Digital Sanskrit Buddhist Canon

त्रिरत्नसौन्दर्यगाथा

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

त्रिरत्नसौन्दर्यगाथा

श्रीगुरुगणेशाय नमः।


यस्य प्रसादकिरणैः स्फुरितात्मतत्त्व-

रत्नप्रभापरिकरप्रहतान्धकाराः।

पश्यन्त्यनाविलदृशः सविकाश मुच्चै-

स्तस्मै नमस्कृतिरियं गुरुभास्कराय॥१॥


श्रीमद्रत्नत्रयाख्यं मह-अतिसुखदं सर्वभूताश्रयं तद्

यद् दारिद्र्यान्धकारं क्षपयति विदुषां सुन्दरानन्दरूपम्।

जीयात्तत्क्षोणिपृष्ठे शतमिह शरदां सर्वदिक्षु प्रसर्प-

ज्ज्योतिः श्रीपृथ्विनारायणकुलजलधौ जातमच्छिद्वृत्तम्॥२॥


(१)


इन्द्रात्प्रभुत्वं ज्वलनात्प्रतापं कोपं यमाद् वैश्रवणाच्च वित्तम्।

सृष्टिस्थिती रामजनार्दनाभ्यामादाय राज्ञां कुरुते शरीरम्॥३॥


नेपालेशाः पद्मपाणिशाक्यसिंहस्वयम्भुवः।

पान्तु गोरक्षाचलेश पृथ्वीनारायणान्वयम्॥ ४॥


नेपालेश्वरगोरषेश्वरकृपालब्धप्रसादोदयः

श्रीगोर्षाधिपसाहदेवनरभूपालाभिधः स्माभवत्।

तस्यैका महिषी नृपस्य शयने सुष्वाप सौख्यं यथा

सा स्वप्ने रविमण्डलं ग्रसितवत्यस्मीति भर्त्रेऽब्रवीत्॥५॥


(२)


स्वापोद्बोधितदोषरोषकुपितव्याजेन संशासिता

सापत्न्यादसहिष्णुनेव रजनीं व्याक्रोशती व्यत्यगात्।

गर्भज्येष्ठमुदस्य साशु सुषुवे श्रीपृथ्विनारायणं

मासैः सप्तभिराख्यया समगुणं प्रत्यक्षनारायणम्॥ ६॥


(३)


नेपालं विजिगीषुरेकगबलं मुद्राभिरापूरितं

तूणीकृत्य मृगं यथैव मृगयुर्निर्भीः प्रतस्थे मुदा।

इत्येवं श्रुतमन्यतस्तदिह मे सक्षिप्य संवर्णितं

किं नारायणवर्णने त्रपयते याथात्म्यसपादकः॥७॥


(४)


त्रैशूलगङ्गामधिकृत्य भैरवीं

श्रीमन्महामण्डपमाश्रयाणः।

श्रीपृथ्विनारायणवासुदेवो

बभौ नुवाकोटवितिष्ठमानः॥८॥


(५)


जातः स्तन्यं न जग्राह कण्ठीरवकिशोरकः।

चक्षुर्व्यापारयामास कुञ्जे कुञ्जरशालिनि॥९॥


पर्यन्तभूखर्वट कांश्च जित्वा

तानेव कृत्वा ऋजुमार्गदेशिनः।

सेनानिवेशानुपकल्प्य विष्णु-

मत्याः प्रतीरे सरितां वरायाः॥१०॥


(६)


रुरोध कीर्तीपुरमाहवेन अधोमुखैरूर्ध्वमुखैश्च बाणैः।

अत्युच्चवप्रोपरिधार्यमाणैः पाषाणकोषैः परिपूर्यमाणम्॥११॥


बभूव युद्धं तुमुलं तदानीमधोमुखैरूर्ध्वमुखैश्च तैस्तैः।

सप्रस्तरोधैरुपरि स्थितानां बालाबलाबृद्धपुरोगमानाम्॥ १२॥


नाराचनिक्षेपणिकाश्मवर्षानिर्घषणो दूभूतकृपीटयोनिः।

तदग्निप्लुष्टाः शतशोऽपि वृक्षाः स्थूणावशेषा भयदायमानाः॥ १३॥


पाषाणनिष्पिष्टतनुत्रभाजो वीराः कबन्धा रुधिराक्तदेहाः।

अद्यापि रात्रौ करुणायमाना रुदन्ति बन्धूननुशोचयन्तः॥१४॥


श्येना उलूका अथ काकगृध्रध्वांक्षाः शृगाला अथ फेरवश्च।

हृष्टाश्च तुष्टाश्च भवन्ति सद्यो मांसोष्णरक्तैश्च वसाविमिश्रैः॥ १५॥


(७)


शूरा गोपुरसन्निकर्षमगमन्नायोधनाग्रेसरा

ये ते तूर्णममूमुचन्नुपलवर्षाघातनिष्पेषिताः।

प्राणान्, प्रस्तारसाद्भवन्त्यनुदिनं संपीडिताः प्रस्तरै-

र्गाङ्गेयस्य शरेण पीडिततनुः सेनेव यौधिष्ठिरी॥१६॥


दृष्ट्वैबं प्रतियोगिनीं रणभवां नीचैः स्थितां स्वां चमूं

संसीदन्निव वप्रभेदनविधावस्त्राणि शस्त्राण्यथो।

निर्मातुं चकमे धनानि बहुशः श्रीपृथ्वीनारायणः

केभ्यश्चिद् धनवद्भ्य उत्सुकतया तद्युद्धसंसिद्धये॥१७॥


(८)


संभूयामात्यवृन्दैरनुजदलजिता कीर्तिमोदेन साकं

शूरैः पार्थादिसंज्ञैरथ च सुरप्रतापेन कीर्तिपुरीष्टेः।

श्रीदेवीघाटमाप्लाव्य च सपदि महामण्डपं संविवेश

क्लिष्टात्मा पञ्चषाब्दावधि युधि बलवद्योधृलोपात्सुदीनः॥ १८॥


(९)


शस्त्राणि चास्त्राणि च कञ्चुकानि

वीरोपयोग्यानि परश्वधांश्च।

शस्त्रीः शिताः कर्तरिकास्तथा स्फ्यां-

स्त्रिशङ्कु शूलान्यथ भल्लबाणान्॥ १९॥


तत्रापश्यदमेध्यपुञ्जजनितं सोऽङ्गुष्ठमात्रं कृमिं

भूयोभिश्च पिपीलिकाकुलशतैरावाह्यमानं हठात्।

दन्तादन्ति पिपीलिकाभिरसकृद्दष्टं च षष्ठाच्च्युतं

संनिन्युश्च पिपीलिकाः स्वविवरं यत्रास्ति तन्नायकः॥२०॥


(१०)


तत्सादृश्यबलाबलं रिपुकुलध्वस्त्यै विचिंत्यात्मनः

श्रीमत्पृथ्विनरायणो निजबलं सबोधयामास ह।

किटादेव गुणं प्रगृह्णथ भवन्तो-नो कृमिं पश्यथ

गच्छध्वं पुनरेव कीर्तिपुरिकां मत्कीर्तिसंरक्षणे॥ २१॥


(११)


अरिर्मित्रमुदासीनमभवद् भुवनत्रयम्।

कीर्तिपुर्रीवनं स्थूणावशिष्टं वीक्ष्य भीरुवत्॥ २२॥


पृथ्वीनारायणार्कः प्रथममिह समाक्रम्य नेपालभूमा-

वासप्ताब्दाहवेन प्रतिखनितसुरुंगेण कीर्तिं प्रविष्टः।

श्रीमद्व्याघ्रे शमुद्दिश्य च बलिमददात्तत्पुरीवासिलोक-

च्छिन्नघ्राणोष्णमांसैः स्म जयति नरभूपालजः पूवजिष्णुः॥२३॥


(१२)


आसप्तमाब्दप्रधनेन वितिष्ठमानं

गोर्षाधिपं स्फटिकवद्ध्युपधावशेन।

श्रीव्याघ्रभैरवमिति प्रणिधाय सर्वे

निन्युः पुर्रीं प्रणतिपूर्वमहोत्सवेन॥ २४॥


उक्तं च


उद्यमः साहसं धैर्यं बलं बुद्धिः पराक्रमः।

षडेते यस्य तिष्ठन्ति तस्य देवोऽपि शङ्कते॥२५॥


(१३)


आयोधनाग्रसरवीरसुरप्रताप-

साहस्य चैकनयनं सहसा बबाधे।

जाल्मेन केनचिदिव क्षितिजाकुचाग्र-

स्याबाधकस्य रघुजेन सकृत्प्रजस्य॥२६॥


ज्येष्ठशुक्लदशम्यां श्रीपृथ्वीनारायण..... यः।

सेनानीः कीर्तिपुरजैः कालोपाँडेः निपातितः॥२७॥


तत्साहसेन नृपपृथ्विनरायणोसा-

वापञ्चमाब्दिकनरं सहसा वबाधे।

विश्वास घातकमिवेति च नासिकाभि-

श्छिन्नाभिरालुठितवित्तधनेन साकम्॥२८॥


(१४)


संसेर्-राणाकालुराणादलमर्दन्सहायकैः।

दलजित्साहतुलारामथापापार्थ भंडारिभि॥२९॥


श्रीविश्वनाथो मिश्रेशो रणयज्ञमपूपुजत्।

सप्ताहभागवतवद्दत्तसर्वस्वदक्षिणम्॥३०॥


(१५)


स विश्वजितमारेभे यज्ञं सर्वस्वदक्षिणम्।

आदानं हि विसर्गाय सतां वारिमुचामिव॥३१॥


सर्वस्वदक्षिणवरेण मखेन तुष्टो

व्याघ्रेश्वरो नृपतिपृथ्विनरायणानाम्।

स्वेदाम्बुनाङ्गलितेन कृताभिषेक-

साम्राज्यसिद्धिमदिशत् पशुपाशमोक्त्रीम्॥३२॥


स्वप्नलब्धप्रसादेन पृथ्वीनारायणेन ह।

विपिनानि प्रकाशानि क्रियन्ते रघुणा यथा॥३३॥


लुब्धेनोपशयस्थेन दक्षिणारुर्मृगो यथा।

निरुध्यते हि सहसा नेपालभुवनत्रयम्॥३४॥


(१६)


कबन्ध उदजागरीत्तदधुनापि कीर्तिपुराद्

गणेशमुपधावति प्रतिभटेषु गर्जन्निव।

गृहीतकरवालको निशि निशातहिक्कारवैः

परस्परपराहतं प्रतिनिनादमुज्झन्निव॥३५॥


लोकेश्वरं हयग्रीवं भैरवं पीठयोगिनीः।

आनन्दादिं लोकनाथं कर्कोटमुरगाधिपम्॥३६॥


यथाविधि पूजयित्वा गणेशानमपूपुजत्।

पृथ्वीनारायणनृपः सस्नौ प्रभावतीजले॥३७॥


(१७)


भुवनत्रितयाक्रान्तप्रकाशीकृतविक्रमः।

पृथ्वीनारायणनृपो धिरजे वामनो यथा॥३८॥


भूर्भुवःस्वर्महीपालो मल्लो बलिरिवाभवत्।

पादाक्रान्त्यानतशिराः षट्प्रधानप्रपञ्चितः॥३९॥


उक्तं च 

रामः सोमं पपिर्यज्ञे ददिर्गाश्चक्रिरद्भुतम्।

याजकान् वव्रिराजह्रिः पुण्डरीके महाद्विजान्॥४०॥


कालिदासप्रधानोऽथ शुक्राचार्यवदुन्मनाः।

क...जपः सूचकस्तु पिशुनो दुर्जनोऽभवत्॥४१॥


(१८)


ब्रह्मविष्णुशिवप्रायान् साक्त्विकांस्त्रीन् महीक्षितः।

मल्लांस्तमोमयान् कृत्वा रजसा रञ्जयन् प्रजाः॥४२॥


प्रासादशिखरस्थानानि चूडारत्नान्यपाहरत्।

सौवर्णानि विचित्राणि गोर्षाभूपयुयुत्सया॥४३॥


टौधीधनप्रभृतयो भोट्याचौरानयूयुजन्।

षट्प्रधानानुमत्या हि देशोपद्रवकारकान्॥४४॥


उक्तं च


यत्र राजा स्वयं चौरः ससैन्यपरिवारकः।

तत्राहं किं करिष्यामि यतोरक्षा ततो भयम्॥४५॥


पौरोपि चाशपत्तस्य त्वमस्मान् बाधसे वृथा।

पिपीलिकौधवत् क्षुद्रांस्त्वमस्य फलमाप्नुयाः॥४६॥


(१९)


स्वदेशपथमुल्लङ्घ्य योऽन्यदेशमुपाक्रमेत्।

स एव दण्डनीयः स्यादिति घोषमकारयत्॥४७॥


तदा रल्लोऽभवन्मल्लः परस्परविरोधनात्।

अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः॥

क्षेत्रदारापहारी चाततायी चाभवत्स्वयम्॥४८॥


(२०)


कुस्त्री हन्ति कुटुम्बानि कुपुत्रेण हतं कुलम्।

कुमन्त्री हन्ति राजानं राष्ट्रं चौरेण हन्यते॥४९॥


(२१)


मल्लं विश्वजितं प्रमाथ्य निभृतं षट्कानुमत्यैकलो

दारानानयति  स्वकीयभवनं नासाक्षतिं नाकरोत्।

इत्येवं जगतीतलं षडधीनं तत्सृष्टिसंहारसं-

स्थित्या श्रीदलमर्द्दनं बुबुधिरे द्वैरूप्यसंशान्तये॥५०॥


(२२)


