Digital Sanskrit Buddhist Canon

अध्यात्मसारशतकम् (सटीकम्)

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

महापण्डितश्रीप्रभाकरगुप्तविरचितम्


अध्यात्मसारशतकम्

(सटीकम्)


ॐ नमः श्रीवज्रसत्त्वाय।


एकानेकव्युपरतिसुखैः सिद्धचारैरनेकैः 

क्षित्यादीनां न मिलति यतो वस्तुसिद्धिः कुहापि।

विज्ञानान्तं तदिह सकलं निःस्वभावं समन्ता-

न्नैवाकस्मात्स्फुरति नियमाद् देशकालाकृतीनाम्॥१॥

टीका

नत्वा देवीमसमसुखदामुग्रतारामजस्त्रम्

आ संसारं सुगदचरणं धर्मयुक्तं ससंघम्।

शश्वत्पादारविन्दे गुरुमपि च तथाध्यात्मसारस्य चार्थं

वक्ष्ये संक्षेपतोऽद्य प्रवरगुणगणं शिष्यवाञ्छानुरोधात्॥


यथा वाञ्छा च बन्धूनां हृत्कीर्तिरूपराजयोः।

तथोवाच यथाशक्त्या त्वालापोऽर्थं शिरोमणिः॥


न मिलति न गलति, का ? वस्तुसिद्धि। तेषां क्षित्यादीनाम्। कथम ? कुहापि कुत्रापि कुतोऽपि। यतोऽपि। कैः ? सिद्धचारैः सिद्धविचारैः। कथंभूतैः ? अनेकैः। पुनः कथंभूतैः ? एकानेकव्युपरतिसुखैः। अस्ति। किम् ? तत्सकलम्। कथंभूतम् ? विज्ञानान्तम्। पुनः कथंभूतम् ? निःस्वभावत्वम्। कुतः ? समन्तात्  सर्वत्र। नैक(व) स्फुरति न प्रकाशते। किम् ? तत्सकलं विज्ञानान्तम्। कासाम् ? देशकालाकृतीनाम्। कुतः ? अकस्मात् अकारणात्। कस्मात् ? नियमात्। क्व ? इह संसारे॥१॥


तस्मादास्ते सकलजगतां कोऽपि हेतुः प्रसूतेः

क्षोणीनील(र)ज्वलनपवनव्योमविज्ञानभिन्नम्।

ईशो वाऽसौ विभुरभिमतः शून्यता वाऽन्यथा वा

सर्वैश्वर्यं यदनुशरणात् तं नमे योगगम्यम्॥२॥

आस्ते अस्ति। कः ? कोऽपि। कथंभूतम् ? हेतुः कारणम्। कस्याः ? प्रसूतेः उत्पत्तेः। केषाम् ? सकलजगताम्। कस्मात् ? तस्मात्। पुनः कथंभूतः ? क्षोणीनील(र)ज्वलनपवनव्योमविज्ञानभिन्नम्। कः ? असौ ईशः। कथंभूतः ? विभुः प्रभुः। पुनः कथंभूतः ? अभिमतः सम्मतः अस्ति। का ? शून्यता वा। कथंभूता ? प्रभुः अस्ति। कथम् ? अन्यथा वा अन्या वा। नमे नमस्करोमि। कः ? अहम्। कम् ? तं विभुम्। कथंभूतम् ? योगगम्यं समाधिप्राप्तम्। भवति किम् ? सर्वैश्वर्यम् ? कस्मात् ? यदनुशरणात्॥२॥

