Digital Sanskrit Buddhist Canon

शब्दभेदप्रकाशः

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Bibek Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

अथ शब्दभेदप्रकाशः 

प्रबोधमाधातुमशाब्दिकानां कृपामुपेत्यापि सतां कवीनाम्। 

कृतो मया रूपमवाप्य शब्दभेदप्रकाशोऽखिलवाक्पयोधेः।। १।। 

प्रायो भवेद्यः प्रचुरः प्रयोगः प्रामाणिकोदाहरणप्रतीतः। 

रूपादिभेदेषु विलक्षणेषु विचक्षणो निश्चिनुयात्तमेव।। २।। 

क्वचिन्मात्राकृतो भेदः क्वचिद्वर्णकृतोऽत्र च। 

क्वचिदर्थान्तरोल्लेखाच्छब्दानां रूदितः क्वचित्।। ३।। 

जागति यस्यैष मनः सरोजे स एव शब्दार्थविवर्तनेशः। 

निजप्रयोगापितकामचारः परप्रयोगप्रसरार्गलश्च।। ४।। 

विद्यादगारमागारमपगामापगामपि। 

अरातिमारातिमथो अम आमश्च कीर्तितः।। ५।। 


भवेदमर्ष आमर्षोप्यञ्कुरोऽङ्कूर एव च। 

अन्तरिक्षमन्तरीक्षमगस्त्योऽगस्तिरित्यपि। 

अटरूप आटरूषोऽवश्योऽवश्याय इत्यपि।। ६।। 


प्रतिश्यायः प्रतिश्यावो भालूको भल्लुकोऽपि च। 

जम्बूकं जम्बूकं प्राहुः शम्बूकमपि शम्बुकम्।। ७।। 


जतुका स्याज्जतूकापि मसुरः स्यान्मसूरवत्। 

वास्तुकं चापि वास्तूकं देवकी दैवकीति च।। ८।। 


ज्योतिषं ज्यौतिषं चापि ष्ठेवनं ष्ठीवनं यथा। 

सुत्रामापि च सूत्रामा हनूमान् हनुमानपि।। ९।। 


उषणं स्यादूषणं च भवेदुषरमूषरम्। 

हारीतो हारितोऽपि स्यान्मुनिपक्षिविशेषयोः।। १०।। 


तुवरस्तूवरे च स्यात्कुवरः कूवरेऽपि च। 

उत्तमेऽनुत्तमं च स्यादाहतं स्यादनाहतम्।। ११।। 


उदारे चानुदारः स्यादुदग्रेऽप्यनुदग्रवत्। 

बन्धूरं बन्धुरं च स्यादूरीकृतमुरीकृतम्।। १२।। 


वाल्हीकं वाल्हिकं चापि गाण्डीवो गाण्डिवोऽपि च। 

उषाप्यूषा ननन्दा च ननान्दा च प्रकीर्तिता।। १३।। 


ह्रीवेरे हिरिवेरं च चिकूरे चिकुरोऽपि च। 

चण्डालोऽपि च चण्डालो वदन्योऽपि वदान्यवत्।। १४।। 


हालाहलं हालहलं वदन्त्यपि हलाहलम्। 

डाहालं च डहालं च डाहलं च प्रचक्षते।। १५।। 


कोङ्काणः कोङ्कणश्चापि श्यामाकः श्यामकोऽपि च। 

सहाचरः सहचरः स्फ़टिकं स्फ़ाटिकं तथा।। १६।। 


गन्धर्बोऽपि च गान्धर्बश्चमरं चामरेऽपि च। 

चोरश्चौरश्चटुश्चाटुश्चेलं चैलं चमुश्चमूः।। १७।। 


चञ्चुश्चञ्चूस्तलस्तालः श्यामलः शामलोऽपि च। 

महिलायां महेलाद्यं विदग्धे च्छेकिलोऽपि च।। १८।। 


गुग्गुलौ गुग्गुलोऽपि स्याद्धिङ्गुलौ चापि हिङ्गुलम्। 

मन्दिरे मन्दिराऽपि स्याद्वीर्ये वीर्याऽपि कथ्यते।। १९।। 


धन्याकमपि धान्याकं युतकं यौतकं यथा ।

कवाटं च कपाटं च कविलं कपिलं मतम्।। २०॥


करवालः  करपालो वनीयकवनीपकौ। 

पारावतः पारपतो जवा स्याज्जपया सह।। २१।। 


जटायुषा जटायुं च विद्यादायुं तथाऽऽयुषा। 

सायं सायो भवेत्कोषः कोशः षण्दश्च शण्दवत्।। २२।। 


तविशं तविषं चापि मुसलो मुशलोऽपि च। 

वेशो वेषश्च कथितः स्याद्धुसोऽपि बुषोऽपि च।। २३।। 


स्यात्तनुस्तनुषा सार्द्ध धनुना च धनुर्विदुः। 

शूकरः सूकरोऽपि स्याच्छृगालश्च सृगालवत्।। २४।। 


सूरः स्शूरश्च तरणौ कलसः कलशोऽपि च। 

सुनासीरः शुनाशीरो नारायणनरायणौ।। २५।। 


जाम्बवान् जाम्बवोऽपि स्याल्लक्ष्मणो लक्षणोऽपि च। 

संस्तरः स्रस्तरोऽपि स्याच्चरित्रं चरितं तथा।। २६।। 


पारतं पारदं वास्रो वासरः कृमिवत्क्रिमिः। 

तृफ़ला त्रिफ़ला चापि तृणता त्रिणताऽपि च।। २७।। 


भवेदृष्टिस्तथा रिष्टिः प्रियालः स्यात्पियालवत्। 

कणाटीनः कलाटीनो वातिको वातिगोऽपि च।। २८।। 


मिहिरो महिरोऽपि स्यान्मुकुरो मकुरोऽपि च। 

मुकुलं मकुलं चापि मुकुटं मकुटं विदुः।। २९।। 


मुकुतिं मकुतिं चापि चलुकं चुलुकं यथा। 

करञ्जः करजोऽपि स्यात्परेतः प्रेतवन्मतः।। ३०।। 


किर्मिरोऽपि च किर्मोरो हयनं हायनं समम्। 

शौटीर्यमपि शौटीरं ज्यैष्ठे ज्येष्ठोऽपि दृश्यते।। ३१।। 


शुष्केऽपि वानं वातं च उदके स्याद्दकं मतम्। 

कुष्ठभेदे शतरूषी शतारूश्च निगद्यते।। ३२।। 


द्रेष्कद्रेक्वाणदृक्वाणा भवन्त्यपि दृकाणवत्। 

पत्रङ्गमपि पत्राङ्गे कुद्दालं च कुदालवत्।। ३३।। 


मारिषं मारूषं शाके प्लीहरोगे प्लिहाऽपि च। 

फ़ेली फ़ेलिस्तथोच्छिष्टे काकिण्यां काकिनीति च।। ३४।। 


सौदामनी च सौदाम्नी सौदामिन्यपि चेष्यते। 

जरठे जठरोऽपि स्यान्निमेषो निमिषोऽपि च।। ३५।। 


बुको बकश्च कुसुमे मदनो मवनो द्रुमे। 

आरग्वधारगवधौ खुरकक्षुरकावपि।। ३६।। 


वृष्णिः पृश्निश्च सरयुः सरयूश्च निगद्यते। 

नीलङ्गुरपि नीलाङ्गुरीश्वरी चेश्वराऽपि च।। ३७।। 


तापिञ्छमपि तापिच्छं त्रिपुषं त्रपुषं तथा। 

डिण्डीरोऽपि च हिण्डीरः परशुः पर्शुना सह।। ३८।। 


बालिका बालुका चापि दोर्दोषाऽपि भुजा भुजः। 

