस्वित् क्लेशवस्थेति सन्देहे पृच्छति। साहचर्यादिति यस्मादविद्यासहचारिणः क्लेशाः। तद्वशेन तेषां समुदाचराञ्च। यस्माच्चाविद्यावशेन तेषां क्लेशानां समुदाचारः स पुनस्तदनुवॄत्तिः। मूदस्य हि क्लेशसमुदचारो नामूदस्य। राजगमनवचन इति विस्तरः। यथा राजा गच्छतीत्युक्ते तदनुयातृकाणां भॄत्यानामागमनसिद्धिः साहचर्यात् तद्वशेन तेषां समुदाचारात् तद्वदेतत्। तदेवमविद्यावशादविद्याङ्गः क्लेशदशेत्यर्थः। तस्मादुक्त

पूर्वक्लेशदशाविद्या

इति न तूक्त पूर्वाविद्यादशविद्येति पूण्यादिकर्मावस्थेति पुण्यापुण्यकर्मावस्थेत्यर्थः।।२१।।

[ प्राक् षडायतनोत्पादात्तत् पूर्व त्रिक्रसङ्गमात्।
स्पर्शः प्राक् सुखदुःखादिकारणज्ञानशक्तितः।। २२।। ]

प्राक् चतुरायतनोत्पादादिति वक्तव्य इति। मनःकायायतनयोरूपपत्तिभव एवोत्पादात्। तदा तद्यवस्थापनादिति चक्ष्ःउराद्यायतनोत्पत्तिकाले कायमन आयतनयोर्व्यवस्थापनादित्यर्थः।

तत्पूव त्रिकसङ्गमात्

इति। तत् षडायतनाङ्ग प्राक् त्रिकसङ्गमात् प्रागिन्द्रियविषयविज्ञानत्रिकसन्निपातादित्यर्थः।

स्पर्शः प्राक्

इति। षडीन्द्रियविषयविज्ञानसन्निपातः स्पर्शो जातावस्थायां व्यवस्थापयते परिपूर्णषडायतनसन्निपातसद्भावात्। आ कुतः। प्राक् सुखदुःखादुःखासुखवेदनाकारणेषु

ज्ञानशक्तितः।

स बालो यावत् सुखाया वेदनाया एतत् कारणं दुःखाया एतत् कारणम् अदुःखस्वासुखायश्चैतत् कारणमिति परिच्छेदे न शक्तो भवति सावस्था स्पर्शे इत्युच्यते। तथा हि बालकोऽग्निमपि स्ऱ्ओशेददुःखस्यैतत् कारणमित्यपरिछिन्दन्।। २२।।

[ वित्तिः प्राङ्मैथुनात्तृष्ण भोगमैथुनरागिणः।
उपदानं तु भोगानां प्राप्तये परिधावतः।। २३।। ]

परिच्छेदे सामर्थ्ये सति

वित्तिः

वेदनेत्यर्थः। आ कुतः

प्राङ्मेथुनात्

यावन्मैथुनरागो न समुदाचरति। सावस्था वेदेनेत्युच्यते। वेदनाप्रकर्षिणी हि सावस्था वेदना कारणवेदनात्।

तृष्णा भोगमथुनरागिणः

इति। भोगेषु रूपादिकामगुणलक्षणेषु मैथुने च लोकप्रतीते रागिणः पुद्गलस्य तद्रागसमुदाचारावस्था तृष्णेत्युच्यते। पर्येष्टिमापन्न इति। एष इत्येतस्य घातोरेतद्रूपम। उपादीयते विषय आत्मभावोऽनेनेत्युपादानम् चतुर्विधः क्लेश सावस्थोपादानमित्युच्यते।। २३।।

[ स भविष्यद्भवफ़लं कुरूते कर्म तद्भवह्।
प्रतिसन्धिः पुनर्जातिर्जरामरणमा विदः।। २४।।

स भविष्यदभवफ़लम्

इति। स परिधावतो निर्देशः। भविष्यद्भवः फ़लमस्येति भविष्यद्भवफ़लं

कर्म

पानर्भविकमित्यर्थः।

तद्भवः

इति। भवत्येनेति भवः कर्मपर्यायः।

जरमरणमा विदः

इति। आ विद आ वेदनङ्गात्। जरामरणं नामरूपादिचतुरङ्गस्वभावम्। विनेयजनोद्वेजनार्थ भगवता जरामरणशब्देन चत्वार्यङ्गान्युक्तानि यो भिक्षवो रूपरयोत्पादः स जरामरणस्योत्पादः। एवं यावद् विज्ञानस्येति।। २४।।

क्षणिकः क्षणे भवः। क्षणोऽस्यास्तीति वा क्षणिकः। प्रकर्षेण दीव्यति चरति वा प्राकर्षिकः। प्रबन्धयुक्त इत्यर्थः। एवं साम्बन्धिकः हेतुफ़लसम्बन्धयुक्त इत्यर्थः। एवम् आवस्थिकः द्वादशपञ्चस्कन्धिका अवस्था इत्यर्थः। विज्ञानसहभुव इति विस्तरः। रूपमत्र सहभूर्विज्ञप्तयविज्ञप्तयादि। संज्ञादिस्कन्धत्रयं नाम। नामरूपव्य्वस्थितानीन्द्रियाणि तत्प्रतिबद्धवृत्तिव्यादिन्द्रियाणाम्। आश्रयत्वेन वा तानि नाम्नि व्यवस्थितानीति। षडायतनाभिनिपातः स्पर्श इति। चक्षुरादीनां स्वस्मिन् विषये प्रवृत्तिरभिनिपातः। स तु सम्भवतः। यस्य तदानीमभिनिपातः सम्भवति स तस्य स्पर्श इति वेदितव्यः। यस्य तदानीमभिनिपातः सम्भवति स तस्य स्पर्श इति वेदितव्यः। तत्सम्प्रयुक्तानि पर्यवस्थानान्युपादानम्। तया तृष्णया सम्प्रयुक्तान्यह्रीक्यानपत्राप्यादीनि पर्यवस्थाननै। तदुपादानं तत्समुत्थमिति तृष्णासमुत्थं चेतनासमुत्थमित्यपरे। उन्मज्जनमुत्पादः परिपाको जरेति। फ़लाक्षेपसामर्थ्योपघातः। पूर्वक्षणापेक्षया वा। भङ्गो मरणमिति। तत्क्षणविनाशः। भङ्गाभिमुख्यं भङ्ग इत्यपरे। क्षणिकः सम्बन्धिकश्च यथाप्रकरणेष्विति। कथम् प्रकरणेषु प्रतीत्यसमुत्पादः कतभः। सर्वे संस्कृता धर्मा इति। तत्र संस्कॄतानां धर्माणां प्रतिक्षणं विनाशयोगात् क्षणिकः प्रतीत्यसमुत् पादः द्वादशपञ्चस्कन्धिका अवस्था अतीतानागतप्रत्युत्पन्नजन्मसम्बद्धाः आवस्थिकः प्रतीत्यसमुत्पादः निरन्तरग्रहणं त्रिकाण्डप्रसिद्धयर्थम् स एव प्राक्र्षिक इति। स एवावस्थिकः प्रकर्षयोगात् प्राकर्षिकः अनेकक्षणिकत्वादनेकजन्मिकत्वाद्वा। चक्रवर्तिसंवर्तनीयानि कर्माणि विपाकाभिनिवॄत्तौ कदाचिदेव वृत्ति लभन्ते। बहुप्रत्ययापेक्षित्वात्। सम्भवैषित्वादुपपत्त्यभिलाषित्वात्। कर्माण्येव प्रत्ययानां सामग्रीमावहन्तीति। कर्माधिपत्येनाश्वादीनां प्रसिद्धं कालमतिक्रम्य कालान्तरेऽपि मैथुनं भवतीति। एककर्माक्षेपादिति। येनैव कर्मणा गवादिनिकायसभाग आक्षिप्यते तेनैव कर्मणा तदन्तराभव आक्षिप्यत इत्यतो वक्तव्य मेतत्। यदुक्तं येनान्यत्र काले गोषूपपत्तव्यं स गवयेषूपपद्यत इति विस्तरेण। न निकायभेदादेकाक्षेपकत्वं हीयते तत्कर्मणा एकजातीयत्वात् इति विस्तरेण। न निकायभेदादेकाक्षेपकत्वं हीयते तत्कर्मणा एकजातीयत्वात् गत्याकृतिसंस्थानान्तरापरित्यागाच्च। गतिनियतानां हि कर्मणामुपपत्तिवैचित्र्यं दृष्टम्। कल्माषपाददिवदिति। नास्त्येष दोष इत्याचार्यसङ्घभद्रः।। १४। ।

[ विपर्यस्तमतिर्याति गतिदेशं रिसंसया।
गन्धस्थानाभिकामोऽन्य ऊर्ध्वपादस्तु नारकः।। १५।। ]

विपर्यस्तमतिः

इति अनुनयसहगतेन वा प्रतिघसहगतेन वा चित्तेन यथा विपर्यस्तमतिर्भवति तद् दर्शयन्नाह। तत्रास्य पित्रोरिति विस्तरः। मातापित्रोस्तां विप्रतिपत्तिं द्वीन्द्रियसमापत्तिलक्षणाम्। पुंसः सतः पुरूषस्यान्तराभवस्य पुंसोऽयं पौस्नो राग उत्पद्यते मातरि भार्यायामिव। स्त्रिया अयं स्त्रैणो राग उत्पद्यते पितरि भर्तरीव। विपर्ययात् प्रतिघ इति पुंसः सतः पौस्नः प्रतिघ ईर्ष्योत्थानभूत उत्पद्यते पितरि प्रतिसपत्नपुरूष इव स्त्रियाः सत्याः स्त्रैणः प्रतिघ उत्पद्यते मातरि प्रतिसपत्नयामिव। स ताभ्यामेव विपर्यस्ताभ्यां चित्ताभ्यां विपर्यस्तो रन्तुकामतया मैथुनकर्मकामतया त देशमिन्द्रियद्वयस्थानमाश्र्लिष्य तामवस्थायां विप्रतिपत्त्यवस्थामात्मन्यधिमुचय्ते मयैतत् कर्म कियत इति। तस्मिंश्चाशुचौ शुकशोणिते गर्भस्थानसम्प्राप्ते आमशयपक्काशयान्तर स्थानसम्प्राप्ते अभिनिविशते प्रतितिष्ठतीत्यर्थः। पृष्ठाभिमुख उत्कुटुक इति। मैतुनाक्रियात्माभिमानक्रियायोगात्। आप्यायमानो वर्धमानः। एतान्येवेति शुक्रशोणितमहाभूतानि भूतान्तराण्येवेति शुक्रशोणितव्यतिरिक्तानि बीजाङ्कुरनिरोधोत्पादन्यायेनैकस्मिन्नेव क्षणे बीजं निरूध्यतेऽङ्कुरश्चोत्पद्यते। तुला दण्डनामोन्नामवन्नाशोत्पादयोः समकालत्वात्। यत्तत् कललमित्याख्यायत इति। कललं प्रथमं भवति कललाज्जायतेऽर्वुदमित्यादिवचनात्। एवं च कृत्वा सुत्रपदमिति। वल्मीक इति भिक्षो अस्य कायस्यैतदधिवचनम्। रूपिण औदारिकस्य चातुर्महाभूतस्य औदनकुल्माषोपचितस्य मातापित्रशुचिकललसम्भूतस्येति विस्तरः। मातापुत्रशुच्येव कललं ततः सम्भूतस्येत्यर्थः। कटसिरिति श्मशानम्। रूधिरबिन्दुरूपात्त इतीदमुदाहरनम्। अस्य कायेन्द्रियभावापत्तितः। भूतान्तराण्येव शुक्रशोणितव्यतिरिक्तानि तद् यथा पर्णक्रिय्म रिति। यथा पर्णक्रिमेः पर्णमहाभूतान्युपनिश्रित्य भूतान्तराणि कर्मभिर्जायन्ते यानीन्द्रियस्वभावमापद्यन्ते न पर्णमहाभूतानि बहुत्वात्तत्क्रिमीणाम् खण्डशः पत्रस्यादर्शनाच्च। सूत्रपदं कथं तर्हि नीयते मातापत्राशुचिकललसम्भूतस्येति अत आह। अशुचिसंनिश्रयोत्पत्त्यभिसन्धिवचनात्तकललस्य सूत्राविरोध इति। अशुचिसंनिश्रयेणोत्पत्तिर्भूतान्तराणाम् तत्राभिसन्धिरभिप्रायः तेन वचनं कललस्य तस्मान्मातापित्रशुचिकललसम्भूतस्येत्यस्य सूत्रस्याविरोधः। एतदुक्त भवति शुक्रशोणितसंनिश्रयेन कललाख्यानि भूतान्तराणि शुक्रशोणितसमकालान्युत्पद्यन्ते सेन्द्रियाणि। यथा पर्णसंनिश्रयेण पर्णसमानकालानि सेन्द्रियाणि क्रिमिमहाभूतान्युत्पद्यन्त इति।

अन्यत्र तु यथायोगं वक्तव्यमित्याहुरिति। अन्यत्र संस्वेदजौपपादुकयोर्योन्योर्यथायोगं व्याख्येयमित्याहुरभिधर्माचार्याः। तत्र चायं योगो दृश्येत इत्याचार्यो व्रवीति। शत्यञ्च नरकेष्विति शीतनरकोपपत्तिकाले। यदवस्थ इति औरभ्रिकाद्यवस्थः। यथाभूतेन तद्वेद्यं कृतं प्राककर्म तादृशान् सत्त्वान् स्वप्न इव प्रेक्ष्य नरके स धावति। पूर्वाचार्याः योगाचारा आर्यासङ्गप्रभृतयः।

आसनादिवोत्तिष्ठन्निति। ऊर्ध्वोपपत्तिस्थानगमनात्। मनुष्यादिवदिति। यथा मनुष्यस्तिर्यक् प्रेतश्च गच्छति। तद्वत् । ऋषीनामतिवक्तार इति अधिक्षेप्तारोऽपवदितार इत्यर्थः।। १५।।

[ सम्प्रजानन् विशत्येकस्तिष्ठत्यप्यपरोऽपरः।
निष्क्रामत्यपि सर्वाणि मूदोऽन्यो नित्यमण्दजः।। १६।।
गर्भावक्रान्तयस्तिस्रश्चक्रवर्तिस्वयंभुवौ।
कर्मज्ञानोभयेषां वा विशदत्वाद्यथाक्रमम्।। १७।। ]

नित्यमण्डजः

इति नित्यग्रहणात्

सर्वाणि मूदः

इत्यत्र नास्ति नियमः। भवति तु सम्प्रजानन्नपि प्रतिलोमं निर्दिष्टा इति। सूत्रे हि यः सर्वाण्यसम्प्रजानन् करोति एषा प्रथमा गर्भावक्रान्तिरूक्ता तिस्रस्तु यथानिर्दिष्टानुपूर्विका एवेति। योऽपि जनिष्यते सोऽप्य्तण्डज इति। अण्डाज्जनिष्यते अण्डज इत्यभिप्रायः। आवश्यको ह्यभूतार्थे भूतवदुच्यते तथा वर्तमानसामीप्ये वर्तमानवद्वा आशंसायां भूतवच्चेति। कश्चित् कस्मैचिद्वक्ता भवेत् आगच्छन्तमेव तथा आगतमेव मां विद्धीति। तस्माददोष एषः। अण्डाज्जातो जनिष्यते जायते चेत्यण्डजः। अन्येभ्योऽपि दृश्यत इति वचनात्। तस्माददुष्टमेतदित्याचार्यसङ्घभद्रः। अथवा भाविन्यापि संज्ञयेति भविष्यन्त्यापि संज्ञया निर्देशः क्रियते। तद्यथा संस्कृतमभिसंस्करोतीति। जनितावस्थायां संस्कृतं भवति न जन्यमानावस्थायाम्। न हि संस्कृतस्य पुनः संस्कारो युज्यते। भविष्यन्त्या तु संज्ञया तथा निर्देशः क्रियते। एवमोदनं पचतीत्यादि योज्यम् कथं कथं पुनरसम्प्रजानत् मातु कुक्षिं प्रविशतीति विस्तरः। सन्निकृष्टावस्था उपपत्तिदेशस्य।

विपर्यस्तमतिर्याति

इति विप्रकृष्टावस्था अभिमोक्षोऽधिमुक्तिः। तथा तिष्ठामि निर्यामीति। कथं तथा तिष्ठतोऽप्येषु तिष्ठामीति निष्क्रामतोऽप्येभ्यो निर्यामीति। अयमनयोर्विपर्यासयोर्विशेष इति। अपरे पुनराहुः न केवलं रागद्वेषाभ्यामेव विपर्यस्तमतिरूत्पत्तिदेशं गच्छति किं तर्हि अन्यथाप। कथमिति वातो वाति देवो वर्षतीत्यादि। तथा आरामं प्रविशाम्युद्यानं चेत्यादि। सम्प्रजानंस्तु सम्यक् चित्तेन प्रजानाति मातुः कुक्षि प्रविशमीत्येवमादि। यदि सम्यक् प्रजानाति कथं क्लिष्टेनैव प्रतिसन्धिबन्दो व्यवस्थाप्यते। मातृस्नेहादियोगात् क्लिष्ट चित्तं भवति। अपर आह मातुः कुक्षिं प्रविशत एवं विपरीतौ संज्ञाधिमोक्षाविति। उपपन्नमात्रावस्थायामेतद् भवति वातो वाति यावद्धृक्षमूलं चोपसर्पामि कुड्यमूलं चेति। तिष्ठतोऽप्येषु तिष्ठामीति। निष्क्रामतोऽप्येभ्यो निर्यामीत्येवमादि। तत्र प्रथमेति विस्तरः। प्रथमा चक्रवर्तिनः। येयं

सम्प्रजानन् विशत्येकः

इति द्वितीया प्रत्येकबुद्धस्य। येयं

तिष्ठत्यपरः

इति। तृतीया बुद्धस्य। येयम्

अपरः।

निष्क्रामत्यपि

इति अत्रापि भाविन्येति ते न चक्रवर्त्यादयस्तदानीमिति कृत्वा। त एवं त्वेते चक्रवर्त्यादय इति। पर्यायमात्रमेतदुक्तम्। अर्थस्तु स एवेत्यभिप्रायः।। १६-१७।।

[ नात्मास्ति स्कन्धमात्रं तु कर्मक्लेशाभिसंस्कृतम्।
अन्तराभवसन्तत्या कुक्षिमेति प्रदीपवत्।। १८।। ]
[यथाक्षेपं क्रमाद वृद्धः सन्ताः क्लेशकर्मभिः।
परलोकं पुनर्यातीत्यनादिभवचक्रकम्।। १९।। ]

सङ्केतो हेतुफ़लसम्बन्दव्यास्था।

क्लेशकर्माभिसंस्कृतम्

इति क्लेशकर्मपरिभावितमित्यर्थः।

प्रदीपवत्

इति। सन्ततिन्यायसञ्चारि स्कन्धपञ्चकम् क्षणिकत्वात् प्रदीपवदिति दर्शयति।

यथाक्षेपम्

इति आक्षेपस्तावत् कालप्रबन्धः। एतच्च विशेषमायुष्स्यायुःसंवर्तणियस्य कर्मणो भेदात्। व्यञ्जनान्यनुपूर्वश इति। व्यञ्जनानि चक्षुराद्यधिष्ठानानि तैर्हि चक्षुरादीन्यभिव्यज्यन्ते। यस्मिन् वर्चःकूप इवेति। तस्मिन् कायनाडिव्रणे निद्नावचनमेतत्। नाडी व्रण इव नाडीव्रण इति। उग्रो दुर्गन्धः उग्रदुर्गन्धः। अन्धकारश्चासावालोकरहितत्वात्। समलानां च पल्वलोऽसौ पल्वल इवेति कृत्वा तस्मिन् सतत्प्रतिक्रिये नित्यकर्तव्यशैचे। शुक्रेण पौस्नेन। शोणितेन स्त्रैरगेण लसीकया द्रवविशेषलक्ष्णया मलेन च संकिन्ने समन्तात् क्लिन्नेविक्लिन्ने विशेषेण क्लिन्ने कथिते पूतौ पिच्छिले च तस्मिन् हस्तौ संप्रवेश्याङ्गमङ्ग हस्तपादादिकं निकृत्य छित्त्वा अध्याहरन्ति अध्याकर्षयन्ति। तरूणं व्रणं  सरूजम् तरूनव्रणमिवात्मानमाचरंस्तरूणव्रणायमानः तरूणव्रणायमान आत्माऽस्येति तरूणव्रणायमानात्मानं बालकम् शस्त्र च क्षारञ्ह शास्त्रक्षारम् तदिवात्मानमाचरन् शास्त्रक्षारायमाणः शस्त्रक्षारायमाणः संस्पर्शोऽनयोरिति शस्त्रक्षारयमाणसंस्पर्शो पाणी ताभ्यां परिगृह्य स्नापयन्ति तस्य वृद्धेरन्वयादनुगमात्।

तस्याहेतुकत्वमिति आदेरहेतुकत्वम्। सति चास्याहेतुकत्वे। तद्वदेव सर्वमहेतुकं प्रादुःस्यात्। दृष्ट चाङ्कुरादिषु बीजादीनां सामर्थ्यम्। अङ्कुरनालकाण्डपत्रादिषु बीजाङ्कुरनालकाण्डादीनां सामर्थ्यमुत्पादनाय। कस्मात् देशकालप्रतिनियमात् देशकालयोस्तु प्रतिनियमात्। तत्र देशप्रतिनियमो बीजादिसम्बद्ध एव देश उत्पत्तेः कालप्रतिनियमो बीजानन्तरमुत्पत्तेः। आग्यादीनां वाग्निशीतोष्नाभिघातचक्षुरादीनां पाकाजादिषु पाकजसुखदुःखशब्दचक्षुर्विज्ञानादिषु दृष्ट सामर्थ्य देशकालप्रतिनियमात्। यदि हि निर्हेतुकः प्रादुर्भावः स्यात्। बीजादीनामङ्करादिषु अग्न्यादीनाञ्च पाकजादिषु देशकालप्रतिनियमेनोत्पत्ति प्रति सामर्थ्य न स्यात् सर्व स्र्वत्र सर्वदोत्पद्येत। न चैवं दृष्टमित्यतो नास्ति निर्हतुकः प्रादुर्भावः। नित्यकारणास्तित्ववादः प्रागेव पर्युदस्तः

नेश्वरादेः क्रमादिभिः

इति वचनात्।। १८- १९।।

[ स प्रतीत्यसमुत्पादो द्वादशाङ्गस्त्रिकाण्डकः।
पूर्वापरान्तयोर्द्वे द्वे मध्येऽष्टौ परिपूरिणः।। २०।। ]

शेषाण्यष्ठौ मध्य इति विज्ञाननमारूपषडायतनस्पर्शवेदनातृष्णोपादानभवाङ्गानि। नापि रूपारूप्यावचर इति रूपावचरस्य विज्ञानाङ्गकाल एव नामरूपषडायतनाङ्गयोः सद्भावात्। न मध्येऽष्टावङ्गानि आरूप्यावचरस्य च नामरूपषडायतनाङ्गयोरभावात्। महानिदानपर्यायसूत्र विज्ञानं चेदानन्द मातुः कुक्षि नावक्रामेदपि तु तन्नामारूपकललत्वायाभिसंमूर्च्छत् नो भदन्तेत्यादि तत् सूत्र पठ्यते मातुः कुक्ष्यवक्रमणं हि कामधातावेवेति। सफ़लहेतुकयोः

 पूर्वपरान्तयोः

ग्रहणादिति यथाक्रममेतत्। पूर्वान्तस्य सफ़लस्य ग्रहणादपरान्तस्य च सहेतुकस्य ग्रहणादिति। तत्र पूर्वान्ते हेतुरविद्या संस्काराश्च तस्य फ़लं पञ्चाङ्गानि। विज्ञानं यावद्वेदनेति। अपरान्ते जातिर्जरमरणं चेति फ़लम्। तस्य त्रीण्यङ्गानि हेतवस्तृष्णोपादानभवाः। तदेवं सप्ताङ्गानि पौर्वान्तिकः पञ्चाङ्गान्यपरान्तिक इति व्याख्यातं भवति।। २०।।

[ पूर्वक्लेशदशविद्या संस्काराः पूर्वकर्मणः।
सन्धिस्कन्धास्तु विज्ञानं नामरूपमतः परम्।। २१।। ]

अथ क इमेऽविद्यादय इति। किमविद्यैव केवला उताहो सर्वे क्लेशाः आहोस्वित् क्लेशावस्थेति सन्देहे पृच्छेति। साहचर्यादिति यस्मादविद्यासहचारिणः क्लेशाः। तद्वशेन तेषां समुदाचाराच्च। यस्माच्चाविद्यावशेन तेषां क्लेशानां समुदाचारः स पुनस्तदनुवृत्तिः। मूदस्य हि क्लेशसमुदाचारो नामूदस्य। राजगमनवचन इति विस्तरः। यथा राजागच्छतीत्युक्ते तदनुयातृकाणां भृत्यानामगमनसिद्धिः साहचर्यात् तद्वशेन तेषां समुदाचारात् तद्वदेतत् तदेवमविद्यावशादविद्याङ्गः क्लेशदशेत्यर्थः। तस्मादुक्त

पूर्वक्लेशदशाविद्या

इति न तूक्त पूर्वाविद्यादशाविद्येति पुण्यादिकर्मावस्थेति पुण्यापुण्यकर्मावस्थेत्यर्थः।। २१।।

[ प्राक् षडायतनोत्पादात्तत् पूर्वं त्रिकसङ्गमात्।
स्पर्शः प्राक् सुखदूह्खादिकारणज्ञानशक्तितः।। २२।। ]

प्राक् चतुरायतनोत्पादादिति वक्तव्य इति। मनः कायायतनयोरूपपत्तिभव एवोत्पादात्। तदा तद्वयवस्थापनादिति चक्षुराद्यायतनोत्पत्तिकाले कायमन आयतनयोर्व्यवस्थापनादित्यर्थः।

तत्पूर्व त्रिकसङ्गमात

इति। तत् षडायतनाङ्ग प्राक् त्रिकसङ्गमात् प्रागिन्द्रियविषयविज्ञानत्रिकसन्निपातादित्यर्थः।

स्पर्शाः प्राक्

इति। षडिन्द्रियविषयविज्ञानसन्निपातः स्पर्शो जातावस्थायां व्यवस्थाप्यते परिपूर्णषडायतनसन्निपातसद्भावात् । आ कुतः। प्राक् सुखदुःखादुःखासुखवेदनाकारणेषु

ज्ञानशक्तितः।

स बालो यावत् सुखाया वेदनाया एतत् कारणं दुःखाया एतत् कारणम् अदुःखासुखायाश्चैतत् कारणमिति परिच्छेदे न शक्तो भवति सावस्था स्पर्श इत्युच्यते। तथा हि बालकोऽग्निमपि स्पृशेद् दुःखस्यैतत् कारणमित्यपरिच्छिन्दन्।। २२।।

[ वित्तिः प्राङ्मैथुनात्तृष्ण भोगमैथुनरागिणः।
उपादानं तु भोगानां प्राप्तये परिधावतः।। २३।। ]

परिच्छेदे सामर्थ्ये सति

वित्तिः

वेदनेत्यर्थः। आ कुतः

प्राङ्मैथुनात्

यावन्मैथुनरागो न समुदाचरति। सागस्था वेदेनेत्युच्यते। वेदनाप्रकर्षिणी हि सावस्था वेदना कारणवेदनात्।

तृष्णा भोगमेथुनरागिणः

इति। भोगेषु रूपादिकामगुणलक्षणेषु मैथुने च लोकप्रतीते रागिणः पुद्गलस्य तद्रागसमुदाचारावस्था तृष्नत्युच्यते। पयष्टिमापन्न इति। एष इत्येतस्य धातोरेतद्रूपम्। उपादीयते विषय आत्मभावोऽनेनेत्युपादानम् चतुर्विधः क्लेशः सावस्थोपादानमित्युच्यते।। २३।।

[ स भविष्यद्भवफ़लं कुरूते कर्म तद्भवः।
प्रतिसन्धिः पुनर्जातिर्जरामरणमा विदः।। २४।। ]

स भविष्यद्भवफ़लम्

इति। स परिधावतो निर्देशः। भविष्यद्भवः फ़लमस्येति भविष्यद्भवफ़लं

कर्म

पौनर्भविकमित्यर्थः।

तद्भवः

इति। भवत्यनेनेति भवः कर्मपर्यायः।

जरामण्णमा विदः

इति आ विद आ वेदनाङ्गात्। जरामरणं नामरूपादिचतुरङ्गस्वभावम्। विनेयजनोद्वेजनार्थ भगवा जरामरणशब्देन चत्वार्यङ्गान्युक्तानि। यो भिक्षव् रूपस्योत्पादः स जरामरणस्योत्पादः। एवं यावद् विज्ञानस्येति।। २४।।

क्षणिकः क्षणे भवः क्षणोअस्यास्तीति वा क्षणिकः। प्रकर्षेण दीव्यति चरति वा प्राकर्ष्ःइकः प्रबन्धयुक्त इत्यर्थः। एवं सम्बन्धिकः हेतुफ़लसम्बन्धयुक्त इत्यर्थः। एवम् आवस्थिकः द्वादशपञ्चस्कन्धिका अवस्था इत्यर्थः। विज्ञानसहभुव इति विस्तरः। रूपमत्र सहभूर्विज्ञप्त्यविज्ञप्त्यादि। संज्ञादिस्कन्धत्रय नाम। नामरूपव्यवस्थितानीन्द्रियाणि तत्प्रतिबद्धवृत्तत्वा दिन्द्रियाणाम्। आश्रयत्वेन वा तानि नाम्नि व्यवस्थितानीति। षडायतनाभिनिपातः स्पर्श इति। चक्षुरादीनां स्वस्मिन् विषये प्रवृत्तिरभिनिपातः। स तु सम्भवतः। यस्य तदानीमभिनिपातः सम्भवति स तस्य स्पर्श इति वेदितव्यः। तत्सम्प्रयुक्तानि पर्यवस्थानान्युपादानम्। तया तृष्णया सम्प्रयुक्तान्याह्रीक्यानपत्राप्यादीनि पर्यवस्थानानि तदुपादानम्। ततसमुत्थमिति तृष्नासमुत्थम् चेतनासमुत्थमित्यपरे। उन्मज्जनमुत्पादः परिपाको जरेति। फ़लाक्षेपसामर्थ्योपघातः। पूर्वक्षणापेक्षया वा। भङ्गो मरणमिति। तत्क्षणविनाशः। भङ्गाभिमुख्यं भङ्ग इत्यपरे। क्षणिकः सम्बन्धिकश्च यथाप्रकरणेष्विति। कथं प्रकरणेषु प्रतीत्यसमुत्पादः कतमः। सर्व संस्कृता धर्मा इति। तत्र संस्कृतानां धर्माणां प्रतिक्षणं विनाशयोगात् क्षणिकः प्रतीत्यसमुत्पादः हेतुफ़लभूतोभयक्षणसम्बन्धात् साम्बन्धिकः। निरन्तरजन्मय्त्रयसम्बद्धा इति द्वादशपञ्चस्कन्धिका अवस्था अतीतानागतप्रत्युत्पन्नजन्मसमबद्धाः आवस्थिकः प्रतीत्यसमुत्पादः निरन्तरग्रहणं त्रिकाण्डप्रसिद्ध्यर्थम् स एव प्राक्र्षिक इति। स एवावस्थिकः प्रकर्षयोगात् प्राकर्षिकः अनेकक्षणिकत्वादनेजन्मिक त्वाद्वा।

[ आवस्थिकः क्लिष्टोऽयं प्राधान्यात्वङ्गकीर्तनम्।
पूर्वपरान्तमध्येषु सम्मोहविनिवृत्तये।। २५।। ]

अभिप्रायिक इति अभिप्राये भव आभिप्रायिकः। अविनेयाभिप्रायवशत्तथा देशित इत्यर्थः। लाक्षणिकोऽभिधर्मे लक्षणप्रधानत्वात्। प्रकरणेषु हि सर्वसंस्कृतग्रहणात् सत्त्वासत्त्वाख्यः प्रतीत्यसमुत्पाद उक्तः सर्वसंस्कृतहेतुत्वयोगात्। विनेयसम्मोहविनिवृत्तिहेतुः सत्त्वाख्य एव द्वादशाङ्गः प्रतीत्यसमुत्पादो देशितः। अत आह

