Digital Sanskrit Buddhist Canon

सद्धर्मस्मृत्युपस्थानसूत्र

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Miroj Shakya & Milan Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

सद्धर्मस्मृत्युपस्थानसूत्र

(Second Chapter)


<1.1> पुनर् अपि योगाचार आध्यात्मिके धर्मे धर्मानुपश्यी

विहरति: कथम् अनुक्रमेणास्रवान् प्रजहमानस्य भिक्सोः प्रथ-

मम् अकुशलान् धर्मान् प्रजहाति, कुशलांश् च धर्मान् भावयति

सम्पश्यति संविचिनोति मनसा भावयति प्रतिष्ठापयति? स पश्यति श्रुतमयेन ज्ञानेन दिव्येन वा चक्षुषा:


<1.2> स भिक्षुर् आदित एव यैर् विषयैर् इन्द्रियैः परस्परहेतु-

प्रत्ययभूतैः कृत्स्नं जगद् अनादिकालप्रवृत्तं संसारे भ्र-

मति, तम् एनं जन्मनिदानभूतं विषयसमुद्रम् अवलोकयति:

"बाह्याध्यात्मिकैर् विषयैर् इदं जगद् भ्राम्यते।"


<1.3> स आदित एव तावद् विवेकाभिरामताम् अभ्यस्यति। विविक्तेष्व्

अरण्यवनान्तरारामपलावपुञ्जवृक्षमूलश्मशानेषु चित्तमर्कट-

बन्धनार्थम् अभ्यस्यति। विवेकाभिरतस्य चित्तं प्रसीदति। स


(१)


ग्रामेषु हसितलुडितक्रीडितेषु नाभिरमते। न स्त्रीदर्शनतत्परो

भवति, न सङ्गणिकाभिरतिर् भवति। द्वे गणिके मये ब्रह्मच-

र्यस्य: गणिका सङ्गणिका च। स द्वे गणिके प्रजहात्य् आदौ, अस्यै-

काग्रतरं मनः प्रसीदति।


<1.4.1> स सम्प्रतर्कयति: "कथम् आदित एव शक्यते चित्तं सङ्-

क्षेप्तुं धारयितुम्?" स आदित एव पश्यति: "अष्टादशैर् मनो-

व्यभिचारैर् मनः प्रतिसरति कुशलाकुशलाव्याकृतम्।"


<1.4.2> कतमैर् अष्टादशभिः? तद्यथा: चक्षुषा रूपाणि दृष्ट्वा, सौमनस्यस्थानीयं भवति,  साङ्क्लेशिकं अकुशलविपाकं भ-

वति, प्रतिवेदयति सम्प्रतर्कयते। दौर्मनस्यस्थानीयं भवति, 

विरागयति। तद् अस्य कुशलविपाकम्। उपेक्षास्थानीयं भवति, 

अव्याकृतविपाकं भवति।


(२)


<1.4.3> एवं श्रोत्रेण शब्दं श्रुत्वा, सौमनस्यस्थानीयं भवति, साङ्क्लेशिकम् अकुशलविपाकम्। दौरमनस्यस्थानीयं भवति, व्यवदानालम्बनं कुशलविपाकं भवति। उपेक्षास्थानीयं भवति, अव्याकृतविपाकं भवति।


<1.4.4> एवं घ्राणेन गन्धान् घ्रात्वा, सौमनस्यस्थानीयं

भवति, साङ्क्लेशिकम् अकुशलविपाकं भवति। दौर्मनस्यस्था-

नीयं भवति, व्यवदानिकं कुशलविपाकं भवति। उपेक्षास्था-

नीयं भवति, अव्याकृतविपाकं भवति।


<1.4.5> एवं जिह्वया रसान् आस्वादयित्वा, सौमनस्यस्थानीयं

भवति, साङ्क्लेशिकम् अकुशलविपाकं भवति। दौर्मनस्यस्था-

नीयं भवति, व्यवदानिकं कुशलविपाकं भवति। उपेक्षास्था-

नीयं भवति, अव्याकृतविपाकं भवति।


<1.4.6> एवं कायेन स्प्रष्टव्यं स्पृष्ट्वा, सौमनस्यस्थानीयं

भवति, साङ्क्लेशिकम् अकुशलविपाकं भवति। दौर्मनस्यस्था-

नीयं भवति, व्यवदानिकं कुशलविपाकं भवति। उपेक्षास्था-

नीयं भवति, अव्याकृतविपाकं भवति।


(३)


<1.4.7> एवं मनसा धर्माङ् ज्ञात्वा, सौमनस्यस्थानीयं

भवति, साङ्क्लेशिकम् अकुशलकर्मविपाकं भवति। दौर्मनस्यस्था-

नीयं भवति, व्यवदानिकं कुशलविपाकं भवति। उपेक्षास्थानीयं भवति, अव्याकृतविपाकं भवति।


(४)


<1.4.8> एवम् अष्टादशमनोव्यभिचारैस् त्रिविपाकैः संसारे च्युत्युपपत्तिर् भवति।


<1.5.1> स यदा भिक्षुर् अष्टादशमनोव्यभिचारान् पश्यति, तदान-

न्दिततरा अन्तरीक्षचरा यक्षा भौमानां यक्षानाम् अभिनिवेद-

यन्ति। भौमाश् चान्तरीक्षचरा यक्षाश् चतुर्णाम् महारज्ञां प्र-

मुदितमनसोऽभिनिवेदयन्ति। ते चत्वारो महाराजानश् चातुर्महा-

राजकायिकानां देवानां निवेदयन्ति: "योऽसौ जम्बूद्वीपात् कुल-

पुत्रो अमुष्माद् ग्रामाद् अमुष्मान् निग्रमाद् अमुष्माद् विषयाद्

अमुष्मात् कुलात् केशश्माश्रूण्य् अवतार्य काषायाणि वासांस्य् आच्छाद्य,

श्रद्धया आगाराद् अनगारिकां प्रव्रजितः, सोऽष्टादशमनोव्य-

भिचारान् प्रतर्कयति साक्षीकुरुते विवेकाभिरत एकान्तचारी।"


<1.5.2> तच् छ्रुत्वा चतुर्णां महाराज्ञां सकाशात्, आनन्दिततरा भवन्ति

देवाश् चातुर्महाराजकायिकाः: "हीयते मारपक्षः। अभ्युद्द्-

ह्रियते सद्धर्मपक्षः।"


<1.5.3> ते देवाश् चातुर्महाराजकायिकास् त्रिदशेश्वराय शक्रायाभिनि-

वेदयन्ति: "योऽसौ, देव, जम्बुद्वीपात् कुलपुत्रो .... यावत्....

अमुकात् कुलात् केशश्मश्रूण्य् अवतार्य काषायाणि वासांस्य् आच्छाद्य,


(५)


श्रद्धया अगाराद् अनगारिकां प्रव्रजितः, स विविक्ताभिरतो भवति

.... यावत् ..... श्माशाणिकोऽष्टादशमनोव्यभिचारान् प्रतर्कयति,

साक्षीकृत्वोपसम्पद्य विहरति।" तच् च श्रुत्वा चातुर्महाराजका-

यिकानां देवानां सकाशात्, प्रीततरमना भवति देवः कौशिकस् 

त्रिदशेश्वरः।


<II-2>


<2.1> पुनर् अपि योगाचार आध्यात्मिके धर्मे धर्मानुपश्यी विहरति: स भिक्षुर् अष्टादशमनोव्यभिचारान् प्रपश्य काम् अन्यां

भूमिं साक्षात्कुरुते? स पश्यति श्रुतमयेन ज्ञानेन दिव्येन वा चक्षुषा:


<2.2> चत्वार्य् अधिष्ठानानि पश्यति। तद्यथा: प्रज्ञाधिष्ठानं

सत्याधिष्ठानं त्यागाधिष्ठानं उपशमाधिष्ठानम्।


<2.3> कथं भिक्षुः प्रज्ञाधिष्ठानं प्रतिपद्यते? इह भिक्षुः

स्वयम् एव का यं यथास्थानं सद्धर्मतया पश्यति। तं

प्रजानीते, प्रविभज्य प्रत्यवेक्षते: "सन्त्य् अस्मिन् काये पृथिवी-

धातुर् अब्धातुस् तेजोधातुर् वायुधातुर् आकाशधातुर् विज्ञानधातुश् च।"


<2.4.1> तत्र कतमः पृथिवीधातुः? पृथिवीधातुर् द्विविधः। अस्त्य् आध्यात्मिकोऽस्ति बाह्यः।


<2.4.2> तत्राध्यात्मिकः कतमः? यत् किञ्चिद् अस्मिन् काये अध्या-

त्मं प्रत्यात्मम् उपगतम् उपात्तं तत्रोपगतं त्वङ्मांसादि-

समुदयम् उपात्तं केशदन्तनखरोमसमुदयं खक्ख-

टं खरगतम् उपगतम् उपादत्तम् तत् पुनः कतमम्? यदुत:


(६)


" केशरोमा नखदन्ता रजस् त्वङ्मांसास्थि सिरा स्नायुर् हृद-

यं प्लीहा क्लोमकं वृक्का यकृत् खेट आमाशयपक्वाशया अन्त्राण्य्

अन्त्रगुणा उदरम् उदीरयकं मस्तकलुङ्गं चेति।" यद् वान्यद्

अप्य् अस्मिन् काये अध्यात्मं प्रत्यात्मं खक्खटं खरगतम्

उपगतम् उपादत्तम्; अयम् उच्यते आध्यात्मिकः पृथिवीधातुः।


<2.4.3> तत्र कतरो बहिर्धः पृथिवीधातुः? यत् किञ्चिद् बहि-

र्धं कक्खटत्वं खरगतम् अनुपगतम् अनुपादत्तम्;

अयम् उच्यते बहिर्धः पृथिवीधातुः।


<2.4.4> तत्र यश् चाध्यात्मिकः पृथिवीधातुः, यश् च बहिर्धः, तद्

एकध्यम् अभिसङ्क्षिप्य, " धातुर् एष धातुमात्रम्," न वेदका-

धिष्ठितम्, न यादृच्छिकं पृथिवीधातुं पश्यति: " न नित्यम्, न

सुखम्, न शुचिम्, न सात्मकं वा पश्यामि।" स भिक्षुः प्रज्ञा- 

धिष्ठानाधिमुक्तिः: "सर्वं नैतन् मे। नैषोऽहम् अस्मि। नैतन्

ममात्मेति।" एवम् एतद् यथाभूतं सम्यक्प्रज्ञया दृष्ट्वा, पृथि-

वीधातुतश् चित्तं विरज्यते। एवं भिक्षुः प्रज्ञाधिष्ठानाधि-

मुक्तो भवति।


<2.5.1> तत्र कतरोऽब्धातुः? अब्धातुर् अपि द्विविधः। अस्त्य्

आध्यात्मिकोऽस्ति बहिर्धो धातुः।


<2.5.2> तत्राध्यात्मिको यत् किञ्चिद् अस्मिन् काये आपोऽब्गतं भवति

उपपन्नलक्षणम् अब्धातुः क्लेदस्वाभाव्यं शरीरे: "स्वेदः


(७)


खेटः सिङ्घाणकं मस्तकं शोणितं वसा लसिका मेदो मज्जा

पित्तं प्रस्रावं मस्तकलुङ्गं चेति।" यद् वा पुनर् अन्यद् अस्मिन्

काये किञ्चिद् अस्त्य् अध्यात्मं प्रत्या त्मम् आपोऽब्गतम्

उपगतम् उपादत्तम्; अयम् उच्यते आध्यात्मिकोऽब्धातुः।


<2.5.3> बहिर्धः कतमः? यत् किञ्चिद् बहिर्धम् आपोऽब्गतं

स्नेहः स्नेहगतम् अनुपगतम् अनुपादत्तम्; अयम् उच्यते

बहिर्धोऽब्धातुः।


<2.5.4> तत्र यश् चाध्यात्मिकोऽब्धातुः, यश् च बहिर्धः, तद्

ऐकध्यम् अभिसङ्क्षिप्य," धातुर् एष धातुमात्रम्। सर्वं नै-

तन् मे। नैषोऽहम् अस्मि। नैतन् ममात्मेति," सम्यक्प्रज्ञया

दृष्ट्वा, अब्धातुतश् चित्तं विरज्यते। एवं स भिक्षुः प्रज्ञा-

धिष्ठानम् आरोहते।


<2.6.1> तत्र कतरस् तेजोधातुः? तेजोधातुर् अपि द्विविधः। अस्त्य्

आध्यात्मिकोऽस्ति बहिर्धः।


<2.6.2> तत्राध्यात्मिकस् तेजोधातुर् यत् किञ्चिद् अस्मिन् काये अध्या-

त्मं प्रत्यात्मं तेजस् तेजोगतम् उपगतम् उपादत्तम्। स पुनः

कतरः? तद्यथा: येन सन्तप्यते, येन च परिदह्यते, येन च

ज्वरीयते, येन चाशितपीतखादितास्वादितानि सम्यक्सुखेन परि-


(८)


णामं गच्छन्ति। यद् वा पुनर् अन्यद् अप्य् अस्मिन् काये अध्या-

त्मं प्रत्यात्मं तेजस् तेजोगतम् उपगतम् उपादत्तम्; अयम्

उच्यते आध्यात्मिकस् तेजोधातुः।


<2.6.3> तत्र कतमो बहिर्धस् तेजोधातुः? यत् किञ्चिद् बहिर्धं

तेजस् तेजोगतम् उष्णम् उष्णगतम् उपगतम् उपादत्तम्; अयम्

उच्यते बहिर्धस् तेजोधातुः।


<2.6.4> तत्र यश् चाध्यात्मिकस् तेजोधातुः, यश् च बहिर्धः, तद्

एकध्यम् अभिसङ्क्षिप्य, " धातुर् एष धातुमात्रम्। सर्वं नै-

तन् मम। नैषोऽहम् अस्मि। नैतन् ममात्मेति," एवम् एतद् यथा-

भूतं सम्यक्प्रज्ञया दृष्ट्वा, तेजोधातुतश् चित्तं विरज्यते:

"नेदं कारकाधिष्ठितम्, न वेदकाधिष्ठितं प्रवर्तते तेजो-

धातुः।"


<2.7.1> तत्र कतरो वायुधातुः? वायुधातुर् अपि द्विविधः। अस्त्य्

आध्यात्मिकोऽस्ति बहिर्धः।


<2.7.2> तत्राध्यात्मिकः कतरः? यत् किञ्चिद् अस्मिन् काये अध्यात्मं

प्रत्यात्मं वायुर् वायुगतं लघुलघुसमुदीरणत्वम् उपगतम्

उपादत्तम्। तत् पुनः कतरः? ऊर्ध्वगतो वायुर् अधोगतो वायुः पा-

र्श्वगतो वायुः कुक्षिगतो वायुस् तथा पिप्पलकाः सूचकाः शस्त्रका

वायवो वाताष्ठीलो वायुर् अशीतिर् वा वायवः सह क्रिमिसंवारैर्

अशीतिर् अङ्गमङ्गानुसारिणो वायवः। यद् वा पुनर् अन्यद् अप्य् अस्मिन् 

काये अध्यात्मं प्रत्यात्मं वायुर् वायुगतं लघुसमुदीर-

णत्वम् उपगतम् उपादत्तम्; अयम् उच्यते आध्यात्मिको वायुधातुः।


(९)


<2.7.3> तत्र कतमो बहिर्धो वायुधातुः? यत् किञ्चिद् बहिर्धं

वायुर् वायुगतं लघुलघुसमुदीरणम् अनुपगतम् अनुपा-

दत्तम्; अयम् उच्यते बहिर्धो वायुधातुः।


<2.7.4> तत्र यश् चाध्यात्मिको वायुधातुः, यश् च बहिर्धः, सर्वम्

अभिसङ्क्षिप्य, "धातुर् एष धातुमात्रम्। सर्वं नैतन् मम।

नैषोऽहम् अस्मि। नैतन् ममात्मेति," न कारकाधिष्ठितम्, न

वेदकाधिष्ठितम् एतद् यथाभूतं सम्यक्प्रज्ञया दृष्त्वा, वायु-

धातुतश् चित्तं विरागयते। एवं प्रज्ञाधिष्ठानं साक्षीभवति

भिक्षुः।


<2.8.1> तत्र कतर आकाशधातुः? आकाशधातुर् अपि द्विविधः। अस्त्य् आध्यात्मिकोऽस्ति बाह्यः।


<2.8.2> तत्राध्यात्मिको यत् किञ्चिद् अस्मिन् काये अध्यात्मं प्रत्य्-

आत्मम् आकाश आकाशगतम् उपगतम् उपादत्तम् अस्फुटम् अस्फ-

रणीयरूपगतम्, येनाशितपीतखादि तास्वादितान्य् अवकाशेनान्तर्-

गच्छन्ति। यद् वा पुनः कण्ठशुषिरम् एव श्रोत्रशुषिरं चक्षु-

शुषिरं घ्राणशुषिरं जिह्वाशुषिरं आहारस्यान्तर्गतं जिह्वाव-

काशदातृ; अयम् उच्यते अध्यात्मिक आकाशधातुः।


<2.8.3> तत्र कतरो बहिर्ध आकाशधातुः? यत् किञ्चिद् आकाशगतम्

अनुपगतम् अनुपादत्तम् अस्फुटम् अस्फरणीयम्। तद्यथा: वृक्ष-

शाखान्तरशुषिराणि पर्वतान्तराशुषिराणि कन्दरगुहानदीशुषिराणि यद्

वा बाहिरं शुषिरम् अस्ति; अयम् उच्यते बहिर्ध आकाशधातुः।


(१०)


<2.8.4> तत्र यश् चाध्यात्मिकरूपगत आकाशधातुः, यश् च बहि-

र्धः, तद् ऐकध्यम् अभिसङ्क्षिप्य, "धातुर् एष धातुमात्रम्।

सर्वं नैतन् मम। नैषोऽहम् अस्मि। नैतन् ममात्मेति," एवम्

एतद् यथाभूतं सम्यक्प्रज्ञया दृष्ट्वा आकाशधातुतश् चित्तं

विरज्यते। एवं दृष्ट्वा, न प्रपद्यते। "'सर्वं नैतन् मम।

नैषोऽहम् अस्मि। नैतन् ममात्मेति।' न कारकाधिष्ठितम्, न

वेदकाधिष्ठितम्," आकाशधातुतश् चित्तं विरज्यते।


<2.9> तत्र कतरो मनोधातुः? मनोधातुर् द्वादशभिर् आय-

तनैर् संयुक्तः। चक्षुर्विज्ञानानुभूतम् अर्थं मनोविज्ञा-

नेनानुभवति। एवं श्रोत्रघ्राणजिह्वाकायमनोविज्ञानानि मनोवि-

ज्ञानधातुप्रभवानि मनोमूलानि।


(११)


॥ भवन्ति चात्र गाथाः॥


मनःपूर्वङ्गमा धर्मा मनःश्रेष्ठा मनोजवाः।

मनसा सुप्रसन्नेन भाषते वा करोति वा।

निर्धूतपापकल्माषश् च्युत्युपपत्तिविजानकः।

कर्मणाम् फलतत्त्वज्ञः प्राप्नोति पदम् अच्युतम्॥ <2.10.1>


सर्वेन्द्रियविधाता यः सर्वभूतहिते रतः।

शान्तो दान्तेन्द्रियः स्वस्थो भिक्षुर् भवति तादृशः॥ <2.10.2>


(१२)


षडिन्द्रियरथारूढो रागशत्रुनिवर्तकः।

प्राज्ञो धीरः क्रियावान् यः स शान्तं पदम् आप्नुते॥ <2.10.3>


अरण्यवासी सन्तुष्टो भूमिशायी समाहितः।

धुनोति पापकान् धर्मान् वायुर् मेघान् इवाम्बरे॥ <2.10.4>


शुभवाग्देहकर्मान्तः शुभचर्यासु संरतः।

तत्त्वदृष्टिः क्रियादक्षो नाशयेन् मारसादनम्॥ <2.10.5>


रागादयो न बाधन्ते शुभचित्तम् अलोलुपम्।

मैत्र्याकारुण्यबहुलं भिक्षुर् नैर्याणिके स्थितः॥ <2.10.6>


यस्य रूपा दयो नेष्टा विषया बन्धहेतवः।

स याति परमां शान्तिं यत्र गत्वा न शोचते॥ <2.10.7>


(१३)


<3.1> पुनर् अपि योगाचार आध्यात्मिके धर्मे धर्मानुपश्यी

विहरति: किम् असौ भिक्षुः प्रथमम् अष्टादशमनोव्यभिचार-

भूम्यन्तरात् प्रथमाद् द्वितीयं भूम्यान्तरम् आरूढः षड्-

धातुतत्त्वज्ञभूमिम् इदानीं किन्धर्मानुस्मृतिभूमिन् आक्रमेत्?