बाहुर्बाहा त्विषिस्त्विट् च सन्ध्या स्यात्सन्धिवत्पुनः।। ३९।। 


भगिनीमपि भग्नीं च ज़्हिल्लरीं ज़्हल्लरीं विदुः। 

रेतं च रेतसा सार्द्धमेधमाहुस्तथैधसा।। ४०।। 


संवननं संवदनं तरूणी तलुनीति च। 

प्रमदावनं प्रमदवनं च परिकीर्तितम्।। ४१।। 


खरूली स्यात्तु खुरली वज्रं वज्राशनिस्तथा। 

शिलमुञ्छं शिलोञ्छं च भवेदुञ्छशिलं तथा।। ४२।। 


धरित्री धारयित्री च महिषी माहिषीति च। 

वासुदेवोऽपि वासुः स्याद्वामदेवोऽपि वामवत्।। ४३।। 


आशीराश्यहिदंष्ट्रायां लक्ष्मीर्लक्षी हरिस्त्रियाम्। 

रूवको रूवकः प्रोक्तावुरूवूकोऽपि तादृशे।। ४४।। 


कुमुदं च कुमुच्चापि योषिता योषिदित्यपि। 

शरद्भवेच्छरदया प्रावृट् प्रावृषया सह।। ४५।। 


नभं तु नभसा सार्द्ध तपं तु तपसा सह। 

सहं च सहसा सार्द्ध महं च महसा द्युतौ।। ४६।। 


तमेन च तमः प्रोक्तं रजेनाऽपि रजः समस्। 

शाब्दिकैस्तु जलोकाभिः कथिताश्च जलौकसः।। ४७।। 


दिवं प्रोक्तं दिवा तुल्यं पर्षत्परिषदा सह। 

वर्षाः स्युर्वरिषाभिश्च हर्षोऽपि हरिषेण च।। ४८।।


सर्षपः सरिषपश्च कर्षः स्यात्करिषेण च। 

मार्षो मारिष इत्युक्तः स्पर्शोऽपि स्परिशो यथा।। ४९।। 


एवमन्येऽपि वार्हादावूष्मवर्णाः प्रयोगतः। 

मूर्ध्निरेफ़ा विकल्पन्ते छन्दोभङ्गभयादिना।। ५०।। 


दक्षिणस्यामपाच्येव प्रायं त्वनशने विदुः।

छन्दावभिप्रायवशौ कलज्ञः स्यात्कलाविदि।। ५१।। 


समूहार्थस्य जातस्य चवर्गादित्वमीरितम्। 

अन्तस्थीययकारत्वं यवसस्य तु कथ्यते।। ५२।। 


तन्तुवायस्य वायेऽपि तन्त्रादित्वं च दृश्यते। 

तुर्यस्वरादिरीर्बारूः कर्कट्यां कथ्यते बुधैः।। ५३।। 


ह्रस्वादिरर्तिः पीडायां धनुष्कोटयामपीष्यते। 

एतौ मध्यतवर्गीयौ वैदूर्यमणिशद्बलौ।। ५४।। 


तवर्गमध्यो रात्रौ च जम्बाले च निषद्वरः। 

चुल्ल्यामुत्पूर्वकं ध्मानं धानं हानं च कथ्यते।। ५५।। 


तालव्यमध्यो विशद ऊर्द्धशब्दो वकारवान्। 

यवानी स्याद्वमध्यैव श्रावणो मासि मध्यवः।। ५६।। 


शफ़े खुरः कवर्गीयः क्षकारश्च क्षुरप्रके। 

नापितस्योपकरणे कषसंयोग इष्यते।। ५७।। 


अव्ययानव्ययं दोषाशब्दं रात्रौ प्रचक्षते। 

कन्याकुब्जं कान्यकुब्जं कोषलोत्तरकोशला।। ५८।। 


वाराणसीत्यपि प्रोक्ता तथा वाणारसीति च। 

तामलिप्ता दामलिप्ता तङ्कोऽथातङ्क इत्यपि।। ५९।। 


नन्दी नन्दिश्च पत्री च पत्रिः स्याद्वस्नसा स्नसा। 

यमलं यामलं द्वन्द्वे समौ खण्डिलखन्तिडौ।। ६०।। 


जनित्री जनयित्री च कफ़ोणिः कफ़णिस्तथा। 

वाल्मिकोऽपि च वाल्मीको बाली बालिश्च कथ्यते।। ६१।। 


सुमेन सार्धं कुसुमं मरन्दो मकरन्दवत्। 

अहितुण्डिकमित्याहुस्तथा स्यादाहितुण्डिकम्।। ६२।। 


विद्यादण्डीरमाण्डीरमणिः स्यादाणिवत्पुनः। 

आमण्डमण्डावेरण्डे प्रियकठेप्यासनोऽसनः।। ६३।। 


अपिशलिर्मुनेर्भेदे भवेदापिशलिस्तथा। 

चन्द्रभागा चन्द्रभागी खनौ खानिरपि स्मृता।। ६४।। 


गोनासगोनसौ सर्पे फ़ाल्गुनः फ़ल्गुनोऽर्जुने। 

स्यात्तर्जन्या युतेऽङ्गुष्ठे प्रादेशोऽपि प्रदेशवत्।। ६५।। 


गजे मतङ्गमातङ्गौ नागे कालीयकालियौ। 

रोहीतके रोहितकोऽप्यूषरमुषरं मतम्।। ६६।। 


इषीका स्यादीषीकापि वानायुजवनायुजौ।

गुवाकोऽपि च गूवाकः कुचकूचौ स्तने भवेत्।। ६७।। 


कुकरे च कुणिः कूणिर्नाकौ कुलककूलकौ। 

पौगण्डः स्यादपोगण्ड उलूतः स्यादलूतवत्।। ६८ ।। 


काकाचिके काकचिको भवेदृश्यस्तु रिष्यवत्। 

वातूलो वातुलोऽपि स्यात्कैकेयी केकयीत्यपि।। ६९।। 


विरिञ्चिश्च विर ( रि ) ञ्चोऽपि ब्रह्यण्यपि विरिञ्चनः। 

वरूदो वारूदोऽपि स्याद्विक्कपिक्कौ गजार्भके।। ७०।। 


कर्करेटुः करेटुः स्यात्कुर्कुरः कुक्कुरोऽपि च। 

अम्बरीषं चाम्बरीषमुत्पले कुवलं कुवम्।। ७१।। 


कुमारिले कुमारिश्च मथिमन्थौ मथेऽपि च। 

वज्रा वज्री स्नुहीभार्ग्योर्वरला वरटाऽपि च।। ७२।। 


कैटभा कैटभीश्वर्या कन्दर्या कन्दराऽपि च। 

भिदिर्भेदश्च कुलिशे वातिर्वाते कुटे कुटिः।। ७३।। 


करे करिर्जटायां स्याज्जटिः शिल्यां शिलाऽपि च। 

पुलिन्दे स्यात्पुलिन्द्रोऽपि निषादश्च निषादिनि।। ७४।। 


यतिश्च यतिनि प्रोक्तः सृक्विण्यां सृक्वि सृक्व च। 

वहितं च वहित्रं च निचुले हिज्जलेज्जलौ।। ७५।। 


विखुर्विखस्तथा विग्रो नासाया विगमादिति। 

अमतिश्चामतिः काले रजन्यां च तमा तमी।। ७६।। 


विश्वप्सश्चापि विश्वप्सा सिध्मा सिध्म च कथ्यते। 

स्याद्धृक्का बुक्कया साकं धर्मे धर्मं च कीर्तितम्।। ७७।। 


ऊष्मया सार्द्धमूष्माऽपि मज्जोक्तो मज्जया सह। 

शेपशेफ़ौ च शेवश्च शेफ़ं प्रोक्तं च शेफ़सा।। ७८।। 


प्रापुन्नाटकमथाहुः प्रपुन्नाटे प्रपुन्नटम्। 

अररं चाररिश्चापि कपाटे स्यात्कवाटवत्।। ७९।। 