यस्याबोधाद् बहुविधमतं कल्पयित्वा विवादं

कुर्वन्तोऽमी सकलुषहृदः पण्डिताः भण्डयमानाः।

अप्राप्यैवं सुनिजपदवीं मृत्युध्वस्ता भ्रमान्धाः

संसारेऽस्मिन्नशुभशुभतः सञ्चरन्त्या भवान्तम्॥३॥

संचरन्ति भ्रमन्ति। के ? अमी पण्डिताः। कस्मिन् ? अस्मिन् संसारे। कथम् ? आ भवान्तम् आजन्म। कुतः ? अशुभशुभतः। किं कृत्वा ? अप्राप्य असमवाप्य। एवम् अनेन प्रकारेण। सुनिजपदवीं मोक्षमार्गम्। कथंभूताः पण्डिताः ? भ्रमान्धा मोहान्धाः। पुनः कथंभूताः ? भण्डयमाना विडम्बमानाः। कथंभूताः सन्तः ? कुर्वन्तः। कम् ? विवादं विचारम्। किं कृत्वा ? कल्पयित्वा वितर्कयित्वा। किम् ? बहुविधमतम् अनेकमतम्। कस्मात् ? अबोधात् अपरिचयात्। कस्य ? यस्य सम्यग्ज्ञानस्य। कथंभूताः ? सकलुषहृदः सविकल्पहृदयाः। पुनः कथंभूताः ? मृत्युध्वस्ता मृत्युग्रस्ताः॥३॥

बौद्धे सांख्ये क्षपणकमते वैष्णवे शैवमार्गे

जन्मास्तित्वं पुनरभिमतं युक्तिवर्त्मागमाभ्याम्।

तच्चार्वाको यदि न मनुते त्वेक एकेन किं स्या -

ज्जात्यन्धानामननुभवतो न ह्यबावः सदिन्दोः॥४॥

अस्ति। किम् ? जन्मास्तित्वं जन्मपरिग्रहः। कथंभूतम् ? अभिमतम् अभिलषितम्। कथम् ? पुनः। काभ्याम्। युक्तिवर्त्मागमाभ्याम् शास्त्रागमाभ्याम्। कस्मिन् ? बौद्धे। न केवलं बौद्धे सांख्ये च। न केवलं सांख्ये क्षपणकमते च। न केवलं क्षपणकमते वैष्णवे च। न केवलं वैष्णवे शैवमार्गे च। न मनुते न मन्यते। कः ? चार्वाको नास्तिकः। किं तत् ? जन्मास्तित्वम्। कथं च यदि अस्ति। कः ? चार्वाकः। कथंभूतः एकः। कथम् ? तु पुनः स्यात् भवेत्। कथम् ? किं स्यात्। केन ? एकेन चार्वाकेण। नास्ति। कः अभावः कदर्यत्वम्। कस्य ? सदिन्दोः विद्यमानचन्द्रमसः। कथं हि कथंभूतस्य ? न अनुभवतः अनिरीक्षयतः। केषाम् ? जात्यन्धानां जन्मान्धानाम्॥४॥

भूतान्येव प्रमितिबलतो नैव सिद्धयन्त्यशून्या-

न्येकानेकव्यपगमवशाद् यन्न वस्तुत्वसिद्धिः।

तत्प्रारब्धं यदिदमवयव्यादि वस्तुस्वरूपं 

दूराच्छन्नं कुत इह ततो भूतचैतन्यवादः॥५॥

न एव सिद्धयन्ति न सिद्धयन्ति न निष्पन्नीभवन्ति। कानि ? भूतानि पृथिव्यादीनि। कथंभूतानि ? अशून्यानि न सिद्धयन्ति किन्तु शून्यानि सिद्धयन्ति। कुतः ? प्रमितिबलतः प्रमाणबलात्। कथमेव निश्चितं न भवति। किम् ? यत्। कथंभूतम् ? वस्तु[त्व]सिद्धिः। कस्मात् ? एकानेकव्यपगमवशात् एकत्वानेकत्वाभाववशात्। कथम् ? यत् यस्मात् कारणात्। अस्ति। किम् इदम्। कथंभूतम् ? प्रारब्धम् आरहितम्। किम् ? तत्र(त्) कथंभूतम् ? अवयव्यादिवस्तुस्वरूपम्। पुनः कथंभूतम् ? दूराच्छन्नं दूरनष्टम्। कः ? भूतचैतन्यवादः प्रमाणचैतन्यवादः। कुतः ? कः (क्व) इह संसारे॥५॥