दलमर्द्दननामानं नरभूपालसाहजम्।

छद्मना राज्यदानेन ललिताधिपतिं व्यधुः॥५१॥


स ह्येकैकं निजग्राह प्रणिध्यर्थं सुतं नृपः।

मा गोर्षाधिपभूपालप्रत्यवायोदयो भवेत्॥५२॥


दलमर्दनसात् क्षितिर्भवित्री-

त्यनुमत्या नृपतिर्जयप्रकाशः।

निजभृत्यमवासयत्स्वराष्ट्रा-

च्छरणार्थी स च कालिदासमागात्॥ ५३॥


चौकोट्वातायनस्थो विलसति दलमर्द्दन्नृपो लोकदृष्ट-

स्तत्काले कालिदासं परिवृतमनुगै राजमार्गेष्वपश्यत्।

हेरम्बं दक्षहस्ते परशुमितरके मोदकं स्वां च शुण्डां

बिभ्राणं तं निमेषावधि तदनु च सदनाभ्यन्तरे सोयमेव॥५४॥


(२३)


सेवित्वा कतिचिद्दिनानि निजभृत्यः पादसंवाहकः

संसुप्तं निभृतं वितर्क्य सहसा तं कालिदासं कुधीः

तीक्ष्णेनास्य परश्वधेन शिर आस्फोट् याशु राजाज्ञये-

त्युक्त्वा कान्तिपुरीमगाच्च नृपतिस्तुष्टो ददावीप्सितम्॥५५॥


(२४)


श्रीराजानमभिद्रवन्ति मिलितास्ते षट्प्रधानास्त्वरा

किं त्वं रजसि प्रत्यवायजनकः कार्पासदुर्भिक्षकृत्।

एवं चेदवतारयाम भक्तामैश्वर्यमेतत् क्षम-

स्वोत्कैर्वाश्वभिषेचिरे नरपतिं श्रीतेजमल्लाभिधम्॥५६॥


(२५)


तत्साहसं लिखति पृथ्विनरायणेषु

सौकर्यराज्यकरणं दलमर्दनः स्म।

बुद्ध्या तदाशु प्रणिधाय हृदा सुरौधान्

नेपालजान् स्वविषयान्नृपतिः प्रतस्थे॥ ५७॥


(२६)


मल्लोऽभूद् व्याजहालाहल अवनिपतिर्यो जयादिप्रकाशः

प्रास्तीर्याशेषप्रासादतलदिगुतले वैरिदाहौषधानि।

गोर्षाभूपालसेनापरिवृढगणनाकातरः कांदिशीकः

संभूयामात्यवृन्दैरधिरजनि विलिल्ये द्रुतं भक्तपुर्याम्॥५८॥


(२७)


प्रासादे तुलजालये दिगुतले राजाधिराजेश्वरीं

द्रष्टुं यावदुपारुहंश्च मुदिताः पांडेतुलारामकाः।

दग्धाङ्गाः सहसा तदौषधिबलद्वैश्वानरज्वालया

शूरास्ते ययुरव्ययं वत सखे दैवी विचित्रा गतिः॥५९॥


कुमारीपूजाविधिर्महाकालसंहितायाम्-


भूषणानि दुकूलानि सिन्दूरालक्तकानपि।

कर्दलादर्शविख्याता तालवृन्तानि पोतिका॥


पसि(?)कर्माधारचोलमंचिका पीठदोलिकाः।

पञ्चालिका च सच्छङ्खा पादुके कुलपट्टिके॥


चण्डातकं च संव्यानं तथोद्वर्तनभाजनम्।

शय्योपधानपर्यङ्कसमुद्गाश्च प्रसाधनी॥


प्रतिग्राहिश्वहिग्वेला तथा सीमन्तचर्तिका।

गोरोचनामृगमदौ कपूर्रकुङ्कुमं तथा॥


एवमादिनि चान्यानि यावच्छक्तानि सुन्दरि।

प्रदातव्यानि वस्तूनि कुमारी तुष्यते यथा॥


यामलेऽपि-


यः कुमारीं यजेन्मन्त्री सर्वपर्वसु सर्वदा।

तेनार्चिता महादेवी सत्यं सत्यं न संशयः॥


(२८)


श्रीकौमारीययात्रादिवस अतिमहोत्साहधूपोपवासैः

स्वस्ति श्रीपृथ्विनारायण अतुललसत्कीर्तिपुण्योदितश्रीः॥६०॥


आर्यैः प्राज्ञैर्धनाढ्यैर्बलिभिरथ महायन्त्रमन्त्रौषधीनां

पर्यायज्ञैश्च षड्भिः परिवृतमनिशं कालिदासप्रधानैः।

तेजोमल्लं हि चाणूरमसुरमिव संमर्दयित्वा क्षणेन

साक्षान्नारायणश्रीर्मधुविपिनमिव प्रविशुन्मण्.....रम्॥६१॥


(२९)


भक्तग्रामं जिघृक्षुस्तत अवनिपतिस्त्रींस्त्रिलोकैकनाथान्

कृत्वा कारोदरीयांस्तदनु रणजितं काशिगं कारयित्वा।

आर्यातीर्थाकृतासुं नृपमपरमथो तेजमल्लं विपन्नं

क्ष्वेडग्रस्तं निरस्यन् स्म जयति नृपतिः पृथ्विनारायणाख्यः॥६२॥


(३०)


पृथ्वीनारायणार्के समुदयति हठात्पश्चिमाशाचलेन्द्रा-

दष्टाष्टाष्टाभिरब्दे गतवति विलयं यान्ति पूर्वाचलेन्द्रात्।

मल्लक्षोणीपखद्योतरुचय अवनी सा च नेपालसंज्ञा

सुस्था चास्ते प्रजानां मनसि कुतुकताल्हादता मल्लपातात्॥६३॥


(३१)


अनाढकेऽष्टाढकमन्नमासीददोहने द्रोणदुथाविरासीत्।

शुभाम्बराण्याशुरनम्बरेऽस्मिन्नेपालदेशे सति गोरषेशे॥६४॥


श्रीमच्छाक्यमुनींस्त्रिलोकविजयान्मैत्रेयनाथानथो

चैत्यान्स्तूपविशेषकानपि विहारस्थान् हनुमन्मुखान्।

हारीतीरथ शीतलामथ महाकालं गणेशं क्रमा-

च्छ्रीकृष्णं हरभीमसेनप्रमुखान् भूपो मुदापूपुजत्॥६५॥


इत्थं श्रीपृथ्विनारायण अवनितलम् आत्मसात्कृत्य दिष्ट्या

चोपुर्ग्रामस्य पाणिच्छिदिमनुकुरुते स्मापराधानुरूपाम्।

जित्वैवानाहवेन क्षितिममुमुपयास्यन्नुवाकोटयात्रां

कंसं जित्वा च नारायण इव मथुरां दृष्टनेपालचर्यः॥६६॥


(३२)


अनिदमिदमसाम्प्रतं बभाषे

नहि सितपक्षनभोमहो महीपः।

ललितपुरभवं हि चैत्यसेवो-

परतजनं वरमेव मन्यते स्म॥६७॥


वसन्तपुरनामकावसथमाज्ञपद् भूपतिः

स्वयं स्थपतिनायको विविधचित्रशिल्पोद्यमी।


(३३)


न तस्तदृगभूद्धरातल अशेषशिल्पादिविद्

द्विजं स हरिवंशकं विमलशिल्पबुद्ध्यन्वितम्॥६८॥


शिल्पं शिक्षयति स्म शिल्पविदसौ नेपालजान् पुंगवान्

पाषाणस्फटिकास्थिदन्तिरदनायस्कान्तमृत्स्नादिकम्।

वास्तूकृत्य भुवस्तलं शुभदिने श्रीपृथ्विनारायणो

देवीघाटमुपाक्रमत्प्रमुदितः श्रीभैरवीतुष्टये॥६९॥


(३४)


रम्ये नेपालदेशे विजितसुरनरे पञ्चपीयूषमाद्ये

योगिन्यो वज्रपूर्वा इव वरुणसुता मादका दुर्विनीताः।

श्रीगुह्येशीप्रभावादविदितविधवा पूर्वनेपालपालै-

र्दत्तापातित्यदीक्षाः पुमधिकसुबलाश्चाबलाः संरमन्ते॥७०॥


रम्ये नेपालदेशे निजनिजभवनद्वारदेशे निषण्णा

जूटीं बध्वा कचानां सुललितवदना भालसिन्दूररम्याः।

सीमन्तिन्यो नवीनाः परिवृतकुसुमाः कुञ्चितापाङ्गभाग्..

भाषन्ते बद्धहस्ता सुललितवचसा भाय् मसीया मसीया॥७१॥


(३५)


तद्देशे हरसिद्धिनृत्यनिरते नेपालपीठोत्तमे

नानादैवतमन्दिरोत्सवतरे तीर्थोपतीर्थावृते।

मत्स्येन्द्राभिधमीननाथरथयात्राऽरक्तलोकोत्सवे

धन्येयं ललितापुरीत्यकथयच्छ्रीपृथ्विनारायणः॥७२॥


यं विष्णुं प्रवदन्ति वैष्णवजनाः शैवाः शिवं शाक्तिकाः

शक्तिं, भास्करवन्दका दिनकरं ब्रह्मस्वरूपं द्विजाः।

मत्स्येन्द्रं मुनयो वदन्ति सततं लोकेश्वरं बोधिका

अन्ये तं करुणामयं प्रतिदिनं तं नौमि लोकेश्वरम्॥७३॥


(३६)


षडर्णैर्जप्तं यः पिबिति मनुजो दीपिनियुतं

सुबीजं पालाशं भवति विरलं तस्य यरलम्।

अहो धन्यं याम्यर्क्ष शिखितिथियात्रादिदि....

स लोकेशो देवः प्रतिदिनमपायाद्... नः॥७४॥


शीघ्रं चाकर्षतेति प्रतिवदति भृशं सारथौ तद्विधिज्ञे

हैहैहैहाहहाहाध्वनिभिरथ दिशः पूरिता यत्प्रयाणे।

रज्वाकर्षोद्यतानां वदनसमुदितैर्मेघघोषैरिवोच्चैः

सोऽयं श्रिलोकनाथो दिशतु सुरशिरोमण्डनं मंगलं वः॥७५॥


(३७)


भग्ने युग्येऽपि नीचैः प्रतिसरति रथाङ्गे रथे वक्त्रिते वा

सुस्थीभूते विमानस्थितपुरुषवरे सारथौ लग्नयष्टौ।

गजज्जीमूतघोषध्वनिभिरथ महाडिंडिमैर्वाद्यमानः

सोयं मत्स्येन्द्रनाथो दिशतु सुरशिरोमण्डनं मङ्गलं वः॥७६॥


इत्येवं ललितोद्भवं सुखकरं यत्रोत्सवं संस्मर-

न्नक्षांकाष्टशरोन्मिते मकरसंक्रान्तौ च पौषे कुजे।

गङ्गालाभमचीकरन्नृपवरः श्रीपृथ्विनारायणो

देवीघाटमहास्थले शुचितले श्रीभैरवीपालिते॥७७॥


(३८)


इत्यं श्रीपृथ्विनारायणनृपचरितं यः शृणोतीह भक्त्या

दारिद्र्यं तस्य दूरं निवसति दुरितं पूर्वजं वै क्षिणोति।


(३९)


स स्याद्रत्नत्रयाणामपि परमसखः क्षुद्ररोगैर्विमुक्तो

दीर्घायुर्भाग्ययुक्तो निजकुलसुखदः सर्ववर्गैरुपेतः॥७८॥


॥इति श्रीपृथ्वीनारायणचरित्रं समाप्तम्॥


तज्जः श्रीमान्महीपः क्षितिपतितिलकः सिंहपूर्वप्रतापः

पित्राज्ञापालको योऽखिलधरणितलं द्योतयामास नीत्या।

मर्यादां स्थापयित्वा करजितवसुधो रञ्जकः पौररीत्या

रेजे केहेरसिंहाभिधहितसचिवो वृद्धपौरानुमन्ता॥७९॥


(४०)


केदाराणां तुरीयांशकमनुजगृहे शस्यराजेः प्रजाभ्य-

स्तत्पश्चाद्दोसिचा औलिति चतुरभिधां लेखयामास पोताम्।

श्रीमान् सिंहप्रतापः स्म जयति नृपतिर्यद्यशोऽद्यापि मूर्तं

वर्वत्येवं जगत्सु त्रिषु दुरितहरं स्वान्नपाकानुदायि॥८०॥


(४१)


काम्बोजैः सोनुमत्या नृपतिरथ महोत्साहपूर्वं प्रकृत्या

सौम्यो लालागुरूणामनुगतचरितो रौप्यमुद्रानुपातात्

श्रीमान् सिंहप्रतापः सह बहुभिरलं मल्लराजानुवृत्तं

मुद्राणां रौप्यजानामनुचरणविधिं कारयामास धन्यः॥८१॥


तज्जः सम्राट् पशूनां पतिरिव विजयी शीतलापूतनानां

सार्द्धैकाब्दाय गीर्वाणयुधनृपतये सूनवे राज्यभारम्।

दत्वा स्वामीत्यभिख्यां नृपतिरणबहादुरसाहः प्रपेदे

क्षोणीपेशो न भूतो न भवति न भवेत्तत्सदृग्घोररूपः॥८२॥


(४२)


