Digital Sanskrit Buddhist Canon

तत्त्वज्ञानसंसिद्धिटीका

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Milan Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

तत्त्वज्ञानसंसिद्धिटीका


प्रं नमः श्रीभगवत्यै वज्रवाराह्यै॥


आनन्दाम्बुधिमण्डनादुपगता सम्बुद्धलक्ष्मीरसौ।

सर्वाकारगुणान्विता जगदधध्वा न्तौघविध्वंसिनी॥

ज्योतिर्ज्ञाननिधेधृतिः स्मृतिनिधेः शान्तिर्मनीषानिधेः।

पायाद्वज्रविरासिनी भगवती लोकत्रयं दुर्गतेः॥ १॥


श्रीवज्रदेवीपदपद्मरेणु, राजिं नमस्कृत्य गुरोः पदं च॥

श्रीसम्बरं संवृतबोधिचित्तं, प्रज्ञाकृपाद्वैतपदं प्रशस्तम्॥ २॥


वज्रदेवीपदद्वंद्ववन्दनानन्दवर्त्तिना॥

भिक्षुणा ज्ञानेन्द्रेण चन्द्रेवसुबशर्मणा॥ ३॥


साधनं वज्रवाराह्याः स्वार्थंकिञ्जिद्विभज्यते॥

सुभाषितप्रदे नित्यं मतिः कल्पनसोत्सुत्का॥ ४॥


ततःश्रद्धापरेणेदं मन्दस्वल्पधिया मया॥

कर्त्तव्य न मम दोषो वीक्षणीयो महाजनैः॥ ५॥


आचार्य्यश्रीशून्यतासमाधिवज्रपादः श्रीवज्रदेव्याः साधनं कर्त्तुकामः प्रथमतो भगवतीस्वरूपगुणोद्भावेन द्वारेणाशीर्वादपरं श्लोकद्वयं करोतिस्म॥ 


ओं नमः श्री वज्रवाराह्यै


उद्याता तलचक्रतोऽनिलधुता विद्युच्छटाभास्वरा,

दग्धात्रितया त्रिलोकमहिता पीयूसधाराप्लुता॥

बुद्धज्ञानसाविला विकलुषा स्वानन्दसन्दोहदा

भावाभावविचारणाविरहिता वाराहिका पातु वः॥१॥


उद्यातेत्यादि॥ वो युष्मान्वाराहिका पातु इति सम्बन्धः॥ वरं बोधिचित्तं आहिनोतीति वाराही, हि गतौ। आङ्पूर्वात्, संज्ञायां अणू। पृषोदरादित्वादात्वं। महासुखचक्रस्थितं भगवन्तमन्वेतीत्यर्थः। बोधिचित्तभगवतोर भेदात् कीदृशी भगवती। उद्याता ऊर्धगता, कस्मात्तलचक्रतो निर्माणचक्रतः॥ अनिलधुता अनिलेन वातेनापानसंज्ञातेन कम्पिता। विद्युच्छटाभास्वरा विद्युदिव सरागा निर्मला च्। दग्धालित्रितया दग्धं आलित्रितयं यया आलिशब्देन चक्रमभिधीयते सधर्मसंभोगमहासुखाख्यं दग्धं तद्विकल्पापगमात्। त्रिलोकमहिता त्रिभिर्ल्लोकैः कामरूपावचरैर् महिता पूजिता अत एव पीयुषधाराप्लुता, पीयूषं बोधिचित्तं, तस्य धाराप्लुता स्नापिता, बाह्येपि पूजाजलादिभिःक्रियते। अत्र च बोधिचित्तं धारेव जलस्नानं। बुद्धज्ञानरसाविला, बुद्धज्ञानं सदसदादिविकल्परहितं तदेव रसस्तेन आविला क्लुषं बोधिचित्तं च्युतिरभिधीयते। अत एवं विरागोत्पत्तिः। "च्युतेर्विरागसंभूतिर्विरागाद् दुःखसंभव" इतिप्रवचनात् तदेवदुःखं यत्संसारावाकं कर्मतः। च्युतेरेव संभवति॥ तथाच। "नविरागात्पर पापं न पुण्यं सुखतः परमिति॥ स्वानन्दसन्दोहदा सुष्ठु आनन्दसन्दोहः स्वानन्दसन्दोहस्तं ददातीति। सर्वजनायेतिशेषः। भावाभावविचारणाविरहिता। भावः शाश्वतग्रहः, अभाव उच्छेदग्रहस्तयोर्विचारणा, तया विचार रहिता अत्यन्तआनन्दनिर्भरत्वात्॥ १॥ 


निर्माणालिदिनेशमण्डलगता काद्यादिवर्णावृता,

प्रज्वालज्वलनोज्वलामृतसवा सूक्ष्माब्जसूत्रोपमा

विद्यावुद्धकदम्वकं दहति या चक्रत्रयोर्भेदिनी

सानन्दा ललितोर्द्धगा स्फुरतु वो वाराहिका चेतसि॥ २॥


निर्माणालीत्यादि। वो युष्माकं चेतसि वाराहिका स्फुरत्विति संबन्धः॥ निर्माणालिदिनेशमण्डलगता निर्माणचक्रसूर्य मण्डलगतेत्यर्थः। काद्यादिवर्णावृता, प्रज्ञास्वभावेयं वज्रवाराही प्रज्ञाच संकरं वाह्य य व्याप्ता भगवती॥ प्रज्वालज्वलनोज्वला अत्यन्तभास्वराकारत्वात्। समस्तपापान्धदहनाच्च। अमृतसवा अमृतं बोधिचित्तं तेन सवःस्नानं यस्याः सूक्ष्माब्जसू त्रोपमा, सूक्ष्मं अब्जसूत्रं मृणालसूत्रं तदेवोपमा यस्याः। अवधूतीस्वरुपत्वात् अनुलम्भज्ञानसूचनाच्च अनुलम्भज्ञानसूचनाच्च। विद्याबुद्धक दम्बकं दहति या विद्यालोचनादयः पृथिव्यादिस्वभावाः बुद्धा वैरोचनादयो तयोर्मेलकं दहति। अनुलम्भप्रवेशयति। तथाच हेवज्रे॥ "चण्डाली ज्वलिता नाभौ दहति पञ्च तथागतान्। दहति लोचनादींश्च दग्धोहं स्रवते शशी"। ततश्चण्डाली स्वरूपेयं भगवती। चक्रत्रयोर्भेदिनी धर्मसंभोगमहासुखचक्रोर्ध्वगमनात्॥ अत एव सानन्दा ललिता सर्वाकारवरोदयात् ऊर्ध्वगा ऊर्ध्वतो सततं महासुखचक्रगमनादिति॥ २॥


प्रणिपत्य वज्रपूर्वां वाराहीं वज्रयोगिनीम्।

शिरसा स्वस्मृतये वक्ष्येऽहं तत्त्वज्ञानस्य संसिद्धिम्॥ ३॥


प्रणिपत्येत्यादि। तत्त्वज्ञानस्य संसिद्धिं वक्ष्ये इति सम्बन्धः। तस्य स्वभावस्तत्वं। अनुत्पादलक्षणं अनुत्पाद तत्व इति वचनात्। तस्य ज्ञानं सम्यगवबोधं तस्य सम्यक्सिद्धिमभिधास्ये वाराहीं प्रणिपत्य वज्रपूर्वां वज्रवाराहीमित्यर्थः। वज्रयोगिनीं वज्रमनुपलम्भज्ञानं तेन सह योगो अस्यास्तीति। शिरसा उत्तमांगेन। किमर्थं वक्ष्ये स्वस्मृतये आत्मस्मरणायेत्यर्थः। औद्धत्य परिहार एव आचार्य्यवरस्य॥ ३॥