स पश्यति श्रुतमयेन ज्ञानेन दिव्येन वा चक्षुषा:


(१४)


<3.2>  तृतीयं भूम्यन्तरम् आक्रामति स भिक्षुः तत्त्वदर्शी।

कतरं भूम्यन्त्ररम्? चित्तपुरःष रभूम्यन्तरम्। स

सुखम् उत्पद्यमानं विजानाति। दुःखम् उत्पद्यमानं विजानाति।

सौमनस्यं जानाति। दौर्मनस्यं जानाति। उपेक्षां विजानाति।


<3.3.1> किं सुखं विजानाति? सुखवेदनीयं स्पर्शं प्रतीत्यो-

त्पद्यते सुखा वेदना। असौ सुखां वेदनां वेदयमानः, "सुखवेदनां विन्दामीति" यथाभूतं प्रजानाति। अथ तस्य सुख-

वेदनीयस्य स्पर्शस्य निरोधधातुः। सुखवेदनीयं स्पर्शं

प्रतीत्योत्पन्नां वेदनां वेदयमानः, "सुखा मे वेदना

स्तङ्गता," अस्तङ्गतां वेदनां प्रत्यभिजानीते। "व्युपशान्ता मे

सुखा वेदना। दुःखा मे वेदना उत्पन्ना," प्रतीत्यसमुत्पन्नां

तां दुःखवेदनां प्रत्यभिजानीते।


<3.3.2> " उत्पन्ना मे सुखा वेदना" प्रत्यभिजानीते सद्भूतो विस्त-

रेण यथैव सुखवेदनीयः स्पर्शो विहितः, तथैव दुःख-

वेदनीयेऽपि वाच्यः।


<3.3.3> किं सौमनस्यं विजानाति? "सौमनस्यस्थानीयं

स्पर्शं प्रतीत्योत्पन्नं सौमनस्यम्।" कथं दौर्मनस्यं

प्रत्यभिजानीते? "दौर्मनस्यस्थानीयं स्पर्शं प्रतीत्योत्प-


(१५)


न्नं दौर्मनस्यम्।" अथ तस्यैव सौमनस्यस्थानीयां वेद-

नां यथावद् अनुपश्यतः, सौमनस्यस्थानीयं निरोधं दृष्ट्वा,

सौमनस्याद् विरज्यते: "या सा मे सौमनस्यवेदना प्राग् उत्पन्ना,

सा नष्टा शान्ता व्युपगता।" ततोऽस्य वैराग्यम् उत्पद्यते, यथा- भूतं प्रतिवेदयति।


<3.3.4-5> एवं दौरमनस्येऽपि वाचयम्। उपेक्षायाम् अप्य् एवं वाच्यम्।


<3.4> तस्यास्य तृतीयं भूम्यन्तरम् आक्रमतो नन्दिततरा भौमा

यक्षा अन्तरी क्षचराणां यक्षाणाम् अभिनिवेदयन्ति। तेऽपि चतु-

र्णां महाराज्ञाम् अभिनिवेदयन्ति। तेऽपि चातुर्महाराजिकानां

देवानां अभिनिवेदयन्ति। तेऽपि कौशिकशक्रस्य देवानाम् इन्द्र-

स्याभिनिवेदयन्ति: "योऽसौ जम्बूद्वीपाद् अमुष्माद् विषयाद्

अमुष्माद् ग्रामाद् अमुष्मात् कुलाद् अमुको ना म कुलपुत्रः केश-

श्मश्रूण्य् अवतार्य काषायाणि वासांस्य् आच्छाद्य, श्रद्धया आगाराद्

अनगारिकां प्रव्रजितः, स तृतीयभूम्यन्तरम् आरूढ इच्छति

मारेण सह योद्धुम्। हीयते मारपक्षः। अभ्युद्ध्रियते सद्-

धर्मपक्षः।"

<3.5> तच् च श्रुत्वा, प्रीततरमनाः कौशिकः शक्रो देवानाम् इन्द्र

ऐरावणम् आरुह्य, महर्द्धिकप्रमुखं देवगणं गृह्य,

यामानां देवानां निवेदयति: "जम्बुद्वीपात् कुलपुत्रो... विस्त-

रेण यावत् .... तृतीयं भूम्यन्तरम् आरूढ इच्छति मारेण

सह योद्धुम्। हीयते मारपक्षः। अभ्युच्चीयते सद्धर्मपक्षः।"


<3.6> तच् च श्रुत्वा साक्रस्य देवानाम् इन्द्रस्य सकाशात्, प्रीततर-

मनसो यामा देवा भवन्ति।


(१६)


<4.1.1> पुनर् अपि योगाचार आध्यात्मिके धर्मे धर्मानुपश्यी

विहरति: कथं स भिक्षुस् तृतीयभूमयन्तराच् चतुर्थं च

भूम्यन्तरम् अवगाहति? स पश्यति श्रुतमयेन ज्ञानेन दिव्येन वा चक्षुषा:


<4.1.2> स चतुर्थभूम्यन्त्रम् आक्रामति: " स्पर्शप्रत्यया मे सुखा वेदनोत्पन्ना सुखहेतुका सुखनिदाना सुखाप्र-

त्यया। सा निरुद्धा व्युपशान्तान्तर्हिता। तस्याः समनन्तरं मे दुःखा वेदना उत्पन्ना दुःस्पर्शा दुःखनिदाना दुःखसमुदया

दुःखा एव दुःखप्रत्यया।"


<4.1.3> एवं स्पर्शप्रत्ययां वेदनां प्रत्यभिजानीते: क्षणे

क्षणे ममोत्पद्यते वेदना स्पर्शसहाया स्पर्शप्रभवा।" स

सुखायां वेदनायां न हृष्यते न संरज्यते। तां वेदनां

नाभिनन्दति न बहुलीकुरुते नास्वादयति। एवं दुःखायाम् अपि

वेदनायां न पीड्य ते न विहेठ्यते नाविलीक्रियते।


<4.1.4> उपेक्षकः स विहरति स्मृतिमान् सम्प्रजानकः। इमाभिस्

तिसृभिर् वेदनाभिर् यदात्यन्तिकं चित्तं विरक्तं भवति, अथ

परम् उपेक्षणैवावशिष्टा भवति, सुपरिशुद्धा भवति सुपर्य्-

अवदाता। तस्यैवं भवति: " अहो बताहम् इमाम् उपेक्षाम्, एवं


(१७)

परिशुद्दाम् एवं पर्यवदाताम्, आकाशायतन उपसंहरेयम्,

तत्प्रतिरूपं मे चित्तं भवेत्, साक्षीकृता मया उपेक्षा निष्ठ-

आन्ता प्रतिबद्धा तदत्यन्तमध्यवसिता तदुपा दत्ता।

सोऽहम् उपेक्षं आकाशानन्त्यायतन उपसंहरेयम्। अहम् अप्य्

एताम् उपेक्षाम्, एवं परिशुद्धाम् एवं पर्यवदाताम्, विज्ञानान-

न्त्यायतन आकिञ्चन्यायतने नैवसञ्ज्ञासञ्ज्ञायतन उप-

सम्हरेयम्।" अनेनैवं नैवसञ्ज्ञानासञ्ज्ञायतनम् उपसम्-

पद्य, विहरति: "तत्प्रतिरूपं मे चित्तं भवेत्, तन्निश्रिता उपेक्षा

तिष्ठेत्, तदध्यवसिता तदुपादानात्। सोऽहम् उपेक्षां नैव-

सञ्ज्ञानासञ्ज्ञायतन उपसंहरेयम्।"


<4.1.5> यथापि नाम दक्षः कर्मकारो वा कर्मकारान्तेवासी

वा उल्कामुखे जातरूपं प्रक्षिपेत। प्रक्षिप्य, नाडिकासन्-


(१८)


दंशम् आदाय, एवम् एतत् सुकर्मण्यं कुर्यात्। तच् च सुवर्ण-

रूपं कल्याणं शोभनं प्रशस्तवर्णं सर्वकर्मकरण-

प्रशस्यवर्णनीयं सर्वदेशानुशंससृतं सन्निहितं निकृत-

मलकल्माषकषायं मृदुकर्मणीयं प्रशस्तं च रत्नं प्र-

भयावगुण्ठयति। तम् एव स दक्षः कर्मकारो वा कर्मकारान्ते-

वासी वा सुपरिकर्मकृतं जातरूपं विदित्वा, यत्राकाङ्क्षतेऽपिब-

न्धनविकृतौ- यदि वा घण्टाकाय यदि वा सन्दर्शनकाय

यदि वा केयूराय यदि वा चक्षुषि शोभायै यदि वा पुस्तकशो-

भायै यदि वा हस्तशोभायै यदि वाङ्गुलिशोभायै यदि वाङ्गु-

लेयकमुद्रायै यदि वा जातरूपमालायै यदि वा मुकुटालङ्का-

राय- यत्र यत्रोपनामयति, तत्र तत्रैव कर्मण्यं भवति।


<4.1.6> एवम् एव प्रज्ञासुशीलो भिक्षुः: " अहम् एताम् उपेक्षाम्, एवं 

परिशुद्धाम् एवं पर्यवदाताम्, सचेद् आकाशायतन उपसंह-

रेयम्, तत्प्रतिरूपं मे चित्तं स्यात्, उपेक्षा तिष्ठेत्, तन्निश्रिता


(१९)


तत्प्रतिबद्धा तदध्यवसिता तदुपादानात्।" स ताम् उपेक्षाम्

आकाशायतन उपसंहरति। विज्ञानानन्त्यायतन आकिञ्चन्यायतने

नैवसञ्ज्ञानासञ्ज्ञायतन उपसंहरति। तस्यैवं भवति: " या मे 

इयम् उपेक्षा नित्या ध्रुवा शाश्वताऽविपरिणामधर्मिणी स्यात्?" स

तत्त्वम् उपलब्धायतनचतुर्थः: "आरूप्येषु मे उपेक्षास्य न नित्या न नित्यालम्बना, न ध्रुवा न ध्रुवालम्बना, संस्कृता

बोद्धव्या। न नित्यालम्बना, आकाशानन्त्यातनालम्बना विज्ञानान-

न्त्यायतनालम्बना आकिञ्चन्यायतनालम्बना नैवसञ्ज्ञानासञ्ज्ञा-

यतनालम्बना। उपेक्षाव्यञ्जितम् एतत्, शिवम् एतत्, उपेक्षाहितम् 

एतत्।'


(२०)


<4.1.7> स कायपर्यन्तिकां वेदनां वेदयमानः, उत्पद्यमानं

प्रत्यभिजानीते, निरुध्यमानां प्रत्यभिजानीते। चक्षुःसंस्प-

र्शजां वेदनां प्रत्यभिजानीते। श्रोत्रसंस्पर्शजां वेदनां प्र-

त्यभिजानीते। घ्राणसंस्पर्शजां वेदनां प्रत्यभिजानीते। एवं

जिह्वाकायमनःसंस्पर्शजां वेदनां प्रत्यभिजानीते।


<4.1.8.1> स वेदनासाक्षी भिक्षुस् ताम् एव वेदनां सूक्ष्मातराम्

अवलोकयते। स चक्षुःसंस्पर्शजां वेदनाम् उत्पद्यमानाम् उत्प-

न्नाम् अवस्थितां वेदयति। निरुद्धां निरुध्यमानां प्रत्यभि-

जानीते :" निरुद्धा मम वेदना।"


<4.1.8.2> पुनर् अन्यां श्रोत्रसंस्पर्शजां वेदनां प्रत्यभिजानीते:

"या सा चक्षुःसंस्पर्शजा मम वेदना, सा निरुद्धासतङ्गता

वान्तीभूता, न पुनर् एष्यति। तस्यान् निरुद्धायाम् इयम् अपरा

श्रोत्रसंस्पर्शजा वेदना उत्पन्ना सुखालम्बेनेन दुःखाल-

म्बनेन नैवसुखदुःखालम्बनेन।" स तां श्रोत्रसंस्प-

र्शजां वेदनां यथायथावद् अनुपश्यञ् जानन्, न श्रोत्रप्रति-

बद्धायां वेदनायां संरज्यते। स तां वेदनां वेदयमानो

विरज्यते विमुच्यते। 


<4.1.8.3> श्रोत्रसंस्पर्शजायां वेदनायां तस्यां निरुद्धायां

घ्राणालम्बना वेदना उत्पद्यते। स तां घ्राणसमुत्थां वेद-

नां प्रतिवेदयति: "उत्पन्ना मे घ्राणसंस्पर्शजा वेदना,

सुखालम्बना सुखा, दुःखालम्बना दुःखा, नैवसुखदुःखा-

लम्बना नैवसुखदुःखा।" स घ्राणालम्बनां वेदनां


(२१)


यथावत् प्रतिवेदयते, अस्तङ्गताम् अपि प्रतिवेदयति। तस्यान् निरु-

द्धायां घ्राणालम्बना वेदना उत्पद्यते सुखा दुःखा अदुःखा-

सुखा। ताम् असौ प्रतिवेदयति: " उत्पत्स्यते हि मम घ्राणाल-

म्बना वेदना। उत्पन्ना यथैवाध्यवसिता, तथैवोत्पन्ना एषापि 

निरोत्स्यते।"


<4.1.8.4-6> तस्यां निरुद्धायां जिह्वालम्बना वेदनोत्पत्स्यते

त्रिविधा .... पूर्ववत् ..... मनोवेदनालम्बना त्रिविधा।


<4.1.9> स सद्भूत वेदनाधिविशालं चतुर्थं भूम्यन्त-

रम् आक्रामति।


<4.1.10> तस्यास्यारब्धवीर्यस्य सहोत्साहस्य मारबन्धनम्

आस्थातुकामस्य हृष्टतरा भौमा यक्षा अन्तरीक्षचराणां यक्षाणाम्

अभिनिवेदयन्ति। तेऽपि चतुर्णां महाराज्ञां अभिनिवेदयन्ति। तेऽपि

चातुर्महाराजकायिकानां देवानाम् अभिनिवेदयन्ति। तेऽपि शक्रस्य

देवानाम् इन्द्रस्य नेवेदयन्ति। शक्रोऽपि यामानां देवानाम् अभि-

निवेदयति: " योऽसौ जम्बुद्वीपात् कुलपुत्रो अमुष्माद् विषयात्

अमुष्माद् ग्रामाद् अमुको नामा कुलपुत्रः, स केशश्मश्रूण्य्

अवतार्य काषायाणि वासांस्य् आच्छाद्य, श्रद्ध्या आगाराद् अनगारिकां

प्रव्रजितः। स घटन् व्यायच्छन्, अनुपूर्वेण सद्भूतं वेद-

नाविशालं चतुर्थं भूम्यन्तरम् आरूढः। सोऽहं देवानाम्


(२२)


आवेदयामि। हीयते मारपक्षः। अभ्युद्ध्रियते सद्भूतो देवसद्-

धर्मपक्षः।"


<4.1.11> तम् ऐरावणारूढं शक्रं दृष्ट्वा, यामा देवा हृष्टाः

शक्रस्यारोचयन्ति: "प्रियं नः, शक्र, यद् धार्मिका धर्मानु-

परिवर्तिनो जम्बूद्वीपका मनुष्याः। तद् एवं सद्धर्मप्रति-

रूपभूतस् त्वं शक्रः।"


< II-४.२>


<4.2.1> पुनर् अपि योगाचार आध्यात्मिके धर्मे धर्मानुपश्यी

विहरति: कथं स भिक्षुर् मारबन्धनं जहन् प्रजहन्,

वेदनाम् अवलोकयति? स पश्यति श्रुतमयेन ज्ञानेन दिव्येन वा चक्षुषा:


<4.2.2> स भिक्षुर् वेदनां सद्भूत एवावलोकयति: "चक्षुर्-

विज्ञानालम्बनाकुशला उत्पन्ना। सा उत्तिष्ठमाना द्वितीयेन कुशला-

लम्बनेन निरोधिता, कुशला जाता। साव्याकृतेनालम्बनेन निरो-

धिताव्याकृता जाता।" एवं श्रोत्रसंस्पर्शजां वेदनां घ्राणसं-


(२३)


स्पर्शजाम् वेदनां जिह्वासंस्पर्शजां वेदनां कायसंस्पर्श-

जां वेदनां मनःसंस्पर्शजां वेदनां प्रतिवेदयति। प्रति-

वेदयमानस्य कुशला धर्माः परिपूरिं गच्छन्ति। तन्वीभवन्ति

चास्य क्लेशाः।


<4.2.3> तथैवं भावयतः, सुक्ष्मतस् ताम् एव वेदनां प्रत्य-

वेक्षते। स पश्यति धर्मवेदनां धर्मवेदनया सह

निरुध्यमानाम्। यथा प्रदीपप्रभादित्यप्रभया विरुद्धा, इत्य् एवं वेदनाद्वयं निरुध्यते।


<4.2.4> पुनर् अपि वेदनां कुशलाकुशलाम् पुष्यमाणां प्रति-

वेदयते। तद्यथा दीपप्रभा द्वितीयां दीपप्रभां पुष्णाति।


<4.2.5> पुनर् अपि वेदनां प्रविचिनोति: "का वेदनान्यया सह वेद-

नयात्यन्तविरुद्धा?" स पश्यति: "कुशला वेदनाकुशलया वेदनया

सहात्यन्तविरुद्धा। तद्यथा दीपप्रभा नक्षत्रप्रभया सह वि-

रुद्धा।"


<4.2.6> पुनर् अपि स भिक्षुः प्रविभजति: " का वेदनान्यां

वेदनाम् अत्यन्तम् एव हन्ति? स पश्यति: " अनास्रवालम्बना

वेदना सास्रवालम्बनां वेदनां अत्यन्तम् एव हन्ति। तद्यथा-

ग्निप्रभया हिमप्रभा हन्यते।" 


(२४)


<4.2.7> "का वेदना कया वेदनयाभिभूता पुनर् एवाप्यायते?" स

पश्यति: "अकुशला वेदना यदा कुशलां वेदनाम् अभिभवति, सा 

पुनर् एवाप्यायते। यथादित्येन दिवा चन्द्रप्रभाभिभूता भवति,

सा चन्द्रप्रभा रात्राव् आप्यायते।"


<4.2.8> पुनर् अपि स भिक्षुर् वेदनां प्रविभजति वेदनैकाग्र-

स्मृतिः: "का बह्व्यो वेदनाः सम्पृक्ताः कया एकया वेदनया

सह विरुद्धाभिभूयन्ते?" स पश्यति: "बह्व्यो वेदना लौकिक-

क्रिया लोकोत्तरयानास्रवया वेदनयाभिभूयन्ते। तद्यथा रात्रौ

बह्व्यो नक्षत्रग्रहताराणां प्रभा एकया चन्द्रप्रभयाभि-

भूयन्ते।"


<4.2.9> पुनर् अपि स भिक्षुर् वेदनानुपश्यी क्षयव्ययानुपश्यी

वेदनां सूक्ष्मतरम् अवलोकयति: " का बह्व्यो वेदनाश् चक्षुः-

श्रोत्रघ्राणजिह्वा कायसमुत्थाः सास्रवाः किं कुशलम् आर-

भन्ते? स पश्यति: " लौकिकाः सास्रवा वेदना बह्व्योऽपि

नानास्रवालोकनसमर्था भवन्ति। यथा रात्रौ नक्षत्रग्रह-

ताराणां प्रभाश् चन्द्रविरहान् नालोकनसमर्था भवन्ति।"


(२५)


<4.2.10> पुनर् अपि स भिक्षुस् तां वेदनाम् अवलोकयति : " कियत्काला-

वस्थायिन्यो मम वेदनाः?" स पश्यति: "उत्पादव्ययक्षणाव-

स्थायिन्यो मम वेदनाः, तद्यथा विद्युतः।"


<4.2.11> पुनर् अपि स भिक्षुर् एवं प्रवितर्कयति: " किं चक्षुर्-

वेदना घ्राणवेदनायाः प्रत्यंशं प्रयच्छति?" स पश्यति: "बुद्बुदकालादिभिन्नेन्द्रियालम्बना वेदना सर्वेषाम् इन्द्रि-

याणाम्। तद्यथा गौरश्वोष्ट्रखरमहिषाणां भिन्नजातीयानां

नैकप्रत्ययो भवति, एवम् एव पञ्चेन्द्रियसमुत्थानाम् अनादि-

विरचितानां नैकालम्बनं भवति। विषयभेदेन भिन्नविष-

यानीन्द्रियाणि, यथा गौरश्वोष्ट्रखरमहिषवराहाः।"


<4.2.12> तस्यैवं वेदनानुपश्यिनो भिक्षोः सूक्ष्मतरं ज्ञानम्

उत्पद्यते। स तं ज्ञानम् आसेवते भावयते बहुलीकरोति।


<4.2.13> तस्यासेवमानस्य वेदनानुपश्यिनः क्षयव्ययानुपश्यिन

एवं भवति: "चक्षुःश्रोत्रघ्राणजिह्वाकायमनःसमुत्था मे वे-

दनाः कुतोऽभ्यागच्छमाना आगच्छन्ति? निरुध्यमाना वा कुत्र 

सन्निचयं गच्छन्ति ?"