बाल्ये बाहादुरस्यार्पितधरणीभरो निर्ममो यो विरेजे

कौमारे वीरयोद्धारक जितवसुधः सार्वभौमो विरेजे।

श्रीमद्गीर्वाणयुद्धार्पितधरणितलो यौवने योभिरेमे

सार्द्ध पुत्रेण भीमार्पितधरणिभरो वार्द्धके यो विरेमे॥८३॥


श्रीमत्-सिंहप्रतापात्मजरणबहादूरसाहाज्ञया श्री-

पृथ्वीनारायणस्यात्मजवरयुवराजेन बाहादुरेण।

मूर्त्तीकृत्यार्द्धनारीश्वरमुपरि गवाक्षे विचित्रेष्टिकाभिः

काष्ठैः श्रीखण्डजातैर्ग्रहगणसहितं दैर्गपीठं न्यधायि॥८४॥


(४३)


घण्टां दिव्यधुनीतरंगधवलां कैलाशकूटोपमां

भूतप्रेतपिशाचडाकभयदध्वानैकदिव्यध्वनिम्।

सूताद्यष्टकधातुभिर्विघटितामिष्टेश्वरीप्रीतये

श्रीमत्सिंहप्रतापजो रणबहादूरोऽर्पयद् भूपतिः॥८५॥


मज्जामेदोवसान्त्रीसरुधिरतरसाहारिणीनां विमोक्ष-

प्राप्त्यै योगाधिरूढं शरभमुखमहाभैरवं नातिघोरम्।

श्रीमत्सिंहप्रतापात्मज रणबहादूरसाहक्षितीशः

स्वाराट्तुष्ट्यै स्म मीमांसति कनकभरं सीधुमांसादिगृध्नुम्॥८६॥


(४४)


माल्याबाज्याभिधानान् वृषभपरिवृढान् पालयन् श्रीमहीशो

नंदीसंज्ञान् यथैव प्रमथपरिवृढान् श्रीमहेशो विरेजे।


(४५)


वैद्यैः साँढ्योपनामैरुपकलितचिकित्साविवेकः पशूनां

कर्पूरैलालवङ्गत्वगगुरुसगुडत्र्यूषणाज्यान्नपिण्डैः॥८७॥


व्याघ्रानृक्षांश्च कीशान् गजतुरगमृगान्न्यङ्कु गोकर्णखड्गान्

सारङ्गांश्चक्रवाकान् वकशिखिसरटान् वर्तकादीन् कपोतान्।

यत्नात्संपालकः श्रीनृपतिरणबहादूरसाहोऽभवत्स्माऽ-

हारैस्तज्जातियोग्यैर्वृकभषकशशानाखुमार्जारबभ्रून्॥८८॥


(४६)


 अल्मोढां राजधानीं छलबलकलनाद् बम्मसाहात्सगोत्रा-

न्मर्यादीकृत्य कान्तीपुरत अनुमितिं क्रोशयष्टिं चखान।

सोऽयं श्रीमान् शुभंयुन् पतिरणबहादूरसाहः प्रतापी

चातुर्दिश्योक्तकीर्ती रघुरिव च दिलीपान्ववायप्रदीपः॥८९॥


वीरामर्सिंहथापाद्वयहितसचिवो धीरधीरो महात्मा

पृथ्वीनारायणानामिव सकलजगद्व्याप्तकीर्ग्युग्रशीलः।

यादोरत्नैरिवाम्भो निधिरभवदधृष्यस्तथा चाधिगम्यो-

ऽत्युग्रैः कान्तैर्धरित्रीपतिगुणनिकरेः सेवकानां स राजा॥९०॥


(४७)


अर्दलीकृतपदो हरिपाँडेः कीशवत्खरणसो विकलास्यः।

स्वामिमानसवनान्तरचारी साँढ्यवैद्य इति गोष्वधिपोऽभूत्॥९१॥


(४८)


हयग्रीवाकारो नृपगुरुरभूच्छ्रीरणबहा-

दुरो निर्वाणांशः क्वथितविषतैलः खलजने।

विशिष्टानां नृणां प्रतिदलितदारिद्र्यदुरित-

स्तदन्यूनांशेनाऽजनि जगति गीर्वाणनृपतिः॥९२॥


यथा दीपाद्दीपो घृतप्लुतसुवर्त्तीरनुसरन्

दिदीपे तुल्यार्चिः क्षपयति तमोप्यंधतमसम्।

महादीपाकारान्नृपरणबहादूरत अथो

महादीपज्वालोज्ज्वलितसुयशाः श्रीयुवनृपः॥९३॥


(४९)


स वात्सल्याल्लेभे गतवति तृतीयेब्दनिचये-

ऽभिषिक्तः साम्राज्यं पितृरणबहादूरकरगम्।

स योगीन्द्रैर्लभ्यं परमशिवनिर्वाणपदयुङ्

महानन्दस्वामीत्यभिधमभजद भूमिवलये॥९४॥


(५०)


नुवाकोटे नीत्वैनमपि नृपमारब्धमृगया-

विहारे गीर्वाणाग्रिमयुधनृपं कूटसचिवाः।

कृपागारं निर्वाणसुखनिरतं स्वामिनमहो

मुनीष्वष्टाब्जेऽब्दे ललितपुरवास्तव्यमदधुः॥९५॥


(५१)


विधातृक्ष्मापालैर्विलिखितमसत्सच्च नियतं

मरौ वा मेरौ तत्फलति नहि चित्रं स्वसमये।


(५२)


चिकित्सानिष्णातैश्चरकमुनिधन्वन्तरिसमै-

र्जगत्ख्यातैर्वैद्यैर्न भवति चिकित्स्या नृपप्रसूः॥९६॥


समांसमीनगोकुलं सहस्त्रशः सदक्षिणं

सभूमिकं समत्यजत्सधर्मिस्वीरुजां क्षये।

अवाहयच्च कुञ्जराशनच्छदेषु वर्णशः

सचत्वरे सपीठके न्यपाठयच्च शांतिकम्॥९७॥


(५३)


शिवालये शवालये दिगूतले तलेजुके

नदीषु संगमेष्वथो प्रणालिकासु कूपके।

मछिन्द्रनाथमीननाथशाक्यसिंहधामसु

सभीमसेनके मुदा नरायणे सकृष्णके॥९८॥


गणेशभैरवेष्वथो स गोपुरेषु वर्णशो

व्यचीकरत्स्वशाखया प्रतिक्रियां सरुद्रिकाम्।

स योगियोगिनीगणं ह्यभोजयच्च प्रत्यहं

नृपप्रसूरुजां क्षये धराधिपेशयोगिराट्॥९९॥


दाक्षाय्याणामपुर्वं समभवदुदितं दर्दिन खेचरानां

पाशैर्यन्त्रालिनद्धैर्बहुविधिभिरुपायैर्थथा मारणं स्यात्।

जीवन्तं चानयिष्यत्यथ मम यदि यस्तस्य दास्ये यथेष्ट-

मित्याज्ञा गृध्रबन्धे समजनि नृपतिस्वामिनामव्यलीका॥१००॥


(५४)


गृध्रान् दग्ध्वाभवदथ सुखी स्वामिराजो महात्मा

नैतादृग्गृध्रयुद्धं श्रुतिविषयगतं नैव दृष्टं कदाचित्।

अद्याप्यास्ते ज्यभालस्थलमिति कथितं स्थापिता तत्र वाणी

भूतावेशाच्छिशूनां हितकृतिकुशलै र्ज्ञानवृद्धैर्वयस्थैः॥१०१॥


भैरवेशवदथो नरवाहो देवराज इव दिव्यदृगास।

पञ्चधाऽयुधथरानथ लोकानाज्ञपच्च मुदितः स्वसमीपम्॥१०२॥


(५५)


यत्र यत्र गमिता नरयाना-

त्तत्र तत्र ह दधार सुकीर्तिम्।

कृत्रिमाण्युपवनानि पशूना-

मीश्वराय मुदितोऽर्पयति स्म॥१०३॥


गोचराण्यपि गवामुपचार उत्ससर्ज रणबाहदुरेशः।

योजनावधि रुजामपनुत्यै श्रोत्रियेभ्य अददाच्च धरित्रीम्॥१०४॥


कर्णवीरपितृकाननमारात्तक्षति स्म रणबाहदुरेशः।

तत्र येऽपकृतिनोऽपसरन्त्वित्यादिशद् रुगुपवर्द्धितमन्युः॥१०५॥


(५६)


स्वामिमन्युविनिवेदितुकामा त्रीक्षणस्य सदसीव जगाम।

मर्त्यलोकमपहाय समन्युं स्वामिनी कनकवत्यभिधा सा॥१०६॥


वैद्यदेहसदनानि दिधक्षुर्निःकृपो दव इवास महीपः।

औपचारिकविधेरपचारं व्यादिशच्छुगुपवर्द्धितमन्युः॥१०७॥


अत्यघोरवपुषे बहु मत्वा कुम्भसंज्ञकशिवाय नरेशः।

धूपनार्थकमस्करजातं व्यादिशच्छुगुपवर्द्धितमन्युः॥१०८॥


पटीरनलदोल्वणैरगुरुनाभिसम्मिश्रितै-

र्विचित्रजलशीतलैर्व्यजनचामरोत्थानिलैः।

ससभ्यबुधबान्धवप्रकृतिसान्त्वसल्लापनै-

र्न्यवारि न च भूपते रणबहादुरस्योष्णता॥१०९॥


(५७)


प्रियाविरहजेन्धना क्षितिपतीन्द्रगीर्वाण्यु-

द्धविक्रमवचोमृतैरहह सिञ्चितस्यापि हि।

कलङ्कमिव शीतगोः प्रियनिचोलमुद्बिभ्रतः

शशाम न गरीयसी रणबहादुरस्योष्णता॥११०॥


किमङ्ग मयि बन्दुकप्रहननानि नो दीयसे

स्फुटत्यहह बन्दुकः शुगनलप्रतप्तीभवन्।

किमर्थमिदमर्दलीहरिपते विडम्बेन हो

प्रिया मम गता कुतस्तदनु तत्र मां प्रापय॥१११॥


(५८)


इतीत्थमनुशोचयन्नहह जातसच्चिच्चिरा-

न्निचोलमुदपास्य निर्ममतया बृहद्भानव।

यथागतमजागरीदज इवेन्दुमत्याः क्षणा-

त्तदूर्ध्वगतिमातनोदुदितधीरचेता विभुः॥११२॥


प्रत्यहं रणबहादुरसाहः पूलचोकमधिगच्छति वत्साः।

मर्त्त्ययानमधिरुहय च तत्तत् किं वदन्त्यनुविचारणदक्षः॥११३॥


एकदा शुचिदिने स समुत्थः प्रातरेव शकुनानि विदित्वा।

ढुण्डिराजनगरीमुपगन्तुं दक्षिणां दिशमगादुपगूढः॥११४॥


(५९)


कलौ लोका दुष्टाः प्रकृतिप्रतिकूलाः प्रकृतयो

ह्यतः श्रीविश्वेशं शरणमुपयास्ये सुकृतये।

पुरा पृथ्वीनारायण इति पितुस्तातचरणः

स गङ्गाम्भःस्नायी विधिवदथ विश्वेशमभजत्॥११५॥


(६०)


स नैपालीं भूमिं यदनुकृपया द्रागधिकया

विजित्यास्मत्पित्रंघ्रिभिरुदितमेतन्मम मतम्।

इति स्मारन् स्मारन् नृपरणबहादूर अगम-

न्नृपागम्यां काशीं कनकवतिदेवीव्युपरमात्॥११६॥


गते दूरं स्वामिन्यनु रणबहादूरनृपता-

वमर्सिंहामात्यात्मजमणिरसौ सानुजगणः।

स भीमाद्यः सेनो दशरथसुतं राममिव यः

समुद्विग्नः सौमित्रिरभवदथ भर्त्तुः सहगतिः॥११७॥


ततोऽनेके लोकाः समसुखरतास्तत्परिवृढा-

स्तदासक्ता भक्ताः परिजनविरक्ता अनुययुः।


(६१)


नुवाकोटादप्यागमयति नृपं कान्तिनगरीं

महोत्साहारक्तः सपदि मिलितः कूटसचिवः॥११८॥


श्रीमद्गीर्वाणयुद्धः क्षितिपतितिलकः स्वामिराजे स्वताते

काशीस्थेऽप्यंगवर्ये महसि विरुरुचे स्वामिवद्राष्ट्रधूर्धृक्।

सम्राट् साम्राज्यलक्ष्म्या घृतपितृचरणज्ञोपि सद्धर्मिणीभि-

र्देवीभिः पाल्यमानो दशशतभुजवान् कार्तवीर्यार्जुनर्द्धिः॥११९॥


बालोऽबालपराक्रमो हरिरिव क्षोणीभृदुद्धारको

न्यायेनाऽहितचेतसां शमनवद्गीर्वाणयुद्धाधिपः।

यः षाण्मातुरवच्च शक्तिधृगथो यः सर्ववर्गाधिपो

यो द्वैमातुरवच्छतक्रतुवदासाहस्रदृग्गोचरः॥१२०॥


(६२)


अजय्रेखामातूभ्रमरकलिकाख्याथ तुरकी-

मुखाश्चेट्यो डाकिन्य इव मदिरामोदमुखराः।

महाराज्ञीं कृत्वा कटहरवनात् कांतिपुरगां

यथेच्छं ता दौवारिकविधिमकुर्वन्नृपगृहे॥१२१॥


(६३)