पूर्वापरान्तमध्येषु सम्मोहविनिवृत्तये

इति अत एव च त्रिकाण्ड इति कण्ड इति भागः को न्वहमभूवमिति देवो मनुष्य इति वा कथं न्वहमभूवमिति केन प्रकारेण कया युक्तेत्यर्थः। किं नु भविष्याम्यनागतेऽध्वनीति विसत्रः। किं नु भविष्याम्यनागतेऽध्वनि आहोस्विन्न भविष्यामि को नु भविष्यामि कथं नु भविष्यामीति केन प्रकारेण कया युक्तयेत्यर्थः। किं स्विदिदमिति आत्मभावद्रव्य मन्वेपते कथं स्विदिदमिति केन प्रकारेण कया युक्तयेति तदेवात्मभावद्रव्यं नावधारयति। के सन्त इति के वयमिदानीं विद्यमानाः के भविष्याम इति एवं नावधारयति। सूत्रे यथाक्रममिति। अविद्या संस्काराश्च पूर्वान्तसम्मोहव्यावर्तनार्थम् जातिर्जरामरणं चापरान्तसम्मोहव्यावर्तनार्थम् विज्ञानं यावद्भवश्च मध्यसम्मोहव्यावर्तनार्थम्ति। तथाहि सूत्र एवोक्तमिति विस्तरः। सूत्रेऽप्येवमेवं दर्शितमिति सूत्रेण स्वव्याख्यानं समर्थयति। स न पूर्वान्तं प्रतिसरति किं न्वहमभूवमतीतेऽध्वनीति विस्तरः। स न पूर्वान्तं प्रतिधावति। किं न्वहमभूवमतीतेऽध्वनीति प्रतीत्यसमुत्पादयथाभूतदर्शनेन नैवमतीतेऽध्वनि संमुह्यत इत्यर्थः। विस्तरशब्देन स नापरान्तं प्रतिसरति किं नु भविष्याम्यनागतेऽध्वनीति विस्तरः। तथा न स मध्यान्तं प्रतिसरति किं स्विदिदमिति विस्तरः।

तृष्णोपादानभवा अपीति। सर्वे तृष्णेपादनाभवा अपरान्तसम्मोहव्यावर्तनार्थं न मध्यसम्मोहव्यावर्तनार्थम्। यथम् पूर्वमुपदिष्टं विज्ञानं यावद्भवश्चेति का पुनरत्र युक्तिरित्याह तस्यैव ह्येत हेतव इति यस्मादपरान्तस्यैवैते हेतव इति।। २५।।

[ क्लेशसत्रीनि द्वयं कर्म सप्त वस्तु फ़लं तथा।
फ़लहेत्वभिसंक्षेपो द्वयोर्मध्यानुमानतः।। २६।। ]

क्लेशकर्माश्रयत्वादिति विज्ञानादीनि सप्ताङ्गानि वस्तून्यधिष्ठानानि क्लेशकर्मणमित्यर्थः।

फ़लं तथा इति सप्तवाङ्गानि विज्ञानामरूपषडायतनस्पर्शवेदनाङ्गान्यविद्यासंस्काराणां फ़लानि। जातिर्जरामरणं च तृष्णोपादानभवानां फ़लानि। पञ्चहेतुभूतानीति। अविद्यासंस्कारतृष्णोपादनभवाः। कर्मक्लेशस्वभावत्वादिति अविद्यातृष्णोपादा नानि क्लेशस्वभावानि संस्कारा भवाश्च कर्मस्वभावाः।

वस्तुनः पञ्चधा भेदादिति। विज्ञाननामरूपषडायतनस्पर्शवेदना इति क्लेशस्य च द्विधेति। तृष्णोपादनमिति। अनागतेऽध्वनि फ़लं संक्षिप्त द्विधा भेदादिति। जातिर्जरामणमिति। अतीतेऽध्वनि हेतुः संक्षिप्त एकमुखक्लेशोपदेशात् अविद्यामुखक्लेशोपदेशादित्यर्थः। न पुनरनागतेऽध्वनि फ़लमेवं पञ्चधा विशालितम् अतीते चाध्वनि नैवं द्विधा हेतुर्विशालित इति।। २६।।

[क्लेशात् क्लेशः क्रिया चैव ततो वस्तु ततः पुनः।
वस्तु क्लेशाश्च जायन्ते भवाङ्गानामयं नयः।। २७।। ]

युस्मादुपदर्शितोऽत्र भगवतेति कः

क्लेशात् क्लेशः

इत्येवमादिकः।

भवाङ्गानमयं नयः

तता वस्तु

इति ततः क्रिययाः

ततः पुनः

वस्तु

इति ततो वस्तुनः वस्तु।

क्लेशाश्च जायन्ते

इति वस्तुन इत्यधिकृतं जायन्त इत्यत्रेतिकरणोऽध्याहार्यः वस्तुनः क्लेशाद्वेति ज्ञापितमिति। हति क्लेशो वस्तुन उत्पद्यमानो दृष्टो वेदनायस्तृष्णेति । क्लेशादपि तथा दृष्टस्तृष्णाया उपादानमिति। अविद्या च पूर्वान्त सर्वक्लेशस्वभावाख्याता। तद् यद्युपादानं तृष्णायास्तुतुदुत्पद्यत इति गम्यते। अथ तृष्णा तद्वस्तुन उतपद्यत इति गम्यते तस्मादविद्या क्लेशस्वभावा सती वस्तुनः क्लेशद्वेति ज्ञापितं भवति। जरामरणं चतुरङ्गस्वभावं वस्त्विति व्याख्यातम् वस्तुनश्चेह क्लेश उत्पद्यमानो दृष्टो वेदनाप्रत्यया तृष्णेति। तस्मात् ततः क्लेशो भावी भविष्यतीति ज्ञापितं भवति नात्र पुनः किञ्चिदुपसंख्येयमेवं ज्ञापितत्वात्। कथं पुनरेवं नयो दर्शित इति गम्यत इत्याह। एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवतीति वचनात्। अन्यथा हि किमस्य सामर्थ्य स्यादिति। यद्ययं यथोक्तो नयो न स्यात्

क्लेशात् क्लेशः क्रिया चैव ततो वस्तु ततः पुनः।

वस्तु क्लेशाश्च जायन्ते

इत्येतावदेव ब्रूयात् अविद्याप्रत्ययाः संस्कारा यावज्जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः सम्भवन्तीति। इदं न ब्रूयात् एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवतीति। समुदय उत्पाद इत्यनर्थान्तरम्। तस्मादयथोक्तप्रकाराभिद्योतकमस्य सामर्थ्यमिति गम्यते। अयोनिशोमनस्कारहेतुकाऽविद्योक्ता सूत्रान्तरे इति सहेतुसप्रत्ययसनिदानसूत्रे। कथमविद्या भिक्षवः सहेतुका सप्रत्यया सनिदाना। कश्च भिक्षवोऽविद्याया हेतुः कः प्रत्ययः किं निदानम्। अविद्याया भिक्षवोऽयोनिशोमनस्कारो हेतुरयोनिशोमनस्कारः प्रत्ययोऽयोनिशोमनस्कारो निदानमिति सूत्रे वचनात्। अविद्याहेतुकश्चायोनिशोमनस्कार इति सूत्रान्तर उक्त इत्यधिकृतम्। चक्षुः प्रतीत्य रूपाणि चोत्पद्यते। आविलो मनस्कारो मोहज इति सूत्रे वचनात्। किमर्थ तस्येहावचनम्। कथं च नाङ्गान्तरं भवतीयत आह। स चेहाप्युपादानान्तर्भूतत्वादुक्तो भवतीति स इत्याविलो मनस्कारः। इहेति प्रतीत्यसमुत्पादसूत्रे कथमुक्त उपादानान्तर्भूतत्वा। तथाह्युपादानं भोगानां प्राप्तये क्लेशसमुदाचारावस्थाः। तत्र चायोनिशोमनस्कारो विपरीतचेतस आभागोऽन्तर्भूत इतुक्तो भवत्यतो नास्त्यहेतुकत्वमविद्यायाः। ना चाङ्गान्तरमुपसंख़्ह्यातव्यं द्वादशम्भोऽविद्यादिभ्यः। न चानवस्थाप्रसङ्गोऽविद्याहेतुकत्वादयोनिशोमनस्कारस्येति। अपर इति। स्थविरो वसुन्ब्धोराचर्यो मनोरथोपाध्याय एव माह। आचार्य आह  कथमिति विस्तरः। कथमयोनिशोमनस्कारस्योपादानेऽन्तर्भाव। न ह्ययोनिशोमनस्कार उपादानस्वभावः यदि संप्रयोगतः। यद्ययोनिशोमनस्कार उपादानेन संप्रयुज्यते इत्यतो भगवतोऽस्योपादानेऽन्तर्भाव इष्यते। तृष्णाविद्ययोरपि प्रतीत्यसमुत्पादाङ्गयोस्तस्यायोनिशोमनस्कारस्यान्तर्भावः प्राप्नोति। तृष्नविद्याभ्यामपि ह्यसौ सम्प्रयुज्यत इति। ततश्चैवं वक्तव्यं स्यात् स चेहाप्यविद्यातृष्णोपादानान्तर्भूतत्वादुक्तो भवतीति। नत्वेवं वक्तव्यम् स चेहाप्युपादानान्तर्भूतत्वादुक्तो भवतीति। नत्वेवं वक्तव्यम् स चेहाप्युपादानान्तर्भूतत्वादुक्तो भवतीति। नैवमुपादानान्तर्भावावधारणं कर्तव्यमित्यभिप्रायः। सत्यपि चान्तर्भाव इति। असम्भवन्तमप्यन्तर्भावमभ्युपेत्य ब्रूमः। कथमयोनिशोमनस्कारो हेतुरविद्याया इति विज्ञापितं भवति। न हि तथा सूत्रे वचनमस्ति। यदि ह्यन्तर्भावेनेति विस्तरः। यदि यस्मादुपादानेऽन्तर्भवत्ययोनिशोमनस्कारः तस्मादयोनिशोमनस्कारो हेतुरविद्याया इति विज्ञापितं भवति। न च तदङ्गान्तरं वक्तव्यम् उपादानवचनादेव तत्सिद्धेः। तृष्णाविद्ये अपि तर्ह्युपादानेऽन्तर्भवतः। अतस्तयोरपि तत्रान्तर्भावादङ्गान्तरत्वं शक्यमकर्तुम् उपादानवचनादेव तत्सिद्धेः। उक्ते च पृथक् तृष्णाविद्याङ्गे तस्मादपरिहार एषः।

अन्यः पुनराहेति भदन्तश्रीलाभः। अयोनिशोमनस्कारो हेतुरविद्याया उक्तः सूत्रान्तर इति। सहेतुसप्रत्ययसनिदानसूत्रे। अविद्यापि भिक्षवः सहेतुका सप्रत्यया सनिदानेति विस्तरेण। स चापीति विस्तरः। स चाप्ययोनिशोमनस्कारः स्पर्शकाले निर्दिष्टः। कथमित्याह चक्षुः प्रतीत्य रूपाणि चोत्पद्यते आविलो मनस्कारो मोहज इति। स्पर्शकालो योऽयं चक्षुर्विज्ञानोत्पत्तिकालः। आविलो मनस्कारः अयोनिशःप्रवृत्तत्वान्मोहजत्वाद्वा। मोहाज्जातो मोहज इति । अविद्यासंस्पर्शजं वेदितमिति। अविद्यासम्प्रयुक्तात् संस्पर्शज्जातमविद्यासंस्पर्शजं वेदितम् यत्र वेदितमविद्यासंस्पर्शजम् अवश्यं तत्राविद्या सम्प्रयुज्यते। न हि व् एदितमसम्प्रयुक्तमविद्यया तृष्णाहेतुर्भवतीति। तदेवं स्पर्शकाले भवन्नयोनिशोमनस्कारो वेदनासहवर्तिन्या अविद्याः प्रत्ययभावेन सिद्ध इति। ज्ञापितमिदं भवत्ययोनिशोमनस्कारहेतुकाऽविद्येति। अतो नास्त्यहेतुकत्वमविद्यायाः। अयोनिशोमनस्कारहेतुकत्वात्। न चाङ्गान्तरमुपसंख्येयं द्वादशभ्योऽन्यत् यस्मात् स्पर्शकाले भवन्नयोनिशोमनस्कारो वेदनासहवर्तिन्या अविद्यायाः प्रत्ययभावेन सिद्ध इति । न चाप्यनवस्थाप्रसङ्गः तस्याप्ययोनिशोमनस्कारस्य पुनर्मोहजवचनात्। आविलो मनस्कारो मोहज इति। तदेतच्चक्रकमुक्त भवति अयोनिशोमनस्कारादविद्या अविद्यायाश्चायोनिशोमनस्कार इति।

एवं पुनः परिहारमाचार्यः सदोपं पश्यंस्तस्य दाषस्याभिव्यक्तयर्थ प्रसङ्गमारभते। तत्तर्हीति विस्तरः। तद्यथोक्तमयोनिशोमनस्कारो हेतुरविद्याया इति विस्तरेण सूत्रतो युक्तया वा तर्हीत्यर्थान्तरविवक्षायाम् इदानीमर्थ इति भगवद्विशेषह्। एतदन्यत्र सूत्र उक्तमिह पुनः प्रतीत्यसमुत्पादसूत्रै वक्तव्यम्। न वक्तव्यमिति भदन्तश्रीलाभः। कया युक्ज्त्येति पृष्टो भदन्तश्रीलाभ आह। न हीति विस्तरः। अर्हतामस्ति वेदना। न च सा तृष्नायाः प्रत्ययीभवतीति साविद्यैव वेदना तृष्नाप्रत्यय इति गम्यते। न चाविपरीतस्पर्शः क्लिष्टाया वेदनायाः प्रत्ययीभवतीति प्रकृतम्। न च पुनर्निरविद्यस्यार्हतो विपरीतः स्पर्श इति। स्पर्शोऽपि साविद्य एवेति गम्यते यो वेदनायाः प्रत्यय उक्तः प्रतीत्यसमुत्पादसूत्रे। अविद्या चास्य स्पर्शस्य हेतुरिति गम्यते। इत्यनया युक्तया प्रतीत्यसमुत्पादसूत्रे। अविद्या चास्य स्पर्शस्य हेतुरिति गम्यते। इत्यनया युक्तया प्रतीत्यसमुत्पादषूत्रे साविद्यस्पर्शप्रत्यया वेदना साविद्यवेदनाप्रत्यय च तृष्णेति गम्यते अतो युक्तया यथोक्तया। स चापि स्पर्शकाले निर्दिष्ट इति विस्तरेणात्र प्रतीत्य समुत्पादे सिद्धं भवत्ययोनिशोमनस्कारो हेतुरविधाया इति। अत्र चोद्यते। यदि तर्हि निरव्द्या वेदना तृष्णायाः प्रत्ययो न भवतीत्यादिवचनेन स्वगतयैव युक्तया अयोनिशोमनस्कारो हेतुरविद्याया अविद्या चायोनिशोमनस्कारस्य हेतुरिति गम्यते। किं सूत्रान्तरापाश्रयेणाविद्यायोनिशोमनस्कारयोरन्योन्यहेतुकत्वप्रदर्शनेनन् प्रयोजनमिति। अत्रोच्यते। सत्यमस्त्येतत् किन्तु युक्तिमात्रमिदं प्रतीत्यसमुत्पादसूत्रे न कण्ठोक्तिः। अतः सूत्रान्तरे कण्ठोक्तयेयं युक्तिर्व्यवस्थाप्यत इति तत् सूत्रान्तरोपन्यासप्रयोजनमवगन्तव्यम्। अतिप्रसङ्ग एवं प्राप्नोतीति शास्त्रकारः। कथमतिप्रसङ्ग इत्याह। अविद्यास्पर्शजं वेदितम् प्रतीत्योत्पन्ना तृष्णेति सूत्रान्तरे निर्दिष्टम्। न च निरविद्यवेदितस्यार्हतो वेदना तृष्णायाः प्रत्ययो भवति न चाविपरीतः स्पर्शः क्लिष्टाया वेदनायाः। न च निरविद्यस्यार्हतो विपरीतः स्पर्श इत्यनया युक्तया एतदप्यङ्गद्वयं स्पर्शवेदनाख्यमिह प्रतीत्यसमुत्पादसूत्रेऽनुच्यमानमप्यन्यत्रोपदिष्टत्वादगम्यते इत्येतस्याप्यङ्गद्वयस्यावचनं प्राप्तम्। तथा सूत्रान्तर उपादिष्टम्। स पुण्यांश्चेति संस्कारानभिसंस्करोति पुण्योपगमस्य विज्ञानं भवति। एवमपुण्योपगमानिञ्जयोपगं च। न च निरविद्यसंस्कारस्यार्हतः पुण्योपग विज्ञानं यावदनिञ्जयोगं विज्ञानमिति। एतदपि संस्काराङ्ग युक्तया सिद्धम्। वक्तव्यमत्रेति प्राप्तम् तथा जातिमन्तरेण जरामरणं न भवतीति युक्तया गम्यत इति। जात्यङ्ग न वक्तव्यं स्यादित्यादिप्रसङ्गः प्राप्नोति।

अचोद्यमेव त्वेतदिति विस्तरेणाचार्यः स्वमतमाह कथं परलोकादिहलोक इति विस्तरः। तत्राविद्यासंस्काराभ्यामिहलोकः संबध्यते स चेहलोको विज्ञाननामरूपषडायतनस्पर्शवेदनाङ्गानि। तृष्णोपादानभवैः परलोकः संबध्यते स च परलोको जातिर्जरामरणं च। इत्येतावतोऽर्थस्यात्र प्रतीत्यसमुत्पादसूत्रे विनेयेभ्यो विवक्षितत्वात्। एतस्य चार्थस्य पूर्वमेवोक्तत्वात्।

पूर्वापरान्तमध्येषु सम्मोहविनिवृत्तये

इत्यनेन उक्तत्वात्। अचोद्यमेव त्वेतत् विस्तरेण यावत् न चापरिपूर्णो निर्देश इत्यभिसम्बन्धः। उभयं हि सर्वे संस्कृता धर्मा इति । त्रैयध्विकाः सर्वे संस्कृता धर्माः प्रतीत्यसमुत्पादः। अत एव च प्रतीत्यसमुत्पन्ना इति न कश्चिद्वेषः। कथं तावदकृता इति भाविन्या संज्ञया यथानागताः संस्कृता उच्यन्ते तथा प्रतीत्यसमुत्पन्ना इत्यभिप्रायः। आभिसंस्कारिकया चेतनयेति। सर्वचेतनानां स्वलक्षणगभिद्योतयन्नाभिसंस्कारिकयेत्याह। सा हि विपाकाभिसंस्करणादिभिसंस्कारिका तया चेतितत्वात् प्रणिहितत्वात्। देवो भविष्यामि मनुष्यो भविष्यिमीत्येवमादि। अतोऽनागताः संस्कृता उच्यन्ते। न तु भाविन्या संज्ञेति तमभिप्रायं विहन्ति। अनास्रवाः कथमिति ये सास्रवा अनागता एवं चेतयितुं युज्यन्ते । ये त्वनास्रवा अनागतास्ते कथं चेतयितुं युज्यन्ते। चोदक आह तेऽपि चेतिताः कुशलया चेतनया प्राप्तिं प्रति अनास्रवा धर्माः प्राप्येरन्निति। निर्वाणेऽपि प्रसङ्ग इति निर्वाणमपि संस्कृतत्वं प्रसज्यते। प्राप्तिं प्रति चेतितत्वान्निर्वाणं प्राप्येतेति। तदेवमनेनार्थेनानागतानां संस्कृतत्वव्यवस्थापने दोष इति विध्यन्तरमुपन्यस्यते। तज्जातीयत्वात्विति विस्तरः। यथा न च तावद्रप्यते यदनागतं रूपं रूप्यमाणरूपजातीयत्वाद्रूपमित्यतिदेशः। तथा प्रतीत्यसमुत्पन्नधर्मजातीयत्वादनागत अपि धर्माः प्रतीत्यसमुत्पन्ना इत्यतिदेश एषामनागतानां भवतीति।। २७।।

[ हेतुरत्र समुत्पादः समुत्पत्र फ़लं मतम्।
विद्याविपक्षो धर्मोऽन्योऽविद्यमित्रानृतादिवत्।। २८।। ]

हेतुफ़लभावादिति यस्मात्तदेवाङ्ग हेतुस्तदेव फ़लम्। न चैवं सत्यव्यवस्थानं भवतीति। पारापारवत्। हेतुफ़लवदिति। नाव्यवस्थितः प्रतीत्यसमुत्पादः प्रतीत्य समुत्पन्नो भिन्नपेक्षत्वात्। हेतुफ़लवत् पितृपुत्रवद्वा। तत्र हेतुफ़लम् तद् यथा बीजाङ्करादि यथा यदपेक्ष्य हेतुर्व्यवस्थाप्यते न तदपेक्ष्य फ़लं यदपेक्ष्य फ़लं व्यवस्थाप्यते न तदपेक्ष्य हेतुः। किं तर्हि फ़लमपेक्ष्य हेतुर्व्यस्थाप्यते हेतुञ्चापेक्ष्य फ़लमिति। यथा च यमपेक्ष्य पिता न तमपेक्ष्य पुत्रः। यमपेक्ष्य पुत्रो न तमपेक्ष्य पिता। किं तर्हि तत्पुत्रमपेक्ष्य पितेति पितरं चापेक्ष्य पुत्र इति। न च तदव्यवस्थितम् तद्वदेतत्।

किलेत्यसंभवनायाम्। प्रथमा कोटिरनागता धर्मा इति। अन्यधर्महेतुत्वात् प्रतीत्यसमुत्पादः समुत्पद्यतेऽस्मादिति कृत्वा। नं प्रतीत्यसमुत्पन्ना अनुत्पन्नत्वात्। द्वितीयार्हतश्चरमा इति उत्पन्नत्वात्ततः फ़लानुत् पत्तेश्च। तृतीया तदन्य इति। अर्हतश्चरमेभ्योऽन्येऽतीतप्रत्युत्पन्ना धर्माः। चतुर्थ्यसंस्कृता इति। तत्फ़लाभावादनुत्पत्तिमत्त्वाच्च। किं खल्वेता इष्टय उच्यन्त इति। आवस्थिकः प्रतीत्यसमुत्पादः स्यात् प्रतीत्यसमुत्पादो न प्रतीत्यसमुत्पन्ना इत्येवमाद्याः। पूर्वान्तेऽज्ञानमिति यस्मादविद्यैवोक्ता नान्ये स्कधास्तस्मादविद्यैवाङ्गमिति। नीतार्थमेतदिति दर्शयति नीतार्थमिति विभक्तार्थ हस्तिपदोपमे सूत्रे। सन्ति च तत्रान्येऽपि रूपादय इति। तेषु केशरोमादिषु। न पृथिवीधातुमात्रमेवेति। एवमत्रापि यथाप्रधानं निर्देशः शादिति। एवमत्रापि प्रतीत्यसमुत्पादसूत्रे द्वादशसु पञ्चस्कन्धिकास्ववस्थासु यत्र यस्य प्राधान्यं तत्र तस्य तस्य निर्देशः स्यात् अविद्याप्रधानायामविद्येति निर्देशः स्यात् संस्कारादिप्रधानास्ववस्थासु संस्कारादीनां निर्देशः स्यात्। सन्ति च तत्रान्येऽपि रूपवेदनादयो धर्मा इति। नाहि तत्रेति विस्तरः। नहि तत्र सूत्रे केशादयः पृथिवीधातुना निर्दिश्यन्ते। केशादयः कतमे। पृथिवीधातुरिति। यत एषां केशादीनामपरिपूर्णो निर्देशः स्यात्। सन्ति हि तत्रान्येऽपि रूपादय इति। रूपादिस्वभावा अपि केशादयो न केवलं पृथिवीधातुस्वभावा इति। अपि तु केशादिभिरेव पृथिवीधातुर्निर्दिश्यते। पृथिवीधातुः कतमः केशरोमाणीति। न च केशानभ्यतीत्याप्यतिक्रम्याप्यस्ति पृथिवीधातुराध्यात्मिक इति। संपूर्ण एवास्य पृथिवीधातोर्निर्देशः। एवमिहाप्यविद्यादीनाम् एवमिहापि सूत्रेऽविद्यासंस्कारविज्ञानादीनां परिपूर्ण एव निर्देशोऽयं न सावशेषः। अश्रुसिंघाणकादिष्विति। अश्रुसिंघाणकादीनि न तत्र सूत्रे पट्ःयन्ते तस्मान्न तद्गतः पृथिवीधातुरूक्त इति सावशेष एवेति दर्शयति। भवतु वा तथैवेति विस्तरः। यथा पृथिवीधातोरश्रुसिंघाणकादिष्ववशेषमनुक्तत्वात्। तथैवाविद्यावशेषमस्तु यदि शक्यते दर्शयितुम्। न शक्यते दर्शयितुमिति मन्यमानो यदि शब्दं प्रयुङ्क्ते पूर्वान्तेऽज्ञानमपरान्तेऽज्ञानं मध्यान्तेऽज्ञानं बुद्धेऽज्ञानं धर्मेऽज्ञानं संघेऽज्ञानं इत्येवमादीनां सर्वेषामज्ञानस्थानानामुक्तत्वात्। जात्यन्तरस्य तु वेदनादेरविद्यायां किं कृतः प्रेक्षपः पञ्चस्कन्धिकावस्थविद्येति। न हि वेदनादीनामविद्यात्वं युज्यत इति। भावाभावनियम इति। यस्य भावाभावयोर्यस्य भावाभावौ यथासंख्येन नियतौ तदेवाङ्गम्। अविद्याभावे संस्काराणां भावस्तदभावे तेषामभाव इत्यविद्यैवाङ्गं न वेदनादि। न हि वेदनादिसद्भावेऽर्हतां संस्कारा भवन्ति न भवन्तीति विस्तरः। सत्यपि च पञ्चस्कन्धके अर्हत्वावस्थायाम्। पुण्योपगं यावदानिञ्जयोपगं च विज्ञानं न भवति। प्रतिसन्धिविज्ञानं न भवतीत्यर्थः अन्तामुपपत्तिं गच्छतीत्युपगम् पुण्योपगं विज्ञानं पुण्योपगम् एवं यावदानिञ्जयोपगम्। तथा सत्यपि पञ्चस्कन्धे निरविद्यावस्थायां तृष्णोपादानादयश्च न भवन्तीति। यथानिर्देश एव सूत्रार्थः। यथा संकीर्तितानामेवाविद्यदीनां ग्रहणमित्यर्थः। अतो विद्यमाना अप्यन्ये स्कन्धा न प्रत्ययाः संस्कारादीनामिति न तेऽङ्गम्।

एवं मया श्रुतमित्यादि। भगवान् राजगृहे विहरति गृधकूटे पर्वते महता भिक्षुसङ्घेन सार्धमर्धत्रयोदशभिर्भिक्षुशतैः संबहुलैश्च बोधिसत्त्वैरिति आयुष्मान् शारिपुत्रो मैत्रेयं बोधिसत्त्वमेतदवोचत्। शालिस्तम्वमवलोक्य भिक्षुभ्य सूत्रमिदमुक्तम्। यो भिक्षवः प्रतीत्यसमुत्पादं पश्यति स धर्म पश्यति यो धर्म पश्यति स बुद्धं पश्यति इत्युक्त भगवांस्तुष्णीम्वभूव। तदस्य भगवता भाषितस्य सूत्रस्य कोऽर्थः प्रतीत्यसमुत्पादः कतमः धर्मः कतमः बुद्धः कतमः कथं च प्रतीत्यसमुत्पादं पश्यन् धर्म पश्यतीत्यादि। तत्र प्रतीत्यसमुत्पादो नाम यदिदमविद्येत्यादि। इदं चाभिसन्धायेदमुक्त तत्र सूत्रे। उत्पादाद्वा तथागतानामनुत्पादाद् वा तथागतानां स्थितैवेयं धर्मता धर्मस्थितिता धर्मनियमता तथता अवितथा अनन्यतथता भूततासत्यता तत्त्वमविपरीतता अविपर्यस्तेतेत्येवमादि भगवन्मैत्रेयवचनम् यद्यनगता प्रतीत्यसमुत्पन्ना इति। यदुक्त प्रथमा कोटिरनागता धर्मा इति सूत्रं विरूध्यत इति। जातिजरमरणयोः प्रतीत्यसमुत्पन्नत्वं न स्यात् उक्त च अविद्या यावज्जातिजरामरणमिति। अथ वेति विस्तरः। अथ जातिजरामरणाङ्गेऽपि प्रतीत्यसमुत्पन्ने इष्टे। तयोरनागताध्वव्यवस्थानं नैष्टव्यमिति कृत्वा त्रिकाण्ड वयवस्था भिद्यते।

पूर्वापरान्तयोर्द्वे द्वे मध्येऽष्टौ

इति निकायान्तरीया इत्यार्यमहीशसकाः। उत्पादस्य संस्कॄतलक्षणत्वादिति। योऽयमुत्पादः प्रतीत्यसमुत्पाद इति निकायान्तरीयैर्नित्यः परिकल्प्यते स संस्कॄतलक्षणमुक्तम्। त्रीणीमानि संस्कृतस्य संस्कृतलक्षणानि संस्कृतस्योत्पादोऽपि प्रज्ञायते व्ययोऽपि स्थित्यन्यथात्वमपीति। संस्कृतलक्षणत्वाच्चानित्यमित्यभिप्रायः। ब्रूयास्त्वं लक्षनमपि नित्यं भवतीति। अत आह न च नित्यं भावान्तरमनित्यस्य लक्षणं युज्यत इति। न हि निर्वाणमाकाशं वा कस्यचिदनित्यस्य लक्षणं भवति। प्रागुत्पत्तेर्हि लक्ष्यस्य तदस्तीति कस्य लक्षणम् विनष्टे च लक्ष्ये कस्येति न युज्यते। उत्पादश्चेति विसत्रः। उत्पादश्च नामाभूत्वा भावलक्षणः। सौत्रान्तिकनयेनात्पत्तिर्धर्मस्य तदनीमेव भवतीति। कोऽस्योत्पादस्यासंस्कृतस्य तन्मतेनाविद्यादिभिर्भिसम्बन्धः यथौदनेन पाकस्यास्ति सम्बन्धः कर्तृक्रियालक्षण इत्योदनस्य पाक इत्युच्यते। न ह्याकाशरूपयोरभिसम्बन्ध उत्पत्त्युतोत्तृलक्षणोऽस्ति येन रूपस्याकाशैत्युह्च्यते। एवं कोऽस्याविद्यादिभिर्भिसम्बन्धः। यतस्तेषामविद्यादीनां प्रतीत्यसमुतपाद इत्युच्यते पदार्थश्छासम्बन्धो भवतीति प्रत्ययं प्राप्य समुद्बह्वः प्रतीत्यसमुत्पाद इति पदार्थः। स कथं नित्यश्च नाम प्रतीत्यसमुत्पादश्चेति। प्रतिः प्राप्त्यर्थ इति। प्राप्तिद्योतक इत्यर्थः। इ गताविति धात्वर्थपरिणामादिति। अनेकार्था हि धातवः। प्रतिश्चोपसर्गः प्राप्तिद्योतक इत्ययमिः गत्यर्थमुज्ज़्हित्वा प्राप्त्यर्थमापद्यते। पदिः सत्तार्थ इति पद सत्तायामिति। तेनेति कारणेन। पूर्वकालायां क्रियायां क्त्वाविधेरिति। समानकर्तृकयोः पूर्वकाल् इति वचनात्। न चासौ पूर्वमुत्पादात् कश्चिदस्तीति सौत्रान्तिकमतेन। न चाप्यकर्तृकास्ति क्रियेति कर्तैर् सति क्रियाया व्यवस्था पनात्। आह चात्रेति एतद्वैयाकरणचोद्य श्र्लोकेनोपनिबधात्याचार्यः।