(२६)


<4.2.14> तस्य भिक्षोर् वेदनाक्षयव्ययानुपश्यिनः प्रचिन्तयतो

मार्गगतस्यैवं भवति: "नापि चक्षुर्वेदना कुतश्चिद् उत्प-

द्यमानाऽभ्यागच्छति, निरुध्यमाना कुत्रचित् सन्निचयं गच्छति।

इति चक्षुर्वेदना अभूत्वा भवति। भूत्वा च प्रतिविगच्छति। नाक-

राच् चक्षुवेदनागच्छति, यथा समुद्रालयात् सलिलम्। न निरु-

ध्यमाना क्वचिन् निचयं गच्छति, यथा निम्नगमना नद्यः

समुद्रम् अनुगच्छन्ते। इति चक्षुर्वेदना अभूत्वा भवति। भू-

त्वा च प्रतिविगच्छति। प्रतीत्यसमुत्पन्नाश् चक्षुःश्रोत्रघ्रा-

णजिह्वाकायमनो वेदनाः।


<4.2.15> "तद्यथा कुशलः कुम्भकारः कुम्भकारान्तेवासी वा

चक्रं च प्रतीत्य, मृत्पिण्डं च प्रतीत्य, व्यायामं च प्रतीत्य, 

उदकं च प्रतीत्य, मृत्पिण्डहेतुको घट उत्पद्यते। तत्र

स घटो न कुतश्चिद् आगच्छति आकरात्। न निरुध्यमानः क्वचित्

सन्निचयं गच्छति। इति घटो हेतुप्रत्ययसमुत्पन्नः। एवं मे

चक्षुः प्रतीत्य, रूपं प्रतीत्यालोकं प्रतीत्याकाशं प्रतीत्य, मन-

सिकारं च प्रतीत्य, चक्षुर्वेदना उत्पद्यते, सुखा दुःखा

अदुःखासुखा। यथा घटस्य यदि शोभना हेतुप्रत्यया भवन्ति,

तच् छोभनस्यैव घटस्योत्पादो भवति। अथाशोभनाः, तदा-

शोभनो घटो भवति। एवम् एव यदि शोभना हेतुप्रत्ययाल-


(२७)


म्बना भवन्ति, तच् छोभनाश् चक्षुराद्या वेदना उत्पद्यन्ते,

सधर्मसहीयाः कुशलाः, अनुक्रमेण निर्वाणगामिन्यः। यथा-

शोभना हेतुप्रत्ययालम्बना भवन्ति, तथाशोभना चक्षुराद्या वेदना उत्पद्यन्ते, रागद्वेश मोहालम्बनाः संसारनरकप्रेत-

तिर्यग्गामिन्यः।"


<4.2.16> सर्वकर्मफलकुशलानुबद्धचेतनो भिक्षुः वेदनाम्

अन्वेषमाणः, नैकाश्रितां वेदनां पश्यति, न कारकाधिष्ठिताम्,

नापि हेतुसमुत्थाम्, न यादृच्छिकाम्, न कूटस्थाम्, न नित्याम्, न ध्रुवाम्, न शाश्वताम्, नाविपरिणामधर्मिणीम्। तस्य सा वेद-

नास्कन्धदर्शिनस् तृष्णा पौनर्भविकी परिहीयते, नन्दीरागसह-

गता मलिनी।


<4.2.17> सर्वसंस्कारस्यानित्या नुपश्यी स भिक्षुर् मार्गम्

आसेवते भावयति बहुलीकुरुते। तस्यैवं भावयतः, संयोजनानि प्रहीयन्ते, अनुशया वान्तीभवन्ति।


<4.2.18> कतमानि संयोजनानि? तद्यथा: अनुनयसंयोजनं

प्रतिघसंयोजनं मानसंयोजनम् अविद्यासंयोजनं दृष्टिसं-


(२८)


योजनं परामर्शसंयोजनं विचिकित्सासंयोजनम् ईर्ष्यासं-

योजनं मात्सर्यसंयोजनम्। इमानि संयोजनानि प्रहीयन्ते।


<4.2.19> कतमे अनुशया वान्ती भवन्ति? तद्यथा: कामरागानुशयो

भवरागानुशयो दृष्ट्यनुशयः प्रतिघानुशयो मानानुशयोऽवि-

द्यानुशयो विचिकित्सानुशयः। त एतेऽस्य यथाप्रधानास् त्रिभ-

वपरिवर्तकास् त्रिभूमिसञ्चारिणस् त्रिदोषपरिवर्तकास् त्रिकालानु-

सारिणस् त्रिमध्यमास् त्रिवेदनानुभ वितास् त्रिजन्मपरिवर्तकाः

संसारहेतुभूता भवन्ति।


<4.2.20> पुनर् अपि स योगाचार आध्यात्मिके धर्मे धर्मानुपश्यी

विहरति: कथं स भिक्षुश् चक्षुष एवं सहेतुप्रत्ययम् अव-

बुध्यते? किम्प्रत्ययं चक्षुः, किंहेतुजं किन्निदानं अवलो-

कयति? स पश्यति श्रुतमयेन ज्ञानेन दिव्येन वा चक्षुषा:


<4.2.21> कर्महेतुजं चक्षुः। कर्मणा जन्माभिनिवर्त्यते। यथा

वटकणिकया वृक्षो भवति। वृक्षात् पुनर् वटकणिका या  हेतु-

प्रत्ययैः संवर्धते। एवम् एवाज्ञानात् कर्माभिनिवर्त्यते।

कर्मणापि जन्माभिनिवर्त्यते। सति जन्मनि जरामरणशोकपरि-

देवदुःखदौरमनस्योपायासा उत्पद्यन्ते। तदेवम् अयं कर्म-

हेतुतृष्णापाशबद्धः सर्वबालपृथग्जनसमुद्रो भवति। चक्रवत्

परिभ्रमते। तद् एतत् कारणम्, अयं प्रत्ययः, सर्वासां वेदनानां


(२९)


सञ्ज्ञानां तु। न क्रियते कर्म, कर्माभा वात् तृष्णाया अप्य्

अभावो भवति। तदभावाद् वेदनाभावो भवति, हेतुप्रत्ययात्।


<4.2.22> तद्यथा: वर्तिं च प्रतीत्य, स्थालकं च प्रतीत्य, तैलं च

प्रतीत्य, अग्निं च प्रतीत्य, प्रदीपस्यार्चिषः क्षणिका अभिनि-

वर्तन्ते। एवम् एव स भिक्षुः वेदनाहेतुप्रत्ययदर्शी तत्त्वान्वेषी:

"कर्महेतुजाः कर्मप्रतिशरनाः कर्मप्रभवाः सर्ववेदना

उत्पद्यन्ते।" तत् स्थालकम् एवं भूतं शरीरम्। तैलभूतानीन्द्रि-

याणि वर्तिभूता तृष्णा। अग्निभूता रागद्वेषमोहाः। क्षणिकं

ज्ञानं दीपाचिवत्। प्रभासदृशं ज्ञानं येन पश्यति तत्त्वान्वेषी

योगाचरः: "सर्वत्रिभवगता वेदना।"


<4.2.23> तद्यथा जातरूपकारो जातरूपम् उपादाय, कर्मण्यं 

कर्मक्षमं च तच् च जातरूपम् आदाय, शोभनम् अलङ्कार-

जातम् अभिनिवर्तयति। एवम् एव जातरूपकारसमो योगाचारः। स

जातरूपसदृशम् आलम्बनम् आदाय, यदि शोभनम् आलम्बनं

भवति, तच् छोभनं कर्माभिनिवर्तयति निर्वाणगामिकम्।

यथाशोभनं भवत्य् आलम्बनम्, तथाशोभनं कर्माभिनि-

वर्तयति।


॥ भवन्ति चात्र गाथाः॥


हेतुप्रत्ययतत्त्वज्ञः सूक्ष्मार्थे कृतनिश्चयः।

मोक्षस्रोतस्य् अभिरतस् तृष्णया नैव वाह्यते॥ <4.2.24.1>


(३०)


कर्मप्रतिसराः सर्वे देहिनः कर्मयोनिजाः।

कर्मणा फलसम्बद्धा भ्रमन्ति भवसङ्कटे॥ <4.2.24.2>


यो नादत्तेऽशुभं कर्म शुभकर्मरतः सदा।

चन्द्रांशुनिर्मलरतिर् योगी भवति तादृशः॥ <4.2.24.3>


प्रदहन् पापकान् धर्मान् शुष्केन्धनम् इवानलः।

विभ्राजते त्रिभुवने मुक्तपापो जितव्यथः॥ <4.2.24.4>


मोक्षाय यस्य तु मनो न संसारे कथं चन।

नासौ बध्यति संसारे मुक्तः पक्षी यथाम्बरे॥ <4.2.24.5>


वेदनोदयतत्त्वज्ञो वेदनाफलनिश्चयः।

स "मुक्त" इति विज्ञेयस् तत्त्ववित् त्रिभवस्य सः॥ <4.2.24.6>


(३१)


सुखदुःखे न बाधेते दृष्टादृष्टैर् न लिप्यते।

दीप्तं पश्यति संसारं यः स योगी सतां मतः॥ <4.2.24.7>


अव्यामूढमतिर् नित्यं नित्यं धर्मपरायणः।

भिक्षुवृत्ताव् अभिरतो भिक्षुर् भवति तादृशः॥ <4.2.24.8>


न ज्ञातिदर्शनारामः साधूनां दर्शने रतः।

निःक्रान्तगृहकल्माषो भिक्षुर् भवति तादृशः॥ <4.2.24.9>


प्रशान्तेन्द्रियसर्वस्वो विषयेषु न लोलुपः।

युगमात्रादर्शनावेक्षी भिक्षुर् भवति तादृशः॥ <4.2.24.10>


नाक्रुष्टगृहसञ्चारी न पण्यक्रयविक्रयी।

न वीथीचत्वररतिर् भिक्षुर् भवति तादृषः॥ <4.2.24.11>


(३२)


न गीतनृत्यसन्दर्शी संरम्भेषु न रज्यते।

संरज्यते श्मशाने यो भिक्षुर् भवति तादृशः॥ <4.2.24.12>


एकाहपरमं पिण्डम् आदत्ते श्वो न काङ्क्षते।

द्विभागकुक्षिसन्तुष्टो भिक्षुर् भवति तादृशः॥<4.2.24.13>


वस्त्रोत्तमविवर्जी यः पांसुकूलेषु रज्यते।

युक्ताहारविहारो यो भिक्षुर् भवति तादृशः॥ <4.2.24.14>


यो नारभति कर्माणि निराशः सर्वकर्मसु।

निरुत्सुको नावरूढो भिक्षुर् भवति तादृषः॥ <4.2.24.15>


(३३)


कामाक्रोधविनिर्मुक्तो मोहपङ्कविवर्जितः।

न लिप्तः पापकैर् धर्मैर् भिक्षुर् भवति तादृशः॥ <4.2.24.16>


सर्वसंयोजनातीतः सर्वानुशयवर्जितः।

सर्वाशयविनिर्मुक्तो भिक्षुर् भवति तादृशः॥ <4.2.24.17>


आर्याष्टाङ्गेन मार्गेण निर्वाणपुरतः स्थितः।

सर्वान् विधमते क्लेशान् भिक्षुर् भवति तादृशः॥ <4.2.24.18>


शान्तेन्द्रियो दृढमतिः कामपङ्कविवर्जितः।

एकाग्रसंस्थितमना भिक्षुर् भवति तादृशः <4.2.24.19>


भूमिसङ्क्रमणज्ञो यो भूमितत्त्वविदर्शकः।

भूमेः परापरज्ञो यो भिक्षुर् भवति तादृशः॥ <4.2.24.20>


(३४)


सास्रवानास्रवान् धर्मान् हेतुप्रत्ययसम्भवान्।

जानीते विधिवत् सर्वान् भिक्षुर् भवति तादृशः॥ <4.2.24.21>


ब्रह्मचारी ऋजुः शान्तः स्त्यानमिद्धविवर्जितः।

कालोत्थायी शुचिर् दक्षो भिक्षुर् भवति तादृशः॥ <4.2.24.22>


शमथाविपश्यनरतिश् चतुर्ध्यानरतिश् च यः।

अरण्यमुदितारामो भिक्षुर् भवति तादृशः॥ <4.2.24.23>


पक्षिणो गगनस्थस्य छायेवानुगता सदा।

सद्धर्मे च मतिर् यस्य भिक्षुर् भवति तादृशः॥ <4.2.24.24>


क्लेशोपक्लेशवधकः स मदर्शी शुभामतिः।

आनापानविधिज्ञो यो भिक्षुर् भवति तादृशः॥ <4.2.24.25>


(३५)


अनुक्रमविधिज्ञो यो योगवित् तत्त्वदर्शकः।

मार्गामार्गविधिज्ञो यो भिक्षुर् भवति तादृशः॥ <4.2.24.26>


यो न हृष्यति हर्षेषु भयेषु न बिभेति च।

समहर्षभयो वीरो भिक्षुर् भवति तादृशः॥ <4.2.24.27>


जरामरणतत्त्वज्ञः सुरासुरनमस्कृतः।

परापरज्ञः सत्त्वानां भिक्षुर् भवति तादृशः॥ <4.2.24.28>


सङ्घाटीपात्रसन्तुष्टः सञ्चयेषु न रज्यते।

अल्पेच्छो ब्रह्मचारी यो भिक्षुर् भवति तादृशः॥ <4.2.24.29>


एकासनाशी विमलो रसगृद्ध्या न मुह्यते।

लाभसत्कारविरतो भिक्षुर् भवति तादृशः॥ <4.2.24.30>


(३६)


उपेक्षाकरुणारामो म्रक्षदोषविवर्जितः।

निर्दग्धदोषसर्वस्वो भिक्षुर् भवति तादृशः॥ <4.2.24.31>


<4.2.25> स आध्यात्मिके धर्मे धर्मानुपश्यी भिक्षुस् ताम् एव

वेदनां यथावद् अनुपश्यमानः, स पश्यति सूक्ष्मतरेण

ज्ञानेन चक्षुःसंस्पर्शजां वेदनाम् आलम्बनानुचराम्। प-

श्यति द्वितीयेनालम्बनेन सह निरुध्यमानाम्, ध्वस्ताम्: "चक्षु-

ःस्पर्शजा वेदनालम्बना व्यतीता, शब्दालम्बनसहीया मे इष्टा

वाऽनिष्टा वा वेदना सञ्जाता। तत्सहीयम् मे चित्तं मा विकृतिम्

आपद्यते।" स तच् चित्तम् आलम्बनस्तम्भे कृत्वा, सन्धारयति।

तस्यां निरुद्धायां शब्दालम्बनसहीयायां श्रोत्रवेदनायां

घ्राणवेदना गन्धालम्बना सञ्जाता। स ताम् अपि घ्रा णवे-

दनाम् अवलोकयति सन्तर्कयति:"उत्पन्ना मे गन्धसहीया घ्राण-

वेदना, कुशला वा अकुशला वा व्याकृता वा अव्याकृता वा। तस्य मम

घ्राणवेदनायाश् चित्तं विकृतिम् आपन्नम्।" स यदा चित्तविकृतिम् अव-

लोकयति, स पुनर् अपि तद् एवालम्बनम् अध्यवसति चरति घटति


(३७)


व्यायाच्छति। कर्मण्यं कुरुते चित्तम्, भावयति कुशलैर् धर्-

मैर् अनास्रवैः। अथ न विकम्पते, जिह्वालम्बनम् आलम्ब्-

अनं कुरुते, कुशलम् अकुशलं व्याकृतम् अव्याकृतं वा, स तदाप्य्

आलम्बनं साक्षीकृत्वा, वेदनां अवलोकयति, सुखा दुःखा अदुः-

खासुखा: "किं ममानया चित्तं विकृतिम् आपन्नं नेति?" यदि

रसालम्बनायां सञ्जातायां वेदनायां चित्तं विकृतिम् आपन्नं

पश्यति, स पुनर् अपि तद् एव चित्तम् आलम्बनस्तम्भे बद्ध्वा

धृतिरज्ज्वा, तथा चरति घटति व्यायच्छति यथास्य चित्तं जिह्वा-

वेदनया सहीय या रसतृष्णया नापह्रियते। पुनर् अपि स भिक्षुः

कायस्प्रष्टव्यसहीयां स्प्रष्टव्यवेदनाम्, आलम्बनस्तम्भे ब-

द्ध्वा, अवलोकयति कुशलाम् अकुशलां व्याकृताम् अव्याकृताम्।

स यदि तया स्प्रष्टव्यवेदनया चित्तं विकृतिम् आपन्नम् अवलोक-

यति, तदालम्बनस्तम्भे पुनर् अपि बद्ध्वा, कर्मण्यं कुरुते

यथा पुनर् नैव विकृतिम् आपद्यते। स पुनर् भिक्षुर् मना-

गतां मनःसम्प्रतिबद्धां धर्मवेदनाम् अवलोकयति, कुश-

लाम् अकुशलां व्याकृताम् अव्याकृताम्। यदि ताभिर् वेदनाभिर्

मनसो वैकृत्यम् अवचारयति, स तदालम्बनसतम्भे बद्ध्वा

धृतिरज्ज्वा, कर्मण्यं कुरुते यथा नैव विकृतिम् आपद्यते।


(३८)


<4.2.26> स षड्विषयकायगतां वेदनाम् अवलोकयति, भिक्षुः

पञ्चवेदनातत्त्वोदयदर्शिनं स्थानं नामारोहते।


<4.2.27.1> स चक्षुःसंस्पर्शजां वेदनां ज्ञानप्रदीपेन विमृ-

शति: " का इमां वेदनां वेदयते: 'वेदनेयम्' इति?"


<4.2.27.2> स पश्यति: "मनोविज्ञाणं प्रतीत्य, समुत्पन्नेयं

वेदना मनसः सम्प्रतिबद्धा मनोवितर्केणापह्रियते।

सर्वबालपृथग्जनाः सङ्कल्पाग्निना दह्यन्ते। नात्र कश्चित् कारको

वा वेदको वा। संस्कारपुञ्ज एवोत्पद्यते, संस्कारपुञ्ज एव

निरुध्यते, हेतुप्रत्यय्सम्बद्धः।" स चक्षुःसंस्पर्शजां वे-

दनां यथावद् अनुपश्यन्न् अनुविधावन्, न तयापह्रियते।

चित्तं न विकम्पते न सुषिरीक्रियते नाविलीक्रियते।


<4.2.27.3> पुनर् अपि स भिक्षुः श्रोत्रवेदनाम् अवलोकयति: " को

ऽयं श्रोत्रवेदनाम्: 'वेदनेयम्' इति विन्दति वेदयति?"


(३९)


<4.2.27.4> स पश्यति: " मनोविज्ञानानुसम्प्रतिबद्धेयं श्रोत्र-

वेदना, मनसः सम्प्रतिबद्धा तन्निश्रया। नेह कारको वा

वेदको वा। प्रतीत्यसमुत्पन्नेयं श्रोत्रवेदना। नेह कारको वा

वेदको वा स्यात्। शून्यः संस्कारपुञ्जोऽयं हेतुप्रत्ययवशाद्

उत्पन्नो निरुध्यते च।"


<4.2.27.5> पुनर् अपि स भिक्षुः घ्राणवेदनाम् अवलोकयते:

"कोऽयं विन्दति वेदनाम्: 'वेदनेयम्ऽ इति?"


<4.2.27.6> स पश्यति: "वेदना मनोविज्ञानसम्प्रतिबद्धा, तदा-

लम्बना तन्निश्रया तद्धेतुका तत्प्रत्ययानुभवलक्षणा भ-

वति शुन्योऽयं संस्कारपुञ्जो न कारकाधिष्ठितो न वेदका-

धिष्ठितः, सन्तानानुविद्धः प्रवर्तते।" घ्राणवेदनाम्

अवलोकयित्वा, " नेह कारको वा वेदको वार्थान्तरभूतः।"


<4.2.27.7> पुनर् अपि स भिक्षुः जिह्वावेदनाम् अवलोकयति:

"कोऽयं विन्दति जिह्वावेदनाम्: 'जिह्वावेदनेयम्' इति?


<4.2.27.8> स पश्यति: "मनोविज्ञानसम्प्रतिबद्धेयं जिह्वावेदना।

तन्निश्रया तत्प्रतिबद्धा तदालम्बना तद्धेतुत उत्पद्यते, तद-

धिष्ठाना। नेह कारको वा वेदको वार्थान्तरभूतः। शून्यः सं-

स्कारपुञ्जोऽयं हेतुप्रत्ययवशाद् उत्पद्यते।"


(४०)


<4.2.27.9> पुनर् अपि स भिक्षुः कायस्प्रष्टव्यवेदनां अवलो-

कयते: "कोऽयं विन्दति कायवेदनाम्: 'वेदनेयाम्ऽ इति ?"


<4.2.27.10> स पश्यति: "मनोविज्ञानसम्प्रतिबद्धेयं काय-

वेदना। नेह कारको वा वेदको वार्थान्तरभूतोऽस्ति। शून्योऽयं

संस्कारपुञ्जः प्रवर्तते हेतुप्रत्ययवशात्।


<4.2.27.11> पुनर् अपि स भिक्षुर् मनोवेदनाम् अवलोकयति: "मनो-

वेदनां को विन्दति: ' मनोवेदनेयम्' इति?"


<4.2.27.12> स पश्यति: "मनः प्रतीत्य धर्मांश् चोत्पद्यते

मनोविज्ञानम्। त्रयाणां सन्निपातानां स्पर्शः, स्पर्शसहजा वेदना।

तद्यथा: अनेकसुगन्धिद्रव्यसमुदायाद् गन्धः शोभन

उत्पद्यते। तस्य च गन्धस्य भवहेतुर् नास्त्य् एकः। तद्वद् धे-

तुप्रत्ययसमुदायात् सर्वा वेदना उत्पद्यन्ते, न कारकाधिष्ठिता 

न वेदकाधिष्ठिताः।


<4.2.28> " तद्यथा पत्रं च प्रतीत्य, केशरं च प्रतीत्य, नाडिं च

प्रतीत्य, किञ्जल्कं च प्रतीत्य, पद्मं नाम पुष्पं उत्पद्यते।

तस्य च पद्मस्य हेतुर् एको न विद्यते। तथा चक्षुः प्रतीत्या-

लम्बनं च प्रतीत्याकाशं च प्रतीत्य, मनसिकारं च प्रतीय, 

आलोकं च प्रतीत्य, चक्षुःसंस्पर्शजा वेदना उत्पद्यते। चक्षुर्-

जातीया चक्षुःसन्निश्रया वेदना नैकजातीयानेकद्रव्यानेक-

सम्भवा न कूटस्था न निर्मिता।"


<4.2.29> स यथा यथा तत्त्वान्वेषी भिक्षुर् भवति, तथा तथास्य

शुक्ला धर्माः प्रादुर्भवन्ति। तद्यथा इक्षुरसः स्थाल्यां चितो

ऽग्निना क्वाथ्यते। तस्य प्रथमो मलो द्रवको भवति फाणि-

तसञ्ज्ञको। मलिनो गुडो द्वितीयः क्वाथो गुडसञ्ज्ञकः शुक्लतरो


(४१)


भवति तृतियः शुक्लतरो भवति। एवं यथा यथा क्वा-

थ्यते इक्षुरसः, तथा तथा निर्मलतरो भवति। एवम् एव आलम्ब्-

अनस्थाल्यां ज्ञानाग्निना परितापितचित्तसन्तानेक्षुरसं क्वाथ-

यति। तस्य फाणितसदृशः प्रथमध्यानलाभो भवति। गुड-

सदृशः शुक्लतरोऽस्य द्वितीयो ध्यानलाभो भवति। शर्करस-

दृशोऽस्य तृतीयध्यानलाभो भवति। एवम् एव यथा भिक्षुश् चित्त-

सन्तानं ज्ञानाग्निना क्वाथयते, तथा तथानास्रवा धर्माः

शुक्लतरा विमलतरा निष्कल्मषतरा उत्पद्यन्ते, संसारविमुखाः

शुक्ला विगतमला धौता उत्पद्यन्ते।


<4.2.30> पुनर् अपि स भिक्षुः तां वेदनाम् अन्येन प्रकारेण

सूक्ष्मतराम् अवलोकयते: सूक्ष्मौदारिका चक्षुःसंस्पर्शजा

मला मोहसहीया अमुकस्य सत्त्वस्य वेदना उत्पन्ना। सा अमु-

कया औदारिकया वेदनया उपहता, सावशेषा कृतावलीना। एवं श्रो-

त्रवेदना घ्राणवेदना जिह्वावेदना कायमनोवेदना।


(४२)


<4.2.31> तस्यैवं घटमानस्य भिक्षोर् युज्यमानस्य मार-

सैन्यं विधममानस्य हृष्टतरमनसो भौमा यक्षा आन्तरी-

क्षाणां यक्षाणाम् अभिनिवेदयन्ति। ते च भौमा यक्षा अन्तरीक्ष-

चराश् च यक्षाश् चतुर्णां महाराज्ञाम् अभिनिवेदयन्ति। ते च

भौमा यक्षास् ते चान्तरीक्षचरा यक्षास् ते च चत्वारो महाराजानश्

चातुर्महाराजकायिकानां देवानाम् अभिनिवेदयन्ति। ते च भौमा

यक्षाः, ते चान्तरीक्षचरा यक्षास् ते च चत्वारो महाराजानस् ते च

चातुर्महाराजकायिका देवाः शक्रस्य अभिनिवेदयन्ति। त्रिदशे-

श्वरोऽयं शक्रोऽपि देवराज ऐरावणम् आरुह्य, प्रीततरमना

यामानां देवानाम् अभिनिवेदयति.... पूर्ववत्.....