श्रीराज्ञ्या राजलक्ष्म्या कटहरविपिनात्प्राक्क्रमित्वापि यत्नाद्

वात्सल्यात्पाल्यमानो धवलदलशशीवातिरेजे वपुष्मान्।

श्रीमत्स्वामिक्षितीशाभ्युपगमनसमुत्कण्ठितस्वान्तवृत्तिः

श्रीमान् गीर्वाणयुद्धक्षितिपतितिलकश्चेतसा नान्वमोदत्॥१२२॥


स्वस्ति श्रीतातपादाम्बुजसमधिगमे श्रीमहाराजगीर्वा-

णेशः क्षेत्राण्यमेयान्यददथ धरादैवतेभ्योऽथ विद्भ्यः।

चेटीप्रायं च राष्ट्रं जनकरणबहादूरसाहं विनेति

स्मारनस्मारन् स्म विस्मापयतिच सबलं राजभारं बभार॥१२३॥


(६४)


उक्तं च भाषया-

भारादार्ले त भर्दा सहि फरदमहाँ दूनियाँ सब् भयामा

पश्चात्ताप्ले सबैले अघि गरनु पछी एक गोल् बोल् भयामा।

काशीवासी त स्वामी फिरङिसंग मिली क्याप गर्छन् घडर्मा

भाराले दार राषी यक मत नभया क्या गती होलि देश्-मा॥१२४॥


खेल्छन् रात् दीन जूवा कति कति विजया फुक्तछन् कोहि रुन्छन्

निःशंकै बात हाँक्छन् कति अति खुशि छन् कोहि रात् दिन् ध्वरिंछन्।

काम्का पर्फाक पर्छन दि-इ पनि नमिली कोहि सन्दूक भर्छन्

एक्-ले एकै थिया सब् यकबिनु दुनिया ढेर्-प्रकारका रहेछन्॥१२५॥


एस्तै सूर्ता लिदामा नृपति रणबहादूर साहेब काशी

बस्ता गीर्वाण राजा प्रतिदिवस बटोल्दा भया विज्ञ जोसि।


(६५)


लोगोभागो अफाल्दै बहुविध उपचार्ले गरिप् दूरदेशी

ब्राह्मण-लो मान गर्दै बहुत विषुस भै राज गर्छन् त कौसी॥१२६॥


स्नात्वा गाङ्गेम्भसि रणबहादूरसाहो न्वहंयुः

स्वर्णाम्भोदः प्रतिदिनमभूद्दिनकल्पद्रुरेवम्।

श्रीविश्वेशं प्रति बहुतिथं मन्यमानः स्वदिष्ट्या

श्रीमद्राजर्द्ध्यु पकरणदोऽपूर्वनम्रो ननाम॥१२७॥


गंगापुत्रैरथ च विबुद्धैः स्तूयमानः समक्षं

श्रीविश्वेशोऽपर इव हयग्रीवलब्धावतारः।

श्रीमान् स्वामी प्रकृतिसुभगो दुण्डिराजं च लोला-

र्कं संप्रक्रम्य जपति मुहुर्विश्वनाथं शरण्यम्॥१२८॥


(६६)


काशीस्थैश्चापि फैरङ्गिभिरपि च तदा स्वामिराजं स्वपाल्यं

मत्वा दासायमानैर्बहुभिरुपपदैः सान्त्वयद्भिः समन्तात्।

नैपालीयोपसर्पद्विविधरससुधास्वादविस्मापनार्थं

चक्रे साम्राज्यशोभाधिकतरसुभगं स्वामिसन्मानकृत्यम्॥१२९॥


वीरोऽमर्सिहथापाकुलमणिरखिलं तद्धि तर्कण बुद्ध्वा

छन्नप्रायं कुशाग्रायितशुभधिषणो भीमसेनः क्षणेन।

श्रीविश्वेशं क्षमाप्यासकृदतिकरुणं यत्प्रसादाग्रजाग्रत्-

प्रत्यूहध्वस्तिमार्गो नगरमुपनिनाय स्म ह स्वामिराजम्॥१३०॥


सामदानविधिभेदविधानैर्भीमसेन अभितः स्पशशाली

काशिकात अभिनिष्क्रमणार्थं योगमार्गमभितः स विवेद॥१३१॥


सर्फराजिपदवीकृतनामा हर्षराजिविषयीकृतवर्मा।

रक्षिताखिलपरिष्कृतवर्त्मा योगमार्गमभितः स्म विवेद॥१३२॥


(६७)


अम्भोधिं स्थलयन् धरं त्वधरयन् गर्तं समक्षेत्रयन्

क्षुद्रं कण्टकितं स्थलं कुसुमयन् वेगं शरक्षेपयन्।

वोढं श्चापि विवस्वदश्वयदसौ श्रीभीमसेनस्त्वरा

षड् घस्त्रैर्वसुमुङ निनाय लुमडीदेवीमुप स्वामिनम्॥१३३॥


श्रीस्वामी चन्द्रषष्ठाष्टशशिनि निरगात्काशिकायाः पुरीं स्वां

हृष्टो विश्वेशतुष्ट्या प्रकृतिभयवपुः काशिजान् वादिराजान्।

जित्वा हैयंगवीनं मधुरिपुरिव तद्देशतेजश्च हृत्वा

गोपीभीतेरिव स्मापसरति लुमडीं भीमसेनानुमन्ता॥१३४॥


(६८)


सार्द्धं श्रीवज्रनाथपण्डितसुतैः श्रीरङ्गनाथाभिधै-

र्बाहादूर-युवराजसाहनिकृतैः काशीप्रविष्टैश्चिरम्।

श्रीडिल्लीश्ववाग्विलासरसिकैर्दामोदरै र्ज्योतिषै

राशीर्भिः स पुरोधसां रणबहादूरोऽविशत्स्वां पुरीम्॥१३५॥


(६९)


स्वस्ति श्रीभद्रकाली लुमडिभगवती स्वामिराजं स्वपाल्यं

मत्वैवं स्वागताभ्युद्गमनसुरसिकेवोत्थिता तूर्णमासीत्।

प्रांशूदञ्चद्विचित्रध्वजवसनकृतोल्लोचमुल्लोचयन्ती

सद्ध्वानैः कीचकानां मुखरितवदना क्षेमकौतूहलेन॥१३६॥


कादम्बैः पत्रपुष्पैर्विकिरति पवनोद्धूतशाखाविमुक्तै-

र्लज्जापीठे कदम्बद्रु मसुरभिवने वज्रतुण्डीयक्षेत्रे।

दिष्ट्या भद्रं ममेति द्रुमगतवयसां रावतूर्यप्रणादै-

र्देवी श्रीभद्रकाली लुमडिभगवती वज्रतुण्डीसमेता॥१३७॥


(७०)


चप्प्रासीसैन्यमध्ये विलसति निभृतं भीमसेनानुयायी

वीरश्रीः स्वामिराजो भुजयुगलधृतोच्चण्डरत्नत्सरूणाम्।

निष्कोशानामसीनां रुचिभिरुपनिषद्रूषितानेकरूपां

मूर्ति बिभ्रत्प्रदध्यावजननिकृतपूर्वां नतिं भद्रकाल्याः॥१३८॥


एकाग्रीकृत्य चित्तं जलशयनगतं विष्णुमुद्बोध्य वेधा

अस्तावीद् योगनिद्रां मधुमुखमसुरं चण्डमुण्दौ च हन्तुम्।

हन्तुं प्रत्यग्रमन्युं महिषमथ ससैन्यं यथ मन्युवेशा-

च्छ्रीस्वामी योगिराजो लुमुडिभगवतीस्तोत्रकृत् स्तौति हा स्मा॥१३९॥


(७१)


श्रीगणेशाय नमः। श्रीमदष्टमातृभ्यो नमः।

स्वस्तिश्रीभद्रकाली लुमुडिभगवती वज्रतुण्डी विशाला

ब्राह्म्याद्या मातरोष्टौ भवदुरितहरा आस्थ यूयं कृतज्ञाः।

नेपाले पुण्यभूमौ निवसथ भगवत्पर्षदां सेवकोहं

मर्यादीकृत्य तन्मे प्रकृतिभवभयं मोचयन्तु प्रसन्नाः॥१४०॥


सङ्कष्टोत्पातहन्त्री भगवति भवती तारिणी सङ्कटाख्या

आम्नायेष्वप्यगम्या प्रकृतिषु विधुरा नामभेदैकगम्या।

पद्मस्था पद्महस्ताऽन्तकतुरगकशा दुर्गहाऽरिष्टहन्त्री

नेपालेशी पुमान् स्त्री त्वमसि कृतकलिद्वापरत्रेतया युक्॥१४१॥


त्वं देवी वज्रतुण्डी त्वदधिकृतिरियं भूमिरेतर्हि तुण्डी-

क्षेत्रं लज्जोपपीठं जनयति विदुषां धीषु लज्जां कुकृत्ये।


(७२)


सिद्धैरानीतकूटं हिमशिखरिभवं त्वत्कृते ह्योषधीनां

तस्मात्त्वां वैद्यराज्ञीं प्रकृतिभवरुजां नौमि मूर्ध्ना नतेन॥१४२॥


श्रीतुण्डीभैरवस्त्वं करकलितकपालः किरीटी च दण्डी

त्वत्पादाब्जप्रसादादतिसुखमनुभूतं पुरा रल्लमल्लैः।

अद्यापि त्वं महाकाल सफलयति निदिध्यासनां पुत्रराज्ये

यस्मादक्षोभ्यमूर्तिः क्षपयतु दुरितं त्वं गतिस्त्वं मतिर्मे॥१४३॥


ब्रह्माणीं कनकावदातवदनां चक्राङ्गपृष्ठस्थितां

सेवे पुस्तकमक्षसूत्रकरकाऽभीतीर्दधानां करैः।

चञ्चत्कुण्डलमण्डितां प्रविलसत्सर्वाङ्गभूषोज्ज्वलां

ब्रह्मज्ञानसमाधिगम्यविषयां ब्रह्माणि नो रक्षतु॥१४४॥


(७३)


माहेशीं हिमकुन्दशङ्खधवलामुद्यच्छशाङ्कच्छविं

भेजे गोपतिवाहनां त्रिनयनां त्रैगुण्यसन्तानिकाम्।

सृष्ट्यन्तस्थितिहेतुभूतनिशितं धत्ते त्रिशूलं करै-

स्त्रैलोक्योत्कटनादनादिडमरुं पर्शु तथा पाशकम्॥१४५॥


श्रीकौमारि जपाप्रसूनरुधिराभासे परित्राहि मां

भूयोभिर्विषयोग्रपन्नगविषैराघूर्णितं दुर्भगम्।

या रेजे शृणिपाशमण्डितकरा शक्तिध्वजौ बिभ्रती

वैरिव्रातविदारणैककुशला मायूरयानस्थिता॥१४६॥


श्रीविष्णोर्महिलां दधामि मनसा तार्क्ष्यङ्गमां त्रीक्षणां

या धत्तेऽरिगदे च शङ्खचषकौ दूर्वादलश्यामला।

भक्त्युद्रेकजनानुवत्सल असन्मार्गप्रतिध्वंसिके

भक्तानन्दकरि भवानि तरलं संसारपारं नय॥१४७॥

(७४)


श्रीन्द्राणी कुलिशध्वजाङ्कितकरा स्तम्बेरमाध्यासिनी

धत्ते याऽतपव रणं शृणिवरं कौसुम्भरागच्छविः।

सेयं पुष्कलभक्तिमुक्तिफलदा शम्भो भवत्वम्बिका

क्षन्तव्योऽसकृदेव मन्तुरपि मे देहि त्वदङ्घ्य्रालयम्॥१४८॥


वाराहीं घनघोरकालवदनां दंष्ट्रोद्धृतक्ष्मातल्ला

सेवे सैरिभवाहनां पटुरवां खड्गाङ्कुशौ बिभ्रतीम्।

धत्ते योग्रमुलूखलं च मुशलं दोर्भिश्चतुर्भिर्युता

पायान्मां विकसारुणा शिखिशिखापिङ्गोर्द्ध्वकेशाम्बिका॥१४९॥


श्रीकाली कालरात्री कवलितचषका कालवृन्दाभकाया

कंकाली कालकर्णी स्थपुटगतशिरा मुण्डमालाकुलाङ्गी।

या धत्तेऽसिं त्रिशूलं कुणपहृदि गता प्रेतभूमौ रटन्ती

पायात्कालौघकाली फलकयुतकरा कांदिशीकं शरण्यम्॥१५०॥


(७५)


सिंजन्नुपुरपादपद्मयुगला कर्णोज्ज्वलत्कुण्डला

रत्नालङ्कृतिभूषणाऽतिसुभगा त्रैलोक्यसंरक्षिणी।

खड्गाम्भोरुहचर्मखर्परधरा पञ्चाननाध्यासिनी

दारिद्र्यानलतापमुत्क्षिप जगन्मातर्महालक्ष्मि हे॥१५१॥


पीयूषोत्तरपात्रनिर्गतसुधाधाराभिषेकोच्छल-

जीवद्दन्त्यजिनोक्षबृंहितपराभूतत्रिकोलीरवम्।

वेतालोरसि संरटन्तमसिचर्माङ्क सुधांशुच्छटा-

चूडं त्रीक्षणमूर्द्ध्वबर्बरकचं सेवे महाभैरवम्॥१५२।


तुष्टास्वष्टसु मातृकासु भवतीष्वष्टौ महासिद्धयो

रुष्टास्वष्टसु मातृकाभगवतीष्वष्टौ महाभीतयः।

ये शृण्वन्ति पठन्ति चैवमुररीकुर्वन्ति गृह्णन्ति वा

तेषां गीतमिदं भवेच्चिरतरं श्रीसिद्धिबुद्धिप्रदम्॥१५३॥


(७६)