भल्लो भल्लिश्च बाणे स्याद्दले पात्रं च पत्रवत्। 

ईर्ममीर्मा व्रणेऽपि स्यान्निर्ज़्हरेऽपि ज़्हरो ज़्हरिः।। ८०।। 


भवेदमात्येऽप्यामात्यः पीनसं स्यादपीनसे। 

अन्वासनं समुद्दिष्टं तथा स्यादनुवासनम्।। ८१।। 


यूषश्च यभनं यातु यकाराद्वयवन्मतम्। 

परूणा च परूर्ग्रन्थौ काश्मीरी कास्मिरीति च।। ८२।। 


मातुलुङ्गे मातुलिङ्गः कदल्यां कदलोऽपि च। 

परूषकं फ़ले प्रोक्तं पुरूषं परूषं तथा।। ८३।। 


नारङ्गे नागरङ्गोऽपि स्याद्विसेऽपि विसण्डकम्। 

वार्ताकुरपि वार्ताके वृन्ताकोऽपि च दृश्यते।। ८४।। 


किसलं स्यात्किसलये गुत्से गुच्छो गुलुञ्छवत्। 

अम्लातके स्यादम्लातममिलातकमित्यपि।। ८५।। 


जम्बीरेऽपि च जाम्बीरो जूर्णायां जूर्णिरित्यपि। 

तित्तिरौ तित्तिरोऽपि स्यात्पीलकः स्यात्पिपीलके।। ८६।। 


गोदा गोदावरीनद्यां मथुरा मधुरापुरि। 

कविकं कविकायां च स्याद् गवेधौ गवेधुका।। ८७।। 


मञ्जूषायां च पिटकः पेटा पेटक इत्यपि। 

पादातौ च पदातिः स्यात्पादातश्च पदातिकः।। ८८।। 


पादत्राणे तु पन्नध्री भवेत्प्रणिहिताऽपि च। 

जलायुका जलौकायां गैरिके च गवेरूकम्।। ८९।। 


नासिकायां च नक्रः स्याद्वक्रे वङ्कोऽप्युदाहृतः। 

सरणी च प्रसारण्यां मुष्के स्यात्फ़लकं फ़लम्।। ९०।। 


भवेद्दादाऽपि दंष्ट्रायां शाल्मल्यां शल्मलीति च। 

वध्वां च बन्धुकापि स्यादञ्जन्यामङ्गनाऽपि च।। ९१।। 


ह्रस्वान्ता स्यादलाबूश्च दीर्घादिश्च प्रतीयते। 

ऊर्णनाभ इदन्तश्च किकीदिविः किकीदिवे।। ९२।। 


करेटौ करटुश्चापि दूत्यां दूतिरपि स्मृता। 

स्यान्निचोले निचुलकं स्यादसिक्न्यामसिक्निका।। ९३।। 


जीवञ्जीवे जीवजीवश्चालन्यामपि चालनम्। 

स्यूते स्यूनं तथा स्योनमभ्युषेऽभ्युष इत्यपि।। ९४।। 


करम्बो मिश्रिते वान्तो भान्तस्तु दधिसक्तुषु। 

आमीक्षा ह्रस्वमध्याऽपि मध्योकारं च यौतकम्।। ९५।। 


धुवित्रं निरूकारञ्च स्यादृषौ रिषिरित्यपि। 

इरिणं स्याच्च दीर्घादि कृषके कृषिकोऽपि च।। ९६।। 


तालव्यदन्त्ययोरूक्ते सर्वला सर्वलीति च। 

तालव्यद्वयमध्योऽसावाशुशुक्षणिरिष्यते।। ९७।। 


विष्णौ दाशार्हशब्दस्य मध्यतालव्यता मता। 

तालव्यान्तश्च कोटीशः प्राशस्तालव्यदन्त्ययोः।। ९८।। 


दन्त्योपान्तं तु कर्पासमाहानसमलीमसम्। 

काञ्जिकादौ च कुल्माषो दन्त्योपान्तोऽपि कीर्त्यते।। ९९।। 


आदिदन्त्यं तु सुषवीसम्बाकृतसमूरू च। 

कुसीदं च कुसूलं च मध्यदन्त्यमुदीरितम्।। १००।। 


पारावारः पमध्योऽपि सोपानं दन्त्यमादि तु। 

विश्वस्ता स्याद्वमध्यैव न विशस्तेत्युदाहृता।। १०१।। 


स्यात्कवर्गद्वितीयादिक्षान्तादिरपि खुल्लकः। 

स्यात्पवर्गद्वितीयादिः फ़णायां तु फ़टाऽपि च।। १०२।। 


त्रयोदशस्वराद्यं तु शोभाञ्जनमुदाहृतम्। 

तनूनपात्तकारान्तो न तवर्गतृतीयभाक्।। १०३।। 


तवर्गपञ्चमोपान्तमङ्गनं केवलं पुनः। 

हाहाशब्दस्तु सान्तोऽपि कथितो दिव्यगायन्ने।। १०४।। 


चतुःशाले चवर्गीयमध्यं सञ्जवनं विदुः। 

पवर्गमध्यसान्तश्च रेफ़ः स्यादधमार्थकः।। १०५।। 


अन्तस्थमध्यं वैयात्यं वेम्नि वेमश्च वेमकम्। 

कमने कामनोऽपि स्याद्दीर्घादिः कूकुदः स्मृतः।। १०६।। 


प्रभायामपि भाःशब्दः सान्तः पुंलिङ्ग एव च। 

एडमूकेऽनेडमूकः शूर्म्या शूर्मिरपि स्मृता।। १०७।। 


एडूकं ह्रस्वमध्यं च ह्रस्वान्ता च पदव्यपि। 

शैबले स्याच्च शैबालं शेबलं शीबलं यथा।। १०८।। 


तूणा तूणी च तूणीरे मरीचं मरिचेऽपि च। 

चित्रेऽपि चित्रलोऽपि स्याच्चिन्तायां चिन्तियाऽपि च।। १०९।। 


छन्दसि स्यादनड्वाही भाषायामनडुह्यपि। 

मध्येकारोऽपि चिपिटो ह्रस्वादिश्चोरणोऽप्यवौ।। ११०।। 


उत्तमायां गवि प्राहुरिकारादिश्च नैचिकी। 

साच्यर्थे साचिरप्युक्तो भूतार्थे च तथास्तथा।। १११।। 


चवर्गादिरपि प्रोक्ता यामिः स्वसृकुलस्त्रियोः। 

वातासहो वातसहो वातूले स्यादिदं द्वयम्।। ११२।। 


अप्सरः स्वप्सराः प्रोक्ताः सुमनाः सुमनः सु च। 

बर्बरी बर्बरा शाके वितुन्नं सुनिषण्णकम् ( ? )।। ११३।। 


तन्द्रीस्तन्द्रिश्च तन्द्रायां कुरङ्गे च कुरङ्गमः। 

पृथगच्छश्च भल्लश्च भालूकेऽप्यच्छभल्लवत्।। ११४।। 


जलायुके जलौकं च जलोकं च जलूकवत्। 

घोषके शम्बुकोऽपि स्याद् बुध्ने ब्रध्नश्च दृश्यते।। ११५।। 


लङ्गूलमपि लाङ्गूलं भम्भरा भम्भराल्यपि। 

त्वचि त्वचः किरोऽपि स्याकिरौ प्रोक्तः पथः पथि।। ११६।। 


अजगावाजगावं च भवेदाजिगवं तथा। 

पिनाकेऽजगवं चाथ सैहिकेये तमस्तमाः।। ११७।। 


चुलुकी चुलुपी च स्यादुलूपी शिशुमारके। 

अगाधेऽस्थाघमस्थागमस्थायं च प्रयुज्यते।। ११८।। 


स्यान्मध्योष्मचतुर्थत्वमंहसो रंहसस्तथा। 

चिह्ने ललामशब्दोऽपि स्याददन्तश्च पुंसि च।। ११९।। 