यदि पूर्वमुत्पादात् प्रत्येति

प्राप्नोति।

असत्त्वान्न युज्यते।

न ह्यविद्यमानः कर्ता स्नानादिक्रियां कुर्वन् दृष्ट इत् इ।

सह चेत्

अथ मन्यसे प्रतीत्यक्रियां समुत्पादक्रियां च सहकरोतीत्येवम्।

क्त्वा न सिद्वोऽत्र

प्रत्ययः। कस्मात्

पूर्वकालविधानतः

पूर्वस्मिन् कले विधानं क्त्वाप्रत्ययस्य। समानकर्तृकयोः पूर्वकाल इति वचनात्। अतः क्त्वाप्रत्ययो न सिद्धो भवेत्। पुनरूत्पत्ताविति। उत्पन्नस्य पुनरूत्पत्तौ कल्प्यमानायामनवस्थाप्रसञ्गः। द्वितीये तृतीये क्षणे पुनः पुनरूत्पद्यत इत्यनिष्ठाप्रसङ्गः अथानागत इति विस्तरः। अलब्धात्मकोऽनागत इति कथमसतोऽलब्धात्मलाभस्य कर्तृत्वं सिध्यति अकर्तृका वा क्रिया कथं सिध्यति। यत एवमतो यदस्वस्थ उत्पद्यते शब्दिकस्य शब्दविदः तदवस्थ एव मम प्रत्येति। किमवस्थश्चेति कावस्थास्येति किमवस्थः। उत्पादाभिमुखोऽनागत इति। न सर्वोऽनागत उत्पद्यते किं तर्हि उत्पादाभिमुखः। उत्पादेऽभिमुख उत्पितसुरित्यर्थः। तदवस्थ एव। उत्पादाभिमुखावस्थ एव प्रत्येतीत्युच्यते अनिष्पन्नं चेदमिति विस्तरः। शाब्दिकानामिदं शाब्दिकीयम्। कर्तुः क्रियायाश्च व्यवस्थानम्। कस्मात् भवितुः कर्तृरूपकल्प्तादर्थात् क्रियारूपकल्पिताया भूतेरन्यत्वादर्शनात्। तस्मादच्छलं भवत्युत्पद्यते प्रत्येतीत्येवमादिषु। आह चात्रेति। तत् सिद्धान्तेन प्रक्रियां दर्शयति। असन्नुत्पद्यते यद्वदिति विस्तरः। असन्नभावोऽलब्धात्मक उत्पद्यते यथा प्रत्येत्यपि तथा। असन्नित्यर्थः। अथ सन् अथ लब्धात्मक उत्पद्यत इति कल्प्यते। उत्पन्न उत्पद्यते इत्यनिष्ठा। उत्पन्नोऽपि पुनरूत्पद्यत इत्यवस्थानादन्यदनिष्ठा प्राप्नोति। तथाहि सांख्यमतानुसारेण सत एवोत्पादो नासत इति तदेतदधिकृत्य व्रवीति। सन् पुरापि वेति। वा शब्दो मतविकल्पार्थः। यदि भवतां सन्नुत्पद्यते इति पक्षः अस्माकमपि सन्नुत्पद्यते वैभाषिकनयेनानागतानामस्तित्वात् सौत्रान्तिकनयेन च जनकधर्मबीजसद्भावात्। ततः किमिदमुच्यते न चासौ पूर्वमुत्पादात् कश्चिदस्ति यः प्रतीत्योत्तरकालमुत्पद्यत इति। अथवा यदि तर्हि सन्नेवोत्पद्यते पूर्वमेव घटो मृत्पिण्डादीननपेक्ष्य स्वतः प्रसिद्धोऽस्तीति प्राप्नोति। अपरे पुनर्व्याचक्षते अनिष्ठाऽसन् पुनरापि वेति। अथ माभूदनिष्ठेति असन्नुत्पद्यत इति प्रतिपद्यसे। पुनस्तदेव वोपतिष्ठते असन्नुत्पद्यते यद्वत् प्रत्येत्यपि तथति सिद्धो नः पक्ष इति पूर्ववद्वाच्यम्। यदप्युक्तमेकस्यु हि कर्तुर्द्वयोः क्रिययोः पूर्वकालायां क्रियायां क्त्वाविधिर्भवतीति तद्वयभिचारयन्नाह सहभावेऽपि च क्त्वास्तीति विस्तरः। समानकालायामपि क्रियायां क्त्वाविधिर्दृष्टः तद्यथा दीपं प्राप्य तमो गतमिति। अत्र न पूर्व तमो दीपं प्राप्नोतो पश्चाद्गच्छति विनशतीत्यर्थः। किं तर्हि तस्सिन्नेव काले तमो दीपं पाप्नुवद् विन्श्यति। अथ मतम् समनन्तरमेव तन्न युगपदिति। अतः पुनरिदमुच्यते आस्यं व्यादाय शेते वेति। न ह्यसौ पूर्व मुखं व्याददाति विदारयति पश्चाच्छेते किं तर्हि यो मुखं व्याददच्ःएते स मुखं व्यादाय शेत इत्युच्यते। अथ मतम् पूर्वमसौ मुखं व्याददाति पश्चाच्छेत इति अत आह पश्चाच्चेत् किं न संवृते। यः कश्चिन्मुखं व्यादायानन्तां च संवृत्य शेते स मुखं व्यादाय शेत इत्युच्येत न चोच्यते तेन ज्ञायते यो मुखं ग्याददच्छेते स मुखं व्यादाय शेत इत्युच्यत इति। अन्ये पुनरिति भदन्तश्रीलाभः। प्रतिर्वीप्सार्थ इति। अनानावाचिनामधिकरणानां सर्वेषां क्रियागुणाभ्यां व्याप्तुमिच्छा वीप्सा तामयं प्रतिर्द्योतयति। इतौ गतौ साधव इत्याः तत्र साधुरिति यत्प्रत्ययः इतौ विनष्टौ साधवः। अनवस्थायिन इत्यर्थः। समुपसर्गः समवायार्थ द्योतयति उत्पूर्वः पदिः प्रादुर्भावार्थ धात्वर्थपरिणामात्। तां तां सामग्रीं प्रतीति। प्रेतईप्सार्थतां दर्शयति। इत्यानां विनश्वाराणां समवायेनोत्पादः प्रतीत्यसमुत्पादः। न कश्चिद्धर्म एक उत्पद्यते सहोत्पादनियमात् रूपादीनाम्

कामेऽष्टद्रव्यकोऽशब्दः परमाणुः

यावत्

चित्तचैत्ताः सहावश्यम्

इति नियमात्। एषा तु कल्पनेति विस्तरः। प्रतिवीप्सार्थ इत्येवमादिका कल्पनाऽत्रैव प्रतीत्यसमुत्पादसूत्रे युज्यते। इह कथं भविष्यति चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विग़्यानमिति। न हि पतीत्यानां चक्षूषि प्रतीत्यचक्षूषीति समासः सम्भवत्यर्थायोगात् चक्षुर्हि प्रतीत्य प्राप्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानमित्ययमर्थो गम्यते तन तदवस्थमेव तच्चोद्य न युक्त एष पदार्थ इति विस्तरेण यदुक्तम्। कथम् अकस् हि कर्तुर्द्वयोः क्रिययोः पूर्वकालायां क्रियायां क्ताविधिर्भवति। स्नात्वा भुङ्क्त इति। न च पूर्वमुत्पादाच्चक्षुर्विज्ञानमस्ति यच्चक्षुः पूर्व प्रतीत्य रूपाणि चोत्तरकालमुत्पद्यते न चाप्यकर्तृका क्रियेति।

अवधारणार्थ पर्यायद्वयमाह अस्मिन् सतीत्येतावत्युच्यमाने। न कवलमविद्यायां सत्यां संस्कारा भवन्ति अन्यस्मिन्नपि सतीति गम्येत यथा चक्षुषि सति चक्षुर्विज्ञानं भवत्विति न चक्षुष्येव सतीत्यवधार्यते। तेन रूपेऽपि सतीति गम्यते। द्वितीयेन तु पर्यायेणास्योत् पादादिमुत्पद्यत् इत्यनेन पूर्वपर्यायमेवावधाययति। अस्यैवोत्पादादिदमुत्पद्यते। नान्यस्मादिति  ऽङ्परम्परां वा दर्शयितुमिति। अस्मिन्नङ्गे सति। अविद्याङ्गे सतीदं संस्काराङ्ग भवति अस्य पुनरङ्गस्य संस्काराङ्गस्योत्पादा दिदं विज्ञानाङ्गमुत्पद्यत इति। एवमितरेषामप्यङ्गानां परम्परा वक्तव्या। जन्मपरम्परां वा। किम् दर्शयितुं पर्यायद्वयमाहेति वर्तते। साक्षादिति विस्तरः। साक्षहत् पारम्पर्येण च सन्तत्याऽविद्यादीनां प्रत्ययभावं दर्शयितुं पर्यायद्वयमाह। अस्मिन् सतीदं भवतीति साक्षात् प्रत्ययभावं दर्शयति। अस्योत्पादादिदमुत्पद्यत इति पारम्पर्येण। तत्र साक्षाद् यदा अविद्यायाः समन्न्तरं क्लिष्टा संस्कारा उत्पद्यन्ते पारम्पर्येण तु यदा कुशला उत्पद्यन्ते कुशलावस्थाया मविद्याया अभावात्। किञ्च अविद्या संस्काराणां साक्षात् प्रत्ययो विज्ञानादीनां पारम्पर्येण। तदुक्तं भवति। अविद्याङ्गे सति संस्काराङ्गं भवत्यस्य संस्काराङ्गस्योत्पादादिदमुत्पद्यते विज्ञानाङ्ग साक्षादविद्यप्रत्ययं पारम्पर्येणेति। एतत् सर्वमाचार्यमतम्। प्रतिषेधाथमित्यपर इति स्थविरवसुवर्मा। नासति हेतौ भावो भवतीत्यहेतुवादप्रतिषेधार्थ प्रथमेन पर्यायेण। नित्यहेतुवादप्रतिषेधार्थ न चानुत्पत्तिमतो नित्यात् प्रकृतिपुरूषादिकात् किञ्चिदुत्पद्यत इति द्वितीयेण। आचार्या आह। अस्यान्तु कल्पनायामिति विस्तरः। पुर्वपदस्य ग्रहणमनर्थकमिति। अस्मिन् सतीदं भवत्यस्य। उभयवादप्रतिषेघसिद्धेरिति। अस्योत् पादादिदमुत्पद्यत इत्यनेनैव पर्यायेण। हेतोरस्तित्वमुत्पत्तिमतश्च हेतुत्वमित्युभय स्थाहेतुत्वनित्यहेतुत्वलक्षणस्य वादस्य प्रतिषेधसिद्धितः पूर्वपर्यायस्यानर्थक्यं प्राप्नोति। सन्ति तर्हि केचिदिति विस्तरः। सन्ति केचिद्वादिनः। य आत्मनि सत्याश्रयभूते। अविद्याया आश्रयभूते। संस्कारादीनां संस्कारविज्ञाननामरूपादीनां भावमुत्पादं कल्पयन्ति अविद्यादीनां चाविद्यासंस्कारादीनामुत्पादात्तदुत्पत्तिं संस्काराद्युत्पत्तिं कल्पयन्तीत्यधिकृतम् अतः कारणात्तैषां वादिनां कल्पनां पर्युदासयितुं प्रतिषेद्धुमिदं निधारयाम्बभूवाम्रेडयाम्बभूव। किमित्याह यस्यैवोत्पादात् यावत् स्कन्धस्य समुदयो भवतीति। यस्यैवोत्पादाद यदुत्पद्यते। तस्मिन्नेव सति तद् भवति नान्यस्मिन्नात्मनि। यदुताविद्याप्रत्ययाः संस्काराः। अविद्यायामेव सत्यां संस्कारा भवन्ति नान्यस्मिन् यावदेव मस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति। कथम् जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति। एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति। जात्यामेव सत्यां जरामरणादयः संभवन्ति नान्यस्मिन्नात्मनि। अन्यथा ह्यस्मिन् सतीदं भवतीत्युच्यमाने वक्तार स्युः। आत्मनि सत्याश्रयभूते अविद्यादिषु सत्सु संस्कारादयो भवन्तीति। अथ पुनर्द्वितीयमेव पर्यायं ब्रूयात्। अस्योत्पादादिदमुत्पद्यत इति। एवमपि तथैव कल्पेयुः। सत्यम् अविद्यादीनामुत्पादात् संस्कारादय उत्पद्यन्ते। आत्मनी तु सत्याश्रयभूत इति। अतः पर्यायद्वयेन निर्धारयति। यस्योत्पादाद्यदुत्पद्यते तस्मिन्नेव सति तद्भवति नान्यस्मिन्नात्मनि सत्याश्रयभूत इति। आचार्या इति पूर्वाचार्याः अप्रहीणज्ञापानार्थमुत्पत्तिज्ञापनार्थ च। अविद्यायां सत्यामप्रहीणायां संस्कारा भवन्ति। न प्रहीयन्त इति प्रथमेन पर्यायेण दर्शयति। तस्या एवोत्पादादुत्पद्यन्त इति द्वितीयेन दर्शयति। एवं यावज्जात्यां सत्यामप्रहीणायां जरामरणदयो भवन्ति न प्रहीयन्ते। तस्या एवोत्पादादुत्पद्यन्त इति। स्थित्युत्पत्तिसन्दर्शनार्थमित्यपर भदन्तश्रीलाभः। तदर्थ पर्यायद्वयामाहेति। यावत् कारणस्त्रोतस्तावत् कार्यस्त्रोतो भवतीति प्रथमेन पर्यायेन। कारणस्यैवोत् वो भिक्षवो देशयिष्यामीत्यधिकृते कः प्रसङ्गः कः प्रस्तावः स्थितिवचनस्य अस्मिन् सतीदं भवतीत्यनेन यावत् कारणस्रोतस्तिष्ठति तावत् कार्यस्रोतस्तिष्ठतीति। एवमस्य स्थित्यर्थो वर्णयत इति। भिन्नक्रमं च भगवान् किमर्थमाचक्षीत। उत्पत्तिर्हि प्रथमं भवति पश्चात् स्थितिः। उत्पत्तिप्रतिबद्धा स्थितिरिति कृत्वा अस्योत्पादादिदमुत्पद्यत इति पूर्व वक्तव्यं स्यात्। पश्चादिमसिन् सतीदं भवति। नत्वेवम् अतो नायमर्थ इति। पुनराहेति स एव भदन्तश्रीलाभः। आचार्यः प्रत्याह। एष चेदिति विस्तरः। अस्मिन् सतीदं न भवतीत्येवावक्ष्यदिति। नञैवाभावनिर्देसो युक्तरूप इति दर्शयति। पूर्वं च कर्यस्योत्पादमिति। अस्योत्पादादिदमुत्पद्यते इति पूर्वमवक्ष्यत् उत्पादपूर्वकत्वाद्विनाशस्य ।

 सूत्र उक्त जातिप्रत्यया जरामरणशोकपरिदेवदुःस्वदौर्मनस्योपायासाः सम्भवन्तीति जरामरणसंगृहीता एवं ते। नाङ्गान्तरमित्यवन्तव्यम्। तत्र सत्त्वासत्त्वसंख्यातस्य विषयस्य परिणामादात्मभावपरिणामाच्चैते भवन्ति दौर्मनस्यसम्प्रयुक्तो वितर्कः शोकः। शोकसमुत्थितः प्रलापः परिदेवः। दुःखदौर्मनस्ये व्याख्याते। विच्छिन्नवेगं दौर्मनस्यमुपायासः। शोकपरिदेवपूर्वकः श्रम उपायास इत्यपरे। बालो हीति विस्तरः। बालः पृथगजनः संस्कारमात्रमिति। मात्रग्रहणमात्मप्रतिषेधार्थम्। अप्रजानन्नित्यावेणिकीमविद्यां दर्शयति। आत्मदृष्टयस्मिमानाभिनिविष्टः प्रतिष्ठितः कायादिभिः कायवाङ्मनोभिस्त्रिविधं कर्म पुण्यापुण्यानिञ्जलक्षणमारभते। आणिञ्ज्यमिति। इगिः प्रकृत्यन्तरं तस्यैवैतद्रूपम्। एजतेरेतद्रूपमानेञ्जयमिति वा पाठः। आयतिसुखार्थ पुण्यमिति अनागतजन्मसुखार्थम्। किम् कामावचरं कुशलं कर्म। सुखा दूह्खसुखार्थमानिञ्जयमिति। रूपारूप्यावचरं कुशलम्। सुस्वार्थमा तृतीयाद्धयानात् तस्मादूर्ध्वमदुःखासुस्वार्थम्। ऐहिकसुखार्थमपुण्यमिति। इहसुखापेक्षया तत् कृतं नायतिसुखापेक्षयेत्यर्थः। कर्माक्षेपवशाद् यथोक्त कर्मावेधवशात् तां तां गतिं नरकदिकं गच्छति ज्वालागमनयोगेन यथा दीर्धा तृणानुषक्ता ज्वाला गच्छतीत्युच्यते तथा विज्ञानसन्ततिभिरन्तराभवसम्बन्धादन्तराभवसम्बन्धेनातिविप्रकृष्टदेशामपि तां तां गतिं गच्छति। एवञ्च कृत्वेति। यदि संस्कारप्रत्ययमन्तराभवप्रतिसन्धिचित्तमुपादाय यावदुपपत्तिक्षणः सर्वासौ विज्ञानसन्ततिः षण्णां विज्ञानकायानां संस्कारप्रत्ययं विज्ञानमभिप्रेतं तदुपपन्नं भवति। विज्ञानाञ्गनिर्देशे विज्ञानाङ्गस्य तृतीयस्य निर्देशे। विज्ञानं कतमत् षड्विज्ञानकाया इति। अन्यथा हि यदि षण्णां विज्ञानकायानां सन्ततिर्नाभिप्रेता स्यात् संस्कारप्रत्ययं विज्ञानं प्रतिसन्धिचित्तमेवाभिप्रेतं स्यात् अत्र षड्विज्ञानकाया इति नोक्त स्यात् एवं तु वक्तव्यं स्यात्। विज्ञानं कतमत् मनोविज्ञानमिति। न हि प्रतिसन्धिक्षणे पञ्चविज्ञानकायसम्भवोऽस्ति। मनोविग़्यानेनैव प्रतिसन्धिबन्धात्।

छेदसन्धानवैराग्यहानिच्युत्युपपत्तयः।

मनोविज्ञान एवेष्टाः

इति वचनात्। विभङ्ग एवं निर्देशादिति प्रतीत्यसमुत्पादसूत्रे नामरूपविभङ्ग एवं निर्देशात्। नाम कतमत् चत्वारोऽरूपिणः स्कन्धा इति। रूपं कतमत् यत्किञ्चिद्रूपमिति विस्तरेन। यावद्यच्चेदं रूपं यह्च्च नाम तदुभयं नामरूपमित्युच्यत इति। कामतृष्णेति कामावचरी तृष्णा। रूपतृष्णेति या सुखायां त्रिषु ध्यानेषु। अदुखासुखायां चतुर्थे। अदुःखासुखायामारूप्यतृष्णेति आरूप्यावचरी। कामादीनामुपादानमिति। कामदृष्टिशीलव्रतात्मवादानमुपादानमित्यर्थः। पञ्च कामगुणा इति। काम्यन्त इति कामाः गुण्यन्त इति गुणाः कामा एव गुणाः कामगुणाः। के पुनस्ते। रूपशब्दगन्धरसस्प्रष्टवयानि। दृष्टयो द्वाषष्टिर्यथा ब्राह्यजाल इति। ब्रह्यजालसूत्रदर्शनेन ता दृष्टयो बोद्धव्याः। कुक्कुरगोव्रतादीनीति। आदिशब्देन मृगव्रतादीनि गृह्यन्ते। निर्ग्रन्थादीनामिति आदिशब्देन पाण्डरभिक्ष्वादीनां ग्रहणम्। ब्रह्यणेत्यादिविस्तरः। ब्रह्यणानां दण्डाजिनम्। पाशुपतानां जटाभस्म। परिव्राजकानां त्रिदण्डमौण्डयम्। आदिशब्दद्वयेन कापालिकादीनां कपालधारणादीनि गृह्यन्ते। तत्समादानं शीलव्रतोपादानम् आत्मेति वादोऽस्मिन्नित्यात्मवादः। यथोक्तम् ये केचिच्छमणा ब्रह्यणा वा आत्मेति समनुपश्यन्तः समनुपश्यन्ति सर्वे त इमानेव पञ्चोपादानस्कन्धानिति विस्तरः। आत्मदृश्टयस्मिमानावित्यपर आत्मवादमाहुः। आत्मनो ह्यसत्त्वादात्मवादोपादानमिति। वादशब्दोपन्यासे प्रयोजनं दर्शयति। बालोऽश्रुतवान् पृथग्जन इति। यस्य पूर्वाभ्यासवासनानिर्जातोपपत्तिलाभिका प्रज्ञा नास्ति स बालः यस्यागमजा नास्ति सोऽश्रुतवान् यस्याधिगमजा सत्याभिसमयजा नास्ति स पृथग्जनः। प्रज्ञप्तिमनुपतित इति यथा संज्ञा यथा च व्यवहारस्तथानुगत इत्यर्थः। तेषामिति कामादीनाम्। छन्दरा इति अप्राप्तेषु विषयेषु प्रार्थना छन्दः प्राप्तेषु रागः। तेषु कामादिषु यश्छन्दरागस्तदुपा दानम्। न तु

यथोक्ता एव साविद्या द्विधा दृष्टिविवेचनात्।

उपादानानि

इत्यभिप्रायः। पौनर्भविकमिति पुनर्भवफ़लम्। इदमत्र भवस्येति। इदमत्र भवस्य स्वलक्षणं स्वभाव इत्यर्थः। विज्ञानावक्रान्तियोगेनेति। ज्वालागमनयोगेपान्तराभवसम्बन्धादनागतं जन्म जातिः पञ्चस्कन्धिका नामरूपस्वभावत्वात्। जरामरनं यथानिर्दिष्टं सूत्र इति। जरा कतमा यत्तत् खालित्य पालित्य मिति विस्तरः। मरणं कतमत् य तेषां तेषां सत्त्वानां तस्मात्तच्च्युतिश्च्य वनमिति विस्तरः। केगलस्यात्मरहितस्येत्यर्थ दर्शयति महत इत्यनाद्यन्तस्य दुःखस्कन्धस्येति दुःखसमूहस्य। स एव तु वैभाषिकन्यायो यः पूर्वमुक्त इति। द्वादश पञ्चस्कन्धिका अवस्था द्वादशाङ्गानीति

या न विद्या। चक्षुरादिष्वपि प्रसङ्ग इति। चक्षुःश्रोत्रादीन्यविद्या प्रसज्यन्ते तान्यपि हि न विद्येति कृत्वा। न किञ्चित् स्यादिति यदि विद्याया अभावोऽविद्या अद्रव्यं स्यादित्यर्थः। न चेतद्युक्तमिति प्रत्ययभावेनोपदेशात्। तद्विपक्ष इति विरोधे नञिति दर्शयति। न तु यः कश्चिदन्यो मित्रादिति। न पर्युदासमात्र इति दर्शयति। नापि मित्राभाव इति। नाभावार्थ इति दर्शयति अधर्मानर्थाकार्यादयश्चेति। आदिशब्देनायुक्तयव्यवहारामनुष्यादयो गृह्यन्ते। धर्मादिप्रतिद्वन्द्वभूता इति  धर्मार्थकार्ययुक्तिव्यवहारमनुष्यादिप्रतिद्वन्द्वभूताः। न तु ये केचिदन्ये धर्मादिभ्यश्चक्षुरादयः नापि धर्माद्यभावः। एवमविद्यापीति विस्तरः। कुत एतत् प्रत्ययभावेनोपदेशात्। अविद्याप्रत्ययाः संस्कारा इति। न चाविद्याया अन्येषां चक्षुरादीनां प्रत्ययभावेनोपदेशे युक्तः अर्हतां संस्कारासम्भवात्। न चाभावस्य शशविषाणादीनां प्रत्ययत्वात्।। २८।।

[ संयोजनादिवचनात् कुप्रज्ञा चेत्न दर्शनात्।
दृष्टेस्तत्सम्प्रयुक्तत्वात् प्रज्ञोपक्लेशदेशनात् ॥ २९।। ]

संयोजनं यावद्योगश्चाविद्योच्यत इति। अविद्यासंयोजनं यावदविद्यायोग इति सूत्रेपुच्यते। न चाभावमात्रं तथा भवितुमर्हतीति। न संयोजनादि भवितुर्महतीत्यर्थः। न चापि चक्षुरादयस्तथा भवितुमर्हन्तीत्यधिकृतम्। सा च दृष्टिस्वभावेति नाविद्यां युज्यत इति। दृष्ट्यविद्ययोः संयोजनादित्वेन पृथक् पाठात्। या तर्हि न दृष्टिरिति। या क्लिष्टा प्रज्ञा रागादिसम्प्रयुक्ता।

दृष्टेस्तत् सम्प्रयुक्तत्वात्

इति अविद्यासम्प्रयुक्तत्वादित्यर्थः। कथञ्च दृष्टिरविद्यया सम्प्रयुक्ता। यस्मादविद्यालक्षणो मोहः क्लेशमहाभूमौ पठ्यते। क्लेशमाहभूमिकाश्च सर्वेऽपि महाभूमिकैः सह सम्प्रयुज्यन्त इति। दृष्ट्या सत्कायदृष्ट्यादिकया प्रज्ञास्वभावया अविद्या सम्प्रयुज्यत इति गम्यते। तस्मान्नाविद्या प्रज्ञा द्वयोः प्रज्ञाद्रव्ययोरसम्प्रयोगात्। अविद्योपक्लिष्टा प्रज्ञा न विशुध्यतीति। एतदुदाहरणम्। येनाविद्या प्रज्ञाया अर्थान्तरभूतेति। न च सैव प्रज्ञा तस्याः प्रज्ञाया उपक्लेशो युक्त इति। प्रज्ञोपक्लेशदेशनायां प्रज्ञाया अर्थान्तरभूता अविद्या उपक्लेशत्वेन निर्दिष्टत्वात् रागवत्। अत आह। यथा चित्तस्यान्य इति विस्तरः। व्यवकीर्यमाणा न विशुध्यतीति। अन्तरान्तरोत्पद्यमानया क्लिष्टया प्रज्ञया व्यवकीर्यमाणा क्षणान्तरोत्पन्ना कुशला प्रज्ञा न विशुध्यतीत्यर्थः। किं तदवश्यं रागपर्यवस्थितमिति। रागसम्प्रयुक्तमित्यर्थः। उपहतन्तु तत्तथा रागेणेति। समुदाचरता रागेण वासनधानेन तदुपहतं भवति। तां भावनां तद् दौष्टुल्थं व्यावर्तयतो योगिनस्तच्चित्तं विमुच्यते। एवमविद्योपहता क्लिष्टा प्रज्ञा न शुध्यतीति। अतः प्रज्ञा चाविद्या न च दोष इति दर्शयति। को हि परिकल्पयन्वार्यत इति। परिकल्पनामात्रमेतदागमनिरपेक्षमिति कथयति।

योऽपि मन्यते सर्वक्लेशाविद्येति। भदन्तश्रीलाभ एवं मन्यते अविद्येति सर्वक्लेशानामियं सामान्यसंज्ञा। न रागादिक्लेशव्यतिरिक्ताऽविद्या नामास्तीति। कस्मात् स एवं मन्यते बुद्धसूत्रात्। न प्रजानाति न प्रजानातीत्युष्मन् महाकौष्ठिल तस्मादविद्योच्यत इति सत्कायदृष्ट्यादयोऽपि क्लेशा अज्ञानस्वरूपा विपरीतग्रहणत इति। तस्याप्यत एवेति विस्तरः। तस्य भदन्तस्यात एव प्रतिषेधवचमाद्व्युदासः। प्रतिषेधस्तन्मतस्येत्यध्याहार्यम्। कथमित्याह। सर्वक्लेशस्वभावा हि सती संयोजनादिषु पृथग् नोच्यते। अनिशयसंयोजनादिष्वविद्यासंयोजनमिति पृथग् नोच्येत शेषसंयोजनाव्यतिरेकात्। रागो बन्धनं द्वेषो बन्धनमित्युक्त्वा मोहो बन्धनमिति कामरागानुशयः इत्याद्युक्ता अविद्यानुशय इति अघेष्वविद्यघ इति योगेष्वविद्यायोग इति पृथग्नैवोच्येत। कस्मात् परस्परासंप्रयोगात्। न हि दृष्टिर्दृष्ट्या संयुज्यते रागो वा रागेण दृष्ट्यादिसंप्रयुक्ता चाविद्योक्ता क्लेशमहाभूमिकत्वेन महाभूमिकसम्प्रयोगनियमात्। चित्तमपि चाविद्योपक्लिष्टमेवोक्तं भवेत्। रागोपक्लिष्तं चित्तं न विम्चुह्यत इति नोक्त भवेत् अविद्योपक्लिष्टत्ववचनेनैव रागाद्युपक्लिष्टत्वसिद्धेः। अथ मतम् विशेषणार्थं तथोक्तमिति रागलक्षणयाविद्ययोपलिष्टचित्तं न विमुच्यत इति प्रज्ञायामपि विशेषणं कर्तव्यं स्यात्। रागेण प्रतिघेन मानेन वेति माभूत् सर्वक्लेशग्रहणप्रसङ्ग इति इष्ट इति चेत् चित्तेऽपि न विशेषणं कर्तव्यं स्यात्। अविद्योपक्लिष्ट चित्तं न विमुच्यत इत्येवमेव तु वक्तव्यं स्यात्।

संप्रख्यानं प्रज्ञानमित्येकोऽर्थः तथैव दोपो यथाविद्यायामिति अथासंप्रख्यानमिति कोऽर्थः यन्न संप्रख्यानम्। चक्षुरादिष्वपि प्रसङ्गः। संप्रख्यानाभावस्तर्हि एवं सति न किञ्चित् स्यात्। न चैतद् युक्तमिति अथ संप्रख्यानविपक्षभूतं धर्मान्तरम्। तदिदं तथैव न ज्ञायते यथवाविद्या किं तदिति। एवं जातीयकोऽपीति विस्तरः। एवं जातीयकः कर्मप्रबावित इत्यर्थः। तस्मादविद्यायाः कर्मणा कारित्रेण स्वभावो विज्ञातव्यः अस्त्यसौ कश्चिद्धर्मो यो विद्याविपक्ष इति विद्याविपक्षत्वं त्स्याः कर्मेति तद् यथा चक्ष्ःउः कतमत्। यो रूपप्रसादश्चक्षुर्विग़्यानस्याश्रय इति ननु च रूपप्रसाद इति स्वभावप्रभावितोऽस्य निर्देश इति न अप्रत्यक्षत्वान्नित्यं चक्षुर्विज्ञानमेयत्वाच्च अस्मीति सत्त्वमयतेति। अविज्ञातार्थमेतत्। न तेन स्थविरेनास्याभिधेयमवधारितम्। मयता पुनः सौत्रान्तिकरैविद्या प्रकारभिन्ना वर्णयते मानो वा । यासौ सूत्र उक्तेति विस्तरः। मयतानामित्यविद्यानां प्रकारभिन्नानाम् नामेति ग्रहणम् तृष्णादीनां पृथगुपदेशदिति भदन्तधर्मत्रातस्याभिप्रायः। आचार्य आह अस्त्येषा मयता अस्ति सुत्रे उक्ता मयता तत्र जातिनिर्देशदेकवचनम् सा त्वविद्येति। कुतः कारणादेतत् परिच्छिद्यते साविद्येति। भदन्तधर्मत्रातः स्वाभिप्रायं विवृणोति यत एषा नान्यः क्लेशः शक्यते वक्तुमिति। कस्मान्न शक्यते तृष्णादृष्टास्मिमानानां पृथगुक्तेः। आचार्य आह ननु चान्यो मान एव स्यादिति अस्मिमानादन्यः षन्नामन्यतमः स च मयता नाविद्येत्यभि प्रायः। अत्र तु पुनविचार्यमाणे वहु वक्तव्यं जायत इति अत्र पुनविचार्यमाणेऽविद्याङ्गे बहुरयं ग्रन्थो जायते यथोक्तमिति। तस्मात्तिष्ठत्वेतत् एतावदेवास्त्विति अथवाऽन्यो मान एव स्यात् न पुनरविद्येति। कुत एतदित्येवमादिके पुनर्विचारे क्रियमाणे उत्तरप्रत्युत्तरवचनेन बहु वक्तव्यं जायते तस्मात्तिष्ठत्वेत दलं विचारान्तरेणेत्यर्थः।। २९ ।।

[ नाम त्वरूपिणः स्कन्धाः स्पर्शाः षट् सन्निपातजाः।
पञ्च प्रतिघसंस्पर्शाः षष्ठोऽधिवचनाह्वयः।। ३०।। ]

अथ नामरूपमिति अविद्याङ्गनिर्देशानन्तरं संस्काराङ्गं निर्देष्टव्यम्। तदनु विज्ञानाङ्गम् किमित्येतदतिक्रम्योपन्यस्यते  एतदर्थमत्र वक्ष्यत्याचार्यः

उक्त च वक्ष्यते चान्यत्

इति। रूपं विस्तरेणोक्तमिति

रूपं पञ्चेन्दिर्याणयर्थाः पञ्चाविज्ञप्तिरेव च

इत्यत्र। नामेन्द्रियार्थवशेनेति विस्तरः। नामवशेन इन्द्रियवशेन अर्थवशेन चार्थेषु रूपादिषु नमीति नाम कतमस्य नाम्नो वशेनेति नामद्वैविध्यात् पृच्छति। आचार्यस्त्वाचष्टे यदिदं लोके प्रतीतमिति विस्तरः। गौरश्व इति समुदायप्रत्यायकम्। रूपं रस इति एकार्थप्रत्यायकम्। तदेतद् वेदनादिसक्न्धचतुष्कं नामशब्देनोच्यते। यस्मात्तन्नामवशेन संज्ञाकरणवशेनार्थेष्वप्रत्यक्षेषु प्रत्यक्षेष्वपि वा नमति प्रवर्तते। अस्य नाम्नोऽयमर्थ इति। इन्द्रियार्धवशेन तु प्रत्यक्षेषु रपादिषु नमत्युत्पद्यत इत्यर्थः। नाम्नि चाप्यर्थवशेन नमति अस्यार्थस्येदं नामेति। एतस्य पुनः केन नामत्वमिति। एतस्य संज्ञाकरणलक्षणस्य नाम्नः केन कारणेन नामत्वम्। तेषु तेष्वर्थेषु तस्य नाम्नो नमनादिति। यस्यात्तेष्वर्थेषु चतुःस्कन्धलक्षणं नाम तन्नाम नमयति प्रवर्तयति तस्मात् तस्मात् एतस्य नामत्वम् नमयतीति नामेति कृत्वा। इह निक्षिप्त इति विस्तर। मरणकाले निक्षिप्ते काय उपपत्त्यन्तरे नमाद् गमनादरूपिणो वेदनादयः स्कन्धा नामेत्युच्यन्ते। यथोक्तम्। मृतस्य खलु कालं गतस्य ज्ञातय इमं पूतिकायमग्निना वा दहन्ति उदके वा प्लावयन्ति भूमौ वा निखनन्ति वातातपाभ्यां वा परिशोषं परिक्षयं पर्यादानं गच्छति। यत् पुनरिदमुच्यते चित्तमिति वा मन इति वा विज्ञानमिति वा श्रद्धापरिभावितं शीलत्यागश्रुतप्रज्ञापरिभावितं तदूर्ध्वगामि भवति विशेषगाम्यायत्यां स्वर्गोपगमिति।