इत्यष्टौ मातृकाः श्रीलुमुडि भगवति श्रीमहाकालवीर

देवि श्रीवज्रतुण्डि प्रकृतिभयहरे संकटे कष्टहन्त्रि।

देवि प्रत्यङ्गिरे हे भगवति परकृत्याविनाशैकदक्षे

मा मे विज्ञप्तिमेतर्हि कुरुत घुणवर्णैकलक्षां नमो वः॥१५४॥


ससचिवबलवर्गे स्वस्ति गीर्वाणयुद्धे

दिशत सकलसिद्धिं श्रीमहाराजराजे।

मनसि च परितुष्टे कोऽर्थवान् को दरिद्र

इति भगवति मातः प्रार्थये भक्तिमेकाम्॥१५५॥


जय विश्वैकवन्द्येश जय नागेन्द्रभूषण।

जय गौरीपते शम्भो जय चन्द्रार्द्धशेखर॥१५६॥


जय कोट्यर्कसंकाश जयानन्तगुणाश्रय। 

जय रुद्र विरूपाक्ष जय नित्यनिरञ्जन॥१५७॥


(७७)


जय नाथ कृपासिन्धो जय भक्तार्तिभञ्जन।

जय दुस्तरसंसारसागरोत्तारण प्रभो॥१५८॥


प्रसीद मे महाकाल संसारात्परिखेदितम्।

सर्वपापक्षयं कृत्वा रक्ष मां परमेश्वर॥१५९॥


तुष्टा श्रीभद्रकाली लुमुडिभगवती वज्रतुण्डी विशाला

शान्ता प्रत्यङ्गिराऽक्षोभ्यमुनिकृतशिरस्को महाकालवीरः।

हाहाहुहुनिनादैर्वियति घनघटागर्जितैर्दुर्दिनोत्थैः

स्वं स्वं नैसर्गरूपं दनुजकुलवधे स्वामिने यत्तदाऽदात्॥१६०॥


दत्तं संभूय देवीभिररिकुलवधूबृन्दवैधव्यदक्षं

रूपं चास्त्रं च लब्ध्वा नृपतिरणबहादूरसाहः प्रतापी।

दोष्णां चाक्ष्णां सहस्रं दधदिव कृतवीर्यात्मजन्मेव शक्र-

श्छेत्ता भेत्ता रिपूणामपि बलिसदनाध्याश्रितानां बभूव॥१६१॥


सौधेषु प्रमदाप्रमोधभणिते ष्वारब्धगीतोत्सवे-

ष्वाविक्ष्यन् रणबाहदूरनृपतिर्यद्गोपुरं प्राक्रमत्।


(७८)


भूयोभिः पुरवासिनेत्रजनितैहर्षाश्रुभिः साक्षतै-

र्गन्धैः क्षेमकुतूहलप्लुतमुखैर्भद्राशिषा संगतः॥१६२॥


सौधं प्राप्य जितश्रमो रणबहादुरोपि सामर्षणः

पुंरत्नाननपंकजं सुललितं जिघ्रन् समाश्वासकः।

देवीं च त्रिपुरेश्वरीं भगवतीं पादाब्जसंवाहिनीं

दृष्ट्वा मन्युममूमुचच्च कनकावत्युत्क्रमोत्थं त्वरा॥१६३॥


देवि प्रिये भामिनि चारुशीले दिष्ट्याऽभिवर्द्धस्व धरातलेस्मिन्।

इति प्रियालापनिमीलिताक्षः प्रेम्णानुभूतं निजमाजगाद॥१६४॥


(७९)


कौशल्येव धरावतेर्दशरथस्यारुन्धतीवद् वसि-

ष्ठस्यर्षेरिव जानकी रघुपतेर्मेनेव शैलेशितुः।

स्वाहेव ज्वलनस्य शूलिन इव श्रीविष्णुभक्तिः प्रिया

देवी सा त्रिपुरेश्वरी रणबहादूरं व्यजिज्ञापयत्॥१६५॥


प्रातीच्यतत्त्वमितभूपगणान् विजित्य

प्राच्यैरनिर्जितभुवोऽपि हि साहदेव।

काश्यां विहृत्य सफलीकृतमद्य जन्म

क्षात्रं नमो भगवतेऽमितविक्रमाय॥१६६॥


क्रोडीकृत्य सुतं ततो विरुरुचे गीर्वाणयुद्धं नृपं

श्रीस्वामी गिरिशो यथा गणपतिं प्रत्यर्थिदावानलः।


(८०)


मूलं निर्दहदेव काण्डमविता पुष्पं फलं बृंहय-

न्नाहोस्विन्निकटे फलायिततरुर्दूरेण सन्तापदः॥१६७॥


अर्ज्याल्नामकपन्थविष्टषडकाबस्न्यातथापाह्वयान्

पांडे-इत्युपनामकानवितथव्यक्तार्थंसंभाषिणः।

गोरक्षाचलनायकस्य नृपतेः सन्नीतिनिर्णायकान्

राणाख्यानथ बोहरानपि समानाय्याकरोन्निर्णयम्॥१६८॥


ये केचिद् व्यभिचारिणः प्रकृतिषु स्वामिप्रवासं बहू-

कृत्वा मार्गनिरोधिनः प्रतिदिशं ये कूटसंचारिणः।

एनोभिर्बहुजन्मजैः परिणता विण्मूत्रपूयाकुले

ते चासंस्कृततन्तुबद्धकटयोऽमज्जन् दुरन्तागसि॥१६९॥


(८१)


चक्रं निर्माय काष्ठोद्भवमथ बलवद् युग्ययन्त्रालिनद्धं

ग्रीवासज्जं बबन्ध प्रकृतिषु विधुरस्यात्यहोऽरुन्तुदं यत्।

यस्यैकस्यापि वाहद्विषत इव शिरोधौ हि निस्त्रिंशधारा-

पातप्रायं यथा स्यादहह रणबहादूरसाहप्रतीपात्॥१७०॥


या काचित् पूतनाभा प्रकृतिषु विधुरा पानकौमारिकाख्या

काशीस्थं स्वामिराजं विजनमुपरटन्तं बहु मन्यमाना

सार्द्धं पुत्रेण वन्दीकृतनिजपरिष द्गर्दभं वाहयाना

प्रालेयाद्रेः सुतेवोल्वणतप अचरत्तद्गिरेः प्रस्थदेशे॥१७१॥


(८२)


यास्ताः शूर्पणखीकृता रणबहादूरेण दौवारिकाः

श्रीरामेण निशाचरीव सहसा चोत्कृत्त नासाकचाः।

मूर्ध्ना सर्जरसप्रदीपमदघात्स्वागोनुरूपं त्वरा

द्रोही शङ्खधरो नयोत्पथगतश्चे टीप्रपञ्चानुगः॥१७२॥


एवं ये य उपद्रुता रणबहादूरं प्रति द्रोहिण-

स्ते सर्वेऽप्यभवन् द्रुतं ह्यतिथयो वैवस्वतस्यालये।

इत्यं श्रीरणबाहदूरनृपतिः संमर्दयित्वा द्विषो

भीमायादिशति स्म शाश्वतपदं प्रस्थापयन् काशिकान्॥१७३॥


अद्यारभ्य मदंशमर्द्धमपि ते दत्तं मया सत्पदं

मद्धर्मार्द्धतनुर्मदीयचरणध्यानैकतानो यतः।

श्रीगीर्वाणमहीपतेर्मम सुतस्याखण्डराष्ट्रेषु भो

मन्त्रिव्यूहशिरोमणिर्नृपहितस्त्वं भीमसेनः कृती॥१७४॥


(८३)


श्रीगीर्वाणमहीपतीन्द्रतिलकाल्लब्धप्रसादाधिकः

श्रीस्वामी रणबाहदूर रघुपो लङ्कां यथा रक्षसे।

कम्पूनामसैन्यसंहतिमथो संव्यूहयित्वा हठा-

दक्षौहिण्युपमां समर्पयति यत्तद्भीमसेनाय ह॥ १७५॥


मुद्राणां पातनेनाऽसकृदसकृदभूद्धिंगुलानां महर्घ-

स्तत्तल्लेख्यानुकूलाक्षरततिलिखने कागदानां मषीणाम्।

तत्तत्पत्रेषु मार्फत्समभिधलिखने खेदता नास्य जाता

जीयान्मन्त्रीशथापाकुलमणिरनिशं भीमसेनो यशस्वी॥१७६॥


(८४)


न शास्त्रदृष्ट्या विदुषा नृपेण

वोल्लङ्घनीयाः कुलदेशधर्माः।

इत्येव विज्ञापकभीमसेनो

जीयाच्चिरं स्वामिहितो यशस्वी॥१७७॥


पूर्वं श्रीस्वामिना ये विलुठितमहसो लोपितार्चा महेशा

हारीतीशीतलाद्या दिगुतलितुलजाभैरवक्षेत्रपालाः।

ते सर्वे भीमसेनस्य हि सचिवमणेर्युक्तिनीतिप्रयोगात्

स्वां स्वामर्चामवापुर्नृपतिरणबहादूरवाक्याहितार्चाः॥१७८॥


(८५)


ये भूपाः शक्रकल्पाः प्रमथितप्रतिपक्षा महोत्साहभाजो

येषां ज्ञानोत्तमानामपि सचिवकुलं सुप्रतिस्पद्धिजीवम्।

तेप्याज्ञालेख्यभूमिं द्रुहिणनरपतेः श्रीहरिश्चन्द्रराजा

यद्वत्संसक्तकर्मावलिमिह न जहत्यत्र नो चित्रमेतत्॥१७९॥


(८६)


अब्धिनुल्लंधयन्ति प्रतिदिशमनुयान्त्यारुहन्त्यद्रिकूटान्

कान्ताराण्याविशन्ति क्षितितलमनुगच्छन्ति कर्माणि नूनम्।

पातालं चाविशन्त्यूर्मय इव पयसां प्राक्तनानां च येषां

यावद्भुक्तर्न लोकाभ्यनुगमनविधौ मार्गरोद्धा न कश्चित्॥१८०॥


सा दीर्घा कर्मवल्ली सततमभिनवा या पुराणैः फलौघै-

र्व्याप्ता साश्चर्यरूपा सततमनुगता देहिनां निश्चला च।

या चाकृष्टोपविष्टा तदनु विघटितोत्पाटिता मोटिता वा

नैकैः पुण्यैः सुसूक्ष्मं कणश अपि कृता नैव याति क्षयं या॥१८१॥


कान्ते काये यदिन्दुर्वहति च मलिनं दोषविम्बं गरीयः

क्रुराकारो भुजङ्गः किरणसुजटिलं यन्मणिं कृष्णसर्पः।

नानारूपैश्च किर्मीरचरितमनिशं भूभृतां दर्शयन्ती

सेयं चित्रक्रमालीपरिणतिबहुला कर्मनिर्माणरेखा॥ १८२॥


(८७)


चित्रगुप्तविषयीकृतसारो धर्मराज अभितः स्मरराज।

भीमसेनविषयीकृतभारः स्वामिराज अभितोऽपरराज॥१८३॥


त्रिभुवनभुवनोदरेषु भावी फलति हि जन्तुषु कर्मणां विपाकः।

क्व च नृपरणबाहदूरसाहः क्व च सहजाहितसेरबाहदूरः॥१८४॥


स्नायी गाङ्गेषु वार्षु क्षितिपरणबहादुरसाहः सहाङ्गं

श्रीमद्गीर्वाणयुद्धं प्रकृतिषु सरले भीमसेनेऽर्पयित्वा।

द्वन्द्वतीतं प्रपेदे पदममलमलं स्वाश्रयस्योपरिष्टात्

स्वाम्याज्ञां पालयित्वा जयति नृपहितो भीमसेनो यशस्वी॥१८५॥


(८८)


राजा पाल्पीयो विदुर्साहसेर-

बाहादूर्साहोप्यमात्यो नृसिंहः।

दाम्नैकेनानीतवन्तो निषादै-

रुल्लूनास्ते कर्मणे वै नमोऽस्तु॥१८६॥


श्रीस्वामिद्रोहिणो ये धरणिपपरिचर्याप्रतीपाः परोक्षा

उल्लूनास्ते विलुण्ठद्विभवपरिजनाः पुल्कशानीततीर्थाः।

आसुर्दात्यूहदाक्षाय्यवृकभषकगोमायुसंवाहिताङ्गाः

श्र्यब्देऽग्न्यङ्गाष्टरूपे ह्यहह सुकृतिनो येऽवशिष्टाः कृतज्ञाः॥१८७॥


(८९)


राज्ञी श्रीराज्यलक्ष्मीः कटहरविपिनात्प्राक्क्रमित्वैव पूर्वं

दिष्ट्या लामागुरूणां परिचरणवशादक्षमालां जपन्ती।

प्रालेयाद्रेः सुतेवोपरिगगनतलात्प्राक्क्रमित्वा हिरंबु-

स्थानादन्वग्ययौ श्रीपशुप रणबहादूरमासप्तमाहात्॥१८८॥


गुल्मी जन्मस्थलं तत्पतिरपि जनकः क्षात्रधर्मेषु गण्यो

यस्या भर्ता च गोर्षापतिषु परिवृढो मल्लजेतुश्च नप्ता।

नाम्ना श्रीराज्यलक्ष्मीः कटहरविपिनं प्राप्य काशीमगत्वा

अन्वारोहच्चितां श्रीक्षितिपरणबहादूरमासप्तमाहात्॥१८९॥


(९०)