विजनमनोऽनुकूलस्थानं नाथांककः प्रविशेत्सुधीः॥

तत्र सुकुमारमासनमुपविश्य विभावयेच्छुद्धिं॥ ४॥


प्रथमतः स्थानसंपत्तिमाह॥ विजनमित्यादि शुद्धिं भावयेदिति सम्बन्धः॥ शून्यतां भावयेदित्यर्थः। सर्वेषामेव वस्तूनां विशुद्धिस्तथता मतेति न्यायात्-अनादिकालसंचितविकल्पसमूह परित्याग एव प्रयोजनं। शून्यताभावनायाः विजनं स्थानं प्रविश्य जनरहितं, एकाकिनैव चित्तसमाधानकारणं विजनमपि स्थानंयथा कथंचिद्भवति। न चित्तसमाधानाय। अत आह मनोऽनुकूल यत्र चित्तस्थिरता भवति, तत्र कृत्वा। आसनमुपविश्य आसनमपि सामान्यं नसुखकारि अतो विशिष्यते सुकुमारं कोमलं किंविशिष्टं सन्नाथाङ्ककः नाथः स्वकीयो गुरुः तेनाङ्कितं लक्षितं शिरो यस्य स नाथाङ्ककः। अथवा वैरोचनाङ्कितमस्तकं। सुधी पण्डितः। एवं विधेऽर्थे प्राज्ञस्यैवाधिकारात् अथ विशेष्तु कथ्यते। विजनं विगतो जनोपलम्भो यत्र विजनं महामुखं लक्षणमित्यर्थः। अत एव मनोऽनुकूलं महासुख एव चित्तस्यैकाग्रतासंभवात्। स्थानं स्थीयते तत्रेति स्थानं महासुख एव जगतोऽवस्थानात्। सर्वसुखमयं जगदिति वचनात्। नाथाङ्ककः नाथो वज्रगुरूस्तस्याङ्कश्चिह्नं चतुर्थक्षणस्तत्र कं सुखं यस्यस नाथाङ्ककः अत‍एव सुधीः तदपि कारणसव्यपेक्षं। तत्र कारणमाह। सुकुमारमासनमुपविश्य आसनं धर्मोदया। सुकुमारमित्यनेन प्रथमयौवनोपेतं दर्शयति तत्रैव महासुखोदयसम्भवात्। उपविश्य द्वंद्वमापद्य। अत्रोच्यते यदि तदपि सुखं कारणसव्यपेक्षं, तत्कथं महासुखमित्युच्यते, यत्कारणाधीनं तदनित्यं, तत्कथं सुखम्। तथाचाऽनित्यस्य ध्रुवा पीडा पीडा यस्य न तत्सुखमिति। अत्रोच्यते। सत्यमेतत्किंतु सकारणमिति। यदुक्तं तत्संवृत्याकार्यकारणभावमुदिश्य लोको बुध्यते। तथाचार्यदेवपादाः॥ "नान्यया भाषया म्लेछः शक्यो ग्राहयितुं यथा॥ न लौकिकमृते लोकः शक्यो ग्राहयितुं तथेति"॥ यच्च सुखमनुत्पाद लक्षणं तत्कालसहितं वा कालहितं वेति रूप्यते। तस्य बुद्धेरगोचरत्वात्। "बुद्धेरगोचरं तत्वं इति न्यायात् ततश्च स्थित मेतत् यद्वस्त्संवृतौ कार्य कारणभावव्यपदेश इति॥ ४॥


तदनु च षष्ठजिनेन त्र्यक्षरजप्तेन वज्रधरहृदयं॥

संलिरव्यानामिकया, लोहितकुसुमार्चितं कुर्यात्॥ ५॥


तदनु चेत्यादि। वज्रधरहृदयं लोहितकुसुमार्चितं कुर्यात्॥ वज्रं अभेद्यज्ञानं तद्धारयतीति वज्रधरः। सम्यक्सम्बुद्धः। तस्य हृदयमप्रकाश्यत्वात् धर्मोदयाभिधीयते। करवीरादिलोहितपुष्पैरर्चितं करणीयं। संलिख्यानामिकया वामहस्ताऽनामिकांगुल्येत्यर्थः। षष्ठ जिनेन षष्ठोजिनो वज्रसत्त्वो द्रव्यमभिधीयते। ततस्तदुत्पत्तेः कारणे कार्योपचारात्। त्र्यक्षर जप्तेन। ओं आः ह्।ऊण् इत्यनेन जप्तेन। द्वितीयेऽर्थे। वज्रधरस्य सम्बुद्धस्य हृदयं पङ्कजं अनामिकया संलिख्य वज्रेण संचाल्य तथाच श्री सम्बरनाथः। "अनामाङ्गुष्ठवक्त्राभ्यां लेहयेद्योगवित्सदा"। षष्थजिनेन षष्ठो वज्रसत्त्वस्तदुत्पत्तिहेतुत्वात्। बोधिचित्तमेव वज्रसत्तोऽभिधीयते कारणे कार्योपचारात्। तेनोपलक्षणभूतेन। न तु प्रज्ञाकमलोदयगतं बोधिचित्तं विधेयं। तदा महासुखा संभवात् तथाचादिबुद्धे। "पतिते बोधिचित्ते तु सर्वसिद्धिनिधानके। मूर्च्छिते स्कन्धविज्ञाने कुतःसिद्धिरतिंदितेति" त्र्यक्षरजप्तेन कायवाक्चित्ताभेदैकरूपेण महासुखावस्थागतेनेत्यर्थः॥ लोहित कुसुमार्चितं कुर्यात् तदीयरजसा पूजितं विदध्यात्॥ ५॥ 


तदनु परमाद्यपात्रे करकमलं दक्षिणेतरं क्षिप्त्वा

विदधीत सवनं यथोपदेशं शयस्पर्शात्॥ ६॥


तदनु विदधीत इति संबन्धः॥ वज्रमुपलम्भज्ञानं तदुत्पत्ति हेतुवात् द्रव्यमेवाभिधीयते। तेन सवनं स्नानं करणीयं॥ 


परमाद्यपात्र इत्यादि वज्रसवनं करकमलक्षिप्तो हस्तपद्म प्रक्षिप्य दक्षिणेतरं दक्षिणहस्तादन्यं वामहस्तमित्यर्थः। परमाद्य पात्रे परमाद्यं वज्रं तस्य पात्रं तत्र यथोपदेशं उपदेशानतिक्रमेण। त्र्यक्षरेण द्रव्यं परिशोध्य शयस्पर्शात् अस्यायमभिप्रायः। करगतदेवतागतणसंतर्प्पणात्। तत्रवृद्धायां हांयोँ। तर्जन्यां ह्री मोँ। मध्यमायां ह्रेँ ह्रीँ। अनामिकायां हुँह्नँ। कनिष्ठिकायां फट् २॥ हस्तमध्ये ओं वं। विन्यस्य तर्प्य च वामहस्तेन भगवती मंत्रेण द्रव्यमात्मनोऽङ्गप्रत्यङ्गं भावयेत्॥ द्वितीयार्थे। परमाद्य पात्रे परममुत्कृष्टत्वात् आद्यं सुखस्यादिकारणभूत्वात् तदेवपात्रं सुखस्याधारभूतत्वात्। विद्यापंकजमेवाभिधीयते। तत्र पात्रे निमित्तीभूते करकमलकं सुख रात्रीतिलकं बोधिचित्तमुपद्यते तदेव कमलं विवुद्धत्वात् स्पृहणीयत्वाच्च श्रेष्ठगुणयुक्तत्वाच्च। अत एव दक्षिणेतरं दक्षिणेपि रजोधातुरस्ति। ततोऽन्ये चन्द्रधातु हं क्षिप्त्वाऽवधूतिवत्मनः उर्द्ध्वमुत्क्षिप्य विदधीत वज्रसबनं अवधूतिगतं यदा बोधिचित्तं भवेत्तदा वज्रमभिधीयते। तेन सवनं स्नानं कुर्यात्। महासुखचक्रं बोधिचित्तं नयेदिति। यथोपदेशं गुरुपदेशत इति अत्र गुरुचरणः शरणीकरणीयः शयस्पर्शात् हस्तेन गुरुविद्यास्तेन स्पृशति तदेव सरागं चित्तं भवति यदा च सरागं चित्तं भवेत् तदानीमवधूतिविकाशो भवति। यदाऽवधूतिविकाशःस्यात्तदैव महासुखचक्रमभिव्याप्तोभिबोधिचित्तमिति॥ ६॥