द्रविडः स्यान्ममध्योऽपि काफ़लञ्चापि कट्फ़ले। 

व्रीडायाञ्च भवेद्वीडो लज्जामात्रेऽप्यपत्रपा।। १२०।। 


उलूकं मध्यह्रस्वं च ह्रस्वादिः स्यादलिम्पकः। 

तथा कुरूवके रेफ़ो निरूकारः प्रयुज्यते।। १२१।। 


मञ्जिष्ठायां तु भण्डीरी मध्यह्रस्वाऽपि पठ्यते। 

दीर्घादिर्वृश्चिकेऽपि स्यादली स्यादालिरित्यपि।। १२२।। 


बुक्को बुक्का स्मृतौ बुक्किन ग्रैवेयकेऽपि च। 

खञ्जे खोडश्च खोरश्च स्यात्तरीस्तरिरित्यपि।। १२३।। 


नासिकायाञ्च नस्याऽपि मथि मन्थाक इत्यपि। 

कार्तस्वरं मध्यदन्त्यं सीहुण्डः स्यात्सिहुण्डवत्।। १२४।। 


अष्ठ्याद्यन्तो लुलायोऽपि मरूतेऽपि हलन्तता। 

विद्यात्पुरूरवःशब्दे रूकारस्यापि दीर्घता।। १२५।। 


स्यात्कुरूण्ठोऽपि दीर्घादिः सैरेयेऽपि च सम्मतः। 

नालिकेर इदन्तोऽपि तथा दीर्घद्वितीयवान्।। १२६।। 


काण्डे शरः शुभं क्षेमे शारूः शवलवाणयोः। 

किंशुकश्च शुकश्चापि स्मृतस्तालव्यदन्त्ययोः।। १२७।। 


शूनासुङ्गसुरङ्गास्तु दन्त्यतालव्ययोरपि। 

कोटीशश्चाप्यदन्त्यस्तु रिभुक्षः स्वर्गवज्रयोः।। १२८।। 


किन्नराश्वमुखौ भिन्नाभिन्नौ दैत्यासुरादिवत्। 

रिष्टारिष्टे अभिन्नार्थे भिन्नार्थे च क्वचिन्मते।। १२९।। 


वाग्मी ( ग्मि ? ) वाल्मीकिमित्रोल्का सत्रच्छत्रपतत्रिणः। 

संस्कर्तेत्यादिसंयोगिशब्देष्वनुपयोगिषु।। १३०।। 

इदं तुल्यान्त ( क्ष ) रद्वन्द्वस्योन्नयेद्भेदकं क्वचित्।

यमकादावपीत्येषा चिन्ताऽस्माभिरूपेक्षिता।। १३१।। 

तथा ह्यपश्यदद्राक्षीदित्यत्रार्थे क्रियापदम्। 

अपः पयस्तनूकुर्वदित्यन्यत्र पदद्वयम्।। १३२।। 


अथौष्ठ्यदन्तोष्ठयवकारभेदः। 


बृन्दारकब्रजबराटकबेदिबृन्दबन्दारूबैरिबदरीबिटपान् बिटं च। 

बिद्वद्ब्रणौ बरणबृंहणबोधबेधबन्धूरबन्धुबधिरांश्च बबन्ध बृद्धान्।। १।। 

बेलाबलौ बहुलबाहुलकान् बलीकं बोलं बिलं बलजबालकबालुकाश्च। 

बेहद्धृहद्वहलबाहनबाहुबभ्रुबस्तं बलिं बनबलाहकबङ्कबीथीः।। २।। 

बालेयबञ्जुलबराहबकान् बलाका बालुङ्किकाबकुलबुक्कबकेरूकाश्च। 

बारूदबाटबरटानपि बार्बटीरबारूण्डबण्डुकबरण्डकबर्बटीश्च।। ३।। 

बाहिनीबनिताबेदिबणिज्याबारिबण्डरम्। 

बर्धनीबृत्रबटकं बरत्रां बटुकं बिडम्।। ४।। 

बासनाबासिताबस्त्रबीरबासरबागुराः। 

ब्रीडनीं बाणिनीं बीणां बानीरं बानरं बचाम्।। ५।। 

विहगाख्यं बिशब्दं वाऽप्यव्ययं वा न वेति च। 

बार्तरूकं बदान्यं वा विद्याद्वाद्यं च बादनम्।। ६।। 

अथ मध्यपवर्गीयाः कर्बरः कर्बुरोऽबरः। 

बर्बरी शबरीर्बारूः सम्बराडम्बराम्बरम्।। ७।। 

कम्बलं सम्बलेर्बारू शर्बला शाद्वलोऽपि च। 

नड्बलाबेलजम्बालशैबालाद्याश्च कीर्तिताः।। ८।। 

कथ्यन्तेऽथ पवर्गीयबान्तशब्दाश्च केचन। 

गन्धर्ब खर्ब गर्बाह्वजिहबापूर्बश्च दूबर्या। 

रोलम्बः शतपर्बार्बा दोर्वी चार्वी च दर्बिभृत्।। ९।। 

कदम्बकादम्बनितम्बनिम्बविम्बप्रलम्बाम्बुविडम्बडिम्बाः। 

करम्बहेरम्बकुटुम्बकुम्बास्तुम्बी कलम्बी च स ( क ? ) डम्बिचम्बाः।। १०।। 

जम्बूः कम्बुरलाबूश्च शम्बः शु ( च? ) म्बोऽम्बया सह। 

शिम्बा लम्बा च वा ( चा ? ) डम्बगोडुम्बस्तम्बकम्बयः।। ११।। 


अथान्तस्थीयवकारः।। 


विन्दुविद्रुमवदान्यविक्रमा वित्त ( न्द? ) वर्त्मविखुविखु ( शचिव, क ) विद्यया। 

व्याघ्रवप्रवरवेरवर्करा वादरो ( ? ) वसिरवारूवागुराः।। १२।। 

वामवामनविमानवेदना वानवित्तवमनं विलेपनम्। 

वातवातिकवितानवर्तनीवर्तिवेतनवसन्तवृत्तयः।। १३।। 

वार्ताविच्छित्तिवृत्तान्तवितण्डाश्च वितुन्नकम्। 

विकटो वेकटो व्युष्टिर्विष्टिर्विष्टरवेष्टनम्।। १४।। 

वल्लूरो वल्लरी वल्ली वेल्लितं वल्लभोऽपि च। 

विदेहो विग्रहो वर्हो वहिर्वह्निविहायसः।। १५।। 

वहित्रं विकचो वीचिर्वर्चोवञ्चकवाचिकम्। 

वन्धूकं वीवधं वेधा विधाविधुवधूवृकाः।। १६।। 

विवेको वर्णकं वेणी वीणाविपणिवेणवः। 

विषाणं वीरणं वाणो वपा वाष्पो वपुर्वयः।। १७।। 

वैशाखो विशिखो वादं व्यूदं वर्ष्म विषं वृषः। 

विषयं वर्षणं वीजं वाजं वृजिनवर्जने।। १८।। 

व्यजनं व्यञ्जनं वज्रं वैजयन्ती विशारदम्। 

व्यालवङ्गलवल्मीकवीपि ( व्रीहि?) लावाल्हिको वली।। १९।। 

वालो विचकिलो वङ्गं विडङ्गं वेगवर्णनम्। 

वेधसा वासितं वेशवैश्यविश्रम्भवेश ( ल्ल ? ) यः ।। २०।। 

विश्वविस्रस्तविशिख ( प ) वंशव्यसनवासवम्।। २१।। 

वायसो वाहसो वासो वीभत्सो वसतिर्वसु। 

विदारी वठरो वीरूदित्याद्यन्तस्थवादयः।। २२।। 


अथापि मध्यदन्तोष्ठ्याः कथ्यन्ते केचनाऽपरे। 

देवकः सेवकावुत्तप्रावाराः प्राध्वरोऽपि च।। २३।। 

तन्तुवायः प्रवरको गोविन्दः श्रावणोल्वणम्। 

अध्वा मद्वा ( वध्वा, क ) युवाऽथर्वा मघवा खर्व ( शक्व ? ) पर्वणी।। २४।। 

( दन्तोष्ठ्याः समुदाहृताः ) 