यद्यप्यास्ते बहुविधमते स्वीकृतं भूतवृन्दं 

सर्वेषामप्यनुभवगतं वर्तते सर्वकालम्।

नातो ग्राह्यं यदनुभवनात् स्वीकृतेरप्यसत्यं

किं नाकाशं ह्यवनतमिहाभासते सर्वजन्तोः॥६॥

आस्ते अस्ति समष्टि। किम् ? भूतवृन्दं पृथिव्यादिसमूहः। कथंभूतम् ? स्वीकृतं सम्मतम्। कस्मिन् ? बहुविधमते। कथम् ? यदि कथमपि वर्तते प्रवर्तते। किम् ? भूतवृन्दम्। कथंभूतम् ? अनुभवगतं  संवेद्यमानम्। केषाम् ? सर्वेषां मनुष्यादीनाम्। कथम् ? सर्वकालं सर्वदा। कथमपि निश्चितं न भवति। किम् ? असत्यं मिथ्यात्वम्। कथंभूतम् ? ग्राह्यम् ? कस्य ? स्वीकृतेः संमतेः। कस्मात् ? यदनुभवनात् यस्य वेदनत्वात्। कुतोऽविचारणात्। ना[भा]सते न प्रकाशते। किम् ? आकाशम्। कथंभूतम् ? अवनतम् आनतम्। कस्य ? सर्वजन्तोः सर्वप्राणिनः। क्व ? इह संसारे। कथम् ? किम्॥६॥

किञ्चान्यस्य व्युपरममतिर्यावदन्यत्र न स्या-

न्नासंकीर्णं व्यवहृतिपथं याति किञ्चिच्च तावत्।

सा चान्यस्य व्युपरतिरिहान्यस्य बोधेः समन्तात् 

तत्स्वीकारे सकलसकलज्ञो भवेदेकवेत्ता॥७॥

न स्यात् न भवेत्। का ? व्युपरममतिः विचरितमतिः। कस्य ? अन्यस्य अपरस्य। कथम् ? किञ्च भूयः पुनरपि। कुत्र ? अन्यत्र। कथं यावत् न याति न व्रजति। किम् ? किञ्चित्। कम ? व्यवहृतिपथं व्यवहारमार्गम्। कथंभूतम् ? असंकीर्णम्। अतीवस्वल्पतरम्। कथं तावत् कथञ्च पुनः भवति। का ? सा व्युपरतिः अभावता। कस्य ? अन्यस्य। क्व ? इह संसारे। कथञ्च ? कस्याः ? बोधेः कस्य अन्यस्य। कुतः ? समन्तात् सर्वत्र। भवेत् भवति। कः ? कश्चित्। एकवेत्ता अद्वयज्ञाने (नी)। पुनः कथंभूतः ? सकलसकलज्ञः सर्वाकारज्ञः। क्व सति ? तत्स्वीकारे सति तत्संमते सति॥७॥

दृश्याभावो यदिह गमकः केवलो न ह्यभावो

निःसम्बन्धो न खलु विदितः क्वापि यस्मान्निषेधः।

अन्योन्यापाश्रयणशरणाद् भेदसिद्धेर्वियोगात् 

सर्वा भ्रान्त्या(न्ता)व्यावहृतिरियं स्वप्नतुल्यैव तस्मात्॥८॥

न भवति। कः ? अभावः। कथंभूतः ? केवलोऽद्वयः। पुनः कथंभूतः ? दृश्याभावो विद्यमानवस्त्वभावः। पुनः कथंभूतः ? गमकः इन्द्रियज्ञानगोचरः। क्व ? इह संसारे। कथम् ? यत् न भवति। कः ? निषेधः परिहारः। कथंभूतः ? निःसम्बन्धः सम्बन्धरहितः। कथंभूतः ? विदितः ज्ञातः। क्वापि कुत्रापि। कस्मात् ? यस्मात्। कथं खलु अस्ति ? का ? इयं व्यवहृतिः व्यवहारः। कथंभूता ? सर्वा। पुनः कथंभूता ? भ्रान्त्या(न्ता) विभ्रमा। पुनः कथंभूता ? स्वप्नतुल्यैव स्वप्नसदृशी। कस्मात् ? तस्मात्कारणात्। कथमेवं निश्चितम्। कस्मात् ? वियोगात् विशेषात्। कस्याः ? भेदसिद्धेः विशेषसिद्धेः। कस्मात् ? अन्योऽन्यापाश्रयणशरणात् परस्पराश्रयणानुशरणात्॥८॥