पडायतनमुक्तमिति।

तद्विज्ञानाश्रया रूपप्रसादाश्चक्षुरादयः।
विज्ञानं प्रतिविज्ञप्तिर्मन आयतनं च तत्

इत्यत्र। मन इन्द्रियस्य पुनर्निरूद्धस्यानागतेन धर्मण रूपादिनोत् पतस्यामानेन वर्तमानेन मनोविग़्यानेन कथं सन्निपातः। यः कार्य करणभावः कार्य मनोविज्ञानम् कारणं मन इन्द्रियम् धर्मश्च रूपादिः। एककार्यार्थो वेति। एककार्यम्थः एककार्यार्थ एककार्यत्वमित्यर्थः कथ मेककार्यार्थ इत्याह सर्वे च ते त्रयोऽपि मन इन्द्रियादयः। स्पर्शोत्पत्तौ प्रगुणा अनुकूला भवन्तीति।

पट्षट्को धर्मपर्याय इति षट् षट्कान्यस्मिन्निति षट्षट्कः। आध्यात्मिकबाह्यविज्ञानस्पर्शवेदनातृष्नाषट्कसम्भवात्। षट्स्पर्शकाया इति ज्ञापकम्। अनन्यत्वे हि सतीन्द्रियार्थविज्ञानेषूक्तेषु स्पर्शकायवचनं पुनरूक्त स्यात्। ततश्च षट्षट्कत्वं हीयते। माभूत् धर्मायतनाद्वेदनातृष्णयोः पृथग्भाव इति। यदि पृथङ्निर्देशात् पृथग्भावो भवेत् वेदनातृष्ने अपि धर्मायतनात् पृथङ्निर्दिष्ते। तयोरपि वेदनातृष्नयोर्धर्मायतनात् पृथग्भावः स्यात्। न च तयोः पृथग्भव इष्यते धर्मायतनान्तर्भावात्। नैप दोष इति विस्तरः। नैष दोष इति यथोक्तस्तद्वयतिरिक्तस्यापि वेदनातृष्णाव्यतिरिक्तस्यापि धर्मायतनस्य तज्जादिस्वभावस्य भावादस्तित्वात्। न चैवमिति विस्तरः। न चैवं भवतस्त्रायाणां सन्निपातः स्पर्श इत्येवं व्रुवाणस्य स्पर्शभूतादिन्द्रियार्थविज्ञानत्रयादन्यदस्पर्शभूतं त्रयमिन्द्रियार्थविज्ञानत्रयमस्ति यस्य शेषस्यास्तर सूत्रे ग्रहणं स्यात्। षट् स्पर्शकाया इति प्रयोजनवशादपृथग् भावेऽपि स्पर्शभूतात्तयात्। तस्मादपृथग्भावेऽपि वेदनातृष्नयोः पृथङ् निर्देशोयुक्तो विनेयकार्यवशात्। न तु भवतः सन्निपातमात्रस्पर्शवादिनः केनचिदपि प्रयोजनेन षट् स्पर्शकाया इति पृथङ् निर्देशो युक्तः। यस्मात् षट् स्पर्शकाया इति वचनेनेन्दिर्यार्थविग़्यानत्रयमुक्तमिति तद्वचनं प्राप्तमित्यतः षट्षट्को धर्मपर्याय इति न सिध्येत्। मम तु सिध्यति। स्पर्शवेदनातृष्णाषट्कवचनेऽपि तद्व्यतिरिक्तधर्मायतनाद्यर्थेन्द्रियविज्ञानषट्कसम्भवात्। तस्मात् षट् स्पर्शकाया इति पृथङ्निर्देशादस्ति चित्त्सम्प्रयुक्त स्पर्शाख्यं धर्मान्तरमिति सिद्धम्। अथ ब्रूयादसौ इन्द्रियार्थावविज्ञानकौ निर्दिष्टावस्मिन् सूत्रे पडाध्यात्मिकानि षड् बाह्यानीति वचनात्। अत इन्द्रियविषयविज्ञानत्रयं स्पर्शभूतमित्यस्य शेषस्य ज्ञापनार्थमत्र ग्रहणं स्यात् षट् स्पर्शकाया इति। अस्य समाधेः प्रतिषेधार्थमिदमारभ्यते। यद्यपीन्द्रियार्थै स्यातामविज्ञानकौ। तत् सभागावितयर्थः। न तु पुनर्विज्ञानमिनिन्द्रियार्थकम्। अवश्यं हि विज्ञानं सेन्द्रियार्थकं भवति। तच्च विज्ञानमपदिष्टमत्र षड्विज्ञानकाया इति तस्मात्तिषु निर्दिष्टेषु इन्द्रियार्थविज्ञानेषु षड्विग़्यानकायवचनेन पुनः स्पर्शग्रहणमनर्थकं प्राप्नोति षट् स्पर्शकाया इति। अतः सन्निपातादन्यः स्पर्श इति सिद्धम्। अत्र भदन्तश्रीलाभ आह न खल्विति विस्तरः। पूर्वोत्पन्ने चक्षुरूपे कारणम् न तु विज्ञानसहोत्पन्नेनापि सर्वचक्षुर्विज्ञानमिति। पश्चादुत्पन्न पूर्वयोश्चक्षुरूपयोर्न सहोत्पन्नयोः। अतो येषां कार्यकारणभावस्ते। विज्ञानेन्द्रियविषयाः स्पर्शभावेन व्यवस्थिताः षट् स्पर्शकाया इत्यस्मिन् सूत्रे। तदिदमन्यथा न ज्ञापितं स्यात्।

न वा एवं पठन्ति वै इति निपातः न वै एवं पठन्टित्यर्थः कथं पुनः पठन्ति। य एषां धर्माणां सङ्गतिः सन्निपातः समवायः स स्पर्श इति पठन्ति। कारणे वा कार्योपचारोऽयमिति। सङ्गतौ सन्निपाते समवाये कारणे कार्योपचारः स्पर्श इति। यथा सुखो बुद्धानामुत्पाद इति अतिबहुविस्तरेण प्रकारेण विसर्तु शीलमस्या इति अतिबहुविस्तरप्रकारविसारिणी।

अधिवचनमुच्यते नामेति। अध्युच्यतेऽनेनेत्यधिवचनम्। वाङ्नाम्नि प्रवर्तते नामार्थ द्योतयति इत्यधिवचनं नाम। तत् किल नामार्थे मनोविज्ञानसम्प्रयुक्तस्याधिकं बाहुल्येना लम्बनम्। अतोऽधिवचनं संस्पर्श इति। स्पर्शः संस्पर्श इत्येकोऽर्थः। मनो विज्ञानेन नीलं विजानातीति अभिधेयं विजानातीत्यर्थः। नीलमिति च विजानातीति अस्यार्थस्येदं नामेति विजानाति। एक आश्रयप्रमावित इति प्रथम आश्रयेण प्रभावितः प्रतिघाश्रयः संस्पर्शः प्रतिघस्य वा संस्पर्शः प्रतिघसंस्पर्शः। आलम्वनप्रभावितः इति। अधिवचनादालम्बनसंस्पर्शः। अधिवचने वा संस्पर्शः अधिवचनसंस्पर्श इति। वचनमधिकृत्येति। वचनमवधार्य। अर्थेषु रूपादिषु मनोविज्ञानस्य प्रवृत्तिः। न पञ्चानां चक्षुर्विज्ञानादीनां वचनमधिकृत्यार्थेषु प्रवृत्तिः। अतस्तदेवाधिवचनं मनोविज्ञानं वचने प्रवर्ततेऽधिवचनमिति। तेन सम्प्रयुक्तस्तस्य वा संस्पर्शस्याधिवचनसंस्पर्शः तेन चायं द्वितीयः संस्पर्शः सम्प्रयोगप्रभावित इत्युच्यते।। ३०।।

[ विद्याविद्येतरस्पर्शा अमलक्लिष्टशोषिताः।
व्यापादानुनयस्पर्शै सुखवेद्यादयस्त्रयः।। ३१।। ]

विद्याविद्येतरस्पर्शाः

इति विद्या अविद्या इतरश्च विद्याविद्येतरे। त एव स्पर्शा विद्याविद्येतरस्पर्शाः। विद्या चाविद्या चेति विद्याह्वः अविद्याह्वः ताभ्यामितरेश्चेत्यर्थः। विद्येत्यनास्रवा प्रज्ञा अविद्या क्लिष्टमज्ञानम्। नैवविद्यानाविद्या कुशलसास्रवा प्रज्ञा तत् संप्रयुक्ता अभीक्ष्णसमुदाचारी नित्यसमुदाचारी एकदेशः। तस्य ग्रहणाद् द्वौ स्पर्शै भवतः

व्यापादानुनयस्पर्शै सुखवेद्यादयस्त्रयः

इति सुखस्य वेदः सुखवेदे साधुः सौखवेद्यः सुखं वा वेद्यमस्मिन्निति सुखवेद्यः स आदिरेपामिति सुखवेद्यादयः। सुखवेदनादिहित्वादिति सुखवेदनादौ हितः सुखवेदनीयः प्रकक्रीताच्छः। वेद्यते तद्वेदयितुं वा शक्यमिति वेद्यत इति कमैमात्रे कृत्य इति दर्शयति। वेदयितु शक्यमिति अर्हे कृत्यतृचश्चेत्स्मिन्नर्थे कृत्य इति दर्शयति। त एते षोडशेति चक्षुःसंस्पर्शो यावन्मनः संस्पर्श इति षट्। पुनः प्रतिघसंस्पर्शोऽधिवचनसंस्पर्शो विद्यासंस्पर्शोऽविद्यासंस्पर्शो नैवविद्यानाविद्यासंस्पर्शो व्यापादसंस्पर्शोऽनुनयसंस्पर्शः सुखवेदनीयो दूःखवेदनीयोऽदुःखासुखवेदनीयश्च स्पर्श इति षोडश।। ३१।।

उक्तः स्पर्शो वेदना वक्तव्येति। ननु च वेदनाप्युक्ता

वेदनानुभवः

इति। अन्यथोक्तमप्युच्यते। न तर्हीदं वक्तव्यं यच्चोक्त यच्च वक्ष्यमाणम् तन्न वक्ष्यामीटि

उक्त च वक्ष्यते चान्यत्

इति वचनात् प्रकारनिर्देशाददोषः। पुर्व लक्षणमुक्त इदानीं प्रकार इति ।

[ तज्जाः षड्वेदनाः पञ्च कायिकी चैतसी परा।
पुनश्चाष्टादशविधा सा मनोपविचारतः।। ३२।। ]

जाते हीति विस्तरः। जाते हि जन्ये धर्मे धर्मस्य जनकस्य नास्ति सामर्थ्य सहोत्पन्नत्वात्। प्रतिज्ञाविशिष्टमिति प्रतिज्ञाया अविशिष्टमेतत् साधनमित्यर्थः यदि प्रतिज्ञाविशिष्टमिति प्रतिज्ञाया अविशिष्टमेतत् साधनमित्यर्थः यदि प्रतिज्ञाविशिष्टं साधनं नेष्यते अन्योन्यजनकप्रसङ्गात्तर्हि किं कथं सहोत्पन्नयोर्जन्यजनकभावः सिध्यतीत्यधिकृतम् अनेन प्रतिज्ञादोप उद्ग्राह्यते अस्ति सहोत्पन्नयोर्जन्यजनकभाव इति प्रतिज्ञा पूर्वाभ्युपगमविरोधिनीति। इष्टत्वाददोष इति। पूर्वाभ्युपगमं दर्शयति इष्टमिदं सूत्रे त्वनिष्टमिति इष्टमिदमभिधर्मे।

सहभूर्ये मिथः फ़लाः

इति। सूत्रे त्वनिष्टम्। तत् प्रतिपादयन्नाह । चक्षुः संस्पर्श प्रतीत्योत् पद्यते चक्षुःसंस्पर्शजा वेदनेति। सूत्रप्रामाण्येनान्योन्फ़लत्वं भंक्त्वा सहोत्पन्नकार्यकारणभावविभंक्षया आह जनकधर्मातिक्रमाच्चायुक्तमिति। जनकस्यायं धर्मः प्रसिद्धो या भिन्नकालता तद्यथा पूर्वं बीजं पश्चादङ्कुर इत्यादि तत्रापि पूर्वमिन्द्रियार्थो पश्चाद्विज्ञानमिति प्रथमक्षणोत्पन्नाविन्द्रियार्थो विज्ञानं तु द्वितीये क्ष्ण इति यथा तर्हि छायाङ्कुरयोरिति। किम् सहोत्पन्नयोर्जन्यजनकभावः। उत्पन्न एव ह्यङ्कुरश्छायां जनयति। न प्रथमे क्षनेऽङ्कुरो निश्छायो भवति द्वितीये सच्छाय इति। एवं स्पर्शवेदनयोरपीति अनयोरपि छायाङ्करयोः पूर्वसामग्रीहेतुरिति शक्यं वक्तुम्। सहभूहेतुनिर्देशे त्वयमर्थ उक्त इति न पुनरूच्यते।

स्पर्शादुत्तरकालं वेदनेत्यपर इति भदन्तश्रीलाभः। सोऽसौ त्रयाणां सन्नियातः स्पर्श इति। योऽयं जनकजनितभावः। वेदनातृतीये क्षणे इति इन्द्रियार्थक्षणः प्रथमः विज्ञानोत्पत्तिक्षणो द्वितीयो वेदनोत्पत्तिक्षणस्तृतीय इति। न सर्वत्र विज्ञाने वेदना प्राप्नोतीति। विज्ञानक्षणे द्वितीये वेदनाया अभावात्। न च सर्वविज्ञानं स्पर्शः वेदनाक्षणे तृतीये विज्ञानं न स्पर्शः। पूर्वद्वितीयक्षणयोः स्पर्श एव विधीयते। पूर्वस्पर्शहेतुका ह्युत्तरत्न स्पर्श वेदना योऽयमिदानीं द्वितीयः क्षणः स्पर्शभावेनोक्तस्तत्र पूर्वस्पर्शहेतुका प्रथमक्षणविज्ञानहेतुका वेदनोत्पद्यते। तत् स्पर्शपूर्विकाऽप्यन्यस्मिन्नित्येवं सर्वत्र विज्ञाने वेदना प्राप्नोति। सर्व च विज्ञानं स्पर्श इति ते च स्पर्शाः सवेदनका इति। भिन्नलम्बन योरिति विस्तरः। भिन्नमालम्बनमनयोस्तौ भिन्नलम्बनौ। पूर्वस्य रूपमालम्बनमुत्तरस्य शब्दः। तयोर्भिन्नालम्बनयोः पुर्वस्पर्शहेतुका रूपालम्बनस्पर्शहेतुका उत्तरत्र स्पर्शेशब्दालम्बने यद् वेदनोत्पद्यते इत्येतदयुक्तम्। कथं हि नामेति दोषमाविष्करोति अन्यजातीयालम्बनस्पर्शा सम्भूता रूपप्रकारलम्बनात् स्पर्शात् सम्भूता वेदना अन्यालम्बना भविष्यति शब्दालम्बना भविष्य्तति। विधुरकारणत्वात् कार्यस्यासम्भावना। यदा हि रूपालम्बनात् स्पर्शात् सम्भूता वेदना रूपालम्बनेन वेदना भविष्यति तदा पूर्वस्पर्शहेतुकोत्तरत्र स्पर्शे वेदनेति युक्तम् यदा तु रूपालम्बनात् स्पर्शात् शब्दालम्बना वेदनोत्पद्यते तदा कथनेतद्योक्ष्यते। कारनानुरूपं हि लोके कार्यदृश्यते। अथ मतम् रूपालम्बनात् स्पर्शात् सम्भूता वेदना शब्दालम्वनस्पर्श संप्रयुक्तापि रूपालम्बना भवतीति । अत इदमाह येन वा चित्तेनसम्प्रयुक्ता ततो भिन्नालम्बनेति। ततः शब्दालम्बनाच्चित्ताद्भिन्नलम्बना यत उत्पन्ना रूपालम्बना तेन समालम्बनेत्यर्थः। कथं चासौ तेन सम्प्रयुक्तेत्युच्यते समं प्रयुक्ता हि सम्प्रयुक्ता। यद्यभिन्नाश्रयत्वात् कथं श्रोत्राश्रयोत्पन्ना सती रूपालम्बना भविष्यति। कथं न भविष्यति चित्तचैत्तानामाश्रयेणैकविषयप्रवृत्तत्वात्। तस्मादन्यतरालम्बनत्वेऽपि वेदनाया दोषः। स दोषः प्रदर्शयते यदि तावत् रूपालम्बनात् स्पर्शादुत्पन्ना वेदना शब्दाद्यालम्बनान्तरभालन्बते। स रूपालम्वनः स्पर्शः सुखवेदनीयो यावत् दुःखसुखवेदनीय इति न प्रप्नोति। एकालम्बनय तु वेदनया तथा निर्देशो युक्त इति। अस्तु तर्हीति विस्तरः। यद्येवं दोपोऽस्तु तर्हि तस्मिन् काले। कस्मिन् काले शब्दालम्वनकाले। स्पर्शभूतं विग़्यानमवेदनकम्। तस्माच्च  शब्दालम्बनद् यत् पूर्व विज्ञानं सवेदनकं तन्न स्पर्शः। एवं हि निर्दोषं भवतीति। अन्यथा हि यदि पूर्वोत्पन्नं सवेदनकं विज्ञानं स्पर्शः स्यात् तदैवं स्पर्शप्रत्यया वेदनेति यथोक्तो दोषः स्यात्। किं पुनः कारणम् किञ्चिद्विज्ञानमवेदनकम् किञ्चिच्च न स्पर्शः प्रत्ययवैधुर्यात्। विधुरा हि प्रत्यया विप्रतिबन्धेनावस्थिताः। न हि सर्वः समनन्तरप्रत्ययो वेदनाप्रत्ययं स्परशभूतं विज्ञानं जनयितुं समर्थ इति। तदेवं तस्य भिन्नलाम्बनं विज्ञानमेकान्तेनावेदनकम् तदुत्पादकं चास्पर्शभूतम्। यदि तु रूपालम्बनाच्चक्षुर्विज्ञानादनन्तरं रूपालम्बनमेव चक्षुर्विज्ञानमेवमुत्पद्यते मनोविज्ञानं तत् सवेदनकं पुर्वोत्पन्नं स्पर्श इति। एवं सतीति। महाभूमिकनियमो भिद्यत इति स्पर्शवेदनयोः पर्यायेण नियमात्। तिस्रो भूमय इति। सवितर्का सविचारा कामधातुः प्रथमं च ध्यानम्। अवितर्का विचारमात्रा ध्यानान्तरम्। अवितर्का अविचारा द्वितीयाद्धयानात् प्रभृति यावद्भवाग्रम्। कुशला भूमिः कुश्ला धर्माः। एवमकुशला अव्याकृताः। शैक्षी भूमिः शक्षस्यानास्रवा धर्माः। अशैक्षी अशैक्षस्यानास्रवा धर्माः। नैवशैक्षीनाशैक्षी भूमिः सास्रवा धर्माः। असंस्कृता इह नोच्यन्ते चैतसम्बन्धात्। तद् य एतस्यामिति विस्तरः। तदिति वाक्योपन्यासे य इति ये चैतसिकाः। एतस्यां सर्वस्यां भूमाविति सवितर्कसविचारां भूमौ यावन्नैवशैक्षीनाशैक्षां भूमौ। ते महाभूमिकाः वेदनाचेतनादयो यथोक्ताः। ये कुशलायामेव भूमौ ते कुशलमहाभूमिकाः श्रद्धादयः। ये क्लिष्टायमेव ते क्लेशमहाभूमिका अविद्यादयो यथोक्ता एव। ते पुनर्यथासम्भवमिति विसत्रः। ते पुनर्महाभूमिकादयो ये यस्यां सम्भवन्ति ते तस्यां पर्यायेन। न तु सर्व युगदित्यपरे तद् यथा वेदना सर्वासु भूमिषु भवन्त्यपि न युगपत् संज्ञाचेतनास्पर्शमनस्कारादिभिर्भवति तथा स्पर्शो वेदनादिभिः। तथा कुह्स्लायां वितर्कादय इत्येवमादिकम्। अपरे पुनरेवं व्याचक्षते यथा पञ्चस्कन्धके लिखितं तथदं ग्रहीतव्यमिति। तद्यथा छन्दः कतमः अभिप्रेतवस्तुन्यभिलाषः अनभिप्रेते नास्ति छन्द इत्यभिप्रायः। अधिमोक्षः कतमः निश्चिते वस्तुनि तथैवावधारणम्। रमॄतिः कतमा संस्तुते वस्तुन्यसम्प्रमोषश्चेतसोऽभिलपनता। समाधिः कतमः उपपरीक्ष्यते वस्तुनि चित्तस्यैकाग्रता। प्रज्ञा कतमा तत्रैव प्रविचयो योगायोगविहितोऽन्यथा च। इत्येवमादिः पञ्चस्कन्धकग्रन्थो द्रष्टव्यः। तत्र ह्युक्त पञ्च सर्वत्रगा वेदनासंज्ञास्पर्शमनस्कारचेतनाः। पञ्च प्रतिनियतविषयायाश्छन्दाधिमोक्षस्मृतिसमाधिप्रज्ञा इत्येवमादि। अकुशलमहाभूमिकास्तु पाठप्रसङ्गेनासंहिता इति सूत्रादिषु पाठात्। कुशलमकुशलव्याकृतमित्येवं पाठप्रसङ्गेनासंहिताः अध्यारोपिता पश्चादित्यर्थः। पूर्वं न पठ्यन्ते स्म प्रकरणपादे महाभूमिकाः कुशलमहाभूमिकाः क्तेशकुशलमहाभूमिकाः परीत्तक्तेशमहाभूमिकाश्चेति चतुर्विधाः पठ्यन्ते। सहजाता इत्युच्यन्ते न स्पर्शसहजाता इति। अविशेषितत्वादेते वेदनादयः परस्परसहजाताः। न तु स्पर्शेनत्यर्थपरिग्रहेण परिहर्तव्यं सूत्रमित्यर्थः।  मैत्रीसहगतमिति अयं सहशब्दो नावश्यं युगपद्भावे समनन्तरेऽपि दृष्टः। न हि मैत्रयाः स्मृतिसम्बोध्यङ्गस्य च समवधानमस्ति मैत्रया एकान्तसास्रवत्वा स्मृतिसम्बोध्यङ्गस्य चैकान्तानास्रवत्वात्। तस्मादज्ञापकमेतत्। संसृष्टा इति सहोत्पन्ना इत्यभिप्रायः। तत्र हि सूत्र हि। यत्रैवोक्तम्। या वेदान या चेतना या च संज्ञेति विस्तरेण तत्र सूत्र इत्यर्थः। तनन् विज्ञायत इति विस्तरः। किं तवादयमेषां वेदनादीनामालम्बननियमः। आलम्बने नियमः। यदेवालम्बनं वेदक्ष्यते तदेव चेतयते यावद्विज्ञानं विजानातीति। वयं ब्रूमः आलम्बननियमोऽयमिति। तस्मान्न सूत्रविरोध इत्यभिप्रायः। आचार्य आह तत्रैव सूत्रे आयुरूष्मणोः सहभाव्ये संसृष्टवचनात् सिद्धः क्षणनियम इति। आय्रूष्मा च संसृष्टौ इमौ धर्मौ न विसंसृष्टावित्यायुरूष्मणोः सहोत्पन्नतोक्ता भवति तयोरनालम्बनत्वात्। तदेवं साधितं भवति अवश्यं सहोत्पन्नानि वेदनासंज्ञाचेतनाविज्ञाननै तत्र सूत्रे संसृष्टावचनेनोक्तत्वात् आयुरूष्मवदिति। तत् कथमिति विस्तरः। तत् कथं विज्ञानं चास्ति। न च त्रयाणामिन्द्रियविषयविज्ञानानां सन्निपातः तस्मादवश्यं विज्ञानास्तित्वे सन्निपातोऽभ्युपगन्तव्यः। सन्निपातश्च ते स्पर्शे इति तेनेदं ते विरूध्यते न सर्वविज्ञानं स्पर्श इति सन्निपातो वा न स्पर्श इति।

पुनः सन्धिकरणं चात्र द्रष्टव्यमिति। पूर्वत्रासिद्धमिति सकारलोपस्यासिद्धत्वात् गुणो न प्राप्नोति। परिहारस्तु ईषदर्थेऽयं नञ् द्रष्टव्यः। ईषत्सिद्धमसिद्धमित्यतः सिद्धत्वात् सकारलोपस्य गुणो भवति सैष दशरथी राम इति यथा। षट्सौमनस्योपविचारा इति विस्तरः। चक्षुषा रूपाणि दृष्टा सौमनस्यस्थानीयानि रूपाण्युपविचरति श्रोत्रेण शब्दान् श्रुत्वा सौमनस्यस्थानीयान् शब्दानुपविचरति एवं यावन्मनसा धर्मान् विज्ञाय सोमनस्यस्थानीयान् धर्मान् उपविचरति एवं चक्षुषा रूपाणि दृष्टा दौर्मनस्यस्थानीयान्युपेक्षास्थानीयानि चेति विस्तरेन योज्यम्। त्रयो भविष्यन्तीति सौमनस्यदौर्मनस्योपेक्षास्वभावत्रैविध्यात्। एक इति मनोविज्ञानमात्रसम्प्रयोगात्। पडिति रूपादिविषयषट्कभेदात्। त्रिभिरपि स्थापनेति। यद्वेदनाद्रव्यं मनोविज्ञानमात्रसम्प्रयुक्तमेकम् तत् सौमनस्यादिस्वभावत्रयभेदात्रिधा भिद्यते। तत् पुनः प्रत्येकं विपयषट्कभेदात् षोदा भिद्यते इत्यष्टादश भवन्ति स्वभावव्यवस्थापनायामसत्यां सौमनस्यदौर्मनस्योपेक्षोपविचारा इति न स्यात्। सम्प्रयोगव्यवस्थापनायामसत्यां मनोपवोचरा इत्येव न स्यादष्टादशव्यतिरिक्ताश्च स्युः रूपादिविषयषट्कालम्वनव्यवस्थापनायामसत्यां प्रत्येकं सौमनस्यादिषोदाभेदेनाष्टादश मनोपरिचारा इति न स्यात्। तस्मात्रिभिरपि व्यवस्थापनेति सिद्धम्। असम्भिन्नालम्बना इति असम्मिश्रालम्बनाः। त्रयो धर्मोपविचारा उभयथेति ये रूआदिविषयपञ्चकव्यतिरिक्तधर्मालम्बनास्ते धर्मोपविचारा असम्भिन्नालम्बनाः। ये तु रूपादीनां षण्णां विषयाणां द्वौ त्रीन् यावत् षडपि विषयानालम्बन्ते ते सम्भिन्नालम्बनाः।

मनः किलेति। किलशब्दः परमतद्योतकः मनः किल प्रतीत्याश्रित्य विषयानुपविचरन्त्यालम्बन्त इत्यर्थः उपविचारयन्तीति प्रवर्तयन्ति। कथमित्याह वेदनावशेन मनसो विषयेषु पुनः पुनर्विचारणादिति पुनःपुनरित्यपशब्दस्यार्थ। नाप्युपविचारिकेति असन्तीरिकेत्यर्थ अयोग इत्यसम्भवः। यदि मन एवाश्रिता वेदना मनोपविचारः तृतीये ध्याने यत् सुखं तन्मन एवाश्रितम्। न चक्षुरिन्द्रियाद्याश्रितमिति तस्य कस्मान्मनोप विचारेष्वग्रहणम् आदितः किलेति व्सिताः आदावादितः किलेति परमते कामधातौ मनोभूमिकं सुखं नास्ति तस्मान्न तन्मनोपविचारः। अतः पश्चादपि तृतीये ध्याने सुखेन्द्रियस्य मन आश्रितत्वेऽपि मनोपविचारेष्वग्रहणम्। यथा चास्योपविचारस्य प्रतिद्वन्द्वेन दरुमनस्योपविचारः नैवं सुखोपविचारस्य प्रतिद्वन्द्वेन दुःखोपविचारोऽस्ति मनोविज्ञानाश्रित्वाद्दुःखस्य। अतः सर्वत्र तत् सुखं न मनोपविचार इति।

सौमनस्यस्थानीयानीति सौमनस्यजनकानि। पञ्चेति विस्तरः। पञ्चभिर्विज्ञानकायैरभिनिर्हृतत्वमुत्पादितत्वमभिसन्धाय चेतसिकृत्वा एतदुक्त चक्षुषा रूपाणीति विस्तरेण मनो भूमिकास्त्वेते तद् यथा अशुभा च समाहितत्वात् अपि त्विति चक्षुषा रूपाणि दृष्टा यावत् कायेन स्प्रष्टव्यानि स्पृष्टेति वचनादचोद्यमेतत् यदि चक्षुषा रूपाणि पश्यन् सौमनस्यस्थानीयानि रूपाण्युपविचरतीत्युक्त स्यात् यावत् कायेन स्प्रश्टव्यानि स्पृशन्निति। स्याच्चोद्यम् न त्वेवमुक्तमित्यचोद्यमेवैतत्। योऽप्यदृष्टेति विस्तरः। योऽपि श्रुत्वा परतो मनसोपविचरत्यालम्बते तेऽपि तस्य मनोपविचाराः। इतरथा हीति विस्तरः। रूपधात्वालम्बना रूपाद्युपविचारा न स्युः। कामधातूपपन्नेन रूपावचराणां रूपादीनामप्रत्यक्षीकृतत्वात्। कामधात्वालम्बनाश्च गन्धरसस्प्रष्टव्योपविचारा रूपधातूपपन्नस्य न स्युः। तस्य गन्धादीनाम विषयत्वात्। यथा तु व्यक्ततरं तथोक्तमिति प्रत्यक्षीकॄतरूपाद्यालम्बानानां मनोपरिचाराणां व्यक्ततरत्वात्। योऽपि रूपाणि दृष्टा तत्सहचराञ्छब्दा नुपविचरति सोऽपि तस्य मनोपविचारः यथा त्वनाकुलं तथोक्तम्। कथ चानाकुलमित्याह इन्द्रियार्थव्यवच्छेदत इति। चक्षुरादीन्द्रियव्यवच्छेदेन रूपाद्यर्थव्यवच्छेदेन चोक्तमिति। अन्यथा ह्याकुलं स्यात्। चक्षुषा रूपाणि दृष्टा सौमनस्यस्थानीयाञ् छब्दानुपविचरतीत्येवमादि। अस्ति सन्तानं नियम्येति कस्यचित् सत्त्वस्य सन्तानमवेक्ष्य। यदस्य किञ्चित् सौमनस्यस्थानीयमेव यावदुपेक्षास्थानीयमेव। न त्वालम्बनम्। किम् नियम्य। किम् कारणम् तदेव ह्यालम्बनम् कस्यचित् सौमनस्यस्थानीयम् कस्यचिन्नेति।। ३२।।

[ कामे स्वालम्बनाः सर्वे रूपी द्वादशगोचरः।
त्रयाणामुत्तरो ध्यानद्वये द्वादश कामगाः।। ३३।।]

एवं यावदारूप्यप्रतिसंयुक्ता इति। कति रूपप्रतिसंयुक्ताः तेषां च कति रूपालम्बनाः कत्यारूप्यप्रतिसंयुक्तास्तेषां च कति किमालम्बना इति।

कामे स्वालम्बनाः सर्वे

इति कामे कामावचरा मनोपविचोराः। सर्वेऽष्टादश सन्ति। स एव च कामधातुस्तेषां सर्वेषामालम्बनम्। स्वो धातुरालम्बनमेषामिति स्वालम्बना इति कारिकापदविग्रहः।

रूपी द्वादशगोचरः

इति रूपी धातुः कामावचराणां द्वादशातां मनोपविचाराणां गोचरः। षड्गन्धरसोपविचारानपास्येति। द्वौ गन्धरसावालम्बनौ सौमनस्योपविचारौ हित्वा द्वौ गन्धरसालम्बनौ दौर्मनस्योपविचारौ हित्वा द्वौ तदालम्बनावेव चोपेक्षोपविचारौ हित्वेति। कस्मात् तत्र रूपधातौ तयोर्गन्धरसयोरभावात्।

विना गन्धरसघ्राणजिह्वाविज्ञानधातुभिः

इति वचनात्।

त्रयाणामुत्तरः

इति त्रयाणां सौमनस्यदौर्मनस्योपेक्षाधर्मोपविचाराणां कामावचराणामुत्तरो धातुरारूप्यधातुरालम्बनम् तत्र रूपाद्यभावात्।

ध्यानद्वये द्वादश

इति। दौर्मनस्योपविचाराणां पण्णामभावात्।। ३३ ।।

[ स्वोऽप्टालम्वनमारूप्यं द्वयोर्ध्यानद्वये तु षट्।
कामः षण्णां चतुर्णां स्व एकस्यालम्बनं परः।। ३४।। ]