इत्थं श्रीरणबाहदूरचिरितं संक्षिप्य संवर्णितं

ये शृण्वन्त्यवधारयन्ति महसा गोरक्षभूपाद्भुतम्।

तेषां विग्रहप्रत्यवायजनितं लोकेषु संशाम्यते।

श्रीरत्नत्रयसंभवं सुखकरं ज्ञानं धनं जायते॥१९०॥


इति प्रथमं प्रकृतिरत्नम्


श्रीगणेशाय नमः॥


नूवाकोटविहारिणाथ मृगयालुब्धेन तुष्टेन वै

सर्वं भीममयं जगत्कृतवता गीर्वाणयुद्धेन या।

वीराणामपि भीतिदा जनरलेत्याख्या कृत्वा तस्य या

स प्रत्यग्रमजागरीत्क्षितितले प्रत्येकतजःप्रदा॥१९१॥


(९१)


श्रीपृथ्विनारायणसाहदेवनप्त्रात्मजो दाशरथिः स्म येन।

अभूतपूर्वो निरमायि सेतुर्भीमानुमत्याऽर्पितसिंहकेतुः॥१९२॥


यत्सिंहकेतोर्विवृतास्यकूटं विलोक्य पारस्थहनूमतापि।

तृप्त्यै दधिक्षीरघृतेक्षुशाकान्युपाजिहीते क्रयिकच्छलेन॥१९३॥


हनूमतोऽपीप्सितमाकलय्य यूपस्थसिंहः करमुन्नमय्य।

कृतार्थतां वेदयतीव तस्य सिंहो हनूमानपि पान्थमव्यात्॥१९४॥


(९२)


यत्सिंहकेतोर्मुखगोपुराद्वै कपोतपारावतसारिकादीन्।

मेरुः स्वकूटादिव खेचरौधानमूमुचद्भूपनिबद्धयूपः॥१९५॥


गीर्वाणयुद्धाधिपदत्तपूजं श्रीस्वामिगञ्जं रमणीयकुञ्जम्।

तीरप्रतीरे सरितां वरायाः प्रक्षिप्तगुल्मद्रु मभूरिबीजम्॥१९६॥


जनाश्रयैश्चारुतरैः सुरम्यं बालाबलावृद्धजनैकगम्यम्।

विशालवातायनशालहर्म्यं वितर्दिनिर्यूहविसृष्टनीडम्॥१९७॥


कपोतपालीपरिणद्धगोपानसीविचित्रीकृतपुत्तलीकम्।

प्रवासिभिर्लब्धसदावृतीकं स्थेयात्तदाभूमिकमव्यलीकम्॥१९८॥


(९३)


इत्येवमासादयदास भूपो गीर्वाणयुद्धो नृपमण्डलीशः।

स शीतलाचारनिदर्शनेन शुद्धान्तचोरी बिभराम्बभूव॥१९९॥


पतङ्गमुल्लोचयदास भूपो गीर्वाणयुद्धः स च भीमसेनः।

स्वतन्तुना कल्कविलेपितेन पौरं पतङ्गं गगनाद् बबाधे॥२००॥


स भीमसेनेन कृतादरेण पौरं पतङ्गाहृतिलुप्तधैर्यम्।

विनोदयन् दत्तधनः स्वगेहं प्रस्थापयामास नृपः स धन्यः॥२०१॥


श्रीमद्गीर्वाणयुद्धाच्च्युतकरकमलोल्लोचयन् सत्पतङ्गो

विष्णोर्नाभीसरोजोद्भव इव परमेष्ट्यन्तरीक्षे विरेजे।


(९४)


स्थित्वा तुल्जालये श्रीतलिजुसमभिधे भीमसेनेन सार्द्धं

थापारत्नेन तन्तुग्रहणपटुधिया लक्षदृष्ट्या निपीतः॥२०२॥


श्रीमद्गीर्वाणयुद्धाग्रिमनृपतियशःक्षीरधौ कोटनामा

डिण्डीरः प्रादुरासीद्धनुमत अनुभावाद् यथा भीमयत्नात्।

मैनाकः पक्षरक्षापर इव धरणीपालमल्लप्रतीपाद्

ध्वंसीभूतः पुरा श्रीनृपतिरणबहादूरजः स स्म धन्यः॥२०३॥


श्रीगीर्वाणमहीपतिर्जनरलः श्रीभीमसेनश्च तौ

जाग्रत्स्वप्नसुषुप्तिषु प्रतिपदं प्रीतौ जरत्कारुवत्।

श्रीराजेन्द्रमहीपतिं स्वतनुजं विन्यस्य तस्यादरे

शक्रं जेतुमियादभर्त्यभवनं यच्छीतलानोदितः॥ २०४॥


(९५)


श्रीमद्गीर्वाणयुद्धक्षितिपपरिवृढादन्तरा लब्धराज्यः

सम्राडाविर्बभूव क्षितिपतितिलको राजराजेन्द्रसाहः।

शाकेऽग्न्यद्र्यष्टरूपे पशुपतिचरणोद्धू तधूलीवितानै

रल्लैर्मल्लैः प्रतिष्ठीकृतनृपसदने वैजयन्तीं चकार॥२०५॥


कृष्णं यशोदेव ररक्ष येयं राजेन्द्रसाहं क्षितिपालरत्नम्।

सेयं त्रिवर्गप्रकृतिः सुधन्या ललित्-त्रिपुर्-सुन्दरिका स्म रेजे॥२०६॥


धन्या श्रीशुभवर्णपुष्कलतया स्वर्गावतीर्णा शची

देवीव त्रिपुरेश्वरी वसुमती देवी वरीवर्ति सा।


(९६)


सेयं श्रीत्रिपुरेश्वरं रणबहादूरप्रकृत्याऽरभत्

तीर्थे पुण्यतमे सनिष्कुटमहाप्रासादसत्रालयम्॥२०७॥


हाहाहूहुपुरोगमाश्च वसवः काष्ठाधिपाश्चेष्टदा

विश्वेदेवपुरोगमाश्च तुषिता आभास्वराः सानिलाः।

सर्वे दस्रपुरोगमाश्च सह तैः श्रीविश्वकर्माऽचिरा-

च्छ्रीमत्स्वाम्युपवेशनार्थमगमत् प्रासादसंसिद्धये॥२०८॥


एवं श्रीत्रिपुरेश्वरी भगवती निर्मापयित्वादराद्

देवागारमुपस्करेण सहितं घण्टात्रिशूलादिभिः।

तीर्थं कालविमोचनाभिधमधि प्रप्यार्पयच्छूलिने

ख्यातोऽस्तु त्रिपुरेश्वरोऽयमवनौ दुर्भिक्षकष्टादिहा॥२०९॥


(९७)


श्रीदेव्युवाच। पुराणान्तरे

ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं

रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम्।

पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं

विश्वाद्यं विश्वदन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम्॥२१०॥


कीटैर्जुष्टममेध्यभूपरिणतं वस्त्राञ्चलस्पर्शि यत्

पर्युष्टं गणरात्रमागमनिषिद्धं पुष्पमप्यर्पितम्।

नो जाने भवदीयसेवनविधिं प्रामादिकं केवलं

भूयस्त्वेन कृपालुना भगवता क्षन्तव्यमागो मम॥२११॥


यद्दत्तं भक्तिपूर्वं कुसुमफलजलं गन्धवस्त्रोपवीतं

दीपं नैवेद्यमन्नं पुनरपि मधुपर्कं पुनः पाद्यमर्ध्यम्।

मन्त्रेणोनाधिकार्णेन च जपितमहो चेतसा तामसेन

तन्न्यूनाधिक्यदोषं मम हर सकलं तुभ्यमेवार्पयामि॥२१२॥


(९८)


ध्यायन् ध्यायन् धरणिपमहं चेतसा निर्ममेण

पायन् पायन् चरणजसुधां कर्मणा सादरेण।

स्मारन् स्मारन् सुनृतमनसा भूतपं साहदेवं

भूयो भूयो हृदयकमले भावयेऽहं भवन्तम्॥२१३॥


त्वमसि भवपावको मम कलुषदाहकः

प्रमथगणनायको भवजलधितारकः।

दिविषदनुषङ्गकस्त्वमसि हरिसेवक-

स्त्वमसि हरिपालको विहितविधिकौतुकः॥२१४॥


(९९)


अकुलजनिबालको निखिलयुगवार्द्धकः

ससुरनररञ्चको विविधनिधिदर्शकः।

अवतु भवदर्भकं धरणिपतिबालकं

सुचिरतरजीवकं हरतु तदरिष्टकम्॥२१५॥


एतादृङ्मुखवाद्यवादनपरा हृष्टा प्रगल्भा सती

आयुःप्रार्थनया चिराय नृपते राजेन्द्रराजेशितुः।

शिञ्जद्भूषणकङ्कणादिवलयोत्तालावरोधावृता

देवी श्रीललितत्रिपुर्-समभिधा श्रीसुन्दरी राजते॥२१६॥


एवं श्रीत्रिपुरेश्वरं स्मरति यः स्तोष्यत्यनुष्ठीयते

राजामात्यपुरोधसां हिततरः संजायते निश्चितम्।

स्तोतुः श्रोतुरुरीकृतस्य पठतः प्रत्यूहदावानलं

राज्ञोऽग्नेः परिपन्थिनोऽप्यपमृतेश्चोराच्च न स्याद्भयम्॥२१७॥


इति श्रीत्रिरत्नसौन्दर्यभाषायां त्रिपुरेश्वरस्तुतिः।


(१००)


तर्षं विनीया र्थिजनोऽभ्युपात्तसत्रालयो यत्र सुलब्धवृत्तः।

ददौ सदाशीर्वचनं च राज्ञे तत्त्रैपुरं सत्रमियाच्च स्थैर्यम्॥२१८॥


वृद्धास्तपोभिर्वयसा च वृद्धा ज्ञानेन वृद्धा न्यवसंश्च हृष्टाः।

यत्रोपवासव्रतिनश्च धन्यास्तत्त्रैपुरं स्थैर्यमियाच्च सत्रम्॥२१९॥


तिलोत्तमोर्वशी सुकेशिनी च मञ्जुघोषया

घृताचिका च मेनिका सरम्भया सहाप्सराः।

दिवानिशं च गीयते यशस्तदीयमद्भुतं

नटी भटी सुरूपिणी स्वहस्तदत्ततालिका॥२२०॥


(१०१)


रम्मास्तम्भदिधक्षुरग्निरिव यः क्षिप्तः प्रदीपोऽम्भिसि

प्रालेयांशुरिवाभ्रजालपिहितः सूर्यः शुचौ दुर्दिने।

गाङ्गेयस्य शरेण पीडिततनुः सेनेव यौधिष्ठिरी

बुद्धिः सुन्दरनन्दजा क्षतिमगाद् दारिद्र्यतापोल्वणात्॥२२१॥


इति श्रीत्रिरत्नसौन्दर्यगाथाया भाषायां द्वितीयं प्रकृतिरत्नम्।


श्रीगणेशाय नमः।


आपारवारगोत्रापतिषु परिवृढैः श्रीमहाराजराज-

राजेन्द्रेशप्रतापैरुपकलितसमस्तर्द्धिपौरव्रजेषु।

देशेष्वारब्धपुण्योपवनविविधसच्चित्रदेवादिधाम-

स्वास्ते कान्तीपुरीयं सुरपतिनगरीलज्जयैवावतीर्णा॥२२२॥


(१०२)


यस्याश्चित्राणि धामान्यभिजनपठितस्तोत्ररम्याणि हृद्या-

न्यारामाणि प्रफुल्लैर्विटपिभिरभितो वापिकापल्वलैश्च।

गोधामत्स्योद्रकूर्मक्षुभितजलतरङ्गैश्च पद्मोत्पलाढ्यै

रेजे कान्तीपुरीयं किमु सुरनगरी स्वर्धुनी नन्दनं वा॥२२३॥


यस्यां रम्भासदृक्षैः सरसपटुतरै रागिणीनां समक्षै-

र्गीतज्ञानां मृदङ्गध्वनिनिनदसमाहूतदिव्याङ्गनानाम्।

हाहाहूहूसुतालैः सतरलचकितं श्रीयशो गीयमानं

श्रुत्वा द्वाःस्थो हनूमान् नटति विजयते द्वाःस्थितः श्रीहनूमान्॥२२४॥


(१०३)


यत्रास्ते राजराजप्रतिनिधिधनिनां पण्यवीथिभिरारा-

ज्जातस्पर्द्धेव काश्याऽविरलजनसमुत्कीर्णलीलाविशाला।

देव्याः काशीव काल्या विलसति नितरां श्वेतकाल्याः प्रेतोली

ङेताख्या काशिवासिद्ध्विजमिथुनभिषग्भट्टवास्तव्यमिश्राः॥२२५॥


(१०४)


देवी काश्यन्नपूर्णेव विलसति असन्तोलिका याऽलकैव

पौलस्त्यस्यन्नापत्रौषधिविविधरसैश्चोष्यलेह्यैश्च पेयैः।

भक्ष्यैर्भोज्यैश्च। खाद्यैर्विविधरसरसाग्रैर्वणिक्शालिकासु

न्यस्तैस्तारामठाद्यैर्धवलतरगृहैर्गोपुरैः सौधरम्यैः॥२२६॥


(१०५)