अवावादिविधानाच्च संप्रसारणतोऽपि वा। 

इत्येतदादयः शब्दा अभेदेऽत्र विनिश्चिताः।। २५।। 

अष्ठ्यदन्तौष्ठ्ययोरत्र धात्वर्थादिविशेषतः। 

यदि स्यादनयोः क्वापि कादाचित्को व्यतिक्रमः।। २६।। 


अथोष्मभेदः।। 


अथ तालव्यमूर्धन्यदन्त्यानामपि लेशतः। 

शषसानां विशेषेण निर्देशः क्रियतेऽधुना।। १।। 


श्यामाकशाकशुकशीकरशौकशूकशालूकशंकुशकशङ्करशुक्ल ( क्र ) शु ( श ) क्राः। 

शौटीरशाक ( व ? ) शकटाः शिपिविष्टशिष्टशाखोटशाटकशटीशटितं शलाटुः।। २।। 

शीतञ्च शातशतशातनशंच ( शम्भ ) शम्बशम्बूकशम्बरशुना च ( श्च ? ) शिवा शिलीन्ध्रः। 


शोभा शुभं शरभशीभरशुम्भशम्भुश्वभ्राणि शुभ्रशरदौ शकुनिः शकुन्तिः।। ३।। 

शालाशिलाशकुलशाद्वलशालुशेलुशार्दूलशूलशवलाः शमलं शृगालः। 

शेफ़ालिकाशिथिलशृङ्खलशीलशैलशेवालशल्यशलशम्बलशर्वलानि।। ४।। 

शालालुशालुशलिशाल्मलिशुक्लशुष्कशुल्कानि शिल्पशलभौ शललं शलाका। 

श्रोणिः शणः ( शः, क ) श्रवणशोणितशोणशाणश्रेणीश्रुतश्रयणशून्यशरण्यशङ्काः।। ५।। 

शोचिः शचीशुचिशयः शरूशर्मशीर्णश्रीपर्णशोथशपथश्वथ ( य ) शण्डशीडाः ( शण्दाः ) । 

श्रेयः श्रमः शमनशोधनशक्यशाक्यशाण्डिल्यशाल्वलश्मीशुनकाः श्रविष्ठः।। ६।। 

शाखाशिखाशिखरशेखरशङ्खशापशम्पाशिफ़ाशफ़रशेफ़शफ़ाः शिखण्डः। 

शृङ्गारशृङ्गशरशावशरारिशारिशाराः शरावशवरश्च शिरं शिरश्च।। ७।। 

शरीरशालारू ( र ) शरारूशै ( शा ) रूशोभाञ्जनश्रावणशादशूद्राः। 

शनिः शनैः श्लीपदशिग्रुशीधुशुद्धान्तशान्ताः शितिशौर्यशौण्डाः।। ८।। 

शोठः शुण्ठी शठः श्रेष्ठश्वित्रश्रोत्राणि शर्करा। 

शक्वरीशर्वरीशक्तिशुक्तिशुक्तानि शुष्कुली।। ९।। 

शान्तं श्वेतं शिविश्यावशङ्कुश्वयथुशाकिनी। 

शिंङ्कुः ( क्कुः , ) शोकश्च शुल्वं च शालीनञ्च शिलीमुखम्।। १०।। 

श्लक्ष्णं श्लाघा च शीघ्रञ्च शिक्यं श्रद्धा च शिंशपा। 

श्योनाकः शूरणः श्राणा शिक्षा श्यामा च शेवधिः।। ११।। 


उशीरकाश्मीरककिंशुकांशुकं किशोरकिंशारूकशेरूकौशिकम्। 

जलाशयाशोककृशानुकाश्यपा यशः पिशङ्गाश्मपिशाचरश्मयः।। १२।। 

निशान्तवेशन्तविशालपेशलं बिलेशयाश्वत्थनिशीथविंशतिः। 

विशङ्कटश्चानुशयाशयाश्रयाः सहोपशल्याऽशनकाशिताश्विनैः।। १३।। 

निशितं पिशितं प्रश्नं ( श्नः ) पिशुनो दशनोऽपि च। 

उशना लशुनं वेश्म कश्मलं विश्वमश्ववत्।। १४।। 

ऋश्यावश्यायविशिखविशाखाविशिखां ( पां ) शवः। 

विशदः पाशकः पार्श्वं विश्रामश्चेश्वरोऽशनिः।। १५।। 


ईशप्रकाशकुशकेशविकाशकाशमाकाशकीशकपिशानिशपाशपेशि। 

त्रिंशांशतादृशदृशः सदृशो विनाशकीनाशकर्कशदिशो दशदेशदाशाः।। १६।। 

क्रोशाशुलोमशपलाशनिवेशलेशक्लेशप्रवेशपरिवेश्यविशश्च वेशः। 

पर्शुः पशुः परशुरंशुरूपांशुपांशुनिस्त्रिंशदंशविवशा मशवंशविंशाः।। १७।। 

वालिशः कुलिशो राशिर्वराशिर्वडिशो भृशम्। 

अपभ्रंशः पुरोडाशो विमिश्रोऽश्रिरनेकशः।। १८।। 

दर्शः स्पर्शः स्पशोऽमर्शः कर्शो वाशानिशे कशा। 

आशादशोर्वशीकाशीविनिवेशाः प्रतिष्कशः।। १९।। 


शौरिर्मुरारौ शिव एव शर्वः शूरः समर्थे ज़्हष एव शालः। 

शमः प्रशान्तौ शकलं च खण्डे शकृत्पुरीषेऽजगरे च शीरः।। २०।। 

मूर्द्धन्यज्येष्ठयोर्वश्यः करिण्याञ्च वशाऽश्रुणि। 

अश्रं वेदे च कर्णे च श्रुतिर्दाशश्च धीवरे।। २१।। 


शिंशपा शाश्वतं श्वश्रूः श्वशुरः शिशिरः शिशुः। 

शिश्नाशशश्मशानानि शशी शश्वत् कुशेशयम्।। २२।। 

शुकशिम्बिश्च काशीशस्तथा शीतशिवोऽपि च। 

तालव्यशद्वययुताः कियन्तोऽमी प्रदर्शिताः।। २३।। 


तालव्या अपि दन्त्याश्च शम्बशम्बलशूकराः। 

रशनाऽपि च जिह्वायां शृगालः कलशोऽपि च।। २४।। 


आश्वासः शासनं शास्त्रं शस्त्रं शास्ता शरासनम्। 

तालव्यानन्तरं दन्त्यैः शब्दाः केचिदुदीरिताः।। २५।। 


षट् षण्डः षष्टिका षष्टिः षोदा षोडंश्च षोडश। 

षालवश्चापि षण्डाली षुक्किः ष्कम्भिर्विपूर्विका।। २६।। 


विष्वक्निषङ्गोऽपि च भूषणेषणं पाषाणरोषाणविषाणभीषणम्। 

पाषण्डकूष्माण्डनिषेकमूषिकं गवेषितं निष्क्रमदूष्मेषिकम्।। २७।। 


पुष्पाभिषेकौषधयोषिदीषदेष्यत् तुराषाड् विषुवन्निषेधः। 

दुःषेधभैषज्यकषायपौषणं हृषीकमीर्ष्या च विषादवर्षणे।। २८।। 


रोषणो वर्ष्मभीष्मोष्मनिषादाषादगोष्पदम्। 

अभिषङ्गो निषङ्गश्च वु ( शु ? ) ष्कवार्धुषिको दृषत्।। २९।। 

दूषिका चषकः प्रेष्यो भाष्यं च धिषणेषणे। 

पृषतः परिषत् पर्षत् तुषारोषरमर्षणम्।। ३०।। 

वास्तोष्पतिर्दिविषदो दुष्पीडञ्च वहिष्कृतम्। 