प्रविधाय करन्यासं वृद्धाङ्गुष्ठाङ्गुलिसमायोगात्

कुर्वीताङ्गन्यासं षड्भिवीरेश्वरीमन्त्रैः॥ ७॥


प्रविधायेत्यादि। अङ्गन्यासं कुर्वीतेति सम्बन्धः॥ प्रविधाय करन्यासं। उक्तक्रमेणैव षड्देवतामन्त्रेण करन्यासं कृत्वा वृद्धाङ्गुलिसमायोगात् वामहस्तेन वृद्धानामिकाभ्यां द्रव्यं गृहीत्वा हस्तमभिम्रक्ष्य ततोङ्गन्यासं कुर्वीत॥ षड्भिर्वीरेश्वरीमन्त्रैः॥ तत्र ओं वँ नाभौ रक्तवर्णवाराहीदेव्युपलक्षकं हाँयोँ हृदि नीलवर्ण यामिनीदेव्युपलक्षणं। ह्रीँमोँ वक्त्रे सितवर्णमोहिनीसमुपलक्षकं। ह्रेँह्रीँ शिरसि पीतं संचारिणीसमुपलक्षकं। हुँहूँ शिखायां हरितवर्णसंत्रासिनीदेव्युपलक्षकं। फट्फट् ललाटे धूम्रवर्णचण्डिकादेव्युपलक्षकं॥ मन्त्राक्षरं विन्यसेत्। मन्त्रदेवतयोरभेदात्। अथवा तदक्षरं तत्तदक्षरपरिणामेन देवता एव भावनीयाः॥ ततो वज्रवाराही रक्तवर्णा त्रिमुखा षड्जा मूलमुखं रक्तं वामे नीलं दक्षिणे हरितं वामे कपाल खट्वाङ्गधरं पाशधारिणी दक्षिणेऽङ्कुशब्रह्ममुण्डकर्त्तिधारिणी आलीढपदा यामिनी नीलवर्णा एकमुखा चतुर्भुजा वामे कपाल खट्वाङ्गघण्टा दक्षिणे कर्त्तिधारिणी। मोहिनी संचारिणी संत्रासिनी चण्डिका सितपीतहरितधूम्रवर्णा एकवक्ता चतुर्भुजा सर्वासामेव वामे कपालखट्वाङ्गघण्टाः दक्षिणे डमरूकर्त्तिकाः सर्वा एवालीढपदा मुक्तकेशिन्यः त्रिनेत्रा या शुक्ला साचन्द्रप्रभा चन्द्रमण्डलिनी अन्या सूर्यप्रभा सूर्य्यमण्डलिन्यः॥ द्वितीयोऽर्थः॥ कं सुखं करोतीति करो बोधिचित्तं तस्य न्यासं सर्वाङ्गव्यापनं वृद्धाङ्गुलीसमायोगात्॥ प्रज्ञापंकज सुवज्रयोगात् "अनामाङ्गुष्ठवक्त्राभ्यां लेहयेद्योगवित्सदेवेति वचनात्"॥ "भगे लिङ्गं प्रतिष्ठप्य बोदिचित्तं न चोःसृजेत्। भावयेद्बुद्धविम्वम्वै त्रैधातुकमशेषतः" इति न्यायात्। कुर्वीताङ्गन्यासं षड्भिर्वीरेश्वरीमन्त्रैः॥ विशुद्धभवतीरूपं वक्ष्यमाणं षड्देवता परमोनुघटितं। झटिति शून्यतानन्तरं समालक्षणीयं शून्यताभावनानन्तरं श्रीवज्रदेवीरूपमारक्षांगन्यासादिकं विधाय वज्रधरहृदयं लिखित्वा लोहितकुसुमार्चितं करणियमिति बोधव्यं॥ ७॥


तदनु चक्रवज्रधरोपरि रङ्गारूणयोगजसमममन्त्रं।

भुजगभवैः सुविशिष्टैः सिचयगतैरवकिरेच्छनकैः॥ ८॥


तदनु वज्रधरोपरीत्यादि अमन्त्रमवकिरेदिति सम्बन्धः। अमन्त्रं पात्रमुच्यते रंगारुणयोगजं रंगो वङ्गोऽरुणं ताम्रं तयोर्योगो मेलकस्तत्र जातं रङ्गारुणयोगजं कान्स्यमित्यर्थः। समं वैषम्यादिदोषरहितत्वात् कुत्रावकिरेद वज्रधरोपरि वज्रं द्रव्यं धारयतीति वज्रधरः तस्योपरि मदनसहितनृकपालोपरीत्यर्थः॥ भुजगभवैः भुजगो नागः शीशकमित्यर्थः। तत्रभवैः सिन्दूरैः सुविशिष्टैरुत्कृष्टैः सिचयगतैः सिचयो वस्त्रान्तर्गतैः। अत्रोपदेशः रजस्वलावस्त्र उत्कृष्टसिंदूरेण दोलापटयन्त्रेण तर्जन्यांगुल्या काम्स्यपात्रमवकिरेत्। शनकैरिति। द्वितीयोऽर्थः। वज्रमद्वयज्ञानं धारयतीति वज्रधरः प्रज्ञापंकजं तस्योपरि रंगारुणयोगजं समं मन्त्रं रंगो रागयुक्तन्मन्यग्रमेव अरुणमिवारुणं विद्यापद्मकिंजल्कं तयोर्योगो मेलकः। तत्रजातरंगारुणयोगजं महारुणसहितं बोधिचित्तमित्यर्थः। अत एव समन्त्रं सकलविकल्पापगमादमन्त्र सर्वज्ञज्ञानस्य प्रतिष्ठाभात्वात्तदवकिरेद्भुजगभवैः सिन्दूररागैरित्यर्थः। सुविशिष्टैर्महारागैः सिचयगतैरिव सुप्रतिबद्धैरित्यर्थः शनकैः क्रमेण॥ ८॥ 


तत्र जिनहृदयचक्रं शिखिकोटिकं समभिलिख्य

तद्गर्भे मन्त्रालीं गाङ्गेयशलाकया विलिखेत्॥ ९॥


तत्रेत्यादि। मंत्रालीं विलिखेदिति सम्बन्धः। चक्रंसमभिलिख्य शिखिकोटिकं शिखिनो वन्हेरिव कोटिरग्रं यस्य तच्छिखिकोटिकं त्रिकोणमित्यर्थः। अत्रोपदेशः षडारमेव चक्रं लेखनीयं जिनहृदयं हृदयं तस्यापि हृदयं गुह्यज्ञानोत्पत्तिहेतुत्वात्। तद्गर्भे तच्चक्रमध्ये गाङ्गेयशलाकया सुवर्णशलाकया वामहस्तेनैव लिखितव्योऽयं मन्त्रः। द्वितीयोऽर्थः। जिनहृदयाहृदय विद्या कमलं तदेव चक्रं अशेषजिनज्ञानालयत्वात्। शिखिकोटिकं शिखिनः कोटियंत्रज्ञानाग्नितेजभूतत्वात्। समभिलिख्य सुवज्रेण सह संयोगमापद्य तद्गतस्यच गर्भो यस्योद्गर्भः सुनिर्माणचक्रं तल इत्यर्थः॥ मंत्रालीं विलिखेत् मनः संत्राणनान्मंत्रः बोधिचित्तं तस्यालिः पंक्तिः तां बोधिचित्तधारां अर्प्पयेत् गांगेयशलाकयेति। अवधूत्यास्तु सुवर्णलोहितत्वात् अवधूत्यामपि सरागत्वात् अतः सुवर्णस्य शलाकया समानता॥ ९॥


चक्रस्य वाह्यभागे पूर्वोत्तरपश्चिमार्किदिग्देशे।

सत्स्वस्तिकानभिलिखेत्क्रमेण वामहस्तेन॥ १०॥


चक्रस्येत्यादि। सत्स्वस्तिकानभिलिखेदिति सम्बन्धः। नन्द्या वर्त्तानिति चक्रस्य वाह्यभागे। पूर्वोत्तरपश्चिमार्किदिग्देशे पूर्व उत्तरपश्चिम दक्षिणक्रमेण वामावर्त्तेनापि वामेनापि हस्तेन। द्वितीयोऽर्थः। चक्रस्य वाह्यभागे निर्मानचक्रस्य वाह्ये पूर्वोत्तरपश्चिमार्किदिग्देशे सर्वत्रैवेत्यर्थः। स्वस्तिकानभिलिखेत्। शोभनस्वस्तिकं स्थितिर्यत्र सर्वत्रैवावधारणां कुर्यात्। क्रमेण शनैः शनैर्वामेन हस्तेन हस्तोधारणा कर्माः तत्साधर्म्यात् हस्तो वातस्तेन वामनासिकापुटस्थितेनेति॥ १०॥


आकृष्य वज्रदेवीम्प्रविश्य मन्त्राक्षरेषु वद्ध्वा परितोषयेत् 

सुविधानात् जः हुँ वँ होरिति पठित्वा॥ ११॥


आकृष्येत्यादि। वज्रदेवीं परितोषयेदिति सम्बन्धः। आकृष्य कनिष्ठभुवनवासिनीं भगवतीमाहृदयं प्रवेश्य मंत्राक्षरेषु वद्ध्वा विधानात्॥ तत्रायं विधिः। ज्वालामुद्रां वद्ध्वा वामावर्त्तेन ललाटे भ्रामयेत् उर्द्ध निरीक्षमाणः फेँकारपाठपूर्वकं जःहुँ वँ हो रिति पठित्वा तत्र जःकारेणाकर्मणः हुँकारेण प्रवेशनं वकारेण वंधनम् होकारेण तोषणम्। द्वितीयोऽर्थः आकृष्य वज्रदेवीं वज्रवाराही चण्डालीस्वरूपामाकृष्याऽबधूत्यां प्रवेश मंत्राक्षरेषुवद्ध्वा च मंत्रो बोधिचित्तं तस्याक्षराणि शून्यता तन्मयिकृत्य परितोषयेद्विधानात् पुनः पुनरेवं कुर्यात् यथाविशेषं सुगमं॥ ११॥ 