गत्यागत्यादिकमिह यथा वस्त्वभावेऽपि मोहाद्

मायास्वप्नप्रतिममपरं जन्म चास्ते तथैव।

तन्मिथ्यादृक्पतितवचनात् संशयं चाप्यपास्य

प्राज्ञैर्योगाभ्यसनविधिना जन्मनाशो विधेयः॥९॥

अस्ति। किम् ? गत्यागत्यादिकं गमनागमनादिकम्। क्व ? इह संसारे। कस्मिन् ? वस्त्वभावे द्रव्याभावे। कथमपि कथम् ? यथा। कस्मात् ? मोहात् अविद्यावशात्। आस्ते समस्ति। किं तत् ? अपरम्। अपरं किम् ? जन्म। कथं च कथंभूतम् ? मायास्वप्नप्रतिमं मायास्वप्नसदृशम्। कथम् ? तथैव यथैव। कस्मात् ? मिथ्यादृक्पतितवचनात् नास्तिकमतानुसारात्। विधेयः विधातव्यः कर्त्तव्यः। कः? जन्मनाशो उत्पत्तिनाशः किं कृत्वा ? अपास्य परिहृत्य। कैः ? प्राज्ञैः पण्डितैः। केन ? योगाभ्यसनविधिना। कम् ? संशयं संदेहताम्। कस्मात् ? मिथ्यादृक्पतितवचनात्। कथं च कथमपि॥९॥

मिथ्यात्वेनाप्यखिलजगतां कर्मवैचित्र्ययोगाद्

वैशिष्टयस्य स्फुटमनुभवो यद्वदास्ते जनानाम्।

योगाभ्यासादपि भवभयत्यागसिद्धेर्विशेषः 

सिद्धयेत् तद्वत्पृथुतरगुणग्रामलिङ्गेक्षणेन॥१०॥

आस्ते समष्टि(स्ति)। कः ? अनुभवोऽनुभूतिः। केषाम् ? जनानां लोकानाम्। कस्य ? वैशिष्टयस्य विशेषस्य। किंवत् ? यद्वत्। कथम् ? स्फुटम्। कस्मात् ? कर्मवैचित्र्ययोगात् शुभाशुभविचित्रयोगात्। केन ? मिथ्यात्वेन ? केषाम् ? अखिलजगतां सकलसंसाराणाम्। कथमपि निश्चितं सिद्धयेत् सिद्धयति। कः ? विशेषः भेदः। कस्याः ? भवभयत्यागसिद्धेः संसारभीतिपरिहारादनुकथितसिद्धेः। कस्मात् ? योगाभ्यासात् योगसाधनात्। केन ? पृथुतरगुणग्रामलिङ्गेक्षणेन महद्गुणसमूहचिह्नावलोकनेन। किंवत् ? तद्वत् तथैव। कथमपि॥१०॥

कायैश्वर्यं प्रथमत इदं दिव्यकायस्य लाभाद्

वागैश्वर्यं तदनुकथिता वक्तृता वाक्यसिद्धेः।

चित्तैश्वर्यं स्ववशकरणादिन्द्रियाणां सुखेन 

प्राणैराद्यैः स्ववशजनितैरित्थमित्यग्रसिद्धेः॥११॥

अस्ति किम् ? इदं कायैश्वर्यं शरीरस्वातन्त्र्यम्। कुतः ? प्रथमतः आदौ। कस्मात् ? लाभात् प्राप्तितः  कस्य ? कायस्य दिव्यशरीरस्य। अस्ति। का ? वक्तृता अनुकथितसिद्धेः। कथंभूता ? अनुकथिता किं तु उक्ता। किं तत् ? तत् किं ? वागैश्वर्यम्। कस्याः ? वाक्यसिद्धेः वचनसिद्धेः वचनसिद्धेः। अस्ति। किम् ? चित्तैश्वर्यं चित्तायति। कस्मात् ? स्ववशकरणात् आत्मायतिकरणात्। केषाम् ? इन्द्रियाणां चक्षुरादीनाम्। केन ? सुखेन। भवति। का ? अग्रसिद्धिः। कैः ? प्राणैः आद्यैः कथंभूतैः ? स्ववशजनितैः सद्भिः स्वतन्त्रोत्पन्नैः। कथम् ? इत्थम् अनेन प्रकारेण। कथं इति॥११॥ 