निष्कुटं निष्क ( किष्कु ? ) मस्तिष्कं पुष्करं दुष्करोषरौ।। ३१।। 

तुरूष्कमुष्कविष्कम्भनिष्कनिष्कलपुष्कलम्। 

वस्तिष्कं वष्कनिष्ःपावज्येष्ठनिष्ककविष्वणम्।। ३२।। 


पेयूषयूषपीयूषगण्डूषाङ्गूषविप्रषः। 

वातरूषोऽत ( ट ) रूषश्च प्रावृट्पौरूषपूरूषाः।। ३३।। 

हनूषः कल्मषः पू ( ऽरू ) षोऽभ्युषस्नु ( सू ) षा मनीषया। 

हेषा ह्रेषा जिगीषा च स्नुषा निकषया सह।। ३४।। 

रोहिषो महिषोन्मेषप्रमोषामिषमारिषाः। 

उ ( क ) ल्माषोष्णीषकुल्माषमाषमेषमिषं मृषा।। ३५।। 

किल्विषं कलुषं चाषस्ताविषं विषम्। 

तविषी त्रपुषी रोषतृषातोषतुषत्विषः।। ३६।। 

अभिलाषो भृ ( भ ) षो भ्रेषः पुरूषव्यतिषेषवः। 

मञ्जूषा निकषा द्वेषो दोषः कोषः कषः कृषिः।। ३७।। 

उषा बुषवृषव्योषवेषास्तर्षभूषर्षयः। 

हर्षो वर्षश्च संहर्षः कर्षः कर्षूः प्रुषः प्लुषः।। ३८।। 

अम्बरीषं करीषं च तरीषं च पुरीषवत्। 

निष्ःपेषोऽलम्बुषः पौषो घोषः शेषः फ़लङ्कषः।। ३९।। 


शीर्ष शिरीषं शुषिरं श्लेषः श्लेष्मा च शेमुषी। 

विशेषः शोषणं शष्पं शिष्यशैलूषशौष्कलाः।। ४०।। 


तालव्यशादयः प्रोक्ताः कथ्यन्ते दन्त्यसादयः।। ४१।। 

सुषूतिः सुषमा सर्पिष्टरं चापि सुषुप्तकम्। 

सुषीमं च सुषेणश्च सुषन्धिः सर्षपोऽपि च।। ४२।। 


तालव्यान्ताश्च सू ( दु ) ष्पाशशी ( श ) ष्पाशवृषदंशकाः।। ४३।। 

( तालव्यान्ताश्च मूर्द्धन्याः ) इति मूर्द्धन्यनिर्देशः। 


सार्थः सुधासलिलसुन्दरसिन्दुवारसिन्दूवारसिन्दूरसान्द्रसिकतासितसेतुसूताः। 

सालूरसूरसरकस्वरूसौरिसूरिस्मेरस्मराः समरसारसमीरसीराः।। ४४।। 

सौवीरसागरसरित्सुतसारमेयाः संवित्समित्सकलसिह्लकसौविदल्लाः। 

सादः सदा सपदि सूदसदःसरण्डाः संवेदः स्वरः सवनसीवनसत्रसूत्रम्।। ४५।। 

स्वामी समः समयसामग ( ज ) सामिधेनीसोमाः समूहसमवायसमुद्रसाम। 

सीमन्तसीमसिमसूमसमानसूद्य ( त्य ) ः सूक्ष्मं समूदसरटस्वनासानुसूनुः।। ४६।। 

स्थालः सृणिः सरणिसारथिसिक्य ( क्त ) सक्थिसिक्थाः समूहनसमाजसमीकसूर्याः। 

स्वैरं सरः सचिवसूचनसूचिसव्यसेव्यानि सप्तसदनस्यदसुपसर्पाः।। ४७।  

सायं स्मितं सायकसङ्कुसेटुसिन्धुस्वर ( ज ) स्तवसमित्सहदेवसर्गाः। 

सेकस्रजौ सेवकसेवसन्तः सत्त्वं च सातिश्च सखा सुखं च।। ४८।। 

सनातनस्यन्दनसाधनानि संस्कारसैरेयकसर्जसर्पिः। 

ससावरौ सूनृतसङ्कुलौ च सर्व च साक्षी सविता च सृक्वणी।। ४९।। 

सैरन्ध्री च सिनीवाली सारङ्गः स्वप्नसाम्प्रतम्।

स्नायुः स्नेहः स्नुही सङ्घः सरघा सौरभं सभा ।। ५०।। 


बासरासारकासारकेसरत्रसरासुराः। 

वेसवारः परिसरो मसूरकुसुमासनाः।। ५१।। 

प्रसादापसदासन्दीव्यासङ्गास्रवदस्यवः। 

प्रसूनं प्रसवो लास्यमास्यं प्रसभरासभौ।। ५२।। 

अवसायः किसलयं कुसूलं च विकस्वरम्। 

मसृणं प्रासनी ( नो को ) वासी भस्माकस्मिकघस्मराः।। ५३।। 

अमावास्या प्रतिसरः रसरोऽवसरोऽपि च। 

वसन्तश्च प्रसारश्च मसारश्च रसाञ्जनम्।। ५४।। 

वसुधाव्यवसायास्तवसनव्यसनानि च। 

तमिस्रं वास्रघस्रोस्राजस्रविस्रम्भवासिताः।। ५५।। 


कैलासलालसकिलासविलासलासकार्पासहासकृकलासनिवासरासम्।

न्यासांसभासमसिकीकसकंसहंसध्वंसभ्रकुंसपनसासुवसुप्रयासाः।। ५६।। 

निर्यासप्रासवीतंसोत्तंसालसमलीमसाः। 

कुम्भीनसस्तामरसं वासश्चमसचिक्वसौ।। ५७।। 

व्यासावभासदिवससुरसावासवायसाः। 

वाहसः पट्टिसो घासवासासिमिसिपुक्वसाः।। ५८।। 


मृत्साचिकित्साप्सरसो बुभुत्सुर्विधित्सितं मत्सरवत्सरं च। 

वात्स्यायनोत्सारणमत्स्यदित्सुगुत्सोत्सवोत्साहविवित्सुकुत्साः।। ५९।। 

कृत्स्नं च लिप्सुरूत्सृज्यमुत्सनिर्भत्सनोत्स्मयाः। 

वीभत्साऽभीप्सितोत्पित्सुसमुत्सेकोत्सुका अपि।। ६०।। 


संसारसारससरीऱ्ओपसस्यसास्नासारस्वतानि सरसी च समञ्जसं च। 

स्वस्रा च साहससहस्रसहः समासाः सामस्त्यसंसरणसीसकम्मतानि।। ६१।। 

सस्यकः साध्वसं सङ्कसुकः सारसनं तथा। 

अमी दन्त्यद्वयोपेता ऊष्मभेदेऽत्र दर्शिताः।। ६२।। 


अथ लिङ्गभेदः। 


आकाशकाशकुलिशाङ्कुशकोशकेशकाशीशकीकसकुशाः कणिशोपवासौ। 

कर्पासवेशवडिशांश ( स ) वतंसतं ( हं ) सपीपास ( यूष ) कंच ( स ) रसमांसविसोपदंशाः। 

निर्यासरासचमसोद्यमपि ( चि ) क्वसानि सन्तानशङ्खसुखसैन्धवसङ्गमानि। 

सौधश्मशानशयनाश ( स ) नशूकशल्यशूलानि शुक्लशफ़शेफ़समीपशण्डाः।। २।। 

स्वानं शिनं किसलयं शकटो वसन्तवेशन्तशेषशकलाः शकर ( सरक ) श्वपुच्छम्। 

पुष्पं सटः सरटसूर्पसृपाटशङ्कुश ( स ) ङ्करासंक्रमशरावसलाश्वलापाः ( शलाः सलोमाः )।। ३।। 