तदनु सपर्या विविधास्तस्या विदधीत मंत्ररूपायाः

भक्ष्यैर्भोज्यैर्लेह्यैः पेयैश्चोष्यैः सकामगुणैः॥ १२॥


तदन्वित्यादि। सपर्याम्विदधीतेति सम्बन्धः पूजां विदध्यादि ति सम्बन्धः। अर्थः। विविधां महतीं तस्या वज्रदेव्या मंत्ररूपाया दर्पणतले सिन्दूरघातपुरःसरं विलिखितायाः शेषं सुगमं॥ सकामगुणैरित्यादि विशिष्टतरैरित्यर्थः। द्वितीयोऽर्थः। सपर्यां पूजां विदधीत बोधिते बोधिचित्तेति बोधव्यं विविधां अविछिन्नबोधिचित्तधाराविनिर्मितां मंत्ररूपायाः शून्यतास्वभावायाः भक्ष्यैरित्यादि रूपादिभिरित्यर्थः। सकामगुणैर्महासुखसहितैरियमेव पूजा सर्वविकल्पशान्तये॥ १२॥


विविधैर्बलैः समदनैर्रुपहारैः पञ्चभिरतिपरार्ध्यैः॥


गीतैर्बाद्यैर्न्नृत्यैः प्रदक्षिणाप्रणतिनुतिभिश्च॥ १३॥


विविधैरित्यादि। विविधैर्बलैर्बहुभिर्बलैर्माम्सैः समदनैर्द्रव्यसहितैरुपहारैः पञ्चभिः मुद्रमाषामसुरकलाययवबोधूमैः अथ रूपशब्दगन्धरसस्पर्शैरिति परार्ध्यैरुत्कृष्टैः। गीतैर्वज्रगीतैः वाद्यैर्वीणादिभिर्नृत्यैर्वज्रपदनृत्यैः प्रदक्षिणाप्रणतिनुतिभिश्च ति सुबोधं॥ द्वितीयोऽर्थः। बलैर्माम्सोच्छयपञ्चस्कन्धैः सहोनुपलम्भप्रवेशःकर्त्तव्यः अत एव समदनैर्महासुखोपस्थागत बोधिचित्तैः शेषं यथारूपम्॥ १३॥


प्रतिदिवसं प्रतिपक्षं प्रतिमासं वा तिथौ दशम्यां॥

कुर्याद्यथोक्तपूजाविधिमस्याः सिद्धिमाकांक्षणः॥ १४॥


प्रतिदिवसमित्यादि यथोक्तपूजाविधिं कुर्यादिति सम्बन्धः। प्रत्यहम्वा प्रतिपक्षम्वा प्रतिमासम्वा दशम्यां तिथौ वा समसुधीः अस्या वज्रयोगिन्याः सिद्धिमाकांक्षणः। लौकिकलोकोत्तरां सिद्धि मनसि कुर्वाणः इयमेव भगवती सर्वसुखसन्दोहं ददातीत्यभिप्रायः॥ १४॥


इति श्रीतत्त्वज्ञानसंसिद्धौ मध्यमकरुचिभिक्षुश्रीध्यानचन्द्रविरचितायां महासुखप्रकाशिकायां टीकायां वाह्यपूजाविधिः प्रथमः॥ १॥


अथ कृतवाह्यार्चनविधिरुरुकरुणो निर्मितारिमध्याब्जे॥

व्यसुहृदयोष्णगुविम्वां ध्यायात्पूर्वोदितां देविम्॥ १॥


इदानीं वज्रवाराह्या भावनाविधिरुच्यते॥ अथेत्यादि ध्यायाद्देवीमिति सम्बन्धः। पूर्वोदितां दीपङ्करशाक्यमुनिप्रभृत्तिभिस्तथागतैः कथितां अथवा यथापूऱ्वां भावनां कालकथितां तां भावयेत्। उरुकरुणो महाकरुणः बोधिचित्तं संपूर्णकायं इत्यर्थः। निर्मितारिमध्याब्जो इति निर्माणचक्रमध्ये पंकजे व्यसुहृदयोष्णगुविम्व इति विगता असवः प्राणा यस्य सः व्यसुस्तस्य हृदयं। उष्णो गौ रश्मिर्यस्य स उष्णगुस्तस्य विम्वं व्यसुहृदय उष्णगुविम्वस्वहृदयोष्णगुविम्वां अस्यायमर्थः। निर्माणचक्र पद्मोपरि मृतकहृदये सूर्यविम्वभगवतीं ध्यायात्॥ एतदुक्तं भगवती बोधिचित्तं मन्यग्र गत्वा व्यावृत्य यदा निर्माणचक्रगत तं तदा यादृशं सुखमुत्पद्यते तत्सूचकः शवस्तस्य हृदयं शून्यता सूर्य्यविम्वन्तु निर्विकल्पज्ञानमार्तण्डद्योतकं सकलविकल्पान्धकारविध्वंसनात्॥ तत्र सर्वाकारे वरोपेतं शून्यतां ध्यायादिति॥ १॥ कीदृशीं॥


संध्यासिन्दूरवर्णां खरकरनिकरायास्तसप्तार्क्ककान्तीं

कर्त्त्रीं सर्वार्त्तिहंत्रीं स्फुरदमृतघृणीं विभ्रतीं सव्यदोष्णा॥

विभ्राणां वामदोष्णा कमलमतिसितं रक्तपूर्णध्वहाढ्यां

काल्या दम्भोलिकाल्या परिगतशिरसं मुक्तमूर्द्धोखहस्तां॥ २॥


संध्यासिन्दूरेत्यादि। संध्यासिन्दूरयोरिव वर्णा यस्यस्तां महारागस्योदयात् खरकरनिकरायास्तूसप्तार्ककान्तीं करस्तीव्रः करो रश्मिः खरश्चासौ करश्चेति खरकरस्तस्य निकरः समूहः खरकरनिकरेणायास्ता विध्वस्ता सप्तार्ककान्तिर्यया तां कर्तिविभ्रतीमिति सम्बन्धः। सर्वार्तिहंत्रीं सर्वामति पीडां हन्त्रीं रागादिक्लेशनिर्मूलनात् प्रज्ञाकर्तिदधानां स्फुरदमृतधृणीं स्फुरदनन्त रश्मिकां केन विभ्रतीं सव्यदोष्णा दक्षिणवाहुना दक्षिणे सूर्य्यधातोरवस्थानात् प्रज्ञायास्तीक्ष्णस्वभावत्वात् दक्षिणे कर्ति धारणं युक्तं किंच प्रज्ञा प्रज्ञाप्रहर्षेण मया महासुखचक्रें श्रीबोधिचित्तंविधृतमित्यपि दर्शयति कमलं विभ्राणामिति सम्बन्धः। कमलं महासुखद्योतकं अतिसितं बोधिचित्तरूपत्वात् रक्तपूर्णं महाशून्यतास्वभावत्वात्। ध्वजाढ्यां ध्वजेन खट्वाङ्गेन आढ्यो महति खट्वाङ्गधारणमवधूत्यां बोधिचित्तधारणसूचनं काल्या दम्भोलिकाल्या परिगतशिरसं कस्य मस्तकस्य आलिः पङ्क्तिस्तया काल्या शून्यपञ्चकपालधारणात् अनेन बोधिचित्तं धारणं महासुखचक्रे व्यक्तीकृतं दम्भोलिकाल्या दम्भोलिर्वज्रं बम्भोलिरेव दम्भोलिकः तस्यालिर्दम्भोलिकालिः तया दम्भोलिकाल्या परिगतं सवतोभावेन ज्ञातं शिरो यस्याः शून्यता समन्वितबोधिधारणं सूचितं ललाटे वज्रमालाधारणात् मुक्तमूर्द्धो खे हस्तां मुक्तं यथा भवति तथा उर्द्धेणोथो हस्तो यस्याः पुनः कीदृशं॥ २॥ 