स्वोऽष्टालम्बनञ्

इति। अष्टानामालम्बनमष्टालम्वनम्। गन्धरसोपविचारांश्चतुरो हित्वेति। सौमनस्योपेक्षोपविचारौ गन्धालम्बनौ द्वौ रसालम्बनौ च द्वौ हित्वेत्यर्थः तत्र तयोरभावात्।

आरूप्य द्वयोः

इति। सौमनस्योक्षाधर्मोपविचारयोः। प्रथमद्वितीयध्यानभूमिकयोरारूप्य धातुरालम्वनम् रूपाद्यभावात्। षडुपेक्षोपविचारा एव सन्ति नान्य इति। रूपशब्दगन्धरसस्प्रष्टव्यधर्मालम्बना उपेक्षोपविचारा एव सन्ति। सौमनस्योपविचाराणामपि तृतीये चतुर्थे चाभावात्। गन्धरसालम्बनौ तु तत्र कामावचरगन्धरसालम्बनावित्यवगन्तव्यम्।। ३४॥

[ चत्वारोऽरूपिसामन्ते रूपगा एक ऊर्ध्वगः।
एको मौले स्वविषयः सर्वेऽष्टादश सास्रवाः।। ३५।।

तत्र चत्वार इति। आकाशानन्त्यायतनसामन्तकानन्तर्यमार्गस्य चतुर्थध्यानालम्वनत्वात्। तत्र च रूपशब्दस्प्रष्टव्यधर्मसद्भावात्। येषां तद्वयवच्छिन्नता लम्बनमस्तीति। येषामाचार्याणां मतेन तदाकाशनन्त्यायतनसामन्तकं व्यवच्छिन्नालम्बनं पृथक् पृथग्रपाद्यालम्वनमसमस्तालम्बनमित्यर्थः। औदारीकादिभिराकारैस्तच्चतुर्थध्यानमालम्बत इत्येकेषामाचार्याणां मतम्। येषामाचार्याणां मतेन परिपिण्डितालम्बनमेव तदाकशानन्त्यायतनसामन्तकं चतुर्थ्ध्यानभूमिकस्कन्धपञ्चकालम्बनमिति मतम् तेषामाचार्याणां तत्रैक एव सम्मिश्रालम्बन्पो धर्मोपविचार इति।

एक ऊर्ध्वगः

इति केषां पक्षे येषाम्

चत्वारोऽरूपिसामन्ते

इति पक्षः। न हि मोलानामिति विस्तरः। मौलानामारूप्याणामधरो धातुर्नालन्बनमधरभूमिकं सास्रवं वस्तु नालम्बनमित्यर्थः। पश्चात् प्रवेदयिष्यामीति।

न मौलाः कुशलारूप्याः सास्रवाधरगोचराः

इति।

प्रथमेति विस्तरः। प्रथमद्वितीयध्यानभूमिकैरष्टाभिः समन्वागतस्तृतीयचतुर्थध्यानभूमिकश्चैतुर्भिः। कतमैरित्याह। क्लिष्टैः गन्धरसालम्बनात् पर्युदस्य तत्र गन्धरसाभावात्। कथम् प्रथमद्वितीययोर्धानयोर्द्वादशोपविचाराः सन्तीत्युक्तम्। सौमनस्योपेक्षोपविचाराणाम्
षड्विषयालम्बनव्यवस्थापनात्। तत्र स्वभूम्यालम्बना रूपशब्दस्प्रष्टव्यधर्मालम्बनाः सौमनस्योपविचाराश्चत्वारः क्लिष्टाः। ये चोपेक्षोपविचाराः क्लिष्टा एव चत्वारः तैः कामधातूपपन्नो रूपावचरकुशलालाभी समन्वागतः। अधरभूम्युपपन्नो ह्यूर्ध्वभूमिकैः क्लिष्टैः समन्वागतो भवति न तु विशिष्टैश्चतुर्भिगन्धरसालम्बनैः तेषामक्लिष्टत्वात् रूपावचरकुशलालाभित्वाच्च। नास्त्यक्लिष्टरूपावचरधर्मलाभ इति न तैः समन्वागतः। तृतीयचतुर्थध्यानभूमिका अपि षडेवोपेक्षपविचारा उक्ताः  तेषां ये स्वभूम्यालम्बनाः क्लिष्टा तैः समन्वागत् स्तथा यौ तु गन्धरसालमबनौ न तौ क्लिष्टौ। अतः पूर्वोक्तेनैव न्यायेन न ताभ्यां समन्वागतः। क्लिष्टेनैवेति नाक्लिष्टेन कुशलस्याभावात्। लाभी रूपावचंरस्येति विस्तरः। कामधातूपपन्न एव लाभी रूपबचरस्य कुशलस्य चित्तस्यानागम्यसंगृहीतस्यावीतरागः कामधातोः सर्वै कामावचरैरष्टादशभिरपि समन्वागतः। प्रथमध्यानभूमिकैर्दशभिरिति। कथं दशभिरित्याह सौमनस्योपविचारैः क्लिष्टैर्गन्धरसालम्बनावापास्येति सौमनस्योपविचाराः सामान्तकेषु न भवन्ति सामान्तकानामुपेक्षेन्द्रियसम्प्रयोगित्वात्। अतो मौलसंगृहीतैरेव सौमनस्योपविचारैः क्लिष्टैः स्वभूम्यालम्बनैश्चतुर्भिः समन्वागतः न तु गन्धरसालम्बनाभ्यां मौलकुशलालाभेनाक्लिष्टलाभाभावात्। न हि क्लिष्ट धयानमधरालम्बनमस्ति। षड्भिरूपेक्षोपविचारैरनागम्यभूमिकैरिति। अत्राविशेषाभिधानादुपेक्षोपविचारैः क्लिष्टैरपि चतुर्भिः समन्वागतः सामन्तकसंगृहीतैः षड्भिश्चोपेक्षोपविचारैः कुशलैः कामधात्वालम्वनैः स्वभूम्यालम्बनैरपि। द्वितीयतृतीयचतुर्थध्यानारूप्यजैः पूर्ववदिति। कथम्। स एव कामधातूपपन्नो लाभी रूपावचरस्य कुशलस्य चित्तस्यावीतरागो द्वितीयध्यानभूमिकैरष्टाभिर्यरेवालाभी गन्धरसालम्बनानापास्य। तृतीयचतुर्थध्यानभूमिश्चैतुर्भिः क्लिष्टैरेव गन्धरसालम्बनौ पर्युदस्यारूप्या वचरेणैकेन क्लिष्टेनैव। अन्या वर्तन्या मार्गेण शेषमनुगन्तव्यम्। कथम् प्रथमध्यानोपपन्नो द्वितीयध्यानभूमिकस्य कुशलस्य चित्तस्यालाभी प्रथमध्यानभूमिकैः सर्वैः समन्वागतः। द्वितीयध्यानभूमिकस्य कुशलचित्तस्य तद्भम्यवीतरागः सर्वैः प्रथमध्यानभूमिकैः द्वितीयध्यानभूमिकैरष्टाभिः। चतुर्भिः सौमनस्योपविचारैः क्लिष्टैः गन्धरसालम्बनावपास्य। चतुर्भिश्चोपेक्षोपविचारैर्द्वितीयध्यानसामन्तकसंगृहीतः। तृतीयध्यानन्भूमिकसिह्चतुर्भिः क्लिष्टैः गन्धरसालम्बनौ पर्युदस्य। एवं चतुर्थध्यानभूमिकरारूप्यवाचरेणैकेन क्लिष्टेनैव। द्वितीयध्यानोपपन्नस्तृतीयध्यानभूमिकस्य कुशलस्य चित्तस्यालाभी द्वितीयध्यानभूमिकैः सर्वैः समन्वागतः तृतीयध्यानभूमिकसिह्चतुर्भिः क्लिष्टैः। चतुर्थध्यानारूप्यजैः पूर्ववत्। लाभी तृतीयध्यानभूमिकस्य कुशलस्चित्तस्य तद्भूम्यवोतरागः सर्वैद्वितीयध्यानभूमिकैः। तृतीयध्यानभूमिकैश्चतुर्भिरूपेक्षिपविचारैः क्लिष्तैर्गन्धरसालम्बनवपास्य। चतुर्भिश्चोपेक्षोपविचारैस्तृतीयध्यानसामन्तकसंगृहीतैश्चतुर्थधायानरूप्यजैः पूर्ववत्। एषा दिक्। अनया दिशा दिसहा तृतीया दिष्वपि ध्यानेषूपपन्नस्य योज्यः। उपेक्षाधर्मोपविचारेणेति कामावचरस्य निर्माणचित्तस्योपेक्षासम्प्रयोगित्वात्।

अपर आहेति अयमेव शास्त्रकारः। न हि यो यस्मादिति विस्तरः। यः पुद्गलः यस्माद्रूपादेर्वीतरागो न स तद्रूपाद्यालम्बनमुपविचरति। कथमुपविचरति तत्रानुनीयते वा प्रतिहन्यते वा अप्रतिसंख्याय वोपेक्षत इत्येवम्। यदा प्रतिसंख्यायोपेक्षते नाभुजति तदाकुशलत्वम् अतोऽप्रतिसंख्यायेति विशेषणम्। अतः सास्रवा अपि न सर्वे किं तर्हि सांक्लेशिकाः। संक्लेशे भवाः सांक्लेशिताः संक्लेशानुकूलाः यैः सौमनस्यादिभिर्मनो विषयानुविचरति। येषां प्रतिपक्षेण षट् सातता विहारा इति। येषां सांक्लेशिकानां प्रतिव्यूहेन सततं भवाः सातता विहारा योगविशेषा भवन्ति ते च षट्। कथमित्याह चक्षुषा रूपाणि दृष्ट। नैव समुना भवति नानुनीयते। न दुर्मना न प्रतिहन्यते। उपेक्षको भवति नाभुजति। कथं नाभुजति किमप्रतिसंख्यायाहोस्वित् प्रतिसंख्यायेति। विशेषयन्नाह स्मृतिमान् सम्प्रजानान्निति स्मृतिसम्प्रयुक्तया प्रज्ञया प्रतिसमीक्ष्यमाण इत्यर्थः। एवं यावन्मनसा धर्मान् विज्ञयेति। विषयषट्कभेदात् षट् सातता इति। न ह्यर्हत इति विस्तरः। अर्हतो लौकिकं कुशलं सास्रवं धर्मालम्बनं धर्मायतनालम्बनमधिगमधर्मालम्बनं वा सौमनस्यमस्ति तस्य हि बुद्धसान् तानिकान् गुणान् सम्मुखीकुर्वतः। कुशलं सौमनस्यमुत्पद्यते। न तस्यैव प्रतिषेधो युज्यते। कस्य तर्हि यत्तु तत् सांक्लेशिकं मनस उपविचारभूतम्। तस्यैष प्रतिषेधो लक्ष्यते। तस्मात् सास्रवा अपि न सर्वे सौमनस्यादय उपविचारा इति। अत्र भदन्तानन्तवर्माह अयुक्तमेतत् कस्मात् सूत्रेऽन्यथा निर्देशात्। सूत्रे हि भगवता न सांक्लेशिका एवोपविचारा उक्ताः। एवं ह्याह तत्र भिक्षवो य इमे षट् सौमनस्योपविचारास्तानाश्रित्य तान् प्रतिष्ठाय य इमे षट् सौमनस्योपविचारास्तान् प्रजहीत तत्र भिक्षवो य इमे षडुपेक्षोपविचारास्तानाश्रित्य तान् प्रतिष्ठाय य इमे षडुपेक्षोपविचारास्तानाश्रित्य तान् प्रतिष्ठाय य इमे षडुपेक्षोपविचारास्तान् प्रजहीत। द्वे भिक्षवो उपेक्षे नानात्वसन्निश्रिता एकत्वसन्निश्रिता च। तत्र भिक्षवो येयमेकत्वसन्निश्रितोपेक्षा तामागम्य तामधिष्ठाय येयं नानात्वसन्निश्रितोपेक्षा तां प्रजहीतेति। एतस्मात् सूत्राजज्ञायते न सांक्लेशिका एव सौमनस्यादय उपविचारा इति। तदेतज्ज्ञापकम् प्रहाणवचनेऽपि सांक्लेशिकत्वाविनिवृत्तेः। न हीतरेणेतरस्य सन्निश्रयप्रहाणवचनेऽपि सत्येषां मनोपविचारानां सांक्लेशिकत्वं विनिवर्तते अन्यथासम्भवात्। एवमाह मानं निश्रित्य मान एव प्रहातव्य इति। न तु जातु क्वचिन्मानो व्यवदानिकः सम्भवति। तस्मात् क्लेशानां परस्परविरोधेन वृत्तेर्वॄत्त्यन्तरस्य चापेक्षया गुणवत्त्वात् गुरूलाघवभिसन्धाय सूत्रे वचनाददोषः। नन्दादयोऽत्र निदर्शनम्। अतश्चैतदेवं यदुपेक्षोपविचाराणामुपेक्षोपविचारानेव प्रहाणाय सन्निश्रयत्वेन दिदेश भगवान् द्वे भिक्षव उपेक्षे इत्यादिवचनात्। ननु च गर्धाश्रितनैष्क्रम्याश्रितभेदेन षट्त्रिंशच्छास्तृपदानीति वचनात्  सिद्धमेषां सांक्लेशिकव्यवदानिकत्वं वैभाषिकमतानुसारात्। अदोषः आचार्यस्यापि मनोपविचारव्यतिरिक्तास्तत्र सौमनस्यादयः सन्ति। पुनस्त एवेति विस्तरः। त एवाष्टादशोपविचाराः केचिद् भवाश्रिता अभिष्वङ्गाश्रिताः केचिन्नैष्क्रम्याश्रिताः। नैष्क्रम्यं निष्क्रमभवाः संक्लेशात् संसारदूह्खाद्वा। गर्धनैष्क्रम्याश्रितभेदेन द्वावष्टादशकौ षट्त्रिंशच्छस्तृपदानि। तद्भेदस्य तेषां मनोपविचाराणां द्वुधाभेदस्य शास्त्रा बुद्धेन गमितत्वाद्देशितत्वाद् यथासूत्रम्।। ३५।।

[ उक्त च वक्ष्यते चान्यदत्र तु क्लेश इष्यते।
बीजवन्नगवन्मूलवृक्षवत्त षवत्तथा॥  ३६।।
तुषितण्डुलवत् कर्म तथैवौषधिपुष्पवत्।
सिद्धान्नपानवद्वस्तु तस्मिन् भवचतुष्टये।। ३७।।
उपपत्तिभवः क्लिष्टः सर्वक्लेशौः स्वभूमिकः।
त्रिधान्ये त्रय आरूप्येष्वाहारास्थितिकं जगत्।। ३८।। ]

क्लेशकर्मवस्तूनीति प्रज्ञापितमिति।

क्लेशास्त्रीणि द्वयं कर्म सप्त वस्तु

इति वचानात्।

एवं कर्माणि विपाकोत्पत्ताविति। आसन्न कारणमित्यधिकृतम्। क्लेशोऽपि हि कारणं विपाकस्य तत्तु विरकृष्टम्।

ते च व्याख्याता इति।

मृत्यूपपत्तिभवयोरन्तराभवतीह यः
स पुनर्मण्णात् पूर्वमुपपत्तिक्षणात् परः

इति वचनाद्वयाख्याताः। न पर्यवस्थानैः स्वतन्त्रैरिति ईर्षामात्सर्यकोधम्रक्षैः स्वातन्त्रयमेषाम्। अविद्यानिर्मुक्तैरन्यक्लेशैरसम्ग्रयोगात्। अविद्या हि सर्वत्रैव विद्यत इति न तत्संप्रयोगेनास्वातन्त्रयम् ऽह्रीक्यादिभिस्त्वन्यक्लेशसम्प्रयुक्तैः प्रतिसन्धिबन्धो न प्रतिषिध्यते। यद्यपि सावस्था मन्दिकेति विस्तरः। यद्यपि सा मरणावस्था मन्दिका चित्तचैत्तसमुदाचारस्यापटुत्वात्।

उपेक्षायां च्युतोद्भवौ

इति वेदनामान्द्यात्। यस्तु पुद्गलो यत्र क्लेशेऽभीक्ष्नं सततं चरितः प्रवृत्तः आसन्नश्च मरणकालस्य पुद्गलस्य तदानीं मरणकाले स एव क्लेशः समुदाचरति समुत्थाय मिथ्यादृष्ट्यादिरपि पूर्ववेधात् पूर्वाक्षेपात् पूर्वाभ्यासादित्यर्थः। अथवा योऽसौ तदानीं क्तेश उपतिष्ठते तस्य पूर्वं फ़लभावेन परिग्रहावेधात् आक्शेपात् स तदानीमुपतिष्ठत इति। कामरूपधात्वोरपरिसंख्यानात् सर्व एव चत्वारो भवाः सन्तीति। त्रय एवारूप्येषु आरूप्येष्वेव च त्रय इत्यवधारणात्। अनयोरितरयोर्धात्वोर्भवचतुष्टयं तु ज्ञातं भवति। निष्यन्दाभावादिति मूत्रपुरीषाभावादित्यर्थः। सूक्ष्माणां वा सूक्ष्मा इति। सूक्ष्माणां स सूक्ष्माहारः। बालका जातमात्राः। स्वेदजन्तुकादयो यूकादयः आदिशब्देन गर्भस्थाः।। ३६-३८।।

[ कवडीकार आहारः कामे त्रयायतनात्मकः।
न रूपायतनं तेन स्वाक्षमुक्ताननुग्रहात्।। ३९।। ]

लवडीकराहाराः

कामे इति। कामधातावेव कवडीकाराहार इत्यवधारणम्। कस्मादित्याह तद्वीतरागाणां कवडीकाराहारवीतरागाणाम्। तत्र रूपारूप्यधात्वोरूपपत्तेः। कवडीकृयाभ्यवहरणात् पिण्डीकृत्य गिलान् कवडीकारः कवडीकृत्याभ्यवहरणं पुनर्मुखेन नासिकया ग्रासव्यवच्छेदादिति। गन्धरसस्प्रष्टव्यायतनानि सर्वाण्येव कवडीकार इत्युक्ते पृच्छति। च्छायातपज्वालाप्रबहसु तेषां गन्धादीनां कथमाहारत्वम्। न हि तत्रत्यानां गन्धादीनां कवडीकारत्वमिति प्रतिपद्यते। बाहुल्येन किलैष निर्देश इति। न तत्रत्यानां गन्धादीनां कवडीकारत्वमिति प्रतिपद्यते। बाहुलिकस्तु निर्देशः

कामे त्र्यायतनात्मकः

इति। किल शब्दः परमतेन स्वाभिप्रायोऽधिकृयते। यान्यपि त्विति विस्तरः। यान्यपि तु नाभ्यवहियन्ते छायादिषु स्थितिं चाहरन्ति यापनां चाहरन्ति तान्यपि सूक्ष्म आहारः स्नानाभ्यङ्गवत्। यथा स्थानं चाभ्यङ्गश्च न कवडीकृत्याभ्यवहियते आहारश्च तद्वदिति।

स्वाक्षमुक्ताननुग्रहात्

इति। स्वाक्षस्य स्वेन्द्रियस्य तेनानुग्रहात् मुक्तानाञ्च कामधातोरनागाम्यर्हतामननुग्रहात्। न रूपायतनमहाराः। रूपायतनं चाभ्यवहारकाल इति। यस्मिन् काले अन्तर्मुखप्रविष्त आहारो भुज्यते चक्षुर्विषायातीतः तस्मिन् काले। स्वमिन्द्रियं चक्षुरिन्द्रियम् तन्महाभूतानि च तस्येन्द्रियस्य यानि महाभूतान्याश्रयस्तानि नानुगृह्णाति तद्रूपायतनम्। कुत एवान्यानीन्द्रियाणि श्रोत्रादीन्यनुग्रहीष्यति अविषयत्वात्। अविषयो हि श्रोत्रादीनां रूपायतनम्। दृश्यमान तर्हि भोजनकालेऽनुग्रहीष्यतीत्यत आह। यदापि च दृश्यमान इति विस्तरः। अथ कथमिदं गम्यते। तदापि तदालम्बनः सुखवेदनीयः स्पर्श आहारो न रूपमिति। अत आह मुक्तानामिति विस्तरः। यदि तद्दृश्यमानमाहारकृत्यं कुर्यात्। मुक्तानामनागाभ्यर्हतां कवडिकाराहारवीतरागाणां सुमनोज्ञमप्याहारं पश्यताप्नुग्रहं कुर्यात्। यथा गन्धरसस्प्रष्टव्यायतनानीन्द्रियमहाभूतानामनुग्रहं कुर्वन्त्यभ्यवहाराकाले तस्मात्तदालम्बनः सुखवेदनीयः स्पर्श आहारो भवतीति सिद्धम्।। ३९।।

[ स्पर्शसञ्चेतनाविज्ञा आहाराः सास्रवास्त्रिषु।
मनोमयः सम्भवैषी गन्धर्वश्चान्तराभवः।। ४०।।
निर्वृत्तिरत्र वृद्धयर्थमाश्रयाश्रितयोर्द्वयम्।
द्वयमन्यभवाक्षेपनिवृत्त्यर्थ यथाक्रमम्।। ४१।। ]

स्पर्शसञ्चेतनाविज्ञा

इति। विज्ञेत्यादन्तमेतत् प्रज्ञेति यथा विज्ञानमित्यर्थः। कवडीकाराहारस्त्रयायतनात्मकत्वात् सास्रव इति सिद्धः। त्रयस्तु स्पर्शादयः सास्रवाः अनास्रवाश्च सम्भवन्तीत्यतस्त एव विशेषिताः।

सास्रवाः

इति। न चैवमनास्रवा धर्मा इति। न चैवं ते भूतानां स्थितये यापनायै सम्भवैषिणां चानुग्रहायेति। मनोनिर्जातत्वादिति।

निर्वृत्तिः

इति। उपपत्त्यभिमुखावधारणम्। अत एव व्रतीति शुक्रशोणितादिकं किञ्चिद् बाह्यमनुपादाय भावादिति। आदिशब्देन कर्दमपुष्पादीनां ग्रहणम्। उपपत्त्यभिमुखत्वादभिनिर्वृत्तिरिति। उपपत्त्यभिमुखी निर्वृत्तिर्जन्मास्येत्यभिनिवृत्तिः। सव्यावाधमिति सदुःखम् अव्यावाधमभिनिर्वर्त्यति। इदमत्र ज्ञापकम् भवोऽभिनिर्वृत्तिरिति। तथास्ति पुद्गल इति विस्तरः। अस्मात् सूत्राच्चतुष्ख़ोतिकादभिनिर्वृत्तिरन्तराभव इति अस्ति पुद्गलो यस्याभिनिर्वृत्तिसंयोजनं प्रहीणं नोपपत्तिसंयोजनम्। अस्ति यस्योपपत्तिसंयोजनं प्रहीणं नाभिनिर्वॄत्तिसंयोजनम्। अस्ति यस्याभिनिर्वृत्तिसंयोजनं प्रहीणं नाभिनिर्वृत्तिसंयोजनम्। अस्ति यस्याभिनिर्वृत्तिसंयोजनं च प्रहीणमुपपत्तिसंयोजनं च। अस्ति यस्य नवाभिनिर्वृत्तिसंयोजनं प्रहीणं नोपपत्तिसंयोजनम्। द्विधातुवीतरागस्येति कामरूपधातुवीतरागस्येति। अनागामिन इति विशेषणं पृथग्जनानामन्तराभवसंयोजनस्यात्यन्ताप्रहाणात् तद्धि भिक्षवः प्रहीण यदार्यथा प्रज्ञया रहीणमिति वचनात् तस्य च पुनर्भावित्वात्। तत्र प्रथमा कोटिर्द्विधातुवीतरागस्यानागामिनः द्वितीयान्तरापरिनिर्वायिणः तृतीयार्हतः चतुर्थी तदन्येषामस्मादादेः पृथग्जनस्यारय्स चावीतरागस्य कामधातुवीतरागस्य रूपधातावुपपद्यमानस्य चेति। भूता वार्हन्त इति पूर्वमेवोक्तः पर्यायः। भूता उत्पन्नाः सम्भवैष्ःइणोऽन्तराभविका इति। इदानीमयमपरः पर्यायः। भूता अर्हन्तस्त्रैधातुकवीतरागत्वात् सम्भवैषिणः सतृष्नाः त्रैधातुके सम्भवैषित्वात्। स्थितय इत्यवस्थापनाय। अनुग्रहायेति पुनर्भवाय सम्भवायेत्यर्थः।

सर्वेऽप्युभयथेति। सर्वेऽपि चत्वार आहारा भूतानां सत्त्वानां स्थितयेऽनुग्रहाय  च। तथा सम्भवैषिणामिति। युक्त तावन्मनःसञ्चेतना कर्मस्वभावत्वात्। तत्प्रभावितं च विज्ञानं बीजम् स्पर्शोऽपि तत्सम्प्रयुक्तो भवत्यनुग्राहयेति। कवडीकारस्तु कथं सम्भवैषिणामनुग्रहायेति अत उच्यते। कवडीकारोऽपि हीति विस्तरः। तद्रागिणामिति कवडीकाररागिणाम्। पुनर्भवाय संवर्तत इति अस्य ज्ञापनार्थमिदं सूत्रपदमुपन्यस्यते। उक्तं हि भगवतेति विस्तरः। तत्र रोगादिभिः पञ्च उपादानस्कन्दह उक्ताः। तस्य रोगस्य चत्वार अहारा मूलम् मूलं च हेतुरित्यनेन कवडीकारोऽपि तद्रागिणा पुनर्भवाय संवतत इति सिद्धम्। अन्ये पिनजरामरनस्य प्रत्यय इत्येतदेवोदाहरणं ब्रुवते अस्माज्जनम्नः परेण जरामरणं व्यवस्थापितमित्यभिप्रायः। कवडीकारोऽपि भूतानां सत्त्वानामिह स्थितय इति युक्त प्रत्यक्षत्वात् तथा सुखवेदनीयः स्पर्शो विज्ञानं चानुग्राहक्मित्युक्तम्। अथ मनः सञ्चेतना कथमिति अत इदमुच्यते। मनःसञ्चेतनापि चेति विस्तरः। अत एव मनःसञ्चेतनाग्रहणेन स्पर्शविज्ञाने अपि गृहीते भवतः तत्सम्प्रयोगित्वात्। प्रद्रता इति प्रसृताः। सङ्गीतिपर्याय इत्यभिधर्मशास्त्रे तेषां पुष्टये स्पर्श इति सुखवेदनीयेनानुग्रहात् यः कश्चिद् वेदनास्कन्धः संज्ञाकस्नहः सर्वः स स्पर्श प्रतीत्येति वचनत्। मनःसञ्चेतानायाः पुनर्भवस्य आक्षेप इति तस्याः कर्मस्वभावत्वात् । कथञ्च पुनस्तयोः पुनर्भव आक्षिप्यते। तदुत्पत्तिप्रत्ययपरस्परानुय्कूल्यावस्थानात्। कर्मपरिभाविताद्विज्ञानबीजादिभिनिर्वृत्तिरिति बीजादिवाङ्कुरस्य पुनर्भवस्योत्पाद इत्यर्थः।

यः कवडीकारः सर्वः स आहार इति प्रश्ने आह। स्यात् कवडीकारो नाहारः स्यादाहारो न कवडीकारः स्यादुभय स्यान्नोभयम् इति चतुष्कोटिकम् द्वितीया कोटिस्त्रय आहारा इति मनः सञ्चेतनास्पर्शविज्ञानानि। चतुर्थ्येतानाकरात् स्थापयित्वेति शब्दो दुःखवेदनासम्प्रयुक्ताश्च सर्वे चित्तचैत्ताः। एवं स्पर्शादिभिरपि यथायोगं चतुष्कोटिकानि कर्तव्यानीति। यः कश्चित् स्पर्शः सर्वः स आहारः। स्यात् स्पर्शो नाहार इति चतुष्टोकिटिकम्। एवं या काचिन्मनःसञ्चेतना सर्वा सा आहारः। स्यान्मनः सचेतना नाहार इति चतुष्कोटिकम्। तथा यत् किञ्चिद्विज्ञानं सर्वं तदाहारः। स्याद्विज्ञानं नाहर इति चतुष्कोटिकम्। स्पर्शस्य तावत् प्रथमा कोटिर्यं स्पर्शं प्रतीत्येन्द्रियाणामुपचयो भवति महाभूतानां च परिभेदः। द्वितीया त्रय आहाराः तृतीयां यं स्पर्श प्रतीत्येन्द्रियाणामपचयो भवति महाभूतानाञ्च वृद्धिः। चतुर्थ्येतानाकारान् स्थापयित्वेति एवं यावद्विज्ञानं चतुष्कोटिकम्। प्रथमा कोटियद्विज्ञानं प्रतीत्येन्द्रियाणामपचयो भवति महाभूतानां च वृद्धिः। चतुर्थ्येतानाकारान् स्थापयित्वा। स्यात् स्पर्शदीन प्रतीत्येति विस्तरेणापरः प्रश्नः। स्पर्शदीनिति स्पर्शचेतनाविज्ञानधर्मानित्येवं नेतव्यम्। एवं च ग्रन्थः कर्तव्यः स्यात् स्पर्शादीन् प्रतीत्येन्द्रियाणामुपचयो भवति महाभूतानां च वृद्धिः न च ते आहाराः। स्यात् अन्यभूमिकाननास्रवांश्च। प्रतीत्येत्यभिसंबन्धाद् द्वितीयाप्रयोगः। योऽपि हि परिभुक्त इति विस्तरः। केन सम्बन्धेनेदमुक्तम्। अन्यन्भूमिकानास्रवांश्च प्रतीत्यानाहार इत्युक्तेऽर्थादेतदुक्त भवति खभूमिकाम् सास्रवान् प्रतीत्याहार इति यं चेहा परिभुक्त इति कवडीकारो भोक्तुर्वाधामादधाति। स किमाहारः सोऽप्याहारः । आपतेभोजनवेलायामनुग्रहात्। सर्वासु सर्वः एवं योनिष्विति। कामधातौ पञ्चानां गतीनां चतसृणां च योनीनां सद्भावात्। चतुष्कोटिकं बाध्यते प्रकरणग्रन्थश्चेति। प्रथमे चतुष्कोटिके येयं तृतीया कोटिः। यं कवडीकारं प्रतीत्येन्द्रियाणामुपचयो भवति महाभूतानां च वृद्धिरित्यस्या बाधाच्चतुष्कोटिकं बाध्यते। न केवलमुपचकरः। किं तर्हि अपचरकरोऽपि कवडीकाराहार इति। प्रकरणग्रन्थश्च किं बाध्यते कीदृशः प्रकरणग्रन्थ इति तद्दर्शयन्नाह। कवडीकाराहारः कतमः यं कवडीकारं प्रतीत्येन्द्रियाणामुपचयो भवति विस्तरेण यावद्विज्ञानमिति उपचयाहाराभिसन्धिवचनादविरोधैति। उपचयाहाराभिप्रायेण चतुष्कोटिवचनं प्रकरणग्रन्थवचनं च तस्मात्तयोरविरोधः। यो ह्युपचयाय स मुख्यः। आहारलक्षणप्राप्तत्वादिति। कवडीकाराहारलक्षणप्राप्तत्वात्। कथमित्याह सोऽपि हि जिघत्सां पिपासां च प्रतिहन्तुं समर्थ इति। प्रदीप्तायष्पिण्डलक्षण आहारो जिघत्साप्रतिघाते समर्थः क्वथितताम्रलक्षणः पिपासाप्रतिघाते इति योज्यम्। कवडीकाराहारप्रसङ्गेनेदमुच्यते उक्तं भगवता यश्च बह्यकानामिति विस्तरः । जम्बुद्वीपो जम्बुषण्डः। तथा ह्यक्त भगवता याः काश्चित् जम्बुषण्डात् स्रवन्त्यः सर्वाः समुद्रनिम्नाः समुद्रप्रवणाः समुद्रप्राग्भाराति तन्निवासिनो जम्बुषण्डगताः कुक्षिमन्तो भोजनशक्तयुपेता अकललाद्यवस्था इत्यभिप्रायः। तदेतदयुक्तमेकमिति वचनादिति। यदि जम्बुद्वीपनिवासिनः कुक्षिमन्तो जम्बुषण्डगता इष्येरन्। यश्च जम्बुषण्डगतान् पृथग् जनानिति वक्तव्यं स्यात् उक्त च यश्चैकं जम्बुषण्डगतमिति। तस्मादयमर्थो न घटते। कश्चात्र विशेष इति किमत्राश्चर्य यद्वहून् भोजयित्वा बहु पुण्यं स्यात् न त्वल्पीयसः शतमात्रान् वीतरागानित्यर्थः सन्निकृष्टो बोधिसत्त्व इति आसन्नाभिसम्बोधिः।