<4.2.32> तेऽपि तुष्टा यमा देवाः शक्रस्यान्तिकात्, नानावर्णरत्न-

धरा दिव्यमाल्यगन्धविभूषितशरीरा नानाविध्याना इष्टशब्द-

स्पर्शरसरूपगन्धा नष्टोपमसौख्याः प्रहृष्टाः सत्वरा देव-

निकायाः। तुषितेषु चत्वारिंशद्योजनसहस्राणि सप्तरत्नमयैर्

मन्दिरैर् उद्द्योतितं विविधविमानं नगरं मानससङ्-

कल्पं नाम। तत्र बोधिसत्त्ववीथी दशयोजनसहस्राणि निरा-

स्रवरतिर् नाम्ना। तस्यां भगवान् मैत्रेयः प्रतिवसति सन्नि-

कृष्टैर् बोधिसत्त्वशतैः पञ्चभिः। तस्य च तुष्टतरमनसो यामा

देवा निवेदयन्ति, पृथिव्यां जानुमण्डलेन प्रणिपत्यैकांशेन

दिव्यानि वासांसि कृत्वा शिरोगतेनाञ्जलिना यथा: "देव, जम्बुद्वीपात्

कर्मभूमिसन्निश्रयाद् अमुष्माद् ग्रामाद् अमुष्माद् विषयाद्


(४३)


अमुष्मान् निगमाद् अमुष्मात् कुलाद् अमुकः कुलपुत्रः केशश्म-

श्रूण्य् अवतार्य काषायाणि वासांस्य् आच्छाद्य, श्रद्धया आगाराद्

अनगारिकां प्रव्रजितः, स चरन् घटन् पर्युपासमानो गुरून्,

निरास्रवकुशलतत्त्वान्वेषी ' वेदनातत्त्वदर्शिनं' नाम चतुर्थं

भूम्यन्तरम् आरूढो विध्वंसति मारपक्षम्, दृढीकुरुते सद्-

धर्मसेतुम्, प्रकाशयति शुक्लान् धर्मान्। मन्दीभवति मार-

पक्षः। प्रबलीभवति देवपक्षः। ते वयं देवानाम् अभिनि वे-

दयामः।"


<4.2.33> तच् छ्रुत्वा मैत्रेयो यामानां देवानां सकाशात्, "प्रबली-

भवति देवपक्षः," कथयति यथा: "प्रहृष्टोऽस्मि, देवाः, यद्

धीयते मारपक्षः, अभ्युच्चीयते सद्धर्मपक्षः। प्रशिथिली-

क्रियन्ते क्लेशाः। विद्राव्यते मारसैन्यम्।"


< II-5.1 >


<5.1.1> पुनर् अपि योगाचार आध्यात्मिके धर्मे धर्मानुपश्यी विह-

रति: कथम् असौ भिक्षुः षड् वेदनाकायान् यथावद् दृष्ट्वा

सङ्क्षेपेण वेदनास्कन्धभूमिभागेन, पञ्चमं भूम्यन्त-

रम् आरोहति ?


(४४)


<5.1.2> पुनर् अपि स भिक्षुर् वेदनातत्त्वदर्शी षड्वेदनाकायकृत-

कर्मान्तः सञ्ज्ञास्कन्धं सम्प्रविभजति निमित्तीकरोति: "कत-

रं भूम्यन्तरं सञ्ज्ञासहायोऽयं शुक्लधर्मविविक्तचारी

सञ्चिन्तयन्, हिताहितविविक्तचारी सञ्ज्ञायाः सञ्ज्ञी स्यात्?"


<5.1.3> स निमित्तीकरोति शुक्लधर्मनिमित्तम्। आदित एव धर्मान्

प्रविभजति: "कथं सनिदर्शनसप्रतिघालम्बनानाम् अद-

र्शनाप्रतिघसञ्ज्ञा उत्पाद्यते?" स विविक्ततरां ताम् सञ्ज्ञाम् आलो-

कयति। स तया सञ्ज्ञया निमित्तम् आलम्बते एकादशप्रकारं

रूपम्। तद्यथा: दीर्घं ह्रस्वं चतुरश्रं मण्डलं त्रिकोणं

नीलं पीतं लोहितावदातमाञ्जिष्ठम्।


<5.1.4.1> तत्र दीर्घीकुरुते सञ्ज्ञानिमित्तम्: "दीर्घो बत संसारो

बालानां मन्दबुद्धीनाम् अनवराग्रः। जन्ममरणकर्मफल-

च्युत्युपपत्तिप्रियविप्रयोगशीतोष्णक्षुत्पिपासाश्रमग्लानिपरप्रेष्य-

परिभवदासभावपरस्परभक्षणानिचयभूतः सर्वानर्थ-

भूतोऽयम् अपरिमितदुर्विषहः। अपरिमितशतस हस्रकोटीन-

युतैर् देहवाग्मनससमुत्थैर् दुष्करकृतैः कर्मविशेषैर् अलङ्-

कृता विडम्बिता असकृद् असकृद् बालपृथग्जनाः।


(४५)


<5.1.4.2>  "तत्र मनुष्यभूतानां पर्येष्टिव्यसनपरवञ्चना-

कूटमानव्यवहारवाणिज्यराजकुलसेवासमुद्रप्रपातप्रवासकल-

हकृषिपशुपाल्यम्लेच्छजन्ममिथ्यादृष्टिविकलेन्द्रियसद्धर्मवि-

रहबुद्धोत्पादविरहितप्रत्ययवैकल्याक्षन मद्यपानादत्तादा-

नमृषावदकाममिथ्याचाराभिध्याव्यापादानृतपिशुनपरुषाबद्ध-

प्रलापव्यासक्तमनसां दीर्घोऽयं संसारः," सञ्ज्ञानिमितम्

अनुलम्बति।


<5.1.4.3> दीर्घः संसारो देवानां, सञ्ज्ञानिमित्तम् अनुलंबति:

" विषयविषयप्रसक्तेष्टशब्दरसस्पर्शगन्धरागद्वेषमोहप्र-

मादस्त्रीव्यसनपारिजातकचैत्ररथवनोपवनतडागपद्मिन्या-

क्रीडागन्धपुष्पसुधारसविविधक्रीडाहारविहारप्रसक्तचन्दन-

दिव्यस्रक्चूर्णानुलेपन मान्दारपुष्पदिव्यवादित्रगन्धर्वगीत-

प्रसक्तचेतसां सद्धर्मविमुखानां दीर्घः संसारो देवा-

नां।"


<5.1.4.4> प्रेतानां अपि दीर्घः संसारः सञ्ज्ञानिमित्तम् अनुलम्बति:

"दुःकृतकर्मगामिनां क्षुत्पिपासाश्रमदौर्बल्याग्निवृष्टिप्रपत-

नसूचीकण्ठपर्वतकुक्षि कभल्लिकासञ्जातेर्ष्यामात्सर्यपरस्पर-


(४६)


शस्त्रनिकृन्तनतमोमयश्वभ्रप्रपतननदीतडागोत्ससरनिर्धा-

वितानां यमपुरुषासियष्टिकुद्दालप्रहारप्रहतदुःखानां वान्त-

निष्ठीविताशानाम् अनेकवर्षशतसहस्रसञ्जाताहारदौर्विषह्यविवि-

धदुःखास्रुपतनसञ्जातदुर्दिनकेशसञ्छन्नमुखगात्राणां

कृमिशतसहस्रव्याप्तशरीरं सर्वव्याधिनिकरभूतशरीरम् उद्व-

हमानानां दीर्घसंसारप्रपन्नानाम् आयसैः काकैः प्रदीप्त-

तुण्डैर् उद्धृतनयनानां वनदावदग्धपादपसदृशानां परैर्

आक्रम्य परस्परेण भक्ष्यमाणानां षट्त्रिंशद्योजनशतसह-

स्रकोटिकान्तारप्रपन्नानाम् अनाथानां क्षुत्पिपासाग्निदग्ध-

शरीराणां तमसि मज्जमानानां प्रेतानां सद्धर्मश्रवण-

विमुखानां मिथ्यादृष्टिवञ्चितानां दीर्घः संसारः," सञ्ज्ञानि-

मित्तम् उपलभ्यते।


<5.1.4.5> " परस्परभक्षणागम्यागम्याज्ञानविमुखानां जल-

चराणां नित्यं पिपासार्दितानां << परिशुष्कहृदयग्रहणभीतानां

शिशुमारलुब्धकोद्रतिमितिमिङ्गिलकुम्भीरनक्रमकरशुक्ति-

शङ्खप्रमुखानां नित्यं परस्परस्थूलसूक्ष्मभक्षणतत्प-

राणां वागुरावरोहणग्रहणभीतानाम्, तथा स्थलचराणां मृग-

महिषवराहनागराजवृषभाश्वखरगवयरुरुरिक्षगण्डकप्र-


(४७)


भृतीनां विविधदुःखबन्धनशस्त्रमारणव्याधिजरामर-

णपरस्परपीडाशतसहस्रार्दिता>>नाम्, तथान्तरीक्षचराणां काको-

लूकहंसबर्हिकुक्कुटकोयष्टिकपारापतकपोतदात्यूहवासशतप-

त्रछायावलीनजीवजीवकसम्पातपरभृतानाम् अन्येषां च शकु-

निजातीनाम्, वैषवधबन्धनशस्त्रक्षुत्पिपासापरस्परभक्षण-

शीतोष्णपीदितानां त्रिस्थानगतानां स्थलजलजान्तरीक्षचराणां तिर्यग्-

गतानां दारुणप्रतिभयानां दीर्घः संसारः," सञ्ज्ञानिमित्तम्

आलम्बति।


<5.1.4.6> " तथा सञ्जीवनकालसूत्रसङ्घातरौरवमहारौरवतप-

नप्रतापनावीचिसोत्सेधेषु परमदुर्विचिन्त्यमनानेकशतसहस्र-

प्रतिभयाग्निशस्त्रप्रपातवैतरणीलोहितप्रविलीनाङ्गप्रत्यङ्गानाम्

असिपत्त्रप्र वेशाङ्गारप्रत्यनुभवनक्षारनदीप्रपातप्रदीप्त-

भूमिसङ्क्रमणकारणाव्ययधूमदहनखरासदृशानेकप्रका-

रदुर्विषहकारणापीडिताना नारकेयाणां दीर्घः संसारः," सञ्-

ज्ञानिमित्तम् आलम्बति।


<5.1.4.7>  स भिक्षुः सञ्ज्ञास्कन्धप्रविचारी सनिदर्शनं सप्रति-

घं दीर्घरूपं- कर्मफलहेतुनिदानालम्बने सत्यचतुष्टये-

नानाप्रकारयोजनशतसहस्राण्य् अपि गतिगतान् सत्त्वान् अवलोकयति


(४८)


निमित्तयति विभजयति। निदानालम्बनं सञ्ज्ञाप्रदीपितं पश्यति, संसाराच् चोद्विजति।


<5.1.5.1> पुनर् अपि योगाचार आध्यात्मिके धर्मे धर्मानुपश्यी विह-

रति: कथम् असौ भिक्षुर् ह्रस्वं विभजते साक्षीकुरुते? स पश्यति

श्रुतमयेन ज्ञानेन दिव्येन वा चक्षुषा: स भिक्षुः, मारसैन्यं

विद्रावयन्, कथं ह्रस्वं विभजति?


<5.1.5.2> " ह्रस्वः संसारो व्रतनियमदानशिलज्ञानाचारगुरु शु-

श्रूषा-ऋजुमनोभिरामसम्यग्दृष्टिमातृपितृगौरवबुद्धधर्मदर्श-

नश्रवणाचार्योपासनाशठचर्यानिरतानां विरतानां कूटमान-

वञ्चनात् कल्याणमित्रचारित्र्याढ्य-ऋजुमनोदयाकार्पण्यालङ्कृतदेह-

वाङ्मनसालङ्कृतहृदयानां मनुष्याणां ह्रस्वः संसारः,"

सञ्ज्ञानिमित्तम् आलम्बति।


<5.1.5.3> "तथा प्रमादे ह्य् उपपन्ने ये ते नन्दनवैभ्राजता-

चैत्ररथ पारिजातकोपवनतडागपद्मिनीविविधचन्दनहारोपहा-

रोपशोभितकल्पवृक्षनदीप्रस्रवणवनसुद्धाहारविशेषान् म-

र्षयित्वा, ये विविधाहारविहारा ध्यानाध्ययनसाधुदर्शनाध्य-

यनदानदमसंयमब्रह्मचर्यशान्तेन्द्रियपरिमितभाष्यवच-

नधर्मलोलुपशान्ताहारविहारा ये देवाः, ह्रस्वस् तेषां संसारः।"


(४९)


<5.1.5.4> " यथोक्ता दुःखविविधक्षुत्पिपासापरिशुष्क वदनादी-

नवा दावाग्निदाहावलीढतनूरुहवदनदवदग्धपादपसदृश-

देहा ये, ते दुःखमरणम् अगणयित्वा, ये क्षणम् अपि प्रस-

न्नेन्द्रिया ह्रस्वप्रसादा बुद्धधर्मसङ्घेषु, ह्रस्वस् तेषां

संसारः," सञ्ज्ञानिमित्तम् अनुलम्बति।


<5.1.5.5> " परस्परभक्षणतर्जनताडनशीतोष्णदुर्दिनभयभीतास्

ते, यदि शक्नुवन्ति, क्षणविष्कम्भम् अगणयित्वा, क्षणम् अप्य्

एकं चित्तप्रसादं बुद्धधर्मसङ्घं प्रति कर्तुम्, ह्रस्वस्

तेषां तिर्यक्षु संसारः," सञ्ज्ञानिमित्तम् अनुलम्बति।


<5.1.5.6> "सञ्जीवनकालसूत्रसङ्घातरौरवमहारौरवतपनप्र-

तापनावीचिप्रमुखेषु नरकेषु उपपन्ना ये नानाविकारपरम-

दुःखपीडितास् तद् दुःखम् अगणयित्वा, क्षणम् अपि चित्तं प्रसा-

दयन्ति शीलं प्रति, ह्रस्वस् तेषां संसारो नारकेयानाम्," सञ्ज्ञा-

निमित्तम् अनुलम्बति। स एवं ह्रस्वं चिन्तयति संसारे।


<5.1.6> केषां चतुरस्रः संसारः? स पश्यति: "उत्तरकौरवाणां 

च पुरुषाणां निर्ममनिरहङ्कारनियतोर्ध्वगामिनां चतुर-

स्रस् तेषु संसारः," सञ्ज्ञानिमित्तम् अनुलम्बति।


(५०)


<5.1.7> "नरकप्रेततिरश्चाम् अज्ञानपरिवर्तिनां न सच्चित्तानु-

वर्तिनां मण्डलः संसारः," सञ्ज्ञानिमित्तम् अनुलम्बति।


<5.1.8> "शुभाशुभाव्याकृतामिश्रकर्मणां नरकदेवव्यामि-

श्राणां मनुष्येषूपपन्नानां - तत्राशुभेन कर्मणा नरकेषु, 

शुभेन कर्मणा देवेषु, व्यामिश्रेण मनुष्येषु - त्रिकर्मोपगा

ये त्रिस्थानजातिजाः, त्रिकोणस् तेषु संसारः," सञ्ज्ञानिमित्तम् अनु-

लम्बति।


<5.1.9> "चातुर्महा राजकायिकास् त्रिदशा यामाः परनिर्मितव-

शवर्तिकर्मसदृशोपपन्ना देवभ्यश् च्युता देवेषूपपद्यन्ते,

मनुष्येभ्यश् च्युता ये मनुष्येष्व् एवोपपद्यन्ते नाक्षणभूमिषु,

मण्डलस् तेषां संसारः," सञ्ज्ञानिमित्तम् अनुलम्बति।


(५१)


<5.1.10> " नीलाशुभकर्मपरिगृहीता नारकेयाः। ते हि तमोमयेषु

नरकेषु मज्जन्ति," सञ्ज्ञानिमित्तम् अनुलम्बति।


<5.1.11> "पीतवर्णकर्मसङ्गृहीताः प्रेताः। ते हि परस्परद्रोह-

ताडनतर्जनतत्पराः प्रेताः," सञ्ज्ञानिमित्तम् अनुलम्बति।


<5.1.12> "लोहितकर्मसङ्गृहीतास् तिर्यञ्चः। ते हि परस्परभक्ष-

णलोहिततत्प्रियाः," सञ्ज्ञानिमित्तम् अनुलम्बति।


<5.1.13> "शुक्लवर्णकर्मसङ्गृहीता देवमनुष्या हि कुशल-

शुभकर्मपथा रत्नमयेन मूल्येन देवमनुष्योपपत्तिं परि-

गृह्नन्ति। च्यवमाने देवे अन्ये देवाः कथयन्ति: ' सुगतिं मनु-

ष्यलोकं गच्छ।' तथा म्रियमाणः, ज्ञातिमित्रकलत्राः सबाष्प-

नयनदुर्दिनमुखाः कथयन्ति: 'सुगतिं मनुष्यलोकम्,

प्रिय, गच्छास्मान् त्यक्त्वा,"' सञ्ज्ञानिमित्तम् अनुलम्बति।


<5.1.14> स एवं चिन्तयति: "तत् प्राप्य मनुष्यत्वम्, यो न कुशल-

दानशीलज्ञानाय घटते, स वञ्चितो नरकप्रेततिर्यग्नत्यां भ्र-

मति कर्मपथसञ्चितो बालिशः पृथग्जनः।"


<5.1.15> स भिक्षुर् वेदनातत्त्वदर्शी सञ्ज्ञास्कन्धयोनिशोमनस्-

कारालम्बनतत्त्वदर्शी तत्त्वम् एवान्वेषते:


(५२)


<5.1.16> चक्षुश् च प्रतीत्य रूपं चोत्पद्यते चक्षुर्विज्ञानम्। त्र-

याणां सन्निपा तानाम् स्पर्शः। तत्र सञ्ज्ञां विभजते। रूपं

दृष्टं शोभनम् अशोभनं सन्निकृष्टविप्रकृष्टदीर्घह्रस्व-

चतुरस्रमण्डलावदातत्रिकोणं रूपसंस्थानम्, सञ्ज्ञां सं-

विभजति निमित्तीकरोति निदानम् अवेक्षते। स्कन्धधात्वायतन-

निदानं सञ्ज्ञीकुरुते विभजति। शुभाशुधकर्मविपाकसंवि-

भागं साक्षीकुरुते। हेतुयुक्तम् अवलम्बति। अहेतुयुक्तम् अव-

बुद्ध्वा, विवर्जयति। हिताहिततद्विलक्षणम् अतीतं सञ्ज्ञा-

पयतो <<यथा: "तेन मम कृतं सुकृतम् अनेन मम कृतं

दुःकरं .... पूर्ववत् ....." सञ्ज्ञायां सञ्ज्ञापयति: "यदि सञ्ज्ञा न

स्यात्, स्मृतिर् अपि न स्यात्। सा हि स्मृतिः सञ्ज्ञाप्रतिबद्धा, तदा-

लम्बना तत्प्रत्यया। तद्यथा प्रदीपप्रभा प्रदिपप्रत्यया,

तन्निदाना तद्धेतुका। एवम् एव मे स्मृतिः सञ्ज्ञाहेतुका

सञ्ज्ञाप्रभवा सञ्ज्ञाधिपतिः।" स पञ्चमं भूम्यन्त-

रं आरोहति स भिक्षुः सञ्ज्ञास्पर्शं नाम। सञ्ज्ञापयति>>

सद्भूततो देवानां सौख्यं तत्र न संहृष्यते, नारके-

यानां कर्मकृतदुःखं ततोऽपि न बिभेति।


(५३)


<5.1.17> स समदर्शी कल्याणजातरूपसदृशसञ्ज्ञी भिक्षुस् ताम् एव

सञ्ज्ञाम् अन्येन प्रकारेणावलोकयति। स सञ्ज्ञाविनिर्मुक्तम्

अन्यपुरुषं मृतम् अवलोकयति: "किम्प्रत्ययेयं मम सञ्ज्ञा,

किंहेतुका किन्निदाना?" स पश्यति: "प्रतीत्यसमुत्पन्नेयं

मम सञ्ज्ञा प्रत्ययसामग्र्यतयैवोत्पद्यते। तन्निरोधान् निरु-

ध्यते।


(५४)


<5.1.18> "यथा चन्द्र मसं च प्रतीत्य, चन्द्रकान्तमणिं च 

प्रतीत्य, चन्द्रकान्तमणेर् उदकं प्रसन्नं प्रादुर्भवति। एवम्

एव निदानप्रत्ययांश् च प्रतीत्य, सञ्ज्ञा निष्पद्यते। नेयं सञ्ज्ञा निर्हेतुका, न कारेकेन कृता, न वेदकेन, न यादृच्छिकीया उत्प-