मुण्डालीमण्डिताङ्गीं मुखगलदसृजं स्वादगुं मुक्तनादां,

सव्ये चोर्द्धकिरास्यां वरशुभगमनां क्रोधमूलाननान्तां॥

सानन्दां सानुरागां विविधरसयुतामर्द्धपर्य्यङ्कनृत्यां

मुद्राषण्मुद्रिताङ्गीं व्यपगतवसनां षोडशाब्दां वराङ्गीम्॥ ३॥


मुण्डालोत्यादि॥ आलिकालिधारणात् मुण्डाली मण्डिताङ्गीं मुखगलदसृजं मुखां गलदसृक रक्तं यस्याः स्कन्धादिचतुर्माराणां शून्यतारक्तपानात् स्वादगुं स्वादाः षट्स्वादै रूपलक्षितं गौचक्षुर्यस्याः षण्णेत्रामित्यर्थः। मुखद्वयश्रीवज्रदेव्याः प्रतिमुखे नेत्रत्रयः सम्वृत्ति परमार्थ सत्यां कालत्रयस्य सर्वाकारेण दर्शनात् मुक्तनादा अत्यत्तानन्दनिर्भरत्वात्। सव्ये चोर्द्धकिरास्यां दक्षिणे उर्द्ध सूकरमुखीं सम्वृत्तिविशुद्धितः संवृतेर्मोह स्वरूपत्वात् सूकरमुख धारणं सूकरस्य मोहनिर्जातत्वात् वरशुभगमनां क्रोधमूलाननात्ता शृङ्गारललितस्वभावत्वात् प्रधानमुखस्य सानन्दा सततं बोधिचित्तधारणात् सानुरागां अविछिन्नं महारागोदयात्। विविधरसयुतां नवनाद्यरसयोगात् अर्द्धपर्य्यङ्क नृत्या महासुखचक्रगमनात् मुद्राषण्मुद्रिताङ्गीं मुदं हर्षं रातीतिंमुद्राः मुद्राबद्भिर्मुद्रितमङ्गं यस्या श्चक्रीकुण्डलकण्ठिक रुचक मेखला सूत्रादिभिः षद्भिः षट्पारमिताविशुद्धितः व्यपगतवसनात् क्लेशज्ञेयावरणाप्रहाणात्। षोडशाब्दां षोदशशून्यताविशुद्धितः वराङ्गीं कल्पशतसहस्रसंचितपुण्यसंभारनिर्जातत्वात् भगवत्या कलेवरस्य॥ ३॥ 


ज्ञानाकर्षादिविधिः प्रागिव कृत्वा विधानविन्मन्त्री॥

स्वस्तिकमलिकाभिमुखं भ्रमन्तमेकं द्रूतं ध्यायात्॥ ४॥


ज्ञानाकर्षेत्यादि॥ स्वस्तिकं ध्यायादिति सम्बन्धः। उक्तक्रमेणाज्ञानचक्राकर्षणं विधाय मन्त्री विधानवित् यथाविधिज्ञः। अलिकाभिमुखं भ्रमरमुखसमीपभ्रमन्तं कुलालचक्रवत् एकंनद्वयं द्रुतं शीघ्रं॥ ४॥


तदनु वियद्वति धातौ त्रिकूटगिरिगह्वरे भ्रमच्चक्रं

प्रागुक्तमिव ध्यायाक्रक्तं जाज्वल्यमानं सत्॥ ५॥


तदन्वित्यादि॥ चक्रंध्यायादिति सम्बन्धः। प्रागुक्तमिव सिंदूरपूजायां यथाचक्रनिर्दिष्टं मन्त्राक्षरपरिपूर्णं तथैव वियद्वति धातौ आकाशयुक्ते धातौ धर्मोदयामित्यथः। त्रिकूटगिरिह्वरे त्रिदलपंकजमध्ये भ्रमत् कुम्भकारचक्रवद्वसत् उत्कृष्टवादिति॥


तत्र स्थिरमिवातिवेगान्निर्वातनिष्कम्पदीपमिव दीप्तं।

द्रावयेदुरुसुखचक्रं श्रवदमृतसारकृतसवनम्॥ ६॥


तत्र स्थिरमिवेत्यादि॥ तच्चक्रंध्यायादिति पूर्वोक्तेन सम्बन्धः। स्थिरमिवातिवेगात् अत्यन्त एव - निर्वातनिष्कम्पदीपमिव दीप्तमिति सुबोधं द्रावयेत्। उरुसुखचक्रं श्रवदमृत सारकृतवसन एतद्बोधिचित्त कृतस्थानं तचक्रं गुदमेढ्रान्तरं स्थितं भावनीयं। अत्रोपदेशः किंचिदभिधीयते। प्रथमं तावद्यत्नतः सरागं चित्तं करणीयं विद्यापंकजवज्रयोगतः पूर्वानुभूतसुखं सगधागक्रमेण महासुखचक्रात्सभोगचक्रं सम्भोगचक्राद्धर्मचक्रं धर्मचक्रान्निर्माणचक्रं निर्माणचक्राद्वज्रमूलचक्रं वज्रमूलचक्राद्वज्रमध्यं वज्रमध्याद्वज्राग्रतश्रीबोधिचित्ते यादृशमनुत्पादलक्षणं सुखमुत्पद्यते तस्मिन्नेव सुखे स्थित्वा पुनरपि तद्बोधिचित्तं व्यावृतावधूत्यां प्रवेशयेत्। निर्मलदर्पणतलगतवाष्पविलीनं भावयेच्चिन्तयेत्॥ अत्र श्रीवज्रगुरोः यदद्वद्धरजोराजिः सेवनीया बोधिचित्तंतु सर्वार्थवन परित्यजनीयं परित्यागाद्विरागः स्यात्तथाच सेकोद्देशे सम्बुद्धभाषितं॥ तस्मात्सर्वं प्रयत्नेन च्युतिरागं विवर्जयेत्। येनाक्षरसुखं याति योगी संसारवन्धनात्। कामुकोपि विरागान्न कमशास्त्रं समीहते॥ मयोक्तं किं पुनस्तत्र योगी दुःखं समीहते। शुक्लाक्षरस्वभावेन साधयेत्परमाक्षरं॥ आधारे च्युति आपन्नं आधेयस्य विरागता॥ आधाराधेयसंबंधो यावदक्षरतां व्रजेत्॥ चित्तमक्षरताप्राप्तं नाधाराधेयलक्षणं॥ ततश्च बोधिचित्तधारणं विना न बोधिर्लभ्यते तथाच श्रीकालचक्रे॥ मध्ये प्राणप्रवेशः सरसिशशिगतेर्बन्धनं सव्यवामे। चित्तं मुद्राप्रसंगे परमसुखगतं वज्रसम्बन्धनञ्च॥ अब्जे वज्रध्वनिर्वा सुकरसलिलजालाशनं सौख्यहेतोः वीजात्पायः ससौख्यो मरणभयहर श्री गुरोर्वक्रमेतत्॥ तस्मादयसेवोयाग्रः संबोधेः॥ ५॥


कायत्रस्वभावं परमं सहजात्मकं जगद्व्यापिनं 

स्फुरदमितशान्तसन्ततिं पश्येत्पश्चात्सुखं पश्चात्॥ ६॥


इदानीं तस्य महासुखसमन्वितस्य चक्रसुरूपमाह॥


कायत्रयेत्यादि। धर्मसम्भोगनिर्माणरूपं तत्र धर्मकाये सर्वप्रपञ्चातीतं सर्वज्ञवेद्यः शून्यतास्वरूपः अनुत्पादज्ञानलक्षणः संभोगकायो द्वात्रिंशलक्षणाशीत्यनुव्यञ्जनसमन्वित पुण्यसम्भारनिर्यातो निरूद्धचित्तचैत्तप्रचारो बोधिसत्त्वैकगम्यो निर्माणकायः पूर्वप्रणिधानो विधावनेयकुशलनिर्जातो हि चिन्तामणीव निर्विकल्पः सर्वाभिप्रायपरिपूरकः एतत्स्वभावं परममत्युत्कृष्टत्वात् सहजात्मकं सहज आत्मस्वभावो यस्य कायत्रयस्यैकत्वात् महासुखकाय उच्यते स एव युगनद्धलक्षणः संवृत्तिपरमार्थकरसः कथं संवृतिपरमार्थयोः एकत्वमुह्यते या वृता संवृतेर्भावसुभावत्वात् परमार्थस्य शून्यतास्वरूपत्वात् परस्परविरुद्धयोरैपयं कथमैक्यं अतः प्रतिविधीयते तथागतः स्वापेक्षाया निरूद्धचित्तश्चैत्तः सन् शून्यतासुरूप एव विनेयचित्ताक्षया प्रतिभासनोद्भावं ततो न विरोधः कल्पवृक्षत्। सर्वजनाभिप्रायपरिपूरकं सा धृक्तं किंतु निरूद्धो चित्तचैत्तसिकाऽयं कायस्तिष्ठतु कायस्यैव कायचित्ताधीनत्वात्। तदोषोयतः पुण्यसंभारनिर्जातः समन्तत आसंसारं तिष्ठ येवं ज्ञानसंभारवलात्। पुनश्चित्तचैत्तनिरोधः स्यात्। ततः सर्वमेव स्वस्थं अत‍एव सर्वजगद्व्यापकं सर्वस्यैव हि भावस्य युगनद्धात्मकत्वात् स्फुरदमितशान्तसन्ततिरविनश्वरस्वभावत्वात्। स्फुरदनन्तसुखः सन्नित्यर्थः पश्येत्संलक्षयेदित्यर्थः। पश्चात्सुखः प्रत्यग्राभिमुखः स्तत्रैव लक्षितुं शक्यत्वात्। पश्चात्सुखभावनायामभियोगं कथयति॥ ६॥