ब्प्धिसत्त्वः कुतो यावद्यतो लक्षणकर्मकृत्

इत्यभिप्रायः। न त्वियमन्वर्था संज्ञेति नार्थानुगता नार्थवाचकं पदमित्यर्थः। नापि परिभाषिता अर्थमनपेक्ष्य। बोधिसत्त्व एव त्वेष जम्बुषण्डगत इति कृषिग्रामकं व्यलोकनाय निर्गतः सर्वार्थसिद्धो बोधिसत्त्वो जम्बुवृक्षमूले निषन्नः प्रथमं ध्यानमुत्पाद्तवान्। अत आह स हि पृथग्जनः कामवैराग्यसम्बन्धेनेति। स चापि हि बोधिस्तत्वः पृथग्जनः कामवीतरागश्च बाह्यकाश्च तथैव कामवीतरागाः पृथग् जनाश्चानेन सम्बन्धेन तेभ्यो बाह्यकेभ्यो बहुतरेण दानफ़लेन विशिष्यमाण इत्येवमुक्तः। स तेभ्यो बाह्यकेभ्योऽनन्तेभ्यो विशिष्यमाणो

बोधिसत्त्वाय  चामेया अनार्येभ्योऽपि दक्षिणा

इति वचनात्। शतग्रहणं तु पूर्वाधिकारादिति तत्रैव सूत्रे शताधिकारोऽधिकृतः। यश्च तिर्यगयोनिगतानां शतय दानं दद्यात् यश्चैकस्मै दुःशीलाय मनुष्यभूताय दानं दद्यात् ततः शतगुणो विपाकः प्रतिकाङिक्षतव्यः। यावद् यश्च बाह्यकानामिति विस्तरः। इत्थं चैतदेवमिति इत्थं चैतदेवं बोधिसत्तव एव त्वेष जम्बुषण्डे निषण्णो युज्यत इति  यदेन बोधिसत्त्वमपास्य बाह्यकेभ्य एव स्रोतापत्तिफ़लप्रतिपन्नकं विशेषयाम्बभूवेति। बाह्यकेभ्यो वातरागेभ्यः स्रोत आपत्तिफ़लप्रतिपन्नकायेति विस्तरः। यदि निर्वेधभागी जम्बुषण्डगतोऽभविष्यद्जम्बुषडण्गातादेव व्यशेषयिष्यत् कथम् यश्च जम्बुषण्डगतानतरत्वादं शतं भोहयेदय्श्चैकं स्त्रोत आपत्तिफ़लसाक्षात्क्रियायै प्रतिपन्नम् अतो दानादिदं महाफ़लतरमिति । न त्वेवम्। स्रोत आपत्तिफ़लप्रतिपन्नकादिभ्यो विशिष्टत्रत्वादतो बोधिसत्त्व एव त्वेष जम्बुषण्डगतो युज्यते। आयुः क्षयादिभिरिति अस्त्यायुःक्षयान्मरणं न पुण्यक्षयादस्ति पुण्यक्षयान्नायुः क्षयादित्यादित्यादि।। ४०-४१।।

[ छेदसन्धानवैराग्यहानिचुयुत्युपपत्तयः।
मनोविज्ञान एवेष्टा उपेक्षयां चुयतोद्भवौ।।  ४२।। ]

छेदसन्धानवैराग्य इति विस्तरः। कुशलमूलसमुच्छेदो मिथ्यादृष्ट्या। सा च मानस्येव सन्तीकरत्वा। कुशलमूलप्रतिसन्धानं सम्यग्दृष्ट्या विचिकित्सया वा ते च मनस्यौ। धातुभूमिवैरग्यम् धातुतो भूमितो वा वैराग्यं मनोविज्ञान एव समाहित एव चित्ते लभ्यत्वात्। परिहाणिरयोनिशोमनसिकारप्रवर्तिता मनोविज्ञानेन चायोनिशोमनस्किकारो विकल्प इति। च्युतिः संक्षिप्तपञ्चेन्द्रियगोचरस्य प्रवाहच्छेदानुकूले विज्ञाने भवति उपपत्तिरपि विपर्यस्तमतेर्भवतीति मनोविज्ञान एव युज्यते। अन्तराभवप्रतिसन्धिरप इति प्रतिसन्धिसामान्यादनुक्तोऽप्युक्तकल्प इति नोच्यत इत्यभिप्रायः। च्युतिरेव च्युतम्। एकार्थता दर्शयति भावेक्तोत्पन्नत्वात्। इतरे हि वेदने पट्याविति सुखदुःखे।

विसभागभूमिकत्वादिति समाहितं चित्तं समाहितभूमिकत्वाद्विसभागं कामधातोः। अतश्च्युतिचित्तमुपपत्तिचित्तं वा न युज्यते। यदा तर्हि रूपधातावेव म्रियते उपपद्यते वा तदा समाहिभूमिकं चित्तं तद्भविष्यतीत्यत आह आभिसंस्कारिकत्वादिति। अभिसंस्कारो यत्नः अभिसंस्कारेण निवृत्तमाभिसंस्कारिकम् तद्भावः तस्मात्। न तदाभिसंस्कारिकं च्युतिचित्तमुपपचित्तचित्तं वा युज्यते मरणावस्थाया अपटुत्वात् अनुग्राहकत्वाच्च। यस्माच्च समाहितं चित्तमनुग्राहकं न च्छेदानुकूलमतोऽपि समाहितचित्तस्य च्युतिर्नास्ति नाप्यचित्तकस्येति विस्तरः। नाप्यचित्तकस्य। किम् च्युतिरूपपत्तिर्वेति प्रकृतम्। अचित्तको निरोधसमपत्तिसमापन्नोऽसङ्गिसमापत्तिसमापन्नस्तद्विपाके वावस्थितः। सोऽचित्तक पक्रन्तु मारयितुं न शक्यते शस्त्रादिभिः। अतो नाचित्तकस्यास्ति च्युतिः। यदा चास्या श्रयो विपरिणन्तुमारभौतेति शस्त्रेणाग्निना वोपक्रमान्निरोधसमापत्तिमसंज्ञिसमापत्ति वा समापन्नस्यासंज्ञिसमापत्तेर्विपाके स्थितस्य विपाकावेधपरिसमाप्तेरवश्य मस्य तदानीमाश्रयप्रतिबद्धं चित्तमाश्रये बीजभावेनास्ति। तत् सम्मुखीभूय पश्चात्प्रच्यवेत। कःप्रच्येवत पुद्गलः। यदि पुद्गलोऽधिक्रियेत असमानकर्तृकत्वा क्ताविधिर्न प्राप्नोति। चित्तं तर्हि प्रच्यवेत। अथवैवमभिसम्बन्धः यदा चाश्रयो विपरिणन्तुमन्यथात्वमापत्तुमारभेत अवश्यमस्य पुद्गलस्य तदाश्रयप्रतिबाद्धं बीजभावेनावस्थित चित्तं सम्मुखीभूय समुदाचर्य परिणन्तुमारभेत। पश्चात् प्रच्यवेत पुद्गल इति। अथवा सम्मुखीभूयेति सम्मुखीभाव्येत्यर्थेणिलोपात्।

अस्ति पर्णरूहो वातो अस्ति पर्णमुस्वोऽपरः

इति यथा। उपपत्तौ त्वयुक्तमचित्तकत्वात्। कस्मात् चित्तच्छेदहेत्वभावात्। अवश्यं क्लिष्टतया प्रतिसन्धिचित्तस्य निरोधसमापत्त्याद्यसम्भवात्। विना च क्लेशेनानुपपत्तेः। सर्वक्लेशैर्हि तद्भूमिकैरूपपत्तिप्रतिसन्धिबन्धो भवति। न च चित्तमन्तरेण क्लेशाः कदाचिदपि भवन्तीति। अतोऽपि नास्त्यचित्तकस्योपपत्तिः।

मरणभवस्त्रिप्रकार इत्युक्तमिति।

उपपत्तिभवः क्लिष्टः सर्वक्लेशैः स्वभूमिकैः

इति। उपपत्तिभव एव क्लिष्ट इत्यवधारणात्। मरणपूर्वान्तकालान्तराभवास्त्रिप्रकाराः कुशलाकुशलाव्याकृता उक्ताः। अथवा

निरोधयत्युपरमो नारूप्ये जीवितं मनः।

उपेक्षां च

इति विस्तरेण यावत्

शुभे सर्वत्र पञ्च च

इत्युक्तम् अतो मरणभवस्त्रिप्रकार इत्युत्सर्गः।। ४२।।

[ नैकाग्राचित्तयोरेतौ निर्वात्यव्याकृतद्वये।
क्रमच्युतौ पादनाभिहृदयेषु मनश्च्युतिः।। ४३।। ]

अर्हस्तु

निर्वात्यव्याकृतद्वये

इत्येवमपवादः। अस्ति चेत् कामधातौ विपाक उपेक्षेति।

अधोऽपि मध्यमस्तेके

इत्येकीयमतेन। नास्ति चेदिति।

अतः परम्।

अदुःखासुखवेद्यम्

इत्यपरमतेन। ऐर्याषथिक एवेति। अरियापथिकजातीयं तद्यत्र निर्वाति।

विपाकजैर्यापथिकशैल्पस्थानिकनैर्मितम्।

चतुर्धा व्याकृतं कामे इति नैतावदेवाव्याकृतमिष्यत इति व्याख्यातमेतत्। तद्धि चित्तच्छेदानुकूलमिति अप्रतिसन्धिकचित्तच्छेदानुकूलम् दुर्बलत्वात् परमापटुत्वादित्यर्थः। सप्रतिसन्धिकचित्तच्छेदे कुशलाकुशलमपि चित्तं सम्भवति।

तेषां यथासंख्यम्ति पादयोरपायगामिनां विज्ञानं सन्निरूध्यते नाभ्यां मनुष्यगामिनाम् हृदये देवगामिनाम्। आरूपित्वाददेशस्थं विज्ञानं कथं तेषु निरूध्यत इति अत आह कायेन्द्रियस्य तेषु निरोधादिति। तेषु पादादिषु। कायेन्द्रियप्रतिबद्धवृत्ति हि कामधातौ रूपधातौ च विज्ञानमिति। तेषामपि हृदये विज्ञानं निरूध्यत इति। यथासंख्यनिर्देशादेवायमर्थो लभ्यते। कथम् हृदयं च हृदयं च हृदये पादश्च नाभिष हृदय चेति पादनाभिहृदयानीति चत्वारोऽर्थाः।। ४३।।

[ अधोनृसुरगाजानां मर्मच्छेदस्त्वबादिभिः।
सम्यङ्मिथ्यात्वनियता आर्यान्तर्यकारिणः।। ४४।। ]

अधोगश्च नृगश्च सुरगश्च अजगश्चेत्येतेऽपि चत्वारोऽर्थाः तेन यथासंख्यसिद्धिः।

प्रायेणेति ग्रहणं देवादीनां सुखमृत्युत्वात् न तु पुनस्तानि काष्ठवच्छिद्यन्ते। किं तर्हीति तीव्राभिर्वेदनाभिश्छिद्यन्त इवेति। छिन्नवद्वा न पुन श्चेष्ठन्त इति छिन्नानीत्युच्यन्त इति। च्छिन्नाङ्गप्रत्यङ्गवत् न पुनश्चेष्टन्त इति छिन्नानीत्युच्यन्ते। सैषा काल्पनिकी छेदवृत्तिमर्मणां द्विधाभावाकरणात्। अपतेजोवायूनां अन्यतमेनेत्युक्ते पृच्छति कस्मान्न पृधिवीधातुनेति। अपतेजोवायुधातुप्रधाना यथायोगमिति यथासम्भवम् अपधातुप्रधानः श्र्लेष्मा तेजोधातुप्रधानं पित्तम् वायुधातुप्रधान् वायुशेष इति। भाजनलोकसंवतनीसाधर्म्येणेत्यपर इति। तिस्रो भाजनसंवर्तन्यः। अपसंवर्तनी तेजः संवर्तनी वायुसंवर्तनी च। तासां च साधर्म्येण अपतेजोवायुधातूनामन्यतमेनेति विस्तरेणोक्तमिति।

कथमाराद्याता आत्यन्तिकविसंयोगप्राप्तिलाभात्। पृथग्जानानां त्वस्ति विसंयोगप्राप्तिलाभः न त्वात्यन्तिक इति ते नाराद्याता एवेति ते हि मिथ्यात्वेऽपि नियता भवेयुरिति। यद्यानन्तर्याणि कुर्युरित्यर्थः। न च त इति विस्तरः। न च ते मोक्शभागीयलाभिनः कालनियमेन सम्यकत्वे नियताः। यथा सप्तकृत्वः परमादयः। आदिशब्देन कूलंकुलैकवीचिकादयो गृह्यन्ते। कालनियमश्चैषां पुग्दलनिर्देशे वक्ष्यते नियतेभ्यो द्वयेभ्य एभ्योऽन्येऽनियताः। प्रत्ययापेक्षं हीति विस्तरः। यदि सम्यकत्वे प्रत्ययं लभन्ते सम्यकत्वे नियताः। अथ मिथ्यात्वे मिथ्यात्वे नियताः। अथोभयस्मिन्न प्रत्ययं लभन्ते अनुभयभाक्त्वेऽपि।। ४४।।

[ तत्र भाजनलोकस्य संनिवेशमुशन्तयधः।
लक्षषोडशकोद्वेधमसंख्यं वायुमण्डलम्।। ४५।।

अपामेकादशोद्वेधं सहस्राणि विंशतिः।
अष्टलक्षोच्छयं पश्चाच्छेषं भवति काञ्चनम्।। ४६   ]

उक्तः सत्त्वलोकः विद्यादिक्रमनिर्देशेन।

उशन्ति

 इच्छन्तीत्यर्थः।

लक्षषोडशकोद्वेधमसंख्यं वायुमण्डलम्

लक्षषोडशकं वेधनभावेन परिणाहेनासंख्यमिति समन्तपरिक्षेपेणासंख्यमित्यर्थः। कर्माधिपत्येन कर्मसामर्थ्येन। तत्र निर्शनम् यथा भुक्तं पीतं चान्नं पानं च यथासंख्येन नापक्क पक्कशयं पतति। पक्कमेव स पक्कस्थानं गच्छतीत्यर्थः। कुसूलन्यायेन कोष्ठन्यायेन। समन्तात् प्रकारावदवस्थितमित्यर्थः। पक्कक्षीरशरीभावयोगेन पक्कक्षीरशरीभावन्यायेन। यथा पक्कस्य क्षीरस्य शरीस्त्रीलिङ्गनिर्देशः शर इत्यर्थः। अथवा शरस्य भाव शरीभावः स्त्रीप्रयोगाः। यथाऽसौ द्रवो घनीभावेन भवत्येवं जलस्योपरिष्ठात् काञ्चनमयी भूमिरिति। शेषं त्रयो लक्षाः सहस्राणि च विंशतिरिति विंशतिसहस्रोत्तराणामेकादशानां लक्षणामष्टवपनीत्यैतावच्छेषं भवति।। ४५-४६।।

[ तिर्यक् त्रीणि सहस्राणि सार्धं शतचतुष्टयम्।
लक्षद्वादशकं चैव जलकाञ्चनमण्डलम्।। ४७।।
समन्ततस्तु त्रिगुणं तत्र मेरूर्युगन्धरः।
ईषाधरः खदिरकः सुदर्शनगिरिस्तथा।। ४८।।
अश्वकर्णो विनितको निमिन्धगिरिस्ततः।
द्वीपा बहिश्चक्रवाडः सप्त हैमाः स आयसः।। ४९।।
चूतरत्नमयो मेरूर्जलेऽशीतिसहस्रके।
मग्न ऊर्धं जलान्मेरूर्भूयोऽशीतिसहस्रकः।। ५०।।
अर्धार्धहानिरष्टासु समोच्छायघनाश्च ते।
सीताः सप्तान्तराण्येषामाद्याशीतिसहस्रिका।। ५१।। ]

तिर्यक् न्नीणि सहस्राणि

इति विस्तरः। चतुर्द्वीपकस्य एतत्परिमाणमुच्यते। न त्रिसाहस्रमहासाहस्रस्य समानं ह्येतदुभयम्। एतदिति

जलकाञ्चनमण्डलम्

समन्ततस्तु त्रिगुणम्

इति समन्तपरिक्षेपेण त्रिगुणमेतदुभयम्। सर्वस्य परिमण्डलस्येयं स्थितिः। यदस्य तिर्यक्प्रमाणं त्रिगुणमेव समन्तपरिक्षिप्तस्य प्रमाणमिति। तेन चतुर्द्वीपकश्चक्रीकृत इति। चक्र कृतश्चक्रीकृतः। चक्राकारतां गमितः अत एव

चक्रवाडः

इत्युच्यते शस्त्रकमित्ययोमयः। यथासंख्यं चतुर्षु पार्श्वेष्विति उत्तरकुरूपार्श्व सुवर्णमयं पूर्वविदेहपार्श्व रूप्यमयं जम्बुद्वीपपार्श्वं वैदूर्यमयमवरगोदानीयपार्श्व स्फ़टिकमयम्।

नानाविधबीजगर्भाः नानाप्रकारसामर्थ्यैयुक्ताः। बहुविधप्रकारभिन्नैर्वायुभिरिति तदुत्पादने अनेकप्रकारसामर्थ्यभिन्नैर्वायुभिरित्यर्थः असमाधानेनेति अयुग्पद्भावेनेत्यर्थः। न हि यदा कार्यं तदा कारणं तिष्ठति। न ह्यवस्थितस्य द्रव्यस्येति रूपरसाद्यात्मकस्य। धर्मान्तरनिवृत्ताविति क्षीरनिवृत्तौ। धर्मान्तरप्रादुर्भाव इति दधिजन्म। स एव धर्मी नेति। रूपाद्यात्मकक्षीरादिधर्मेभ्योऽन्यो धर्म उत्पादव्यय ऽप्यनुपन्नोऽविनष्ट परिणाम इति क्षीरनिवृत्तौ दधिभावः तदेव चेदमिति क्षीरमेव दधि न चेदं तथेति न चेदं दधि क्षीरम्। तदेव्बेदमिति यत् परिणामेनेत्युक्तम्। न चेदं तथेति। तस्यैव द्रव्यस्यान्यथीभावमात्रं परिणाम इति वचनात्। अपूर्वेषा वाचोयुक्तिरिति स्ववचनविरूद्धेत्यभिप्रायः। पूर्वोत्तरयोर्हि क्षणयोरन्यथात्वमिष्यते  ययोश्चान्यथात्वं तयोरन्यत्वं दृष्टम् तद्यथा देवदत्तयज्ञदत्तयोः। तस्मात् कार्यकारणयोरन्य त्वेन भवितव्यम्।

सुवर्णादय इति। सुवर्णरूप्यमणिमृदादयः। षष्टियोजनशतसहस्रसमुच्छाय इति। षष्टयधिको योजनलक्ष उच्छाय इत्यर्थः।। ४७-५१।।

[ आभ्यन्तरः समुद्रोऽसौ त्रिगुणः स तु पार्श्वतः।
अर्धार्धनापराः सीताः शेषं बाह्यो महोदधिः।। ५२।।
लक्षत्रयं सहस्राणि विंशतिर्द्वे च तत्र तु।
जम्बुद्वीपो द्विसाहस्रत्रिपार्श्वः शकटाकृतिः।। ५३।।
सार्धं त्रियोजनं त्वेकं प्राग्विदेहोऽर्धचन्द्रवत्।
पार्श्वत्रयं तथास्यैकं सार्धत्रिशतयोजनम्।। ५४।।
गोदानीयः सहस्राणि सप्त सार्धानि मण्डलः।
सार्धे द्वे मध्यमस्याष्टौ चतुरस्ः कुरूः समः।। ५५।। ]

अष्टाङ्गोपेतस्येति।

शीतलाच्छलघुस्वादुमृदुनिःपूतिगन्धिकम्।

पीतं न बाधते कुक्ष्ःइं न कण्ठं क्षिणोति तज्जलम्।।

इति। अष्टाङ्गसंग्रहश्र्लोकः। पार्श्वतस्तु त्रिगुणो भवति युगन्धरतीरेण गण्यमान इति। स

आभ्यन्तरः समुद्रः

युगन्धरपार्शे नायामतः संख्यायमानः

त्रिगुण

इति कृत्वा चत्वारिंशद्योजनसहस्राधिकलक्षद्वयमायामो भवति युगन्धरपार्श्वे। अशीतिरेका तदुभयतश्चेतरयोर्दिशोस्तत् सीतानदीवैपुल्ययोगेनापरे द्वे अशीति इति तिस्रोऽशीतयः। चत्वारिंशदधिकं लक्षद्वयं भवतीति।

लक्षत्रयं सहस्राणि विंशतिद्वच इति। निमिन्धरगिरिचक्रवाडयोरन्तर एकस्यां दिशि बाह्यस्य समुद्रास्य तत् परिमाणमुक्तम्। अत्र सहस्रमेकं द्वे शते चान्ये अर्धाष्टाशीतिरेवेति वक्तव्यम् न्यूनत्वात्। एवमपरस्यां दिशि वक्तव्यम्। एवं द्वयोः सहस्रयोः पञ्चसु शतेषु पञ्चसप्ततौ च योजनानां प्रक्षिप्ते स आधारः पूरितो भवति य उक्तः

तिर्यक् त्रीणि सहस्राणि सार्ध शतचतुष्टयम्।
लक्षद्वादशकं चैव जलकाञ्चमण्डलम्।।

इति अनया चतुर्द्वीपसम्ख्यया यथाविन्यासमतिरिच्यमानत्वात्। तदिदं परिह्रियते। नैष दोषः। चक्रवाडबहिर्जलकाञ्चनमण्डलस्य एतावतातिरिच्यमानत्वात्। न तर्हि चतुर्द्वीपकस्तेन चक्रवाडेन चक्रीकृतः। उपरिभूमिरनेन चक्रीकृता न जलमण्डलमित्यवगन्तव्यम्। अपर आह। न सुमेर्वादयः पर्वता अत्यन्तच्छिन्नतटाः समुच्छायघना भवन्ति। किं तर्हि पर्वताकारन्यायेन किञ्चिदतिरिच्यमानाधरभागा दुर्लक्षविशेषत्वात्

समोच्छायघनाश्च ते

इत्युक्ताः। अतस्तैस्तैः किञ्चिदतिरच्यमानैरधोभागैस्तदाधेयं सुमेर्वादिकमाधारं जलकाञ्चनमण्डलात्मकं व्याप्नोतीत्यविरोध एष इति।

अन्य इति विस्तरः। न बोधिसत्त्वाश्रयादन्य आश्रयो वज्रासनाद्वान्यः प्रदेशस्तं वज्रोपमं समाधिं सोदु समर्थ इति। यश्च द्वीपो यदाकृतिरिति प्रत्यक्षम्तत् भूमिवशात् सत्त्वानां वैचित्र्यम् हिमवद्विन्ध्यवासिनां किरातशवराणां गौरश्यामते दृश्यते।। ५२-५५।।

[ देहा विदेहाः कुरवः कौरवाश्चामरावराः।
अष्टौ तदन्तरद्वीपाः शाठा उत्तरमन्त्रिणः।। ५६।।
इहोत्तरेण कीटाद्रिनवकाद्धिमावांस्ततः।
पञ्चाशद विपुलागाधसरोऽर्वाग् गन्धमादनात्।। ५७।।
अधः सहसैर्विशत्या तन्मात्रोऽवीचिरस्य हि।
तदूर्ध्व सप्त नरकाः सर्वेऽष्टौ षोडशोत्सदाः।। ५८।।
कुकूलं कुणपञ्चैव क्षुरमार्गादिकं नदी।
तेषां चतुर्दिशं शीता अन्येऽष्टावबुदादयः।। ५९।।
अर्धेन मेरोश्चन्द्राकौ पञ्चशत् सैकयोजनौ।
अर्धरात्रोऽस्तगमनं मध्याह्न उदयः समम्।। ६०।। ]

देहा विदेहाः कुरधः

इति। स्थानिनां बहुत्वात् स्थानस्यापि बहुवचननिर्देशः । एको राक्षसेरिति। चामरावरयोरन्यतरः।

कीटाद्रिनवकात्

इति कीटाकृतीनां पर्वतानां नवकात्। तदधिकारेणाऽयं जम्बुद्वीप इति। जम्बुवृक्षाधिकारेण जम्बुवृक्षचिह्नो द्वीपो जम्बुद्वीपः। फ़लाधिकारेण वेति। जम्बा लुप् चेति फ़लमपि जम्बु। तत्फ़लचिह्नो जम्बुद्वीप इत्यर्थः। चतुः स्कन्धा इति। चतुःप्राकारा इत्यर्थः। चतुःसन्निवेश इत्यपरे। अयः प्रकारपर्यन्ता इति। अयः प्रकारपरिक्षिप्ता इत्यर्थः। अयसा प्रतिकुब्जिता इति। अयसोपरिष्टाच्छादिता। अयसा पिहितद्वारा इत्यपरे। स्फ़ुटेति व्याप्ताः। पूर्ववदिति उत्क्षिप्ते पादे पुनरपि सञ्जायते त्वड्यांसशोणितमित्यर्थः।

क्षुरार्गादिकम्

त्रयमिति क्षुरमार्गोऽसोपत्रवनं शाल्मलीवनं चेति। त्रयः श्यामलशबलाश्च श्वानो भक्षयन्तीति असिपत्रवनान्तर्भूताः। अयस्तुण्डाश्च वायसा इति शाल्मलीवनान्तर्भूताः। प्रासा भिन्दिपालादयः। अधिकयातनास्थानत्वादुतसदा इति। उच्छब्दोऽधिकार्थः। अधिकं सीद्यन्त अत्रेत्युत्सदाः। पुनर्यातनादाधिक्यमपरः। नरकेष्विति विस्तरः। अपर इति स्थविरमनोरथः स ऊर्ध्वार्थमुच्छब्दमिति। तेनाह। आ नरकावरोधादवीच्यादिनकावरोधात् ऊर्ध्वमेष्ःउ कुकूलादिषु सीदन्ति अतस्तदुत्सदा इति प्रश्नात् प्रशान्तरमिति। षोडशोत् सदाः कतम इत्युक्ता चतुर्थ उत्सदो वैतरणी यस्यां सत्त्वा अशिशक्तिप्रासहस्तैः पुरूषैरूभाभ्यां तीराभ्यां प्रतिवार्यमाणादूर्ध्वमपि त  स्विद्यन्ते पच्यन्त इति। तस्मादिदं प्रश्नान्तारमुपाजयते। किं ते नरकपला इति विस्तरः। विवार्तनीवायुवदिति यथा विवर्तन्यां वायवो भाजनलोकाभिनिवृत्तये चेष्टन्ते। तद्वत्ते भूतभौतिकामात्रा नरकपाला इति। यमराक्षसा इति। पापकर्मणाः सत्त्वा नरकपाला जायन्त इत्यर्थः। ये ते येमेनेति। ये ते यमेन देवदूतीयसूत्रोक्तेनानुशासनेनानुशिष्टास्तान् सत्त्वान् नरकस्थानेषु प्रक्षिपन्ति यमराजधानी निवासिनः। त एते यमराक्षसा उक्ताः। न तु ये कारणा यातनाः कारयन्ति असिशक्तिप्रासहस्तादयः। तस्येदानीं कर्मणाः क विपाक इति। नरकपालानां नरककृतस्य कर्मणः क विपाक्ः। तेष्वेवेति विस्तरः। येष्वानन्तर्यकारिणां विपाकवाकशस्तेषु नरकेषु तेषां नरकपलानां को विप्रतिबन्धः ।  एतदुक्त भवति तेषामपि तावदानतर्यकारिणां महादानन्तर्यकर्मणो विपाकस्यातिमहतो नरकेष्ववकाशोऽस्ति। किमङ्ग पुनरकपालानां यत् कर्म तत् कारणाः कारयतामिति। कृतावधित्वा कृतमर्यादत्वान्नरकपालान् प्रति एते न दग्धव्या इति। भूतविशेषनिर्वृत्तेर्वा भूतविशेषास्तादृशास्तेषां कर्मभिरभिनिर्वृत्ताः यत्तेनाग्निना न दह्यन्ते। कायशब्दविकारानुरूपाणिति । कायविकारानुरूपाणयर्बुदी निरवुद उत्पलः पद्यो महापद्यश्चेति नामान्यर्वुदाद्याकारकायत्वात्तत्रत्यानां सत्त्वानाम् शब्दविकारानुरूपाणयठठो हहवो हुहुव इत्येतानि नामानि अत एवेति धान्यराशिवदधोविशालत्वात् बहिरिति नान्तर्गतः।

तैजसं सूर्यकान्तात्मकमाप्यं चन्द्रकान्तात्मकं यथासम्भवमिति। तदुभयमण्डलं दृष्टादीनां देशकालावस्थान्तरानुरूप्येणानुग्रहार्थमुपघातार्थ च। एवमन्येष्वपि योज्यमिति। कथम् यदा पूर्वविदेहेऽर्धरात्रस्तदा जम्बुद्वीपे सूर्यास्तगमनमवरगोदानीये मध्याह उत्तरकुरावुदय इत्येवमन्यत्रापि योज्यम्।। ५६-६०।।

[ प्रावृण्मासे द्वियेऽन्त्यनवम्यां वर्धते निशा।
हेमन्तानां चतुर्थे तु हीयतेऽहविपर्ययात्।। ६१।। ]

प्रावृणमासे द्वितीयेऽन्त्यनवम्याम्

इति प्रावृणमासाश्चत्वारः श्रावणो यावत्कार्त्तिकः सर्वे च मासाः कृष्णपक्षाद्याः। तत्र भाद्रपदशुक्लपक्षनवम्यां रात्रिवर्धते। हेमन्तकानां चत्रुथे हीयते। हेमन्ता मासाश्चत्वारो मार्गशीर्षाद्याः फ़ाल्गुनान्ताः। तत्र फ़ाल्गुनशुक्लपक्षनवम्यां हीयते।। ६१।।

[ लवशो रात्रयहर्वृद्धी दक्षिणोत्तरगे रवौ।
स्वच्छाययार्कसन्निध्याद् विकलेन्दुसमीक्षणम्।। ६२।। ]

[ लवशः

इति लवं लवम् कालाध्वनोरत्यन्तसंयोगे द्वितीया। अपरपार्श्वे छाया पतन्ती विकलमण्डलं दर्शयतीति तद्यथा स्तम्भे प्रदीपछाया पतन्ती यथा यथा स्तम्भ आसन्नो भवति तथा तथा स्तम्भः स्वच्छाययाच्छाद्यते दूरे हि वर्तमाने प्रदीपे परिपूर्णस्तम्भो दृश्यते किञ्चिदासन्ने किञ्चित् क्षीयते यावदसन्ने स्तम्भो नष्टरूपो वर्तते तद्वदेतत् वाहयोगः स तादृश इति। पुनस्तिर्यगवनामोन्नामयोगेनाधोभागश्चन्द्रमण्डलस्य क्षीयते। ऊर्ध्वं वर्धते चेति योगाचाराः।। ६२।।

[ परिषण्डाश्चतसोऽस्य दशसाहसिकान्तराः।
षोडशाऽष्टौ सहसाणि चत्वारि द्वे च निर्गताः।। ६३।।
करोटपाणयस्तासु मालाधराः सदामदाः।
महाराजिकदैवाश्च पर्वतेष्वपि सप्तसु।। ६४।। ]

चातुर्महाराजकायिका इति। चतुर्महाराजानां कायः तत्र भवाश्चातुर्महाराजकायिकाः । सुमेरूपरिषण्डादीनीति आदिशब्देन युगन्धरादीनि।

दशसाहस्रिकान्तराः

इति। योजनदशसहस्रप्रमानान्तरा इत्यर्थः। अर्धभाक्षिप्तमितु। अर्धमवष्टव्धम्

सदामदाः

इति सदामत्ता इति वक्तव्ये श्र्लोकबन्धानुगुण्येन सदामदा इत्युक्तम् अर्थैकत्वात्। चतुर्थ्या चत्वारो महाराजानः स्वयं प्रतिवसन्तीति। धृतराष्ट्रः पुर्वदिगभागे विरूदको दक्षिणे विरूपाक्षः पश्चिमे वैश्रवण उत्तरस्मिन्नित्यनुक्रमोऽवगन्तव्यः। चातुर्महाराजिका देवा इत्युक्तामिति यस्माच्चतुर्थ्या परिषण्डायां चत्वारो महाराजानः स्वयं प्रतिवसन्ति अत एवमुक्तम्।

महाराजिकदेवाः

इति। महाराजे भवा इति कृत्वा। महिष्ठो महत्तमः।। ६३-६४।।

[ मेरूमुर्ध्नि त्रायस्त्रिंशाः स चाशीतिसहसदिक्।
विदिक्षु कूटाश्चत्वार उषिता वज्रपाणिभिः।। ६५।।
मध्ये सार्धद्विसाहसपार्श्वमध्यर्धयोजनम्।
पुरं सुदर्शनं नाम हैमं चित्रतलं मृदु।। ६६।।
सार्धद्विशतपार्श्वोऽत्र वैजयन्तो बहिः पुनः।
तच्चैत्ररथपारूष्यमिश्रनन्दनभूषितम्।। ६७।। ]

स विंशतिसहस्रदिगिति। यद्येवं कथमिदमुक्त

समुच्छायघनाश्च ते

इति मध्यभागमेवाभिसमीक्ष्यैवमुक्तमिति तेषामभिप्रायः। अध्यर्धमिति। अधिकमर्धमस्मिन्निति। अध्यर्ध योजनमस्येति