श्रीकान्तीनगरी सुदुर्जयपुरी सौभाग्यरत्नाकरी

त्रायस्त्रिंशसदृक्षधन्यनगरी सौजन्यशोभाकरी।

नानादैवतमन्दिरोत्तमवती श्रीबुद्धिसिद्धीश्वरी

नानारत्नसुवर्णकोषनिचयैर्वर्वर्त्ति नैपालिकी॥२२७॥


नित्यं देवसभा तथारिदलने वीरा सुधर्मोपमा

काम्ये कान्यसभा सुशान्तसमये श्रीधर्मराजी सभा।

वीरैः पण्डिततर्कशास्त्रकविभिर्व्यापूरिता सा सभा

श्रीराजेन्द्रमहीपतेर्विजयते श्रीभीमसेनान्विता॥२२८॥


महाचीनसीमस्थिती शान्तिमैत्री-

सुपात्रं जनानन्दकारी गुणज्ञः।

वशीभूतदाक्षिण्य फैरङ्गिनाथः

स जीयाच्चिरं राजराजेन्द्रसाहः॥२२९॥


(१०६)


मानी ज्ञानी धनी यः परपुरहरणे स्कन्दवद्दर्पदर्पः

श्रीमान् रामान् स मान्न्यः स हि महिमहिलश्चण्डकाण्डः पडङ्गः।

जीयात्पायाद्दयावानवनिवरवधूपालने लब्धलक्ष्मा

मूकं लोकं सकम्पं गुणगणगणनापारगो रङ्गरक्तः॥२३०॥


भीतिर्नश्यति राजराजविजिते गीर्वाणभूमौ यथा

मर्त्याः सन्ति निराकुला न जननी ततोऽत्यजत्सत्कृपाम्।


(१०७)


सेवार्थं मुनयोऽपि दूरयमुनातीरात्तपस्योत्सुकाः

नन्दन्ति त्रिपुरेश्वरैर्लसदहो क्षेत्रं सधर्मध्वजि॥२३१॥


यद्गोपुरान्तकगता वनिता बभाषे

संमील्य यूथश अपत्यमुखारविन्दम्।

उन्नाम्य पश्यसि गजोपरि राजराजं

दारिद्र्यतापशभने जलदायमानम्॥२३२॥


प्रासादमन्दिरजनाश्रयछौ-उनादि

यद्यत्सुधाधवलितं रचितं सचित्रम्।

राजेन्द्रसाहनृपतेः स्थिरतामियात्तन्-

मल्लप्रतापनृपतेर्लिखिता शिलेव॥२३३॥


(१०८)


राजाऽयं जनतासु मेघसदृशो वक्तुं न शक्यो मया

मेघो वर्षति चातकस्य समयेऽसौ सर्वदा वर्षति।

मेघो वर्षति चाम्भ एव विपुलं यो हेमरत्नाम्बरं

मेघः स्याममुखः प्रदानसमये यो हेमगौराननः॥२३४॥


(१०९)


राजा धोजा बजार्-या सहज हरिहरं देवतावर्गवर्लाक्

मानी ज्ञानी धनी हाय् परपुरहरणे छाकगू कण्टकं खः।

श्रीराजा राजराजेन्द्र जुजु जुग जुगं आयु लायु थ्व युक्ती

काजी साजी सजीला मदु मदु मदु एक् हे धनी धन्य धन्ये॥२३५॥


दिष्ट्याऽभिवर्द्धतुशतं शरदो नृपेन्द्रो

यद्वच्च सुन्दरप्रसाद इभेन्द्ररत्नम्।

पृथ्वीनरायणमहीपविनोदशाली

गीर्वाणयुद्धपरिधीकृतजीवरत्नम्॥२३६॥


(११०)


ज्योतिर्विदां निगमकल्पित एष पन्थाः

षष्टिर्द्विनिध्नशरदायुरिभस्य नुश्च।

आयुस्तदस्य नृपतेरपि राजराजे-

न्द्रस्यास्तु भो मिथ अभाषत दृष्टभूपः॥२३७॥


निर्वर्त्योद्वाहयात्रामथ सदृशकुलज्योत्स्निके श्रीमहिष्यौ

गुर्वादित्यादिषूच्चस्थितशुभदिवसे लग्नयद्वन्मुहूर्ते।

श्रीमान् राजेन्द्रसाहो नृपकुलतिकलोऽशीतिवस्विन्दुतुल्ये

श्रीपञ्चम्यां च जीवे निगमनिगदितैरुद्ववाहे विधानैः॥२३८॥


(१११)


ढक्काद्याणकवाद्यवादनपरास्तौर्यत्रिका गायका

वेणुध्माः करतालिकाः सुवचसो गान्धर्विका नाटकाः।

ताटङ्कांगदहारकङ्कणलसच्चीनांशुकोत्तंसकै-

र्लब्धैर्दिक्षु वितेनिरे नृपपतेर्मूर्त्तं यशस्तत्क्षणे॥२३९॥


दिष्ट्या त्वया स भगवान् नृपतिर्मयापि

दृष्टः पुरेव नृपपृथ्विनरायणोऽयम्।

इत्थं मिथः प्रभणितं मुदितैरशीति-

वर्षोत्तरैः सपलितैः स्खलदक्षरौघैः॥२४०॥


सिंहप्रतापनृपतिर्भगवान् मयापि

दृष्टोऽवलम्बितकराङ्गुलिना जनेतुः।


(११२)


वर्णेन पुष्करतया वपुषा च तुल्यो

दिष्ट्याद्य तत्सुतसुतात्मज एष राजा॥२४१॥


नैवाऽपश्यं हि गीर्वाणयुधनृपमहं शीतलायाः प्रतीपा-

दाबालं ताम्रकोशीगहनमुपगतो भ्रातृवर्गेण साकम्।

श्रुत्वा यत्कीर्तिमारादहह धृतिहरो निन्दमानोऽस्मि भाग्यं

दिष्ट्या पश्यामि तत्सूनुममुमवनिपं राजराजेन्द्रसाहम्॥२४२॥


धन्याऽरण्यान्यगम्या ठिगणसमभिधा वेक्रवल्लीविताना

यत्रासन् शीतलातीः शतश अतितरां शीतलाल्हादितायाम्।

प्रत्यावृत्याहमस्याः स च स च ससखः स्वस्ति गीर्वाणयुद्धं

दिष्ट्या पश्यामि दीनाननु जनितकृपं द्रव्यवृष्ट्यारमन्तम्॥२४३॥


(११३)


स्वस्तिश्रीमणिचूडपर्वतगुहामाश्रित्य कृच्छ्रादहं

जीवन् भग्नजनितृमातृसहजैरुन्मुक्तजीवातुकः।

योगिन्या अनिशं च सेवनवशात् तत्पूजकेनैव य-

न्नैवेद्यं मम दीयते प्रतिदिनं तेनैव जीवाम्यहम्॥२४४॥


श्रीसंवद्युगहस्तिहस्तिविधुगे आषाढशुक्ले बुधे

श्रीगौरीसुतिथौ नृपः पशुपतेः सन्दर्शनाथं गतः।

दृष्टो मे वसुवृष्टिभिर्बुधजनैः प्रस्तूयमानः शनै-

र्नागं हाटकसंभवं मणिगणैश्चित्रं शिवायार्पयत्॥२४५॥


(११४)


साक्षान्नारायणांशः पशुपतिचरणोद्धूतधूलीवितानः

श्रीमान् राजेन्द्रसाहः सपदि विरुरुचे लब्धभर्गैक्यभावः।

नास्ते नारायणच्च परम अतित.. प्रीतिपात्रं पशूनां

पत्युः संभूय तौ द्वौ पशुपतिनृपती रक्षतो भूर्भुवःस्वः॥२४६॥


ज्येष्ठे मास्यसिते दले हरितिथौ संवत् षडष्टाष्टभू-

याते काव्यदिने मुदा विजयते भक्ताभिधं पत्तनम्।

श्रीराजेन्द्रमहीपतिः पुरभवैः स्वस्त्याशिषा नन्दितः

सौभिक्षं जनता जगाद नृपतेः प्रोद्यत्प्रतापार्चिषा॥२४७॥


(११५)


स्थानाद्गणेशितुरुपाक्रमतो नृपस्या-

षाढे कुहूयुजि कुजेऽन्हि बभूव शोभा।

नो वृष्टमातपितमिद्रदिवाकराभ्यां

प्रत्यग्रमर्द्धशशिशेखरलोकदृष्ट्या॥२४८॥


लोकैरितस्तत इति द्रवितं नु पन्थाः

को वा भविष्यति महीपसमागमाय।

निर्गच्छते पुनरमात्यवरेण साक-

मुत्कण्ठयेति प्रतिगोपुरमीक्षते स्म॥२४९॥


प्राच्यामैरावताख्यं दिशि विदिशि बबन्धुर्दिगीशाः करीन्द्रा-

नाग्नेय्यां पुण्डरीकं क्रमश इति गजं वामनं कौमुदं च।

स्वस्तिश्रीराजराजेन्द्रधरणिपतिभि स्वस्त्यमर्सिहथापा-

पत्यश्रिभीमदिक्पैःसहयतमतयो(?)ह्येकतो योगपद्यात्॥२५०॥


(११६)


दुःशालां हस्तिशालां शिथिलगजघटां जीर्यमाणां विदित्वा

नूत्नां प्राच्यामवाच्यामथ विदिशि मनोहारिणीं स्तम्भनद्धाम्।

कृत्वा लक्ष्मीप्रसादं गजहवडप्रसादं च देवीप्रसादं

क्रुध्यन्मोतिप्रसादं तदुपरि च जहर्वेषसज्ञं बबन्ध॥२५१॥


(११७)


नागाऽसावमरप्रसाद इति यः सौन्दर्यवीर्योदयै-

र्देवेन्द्रेभसमः सुशिक्षितगुणः सौभाग्यरत्नाकरः।

यद्दन्तोपरि विष्टरासनवरे स्थित्वा जपादिक्रिया-

कर्तुः सत्पुरुषार्थदो विजयते भूपालचूडामणेः॥२५२॥


मत्तेभेन्द्रैकदन्तः स जयति नृपतेर्वीरलक्ष्मीप्रसादो

हृष्टाङ्गो लक्षणौधैर्निगमनिगदितैर्हस्तिरत्नं गरीयान्।

दानाध्यक्षस्तिरश्चां स्वकरविगलितैः स्वान्नपिण्डेक्षदण्डैः

पोष्टा क्रेङ्कारवक्ता सुरणितनिगडो वर्ष्मणा विन्ध्यशैलः॥२५३॥


(११८)


मर्त्यानां दुर्ग्रहेभ्यो वितरति हि विमुक्तिं हठाद्वक्रतुण्डो

यद्भक्त्या सिद्धिमापुस्त्रिदशमुनिवरा वामदेवादयश्च।

पार्वत्या गङ्गया वा गणयत अनिशं षड्गुणं चाग्र्यगण्यं

तं वन्दे चैकदन्तं गणपतिमभयं कार्यसिद्धेर्निदानम्॥२५४॥


वीरो लक्ष्मीप्रसादो मदयति च मुहुः स्तम्भमालम्बतेऽहो

वक्ति क्रें क्रें किमाराज्जनरलसचिवं वीक्ष्य राजेन्द्रराजम्।

स्तम्भं प्रक्रम्य शब्दायितनिजनिगडः कर्णतालं ददानो

राजन्मां जेतुमायात्विति गगनतलादभ्रहस्तीति बुद्ध्या॥२५५॥


(११९)


भूयो भूयश्च सस्नौ घटगलितजले शीकरं गण्डुषोत्थं

प्रोज्झन् प्रान्तेषु भुक्तं धरणिपतिकरात् कत्तृणं कुञ्चराशम्।

भुङ्क्ते चायाचितान्नं त्र्युषणमधुघृतं शालिनीवारशष्पं

राजेन्द्रं वाहयानो हतिमिव मुनिराड् वीरलक्ष्मीप्रसादः॥२५६॥


मल्लेन्द्रो यो दुर्घटानां करीणां स्वस्ति श्रीमान् मङ्कुणः श्रीप्रसादः।

राहुर्यद्वन्निग्रहे.. चन्द्रसूर्यौ तद्वद्धस्तीन् दुर्विनीतान् पिनष्टि॥२५७॥


(१२०)


स्वस्तिश्रीमद्राजराजेन्द्रराज्ञो हस्ती जीयान्मङ्कुणः श्रीप्रसादः।

येनैकेनाऽनेकशो वन्यनागाः साहाय्येनानीयते राजवेश्म॥२५८॥


श्रीराजेन्द्रमहीपतिर्विजयते श्रीमङ्कुणाङ्गस्थितः

साक्षात् पृथ्विनरायणः प्रथमतः श्रीसुन्दरेभस्थितः।

थापा अम्बरसिंहसूनुमणिना श्रीभीमसेनेन य-

श्छत्रग्राहिसुखेन कान्तिनगरे दिनानुकम्पो विभुः॥२५९॥


------------------------------------------------------------------------------

निरङ्कुशविसर्पिणा परमहंसवच्छ्यामल-

गजेन परिशिक्षितशमदमनिधिध्यासनं।

समीरणनिरोधनं नरेपतीन्द्रसेवा कृता

मृदाहरणशीलितः परमहंसनागोऽत्यगात्॥


(१२१)