प्रतिदिवसं प्रतिसन्ध्यं यथाक्षणम्वा विभावयेदेदेतत्॥

यावत्सिद्धिनिमित्तं तावदिदमुच्यते व्यक्तम्॥ ७॥


प्रतिदिवसमित्यादि। विभावयेदिति सम्बन्धः। एतत् पूर्वोक्तं महासुखं प्रत्यहं प्रतिसन्ध्यं वा। यदा यदा अवधूत्यां वायुः प्रविशति अथवा चतुःसन्ध्यं यथाक्षणं वा सर्वदैवेत्यर्थः। यावत्सिद्धिनिमित्तं सिद्धिः महामुद्रा तस्याः निमित्तं कारणं यावन्न भवति तावद्भावयेद्व्यक्तं। सर्वत्रैव इदं तावत्सिद्धिनिमित्तं वक्ष्यमाणं कथ्यते तदेवमाह॥ ७॥


अयत्नजप्रीतिलयानुबन्धनात्।

यदा भवेद्व्यक्तमिदं विभावितम्॥

कशाचपेटादिह नैव वेदना।

तदा भवेत्सिद्धिरदूरवर्त्तिनी॥ ८॥


अयत्नजमिति। निरन्तराभ्यासादयत्नं विना प्रीतिरनुबन्धनात् तस्य स्थैर्य्यात्। इदं विभावितं व्यक्तं भवेत् स्फुटतरं भवेत्। तदाह कशाचपेटादिह नैव वेदना न कशा चर्मछटा चपेटा करप्रहारादिना स्वां हते यदि वेदना न भवति तदा भवेत्सिद्धिरदूरवर्तिनी समीपभूता सिद्धिरिति वेदितव्यं॥ ८॥


अपरमपि निमित्तमाह॥


प्रताडितानां पणवादिकानां पटुध्वनिर्नश्रुतगोचरश्चेत्॥

यदाप्यते बोधिरनुत्तराग्रा स्वप्ने चिराद्ध्यानवताग्रसिद्धिः॥ ९॥


प्रताडितानामि यादि। प्रकर्षेण महता प्रकारेण ताडितानां पणवादिकानां पणवा मर्दल आदिशब्देन ढक्काभेर्यादयः तेषांपटुध्वनिर्महाशब्दो नश्रुत्वातिगोचरो न श्रोत्रविज्ञानविषयो भवति। अपरमपि निमित्तमाह। यदाप्यते बोधिरनुत्तराग्रा स्वप्ने स्वप्ने यदा योगी सम्यक्सम्बुद्धमात्मानं पश्यति तदा अचिराध्यानवताग्रसिद्धिः प्रस्तुतैव तर्हि महासुखभावनायुक्तस्य योगिनोऽग्रे सिद्धि वज्रधरत्वं स्यादेवेति॥ ९॥


एतत्सिद्धिनिमित्तं दृष्ट्वा यत् कर्तव्यं तदाह॥


दृष्ट्वा सिद्धिनिमित्तं पितृवनगिरिकुञ्जे वृक्षमूलादौ॥

निवसन्नुत्पन्नक्रमयोगमजस्रं सुधीः कुर्यात्॥ १०॥


दृष्ट्वेत्यादि। उत्पन्नक्रमयोगं सुधीःकुर्यात् महासुखं भावयेदित्यर्थः। अजस्रं निरन्तरं पितृवनगिरिकुञ्जे वृक्षमूलादौ पितृवनं श्मशानं गिरिःपर्वतः कुञ्जो लतागृहम् वृक्षमूलं सुगमं आदिशब्दात् शून्यागारादि तत्र निवसन् तिष्ठन् एवंविधे स्थाने निवसन् तिष्ठन् योगी झटित्येव महासुखसमाधिं साक्षात् कुर्यात् चित्तविक्षेपाभावात्। समाधिसिद्धौ यद्भवति तदाह॥ १०॥


सिद्धौ वसुधादीनां भवति लयो ह्युत्तरोत्तरक्रमशः 

ख्याति तदा गगनाभं प्रभास्वरं ज्ञानमात्रं सत्॥ १॥


सिद्धावित्यादि। वसुधादीनां भवति ह्युत्तरोत्तरक्रमशः पृथिव्यप्तेजोवायुविज्ञानादीनां लयोनिष्पद्यते। तत्र भूधातुर्जललीनो भवति जलं तेजसि तेजो वायौ वायुश्चित्ते चैत्यसेचैतसो अविद्यायां अविद्यापि प्रभास्वरे तथा चोक्तं। “भूधातुर्लीयते तोये तोयं तेजसि लीयते। तेजश्च सूक्ष्मधातौ च वायुश्चित्ते प्रलीयते॥ चित्तश्चैतसिके लीयेदविद्यायान्तु चैतसः। सापि प्रभास्वरं गच्छेन्निरोधोयं भवत्रये॥ एवं सति किं स्यात् ख्यातिप्रकाशते तदा निरोधो गगनाभं आकाशसदृशं सकलविकल्पा पगमात् प्रभास्वर निर्मलं ज्ञानमात्रं मायोपमं अत‍एव सदुत्कृष्ट अत्रोच्यते। सर्वनिरोधे ज्ञानमपि कथं तिष्ठतु तस्य ज्ञेयसापेक्षत्वात्। नवक्तव्यं ज्ञानमात्रं शून्यतालक्षणमभिप्रेक्षं स्वभावशून्यं मायोपमं विकल्पनहीनं तदत्र न निषिध्यते। तथा चोक्तं श्रीशाक्यनाथेन॥ तांबुस्यकालिमा यद्वद्रणयोगेन नश्यति। न तस्य सत्वतानश्य निर्मलत्वेन या स्थिता॥ तद्वचित्तमलः शून्यतायोगेन नश्यति। न तस्य ज्ञानता नश्ये निर्मलत्वेन या स्थिता। तद्वचित्तमलः शून्यतायोगेन नश्यति। नतस्यज्ञानतानश्ये निर्मल वेन यास्थिता। ततश्च शून्य स्वभावं ज्ञानमात्रं विद्यत एव। तज्ज्ञानोत्पादे प्रथमतः संप्रत्यर्थं निमित्तान्युत्पद्यन्ते॥ ११॥ 


जानीयात्तच्चिह्नैश्चिह्नानि तु पञ्चधा विदुस्तज्ज्ञाः॥

अत एव तानि योगी समाहितो लक्षयेन्मनसा॥ १२॥


जानीयादित्यादि निश्चित्तज्ञानं चिह्नैर्निमित्तैः कियन्ति तानि तानि चिह्नानीति चिह्नानि तु पंचप्रकाराणि विदुर्जानन्तीति तज्ज्ञास्तदर्थविचक्षणा अत एव कारणात्तानि चिह्नानि योगी समाधियुक्तो लक्षयेन्मनसा निमित्तानि क्रमेण संभवति॥ १३॥ तत्र क्रममाह॥ 


प्रथमं मृगतृष्णाभं धूमाकारं द्वितीयकं चिह्नं॥

खद्योतवत्तृतीयं चतुर्थं दीपोज्वलं स्पष्टं॥ १३॥


प्रथममित्यादि। मृगतृष्णाभं मरीचिकासदृशं धूमाकारं द्वितीयकं चिह्नं एतत्स्पष्टमेव खद्योतवत्तृतीयं ज्योतिलिंगनवत्तुर्यं चतुर्थं दीपोज्वलं दीपकलिकासदृशं स्पष्टव्यक्तम्॥ १३॥ पंचमचिह्नमाह॥ 