योगाभ्यासाचरणविरहात् स्थूलसत्कायदृष्टिः

क्लिष्टोऽशेषव्यसनवशगः प्राणहानिः क्रमेण।

देहत्यागात् पुनरपि भवेद् वासनाबद्धचित्तः

स्वप्नप्रख्यो व्रजति पुनरप्येवमित्याद्यनन्तम्॥१२॥

भवति। कः ? लोकः। कथंभूतः स्थूलसत्कायदृष्टिः कस्मात् ? योगाभ्यासाचरणविरहात्। भवति। कः ? योगी। अशेषव्यसनवशगः अनन्तदुःखप्राप्तः। कथंभूतः ? क्लिष्टः रोगयुक्तः। भवति। काः ? प्राणहानिः केन ? क्रमेण क्रमशः। भवेत् भवति। कः ? लोकः। कथंभूतः वासनाबद्धचित्तः। कस्मात् ? देहत्यागात् देहविनाशात्। कथम् ? पुनरपि। व्रजति गच्छति। कः लोकः। कम् ? आद्यनन्तं जन्मानन्तम्। कथम् ? पुनः अपि। एवम् अमुना प्रकारेण॥१२॥

यस्मात्सर्वा बहिरिह मरुन्मण्डलानां प्रवाहात् 

स्वाङ्गाभोगो रविशशभृतो रुद्रसंख्यः सपादः।

षट्पञ्चाशदिषुगुणितसंक्रमात् स्यात् सपादः

नाडीच्छेदः प्रतिदिनमितः स द्विसंख्याक्रमेण॥१३॥

भवति। क ? स्वाङ्गाभोगः। कयोः ? रविशशभृतोः सूर्यचन्द्रयोः। कस्मात् ? प्रवाहात् वहनात्। केषाम् ? मण्डलानां वायुमण्डलानाम्। क्व ? इह शरीरे। कथंभूतः स्वाङ्गाभोगः ? सर्वाबहिः सर्वान्तर्गतः कस्मात् ? यस्मात् कारणात्। पुनः कथंभूतः ? रुद्रसंख्यः एकादशगण्यः। कथंभूतः ? सपादः सैकः। स्यात् भवेत्। कः ? सः स्वाङ्गाभोगः। कथंभूतः  ? सपादः चतु[र्थांश सहितः]। कस्मात् ? इषुगुणितसंक्रमात् बाणगुणितसंक्रान्तितः। कस्मात् ? षट्पञ्चाशत् षडुत्तरपञ्चाशत्। भवति। कः ? सः नाडीच्छेदो नाडिकानाशः। केन ? द्विसंख्याक्रमेण द्वित्वगणनानुक्रमेण। कथम् ? प्रतिदिनं प्रतिवासरम्। कुतः ? इतः संक्रान्तितः॥१३॥

द्वासप्तत्याख्यमिह सकलं नाडिकानां सहस्रं

कालग्रस्तं तदपसरणाभावतः स्याच्छताब्दात्।

तेन श्रुत्यादिषु च पुरुषो वर्णितोऽसौ शतायुः

स्वैः स्वैर्मासैरसुरसुरमर्त्यादिभिन्नः समस्तः॥१४॥

भवति। किम् ? सहस्रम्। कासाम् ? नाडिकानां नाडीनाम्। कियत् ? द्वासप्तत्याख्यम्। क्व ? इह देहे। कथंभूतम् ? सकलं समष्टं (स्तं)। पुनः कथंभूतम् ? कालग्रस्तं मृत्युग्रस्तं स्यात् भवेत्। कः ? असौ पुरुषः। कथंभूतः ? वर्णितः समुच्चारितः। कस्मात् ? शताब्दात् शतवर्षात्। केषु ? श्रुत्यादिषु वेदादिषु। कथं च केन ? तेन कारणेन। कस्मात् ? तदपसरणतः नाडीविनाशाभावात्। कथंभूतः पुरुषः ? शतायुः शतवर्षायुः। कैः ? स्वैः स्वैः आत्मगतैः वर्षैः। कथंभूतः सन् ? असुरसुरमर्त्त्यादिभिन्नः दैत्यदेवमनुष्यादिभिन्नः। पुनः कथंभूतः ? समस्तः॥१४॥