द्यते।"


<5.1.19> स तत्त्वत एव भिक्षुर् अन्वेषते सञ्ज्ञास्कन्धम्। स सञ्-

ज्ञातत्त्वदर्शी, स उदयव्ययतत्त्वज्ञः सूक्ष्मतरक्रमान्वेषी। नदी-

कूलस्रोतःप्रवृत्तसञ्ज्ञा कुशलम् उत्पद्यमाना, प्रत्ययनिदान-

वशद् अकुशलपरिणामा। अकुशलम् उत्पद्यमान, प्रत्ययनिदान-

वशात् कुशलपरिणामा। जाता सा पुनः प्रतिहता चित्तमर्कटेन,

अव्याकृता जाता। परिणामसुखम् अवेक्ष्यते। निरास्रवसुखेषु

सुखसञ्ज्ञी, सुखे चासञ्ज्ञी: "तस्याम् एव सुखायां परीत्तसञ्ज्ञाः।"


<5.1.20> कथं कुशलस्कन्धधात्वायतननिरोधोदयदर्शी न

वेदनायाम् अभिसंरज्यते? न वेदनास्तङ्गमनेन सञ्ज्ञायाम्

अभिरमते। न सञ्ज्ञास्तङ्गमनेन संस्काराणाम् उदयम् अभि-

रोचते, न स्थितिं न व्ययं नान्यथात्वम्। न विज्ञानस्योदयम्


(५५)


अभिरोचते, न स्तिथिं न भङ्गं नान्यथा भावम्। एवम् अयं

स्कन्धतत्त्वज्ञो भिक्षुर् न मारस्य विषये वसति। स राग-

द्वेषमोहैर् नाबाध्यते। न नित्यसुखशुच्यात्मकदर्शी भ-

वति। न संसारिण्या जालिन्या संसार इष्टशब्दस्पर्शरूपगन्ध-

रसमयैः पाशैर् बध्यते। न नष्टस्मृतिर् भवति। स स्मृत्य्-

उपस्थितिविजानकः शक्त आस्रवक्षयाय निर्वाणाभिमुखाय गन्तुम्।


॥ भवन्ति चात्र गाथाः॥


मन्दवीर्यकुसीदानां भिक्षूणां दर्शनाय यः।

नोद्योगाभिरतो नित्यं भिक्षुर् भवति तादृशः॥ <5.1.21.1> 


न शय्यासनसम्भोजी भिक्षुर् बुद्धेन भाषितः।

कौसीद्याभिरतो यस् तु नासौ कल्याणम् अर्हति॥ <5.1.21.2>


(५६)


क्लेशाणां मूलम् एकं ह् इ कौसीद्यं यस्य विद्यते।

कौसीद्यम् एकं यस्यास्ति तस्य धर्मो न विद्यते।

केवलं वस्त्रमात्रेण 'भिक्षुः स' इति कथ्यते॥ <5.1.21.3>


नाध्येतव्ये मतिर् यस्य न ध्याने नास्रवक्षये।

केवलं कुहमात्रेण भिक्षुर् भवति सादृशः॥ <5.1.21.4>


विहारारामनिरतो न रतो धर्मगोचरे।

स्त्रीमद्यलोलुपमतिर् न भिक्षुस् तादृशो भवेत्॥ <5.1.21.5>


यो मारबन्धनच्छेत्ता च्छेत्ता पापस्य कर्मणः।

स भिक्षुर् देशितो बुद्धैर् न भोक्ता सङ्घगोचरे॥ <5.1.21.6>


(५७)


वरम् आशीविषविषं क्वथितं ताम्रम् एव वा।

भुक्तं स्यान् न तु दुःशीलैः साङ्घिकं पानभोजनं॥ <5.1.21.7>


यो हि नार्हति पिण्डाय नासौ पिण्डाय कल्प्यते।

यस्य पिण्डीकृताः क्लेशा नारकाय स कल्प्यते॥ <5.1.21.8>


येन वान्ता हताः क्लेशाः सर्पा इव बिलेशयाः।

स भिक्षुः पिण्डभोजी स्यान् न स्त्रीदर्शनतत्परः॥ <5.1.21.9>


बन्धकं यदि चात्मानं कृत्वा पापेषु रज्यते।

कथं स भिक्षुर् विज्ञेयः सङ्घरत्नप्रदूषकः॥ <5.1.21.10>


यस्येष्टौ लाभसत्कारौ विषया यस्य संमताः।

नारीदर्शनतत्काङ्क्षी न भिक्षुर् न गृही शठः॥ <5.1.21.11>


(५८)


दग्धं क्लेशवनं यैर् हि वनं दग्धं यथाग्निना।

ते द्विजास् ते च कल्याणा न रक्ताः पानभोजने॥ <5.1.21.12>


नित्यं ग्रामोत्सुका गन्तुं नित्यं स्नानोत्सुकाः शठाः।

परात्मवञ्चका मूढा मूढाः सद्धर्मवर्त्मनि॥ <5.1.21.13>


अरण्ये शान्तमनसो नित्यं ध्यानपरायणाः।

ते द्विजास् ते च कल्याणाः कल्याणपथगोचराः॥ <5.1.21.14>


रमणीयाण्य् अरण्यानि न चात्र रमते मनः।

वीतरागात्र रंस्यन्ते न तु कामगवेषिणः॥ <5.1.21.15>


(५९)


साङ्कथयाभिरतो यस् तु रतो विषयतृष्णया।

न यास्यति पुरं शान्तं यत्र मृत्युर् न विद्यते॥ <5.1.21.16>


राजसेवी सुमृष्टाशी मद्यपः क्रोधनः सदा।

भिक्षुनाम्ना वञ्चयते दायकान् ऋतचेतसः॥ <5.1.21.17>


उपायम् अभ्युपादाय राज द्वाराश्रिता हि ये।

संरब्धा गृहिभिः सार्धं यन्नाशाद् वनम् आश्रिताः॥ <5.1.21.18>


तत्स्वास्थ्यम् एव पुष्णन्ति वान्ताशैस् तैः समा मताः।

पुत्रदारं परित्यज्य ये शन्तं वनम् आश्रिताः॥ <5.1.21.19>


(६०)

<5.1.22> स भिक्षुर् एतान् दोषान् प्रहाय, तत्त्वदर्शनतत्परो रूपा-
दिस्कन्धतत्त्वदर्शी मोक्षाय घटते चरति, परिपृच्छति गुरुम्।
मार्गामार्गतत्त्वज्ञ आर्याष्टाङ्गेन मार्गेण तं मोक्षपुरम्
अन्वेषमाणः, मार्गारम्भशीलः समदर्शी निर्मलचित्तः शान्त-
चित्तस् तम् एव मार्गम् आसेवते भावयते बहुलीकुरुते।

<5.1.23> तस्यास्य कुशलानास्रवकर्मपथसंयुक्तस्य "हीयते 
मारपक्षः। वर्धते सद्धर्मपक्षः," इति ज्ञात्वा, भौमा यक्षा 
अन्तरीक्षचराणां यक्षाणां अभिनिवेदयन्ति।

<5.1.24> तेऽपि चतुर्णां महारज्ञां अभिनिवेदयन्ति। तेऽपि चत्वारो
महाराजानः.... पूर्ववद् यावत् ..... तुषितसंस्थितस्य मैत्रेयस्या-
भिनिवेदयन्ति यामा देवाः। तुषिते ततोऽप्य् एको बोधिसत्त्वो
ऽतीवानन्दतत्परः परनिर्मितवशवर्तिनां देवानाम् अभिनिवे-
दयति: "अमुको जम्बूद्वीपात् कुलपुत्रः केशश्मश्रूण्य् अवतार्य
काषायाणि वासांस्य् आच्छाद्य .... पूर्ववत् ......" अथ तुष्टतरमनसः
परनिर्मितवशवर्तिनो देवाः: " ...... पूर्ववत् ...."

(६१)

<5.2.1> पुनर् अपि योगाचार आध्यात्मिके धर्मे धर्मानुपश्यी
विहरति: कथं स भिक्षुः पञ्चमं भूम्यन्तरम् आरोहोति? स
पश्यति श्रुतमयेन ज्ञानेन दिव्येन वा चक्षुषा:

<5.2.2> दश रूपीण्य् आयतनाण्य् अवलोकयति। कतराणि दश? तद्यथा:
चक्षुरायतनं रूपायतनं श्रोत्रायतनं शब्दायतनं घ्राणा-
यतनं गन्धायतनं जिह्वायतनं रसायतनं कायायतनं
स्पर्शायतनं च। एतानि रूपिण्य् आयतनानि।

<5.2.3.1> अत्रावलोकयति: "कथं मम चक्षुरायतनं प्रतीत्य, 
रूपायतनं च प्रतीत्य, सञ्ज्ञा भवति?"

<5.2.3.2> स पश्यति: "चक्षुः प्रतीत्य, रूपं च प्रतीत्य, चक्षुर्-
विज्ञानम् उत्पद्यते। त्रयाणां सन्निहितात् स्पर्शः, स्पर्शसहजा
वेदनासञ्ज्ञाचेतना। तत्र या वेदना सा विन्दति। या चेतना सा चेतयति।
तत्र या सञ्ज्ञा सा सञ्जानाति, यथा: 'दीर्घम् इदं रूपम्।'
'ह्रस्वम् इदं रूपं।' 'प्रियम् इदं रूपम्।' 'अप्रियम् इदं
रूपम्।' 'सनिदर्शनं सप्रतिघम् इदं रूपम्।' 'अनिदर्शनम् 
अप्रतिघम् इदं रूपम्।'" एवम् एकादशप्रकारं यावद्
अविज्ञप्तिसञ्ज्ञकं रूपं विभजति।

(६२)

<5.2.3.3> एवं त्रयाणां सन्निपातात् स्पर्श उत्पद्यते, संस्प-
र्शसहजा वेदनासञ्ज्ञाचेतना। तत्र चक्षुसंस्पर्शजा वेदनासञ्-
ज्ञाचेतना: विन्दमानार्थो वेदनार्थः। सञ्जाननार्थः सञ्ज्ञार्थः।
सञ्ज्ञा हि वेदनाकालं सञ्जानाति। मनः प्रतीत्य, एते धर्मा उत्प-
द्यन्ते अन्योन्यलक्षणा अन्योन्यस्वभावाः। यथा दश महा-
भौमा धर्माः, अन्यद् एव लक्षणं चेतनायाः: वितर्कमनसि-
कारविचारस्मृतिवेदनासञ्ज्ञासञ्चेतनास्पर्शच्छन्दवीर्यसमाधिश्

(६३)

च। एत एकालम्बना अन्योन्यलक्षणाः। एवं लक्षणं वेदनाया
अन्याद् एव लक्षणं सञ्ज्ञायाः। तद्यथा: सूर्यस्यैकालम्बना
रश्मयोऽथवान्यस्वभावाः। एवम् एवान्यः स्वभावो वेद-
नायाः, अन्यः स्वभावश् चेतनायाः।

<5.2.3.4> स चक्षुःसंस्पर्शजवेदनासञ्ज्ञाचेतनातत्त्वज्ञश् च-
क्षुर् एव रिक्तकं पश्यति, तुच्छकं पश्यति, असारकं पश्यति।
सद्भूतदर्शी भिक्षुर् मार्गतत्त्वज्ञो मिथ्यादृष्टिविरहितः सम्यग्-
दृष्टिपुरःसरस् तद् एव चक्षुःसहगतं मोहम् आविलीस्वभाव-
भूतं प्रजहाति। मांसपिण्डतत्त्वदर्शी " मेदपूयरुधिरा-
श्रुनिलयम्" इति मत्वा, रागं प्रजहाति। "न नित्यम्" इति मत्वा
नित्यदर्शी भवति। "मांसपिण्डम्" इति मत्वा, "अस्थिच्छिद्रगतं"
विरज्यते। "स्नायुबन्धनम्" इति मत्वा। "परस्परायत्तम् इदं
चक्षुरायतनम्" अवगच्छति। "नेह सारम् अस्ति," निरात्मकम्
अवैति। स " सङ्क्षेपतो दुःखभूतम् इदं चक्षुः," इति विजानन्
पश्यन्, चक्षुरायतनाद् विरज्यते। 

(६४)

<5.2.3.5> स चक्षुरायतनं यथावद् अवगच्छन्, रूपम् अपि
विचारयति: " सचेत् तद् रूपं प्रियाप्रियाव्याकृतम् अभूतं परि-
कल्प्यते, किम् अत्र सारम् अस्ति? किं शुचिं किं नित्यं किं सुखम्
अस्ति?" स रूपं पश्यञ् जानन् विमृशं लभते: "नेह
रूपं सारम् अस्ति। सङ्कल्पमात्रकम् एवेदं रूपं प्रियाप्रियम्।
नेह प्रियो वाप्रियो वा भावोऽस्ति। केवलम् अयं लोकः प्रीतिक्रोध-
सङ्कल्पगृहीतः 'प्रियं द्वेष्यम्' इति वा मन्यते।"

<5.2.4.1> स चक्षुरूपायतनम् अवलोक्य, श्रोत्रशब्दायतनम् अवलो-
कयति। स शब्दं प्रत्यवेक्षते: शब्द उत्पन्न इन्द्रियविषये
प्रपतति। ततः श्रोत्रं च प्रतीत्य, शब्दं च प्रतीत्य, तज्जं च
मनसिकारं प्रतित्य, श्रोत्रविज्ञानम् उत्पद्यते। त्रयाणां
सन्निपातात् स्पर्शः स्पर्शसहजा वेदनासञ्ज्ञाचेतना। तत्र स्पर्श-
सहजा वेदना यश् चेतयति सञ्ज्ञावत्, यथा: "दीर्घम् इदं 
लक्षणम्। विप्रकर्षात् प्रत्ययाच् छोब्दोऽयम् आगतः कर्म-

(६५)

शोभनः सूक्ष्म औदारिकः प्रियाप्रियो वा।" शब्दम् आगतं
प्रतिवेदयति सञ्चेतयति, सञ्ज्ञया विभजति, मनोविज्ञानेन
विजानाति, वेदनाया वेदयति, काङ्क्षया विचारयति। स श्रोत्र-
शब्दायतनम् अभिनिवेशयमानो विमृशति। विमृशमाणो विचारयति।
विचारयमाणः प्रतिसंवेदयते: "नेह स्वभावतः शब्दः प्रियो
वाप्रियो वा संविद्यते। केवलं सङ्कल्पकमात्रम् एवेदम्। प्रिया-
प्रियोऽयं शब्द इति नायं शब्दः स्वभावतो नित्यो वा ध्रुवो वा
शाश्वतो वा सुखो वा सारो वा सात्मको वा निरात्मको वा। केवलं
रागद्वेषमोहाः प्रियापिर्योऽयं शब्द" इति।

<5.2.4.2> स शब्दश्रोत्रायतनम् अभिसंतर्कयन्, शब्दं श्रुत्वा,
न संमुह्यते न संरज्यते, न रागम् अवगच्छति। स श्रोत्र-
शब्दायतनम् अभिसमीक्ष्य, न श्रोत्रविज्ञाने संरज्यते, नापि
रागम् उपैति: " न हि श्रोत्रविज्ञानस्य, न मम श्रोत्रविज्ञानम्।"
एवं स्पर्शो वेदनासञ्ज्ञाचेतना च।

<5.2.5.1> पुनर् अपि स भिक्षुः घ्रा नगन्धायतनम् अवैति:
"घ्राणं प्रतीत्य, गन्धं प्रतीय, तज्जं च मनस्कारं
प्रतीत्य, घ्राणविज्ञानम् उत्पद्यते।" सन्निकृष्टविप्रकृष्टप्रिया-
प्रियं सुगन्धं दुर्गन्धं वातसंश्लेषविश्लेषं प्रतिग-
न्धं जिघ्रते। तत्र घ्राणायतनं गन्धो बहिर्धस् तम् उपैति।
त्रयाणां सन्निपातात् स्पर्शः स्पर्शसहजा वेदना सञ्ज्ञा संस्का-
राणां चेतना। तत्रानुभवलक्षणा वेदना। सञ्जाननालक्षणा

(६६)

सञ्ज्ञा। घ्राणगन्धायतन अवलोक्याध्यात्मिकः स्पर्शलक्ष-
णः स्पर्शः। स्पर्शसञ्जाननालक्षणा सञ्ज्ञा। सञ्ज्ञासञ्चेतनल-
क्षणा चेतना: "एकक्षणावलम्बना एते धर्माः पृथक्-
कार्याण्य् आरभन्ते, तद्यथान्योन्यनिःस्वभावात्। यथा दश
महाभौमा धर्माः .... पूर्ववत् .... तथा सर्व एते धर्माः
पृथग्लक्षणाः, न चैकस्मिन् क्षेणे एकं कार्यम् आरभन्ते।"

<5.2.5.2> स भिक्षुर् घ्राणगन्धायतनतत्त्वज्ञस् तत्त्वत एवान्वे-
षयति: " किम् अत्र सारं नित्यं ध्रुवं शाश्वतम्? विपरिणाम-
धर्मिकस्यायतनस्यानित्यदुःखशून्यानात्मकम्।" घ्राणग-
न्धायतनं ज्ञात्वा,"सर्वं नैतन् मम। नास्याहम्," इति मत्वा,
"केवलं सङ्कल्पमात्रकम् एवेदं घ्राणगन्धायतनं येन
बाध्यन्ति सर्वबालपृथग्जनाः मन्दबुद्धयः," प्रकारोऽयं
प्रत्यवेक्ष्यते।

<5.2.6.1> पुनर् अपि स भिक्षुर् जिह्वायतनम् अन्वेषयते: "जिह्वां
च प्रतीत्य, रसं च प्रतीत्य, तज्जं च मन्सिकारं प्रतीत्य,
जिह्वाविज्ञानम् उत्पद्यते। त्रयाणां सन्निपातात् स्पर्शः, स्पर्शसहजा

(६७)

वेदनासञ्ज्ञाचेतना। तत्रानुभवलक्षणा वेदना। सञ्जाननालक्षणा
सञ्ज्ञा निमित्तावलम्बनी। तद् एते धर्माः स्वलक्षणसामान्य-
लक्षणसम्भूताः पृथक्कार्याण्य् आरभन्ते, सर्वे चैकार्थप्रसा-
धकाः। तद्यथा: नाडिं च प्रतीत्य, सन्दंशं च प्रतीत्य,
तुषोदकं च प्रतीत्य, सुवर्णकारं च प्रतीत्य, एकम् अङ्गुली-
यकम् वा क्रियते, हस्ताभरणं वा। विलक्षणाश् च ते सर्वे
धर्माः। तद्वद् एते हि जिह्वायतने," जिह्वाधर्मायतनं रसाय-
तनं च लभते।

<5.2.6.2> पुनर् अपि जिह्वायतनतत्त्वदर्शी स भिक्षुर् एवं प्रत-
र्क यति: "अस्ति जिह्वारसायतने नित्यसुखशुचिसात्मकं वा किञ्चित्?" सर्वथा विचिन्वन्, सूक्ष्मम् अप्य् एकं धर्मं न लभते। स
एवं लक्षणयुक्तः स्यात्, स जिह्वारसायतनाद् विरज्यते: "स यत्र
कृत्स्नोऽयं सत्त्वसमुद्रो मज्जते संरज्यते, परस्परेण
मनुष्यदेवनरकतिर्यक्प्रेताः पञ्चगतयो निरुध्यन्ते मज्जन्ते
विरुध्यन्ते।" स जिह्वारसायतननिर्मुक्तः: "न मम जिह्वा-
यतनम्, नाहं जिह्वारसायतनस्य। नाहं नित्यो ध्रुवः
शाश्वतो वाविपरिणामधर्मः, नापि जिह्वारसायतनम्।" तस्माद्
अपि विरज्यते।

(६८)

<5.2.7> पुनर् अपि स भिक्षुः कायस्प्रष्टव्यायतनम् अवलोकयति। स
पश्यति: "कायं प्रतीत्य, स्प्रष्टव्यं चोत्पद्यते कायविज्ञानम्।
त्रयाणां सन्निपातात् स्पर्शः, स्पर्शसहजा वेदना सञ्ज्ञा चेतना च।"
एते धर्माः पूर्ववज् ज्ञेयाः। यथा चक्षुरिन्द्रियेष्व् आयतनेषु लोकः,
तथैव कायस्पर्शायतनेऽपि बोद्धव्याः।

<5.2.8.1> पुनर् अपि स योगाचार आध्यात्मिके धर्मे धर्मानुपश्यी
विहरति: कथं स भिक्षुर् दश रूपीण्य् आयतनानि अवलोक्य,
धर्मायतनतत्त्वदर्शी धर्मायतनम् अवलोकयति? स पश्यति
श्रुतमयेन ज्ञानेन दिव्येन वा चक्षुषा:

<5.2.8.2> " धर्मायतनसङ्गृहीतास् त्रयो धर्माः: प्रतिसङ्ख्याय-
निरोधोऽप्रतिसङ्ख्यायनिरोध आकाशं च। तत्र धर्मो यत् किञ्चिद्
अविद्यमानम्, तद् धर्मसङ्गृहीतं कृत्वा, आकाशायतनं
भवति। प्रतिसङ्ख्यानिरोधो निर्वाणम्। प्रतिसङ्ख्या नाम प्र-
ज्ञाम् अनेकविधां साक्षीकृत्वा, विहरति। प्रतिसङ्ख्यानं कृत्वा,
क्लेशान् विधमति क्षपयति नाशयति, पर्यावृणीकुरुते सर्वान्
आस्रवान्। अप्रतिसङ्ख्यानिरोधः:  अप्रतिसङ्ख्या नाम यद् अज्ञ-
नं यन् न जानाति न सम्प्रतिवेदयति न जानीते न संबु-
ध्यते न प्रतर्कयते। परम्परविज्ञानशतसहस्राण्य् उत्पन्नानि
नश्यन्ति, चक्षुःश्रोत्रघ्राणजिह्वाकायमनोविज्ञानानि। तेषां ध्व-
स्तानां न पुनरुत्पादः, एष अप्रतिसङ्ख्यायनिरोधः। तृतीयम्

(६९)

आकाशम्। एते त्रयो धर्मा अजाता नित्या। अध्वनाप्य् एते न जाता न
जनिष्यन्ते न जायन्ते।"

<5.2.9> पुनर् अपि स भिक्षुः कथं धर्मायतनं द्विविधं
विभजति, रूपं चारूपं च?