पृथ्वीनारायणेन प्रथममतिरुषा प्रोषिता कीर्तिनारी

सापत्न्यात्सातिरुष्टाऽधिदिशमनुगता पांशुलेवोत्पथस्था।

सारण्यानीं प्रविष्टा दवदहनमधावच्छुचा सा च वातै-

र्नीता धूमैर्द्विपानां कुलमभवदरण्यानिजं धूम्रवर्णम्॥


अद्यैतद्धस्तिवृन्दे धवलिमगजराडेक उच्चैर्वपुष्मान्

श्रीमद्राजेन्द्रराजं सचिवकुलमणिं भीमसेनं निषेव्य।

वर्णं स्वं धूमलिप्तं क्षपयितुमिव स त्र्यूषणाजातिकोषा-

ज्याजाजीभृष्टमत्तुं शरणदमगमन्माथरव्-सिंहसार्थः॥


(१२२)


नो मन्ये दृढबन्धनक्षतमिदं नैवाङ्कुशोद्घाटनं

स्कन्धारोहणताडनात्परिभवं नैवान्यदेशागमम्।

चिन्ता मे जनयन्ति चेतसि यथा स्मृत्वा स्वयूथं वने

सिंहत्रासितभीरुभीरुकरभा यास्यन्ति कस्याश्रयम्॥


यदेतदतिविस्तृतं भवतु राजराजेन्द्र भो

जलस्थलवनान्तरे विहरतः सभीमस्य ते।

विनैव करणं करेणुरिह रूपमासाध्यते

मनीषिगणसम्मतं वरदराजसूत्रे हितम्॥


कर्णौ नैष दधाति नैष विषयो वाहस्य दोहस्य वा

तृप्तिर्नास्य महोदरस्य बहुभिर्वशैः पलालैरपि।


(१२३)


अतः परमश्वरत्नं लिख्यते।


सौवश्वे धरणीपतौ किमु शचीभर्ता स्पृहां नाचरे-

दाजानेयशताकुले पवनवेगोच्चैःश्रवाः केवलः।

वानायूद्भवपारसीकजहयैः काम्बोजिभिर्वाह्लिकै-

ह्रेषास्कन्दितवल्गितैरनुदिनं मेरुर्बनीभ्रम्यते॥२६०॥


उत्प्लुत्योत्प्लुत्य वेगाद् धरणिपतिप्रतापानलज्वालयेव

प्लुष्टां नेपालधात्रीमिति मनसि भवद्वाहना मन्यमानाः।

स्मृत्वा क्षीराब्धिशैन्यं त्रिपुरशिवमहास्नानतोयौघमिश्रं

वाग्मत्यम्भः पवित्रं प्लवितुमिव हठात्तुण्डिखेलाद् द्रवन्ति॥२६१॥


हा कष्टं कथमस्य पृष्ठशिखरे गोली समारोप्यते

को गृह्णाति कपर्द्दकैरलमिति ग्राम्यैर्गजो हास्यते॥


(१२४)


ऊर्द्ध्वं चाधश्च नीतं तुरगपरिवृढेनाऽमुना वक्त्रविम्बं

किंस्विज्जेतुं मघोनोऽश्वमिव गगनगं तर्कितं विम्बदृष्ट्या।

प्रोथं विस्फार्य चोच्चैः सुतरलचकितं ह्रेषितं ह्रासबुद्ध्या

राजन्नोड्डीय यात्येष ह ह यदि नियन्ता सुधीर्भीमसेनः॥२६२॥


रल्लैर्मल्लनृपैः पुरैकसमये गन्धर्वयात्रा कृता

सैवाद्य प्रतिवासरं च लुमुडीश्रीभद्रकालीमुदे।

तत्तन्मल्लनृपश्रियां हि शतशो द्राग् जित्वरैर्भूष्णुभिः

श्रीराजेन्द्रधराधिपैर्जनरलश्रीभीमसेनाञ्चितैः॥२६३॥


मञ्जूषायां प्रसूतिद्वयमथ सुषुवेऽरण्यवद्व्याघ्रपत्नी

पुंसः पत्नीव हृष्यत्परिजननिचिता रुद्धवातायना च।

मांसैर्भक्ष्यैश्च पेयैर्बलवदपघना सन्तती रक्ष्यमाणा

धन्या सा काष्ठमण्डे विपणिपरिणता भूमिपप्रीतिपात्रम्॥२६४॥


(१२५)


धन्यो राजेन्द्रसाहो यदतुलमहसः सात्त्विकाद् वैरभावं

मुक्त्वान्योन्यं तिरश्चो हयकपिकरिणो गण्डकाः सैरिभाश्च।

सार्द्धं व्याघ्रेण युद्धाय हह विसृजता साम्यतामेव जग्मुः

सांमुख्यीभूय भीमे स्थितवति जनता वैरभावं क्व कुर्यात्॥२६५॥


श्रावण्यां पूर्णिमायां श्रवणभृगुदिने सिंहगे सप्तसप्तौ

श्रीमत्कुम्भेशतीर्थे ललितपुरि महाराजराजेन्द्रसाहः।

सस्नौ दारिंद्र्यतापाय स रणकुशलो द्रव्यवर्षेण हर्षा-

दाशीर्भिर्नन्द्यमानो मुदितपुरजनैर्दीर्घकालं स जीयात्॥२६६॥


(१२६)


श्रावण्यां हस्तषष्ठ्यां सितदलगबुधे षड्गजाष्टादशाब्दे

स्नाति श्रीमत्यगाधे मणिसरसि समं मातृभी राजराजः।

राजर्द्ध्या पूजितोऽस्मिन् वितरति मणिलिङ्गेश्वरस्तत्सदृक्षा-

पत्यद्धिराजराजाय नृपपरिबृढाय क्षरद्वीचिहस्तैः॥२६७॥


प्रतापाधिक्येनोदधिशमनमाशङ्क्य वसति-

स्थलाकाङ्क्षी राजेन्द्रनृपमविशत् पीतवसनः।

रमा कोषं वाणीममृतमहिराजोऽसिमनलः

प्रतापं वाहत्वं तुरगपतिरिन्दुस्तु मुकुटम्॥२६८॥


राजेन्द्रस्य सुरेन्द्रविक्रमसुजन्माहः सुलग्नं यदा

संवत् षड्वसुहस्तिभूमिरभवद्दुर्गोत्सवी सप्तमी।

दारिद्र्यार्णवशोषकं त्रिजगतां श्रीपृथ्विनारायणः

साङ्गैः षड्भिरिवान्वयैरवततारास्मिन् महीमण्डले॥२६९॥


(१२७)


यद्वत्तत्समये सुशालियवगोधूमादिसस्यर्द्धयः

कंगूमाषसतीनसर्षपतिलेक्षूणां महासम्पदः।

मेघाः कालसुवर्षिणश्च तरवो गुच्छैः प्रसूनैः फलै-

राढ्या भूरिरसप्रदाश्च पशवः सन्त्यत्र जन्मोत्सवे॥२७०॥


गोभूहाटकरत्नधातुरजतं भूयोऽपि भूयोऽन्वभू-

च्छ्रीमत्सिंहप्रतापसाहनृपतौ भूमण्डलं शासति।

कार्पासैर्बहुलीभवज्जगदिदं मर्यादया मोदते

तद्वच्छ्रीयुवराजजन्मसुदिनं सर्वर्द्धिभव्यार्थदम्॥२७१॥


यदा छौनी वृत्ता कृतरुचिरचित्रा हरिहरै-

र्निवास्तव्या भव्या प्रकृतिपरिसेव्या च विबुधैः।

हयानां ह्रेषाभिर्विजितघननिर्ह्रादपटुभि-

स्तदा कैलाशाद्रेः परिभवति तेजांसि महसा॥२७२॥


(१२८)


धनाधीशो यक्षापतिरपि च राजेन्द्रनृपते-

र्विदित्वा सद्भावं मुमुच इति मानं स्वमहसाम्।

जितः कैलासो मे धवललयनैरर्द्धशशिभिः

सखा मे चैत्राद्यं वनमुपवनैश्चालकपुरी॥२७३॥


(१२९)


पुमर्थैः प्रख्यातैश्चतुरुपनतैः श्रीरणबहा-

दुरः स्माभूद् गोर्षापतिषु परिपूर्णः क्षितिपतिः।

तदन्यूनांशेन त्रिजगति स गीर्वाणनृपति-

स्तदृद्ध्या पूर्णश्रीरिह जगति राजेन्द्रनृपतिः॥२७४॥


(१३०)


सत्त्वर्द्ध्या भ्राजमानो जयति नरपतिः श्रीमहाराजराजे-

न्द्रोऽयं संपाल्यमानो ललितत्रिपुरसुन्दर्यधिष्ठातृलक्ष्म्या।

थापाहीरेण भीमेन स जठरकुलेनातिगोपायिंतोऽसौ

दिष्ट्या जीव्यान्नरेन्द्रः शतमिह शरदां श्रीसुरेन्द्रेण साकम्॥२७५॥


आपारावारगोत्रापतिषु परिवृढश्रीमहाराजसाह-

पृथ्वीनारायणानां जितसकलजगन्मल्लभूमीपतीनाम्।

नप्तारः पञ्चमास्तेप्यविरतमवनीपालनायासखेद-

द्वन्द्वैर्निर्मुक्तचिताः समसुखनिचिताः श्रीसमृद्धा जयन्तु॥२७६॥


सौन्दर्ये मदनः प्रसन्नवदनो नीत्या प्रजारञ्जनः

शत्रूणां शमनः खलौधदमनो गीर्वाणहृन्नन्दनः।

श्रीडिल्लीश्वरवीरसेनकलनो दारिद्र्यविध्वंसनो

थापाभीमबहादुरार्पितधनः श्रीराजराजार्जुनः॥२७७॥


(१३१)


प्रतापजितभास्करो वदनचन्द्रशोभाकरो

महीपतिगुणाकरः स्वजनसङ्घदत्तादरः।

कविव्यसनताहर कृतसपत्नचित्तज्वरः

अहो रणबहादुरक्षितिपतीन्द्रनप्तेश्वरः॥२७८॥


पञ्चानां जगतीभृतां पुरुषरत्नानां समुच्चारणा-

ज्जिज्ञासा बहुशोऽन्वकारि जिनजेनार्येषु भूभृत्सु या।

तद्दारिद्र्यमहार्णवप्रतरणे नौकेव मे जायतां

स्वस्तिश्रीयुवराडयं हि शतवर्षायुर्वरीवर्तताम्॥२७९॥


(१३२)

थापावंशालिरत्नावलिषु सुरुचिरं हीरकं भीमसेनं

यं च ज्योत्स्नोत्तमाङ्गं त्रिभुवनविपणौ सार्थवाहैरनर्ध्यं।

उद्दामस्थानवामक्रमविषममिलत्कूटमानैरभेद्यं

पुण्यश्लोकावतारं जनरलसचिवं पान्तु मत्स्येन्द्रकेशाः॥


(१३३)


कदाचन पुरापि नो कृतयुगादिजाद् भूपतेः

स्वकीयपथमुत्सृजन्नटति यात्रयाऽन्यत्र यः।

प्रचण्डशिवभैरवः शिखरिसंज्ञपूरक्षकः

स कान्तिपुरमभ्ययाज्जनसहस्रविस्मापकः॥२८०॥


(१३४)


यथागतमजीगमद्धनुमदाद्यकं द्वारकं

स तत्र प्रतिहारकैः सपदि काञ्चु कीयादिभिः।

धरापतिवचोमृतैः कृतविचित्रपूजाविधि-

र्नभस्यसितधर्मराट्-तिथिशनौ जनैर्वाहितः॥२८१॥


द्वितीययुवराजकं प्रतिलभस्व राजन्निति

प्रचण्डशिवभैरवो निववृते खगेन्द्रो यथा।

सराककुजपौषमास्यदितिमे च शुद्धक्षणे

द्वितीययुवराजको ह्यवततार सल्लक्षणः॥२८२॥


स्वामिश्रीरणबाहदूरवचसा राज्याङ्गधूर्धारणाद्

गीर्वाणाग्रिमयुद्धविक्रमविभोर्लब्धप्रसादोदयः।

यत्रास्ते दिशि राजराजसचिवः श्रीभीमसेनाभिधो

राजन्वत्याभिधाऽभवद्दिगधुना बोंकोटशैलस्थली॥२८३॥


शिवा रुतममूमुचंस्त्रिषु पुरेषु शृङ्गाटके

प्रदीप्तदिशि संमुखाः सुकरुणायमाना निशि।

वसन्तसितपञ्चमीबुधदिने त्वहिर्बुध्नभे

त्रिधाष्टविधुजेऽब्दकेऽनिशमरिष्टसंसूचकम्॥२८४॥


(१३५)


मृषौघमिह नालिखं ह्यननुभूतपूर्वं तथा

भविष्यमपि यत्कलौ विविधप्रत्यवायश्रुतेः।

तदेव हि कुलं कुलं नृपतिपृथ्विनारायण-

क्षमाजलनिधौ प्लुतं शुचि सदाऽतलस्पर्शि यत्॥२८५॥


तपोवनमवीविशद् रणवहादुरस्वामिना-

मपुत्ररचितावृषी त्रिभवदुःखसंहारिणी।

मघौ श्रवणमेऽसितेऽन्तकतिथौ विधोर्वासरे

ललित्-त्रिपुरसुन्दरी वसुवसुद्विपैकेऽब्दके॥२८६॥


इति श्रीत्रिरत्नसौन्दर्यगाथायां प्रकृतिरत्नं समाप्तम्।


(१३६)


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project