यद्वदृक्षं तरणिरखिलं नैव चन्द्रं तिथिं च

प्रौढ भोक्तुं वहनपरिपाटयैव सर्वत्र राशौ।

कालोऽशेषं भ्रमति तदिदं राशिचक्रं क्रमेण

प्रायो देहे रविशशधरौ वातचक्रं तथैव॥१५॥

न भवति। कः ? तरणिः आदित्यः। कथंभूतः ? प्रौढः समर्थः। किं कर्त्तुम् ? भोक्तुमत्तुं भक्षितुम्। किम्  ऋक्षं न क्षत्रम्। न केवलमृक्षं चन्द्रं च। न केवलं चन्द्रं तिथिं वा। कथंभूतम् ? अखिलं समष्टं(स्तम्)। कथम् ? एव निश्चितम्। कया ? वहनपरिपाटया गमनानुक्रमेण। कुतः ? राशौ सर्वत्र। किं वत् ? यद्वत्। भ्रमति गच्छति। कः ? कालो राहुः किम् ? इदं राशिचक्रम्। कथंभूतम्? अशेषं सर्वम्। कथम् ? तत् ततः। केन ? क्रमेण अनुक्रमेण। कस्मिन् ? देहे शरीरे। कथम् ? प्रायो बाहुल्येन। कथम् ? तथैव। भवति च। कः ? कालो राहुः। कथंभूतः ? प्रौढः समर्थः। किं कर्तुम् ? भोक्तुम् आ(खा)दितुम्। कौ ? रविशशधरौ। न केवलं रविशशधरौ वातचक्रं वायुसमूहं च॥१५॥

काये पुष्टेऽप्यतिखरकरा यौवने शक्तिरन्त-

र्नाडीं प्राप्योपरि परिगता चन्द्रमादाय मूर्ध्नि।

वज्राद्बाह्यं नयति पुनरभ्येति चोष्णीषचक्रं

नाडीनाशात् सवलिपलितः कालचक्रं प्रयाति॥१६॥

नयति प्रापयति। का ? शक्तिः। कम् ? चन्द्रं बोधिचित्तम्। किम् ? बाह्यं बहिः। कस्मात् ? वज्रात् कुलिशात्। अभ्येति च आगच्छति च। किम् ? उष्णीषचक्रं वैमल्यचक्रम्। किं कृत्वा ? आदाय गृहीत्वा। कस्मिन् ? मूर्ध्नि मस्तके। पुनः किं कृत्वा ? प्राप्य। काम् ? अन्तर्नाडीम् अभ्यन्तरनाडिकाम्। कथंभूता सती ? परिगता सती परिप्राप्ता सती। क्व ? उपरि उपरिष्टात्। कथंभूता ? अतिखरकरा अतिशयतीक्ष्णतेजा। कस्मिन् ? यौवने तारुण्ये। क्व सति ? काये पुष्टे सति चन्द्रे पूर्णे सति। कथमपि च पुनः प्रयाति प्रगच्छति। कः ? प्राणी। किम् ? कालचक्रं मुखम्। कथंभूतः सन् ? सबलिपलितः सन् आकुञ्चितत्वक्पक्वकेशः सन्। कस्मात् ? नाडीनाशात् नाडिकापरिशोषात्॥१६॥

 त्यक्त्वा शृङ्गारजमपि सुखं चन्द्रसूर्योपरागं

चण्डाल्येषा निभृतमनिशं द्रावयेच्चन्द्रधातुम्।

यावज्जीर्णादिकमिह शिशुब्रह्मचर्यादपि स्यात्

तस्माच्छक्त्याकुलितवपुषो देहिनः कालवश्याः॥१७॥

द्रावयेत् स्रावयेत्। का ? एषा चण्डाली मध्यमा। कम् ? चन्द्रधातुम्। कथम् ? अनिशं निरन्तरम्। पुनः कथम् ? यथा निभृतं निःशब्दम्। किं कृत्वा ? त्यक्त्वा परिहृत्य। किम् ? सुखम्। कथंभूतम्। शृङ्गारजं शृङ्गारोद्भवं। कथमपि निश्चितम्। पुनः कथंभूतम् ? चन्द्रसूर्योपरागं चन्द्रसूर्यग्रसनकालम्। स्यात् भवेत्। किम् ? जीर्णादिकं बुद्धत्वादिकम्। क्व ? इह शरीरे। कथं यावत्। कस्मात् ? शिशुब्रह्मचर्यात् षोडशाब्दाधो ब्रह्मचर्यात्। कथमपि भवन्ति। के देहिनः प्राणिनः कथंभूताः ? कालवश्याः मृत्युवशगाः। पुनः कथंभूताः ? शक्त्याकुलितवपुषः विकलीकृतशरीराः। कस्मात् ? तस्मात् जीर्णत्वात्॥१७॥


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project