<5.2.10> "तत्र रूपिजगद् दश रूपीण्य् आयतनानि। तत्र कथम्
अनिदर्शनाप्रतिघेन चक्षुर्विज्ञानेन सप्रतिघं सनिदर्शनं
रूपं उपलभ्यते? एवं श्रोत्रविज्ञानेनानिदर्शनाप्रतिघेन क-
थं शब्दो गृह्यते? एवं घ्राणविज्ञानेनानिदर्शनेनाप्रति-
घेन कथं गन्धो गृह्यते? एवं जिह्वाविज्ञानेनाप्रतिघेना-
निदर्शनेन कथं रसो गृह्यते? एवं कायविज्ञानेनानिदर्शने-
नाप्रतिघेन कथं स्प्रष्टव्यो गृह्यते? एवं एतानि बाह्यानि
पञ्चायतनानि अध्यात्मिकानि पञ्चायतनानि। कथम् अनिदर्शना-
प्रतिघानां सनिदर्शनसप्रतिघानां चायतनानां उपलब्धिर्
भवति?"

<5.2.11.1> स पश्यति भिक्षुः: "यावद् विविधम् आलम्बनं भ-
वति, तावद् विविधम् एव विज्ञानम् उत्पद्यते, मुद्राप्रति-
मुद्रकवत्। तत्र विसदृशा मुद्रायस्य् अकठिनं मुद्रकम्।
मृदु सातप्तकठिनम्। कठिनाकठिनयोः प्रतिमुद्रा उत्पद्यते।

(७०)

एवम् एवानिदर्शनाप्रतिघं विज्ञानं सनिदर्शनप्रतिघम्
आलम्बनं गृह्णीते। तृतीयं प्रतिमुद्रकम् उत्पद्यते। विसदृश्-
आनां सर्वेषां विसदृशम् उपलभ्यते। एवं विसदृशे विस-
दृशम् उत्पद्यते। प्रथमा कोटिः।

<5.2.11.2> "द्वितीया कोटिः: सदृशैः सदृशम् उत्पद्यते। तद्यथा:
शुक्लैस् तन्त्रभिः शुक्लं वस्त्रं पटसञ्ज्ञकम्।

<5.2.11.3> "तृतीया कोटिः: विधुराद् विधुरम् उत्पद्यते। तद्यथा-
रणिभ्यो वह्निः, काष्ठाग्न्योर् विरोधो दृष्टः।

<5.2.11.4> "चतुर्थी कोटिः: अच्छाद् घनं जायते। यथा क्षीराद्
अच्छाद् घनं दधि, तदेवम् असदृशैर् अपि भावैश् चक्षुर्-
विज्ञानादिभिर् हेतुप्रत्ययविशेषैश् चक्षुर्विज्ञानादय उत्पद्यन्ते।"

॥ भवन्ति चात्र गाथाः॥

धर्मावबोधाभिरतो ध्यानारामविहारवान्।
तत्त्वलक्षणसम्बोधात् प्राप्नुयात् पदम् उत्तमम्॥ <5.2.12.1>

मैत्रारामो हि सततम् उद्युक्तो धर्मगोचरे।
कायलक्षणतत्त्वज्ञो भिक्षुर् भवति तत्त्वतः॥ <5.2.12.2>

(७१)

योनिशे तु मतिर् यस्य कामक्रोधैर् न हन्यते।
स "भिक्षुर्" इति विज्ञेयो विपरीतस् ततोऽन्यथा॥  <5.2.12.3>

सर्वभूतदयाशान्तः सर्वसङ्गविवर्जितः।
सर्वबन्धननिर्मुक्तो भिक्षुर् भवति तत्त्ववित्॥ <5.2.12.4>

कर्मण्यं यस्य विज्ञानं विषयैर् यो न हन्यते।
निर्मलः स्यात् कनकवत् सन्तुष्टो भिक्षुर् उच्यते॥ <5.2.12.5>

प्रियाप्रियैर् मनो यस्य न लेपम् अनुगच्छति।
स कल्याणविधिर् ज्ञेयः सर्वदोषविवर्जितः॥ <5.2.12.6>

अनुपाक्रुष्टचारित्रो धर्मशिलो जितेन्द्रियः।
अहीनस्त्वो मतिमान् भिक्षुर् भवति तादृशः॥ <5.2.12.7>

(७२)

शास्त्रे शास्त्रार्थविज्ञाने मतिर् यस्य सदा रता।
न पानभोजनरतः स भिक्षुः शान्तमानसः॥ <5.2.12.8>

वनारण्यविहारेषु श्मशानतृणसंस्तरे।
रमते यस्य तु मनो भिक्षुर् भवति तादृशः॥ <5.2.12.9>

दोषाणां कर्मतत्त्वज्ञः फलविच् च विशेषतः।
हेतुप्रत्ययतत्त्वज्ञो भिक्षुः स्याद् वीतकिल्बिषः॥ <5.2.12.10>

हतकिल्बिषकान्तारो हतदोषो जितेन्द्रियः।
पुनर्भवविधिज्ञो यः स भिक्षुः शान्तमानसः॥ <5.2.12.11>

नोत्कर्षे हृष्टहृदयो निन्दया नैव कम्प्यते।
समुद्रतुल्यगाम्भीर्यो योगविद् भिक्षुर् उच्यते॥ <5.2.12.12>

अविकत्थको दृढमतिः शलक्ष्णवादी न लोलुपः।
कालवादी समो दक्षः स भिक्षुः शान्त उच्यते॥ <5.2.12.13>

(७३)

कामधातूपगान् हेतून् रूपधातौ तथैव च।
आरूप्येषु च तत्त्वज्ञः शास्त्रविद् भिक्षुर् उच्यते॥ <5.2.12.14>

न लौकिककथासक्तः सक्तो दोषवधे सदा।
विषवद् यस्य विषयाः स भिक्षुर् देशितो जिनैः॥ <5.2.12.15>

पङ्कवद् यस्य कामेषु मतिर् भवति नित्यशः।
स निर्मुक्तमतिर् धीमान् मुक्तः संसारबन्धनैः॥ <5.2.12.16>

ध्यानाध्ययनकर्मण्यः कौसीद्यं यस्य दूरतः।
हितकारि च सत्त्वानाम् आरण्यो भिक्षुर् उच्यते॥ <5.2.12.17>

प्रश्नोत्तरमतिर् यस् तु प्रतिभावञ् जितेन्द्रियः।
स धार्मकथिको ज्ञेयो विपरीतस् तृणैः समः॥ <5.2.12.18>

(७४)

कायक्लमैर् यस्य मतिः सर्वथा नैव खिद्यते।
सर्वकृत्यकरो ज्ञेयः सङ्घोपचयतत्परः॥ <5.2.12.19>

न पङ्यार्थं न भोगार्थं यशोर्थं कुत एव तु।
सङ्घकार्ये मतिर् यस्य स मुक्तः सर्वबन्धनैः॥ <5.2.12.20>

न सर्वगार्थं व्रतं यस्य न लाभार्थं यशे न च।
निर्वाणार्थक्रियाः सर्वाः स भिक्षुः शान्त उच्यते॥ <5.2.12.21>

पापेभ्यो नित्यविरतः सत्क्रियासु रतः सदा।
न पापमित्रसंसर्गी भिक्षुः स्याद् बुद्धशासने॥ <5.2.12.22>

मैत्र्या भावितचित्तस्य दक्षस्य ऋजुचेतसः।
शिक्षापदेष्व् अखण्डस्य निर्वाणं नातिदूरतः॥ <5.2.12.23>

(७५)

जरामरणभीतस्य संसारविमुखस्य च।
ध्यायिनो ह्य् अप्रमत्तस्य निर्वाणं नातिदूरतः॥ <5.2.12.24>

अनित्यताविधिज्ञस्य शूयानात्मक्रियासु च।
ध्यानोत्कर्षविधिज्ञस्य निर्वानं नातिदूरतः॥ <5.2.12.25>

<II-6>

<6.1> पुनर् अपि योगाचार आध्यात्मिके धर्मे धर्मानुपश्यी विह-
रति: कथं स भिक्षुः पञ्चमाद् भूम्यन्तरात्  षष्टं भूम्य्-
अन्तरम् आक्रामति? स पश्यति श्रुत्मयेन ज्ञानेन दिव्येन वा
चक्षुषा:

<6.2> स भिक्षुर् अधिमुक्तश् चतुःकोतिकेषु: "कथम् अमी धर्माः
सदृशानां हेतवो भवन्ति, विसदृशा विसदृशानाम्, नैव सदृशा
नासदृशानाम्, अर्धसदृशा अर्धसदृशनाम्?

<6.3.1> " कथं सदृशानां सदृशा हेतवो भवन्ति? तद्यथा:
व्रीहिर् हेतुभूतो व्रीहिर् एवोत्पद्यते। एवम् एवाध्यात्मिके शुभे
कर्मणि सदृशम् एव फलम् उत्पद्यते देवमनुष्येषु; प्रथमा
कोटिः।

(७६)

<6.3.2> "विसदृशानां विसदृशा हेतवो भवन्ति। तद्यथा: म-
धुरात् क्षीराद् अम्लदध्य् उत्पद्यते। एवम् एवाध्यात्मिकेऽपि प्रियैर्
इष्टैर् इहलौकिकैः साङ्क्लेशिकैः कृतैः, शब्दस्पर्शरसरूपग-
न्धैः कृतैः, अम्लभूतो दधिवद् अनिष्टोऽकान्तमनापः फल-
विपाक उत्पद्यते नरकप्रेततिर्यक्षु; द्वितीया कोटिः।

<6.3.3> " नासदृशानां नैव सदृशा हेत वो भवन्ति। तद्-
यथा: नीलानीलयोगाद् असदृशो नाम वर्ण उत्पद्यते। एवम् एवा-
ध्यात्मिकेऽपि कर्मफलविपाके न कर्मफलस्य सदृशो भवति,
न फलकर्मणः। तद्यथा: मिथ्यादृष्टिका याज्ञिकाः पशून् हन्ति
स्वर्गलोभेन। तेन नरकं गच्छन्ति; तृतिया कोटिः।

<6.3.4> " अर्धसदृशानाम् अर्धसदृशा हेतवो भवन्ति। शुक्लैः
सूक्ष्मैस् तन्त्रभिः शुक्ल एव स्थूलः पट आरभ्यते। सूक्ष्म-
स्थूल योश् च सदृसं तत्त्वम् अस्ति। एवम् एव अर्धसदृशानाम्
अर्धसदृशा हेतवो भवन्ति। सूक्ष्मभूतैर् अशुभैः कर्मभिः,
संबृहितैर् महानारकेयैः कर्मभिः क्रियते; चतुर्था कोटिः।"

(७७)

<6.4> स भिक्षुः कर्मफलगमनागमनक्रियाम् अनुविचिन्त्याव-
लोक्य, कर्मफलचक्रवद् भवगतिचतुःकोटिं चिन्तयति: " स्यात्
कर्म यद् अप्राप्तं निकायसहगतं पुरुषं पीडयति; प्रथमा
कोटिः। स्यात् कर्म यत् प्राप्तं पुरुषान् पीडयति; द्वितीया कोटिः।
स्यात् यत् कर्म प्राप्तं चाप्राप्तं च पीडयति; तृतीया कोटिः। स्यात्
कर्म यन् नापि प्राप्तं नाप्य् अप्राप्तं पीडयति; चतुर्था कोतिः।

<6.5.1> " अस्ति तत् कर्म यद् अप्राप्तं निकायसहगतं पीडयति।
यथा लौकिकाः सम्प्रतिपन्नाः: अप्रातं नक्षत्रं कुरुं पीड-
यति, तथा लोकोत्तरिकाः: अप्राप्तं चक्षुर्विज्ञानसमुद्रं कर्म
पुरुषं पीडयति कामशोकादिभिः; प्रथमा कोटिः।

<6.5.2> "स्यात् कर्म यत् प्राप्तं पुरुषं पीडयति। यथाग्नि प्राप्तो
दहति, असिर् चाच्छिनत्तीति; लौकिकाः। लोकोत्तरिकाः: प्राप्ताशु-
भकर्म नरकतिर्यक्प्रेतेषु पीडयति; द्वितीया कोटिः।

<6.5.3> "स्यात् कर्म यत् प्राप्तं चाप्राप्तं पीडयति। यथा विद्या, 
विषप्रभावं प्राप्तं चाप्रातं च, नियच्छति; लौकिकाः। लोको-
त्तरिकाश् च: मरणदेशकाले छायानिमित्तान्य् अप्राप्तान् नरकेषु;
तृतीया कोटिः।

(७८)

<6.5.4> "स्यात् कर्म यन् नापि प्राप्तं नाप्य् अप्राप्तं पीडयति।
तद्यथा ओषधीबीजम्, उप्तं नापि प्राप्तम् प्रसमर्थं भवति,
नाप्य् अप्राप्तम्; लौकिकाः। लोकोत्तरिकाः: यथा नियतवेदनीयानि क-
र्माण्य् अर्हतस् तिष्ठतो भिक्षोः सुमेरुप्रमाणानि कर्माण्य्
अथवार्हत्परिनिर्वापयितानि कर्माणि नाप्य् आर्हतः प्राप्यपीडा-
कराणि भवन्ति तिष्ठतः, नापि मुक्तस्य: चतुर्था कोटिः।

<6.6> "स्यात् कर्म दृष्टधर्मवेदनीयं नोत्पत्तिवेदनीयम्; प्र-
थमा कोटिः। स्याद् उपपत्तिवेदनीयं अदृष्टधर्मवेदनीयम्;
द्वितीया कोटिः। स्याद् उपपत्तिवेदनीयं च दृष्टधर्मवेदनीयं
च; तृतीया कोटिः। स्यान् नापि दृष्तधर्मवेदनीयं नाप्य् उपपत्ति-
वेदनीयम्; चतुर्था कोटिः।

<6.7.1> " कतरन् तत् कर्म दृष्टधर्मवेदनीयं नोपपत्तिवेद-
नीयम्? यथा राजापथ्यकारिणो दण्डो भवति। 'दृष्टधर्मवेद-
नीयः, नोपपत्तिवेदनीयः' इति; लौकिकाः। लोकत्तरिकाः: दानेन सतां
प्राशंस्यो भवति। दृष्टधर्मसुखवेदनीयाः सन्तः, न तैः
सह परलोकं गच्छन्ति; प्रथमा कोटिः।

(७९)

<6.7.2> "स्याद् उपपत्तिवेदनीयम् अदृष्टधर्मवेदनीयम्। यथा:
'अग्निप्रपातेन स्वर्गावाप्तिर् भवतीति'; लौकिकाः। लोकोत्तरिकाः:
अस्मिन् कर्म शुभम् अशुभं वा कृतम् अन्यस्मिन् प्राप्यते,
हेतुफलप्रत्यक्षं दृष्टम्; द्वितीया कोटिः।

<6.7.3> "स्याद् दृष्टधर्मवेदनीयं च उपपत्तिवेदनीयं च।
तद्यथा: दृष्टधर्मवेदनीयम् उपपत्तिवेदनीयं भवति
लौकिकाः, लोकोत्तरिका यथा; तृतीया कोटिः।

<6.7.4> "स्यान् नापि दृष्टधर्मवेदनीयं नाप्य् उपपत्तिवेदनीयम्।
यथा 'मौनव्रतम्' इति; लौकिकाः। लोकोत्तरिकाः: मौनव्रतदान
शीलानां अव्याकृतचित्तं कर्म। तस्याव्याकृतस्य कर्मणो नापि
दृष्टधर्मवेदनीयः फलविपाक उपलभ्यते, नाप्य् उपपत्ति-
वेदनीयो भवति; चतुर्था कोटिः।"

<6.8> तद् एवम् असौ भिक्षुर् एकान्तनिषण्णोऽनेकप्रशाखं कर्म-
फलविपाकजालं विततं नरकप्रेततिर्यग्देवमनुष्येषु दृष्ट्वा,
भूतं धर्मे धर्मानुपश्यी विहरति।

(८०)

<7.1> पुनर् अपि स योगाचारो धर्मे धर्मानुपश्यी विहरति: कथं
स भिक्षुः कर्मफलविपाकज्ञो भवति?

<7.2> इहकर्माणां कर्मफलशुभाशुभज्ञो भवति। यथा: "अमी
सत्त्वाः कायदुश्चरितेन समन्वागता वाग्दुश्चरितेन समन्वागता
मनोदुश्चरितेन समन्वागता वा आर्याणाम् अपवाद का मिथ्यादृष्टि-
समाचाराः। तद्धेतोस् तत्प्रत्ययात् कायस्य भेदाद् अपायविनिपाते
नरकेषूपपद्यते, तिर्यग्योनौ प्रेतेषु।

<7.3> "अमी पुनर् अन्यसत्त्वाः कायसुचरितेन समन्वागता वाक्सुच-
रितेन समन्वागता मनःसुचरितेन समन्वागता आर्याणाम् अनप-
वादकाः सम्यग्दृष्टिसमाचाराः। ते तद्धेतोस् तत्प्रत्ययात् कायस्य
भेदात् सुगतौ देवमनुष्येषूत्पन्नाः।"

<7.4> स्वकर्मधर्मविपाकं यथावत् पश्यन् स भिक्षुः
वितर्कयन्, परेभ्यः शृण्वन्, मारविषयगतानां सत्त्वानां चर्य-
यासमं चरति। निर्वाणपर्यवसायिन्या चर्यया चरति निर्वेदिकया
कल्याणया सततोद्युक्तया संसारपर्यवसानयुक्तयाऽनुग्रहतया
परेषाम्, यथा: "आत्मानं चाहं तारयेयं संसारात्, दा-
यकान् दानपतींश् च।" 

(८१)

<7.5> स कर्मधर्मविपाकज्ञो भिक्षुर् नरकप्रेततिर्यग्देव-
मनुष्याणां कर्मधर्मविपाकं तर्कयति विगणयति। तद्यथा
स्वच्छस्य प्रसन्नस्य वैदूर्यमणेर् अन्तरा सूत्रिका, नीला वा
हरिद्रा वा माञ्जिष्टा वा शुक्ला वा, यथा सद्भूता वा दृश्यते। एवम्
एव कर्ममणेर् विपाकसूत्रिका मध्यगता या, ताम् असौ भिक्षुः
पश्यति श्रुतमयेन ज्ञानेन दिव्येन वा चक्षुषा विशुद्धेन।

<7.6.1> पुनर् अपि स भिक्षुः श्रुतमयेन ज्ञानेन स पश्यति मणिवत्
कर्मधर्मविपाकम्: "तद्यथा हि कश्चिन् मणिर् भवति शुक्लो
ऽवदातः समन्ततः प्रसन्नो निर्व्रणः स्वच्छो वेधनक्षमः
कर्मण्यः समन्ततो द्वारभूतः सर्वजनप्राशंस्यो धन्यो
राजार्हः। तम् एवंविधगुणयुक्तं मणिं राजा वा राज मात्रो
वास्यां गुणाभिज्ञः समूल्याभिज्ञो भूत्वा, स्वालङ्कारायावबध्-
नीयात्।"

<7.6.2> एवम् एव स भिक्षुः: "शुक्लपक्षे दशकुशलकर्मपथम्
इमं मणिम्, समन्ततो अवदातं सुप्रसन्नं निर्व्रणं निर-
वद्यं स्वच्छम्; वेधनक्षमं धर्मपक्षप्रतिपक्षाक्षेप-
प्रश्नप्रतिप्रश्नधर्मशलाकानां वेधनक्षमम्; कर्म-
ण्यं यथा यथा परिणामयति दानशीलज्ञानानि च, तथा तथासौ
दशकुशलकर्मपथमणीं कर्मण्यताम् उपनामयति-तद्

(८२)

वा चक्रवर्तिराज्याय तद् वा देवराज्याय तद् वा मारराज्याय तद् वा
ब्रह्मराज्याय तद् वा निरास्रवध्यानसमाधिभावनाराज्याय।
तथा तथासौ सद्धर्ममणिः कर्मण्यो भवति।

<7.6.3>  '" समन्ततो द्वारिका' इति समन्तद्वाराणि देवमनुष्य-
द्वारभूतानि। तेष्व् असौ सद्धर्ममणिः समन्ततो द्वारभूतो
भवति। संसारद्वारान् निर्गम्य, निर्वाणद्वारम् अनुप्रविशति।

<7.6.4> '" सर्वजनप्राशंस्य' इति सम्यग्दृष्टिकानां शैक्षाणां
प्राशंस्यः।

<7.6.5> "'राजा र्ह' इति सद्धर्मपथप्रतिपत्तिज्ञस्य चित्तेश्व-
रस्य योग्यः, प्रतिपन्नानां वा। इति वैदूर्यमणेश् च सर्वगुणोप-
पन्नस्य सद्धर्ममणेश् चैतत्साधर्म्यम् उपलभत" इति।

<7.7.1> पुनर् अपि स भिक्षुः कर्मधर्मविपाकं समनुपश्यति
मणिवद् एव: "तद्यथान्यो मणिः सव्रणो भवति, न सर्वाच्छो
न सर्वद्वारिको न शुक्लो न वेधनक्षमो न कर्मण्यो न 
सर्वजनप्राशंस्यो न योग्यो राज्ञो वा राजमात्रस्य वा।

(८३)

<7.7.2>  "एवम् एवान्यतीर्थस्य धर्मप्रतिरूपकस्य धर्मस्य
सव्रणस्य मणेः। व्रणः कतमः? सत्कायदृष्टिः शीलव्रत-
परामर्शो विचिकित्सा च।

<7.7.3> "' न सर्वद्वारिका' इति नरकप्रेततिर्यग्द्वारिकः।

<7.7.4> "'न शुक्ल' इति न निरास्रवमङ्गलयुक्तः।

<7.7.5> "'न वेधनक्षम' इति न सप्रश्नप्रतिप्रश्नधर्म-
कथिकवेधनशलाकाक्षमः।

<7.7.6> "'न योग्यो राज्ञो वा राजमात्रस्य वा' इति न सद्धर्म-
चित्तेश्वराणां सद्धर्मप्रतिपन्नप्रपन्नानाम् अष्टानां पुरुष-
पुद्गलानां योग्यः।

<7.7.7> " य एवंविधं धर्मप्रतिरूपकधर्ममणिं कण्ठे
बध्नन्ति, ते तं मणिप्रतिरूपकं मणिं बद्ध्वा, नरकप्रेत-
तिर्यक्ष्व् अनादिकालप्रवृत्ते संसारे परिभ्रमन्ति।" तस्माद् असौ
भिक्षुः: "मणिसदृशा मणयो भवन्ति। तद्यथा वैदूर्यसदृशं
काञ्चनमणिं दृष्ट्वा, 'वैदूर्यम्' इति मन्यते बालपृथग्-
जनः।"

<7.8>  स भिक्षुर् धर्माधर्मपरीक्षातत्त्वज्ञः सप्तमं भूम्य्-
अन्तरम् आरोहति। तम् आरूढं व्रतिनं दृष्ट्वा, हृष्टा भौमा यक्षा
अन्तरीक्षचराणां देवानाम् अभिनिवेदयन्ति। तेऽपि चतुर्णां महा-
राज्ञाम्, तेऽपि चातुर्महाराजकायिकानां देवानाम्, तेऽपि त्रिद-
शानाम्, तेऽपि शक्रस्य, शक्रो यामानाम्, यामास् तुषितानाम्, तुषिता अपि
मैत्रेयस्य, मैत्रेयोऽपि देवानां निर्माणरतीनाम्, निर्माण-
रतयोऽपि परनिर्मितवशवर्तिनाम्: "अमुकः कुलपुत्रो जम्बू-
द्वीपात् .... पूर्ववत्...... "

(८४)

<7.9> पुनर् अपि योगाचार आध्यात्मिके धर्मे धर्मानुपश्यी विह-
रति: कथं स भिक्षुः कर्मधर्मविपाकं समनुपश्यति?