अध्र्धयोजनम्।

समुच्छायेणेत्यध्याहार्यम्। धातुशतेन रङ्गशतेन नानारत्नस्थानविधानसम्पदेति। नानारत्नविधानसम्पदा नानास्थानविधानसम्पदा च। सर्वान्यभवनानां श्रियस्तासां महिमानो महत्त्वानि। हेपणो लज्जनो लज्जाजनक इत्यर्थः। दैर्ध्येणार्धतृतीये योजनशते पार्श्वमिति। एकं पार्श्वमेतत्प्रमानम्। यावच्चतुर्थमप्येतत्प्रमाणमिति। चैत्ररथादीन्यपि चतुरस्रसार्धद्विशतपार्श्वानि।। ६५-६७।।

[ विंशत्यन्तरितान्येषां सुभूमीनि चतुर्दिशम्।
पूर्वोत्तरे पारिजातः सुधर्मा दक्ष्ःइणावरे।। ६८।। ]

सुभूमीनि

इति शोभना भूमय एषामिति सुभूमीनि क्रीडस्थाननि।

चतुर्द्शिम्

इति। चतस्रो दिशा अस्येति चतुर्दिशं क्रियाविशेषणम्। भागुरिमतेन दिक्शब्द आकारान्तो भवति। विंशतियोजनान्त्यतिक्रम्येति। क्रीडास्थानानि भवन्तीति। विंशतियोजनान्यन्तरितानीत्युच्यते।। ६८।।

[ तत ऊर्ध्वं विमानेषु देवाः कामभुजस्तु षट्।
द्वन्द्वालिङ्गनपाण्याप्तिहसितेक्षिप्तमैथुनाः।। ६९।। ]

त्राय्स्त्रिंशानामिति त्रयस्त्रिंशास्तेषु भवास्त्रायस्त्रिंशाः तेषाम्। कामरतिप्रकर्षालयः कामरतिविशेषस्थानम्। वॄक्षानतिक्रमं सन्धायोक्तमिति। तं कोविदारवृक्ष मन तिक्रम्य स गन्धो वर्तते। तस्य पञ्चाशद्योजनानि शाखापत्रपलाशमिति। एवं वृक्षानतिक्रमं सन्धायोक्त पञ्चाशद्योजनानि प्रतिवातं गन्धो वातीति। अत्रोत्तरमाहुः न हि नाम प्रतिवातं वातो भवति यत्रैवोत्पद्यते तत्रैव ध्वंस्यते न देशान्तरं सन्तानं सन्तनोति। उक्त च पञ्चाशद्योजनानि प्रतिवातमिति। तस्मादसमाधिरेषः। तस्मात् समाध्यन्तरमिदमाह। तस्यैव त्विति विस्तरः। किं पुनः कारणम् योजनशतमत्र वातं गन्धो वाति प्रतिवातन्तु पञ्चाशात्। न ततः परेत्यत आह मन्दतदरतसमारम्भात्त्विति विस्तरः। मृदुमारूतप्रतिबध्यमानताया मन्दतरतमसमारम्भः। ततश्च स गन्धसन्तान आश्वेव समुच्छिद्यते। अतः कारणात् न तथा विप्रकृष्टमध्वानं योजनशतप्रमाणं प्रसर्पतीति। उताहो वायुरधिवासितो जायत् इति। यथा तिलेषु पुष्पगन्धाद्गन्धान्तरमुत्पद्यतेऽन्यदैव न स पौष्णो गन्ध इत्याह। यदि पञ्चाशद्योजनं प्रतिवातं गन्धो वाति। यत्त्र्हि भगवतोक्तं न पुष्पगन्धः प्रतिवातमेतीति विस्तरः। मौलोको गन्धो मुस्तादिः। कृत्याकृत्यं समर्थयन्त इति। कार्याकार्य संप्रतीच्छन्ति संप्रधारयन्तीत्यर्थः।

समासेन येषां भाजनं प्रज्ञायत इति। भाजनं स्थानम् विस्तरेनान्येऽपि देवाः क्रीडाप्रमोषकप्रहासकादयः सन्तीति। अतः समासेनोक्तम् द्वन्द्वेन यावदीक्षितेन मैथुनमेषामिति

द्वन्द्वालिङ्गनपाण्याप्तिहसितेक्षितमैथनाः।

सर्वेषां समापत्त्येति। षण्णामपि कामभुजां द्वन्द्वसमापत्त्या परिदाहविगमः। कालपरिमाणं तु प्रज्ञप्तावुक्तमिति। यावता कालेन द्वन्द्वालिङ्गनपाण्याप्तिहसितेक्षितानि भवन्ति तावता कालेन एषां भूमिसम्बन्धवासिनां यामतुषितनिर्माणरतिपरनिर्मितवशवर्तिनां यथाक्रमं द्वन्द्वसमापत्तिरिति वैभाषिकाः। यावद्यावदिति विस्तरः। यावद्यावत् परेण परतरेण विषणां विषयाणां तीव्रतरत्वात् रागोऽपि तीव्रतरस्तावत्तावन्मैथुकार इत्यभिप्रायः।। ९९।।

[ पञ्चवर्षोपमो यावद् दशवर्षोपमः शिशुः।
सम्भवत्येषु सम्पूर्णाः सवस्त्राश्चैव रूपिणः।। ७०।।
कामोपपत्तयस्तिस्नः कामदेवाः समानुषाः।
सुखोपपत्तयस्तिस्रो नव त्रिध्यानभूमयः।। ७१ ।। ]

ते पुनश्चत्वारो देवनिकाया इति। चातुर्महाराजकायिका यावत्तुषिकाः। यथोत्पन्नपरोभोगः। स एषामस्तीति यथोत्पन्नपरि भोगिनः तद्भावस्तस्मात्। यथेच्छयात्मनिमितम् तस्य परिभोगः पूर्ववत्। यथेच्छात्मपरिनिर्मितपरिभोगित्वादिति। आत्मना परेण च निर्मिते यथेच्छयात्मपरनिर्मिते तयोः परिभोगः पूर्ववत्। यथेच्छपरनिर्मितपरिभोगित्वादिति केचित् पठन्ति। तत्र यावदेवं विग्रहः परिनिमितं यथेच्छं परनिर्भितं तस्य परिभोग इति पूर्ववत् निर्माणरतीनां परनिर्मितान् कामान् परिभोक्तु न समृध्यति। तदेवं परनिर्मितवशवर्तिनां निर्माणरतिभ्यो विशेषः प्रदर्शितो भवति। बाह्यरूपदिविषयनिर्माणं चात्र वेदितव्यम्। विवेकजेन प्रथमध्यानभूमिकेनाकुशलविविक्तत्वात्। समाधिजेन च द्वितीयध्यानभूमिकेन वितर्कविचारविगमात् प्रीतिसुखेनेति। प्रीतिलक्षणेन सुखेन निःप्रीतिकेन च सुखेन सौमनस्यविगमात्। सुखं विहरन्त इति सुखमिति क्रियाविशेषणम्। सुखोपपत्तित्वं विचार्यमिति। सुस्वाभावान्न ध्यानन्तरं सुस्वोपपत्तिरिति शक्यं वक्तुम्। कुशल्विपाकत्वेन सुस्वकल्पत्वात् सुस्वोपपत्तिरिति न शक्यं व्यवस्थापयितुम्। चतुर्थेऽपि ध्याने सुखोपपत्तिप्रसङ्ग इति चेत्। न तस्यां भूमौ सुखाभावात्। तस्माद्विचार्य संप्रधार्यमेतदिति भाव।। ७०-७१।।

[ स्थानात् स्थानादधो यावत्तावदूर्ध्वं ततस्ततः।
नोर्ध्व दर्शमस्त्येषामन्यत्रधिपराश्रयात्।। ७२   ]

एवं शेषा इति। ऋद्धया वा यामस्तुषितां गच्छेयुः यदि ऋद्धिमता नीयेरन् देवेन वा तत्रयेन। समानभूमिकास्तु चातुर्महाराजकायिकास्त्रयस्त्रिंशां गच्ःअन्ति। आगतं तुर्ध्वोपपन्नं पश्येदिति। समानभूमिकं नोर्ध्वभूमिकमिति। प्रथमध्यानोपपन्नो न द्वितीयध्यानोपपन्नमित्यादि। तदिच्छयेति ऊर्ध्वोपपन्नेच्छया। इहत्यमिवेति। इह भव इहत्यः। अधोभूमिक इत्यर्थः। इहत्यमिव पश्येदिति निकायान्तरीयाः। यथास्प्रष्टव्यमित्युदाहरणमात्रमेतत्। यथा शब्द इत्येतदपि गम्येत चतुर्णा कामावचराणाम् यामादिस्थानानाम्। द्विगुणोत्तरमिति यामस्थानाद्द्विगुणं तुष्ःइतस्थानमित्यादि। चतुर्थ त्वपरिमाणमिति। तारकावदतलवाटकप्रतिबद्धविमानत्वादपरिमाणत्वसम्भव इत्यभिप्रायः।। ७२।।

[ चतुर्द्वीपकचन्द्राकमेरूकामदिवौकसाम्।
ब्रह्यलोकसहस्रञ्च साह्स्रश्चूडिको मतः।। ७३।।
तत् सहस्र द्विसाहस्रो लोकधातुस्तु मध्यमः।
ततसहस्र त्रिसाहस्रः समसंवर्तसम्भवः।। ७४।। ]

सहस्र ब्रह्यलोकानामिति। ब्रह्य्तकायिब्रह्यपुरोहितमहाब्रह्यणामित्यर्थः। लोके तथा प्रतीत्वात्।

चूडिकः

इति महतो लोकधातोश्चूडाभूत्वाच्चूडिक इत्युच्यते। सम्भवो हि विवर्त इति विविधवर्तनं विवर्तः। विविधा वर्तन्तेऽस्मिन्निति विवर्तः। संवर्तनं संवर्तः सवर्तन्ते वास्मिन्निति संवर्तः। तस्मिन् हि काले सत्त्वा एकस्मिन् धयाने द्वितीये तृतीये चतुर्थे वा संवर्तन्ते संगच्छन्त इति।

विवर्तते च संवृत्त आस्ते संवर्तते समम्

इति उत्तरत्र व्याख्यास्यामः।।

[ जाम्बुद्वीपाः प्रमाणेन चतुःसार्धत्रिहस्तकाः।
द्विगुणोत्तरवृद्धया तु पूर्वगोदोत्तराह्वयाः।। ७५।। ]

जाम्बुद्वीपाः प्रमाणेन चतुःसार्धत्रिहस्तैकाः

इति सार्धत्रिहस्तप्रमाणशरीराः। केचित्तु चतुर्हस्तप्रमाणशरीराः।

पूर्वगोदोत्तराह्वयाः

इति पूर्वगोद् उत्तर इति चाह्वय एषां ते पुर्वगोदोत्तराह्वयाः। तेषां यथासंख्यमष्टहस्तप्रमाणाः पूर्वविदेहकाः षोडशहस्तप्रमाणा गोदानीया द्वात्रिंशद्धस्त प्रमाणका औत्तरकौरवा इति।। ७५।।

[ पादवृद्धया तनुर्यावत् सार्धक्रोशो दिवौकसाम्।
कामिनां रूपिणां त्वादौ योजनार्धं ततः परम्।। ७६।।
अर्धार्धवृद्धिरूर्ध्वं तु परीत्ताभेभ्य आश्रयः।
द्विगुणद्विगुणो हित्वाऽनभ्रकेभ्यस्त्रियोजनम्।। ७७।। ]

इति विस्तरः।

यावत् सार्धक्रोशः

इति। वक्ष्यमाणत्वात् पाद इति क्रोशस्येति गम्यते। क्रोशचतुर्थभागमात्रं च शरीरं चातुर्माहाजकायिकानाम् द्विपादमात्रं त्रायस्त्रिंशानां यावदध्यर्धं क्रोशमात्रं परनिर्मितवशवर्तिनाम्। योजनत्रयेण हीनं द्विगुणमिति। द्विगुनं कृत्वा त्रीणि योजनान्यपनेयानि। पञ्चविंशयोजनशतमनभ्रकाणां शरूरप्रमाणमिति। पुण्यप्रसवानामिति। पुण्यप्रसवानामर्धतृतीये योजनशते शरीरप्रमाणाम्। बृहत्फ़लानां पञ्चयोजनशतानीति गणयितव्यम्।। ७६।।

[ सहस्रमायुः कुरूषु द्वयोरर्धार्धवजितम्।
इहानियतमन्ते तु दशाब्दानादितोऽमितम्।। ७८।।
नृणां वर्षाणि पञ्चाशदहोरात्रो दिवौकसाम्।
कामेऽधरानां तेनायुः पञ्चवर्षशतानि तु।। ७९।।
द्विगुणोत्तरमूर्ध्वानामुभयं रूपिणां पुनः।
नास्त्यहोरात्र आयुस्तु कल्पैः स्वाश्रयसम्मितैः।। ८०।।
आरूप्ये विंशतिः कल्पसहस्राण्यधिकाधिकम्।
महाकल्पः परीत्ताभात् प्रभृत्यधर्मधस्ततः । ८१।।

कुमुदपद्यवदिति। यथेह कुमुदान्यहनि सङ्कुच्नति रात्रो विकसन्ति पद्यानि तु विपर्ययेण तथा तत्र केषाञ्चिदेव पुष्पाणां सङ्कोचदहनि च विकाशादहोरात्रव्यवस्थानम्। शुकीनाञ्च कूजानकूजातात्। अकूजनद्रातिः कूजनात् प्रभातम्। विपर्येन वा यथा शकुनिजोति मिद्धापगमोपगमाच्च मिद्धोपगमाद्रात्रिः प्रज्ञायते मिद्धापगमात् प्रभातमिति।

अधिकाधिकम्

इति विंशतिरधिकम् अधिकं भवतीत्यर्थः। तेनाह। एवं तेषां यथाक्रमं चत्वारिंशत् षष्टिरशीतिः

कल्पसहस्राणि

आयुःप्रमाणमिति। विज्ञानान्त्यायतने चत्वारिंशत्। आकिञ्चन्यायतने षश्टिः। भवाग्रेऽशीतिरिति। तस्मादधो महाकल्पस्यार्धमिति विस्तरः। अशीतिरन्तरकल्पामहाकल्पाः तस्यार्ध चतवरिंशदन्तरकल्पाः। तस्य महाकपार्धस्य कल्पीकृतं चत्वारिंशदन्तरकल्पास्तव्रह्यपुरोहितानामायुःप्रामाणम्। तदेवमात्मीयार्ध महाब्रह्यण आयुःप्रमाणम्। स ह्यव्यर्ध कल्प इत्युच्यते षष्यन्तरकल्पसंख्याः। महाब्रहयदीनामिति आदिशब्देन ब्रह्यपुरोहितानां ब्रह्यकायिकानां च प्रातिलोम्येन ग्रहणम्।

परीत्ताभात् देवनिकायादिति निर्देशपेक्षणात्।। ७८।।

[ कामदेवायुषा तुल्या अहोरात्रा यथाक्रमम्।
संजीवादिषु षट्स्वायुस्तैस्तेषां कामदेववत्।। ८२।।
अर्ध प्रतापनेऽवीचावन्तःकल्पः पुनः पुनः।
कल्पस्तिरश्चा प्रेतानां मासाहःशतपञ्चकम्।। ८३।।
वाहाद्वषशतेनैकतिलोद्धरक्षयायुषः।
अर्बुदां विशतिगुणप्रतिवृद्ध्यायुषः परे।। ८४।।
कुरूवर्ज्योऽन्तरामृत्युः ]

तेषामायुःप्रमाणमुक्तिमिति। तेषां महाब्रह्यपुरोहितानां ब्रह्यकायिकानाम्

कामदेवायुषा तुल्याः

इति विस्तरः। चातुर्महराजकायिकानां यदायुःप्रमाणमुक्तम्। स सञ्जीवे अहोरात्रः। एवं यावद्यत् परिनिर्मितवशवर्तिनामायुःप्रमाणमुक्त स तपने अहोरात्रः।

कामदेववत्

इति कामदेवानामिव कामदेववत्। तत्र तस्येब्वेति वतिः तेन यावद् द्वादश मासकेनेति तेन ततस्त्येनाहोरात्रेण तेषां त्रिंशद्रात्रकेण मासेन द्वादशमासकेन संवत्सरेण तत्रत्यानि दिव्यानि पञ्च वर्पशतान्यायुरित्यादि। एवमन्येष्वपि यथायोगं योज्यमिति। यद्यामानामायुःप्रमाणं तत् संघाते महानरके एकं रात्रिन्दिवम् तेन रात्रिन्द्रिवेन तस्मिन् वर्षसहस्रद्वयमायुःप्रमाणम्। एवमन्येप्वपि यथायोगं योज्यम्। अष्टाविमे भिक्षव इति। अष्टाविमे भिक्षवो नागा महानागाः कल्पस्था धरणीन्धरा अप्रत्युद्धार्याः सुपर्णिनः पक्षिराजस्य देवासुरमपि संग्राममनुभवत्यपि प्रत्यनुभवन्त्यपि। ते पुनः कतमे। तद् यथा नन्दो नागराजः उपनन्दो नागराजः अश्वतरी नागराजः मुचिलिन्दो नागराजः मनस्वी नागराजः धॄतराष्ट्रो नागराजः महाकारो नागराज एलपत्रो नागराज् इति। चूडिकाबद्ध इति शिखाबद्धः।

एकजातिप्रतिबद्धस्येति एकजनमप्रतिबद्धबुद्धत्वस्य। चरमभविकस्येति अन्त्यजन्मनः। येन तस्मिन्नेव जन्मन्यर्हत्त्वं साक्षात् कर्तव्यम् तस्य नास्त्यन्तरेण कालक्रिया यावदर्हत्त्वं न प्राप्नोति। श्रद्धानुसारिधर्मानुसारिणोः। नास्त्यन्तरेण कालक्रिया यावच्छद्धाधिमुक्तदृष्टिप्राप्तौ न भवतः। तद्गभयोरिति बोधिसत्त्वचकवर्तिगर्भयोः तन्मात्रोर्नास्त्यन्तरेण कालक्रिया यवन्न तौ जायेते। एवमादीनामिति आदिशब्देन निरोधासंज्ञिसमापत्तिसमापन्नानां मैत्रयादिसमापन्नानां च नास्त्यन्तरेण कालक्रिया यावत्तस्मात् समाधेर्न व्युत्तिष्ठन्ते।।

[ ओरमाण्वक्षरक्षणाः।
रुपानामाध्वपर्यन्ताः परमाणुरणुस्तथा।। ८५।।
लोहापचशाविगोछिद्ररजोलिक्षास्तदुद्भवाः।
यवस्तथाङ्गुलीपर्व ज्ञेयं सप्तगुणोत्तरम्।। ८६।।
चतुर्विशतिरङ्गुल्यो हस्तो हस्तचतुष्टयम्।
धनुः पञ्चशतान्येषां क्रोशोऽरण्य [ तथा ] मतम्।। ८७।।
तेऽष्टौ योजमित्याहुः ]

चतुर्विशतिरङ्गुल्यो हस्तः इति। अभिधर्मवचनकाले यः पुरूशहस्तः स ग्रहीतव्यः। येन चतुर्द्वीपकादि परिमाणव्यवस्थानम्।।

[ विंषत्क्षणशतं पुनः।
तत्क्षणास्ते पुनः षष्टिर्लवस्त्रिंशद्गुणोत्तराः।। ८८।।
त्रयो मुहूर्ताहोरात्नमासा द्वादशमास्कः।
संवत्सरः सोनरात्रः ]

हेमन्तानामिति। यथा वर्षा इत्येकस्मिन्नयर्थे बहुवचनं प्रसिद्धं तथा हेमन्ता ग्रीष्मा इति द्रष्टव्यम्। प्रवचने त्रय एवर्तवो न यथा लोके षडिति। शिशिरो हि शीतसामान्याद्धेमन्त इत्युक्त। वसन्तोऽप्यूष्मसामान्याद् ग्रीष्मैत्युक्तः। सह्रदपि वृष्टिसामान्याद्वर्षा इत्युक्तेति। हेमन्तग्रीष्मवर्षाणामिति सर्वबौद्धानां हेमन्ताः प्रथम ऋतुः ग्रीष्मा द्वितीयः वर्षास्तृतीयः। तत्राधिकमर्धमस्तेत्यध्यर्धा मासः। तस्मिन्नध्यर्धेमासि निर्गते मार्गशीर्ष्गे सुपौषार्धेऽधिक्रान्ते। शेषेऽधैमासे। पौषास्यार्धेऽवशिष्टे कृष्णचतुर्दश्याम् ऊनरात्रो व्दिवद्भिर्बौद्धैर्निपात्यते त्यज्यत इत्यर्थः। चातुर्दशिकोऽत्र भिक्षुभ्ः पोषधः क्रियते। एवं माधे फ़ाल्गुनार्धेऽतिक्रान्ते शेषेऽर्धमासे फ़ाल्गुनावशिष्टे पुनरपर ऊनरात्रो निपात्यते। तथा ग्रीष्मेषु वैशाखकृष्णचतुर्दश्यामाषादकृष्णचतुर्दश्या चापरावूनरात्नौ निपात्येते। वर्षास्वपि भाद्रपदकृष्णचतुर्दश्यां कार्त्तिककृष्णचतुर्दश्यां चापरावूनरात्रौ निपात्येते।।

[ कल्पो बहुविधः स्मृतः।। ८९।।
संवतैकल्पो नारकासम्भवाद्भाजनक्षयः।
विवर्तकल्पः प्राग्वायोर्यावन्नारकसम्भवः।। १०।।
अन्ताकल्पोऽमिताद्यावद्दशवर्षायुषस्ततः।
उत्कर्षा अपकर्षाश्च कल्पा अष्टादशापरे।। ११।।
उत्कर्ष एकस्तेऽशीतिसहसाद्यवादायुषः।
इति लोको विवृत्तोऽयं कल्पांस्तिष्ठति विंशतिम्।। ९२।।

विवर्तते च संवॄत्त आस्ते संवर्तते समम्।
तेऽह्यशितिर्महाकल्पस्तदसंख्यत्रयोद्भवम्।। ९३।।
बुद्धत्वम् ]

गतिसंवर्तनीति नरकाद्याः पञ्चगतयो गत्येकदेशे देवगतौ संवर्तन्त एकस्थीभवन्तीयर्थः। धातसवर्तनी चेति कामधातू रूपधातौ संवर्तत इति। सत्त्वसवर्तनी यदा सत्त्वा एव संवर्तन्ते ध्यानेष्वेकस्थीभवन्ति। न तु तावद्भाजानाति संवर्तन्ते विनश्यन्तीत्यर्थः। भाजनसवर्तनीति। यदा भाजनान्येव संवर्तन्ते न तु सत्त्वाः एकस्यापि सत्त्वस्य तत्राभावात्। यदय लोक इति विस्तरः। यदयं लोजो विंशतिमन्तरकल्पान विवृतो जातः। यावन्नरकोत्पत्तिप्रवृत्ति निर्यातं तन्निष्ठितं वक्तव्यमित्यर्थः। ततप्रतिपननं वक्तव्यमिति। तत्संवर्तनमारब्धं वक्तव्यमित्यर्थः। एवं तिर्यकसवर्तनी प्रेतसंवर्तनीति च वक्तव्येति। यदा तिर्यक्ष्वेकसत्त्वोऽपि नावशिष्टो भवति। इयतायं लोकः संवृत्तो भवति। तिर्यकसंवर्तन्या यस्या तदानीं नियतं तिर्यग् वेदनीयं कर्म धिर्यते। स लोकधात्वन्तरतिर्यक्षु क्षिप्यते। एवं प्रेतसंवर्तनी योज्या यदा प्रेतेष्विति विस्तरेण। मनुष्यसहचरिष्णव इति मनुषय्सहचरणशीला गोमहिषादयः। धर्मताप्रतिलम्भिकमिति। धर्मता नाम कुशलानां धर्माणां तदनीं परिणामविशेषः तथा प्रतिलभोऽस्यास्तीति दह्र्मताप्रतिलम्भिकम्। यन्मन्बुष्येष्विति। अम्बुद्धीपमनुष्येष्वित्यभिप्रायः। एवं पूर्वविदेहगोदानीयसंवर्तन्यौ योज्यौ। उत्तरकुरूसवर्तनी त्वेवं वक्तव्या भवति। स कालो यदुतत्रकुरौ मनुष्याश्च्यवन्त एव नोपपद्यन्ते। यदा तत्रैकसत्त्वोऽपि नावशिष्टो भवति। इय्तायं लोकः संवृत्तो भवत्युत्तरकुरूसंवर्तन्येति। कस्मादेवं वक्तव्या न तु जम्बुद्वीपसंवर्तन्यादिवदित्याह। तत्र वैराग्या भवात् तरोत्तरकुरौ वराग्याभावात्। इत एव सामन्तकादिति। चातुर्द्वीकसामन्तकादित्यर्थः। त्दाक्षेपके कर्मणि परिक्षीन ति भाजनाक्षेपके भाजनोत्पादके परिक्षीण इत्यर्थः। ब्रह्य विमानं निर्दहादर्चिः परेति गच्छतीत्यर्थः। तच्च तद्भूमिकमेवार्चिरिति। प्रथमध्यानभूमिकम्। कस्मादितया न हि विसभागा विसदृशा अपक्षाला उपद्रवा अगन्यादयः क्रमन्ते तापयन्त इत्यर्थः। आह यद्येवं किमिदमुच्यते। तस्मादेव चेति विस्तरेणेत्यत उचय्ता तत्सम्बद्धसम्भूत्वादिति विस्तरः। तेन कामावचरेणार्चिषा सम्बद्धं सम्भूतं रूपावचरमर्ह्चितस्तद्भावस्तस्माति। एवमन्यस्यामिति य्तथा तेजः संवर्तन्यामुक्तमेवमन्यस्यामप्यपसंवर्तन्यां वायुसंवर्तन्या च यथासम्भवं वेदितव्यम्। कथं कृत्वा नरकादिसंवर्तनी यां पुर्ववदुक्ता यावदियताऽयं लोकः संवृत्तो भवति सत्त्वसंवर्तन्या। ततः शून्ये भाजने सहजोऽद्भातु सम्भव्ति। यस्तं भाजनलोकं लवणमिव विलोपयति स कामावचरोऽब्धातुः प्रथमध्यानभूमिकमब्धातु सम्बधाति स च द्वितीयध्यानभूमिकं सम्बधाति। स चाब्धातुस्त्रिभूमिकोऽपि स्वेन स्वेन भाजनेन सहान्तर्धीयते। एवं वायुसंवर्तन्यां सहजो वायुः सम्भवतीति वक्तव्यम्। कथमिति पूर्ववदुक्ता यावत् सहजो वायुधातुः सम्भवतीति। यस्तं भाजलोकं कामावचरं यावत्तृतीयध्यानभूमिकं क्रमेण पांशुराशिमिव विकरति विध्वंसयति। यावत्तेनैव सार्द्शमन्तधीयते।

विवर्तकल्पं विस्तरेण वक्तुकाम आह। तथाह् इ संवृत्तो लोक इति विस्तरः। तथेति यथा वर्णितम्। तदेति विस्तरः  मदाकाशे मन्दमन्दा वायवः स्यन्दन्ते तदा प्रभृति यदयं लोको विशतिमन्तरकल्पान संवृत्तोऽ स्थात् तनिर्यात परिसमाप्त वक्तव्यम् तदुपयात वक्तव्यमिति तदारब्धं वक्तव्यमित्यर्थः। यथोक्तक्रमविधानमिति यथोक्य्तेन क्रमेण विधानेन च सर्व जायते। यथाक्त क्रमो वायुमण्डलमबमण्डलं ततः काञ्चमनयी पृथिवी ततः समुर्वादयच्चेति। यथोक्तं विधानं यस्य यद्विधानुमक्तमायामोद्वेधपरिणाहसंस्थानलक्षणम् तत्तथा सर्व जायते। प्रथमं तु ब्राह्यमिति विस्तरः।यत् पश्चात् संवर्तते तत्पूर्व विवर्त इति स्थितिः। तेनाह प्रथमं तु ब्रह्यं विमानमुत्पद्यते ततो यावद्यामीयमिति। यावच्छब्देन ब्रह्यविमानान्तरं परनिर्मितवशवर्तिविमानं तदनन्तरं निर्माणरतिविमानं ततोऽन्तरं यावद्यामीयं विमानमुत्पद्यते। ततो यामीयविमानोत्पत्त्यन्तरं वायुमण्दलादीनिति। यदुत भाजनविवर्तन्येति न सत्त्वविवर्तन्येति दर्शयति शून्ये ब्रह्ये विमान उत्पद्यते इति महाब्रह्या। अन्येऽपि च सत्त्वा इति तत्त्परिवाराः। ततश्च्युत्वा ब्रह्यपुरोहितेष्विति तत आभास्वरेभ्यः। तन्निर्यात भवतीति तद्विवर्तनं लोकस्य परिसमाप्तं भवतीत्यर्थः । तदौपयात भवतीति। आरब्धं विवृत्तावस्थानायेत्यर्थः एकोनविंशतिरन्तरकल्पा अपरिमितायुषामिति। एकोऽन्तरकल्पो ब्रह्यलोकविमानादिभाजननिवृत्त्याऽतिक्रान्त इत्येकोनविंशतिरवशिष्टा अन्तरकल्पा अपरिमितायुषां मनुष्याणामतिक्रामान्त्यानरकसत्त्वप्रादुर्भावात्। सा च विवर्तमानावस्थातिकान्तैवावगन्तव्या। प्रादुर्भूते नारके सत्त्व विवृत्ता वस्था प्रारब्धा। सेयमुच्यते अपरिमितायुषामेव हसतां यावद्दशवर्षायुषामेको विवॄत्तावस्थान्तरकल्पः। तेनाह सोऽसौ विवृत्तानां तिष्ठतां प्रथमोऽन्तरकल्प इति। ततोऽष्टादश

उत्कर्षा अपकर्षाश्च।

ततस्तु

उत्कर्ष एकः

इति। विंशत्यन्तरकल्पपरिमाणा विवृत्तावस्थावगन्तव्या।

पञ्च्स्कन्धस्वभावः कल्पः

त एवाधा कथावस्तु

इति। मुक्तकमिति न चतुरागमान्तर्गतमित्यर्थः। अष्टकं मध्याद्विस्मॄतिमिति। अष्टौ स्थानानि कापि प्रदेशे प्रमुषितत्वान्न पठितानि। तेनात्र द्वापञ्चाशत् स्थानानि भवन्ति। षष्ठ्या च संख्यास्थानैर्भवितव्यम्। तान्यष्टकानि स्वयं कानिचिन्नमानि कॄत्वा पठितव्यानि येन षष्ठिसंख्यास्थानानि परिपूर्णानि बह्वेयुः। आसंख्या इति असंख्येयाः संख्यानेनासंख्येया असंख्या इति। बहुवचननिर्फ़ेशादनुक्ता आप तद्धिता भवन्ति। यद्येवं

तदसंख्यत्रयोद्धवम्

इति कथमुक्तम्। नैष दोषः। नास्ति संख्या परेणैष्वित्यसंख्या असंख्येयाः कल्पाः। असंख्यायश्चासंख्याश्चासंख्याश्चेत्यसंख्याः तेषां त्रयम् तेषां कल्पनामसंख्यत्रय उद्भवतीति तदसंख़्ह्यत्रयोद्भवं बुद्धत्वमित्येवं तद्वयाख्यातव्यम्। तस्याभिमतत्वादिति। तस्य परार्थस्याभिमतत्वात् । यो ह्यभिमतः स स्वार्थो दृष्ट इति  तद्धेतोरिति आत्मन्सेहहेतोः ।  आत्मनसेहं तेभ्य इति विस्तरः। आत्मस्नेहं तेभ्यः स्वासान्तानिकेभ्यः संस्कारेभ्यो निव्र्त्य अपेक्षां करूणालक्षणां वर्धयित्वा तद्धेतोरपेक्षाहेतोर्दुःखान्युद्वहन्तीति सम्भाव्य प्रतिपत्तव्यम्। मध्यो दुःखनिवॄत्तिमेवेति। प्रतेयेकबुद्धः श्रावको दुःखनिवॄत्तिमेव मोक्षमेव प्रार्थयते न सुखं संसारिकम्  कुतः दुःखास्पदं तद्यतः स्यमात् तत् संसारैकं सुखं दुःक्स्थानं भाति। श्रेष्ठो बोधिसत्त्वः सवसन्ततिगतैर्दुखैः परेषां सुखमाभ्युदयिकं दुःखात्न्यन्तनिवॄत्तिमेव च निष्ःरेयसस्वभावां परेषां प्रार्थयते। अथवा परेषां सुखमाभ्युदयिकनैःस्रेयसिकं प्रार्थयते दुःखात्यन्तनिवृत्तिमेव च बुद्धलक्षणमात्मीयां परहितक्रियोपायभूतां प्रार्थयते दुःखात्यन्तनिवृत्तिमेव च बुद्धक्षणामात्मीयां परहितक्रियोपाभूतां प्रार्थयते। कस्मादित्याह यतस्तद्दुखदुख्येव स इति। यस्मात् परदूःकहि स बोधिसत्तवो दुःखी भवति। अत एव सुखं द्विप्रकारं प्रार्थयत इति।।