विगताभ्रगगनसदृशं पञ्चमं चिह्नं प्रकाशमविकल्पं॥

एवं लब्धनिमित्तो मुद्रां महतीमवाप्नोति॥ १४॥


विगताभ्रगगनसदृशं निर्मलाकाशवत् प्रभासुरमविकल्पं तस्मिंक्षणे चित्तचैत्तनिधानात्। एवं लब्धनिमित्तं उक्तक्रमेण प्राप्तनिमित्तो योगी मुद्रां महतीमेवाप्नोति। महामुद्रां सर्वाकार वर सहितं शून्यता साक्षात् कुर्यात् इत्यर्थः॥ १४॥ 


उत्थातुकामः प्रणिपत्य योगिनीं

नाथं च कस्थं समुदीर्य मूः कृतिं॥

उत्थाय कृत्यं विदधीत तत्वधी-

स्थिष्ठेत्सदा योगयुगेन योगवित्॥ १५॥

इति तत्त्वज्ञानसंसिद्धौ भावनाविधिः॥ २॥


उत्थातुकाम इत्यादि। तस्मात्समाधेरुत्थातुकामो यदा भवति तदा योगिनीं वज्रवाराहीं प्रणिपत्य नमस्कृत्य नाथं च कः शिरस्थं समुदीर्य उच्चार्य्य च मू कृतिं मूरितिमंत्रं पठित्वा उत्थाय कृत्यं विदधीत तत्वधीर्त्रिस्वभावबुद्धिस्तिष्ठेत् तदा योगयुगेन युगनद्धाहंकारेण योगविन्महासुखसमाधिज्ञानं॥ १५॥


इति तत्त्वज्ञानसंसिद्धौ मध्यमकरुचिभिक्षुध्यानचन्द्रविरचितायां महासुखप्रकाशिकायां भावनाविधिः॥ २॥


अध्येषितश्च बहुशः शिष्यैः कृतमण्डलैः पदाब्जनतैः॥

मन्त्री तिथौ दशम्यां विदधीतानुग्रहन्तेषां॥ १॥


इदानीं शिष्यकरणार्थमुच्यते॥ अध्येषितश्चेति। अध्येषितः प्रार्थितो बहुशः अनेकधा शिष्यैः कृतमण्डलैः कृतं मण्डलं यैर्मण्डलं करण पुरःसरं गुरुरध्येषणीयः पदाब्जनतैः पदपद्मं नर्त येषां तैर्विमत्रैः विमंत्रर्भगवती मंत्रज्ञस्तिथौ दशम्यां नान्यस्यांतिथौ विदधीत कुर्यादनुग्रहं कृपा तेषां शिष्याणां॥ १॥


संपूज्य मंत्ररूपां देवीं चक्रस्थितां विहितयोमः

आदाय मंत्रजप्तं परमाद्यं निष्क्रमेत्तस्मात्॥ २॥


संपूज्य मंत्ररूपामित्यादि। सिन्दूरपूजाप्रस्तावे विलिखितां मंत्रस्वभावमर्चयित्वा देवीं तदेवाह। चक्रेस्थितां षडारचक्रेस्थितां विहितयोगः कृतसमापत्तिः अथवा भगवत्या महाभिन्नमूर्त्तिः आदाय गृहीत्वा मन्त्रजप्तं भगवतीमंत्रेण परिशोधयेत्। परमाद्यंनिष्क्रमेत्तस्माद्भगवतीपूजास्थानात् एतदुक्तं भगवती पून्यते तंत्रांतः पटादिकं दातव्यं ततो भगवतीं पूजयित्वा तस्माद्देशान्मंत्रविशुद्धं द्रव्यं गृहीत्वा बहिर्गच्छेत्। शिष्यार्थमितिभावः॥ २॥


अथ विहितपञ्चमण्डलमूर्द्धस्थां तदन्तदक्षिणंशिष्यं

कुसुमस्रजं दधानं ध्यातकेनाथं गुरुः पश्येत्॥ ३॥


अथेत्यादि। शिष्यं पश्येदिति सम्भन्धः। विहितपञ्चमण्डल जानुद्वयकरद्वयशिरोभिः कृतनमस्कारमित्यर्थः। उर्द्दतदन्त दक्षिणं कृतसर्वस्वपरित्यागं कुसुमस्रजं दधानं पुष्यमालां हस्तद्वयेन विभ्राणं ध्यातः के शिरसि नाथो गुरुर्येन तं गुरुर्वज्र गुरुरित्यर्थः॥ ३॥


तदनु च यथोक्तं देवीचक्रं प्रोद्यन्मरीचिकं रयवत्॥

ध्यात्वान्तवासिगात्रे वज्रभृत्तस्य संदद्यात्॥ ३॥


तदन्वित्यादि। तदनन्तरं यथोक्तं देवीचक्रं षडारं मन्त्राक्षर परिपूर्णं प्रोद्यन्मरीचिकं स्फुरद्रश्मिकं रयवत् भ्रमतः एवंविधं चक्रं ध्यात्वा चिन्तयित्वा अन्तवासिगात्रे अन्तवासी शिष्यस्तस्य गात्रे निर्माणचक्रे तदन्तरं किंकर्त्तव्यं वज्रभृत्तस्य सन्दद्यात् तदा परिपूर्णं पात्रं शिष्यस्य संदद्यात् शिष्येणच सर्वमेवोपयोकं॥ तन्मदनमित्युपदेशः॥ ३॥


एवं स्यादावेशस्तत्कलिका प्रकम्पनं वाष्पः॥

पातो ज्ञानोत्पादः स्वारूपञ्चापि परिपाद्याः॥ ४॥ 


एवमित्यादि। अनेन क्रमेणावेशःस्यात् तत्र विविध आवेशः कायावेशो वागावेशश्चित्तावेशश्च तत्र कायावेशे उत्कलिका रोमांचो भवति प्रकम्पनं गात्राणां स्युः हर्षाश्रुपातो भुवि पतित्वा याति चिन्तावेशे ज्ञानोत्पादः स्वरूपप्रतिभाणं त्वयमेव स्यात् वागावेशे अपूर्वप्रवचनं सारूप्यं सदृशं सर्वज्ञज्ञानप्रतिपादनम् स कथयति परिपाद्या क्रमेणेति। अथवा इत्थमपि मन्दपुण्यस्यावेशो न भवेत् तदायं विधिःकरणीयः। छागलपञ्चाङ्गं पञ्चतथागतबीजेनाधिष्ठेत् महातैलमहागुग्गुलुसहितं समभागं तु कारयेत् तेन वाराह्या मंत्रेण उपादेयस्तस्य घ्राणनमात्रेण समावेशो भवति निश्चितमिति॥ ५॥


तदनु कथयेत्समाधिं पूजामंत्रं च वज्रयोगिन्याः॥

श्रद्धान्वितस्य गुणिनो गुरुबुद्धाभिन्नसद्भक्तेः॥ ६॥


तदन्वित्यादि। समाधिसमाधि कथयेत्। महासुखसमाधिमित्यर्थः। पूजामंत्रेण वज्रयोगिन्या। श्रद्धायुक्तस्य गुणिनः प्राज्ञस्य गुरुबुद्धाभिन्नसद्भक्तेर्गुरौ बुद्धे तयोरभिन्नत्वात् सद्भक्तिर्यस्य यथा शास्तारं पश्यति तथा गुरुमपि॥ ६॥


कथयेन्न योगमेनं सद्यः प्रत्ययकरं सुसिद्धंवा॥

श्रद्धाविरहितमनसो भक्तिविहीनशिष्यस्य॥ ७॥


कथयेन्नेत्यादि। न कथयेन्न प्रकाशयेदेवं योगं पूर्वोक्त समाधिं सद्यः प्रत्ययकरं न मित्रेण प्रतीतिजनकं सुसिद्धिदं शोभना सिद्धिर्महामुद्रा ददातीति श्रद्धाविरहितमनसःश्रद्धापरित्यक्तचित्तस्य भक्ति विहितस्य शिष्यस्य॥ ७॥ इदानीं पुनदृष्ट्वानुशंसामाह॥


विदधाति यस्तु पूजां देवीचक्रस्य मंत्रयुक्तस्य॥

तस्यापयान्ति भयान्यष्टौ पापानि न महान्ति॥ ८॥


विदधातीत्यादि। यो मंत्रपूजां कुरुते देवीचक्रस्य वज्रवाराही भगवत्या षडारचक्रस्य मंत्रयुक्तस्य मंत्रपरिपूर्णस्य तस्याष्टौ भयान्यपयान्ति सिंहहस्तिवह्निसर्पचौरनिगडजलेभ्यो भयान्यपयान्ति पलायन्ते पापानि च महान्ति च पञ्चानन्तर्यकर्माण्यपि पलायन्ते॥ ८॥