<7.10> " अविज्ञप्तिसञ्ज्ञकम् एकादशमं रूपम्। यदा युक्तः सर्व-
धर्मक्रियया, यदा च संवरगृहीतो भवति, ततः
प्रभृति सुप्तमत्तप्रमत्तानां कुशल एव धर्मप्रवाहः प्र-
वर्तयते। यथा नदीश्रोतःप्रवाहितोऽव्युपरतो नित्यम् एव, पुरु-
षस्य सुप्तमत्तप्रमत्तस्य वहति, एवं तथाविज्ञप्तिसञ्ज्ञकं
रूपम्। अनिदर्शनम् अप्रतिघम् इच्छति, कथं पुनस् तद् रूपम्?
कर्मसद्भावस् तस्य। तस्मात् तद् अपि रूपं स्तम्भभूतं
सर्वकुशलानां धर्माणाम्। तद् एकादशविधं रूपम्।"

(८५)

<7.11> स भिक्षुः पश्यति; "कथं अमी सत्त्वा नानारूपा नानावस्था
नानागतिका नानाविधाश्रयाः?"

<7.12.1> स पश्यति: "यस्माद् एते सत्त्वा नानाचित्ता नानाविधा-
श्रयाधिमुक्ता ननविधकर्मणः, तस्माद् एते सत्त्वा नानारूपा
नानावस्था नानागतिका नानाविधाश्रयाः। तद्यथा दक्षश् चित्र-
करो वा चित्रकरान्तेवासी वा सुशुकां दृढाम् आलोक्यरम्यं
भूमिन् आसाद्य, नानाविधै रङ्गैर् नानाविधैश् चित्रैर्
नानाविधानि शोभनानि रूपानि चित्तवशात् कुरुते। तथायं चित्त-

(८६)

चित्रकर्मकरश् चित्रकर्मकरान्तेवासी वाधिमुक्तिकरः सुशुक्ला-
यां त्रिधातुभूमौ दृढायां कर्मफलविपाकायां संसार-
भूमौ नानावस्थायां नानागतिकायां नानाविधाश्रयायां सत्त्व्-
आंश् चित्तचित्रकर्मकरोऽभिनिवर्तयति।

<7.12.2> "पुनर् अपि यथा श्वेतेन रङ्गेण श्वेतरूपं कुरुते,
रक्तेन रक्तं कुरुते, पीतेन पीतं कुरुते, कापोतेन कापोतं
कुरुते, कृष्णेन कृष्णं कुरुते, तथायं चित्तचित्रकर्मकरश्
चित्तं श्वेतम् आलम्बनम् उपादाय शुक्लान् धर्मान्-अकृ-
ष्टान् सास्रवै रागादिभिर् मलैः-शुक्लं रूपम् अभिनिवर्त
यति देवमनुष्येषु।

<7.12.3> "रक्तम् अभिसमादाय रङ्गम्, चित्तचित्रकरो रक्तरूपम्
अभिनिवर्तयते देवमनुष्येषु। रक्तं नामेष्टशब्दरसस्पर्श-
रूपगन्धैर् योनिशश् चित्रपटे।

<7.12.4> "पुनर् अपि स चित्तचित्रकर्मकरः पीतं रङ्गम् उपादाय,
अभिनिवर्तयति तिर्यग्गतानि। तेऽपि परस्परेण पीतरङ्गवशात्
पिबन्ति रुधिराणि, खादन्ति मांसानि, घ्नन्ति च परस्परतो राग-
द्वेषमोहेन पीताकृताः।

<7.12.5> " पुनर् अपि स चित्तचित्रकरः कपोत कम् आलम्बनं दृष्ट्वा, 
कपोतकं मलिनं कर्म कुरुते प्रेतगतिषु। ते हि वनदाव-
दग्धसदृशतनवः क्षुत्पिपासापरिगता विविधदुःखाभिभूता
भवन्ति। चित्तचित्रकर्मकरवशेन मात्सर्यालम्बनेन मोहतिमि-
रावृताः।

(८७) 

<7.12.6> " पुनर् अपि स चित्तचित्रकर्मकरः कृष्णं कर्मभूतं
रङ्गम् उपादाय, कृष्णानि रूपाण्य् अभिलिखते नारकेयानाम्। ते हि
कृष्णेन कर्मणा तत्रोपपन्नाः कृष्णायसप्राकारज्वलितनिबद्धाः
कृष्णतनवो नानाविधव्याधिकरणाः क्षुत्पिपासाश्रयभूता अन-
न्यसदृशेन कारणादुःखेनाभिभूता भवन्ति। ताः स्वेन दुःकृ-
तेन।"

<7.12.7> पुनर् अपि स भिक्षुर् योगम् आस्थितः: "तद् एव त्रैधा-
तुकं पञ्चगतिकपञ्चरङ्गं संसारचित्रपटं त्रिभूम्यव-
स्थं - कामधातुभूमिकं रूपधातुकम् आरूप्यधातुकम्।
तत्र स चित्तचित्रकर्मकरः कामसेवनया कामधात्वालम्बनानि
ननविधानि रूपाणि आलिखते। विंशतिविधानि रूपधात्वालम्बना-
श्रितानि कामविसंयुक्तानि चतुर्ध्यानकूर्चेन तदाश्रितानि षोडश-
भूम्यवस्थितानि रूपधाताव् अभिलिखति। रूपधात्वालम्बनवि-

(८८)

संयुक्तानि समापत्तिचतुष्कादिसमालम्बनान्य् आरूप्यधाताव् अभि-
लिखति चित्तचित्रकर्मकरः। आयतो ह्य् अयं त्रैधातुकपटः।

<7.13> पुनर् अपि स भिक्षुश् चित्तचित्रकरं पश्यति सत्त्वान् आलिख-
मानम् अन्येन प्रकारेण: "तत्र चित्रकरसदृशं चित्तचित्रकरम्।
रङ्गभाजनसदृशं शरीरम्। दृढकसदृशानि रागद्वेषमोहानि।
सोपानसदृशम् आलम्बनम्। कूर्चसदृशानीन्द्रियाणि। रङ्गस-
दृशा बाह्यविषयाः शब्दस्पर्शरसरूपगन्धाः। भित्तिसदृशः
संसारः। आलोकसदृशं ज्ञानम्। हस्तसदृशो वीर्यारम्भः। चित्ररू-
पसदृशानि रूपानि अनेकवेषरूपवस्त्रवृद्धिजातान्य् अनेककर्म-
फलविपाककृतानि।"

<7.14.1> पुनर् अपि स भिक्षुर् ध्यानगतस् तम् एव चित्तचित्रकरम्
अन्येन प्रकारेण स पश्यति: "यथा स चित्रकरो यद्य् अखिन्नो
भवति, सुपरिकर्मकृतानि रङ्गान्तरानि भवन्ति, उज्ज्वलानि कूर्च-
कानि शोभनानि भयपरिजितानि भवन्ति, तदा शोभनानि रूपा ण्य्
आलिखते। एवम् एवायं चित्तचित्रकरो यद्य् अखिन्नो भवति, ध्यान-
क्रियासुपरिकर्मकृतानि ध्यानरङ्गान्तराणि भवन्ति, उज्वलानि रङ्ग-
सदृशान्य् आलम्बनानि भवन्ति, शोभनकूर्चकसदृशानि मार्गोप-
देशकोपदेशपरिजितोपमाण्य् अधरोत्तरसुपरिजितानि। आकर्षापकर्षा-
खिन्नः स चित्तचित्रकर्मकरः शोभनानि रूपाणि ध्यानभूमाव्
आलिखते।

(८९)

<7.14.2> "अथ खिन्नो भवति, स चित्तचित्रकर्मकरस् तदाशोभनासु
नरकप्रेततिर्यग्भूमिषु गतिनिकायकारणायोमुषलकूर्चेनाशुभ-
रङ्गपात्रभूतं नारकेयतिर्यक्प्रेतरूपं तिर्यग्गतं वा गृह्या-
शोभनानि रूपाण्य् आलिखते ...... विस्तरेण पूर्ववत् ......"

<7.15> पुनर् अपि स भिक्षुश् चित्तमर्कटं मर्कटवत् पश्यति:
"यथा ह्य् अनिभृता नानाद्रुमलतापुष्पफलवनपर्वतदरीविवर-
कुञ्जाप्रतिहतगतिर् भवति मर्कटः। एवम् एवायं चित्तमर्कटो
ऽनिभृतगतिः पञ्चसु गतिषु। नानावनसदृशानि नरकप्रेतति-
र्यग्वनानि। द्रुमसदृशाः सत्त्वाह्। अनेकप्रकारलतासदृशा
तृष्णालता। पुष्पसदृशाः सङ्कल्पाः। फलसदृशा इष्टानिष्टशब्दरस-
रूपगन्धाः। दरीविवरचारिणस् त्रयो धातवः। गुहासदृशं श-
रीरम्। अप्रतिहतगतिः चित्तमर्कटो नरकतिर्यक्प्रेतदेवम-
नुष्यस्थानेषु, स चित्तमर्कटवद् भवति संसारभूमिषु।"

(९०)

<7.16> पुनर् अपि स भिक्षुर् ध्यानगतश् चित्तनटं नटवत्
पश्यति: "यथा हि नटो नट नानावेषरङ्गभूमिवस्त्रसुतूर्य-
धरो भूत्वा, नाटकं नाटयति। एवम् एवायं चित्तनटो नानाकर्म-
निर्मितवेषधारी विचित्रासु भूमिषु गतिनिकायभूमिषु। नानावेष-
धारी नानाविधहेतुप्रत्ययधारी। नानाविधतूर्यसदृशानि कार्या-
णि। 'स्वविषयनाटकम्' इति संसारनाटकम्। 'नट' इति चित्तनटः।
'नाटकम्' इति विचित्रनैकप्रकारं दीर्घम् अनवराग्रे संसारे।"

<7.17> पुनर् अपि स भिक्षुर् नदीमीनवत् पश्यति चित्तमीनम्:
"यथा हि मीनः प्रतततरङ्गाकुलायां गम्भीरशीघ्रस्रोतो-
दुर्विषहगतिप्रचारायाम् अनेकवृक्सापकर्षणसमर्थायां प्र-
ततशीघ्रवेगानिवार्यकर्मचण्डायां गिरिनद्याम् उन्मज्जत्य् अव-
मज्जति, एवम् एवायं चित्तमीनः प्रतततरङ्गाकुलायां त्रिभव-
तरङ्गाकुलायाम्, कामधातुवैतरणीगम्भीरायाम् अवीचिपरमग-
म्भीरायाम्, शीघ्रस्रोतायां शुभाशुभकर्मस्रोतायाम्, दुर्-
विषहगत्यां सर्वलोकबालपृथग्जनपारगमनदुर्विषहगत्याम्,

(९१)

'प्रचारायाम्' इति पञ्चगतिनद्यां प्रचारायाम् अनेककल्पायां
च, कर्षणसमर्थायां विषयशीघ्रस्रोतायाम्, ऽशीघ्रप्रततवे-
गानिवार्यचण्डायाम्ऽ इति अनित्यताप्रततवेगानिवार्यचण्डायाम्, न-
द्यां तृष्णानद्यां चित्तमीन उन्मज्जननिमज्जनं कुरुते। उन्मज्जति देवमनुष्येषु, निमज्जति नरकप्रेततिर्यक्षु स चित्तमीनस्
तृष्णानद्याम्।"

<7.18> पुनर् अपि स योगाचार आध्यात्मिके धर्मे धर्मानुपश्यी
विहरति: कथं भिक्षुर् योगम् आस्थितः कर्मधर्मविपाकज्ञश्
चित्तायत्तान् सर्वसत्त्वान् पश्यति, चित्तग तिकांश् चित्तविधेयांश्
चित्तेन वञ्चमानान् पश्यति? स पश्यति श्रुतमयेन ज्ञानेन
दिव्येन वा चक्षुषा:

<7.19> "चित्तकर्मायत्ताः सर्वसत्त्वाः, चित्तकर्मगतिकाश् चित्तायत्ताः।
कथं च त इमे सत्त्वा मुच्यन्ते संसाराद् अनवराग्राद् अनेक-
गतिप्रचारात्?" स पश्यति श्रुतमयेन ज्ञानेन दिव्येन वा
चक्षुषा: "चित्तसङ्क्लेशात् सर्वसत्त्वा बध्यन्ते, चित्तव्यवदानान्
मुच्यन्ते।"

(९२)

<7.20> तत्र चित्तम् अनेकप्रकारम् आलम्बनभेदेन स्वभाव-
भेदेन। निकायगतिभेदेन पञ्च विधं पञ्चसु गतिषु। योग-
वाहि परमाश्रयभेदेन - संयुक्तम् अनुशयसंयोजनैश् चित्त-
प्रयुक्तैः संस्कारैः, असंस्कृतैर् आकाशादिभिस् त्रिभिर् नित्यैर् अप्र-
युक्तं - पञ्चप्रकारं भवति। तद् इन्द्रियभेदेनापरिमि-
तम्। तृष्णाविविधाश्रयभेदेन पञ्च चेतांसि भवन्ति। सङ्क्षे-
पेण तद् अस्य साङ्क्लेशिकस्य पक्षस्य।

<7.21.1> कथं व्यवदानपक्षो भवति? त्रयाणां मूलक्लेशानां
त्रयः प्रतिपक्षा भवन्ति, सर्वातीतानागतसम्यक् सम्बुद्ध-
वचनसन्मार्गदेशिताः। तद्यथा: रागस्याशुभा, द्वेषस्य मैत्री,
मोहस्य प्रतीत्यसमुत्पादः।

(९३)

<7.21.2> तत्र शरीरे रागो भवति, स तद् एव शरीरालम्बनं कृत्वा,
विहरति विभजति। पादनखात् प्रभृति यावच् छिरसः स्थूलान्य्
अङ्गप्रत्यङ्गानि विभजति: "कोऽहम्, किं वा मम स्वाङ्गप्र-
देशेषु?" स पादनखपृथक्शरीरं पश्यति: "न नखः शरी-
रम्। न पादाङ्गुल्यः शरीरम्, अहं वा, यत्रायं अहङ्कारो वा-
र्तते वा। न पादतले शरीरं यत्रायं अहङ्कारो वर्तते।
न गुल्फमातृकोऽहम्, शरीरं वा। न पार्ष्णिर् अहम्, शरीरं वा। न
पार्ष्णिपिण्डोऽहम्। न मण्डलम् अहं वा, शरीरं वा। न श्रोणि-
कपालम् अहम्, शरीरं वा। न गुदोऽहम्, शरीरं वा। न पृष्ठ-
गतानि पञ्चचत्वारिंशद् अस्थीन्य् अहं वा, शरीरं वा। न ग्रीवा-
ङ्गास्थीनि शरीरम्, अहं वा। न मुखगतान्य् अस्थीनि शरीरम्, अहं
वा। न कपालगतान्य् अस्थीनि शरीरम्, अहं वा," सम्प्रविभज्य,
भिक्षुर् अर्थान्तरभूतं शरीरं न पश्यति, नाप्य् एकैकेन शरी-
रं पश्यति, नापि विभक्तं शरीरं पश्यति। न चक्षुःश्रोत्र-
घ्राणजिह्वाकायमनांसि शरीरं आत्मनः, नाप्य् अध्या-
त्मानं तेषु। पृथक्परमाणुशः शरीरं प्रविभजति, स-
र्षपमात्रं चूर्णसदृशम् आत्मनः शरीरं पश्यति। स महा-

(९४)

भूतानि विभजति: "कोऽहम्? किं पृथिवीधातुर् अहम्, अब्धातुर्
अहम्, तेजोधातुर् अहम्, वायुधातुर् अहम्? स नात्मानं धातुम्
पश्यति। नापि धातुम् आत्मनि सम्पश्यमानः, अर्थान्तरभूतं न
पश्यति परमार्थतः: "तद्यथानेकवृक्षस मुदायं वनं
पश्यति। नैकेन वृक्षेण वनम् अस्ति। न परमार्थतो वनं नाम।
वृक्षविनिर्मुक्तं न वनम् अस्ति। वृक्षोऽपि त्वङ्मूल-
शाखापर्णवलीषुविनिर्मुक्तोऽर्थान्तरभूतो न विद्यते। न पर-
मार्थतोऽस्ति। संवृतिसत्येन तु वनम् अस्ति। तथेदम् अपि शरीरं
पाण्यादिसमुदयमात्रेयं सञ्ज्ञा। संवृतितः शरीरं इदम्।" स
त्रच्छरीरधर्मतत्त्वज्ञः शरीराद् विरज्यते, शरीरप्रत्यङ्गेभ्यो
ऽपि विरज्यते, सर्वेन्द्रियवेदनाधातुभ्योऽपि विरज्यते।
विरक्तस्य चित्तस्य नन्दीरागसहगता तृष्णा पौनर्भविकी न
बाधते। एवं रागप्रतिपक्षे प्रयतते।

<7.21.3> कथं द्वेषस्य प्रतिपक्षे प्रयतते? स मैत्रीप्रत्य्-
उपस्थितो भवति: "कृच्छ्रं वतेमे सत्त्वाः, यदुत: यन्नाम
जायन्ते म्रियन्तेऽपि च्यवन्तेऽप्य् उपपद्यन्ते पञ्चसु गतिषु

(९५)

पञ्चभयापन्नाः!" तान् प्रतिमृतकोपमान् मातृवत् कारुण्यम्
उत्पद्यते: "कथं एवंदुःखितानां सत्त्वानां पुनः क्षते क्षार-
निभं क्रोधं कुर्यात् प्रकृतिदुःखितेषु सत्त्वेषु?" स द्वि
तीयं महाक्लेशं वधन् प्रतिवधन् विहरति।

<7.21.4> पुनर् अपि स भिक्षुः कथं तृतीयमहाक्लेशप्रतिपक्षे प्र-
यतते?" "मोहेनावृताः सत्त्वाः कायदुश्चरितं चरन्ति, वाग्दु-
चरितं चरन्ति, मनोदुश्चरितं चरन्ति। कायस्य भेदाद् अपाय-
विनिपाते नरकेषूपपद्यन्ते। यदा तु मोहरहिता भवन्ति सम्-
यग्दृष्टिपुरःसराः, तदा कायसुचरितं वाक्सुचरितं मनःसु-
चरितं चरन्ति, धर्माधर्मतत्त्वज्ञा भवन्ति। यदा चैषां ध-
र्माधर्मतत्त्वज्ञानविज्ञानं भवति, तदा महाक्लेशस्य तृती-
यस्याभावो भवति।"

<7.22> स भिक्षुः: "एवं त्रयाणां क्लेशानां त्रयः प्रतिपक्षा
भवन्ति। तन्नाशात् सर्वक्लेशोपक्लेशसंयोजनानुशयप्रत्यव-

(९६)

स्थानां नाशो भवति। यथा वृक्षस्य मूलनाशात् त्वङ्मूलप-
त्रपलाशास्कन्धविटपपुष्पफलादीनां सर्वथैव म्लानानि भ-
वन्ति नाशो वा, तथैव तेषां त्रयाणां वधात् सर्वक्लेशवधो
भवति।"

<II-8>

<8.1> पुनर् अपि स योगाचार आध्यात्मिके धर्मे धर्मानुपश्यी
विहरति: कथं स भिक्षुः सप्तमाद् भूम्यन्तराद् अष्टमं
भूम्यन्तरं आक्रामति? स पश्यति श्रुतमयेन ज्ञानेन दिव्येन
वा चक्षुषा: कथं स भिक्षुर् आदित एव चक्षुर् यथाभूतं
पश्यति?