आसारवासरवशीरशरीरशीरशो ( सो ) शिरशेखरशराः शिखरं तुषारः। 

संसारशारशिशिराणि सरासनाश्च कासारकेसरकुकुन्दरकन्दराणि।। ४।। 

कोटीरकोटरकडङ्गरसङ्गराणि क्षीराक्षराधरयुगन्धरकन्धराणि। 

धीरान्धकारसविहारसुता ( ना ) रनारकेनारकूवरनिषद्वरगह्वराणि।। ५।। 

कन्दा ( का ) रूदारूदरतोमरचामराणि हिण्डीरजीरवरपिञ्जरपञ्जराणि। 

मञ्जीरमञ्जिरकठिञ्जरपारबारप्रावारवेरगरवागरनागराणि।। ६।। 

सौवीरसङ्करमदारपदारपौरपाटीरवार्दरदुरोदरशम्बराणि। 

आडम्बराम्बरसनूपुरकर्णपूरकर्पूरपार्षर ( पर्पर ) सकर्परकूर्पराणि।। ७।। 

धाराङ्कुरप्रतिसरावसरप्रकारसीत्कारसीकरनिकारमसारसाराः। 

कान्तारतारतिमिरान्तरतू ( दू ) रतीरपङ्कारकारसमराजिरवेसवाराः।। ८।। 

अञ्गारमन्थरपरम्परविष्टराणि सिन्दूरपुष्करमरूष्करनिष्कमुष्कम्। 

शृङ्गारहारजठरोषरगण्डशैलकीलालकीलकबलानि कलापको ( पू ) लम्।। ९।। 

शीलप्रवालवलयोपलमूलकानि कङ्कालमङ्गलहलाहलचक्रवालम्। 

कोलाहलं हलकुतूहलकालकूटकिट्टालसालकललानि खलं खलीनम्।। १०।। 

तूलाङ्गुलोत्पलपलालतमालमालसम्बालनालमलकामलकुण्डलानि। 

लाङ्गूललाङ्गलकपोलकपाक ( ल ) पालजम्बालजालपटलालकजाङ्गलानि।। ११।। 

विदलं कदलं भालं कमलं तलिनं तलम्। 

मालकं तिलकं तैलं पललं पल्वलं फ़ ( प ) लम्।। १२।। 

पुलकं फ़लकं कालं पुलिनं नलिनं नलम्। 

मलयं प्रलयं मोहं लोहितं मुसलं सलम्।। १३।। 

चषालं शवलं शल्कं किञ्जल्कं वल्कबल्कले। 

कुलकं कूलकं कोलं खोलकं चावचूलकम्।। १४।। 

अर्धर्चकूर्चकवचानि निकुञ्जकुञ्जपुञ्जध्वजा ब्रजल ( न ) ताम्बुजभूर्जतूर्याः। 

कन्दास्पदद्रवविनीतवितानवित्तपीनोपनीतनवनीतसुवर्णचूर्णाः।। १५।। 

भावापरात्त ( ह्र ) पलितव्रतवृत्तकुन्तपिष्टाम्बुमेषवृष्णानि समूषकानि। 

उत्कोचकुक्कुटबिटा बिटपः कुटश्च वज्रं धनुश्च बकमेचकचक्रपीठाः।। १६।। 

विडङ्गकालिङ्गमृदङ्गशृङ्गवराङ्गबाराङ्गनिदाघसङ्घाः। 

भालङ्ग ( भालाङ्क ) वर्चस्कबलीकवक्त्तं छत्रं सहस्राव्ययमध्यमं च।। १७।। 

मुहूर्तमुद्यानभगाब्दमानसिङ्घाणकोद्योगपरागपूगाः। 

वातायनैरावतहस्तमुस्तबुस्ता व्य ( भ ) यं मस्तकमुस्तके च।। १८।। 

कोष्ठः प्रकोष्ठः कमठो मकुष्ठः शिखण्डकोदण्डपिचण्डपिण्डाः।

कूष्माण्डकारण्डकरण्डकुण्डा बरण्डबारूण्डशरण्डशौण्डाः।। १९।। 

भण्डाण्डकाण्डानि तरण्डगण्डगाण्डीवमण्डानि च गाण्डिवं च। 

प्रकाण्डदण्डावपि खण्डषण्डौ सताण्डवं मण्डपतण्डकं च।। २०।। 

करककोरकपाटकनाटकं कटककङ्कटकन्दुकमोदकम्। 

नरकटङ्ककुटीरकं स्तवकपङ्ककरङ्ककरीरकम्।। २१।। 

क्षुरकपक्षकहारकहीरकं प्रियकरोककडङ्ककवच्छदम्। 

ककुददोहदबृन्दगुदार्बुदं कुमुदतोयदकुन्दकुसीदकम्।। २२।। 

नलदपारदकुट्टिमदैवतं रजतदैवदिनार्वटकर्वटम्। 

कुणक ( प ) दीपककञ्चुकवञ्चुकं क्रमुकबालकबोलककीलकम्।। २३।। 

पिनाकपिण्याककिरीटकूटकिराटशृङ्गाटककण्टकानि। 

अष्टापदं पातकपार्श्वहेमभ्राष्ट्रं च राष्ट्रं च मखो मुखं च।। २४।। 

वल्मीकवर्णकपिटार्गटविम्बवप्रकौपीनबभ्रुनिधनानि धनं निधानम्। 

द्यूताम्बरीषचषकायुधगूथयूथप्रोथानि तीर्थहरिचन्दनकुङ्कुमानि।। २५।। 

प्रग्रीवगोमयकवाटपटाः पटोलप्रान्तायुतप्रयुतभूतशताशतङ्काः। 

स्नेहो गृहं महिमहेमहिमाः सपुच्छतापिच्छकच्छपटा ( पणवाः ) पटहार्मधर्माः।। २६।। 


स्तम्भः शुभं ककुभकौस्तुभजम्भधूपस्तूपापजापकुतपानि तिपः सदीपः। 