[ अपकर्षे तु शतद्यवत्तदुद्भवह्।

द्वयोः प्रत्येकबुद्धानां खड्गः कल्पशतान्वयः।। ९४।।

अपकर्षस्याधस्तादिति विस्तरः। वर्षतस्याधस्तात् पञ्चकषाय अभ्युतसदा भवन्ति अभ्यधिका भवन्तीत्यर्थः। वर्षशतेऽप्युतसदान त्वभ्युत् सदा यथादह्स्तात्। आयुःकषाय इति किट्तभूतं प्रत्यवरं कषायः आयुरेव क्षाय आयुःकषायः। एवं कल्पषयादयः। यथाक्रममिति जीवितविपत्तिरायुःकषाएण उपकरणविपत्तिः कल्पकषायेण धान्यपुष्पफ़लौषधादीन्युपकरणान्यल्परसवीर्यविपाकप्रभावानि हि तानि भवन्ति नैव व भवन्ति। द्वाभ्यां कुशलपक्षविपत्तिरिति क्लेशकषायेण दृष्टिकषायेण च कुशलपक्षस्य विपत्तिः कथमित्याह। कामसुखल्लिकात्मल्लकमथनुयोगाधिकारारिति। कामसुखमेव कामसुखल्लिका कामसुखलीनतेति वा कामतृष्ना वा कामसुखल्लिका यथा कामसुखे सज्यते। आत्मक्लमथ आत्मोपताप आत्मपीडेत्यर्थः। कामसुखल्लिकात्मक्लमथयोरनुयोगोऽनुसेवनं तस्याधिकारस्तस्मात्। तदुक्तम् कामसुखल्लिकानुयोगमात्मक्लमथानुयोगं वाधिकॄत्यारम्भ क्लेशदृष्टिकषायाभ्यां कुशलपक्ष विपत्तिर्भवत्ति। एवं तावदविशेषेण। गृहीप्रव्रजितपक्षयोर्वा गृहिपक्षस्य क्लेशकषायेण कुशलपक्षविपत्तिः प्रव्रजितपक्षस्य दृष्टिकषायेण। यथाक्रमं कामप्रधाना गृहिणो दृष्टिप्रधानाः प्रव्रज्ति इति। एकेनेति सत्त्वकषायेणा। द्विविधा हि प्रत्येकबुद्धा इति। यस्माद् वर्गचरिणोऽपि प्रत्येकबुद्धाः श्रावकपूर्विणो भवन्ति न केवलं खड्गविषाणकल्पाः तस्मादुत्कर्षेऽपि तेषामुत्पत्तिर्न विरूध्यते। ये ह्युत्पादितस्रोत आपत्तिफ़लसकृदागामिफ़ला अन्तर्हिते बुद्धशासने स्वयमर्हत्त्वमधिग्च्छन्ति ते वर्गचारिणः ते च बुद्धोत्पादकाल एव प्राकृतसम्वेगात्वान्न पुनः संवेजनीया इति। तदीयरपथसन्दर्शनादिति प्रत्येकबुद्धेर्यापथसन्दर्शनात्। पर्यङ्कबद्धसमाधिरूपसन्दर्शनात्। न चार्याः सन्तः कष्ठानि तपांसि तप्येरन्निति। सत्यदर्शनकाल एव शीलवरतपरमार्शदृष्टेः प्रहीणत्वात् शीलव्रतपरामरशदृष्टिपूवकत्वाच्च कष्टतपः क्रियाया। खड्गविषणकल्पा इति। यथा खड्गविषणा अद्वितीया भवन्त्येवं ते गॄहस्थप्रव्रजितैरन्यैश्च प्रत्येकबुद्धैरससृष्टविहारिण इति। खड्ग विषाणकल्पा इत्युचयन्ते।

कल्पशतान्वयः

इति कल्पशतकृतबोधिहेतुरित्यर्थः। अत एव व्याचष्टे महाकल्पानां शत बोधिसम्भारेषु शीलसमाधिप्रज्ञालक्षणेषु चरितः कृतप्रयोग इति। शक्यञ्च तैरिति विस्तरः ऽथापि ते प्रतिसंवित्प्राप्ता न भवेयुः। तथापि तैः प्रणिधिज्ञानेन पूर्वबुद्धानामनुशासनमन्बुस्मॄत्य दह्र्मोदेशयितु शक्यते। ऋद्धेराविःकरणादिति आकाशगमनादिकायाः सत्त्वानुग्रहार्थ प्रकाशनात्। नापि सत्त्वानामभव्यत्वात्। धर्म न देशयन्तीति वाक्यशेषः। कस्मादित्याह तथाहीति विस्तरः। यस्माद्धि लौकिकवीतरागास्तादानीं  संविद्यते तस्माल्लोकोत्तरवीतरागा अपि सम्भवेयुरित्यभिप्रायः। यद्येते न हेतवो धर्मदेशनाया अकरणे जस्तर्हि हेतुरित्याह। किं तर्हीति विस्तरः। पूवाभ्यासवशेन असंसर्गाभ्यासवशेन अल्पित्सुकताधिमुक्तत्वात्। तत्कृतरूचित्वादित्यर्थः। गणपरिकषैणप्रसङ्गपरिहाय च नोत्सहन्ते गम्भीरधर्मग्रहणाय परेषां व्यापर्तम्। ततह व्यापारे हि सति गणः परिक्रष्टव्यः स्यात्। गणपरिकर्षणप्रसङ्ग पुनः कस्मात् परिहरन्ति। व्याक्षेपसंसर्गभीरूत्वात् व्याक्षेपसंसर्गाभ्यां भीरूत्वात्। व्याक्षेपोऽभिप्रेतसमाध्यादिकर्मणयप्रवृत्तिः। संसर्गोऽन्यसम्पर्कः। व्याक्षेपसंसर्गभीरीत्वं पुनः पूर्वाभ्यासवशात्।। ९४।।

[ चक्रवर्तिसमुत्पतिर्नाधोअशीतसहस्रकात्।
सुवर्णरूप्यताम्रायश्चक्रिणस्तेऽधरक्रमात्।। १५।।
एकद्वित्रिचतुर्द्वीपा न च द्वौ सह बुद्धवत्।
प्रत्युद्यानस्वयंयानकलहास्त्रजितोऽवधा।। ९६।।
देशस्थोत्तप्तपूर्णत्वैर्लक्षणातिशयो मुनेः।।

एष प्रज्ञप्तिक इति प्रज्ञप्तिशास्त्रनिर्देशः। चतुर्विधाश्चक्रवर्तिन इति सूत्रे त सुवर्णचक्रवर्तयवोक्तः प्राधान्यात्। अस्थानं वर्तमानकापेक्षया अनवकाशेऽनागतापेख़्षया। अनागतेऽप्यध्वनि सम्भवद्युगपद्दयोरिति। अपूर्वाचरमाविति  नैकः पूर्वो नापरः पश्चात्। किं तर्हि सहेत्यर्थः। समसम इति वीपसा। अथवा समैः सर्वसत्त्वेषु वुद्धर्भगवद्भिः सम इति समसमः। तावतोऽनभिसंस्कारेणेति तावतो लोकधातोरनाभोगेन दर्शनात्। निकायान्तरीया इति महासांधिकप्रभृतयः। न चकत्रेति। लोकधातौ पुरूषायुषमिति। पुषस्यायुः पुरूषायुषम् तद्बिभ्रतेति वर्तते। इदमिन्द्रियमिति श्रद्धादि। अस्याङ्गयेति। अस्य प्रत्ययस्य। किमिदमेकं लोकधातुमधिकृत्येतै। एकचातुर्द्वीपकं त्रिसाहस्रमहाससर वा लोकधातुमधिकॄत्यैत दुक्तमित्यभिप्रायः। चक्रवर्तिनोऽपि चेति विस्तरः ऽस्थानमनवकाशो यदपूर्वाचरमौ द्वौ तथागतौ उत्पद्येयातामिति नानेन वचनेन लोकधात्वन्तरोत्पादप्रतिषेधः तथागतानं तथोक्तत्वात्। तद् यथ चक्रवर्तिनाम्। चक्रवर्तिनो।अपि हि तथोक्ताः ऽस्थानमनवकाशो यदपुर्वाचरमौ द्वौ चक्रवर्तिनौ लोक उत्पोद्येतमिति। जनाः प्राकृतमनुष्याः। मनुष्यास्तु मतिमनत्ः।शास्त्राण्यवहन्त्यि उत्क्षिपन्ति। गृहपतिरत्न कोशाध्यक्षजातीयः। परिणायकरत्न बलाध्यक्षजा तीयः अततसम्बधजातीयमिति। तेन ह्चक्रवर्तिना सम्बद्धः तत्सम्बद्धस्य तत् सम्बद्धेन वा संवर्तनं तस्मै हितं तदनुकूलं तत्सम्बद्धसंवर्तनीयमिति। येन सत्त्वेन कर्मापचितं तस्मिन्नुत्पन्ने ह्चक्रवर्तिन स्वान्येनैवं सत्त्वं कर्माण्युत्पादयन्ति। न तु सत्त्वश्चक्रवर्तिकुशलविपाकोत्पत्तिप्रत्ययभावमापद्यते। स च कुशलविपाकश्चकवर्तिन एवेत्यवगन्तव्यम्। देशस्थतराणीति अभ्रष्टस्थाननै। उत्तप्तराणि प्रभास्वरतराणि। संपूर्णराण्य्खण्डरूपाणि। चक्रवर्तिराजप्रस्तावेनेदं विचार्यते।।

[ प्रागासन् रूपिवत् सत्त्वा रसरागात्ततः शनैः।। ९१।।
आलस्यात् संग्रहं कॄत्वा भागादैः क्षेत्नपो भॄतः।
ततः कर्मपथाधिक्यादपहासे दशायुषः।। ९८।।

किं खलु यावत् सराजका इति रूपावचरा इवासन्नित्यस्यार्थस्य प्रतिपादानाय सूत्रमानयति। सूत्र उक्तमिति विस्तरः। दृश्यरूपत्वा द्रपिणः। उपपादुकत्वान्मनोमयाः  हस्तपादतदगुल्याद्युपेतत्वात् सर्वाङ्गप्रत्यङ्गोपेताः समग्रेन्दिर्यत्वादविकलाः। काण्विभ्रान्ताद्यभद्वादहीनेन्द्रियाः। दर्शनयस्ंस्थानत्वाच् शुभाः। रमणीयवर्णत्वाद् वर्णस्थायिनः। आदित्यादिप्रभानपेक्षत्वात् स्वयप्रभाः। कर्मर्द्धिसंयोगेनाकाश्चरत्वाद् विहाय संगमाः। कवडीकाराहारानपेक्षत्वात् प्रीतिभक्षाः प्रीत्याहारा ति पर्यायौ। तथा दीर्घायुषो दीघमध्वानं तिष्ठन्तीति। मधुस्वादुरासै ति मधुन इव स्वादुरसोऽस्य रास इति अयोनिशोमनस्कारस्य ग्राहभूत्स्य ग्रासतां गतानं सत्त्वानां काम एव ग्रहः। तेनावेशस्तस्यारम्भ इति। सायमाशार्थम्ति। अपराहभोजनार्थम्। प्रातराशार्थमिति प्रातर्भोजनर्थम् सन्निधिकारः संग्रहः। क्षेत्राण् विभज्य अकृष्ःटोतेन शालिना तद्वत्तिकल्पनात्। क्षत्रियादिसंज्ञानं नैरूक्तेन विघिना सिद्धिः।।

[ कलोपस्य शस्त्ररोगाभ्यां दुर्भिक्षेण च निर्गम्नः।
दिवसान् सप्तमासांश्च वर्षाणि च यथाक्रमम्।। ९९।। ]

निर्व्याणमिति परिसमाप्तिः। अधर्मरागरक्ता इति। काममिथ्याचाररागाध्यवसिताः। विषमलोभाभिभूता इति। विषमलोभः परकीयस्वीकरणेच्छा चौर्याद् बलाद्वा तेनाभिभ्ज़्ता। मिथ्याधर्मपरीता इति। विपरीतधर्मपरिदीपकाः। अमातृग़्या अपितृग़्या इति विस्तरः। पुनः कल्पयस्य निर्याणकाल इति इह कल्पस्य निर्याणानि त्रीण्युच्यन्ते शस्त्ररोगदुर्भिक्षाणि। किमकस्य दशर्वषायुः कल्पस्य त्रीणि निर्याणानि क्रमेण भ्वान्ति आहोस्विदेकैकस्यैकैकं क्रमेणेति। एके तावदाहुः एकैकमिति। परे पुनराहुः एकस्य क्रमेण त्रीणि भवन्ति पूर्वदुर्भिक्षं तदनन्तरो रोगस्तदतरं शस्त्रमिति। पूर्वकस्तु पक्ष इष्त इति पश्यामः। तैरेव दोषरिति। अर्धादिरागादिभिः। अमनुष्याः पिशाचादय ईति व्याध्यादिकामुतसृजन्ति अजो वाहरन्ति प्रभावतो वा पुष्फ़लौषधिप्रभृतीनां महाभूतानि दूशयन्ति। यतस्तेषामसाध्या व्याधयः प्रादुर्भवन्ति। यतो म्रियन्ते तदा चेति विस्तरह्। यदेह जम्बुद्वीपे शास्त्र प्राणातिपातस्तदा द्वयोर्द्वीपयो पूर्वविदेहावरगोदानीययोर्वयपाद उद्रेकप्राप्तो भवति। यदेह रोगस्तदा तयोदरुबल्यम् यदेह दुभिक्ष तयोर्जिघत्समापैपासे।। ९९ ।।

[ सम्वर्तन्यः पुनस्तिसो भवन्त्यग्नयम्बुवायुभिः।
ध्यानत्रयं द्वितीयादि शीर्ष तासां यथाक्रमम्।। १००।।
तदपक्षालसाधम्र्यानन् चतुर्थेऽस्त्यनिञ्जनात्।
न नित्यं सह सत्त्वेन तद्विमानोदयव्यात्।। १०।।

तीर्थकाराः कणभुकप्रभृतयः। वायुर्बीजमुक्तमिति। बहुविधप्रभावभिन्नैर्वायुभिरभिमथ्यामाना इति वचनात् । तस्य निमित्तमिति। रूपावचरोवायुरविनष्ट। कामवचरस्य विवर्तकाले प्रथमक्षणोत्पन्नस्य वायोर्निमित्तम्। बीजान्याहियन्त इति। पञ्च बीजजातानि मूलबीजादीनि। मूलबीम  फ़ल्लन्बीजं बीजबीजग्रबीजं स्कन्धबीजम्। एवमपीति यद्यप्याह्रियन्ते बीजानि न ते स्थूलभावानां बीजादिभ्यो बीजाङ्कुगण्डादिभ्योऽङ्कुरादीनामङ्कुरकाण्डादीनामुत्पत्तिमिच्छन्ति। बीजादीनि हि तेषां निमित्तकारणानि समवायिकारणानि। समवायिकण्णैश्च भवितव्यम्। अत आह। किं तर्हि स्वेभ्य एवावयवेभ्य इति विस्तरः। तद् यथाङ्कुराद्यवयवी अङ्कुराद्यवयेवेभ्यः। तेषामप्यङ्कुराद्यवयवानां स्वेभ्य एवावयवेभ्यः। तेषामपि स्वेभ्य एवेति एवं यावत् परमाणुभ्यः। अन्यत्र परमाणुपसर्पणादिति। न जनने बीजादीनां सामर्थ्य किञ्चिदस्ति। अङ्कुरादिपरमाणूपसर्पणात्तु तेषां सामर्थ्यमिष्यत इत्यभिप्रायः। अनियमो हि स्यादिति तन्त्वादिभ्योऽपि कटाद्युत्पत्तिः स्यादित्यर्थः। शक्तिनियमादिति यथा बीजादीनां सामर्थ्यनियमान्ननियमो भविष्यति। शब्दपाकजोत्पत्तिव। यथा शब्दोऽभिघातादिभ्यो विजातीयेभ्य उत्पद्यते अथ च न यतः कुतश्चिद् गन्धरासदेर्विजातीयादुत्पद्यते अभिघातादीनामेव विजातीयानां तदुत्पादने सामर्थ्यात्। तथा पाकजा रूपादयो विजातीयादग्न्यादेरूत्पद्यन्ते अथ च न यतः कुतश्चिद्विजातीयाच्चक्षुरादेरूत्पद्यन्ते अग्न्यादेरेव तदुत्पादने सामर्थ्यात्। वैशेषिक आह चित्रो वै गुणधर्मः स्वजातीयेभ्यो विजातीयेभ्यश्चोत्पद्यते। स्वजातीयेभ्यस्तावद्रपरसगन्धरूपर्शदयः कारणपूर्वा रूपरसगन्धस्पर्शादिभ्य एवोत्पद्यन्ते विजातीयेभ्योऽपि संयोगबिभागपाकजादयः कर्मादिभ्यः। तदेवं गुणधर्मो द्राव्यधर्म प्रत्यनुदाहराणम्। त एव हि ते थते विस्तरः ।वीणादय एव हि ते तथा तेन प्रकारेण कटादिरूपेण सन्निविष्ठा व्यवस्थितास्तां कटसंज्ञां लभन्ते पिपीलिकादिपंक्तिवत् यथा पपीलिकस्तथा सन्निविष्टाः पंक्तिरिति संग़्यालभन्ते न च ताभ्योऽनुयत् ओंक्तिद्रव्यमस्ति भवतामपि सिद्धन्ते ऽकथं गम्यते तानि वीणादीनि तथा सन्निविष्टानि कटादिसंज्ञां लभन्ते न पुनस्तेभ्यो द्रव्यान्तराणीति। अत आह एकतन्तुसंयोगे पटस्यानुपलम्भात्। आरब्धकार्ये ह्येकस्मिन् तन्तौ चक्षुसंस्पर्शाभयं संयुक्ते तत्समवेतः पट्ऽपि च ताभ्यां सन्निकृष्ट इत्यसावपि तथैवोपलभ्येत। यदि व्रूयात् प्रतिबन्धात्तस्यानुपलब्धिरिति अत आह को हि तदा सतो विद्यमानस्य पटस्योपलब्धौ प्रतिबन्ध इति। नास्ति प्रतिबद्नह् इत्यभिप्रायः। तस्मान्न पटो नाम द्रव्ग्यान्तरमस्तीति। स्यान्मतम् एकैकस्मिन् तन्तौ प्रदेशेन पटो वर्तते न सर्वात्मना वर्तत इति। अत उच्यते अकृतस्नवृत्ताविति विस्तरः ऽकृत्स्नावृत्तौ पटस्य कल्प्यमानायां पटभागोऽत्रैकैकस्मिन् तन्तौ स्यान्न पटः। ततः किमिति चेत्। अत आह समूहामात्रं च पटः स्यादिति वर्तते। एकस्मिन् तन्तावेको भागो अपरमिन्न्पर इति तन्तुवर्तिनां बहूनां भागानां समुदायः पट इति च प्राप्नोति न चेष्यते। कश्च तन्तुब्य्योऽन्यः पटभाग इत् कणभुगभक्ताः प्रष्टव्या। येन भागेनायमिन्द्रियसन्निकृष्टे तन्तौ वर्तेत। तसादेतामपि कल्पनां कल्पयित्वा नातोऽन्यः पटः सिध्यति। स्यान्मतम् एकैकस्मिन्नपि तन्तौ पठो वर्तते। पटोपलब्धेस्तु पटेन्द्रियसन्निकर्षः पटस्यानेकाश्रयसंयोगापेक्षो निमित्तमिति। अतोऽनेकाश्रयसंयोगापेक्षायामुपलब्धौ कल्पयमानायां दशामात्रसंघाते गृहमाणे पट उपलभ्येत न तूपलभ्यते पटमध्यभागाद्यदर्शनात्। अथ मतम् नैव तदानीमपीन्द्रियेण मध्यादिभागाः सम्प्रयुज्यन्त इति। अतो दशामात्रसंघाते पटोलब्धिर्न भवतीति। तत इदमभिधीयते। न वा कदाचिदिति विस्तरः न वा कदाचित् पटोपलब्धिः। स्यात्। मध्यपरभागानामिन्द्रियेणासन्निकर्षात् नैव सम्भवोऽस्ति यतदाम्भका मध्यपरभागाः सर्व ऐन्द्रियेण सन्निकृषेरन्। तथा च सति अत्न्त्वादिष्वप्येष प्रसङ्ग इति न च किञ्चिदपि कार्यमुपलभ्येत। किञ्च क्रमसन्निकर्षे चेति विस्तरः। यदा क्रमेण चक्षुः संस्पर्शनेन्द्रियं वा पटं गृह्णीयात्तदा पटग्रहणं न स्यात् युगपदनेकाश्रयसंयोगाभावाच्चक्ष्ःउःस्पर्शनेन्द्रिययोः। एवमन्येषामप्यवयवानां ग्रहणं न स्यात्। तस्मादिति विस्तरः। यस्मात् क्रमेण पटुब्दुधिः कटबुद्धिर्वा तस्मादवयवेष्ःवेव पटावयवेषु कटावयवेषु वा तद्बुद्धिः पटबुद्धिः पटबुद्धिः कटबुद्धिर्वा विकल्पवशादभवति। अलातचक्रवत् यथालाते शीघ्रसञ्चारात्तत्र तत्रोत्पद्यमाने अलातचक्रबुद्धिर्भवति तद्वत्। साधनं चात्र न द्रव्यसत् पटः अवयवग्रहणसपेक्षग्रहणात्वात् अलातचक्रवत्। भिन्नरूपजातिक्रियेष्विति विस्तरः। भिन्नरूपेषु तन्तुषु नीलपीतादिभेदात् भिन्नजातिषु दुकूलकर्पासादिभेदात् भिन्नक्रियेषूर्ध्वाधोगमभेदात्। पटस्य रूपाद्यसम्भवात्। कीदृशं तत्र रूपं भवतु जातिः क्रिया वा। स्यादेषा बुद्धिः चित्रमस्य रूपादीति। तदेवं चित्ररूपदित्वे कल्प्याने विजातीयारम्भोऽपि स्यात् तन्तुवीरणयोरपि कटारम्भः स्यात्। तथा स्तै धर्मविशेषविपर्ययः प्राप्नोति अत्यन्तविजातीया रम्भकत्वं द्रव्याणां प्राप्नोतीत्यर्थः। अविचित्रे च पार्श्वान्तरे कपार्श्वचित्रस्य पटस्यादर्शनं स्यात् तस्य चित्ररूपाभिमत्व्त्वात्। रूपदर्शने हि तदाश्रयद्रव्योपलब्धिरिष्यते वैशेषिकैः। महत्यनेकद्रव्यवत्त्वाद्रूपाच्चोपलब्धिः। रूप्संस्कारा भावाद् वायोरनुपलब्धिरिति वचनात्। चित्ररूपदर्शनं वा अचित्रे पार्श्वे स्याद् यदि पटो दृश्येत। चित्रं हि तस्य रूपमिष्यते। क्रियापि च चित्रेय्यति चित्रमिति एकं तद् द्रव्यं विचित्रक्रियमिति न युज्यते। क्रियावैचित्रये हि क्रियावदभिमतानां द्रव्याणामन्यत्वमिष्यते। तापप्रकाशभेदे चेति विस्तरः। अग्निप्रभालक्षणस्यावयविन द्रव्याणामन्यत्वमिष्यते। तापप्रकाशभेदे चेति विस्तरः। अग्नोप्रभालक्षणस्यावयविन आदिम्अध्यान्तेष्ःवारम्भकेषु चेति विस्तरः। अग्निप्रभालक्षणस्यावयविन आदिमध्यान्तेष्वारम्भकेषु तापप्रकशेभ्दे स्पर्शनभेदो दृष्टः। स च तद्भेदस्तत्र यथाक्रमं तीव्रमध्यमन्दता। तस्यावयविनः प्रभाद्रव्यस्य तौ रूपस्पशौ नोपपद्येते। न ह्य्तेकस्यावयविनोऽनेकं रूपं स्पर्शो वा युज्यते। तेन नावयवेभ्योऽवयविव्यमन्यदस्तिति। अथ मतम् अयदितन्त्वादिब्योऽवयवेभ्यो न पटाद्यवयवी व्यतिरिक्तोऽस्ति परमाणूनामतीन्द्रियत्वात् न च तैरवयैवरैन्द्रियक आरब्ध इति कृत्स्नं जगदप्रत्यक्षं स्यात् च गवादि दृशय्ते। तस्मात् तीन्द्रियैः परमाणुभिरर्थान्तरमन्यदैन्द्रियकमाब्धमिति सिद्धिरित्यत्रोच्यते। परमण्वतीन्द्रियत्वेऽपीति विस्तरः। यथा भवतां वैशेषिकाणामतीन्द्रियत्वेऽपि समस्तानां कार्यरम्भकत्वं न व्यस्तानाम् एवमस्माकमपि समस्तानामेव प्रत्यक्षत्वं न वय्स्तानामसत्यवविन्यर्थान्तरभूते। यथा चक्ष्ःउरादीणां चक्षूरूपालोकमनस्काराणां समस्तानां चक्षुर्विग़्यानोत्पत्तौ कारणत्वं नैकैकस्य एवं प्रमाणूनाम तीन्द्रियत्वेऽपि समस्तानां प्रत्यक्षत्वं नैकैकस्य। तैमिरिकाणां च पूरूषाणं विकीर्णानामसंयुक्तानां केशानां समूह उपलभ्यते अनारब्धेऽप्यवविनि। न त्वेकैकः क्लेशः। तेषां तैमिर्काणां परमाणुवेदकः केह्सोऽतीन्द्रियः। इत्यतो नास्ति तेऽन्यद्रव्यम्।

तदेवमवयविनं प्रतिषिधय रूपादिभ्यो गुणेभ्योऽर्थानरं गुणिनं प्रतिषेद्धुकाम् आह रूपादिष्वेव चेति विस्तरः। रूपादिष्वेव परमाणुरिति संज्ञाविनिवेशः। तद्विनाशे रूपादिविनाशे सिद्धः प्रमाणुविनाश इति। वैशेषिका आहुः द्रव्यं हि परमाणुह्। अन्यच्च रूपादिभ्यो द्रव्यम् रूपगन्धरसस्पर्शवती पृथिव्बी इत्येवमादिसिद्धान्तवचनात्। अप्रयुक्तमस्यान्यत्वम् यस्मान्न केचचित् परिच्छिय्दते इमानि पृथिव्य्पतेजाम्सि। इमे एषां पृथिवादीनां रूपादयो रूपस्रसगन्धस्पर्शा गुणा इति। ब्रूयादतीन्दिर्याणि तत्वतो न निर्धार्यन्त इति अत आह चक्षुःस्पर्शनग्राह्यणि च तानि पॄथिव्यादीनि प्रतिज्ञायन्त इति दग्ध्जेषु चेति विस्तरः ऊर्णादीन्यवयविद्रव्याणि च पच्यन्त इति पैलुकाः। तदुक्त भवति प्राक्तनुगुणनिवॄत्तौ पाकजगुणनिवॄत्तौ पाकजगुणोत्पात्तौ तदश्रयास्तु द्रव्याणिन्तीत् तदवस्थानान्येव भवन्तीति। तथैवोर्णादिबुद्धिः स्यात्। न च भवति तस्मात्तद्दव्यबुद्धयभावात् रूपादिष्वेव तद्बुद्धिर्न द्रव्येऽर्थान्तरभूत इति। यदि हि ऊर्णदिद्रव्यं रूपादिभ्यो ऽन्यत् स्य्तात्तततद्वस्थानं भवतीति रूपादीन्येवाग्निसम्बन्धादुष्णेन निरूद्धानीत्यूर्णादिबुद्धिः स्यात् न च भवति तस्माद्रपादिष्ःवेवोर्णादिबुद्धिः। वैशेषिका आहुः यदि रूपादिमात्रे घटः स्यात् अग्निसम्बन्धाद्रूपादीनि पाकजादीन्यन्यानुत्पद्यन्त इति स एवायं घट इत् इन परिज्ञायेत। यस्य तु पाकाद्रूपादीन्येवोत्पद्यन्ते निरूध्यन्ते चेति स एव घतस्तदवस्थानो भवतीति तस्य तत् परिज्ञानं युझयत इत्यय इदमुच्यते। ओक्जजोत्पत्तौ घटपरिज्ञानं संस्थानसामान्यदिति। रूपाद्याकॄतिसामान्यादित्यर्थः। पंक्तिवत्। यथा न वस्तत् पिपीलिकानां तद्वयतिरिकत पंक्तिद्रव्यं नामास्ति अथ च पूर्वपंक्तिसंस्थानसामान्यदन्यस्यामिति तत्परिज्ञानं भवति सैवेयं न तु तादवस्थ्यादिति। आत्रोच्यते चिह्नमपश्यतोऽपरिज्ञानदिति यस्मात् खण्डनिम्नोन्नतादि चिह्नमपश्यतस्तत्परिज्ञानं न भवत्यतः संस्थानसामान्यादिति सिद्धम्।

सा चेति विस्तरः सा च प्रीतिः प्रस्रब्धियोगेन। प्रीतेर्मनसः प्रसरब्धिर्जायत इति प्रस्रब्धियोगेनाश्रयमृदुकरणाद्पकल्पा। अत एव चेति विस्तरः। आश्रयमृदुकरणात्। तस्मिन् द्वितीये समापत्तिध्याने कृतस्नस्य कायस्थैर्यस्यापगमाद्दुःखेन्द्रियनिरोध उक्तः। सुखस्य च प्रहाणाद्दुःखस्य च प्रहाणात्। पूर्वमेव सौमनस्यदौर्मनस्ययोरस्त गमाददुःखासुखमुपेक्षास्भॄतिपरिशुद्धं चतुर्थं ध्यानमुपसंपद्य विहरतीति वचनात्। आध्यात्मिकापक्षालरहितत्वादिति। ये वितर्कविचारादयोऽष्टावाध्यात्मिकापाक्षालाः

वितर्कविचारौ चासू सुखादि च चतुष्टय 

इति तद्रहित्वादित्यर्थः। आनेज्यमिति। एजू कम्पन इत्यस्य धातोरेतद्रुपमानेजयमिति यदा त्वानिञ्जयमिति पाठस्तदा इगेः प्रकृत्यन्तरस्यैतद्रूपं द्रष्टव्यम्। न तैः शुद्धवासकायिकैः शक्यमारूप्यात्प्रवेष्टूं विपश्यनाचरितत्वात्। शमथचरिताश्चारूप्याः। नाप्यन्य्तत्र गन्तुमधरां भूमिं विशेषगाम्मित्य्वात्।। १००।।

[ सप्ताग्निनाद्भिरेकैवं गतेऽद्भिः सप्तके पुनः।
तेजसा सप्तकः पश्चाद् वायुसंवर्तनो ततः।। १०२।। ]॥

एतेने क्रमेणेति। यथोक्तेन सप्तानां तेजःसंवर्तनीनामनन्तरमद्भिः संवर्तनी भवत्येका। पुनः सप्तानां तेजःसंवर्तनीनामनन्तरमद्भिः संवर्तनी भवति द्वितीया। एवं यावत् सप्तम्यद्भिः संवर्तनी ।

एवं गतेऽद्भिः सप्तके पुनः।

तेजसा सप्तकः

ततः

पश्चात्

एका

वायुसंवर्तनी

भवति। किं कारणम् यथावर्णीतं बहुना कालप्रकर्षेणापसंवर्तनी भवति। ततोऽपि बहुतरेण वायुसंवर्तनीत्यत इदमुचय्त्ते। यथैव हि तेषामिति विस्तरः। यथा प्रथमध्यानाद् द्वितीयध्यानसमापत्तिविशेषादात्मभवानां द्वितीयध्यानभूमिकानां स्थितिव्सिशेषः। अर्धमहाकल्पाध प्रथमध्यानोपपन्नानामायुःप्रमाणम् कल्पद्वयं द्वितीयध्यानोपपन्नानामिति। तथा भाजनानामपि। किम् स्थितिविशेष इति। एवं द्वितीयादपि तृतीयध्यानस्य विशेषो वक्तव्यः। एवं च कृत्वेति। यस्मादष्तकृत्वस्तेजःसंवर्त्यनीसप्तका इति षट्पञ्चशत्तेजःसंवर्तन्यो भवन्ति सप्तापसंवर्तन्थ एका वायुसंवर्तनीति चतुःषष्टिः संवर्तन्यो भवन्ति। तस्माद् यदुक्त प्रज्ञप्तिभाष्ये चतुःषष्टिः कल्पाः शुभकृतस्नानामायुःप्रमाणमिति। तत सूक्त भवति। यथा

ऊर्ध्वन्तु परीत्ताभेभ्य आश्रयः।

द्विगुणद्विगुणः

इत्यव्रोक्त शुभकृतानां चतुःषष्टियोजनानां शरीप्रमाणम्। शरीरप्रमाणेन च तेषामायुःप्रमाणमुक्तम्।

आयुस्तु कल्पैः स्वाश्रयम्

इति वचनात् । एकैका संवर्तनी महाकल्प इति कॄत्वा। इयता हि कालेन तेषामयुषः परिसमाप्तिरिति।। १०२।।

आचार्यशोमित्रेकृतायां स्फ़ुटार्थायामभिधर्मकोशव्याख्यायां तृतीयं कोशस्थानम्।।

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project