<8.2> " कथं विज्ञेयेषु सर्वेषु रूपेषु बालपृथग्जनः सं-
रज्यते संविरज्यते सम्मुह्यते वा? तत्र मित्रं दृष्ट्वा संर-
ज्यते, संरज्यस्थानीयं वा रूपं दृष्ट्वा स्त्रियं वाऽन्याद् वा।
द्वेषस्थानीयेषु द्वेषम् उपैति, सपत्नभूतं सपत्नस्थानीयं
वा। रागद्वेषावृतचक्षु षो रूपं न यथाभूतं पश्यति।
'मोहावृतचित्त' इति बालः पृथग्जनः कल्पनामात्रकेषु चक्षुर्-
विज्ञेयेषु संरज्यते वा विरज्यते वा संमुह्यते वा। तृष्णा-
वञ्चिताः पुरुषाः स्वेच्छावितर्केणात्मनैवात्मानं रञ्जयन्ति।

(९७)

<8.3> "तद्यथा श्वास्थि गृह्य निर्मांसम्, मुखे प्रक्षि-
पति। स दन्तैर् वा लालाप्रविसरक्लिन्नफम् अस्थि विवरगतं
खादयति। तस्यातिगृद्धस्य शुनः स्वकाद् आस्याद् दन्तविवराद्
रुधिरम् आगच्छति। सऽतम् अस्थिरसम्ऽ इति मन्यते। न मन्यते:
'मामकम् एवेदं रुधिरम् अहम् एवास्वादयामि।' स श्वा
रसगृद्धो जिह्वाम् अपि खादयति। स रसगृद्ध्यावृतोऽस्थिरसं
मन्यते, केवलं सङ्कल्पमात्रकम्।

<8.4> " एवम् एव बालपृथग्जनश् चक्षुर्विज्ञेयेषु रूपेषु संर-
ज्यते चक्षुरमणीयानि रूपाणि। स वितर्कलालावृतमतिर् विचारा-
स्थि चक्षुःसदृशे आस्ये प्रक्षिप्य, तथा तथा खादति ये-
नास्य तृष्णारुधिरं स्यन्दति। तृष्णारुधिररसगृद्धो 'ममेदम्'
इत्य् अभिरूपं मन्यते। स तत्र रसं लभते। तत्र यथा
श्वा तथा बालपृथग्जनाः। यथास्थि तथा चक्षुर्विज्ञेयानि रूपाणि।
यथा वितर्कास् तथा त्वगस्थिखादनम्। यथा दन्तास् तथा विष-
याः। तस्माद् अस्थिशङ्कलोपमानि चक्षुर्विज्ञेयानि रूपानि च सर्व-
बालपृथग्जनानां विप्रलम्भकाराणि।"

(९८)

<8.5> पुनर् अपि स भिक्षुश् चिन्तयति: "कथं तृष्णाभयभीताः
संसारोद्विग्ना भिक्षवः सर्वकामान् प्रजहति? यथापि नागः
षष्टिहायनः पञ्चबन्धनबद्धो भवति, पुरुषैर् हस्त्याजानेयैर्
अधिष्ठितः स महाविग्रहः पञ्जरावरुद्धः। एष प्रभूते-
क्षुगण्डमोदकसीधुपानरसां लभते। तूर्यगीतनादितैश् चास्य
विनोदनं क्रियते येनास्य वनसौख्यं विस्मरेत्। विस्मृत्यैह-
प्राकृतैर् हस्तिभिः सह संवसेत्, परप्रणेयश् च स्यात्। अथ स
हस्त्याजानेय एवम् अपि परिचर्यमाणो वनसौख्यं स्वेष्टं विह-
रन्न एव, पर्वतकुञ्जानि वनपुष्पफलानि शकुनिरुतानि नदीनिर्-
झररम्याणि भूमिभागानि अनुविचिन्त्य, सर्वबन्धनबद्धोऽपि
तानि सौख्यानि स्मृत्वा, सर्वबन्धनानि छित्वा, पुरुषान् हस्त्य्-
आजानेयान् अगणयित्वा, गृहपञ्जरं भञ्ज्य, प्रभूतेक्षुग-
ण्डमोदकसीधुपानरसं पीत्वा, गीतवादितैर् न शक्यते विप्र-
लब्धुम्। न चास्य शक्यते विनोदनं मनसः कर्तुम्। न चास्य
वनसौख्यं विसमरति। न च प्राकृतैर् हस्तिभिः सह समताम्
उपगन्तुम् इच्छति। पुनर् एव वनं गच्छति।

<8.6> " एवं योगाचारो भिक्षुर् अनादिकालप्रवृत्तैः पञ्चभिर् ब-
न्धनैर् बद्धः। कैः पञ्चभिः? यदुतेष्टशब्दस्पर्शरसरूप-
गन्धैः। कैः पुरुषैर् हस्त्याजानेयैर् अधिष्ठितः? यदुत: चक्षुः-
श्रोत्रघ्राणजिह्वाकायमनोविज्ञानैः साङ्क्लेशिकैः। स्वमतिगृह-
पञ्जरेऽवरुद्धः, यदुत: पुत्रदारारामदासीदासभोगगृहाव-
रुद्धः। 'प्रभूतेक्षुमोदकसीधुपानरसऽ इति सङ्कल्पमोद-

(९९)

करागपानस्य एतद् अधिवचनम्। गीतवादितसमस् तृष्णाविषक्त-
बुद्धिभिन्ननन्दीरागः। 'प्राकृतैर् हस्तिभिः' समः स्याद् इति प्रा-
कृतपुरुषैः मिथ्यादृष्टिहस्तिनाम् एतद् अधिवचनम्। 'सह
संवसेद्' इति तैः सह सत्कायदृष्टिशीलव्रतपरामर्शसम्प्रयुक्तैः
प्राकृतपुरुषैर् मुखमधुराभिर् मिथ्यादृष्टिककथाभिः प्रामो-
द्यते। 'परप्रणेय' इति रगद्वेषमोहायत्तस्यैतद् अधिवचनम्।
'हस्त्याजानेय' इति योगाचारस्यैतद् अधिवचनम्। 'परिचर्यमाणोऽपि'
सर्वसाङ्क्लेशिकस्य मोहगतस्यैतद् अधिवचनम्। नैर्याणिकप-
र्वतं स्मृत्वा, 'पर्वतकुञ्जा' इति ध्यानसमापत्तीनाम् एतद् अधि-
वचनम्। पुष्पफलादिनि सन्मार्गचित्तोत्पादानि, फलभूतं निर्-
वाणम्। 'शकुनिरुतानि' धर्मकथिकरुतानाम् एतद् अभिवचनम्।
'नादीनिर्झररम्याणिति' प्रज्ञानद्या एतद् अधिवचनम्। 'निर्झरम्'
इति एकान्तचित्तस्यैतद् अधिवचनम्। ' भूमिभाग' इति ब्राह्माणां
विहाराणाम् एतद् अधिवचनम्, यदुत: मैत्री करुणा मुदिता उपे-
क्षा। 'अनुविचिन्त्य' इति ध्यानसु खम् अनुविचिन्त्य, स योगाचार-
हस्ती सङ्घारामम् अनुधावति।

<8.7> " तस्माद् धस्त्युपमेन योगाचारेण भवितव्यम्, न श्वो-
पमेन।"

(१००)

<II-9>

<9.1> पुनर् अपि योगाचार आध्यात्मिके धर्मे धर्मानुपश्यी
विहरति: कथं स भिक्षुर् अष्टमाद् भूम्यन्तरान् नवमं
भूम्यन्तरम् आरोहति? स पश्यति श्रुतमयेन ज्ञानेन दिव्येन वा 
चक्षुषा:

<9.2> " सर्वम् इदं त्रैधातुकम् अनित्यं दुःखं शून्यानात्मा
अशुचिभाण्डभूतम्," सर्वकामान् अपि पश्यति: "तद्यथा वनान्तर-
विवरेषु महति पर्वतश्वभ्रे खर्जूरीवृक्षः स्यात्, अनेका-
समशतायासः। तस्मिंश् च प्रान्ते अल्पानि फलानि स्युः,
दुःप्राप्याणि बहुदोषानि: श्वभ्रप्रपतनदोषेन जीवितसंशय-
काराणि, कोटरदोषेण प्रपतनभागीयानि चोर्ध्वद्रुमस्थितानाम्
अपि जीवितनाशकराणि। अथ पुरुषो गच्छेत्, मूढो बालपृथग्जनो
ऽन्धभुतो रसगृद्ध्या। स तानि फलानि पश्येत, न श्वभ्र-
प्रपतनकोटरोर्ध्ववृक्षप्रपतनजीवितनाशम् अनुरागयति।
स तं वृक्षं आरोहयन् बालः पृथग्जनो मन्दमेधा अल्प-
रसास्वादेनापहृतः। स तस्माद् वृक्षात्, अप्राप्य तानि फलानि, प्रपतेत्। स जीवितं जह्यात्। अथ केनचिद् अन्येनोपायेन प्रा-
कृतेन वा कर्मणा न प्रपतेन, साकल्येन रसरागेन बद्धो
बालबुद्धिर् बहुतरम् आदीनवं न पश्यति।"

(१०१)

<9.3>  एवम् एव स भिक्षुः पश्यति: "वनान्तरविवरसमानि पञ्च-
गतिविवराणि सर्वक्लेशसमानि महच्छ्वभ्राणि। 'खर्जूरीवृक्ष'
इति कामवृक्षस्यैतद् अधिवचनम्। अनेकासमशतानि प्रत्येक-
क्लेशशतसहस्राणाम् एतत्पर्येषणादुःखानाम् एतद् अधिवचनम्।
'वृक्षप्रान्ते स्थितानि फलानीति' सर्वकामविषक्तबुद्धीनाम्
इष्टशब्दस्पर्शरसरूपगन्धानाम् एतद् अधिवचनम्। 'दुष्प्रा-
प्याणीति' दुष्प्राप्याणि भवन्ति कामफलानि, तद्यथा: समुद्र-
प्रवेशेन शस्त्रसम्भ्रमेण राजसेवाचौर्यवाणिज्यादिक्लेशैर्
चाप्यन्ते। कामफलोपमानि 'बहुदोषानीति' रागद्वेषमोहा-
नाम् एतद् अधिवचनम्। 'श्वभ्रप्रपतन' इति नरक त्रियक्प्रे-
तश्वभ्रानाम् एतद् अधिवचनम्। 'जीवितसंशयो भवति'
धर्मजीवितस्यैतद् अधिवचनम्। 'कोटरदोष' इति शून्यस्य ऋक्त-
कस्य तुच्छकस्यासारकस्यैतद् अधिवचनम्। 'पुरुष आगच्छेन्

(१०२)

मूढऽति बालस्य मिथ्यादृष्टिकस्यैतद् अधिवचनम्।" तस्माद् अनेक-
दोषभूयिष्ठपहलोपमान् कामान् अल्पस्वादान् दृष्ट्वा, स भिक्षुः 
सर्वकामान् न सङ्कल्पयति।

<9.4> पुनर् अपि स भिक्षुर् अग्निशिखोपमान् कामान् पश्यति:
"यथा हि दीपे दृष्टिरमणीये परमतीक्ष्णस्पर्शे। पतङ्गो मूढः
पश्येद् रमणीयं प्रदीपम्। स तस्मिन् प्रदीपे प्रपतेत्, स
विनाशम् आप्नुयात्। एवम् एव रागद्वेषमोहावृताः पतङ्गा बाल-
पृथग्जनाः सर्वकामरमणीयानि पश्यन्ति प्रदीपसदृशानि। इति
यदि तस्मिन् कामप्रदीपे प्रपतन्ति, ते पतङ्गसदृशा दह्यन्ते
नरकप्रेततिर्यक्षु।" तस्माद् "अलम् कामैर्!" इति स भिक्षुर्
विरज्यते कामेभ्यः।

<9.5> पुनर् अपि स भिक्षु आध्यात्मिके धर्मे धर्मानुपश्यी विह-
रति: "कैर् बन्धनैर् बद्धाः सत्त्वाः सन्धावन्ति संसरन्ति
संसारे?"

<9.6.1> स पश्यति श्रुतमयेन ज्ञानेन दिव्येन वा चक्षुषा: "द्वा-
भ्यां बन्धनाभ्यां बद्धोऽयं लोकः: आहारबन्धनेन
स्पर्शबन्धनेन च।

<9.6.2> "तत्राहारबन्धनेन चतुर्विधेन: कबडिकाहारेण मनः-
सञ्चेतनाहारेण ध्यानाहारेण स्पर्शाहारेण च।

<9.6.3> "कबडिकाहाराः कतमाः? यदुत: चत्वारः पुरुषावासाः,
षट् कामावचरा देवाः, अष्टौ महानरकाः, एकत्या अपि च प्रेतास्
तिर्यञ्चः।

<9.6.4> "मनःसञ्चेतनाहारा मत्स्यास् तद्विधाः।

<9.6.5> "ध्यानाहारा रूपावचरा देवाः।

(१०३)

<9.6.6> "स्पर्शाहाराः पक्षिणः, चक्षुःश्रवाः, चान्ये तद्विधाः
स्पर्शमैथुनविप्रलब्धाः।

<9.6.7> "सर्व एव बालपृथग्जनाः कामधातौ मनुष्यप्रेततिर्यङ्-
नरकेया योऽयं कामसेवनात् कामधातुर् भवति।

<9.6.8> "आरूप्यास् तु समापत्तिसमालम्बनाहाराः।

<9.6.9> "तदेवम् अयं द्वाभ्यां बद्धो लोकः। सो विरागान् न मुच्यते सर्वसंयोजनानुश यभन्धेनेभ्यः।"

<9.7.1> असौ अन्येन प्रकारेण चक्षुर् यथाभूतं पश्यति चक्षुर्-
विज्ञेयाण्य् अपि रूपाणि। यद् अपि तच् चक्षुसंस्पर्शनाद् उत्पद्यते
सुखस्थानीयं सुखालम्बनम् असुखविपाकं कर्म, तद् अपि
यथाभूतं प्रजानाति। एवं दौर्मनस्यस्थानीयं चक्षुर्वि-
ज्ञेयं यद् अपि तच् चक्षुःसंस्पर्शजम् उत्पद्यते दुःखा-
लम्बनं सुखविपाकं कर्म, तद् अपि यथाभूतं प्रजानाति।
कतरत् तच् चक्षुर्विज्ञेयं रूपं सुखालम्बनम् असुखविपाकम्?
इहधर्मे धर्मानुपश्यी, आध्यात्मिकेषु धर्मेषु, चक्षुषा
रूपम् अयोनिशोमनस्कार्य् आलम्बनं पश्यति निध्यापयत्य् आस्वा-

(१०४)

दयति। "सुखम्" इति प्रजानिते। परिणामेन दुःखविपाकं नर-
कप्रेततिर्यक्षंवर्तनीयम् भवति। कतरत् तत् कर्म प्रत्युत्-
पन्नासुखविपाकि विपरिणामेन सुखविपाकि? इह चक्षुर्वि-
ज्ञेयानि रूपानि दृष्ट्वा, चक्षुःसंस्पर्शजयोनिशोमनस्काराभिमु-
खचित्तो न तत्र संरज्यते, न मनो विदधाति। तद् अस्य प्रत्युत्-
पन्नदुःखविपाकं भवति, परिणामसुखं देवमनुष्यो-
पपत्तये निर्वाणपर्यवसानं च भवति।

<9.7.2-6> एवं श्रोत्रघ्राणजिह्वाकायमनोविज्ञेयेषु धर्मेषु।

<II-10>

<10.1> पुनर् अपि योगाचार आध्यात्मिके धर्मे धर्मानुपश्यी
विहरति: कथं स भिक्षुश् चक्षुर्विज्ञेयेषु रूपेषु उपेक्षको
विहरति? इह भिक्षुश् चक्षुषा रूपानि दृष्ट्वा, न संरज्यते न
विरज्यते न विलोकयति न निन्दति न स्पृहयति न मनसिकुरुते।
नायोनिशोमनसिकारेणावृतो भवति। उपेक्षको भवति। स उपेक्षा-
स्थानीयं स्थानं उपलभते, न दुःखसुखस्थानीयम्।

(१०५)

<10.2> पुनर् अपि स भिक्षुर् दशमं भूम्यन्तरम् आक्रामति
षड्भूमिविकारभूतम्, तद्यथानागम्यप्रथमध्यानभूम्य-
न्तरं चत्वारि ध्यानानि। सड्भूमिविकारम् आक्रामति। स पश्यति
धर्माणाम् उदयव्ययम्, धर्माणाम् उदयव्ययं जानाति।
निरोधगामिनीप्रतिपदार्याष्टाङ्गेन मार्गेण निर्वाणद्वारम् अवग-
न्तुं सम्प्राप्तये च प्रयतति। 

(१०६)

<10.3> तस्यैवं प्रयतमानस्य मारबन्धनानि भूयिष्ठजि-
ह्मानि दृष्ट्वा, हृष्टा भौमा यक्षा अन्तरीक्षचराणां यक्षाणाम्
अभिनिवेदयन्ति। तेऽपि चतुर्ण्णां महाराज्ञां अभिनिवेदयन्ति। ते
ऽपि चातुर्महाराजकायिकानां देवानाम् अभिनिवेदयन्ति। चातुर्-
महाराजकायिका अपि त्रिदशाणां, त्रिदशा अपि यामानाम्, यामा अपि
तुषितानाम्, तुषिता अपि निर्माणरतीनाम्, निर्माणरतयः परनिर्मित-
वशवर्तिनां, परनिर्मितवशवर्तिनो ब्रह्मकायिकानाम् अभिनि-
वेदयन्ति यथा: "जम्भूद्वीपात् कुलपुत्रो ....... विस्तरेण पूर्व-
वद् यावत् ..... अष्टमं भूम्यन्तरम् आरूढः, अन्तर्गतश् च षड्
भूमयः, तां चारूढः।"

<10.4> ततश् च श्रुत्वा, परमहृष्टा ब्रह्मकायिका देवा हित्वा 
ध्यानसुखविहारम्, तदा भूतं श्रुत्वा, हृष्टतरा भवन्ति।

॥ भवन्ति चात्र गाथाः॥

शुभानाम् अशुभानां च कर्मणां फलनिश्चयः।
भुज्यते स्वकृतं सर्वं कर्मबद्धा हि देहिनः॥ <10.5.1>

मधुरादौ विपाके तु कटुकाः क्लेशभूमयः।
वर्जनीया हि विषवत् सर्वानर्थकरा हि ताः॥ <10.5.2>

(१०७)

न क्लेशानां वशं गच्छेद् अन्ज्ञानस्य चो गोचरम्।
ज्ञानवान् इहलोके च परे च सुखम् अश्नुते॥ <10.5.3> 

ज्ञान वध्याः सदा क्लेशा अग्निवध्यं यथा तृणम्।
तस्माज् ज्ञानं परं ब्रह्म रत्नत्रयविदर्शकम्॥ <10.5.4>

ये ज्ञानगोचररतास् ते शान्ते वर्त्मनि स्थिताः।
क्लेशोरगैस् तु ये दष्टास् ते सर्वे विलयं गताः॥ <10.5.5>

परापरज्ञा ये धीराः साधवस् तत्त्वदर्शिनः।
ते यान्ति परमं स्थानं जरामरणवर्जितं॥ <10.5.6>

संसाराभिरता ये तु रमन्ते क्लेशशत्रुभिः।
नित्यबन्धनबद्धास् ते भ्रमन्ति भवसङ्कटे॥ <10.5.7>

यस्य नैर्याणिकी बुद्धिर् यस्य चर्या शिवा सदा।
तस्य देवनिका यस्य ब्रह्मलोको विधीयते॥ <10.5.8>

यस्य रागादयो द्वेष्याः पूज्या बुद्धादयः सदा।
स नाशयति संसारं शुष्केन्धनम् इवानलः॥ <10.5.9>

(१०८)

यो न चित्तस्य वशगश् चित्तं यस्यानुगं सदा।
स निर्नाशयति क्लेशांस् तमः सूर्योदये यथा॥ <10.5.10>

चित्तशत्रुः परं शत्रुर् न शत्रुर् अपरः स्मृतः।
चित्तदग्धाः सदा सत्त्वाह् कालदग्धा यथा नगाः॥ <10.5.11>

यश् चित्तवशम् आपन्नो बालो मूढोऽजितेन्द्रियः।
तस्य दुःखशमो नास्ति निर्वाणं तस्य दूरतः॥ <10.5.12>

दुःखं दुःखविपाकं च दुःखहेतुं विजानतः।
नश्यन्ति बन्धनाः सर्वे क्लेशवृन्दाः समन्ततः॥ <10.5.13>

आलोकानां परं ज्ञानं तमसां मोह उच्यते।
तस्माद् आलोकनिरतो यः स पण्डित उच्यते॥ <10.5.14>

मोहं विवर्जयेद् धीमान् सर्वानर्थकरो हि यः।
यो मोहवशम् आपन्नस् तस्य शान्तिर् न विद्यते॥  <10.5.15>

संस्पृशेत वरं वह्निं संवासेद् उरगैर् वरम्।
न क्लेशैः सह संयुज्येद् यदीच्छेच् छ्रेयम् आत्मनः॥ <10.5.16>

(१०९)

अमृतानां परं ज्ञानं श्रेय सां निधिर् उत्तमः।
बन्धूनां च परो बन्धुर् धनानां धनम् उत्तमम्॥ <10.5.17>

तस्माज् ज्ञानाग्निना नित्यं निर्दहेत् क्लेशपर्वतान्।
क्लेशपर्वतदग्धस्य सुखं पदम् अवस्थितम्॥ <10.5.18>

अन्धास् तमसि मज्जन्ते पुरुषा मन्दमेधसः।
ये नोद्विजन्ति संसाराद् अधर्मरणपञ्जरात्॥ <10.5.19>

तेषां हि सफलं जन्म येषां बुद्धिर् अवञ्चिता।
ते च पूज्याः सदा सद्भिर् येषां धर्मे सदा मतिः॥ <10.5.20>

(११०)

<10.6> इति स भिक्षुर् एवं धर्माधर्मविधिज्ञः सद्भूत्वा
विहरति। तस्यैवं सुनिर्मलचेतसः: "अनेकानि जन्मशतसहस्राणि
शिखराणि संसारपर्वताद् विशीर्यन्ते वान्तीभवन्ति नश्यन्ति,
अपुनर् भवतीति।" नश्यन्ति चास्य क्लेशशत्रवः, अन्तिके चास्य 
भवति निर्वाणम्।

(१११)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project