द्वीपोलपौ लवणकङ्कणवाक्षु ( चाटु ) मध्यक्षेमोद्यमानि धमनौदनजीवनानि।। २७।। 

सूत्रं सवस्त्रमु ( सु ) खनेत्रपवित्रपत्रपात्रीवशाद्रवहरिद्रववर्ध्ररन्ध्राः। 

स्थानं कबन्धुकुसुमप्लवलोमगुल्मक्षौमाव ( नु ) मानशतमानविमानगुल्फ़ाः।। २८।। 

तडागं निगडं नीडं नडं क्ष्वेडितमुल्मुकम्। 

मासमाषकपद्यानि वर्हगेहेन्धनानि च।। २९।। 

लशुनं लाञ्छनं ग्राममनीकं घासमानकम्। 

यौवनं पविकं हावं पारावारोर्ध्वगैरिकम्।। ३०।। 

आमिषं मुषलं माषं यूषं वर्ष च दूषणम्। 

भूषणं निकषः कर्षः कषायो विषमौषधम्।। ३१।। 

करीषकार्षापणवारवाणवाणब्रणद्रोणरणाः पुराणः। 

भाणः किणः क ( को ) ङ्कणकोणशाणाः सतोरणघ्राणपरीरणाश्च।। ३२।। 

जीवातुकुस्तुम्बुरूवास्तुकम्बुकसेरूशीधुर्मधु सिन्धु ( सीधु ) सानु। 

कमण्डलुर्जानु पलाण्डु हिङ्गु स्थाणुस्तथाणुस्तितउः सजन्तुः।। ३३।। 

वरणं मरणं लोष्टं प्रस्थं कुल्मं ( ल्फ़ं ) सपल्लवम्। 

पुंनपुंसकशब्दानां रचनेयं सुनिश्चिता।। ३४।। 

कामंः कुकूलबलमोलकुसुम्भसारमित्रध्रुवाः कुशदुरोदरकुक्षशुक्ताः। 

दिष्टाधरार्धमलकुण्डलपुण्डरीका ऋक्ष्याक्षसत्वपिठराग्रयुगालकानि।। ३५।। 

नन्दनं वृजिनोद्वेगस्वजीवौघाश्च ( श्व , ) रोहितम्। 

लिङ्गव्यस्थासहिताः शब्दाः केचित्प्रदर्शिताः।। ३६।। 


भल्लातकं कुवलमामलकं मृणालपात्रप्रणालकलशदकमण्डलानि। 

बाटं कवाटपुटदाडीमकन्दलानि विद्याद्विभीतकहरीतकपौरूषाणि।। ३७।। 

कपालं शललं पेटं कटाहं पि ( वि , ) टकं कटम्। 

वटं तटं मठं ताडं खनदीवदुदीरतम्।। ३८।। 


धस्तूरकन्दरविषाणविडङ्गतालजम्भाः कुथप्रतिसरार्गलशृङ्खलाश्च। 

मुस्तस्फ़ुलिङ्गनखरान् सह मन्दिरेण सन्दर्शिताः कतिपये निपुणैश्च मावत्।। ३९।। 


गण्डूषवर्तकबराटकहार ( ल ) कीर ( ल ) व्रीडाः सटः सटरको ( सरटक्रो ) बरटः सशृङ्गः। 

उत्सङ्गगर्भभुजजागरगर्जवाणाज्वालादयः सरभसः कृसरश्च मावत्।। ४०।। 


वेतसो वृश्चिकः सारः शफ़रः शल्य ( ल्ल ) को घटः। 

शाटकीटौ कणस्तूणः कथिताश्च नदीसमाः।। ४१।। त्रि. लि. ४८.

वडिशं ताडकं ताडं क्रोडं नीडं च पाटलम्। 

लटं ( क्षं ) बणिज्यमन्दुरं रसनं विश्वमर्गलम्।। ४२।। 

नपुंसकत्वेऽप्येतच्च मालावत् परिकीर्तितम्। 


षष्ठ्याः परा सुरा शाला सेना च्छाया निशाऽपि च।। ४३।। पा.२.४.२५ 

स्त्रीत्वेऽपि वनवच्चैतत् स्यान्नदीवदथोच्यते। 

आस्थानं नगरं स्थानं स्थालं च पटलं पुरम्।। ४४।। 


श्रीसाहसाङ्करचितप्रमुखासु गद्यपद्यप्रबन्धरचनासु वितन्वतैव। 

व्युत्पत्तिमुज्ज्वलतमां परमां च शक्तिमुल्लासिता जगति येन सरस्वतीयम्।। ४५।। 

निःशेषवैद्यकमताम्बुधिपारदृश्वा शब्दागमाम्बुरूहखण्डरविः कवीन्द्रः। 

यत्नान्महेश्वर इमां निरमात्प्रकाममालोच्यतां सुकृतिनस्तदसावनर्घाः।। ४६।। 

नामपारायणोणादिनिरूक्तोक्तैर्विकल्पितः। 

शब्दवर्णविधिश्चातः सन्दर्भो ह्येष साधुभिः।। ४७।। 

कर्तुं चेतश्चमत्कारं सतां हर्तुं विपर्ययम्। 

संशयं च निराकर्तुमयमस्मत्परिश्रमः।। ४८।। 

छन्दोऽनुप्रासयमकश्लेषचित्रेषु निर्णयः। 

एष्वेवास्योपयोगश्च कवितुर्ज्ञातुरेव च।। ४९।। 


इति श्रीसकलवैद्यराजचक्रमुक्ताशेखरस्य पद्यगद्यविद्यानिधेः श्रीमन्महेश्वरकृतौ विश्वप्रकाशे शब्दभेदप्रकाशः परिसमाप्तः।। 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project