दुर्भगता दारिद्रयं व्याधिजरादुःखदौर्मनस्यानि 

भ्रमकलिकलुषक्लेशः पीडा नानाविधाश्चापि॥ ९॥ 


दुर्भगतेत्यादि। लोके परमसौभाग्यसम्पन्ने भवति दारिद्रयं निर्धनता व्याधिः कायपीडा जरा वार्धक्यं वाचिकीं वेदनादोर्मनस्यं चैतसिकी वेदना भ्रमो भ्रान्तिः कलिर्विवादः कलुषं पापं क्लेशा रागद्वेषमोहाः ग्रहाद्युपद्रवः नानाविधा अनेकप्रकारा अपयान्तीत्यनेन सम्बन्धः॥ ९॥


यो जपति चक्रमन्त्रं ध्यात्वा हृदये निरोधवाचासौ

प्राप्नोत्यष्टौ सिद्धीः पञ्चाभिज्ञांस्तथाष्टगुणान्॥ १०॥ 


यो जपतीत्यादि। चक्रमंत्रं चक्रसहितमंत्रं ध्यात्वा चिन्तयित्वा हृदये निरोधवाचा मनसा असौ मंत्री अष्टौ सिद्धीःप्राप्नोति अंजनगुटिकापादुकासिद्धौषधिमणिमंत्रयक्षस्त्रीपरपुरप्रवेशान् पञ्चाभिज्ञाः दिव्यं श्रोत्रं दिव्यचक्षुःपरचित्तज्ञानं पूर्वनिवासानुस्मृति ऋद्धिविज्ञानं तथाष्टगुणान् अणिमा लघिमा गणिमा इषित्वं वशित्वं कर्तृत्वं भोज्यत्वं इच्चाप्रकामजा एतानष्टगुणान्॥ १०॥


ध्यायति यः किरवक्त्रां प्रतिदिवसः यत्नतश्चचतुःसंध्यं

हरिहरहिरण्यगर्भैर्जेतुमशक्यां मृतिं जयति॥ ११॥


ध्यायतीत्यादि। यो मंत्री किरवक्त्रां कोलास्यां ध्यायति प्रतिदिवसं यत्नतश्चतुःसन्ध्य प्रार्तमध्यान्तविकालें मध्यरात्रिषु स मृतिं मरणं जयति। हरिहरहिरण्यगर्भैर्जेतुमशक्यं॥ ११॥


वस्त्रान्नपानधनधान्यविशालभूमिः

प्रासाददिव्यशयनासमसाधनानि॥

तस्योद्भवन्ति दयिता विविधाश्च विद्या,

यो भावयत्यशनिकोलमुखीं सचक्रां॥ १२॥


इति तत्त्वज्ञानसंसिद्धौ सानुशंसा शिष्यानुग्रहविधिः॥


वस्त्रान्नेत्यादि। वस्त्रंवसनं अन्नं खाद्यपदार्थं पानं दुग्धादि धनं स्वर्णादि धान्यं व्रीहिर्विशालभूमिर्महती पृथ्वी प्रासादं गृहं दिव्यशयनं तृतिकादि आसनं सिंहासनादि साधनादि मंचादि एतानि सकलानि तस्य मन्त्रिणो भवन्ति। वनिताश्च दिव्यांगनाः विविधाश्च विद्या नानाशिल्पकलादयः यो भावयत्यशनि कोलमुखीं वज्रकोलास्यां सचक्रां अध‍ऊर्द्धचक्रद्वयसहितां॥ १२॥


इति तत्त्वज्ञानसंसिद्धिटीकायां मध्यमकरुचिभिक्षुध्यानचन्द्र विरचितायां सानुशंसा शिष्यानुग्रहविधिः॥ ३॥


अथातो मंत्ररहस्यं गुरुपरंपरायातो मंत्रोद्धारो विलिख्यते॥


मंत्रोद्धारमतः परमधिधास्ये वज्रयोगिनीहृदयं॥

कर्णात्कर्णमुपागतमास्यादास्यं तथाक्रमतः॥ १॥


मंत्रेत्यादि। अतःपरं पूर्वोक्तादनन्तरं मंत्रोद्धारमभिधास्ये वक्ष्यामि वज्रयोगिनीहृदयं कोलमुखीहृदयं कर्णात्कर्णमुपागतं कर्णपरंपरासमायातं अत्यन्तगौरवत्वात्॥ १॥


पूर्वोदितमिव चक्रं संलिख्य मरुद्गणालयोपेतां॥

तत्र लिखेत्परिपाटित आलिकालिं तथैव कोणं॥ २॥


पूर्वेत्यादि। पूर्वोदितमिव पूर्वकथितमिव धर्मोदयाकारचक्रं संलिखेत्। मरुद्गणालयोपेतां ऊनपंचाशकोष्ठानिवितं परिपाटितो‍यथाक्रमं आलिकालिं तत्र चक्रे लिखेत्। अकारमारभ्य षोडश स्वरान् ककारमारभ्य हकारं यावत्। अत‍एव त्रिकोणं प्रस्तावक्रमोऽभिधीयते। "एकं त्रीणि तथा पञ्च सप्त नव विशेषतः। एकादशत्रिभिर्युक्तं दशमं कोष्ठलक्षणं॥ उपर्युपरिभावेन लिखेत्तत्र क्रमेण तु॥ आलिकालिं क्षकारेण शून्यं कृत्वा न्यसेद्वुद्धः॥” अक्षरोद्धारः सप्रति विधीयते॥ २॥


झाधरगं डाधरस्थं हाधरगविभूषितं समायुक्तं॥

त्रिकमादितो विलिख्यं सदक्षरं तत्वपरिदीपि॥ ३॥


झाधरगेत्यादि। खकारस्याधरगो यस्तं झाधरगं अकारं लिखेत् इति सर्वत्र सम्बन्धः। डकारस्याधरस्थो यस्तं डाधरस्थं उकारं हाधरगविभूषितं हकारस्याधरो यस्तं डाधरगं मकारं तेन विभूषितं समायुक्तं अकार‍उकाराभ्यां समायोगे सति ओकारस्तं मकारेण भूषितं। ओंकारमित्यर्थस्त्रितमादितो विलिखेत्॥ .... सदक्षरतत्वपरिदीपि उत्कृष्टाक्षरतत्वप्रकाशकः॥ ३॥


भोर्द्धगतं छोर्द्धस्थितसमेतटोर्द्धस्थितं तदनु लेख्यं॥

डाधरयुतं षाधारगं षोर्द्धस्थितयुक्तशोर्द्धगतं॥ ४॥


भोर्द्ध्वगेत्यादि। भकारस्योर्द्वगतो यः स छोर्द्ध्वस्थितं छकारस्योर्द्ध्वर्थितं वकारं संयुक्त टोर्द्द्वस्थितं रेफंतदनु लेख्यं डाधरयुत षाधरगं डकारस्याधर ढकारस्तेन युक्त षाधरगं वकारं षोदर्ध्वस्थित युक्त शोर्द्ध्वगतं षकारस्योर्द्ध्वस्थितं धकारं तेन युक्तं शकार स्योर्द्ध्वगतं दकारं॥ ४॥


ञाधरयुतलृतलस्थं टाधरयुतपोर्द्धसंस्थितं॥

तदनु ठाधरगान्वितफोर्द्धगं एवामयुक्तं हटान्तस्थं॥ ५॥


ञाधरेत्यादि। ञाधरयुतं लृतलस्थं ञकारस्याधरं आकारं तेन युतं लृकारस्य तलस्थं डकारं टाधरयुतं पोर्द्धसस्थित तदनु टकारस्याधरं इधारं तेन युतं पकारस्योर्द्धस्थितं ककारं ठाधर गचितफोर्द्धगं ठकारस्याधर ईकारं तेन सहितं फकारस्योर्द्धगं नकारं एवामयुतं हटान्तस्थ एकारस्य वामं एकार तत्सहितं हटन्तस्थ हकार टकारयोर्मध्यगतं यकारं॥ ५॥


चसमध्यगतं ठसव्यगसमेतं भाधरसुसंस्थितं

तदनु हथमध्यगतं तवामयुक्तं ठलमध्यग पश्चात्॥ ६॥


चसमध्यगतं विलेख्यं चकारसकारयोर्मध्यगतं वकारं थसव्यग समेतभाधरसुसंस्थितं तदनु ठकारस्य दक्षिणगतं रेफयुक्तं भाधर सुसस्थितं भकारस्याधरसुसंस्थितं जकारं हथमध्येगतं हकारथकारयोर्मध्यगं वकारं। तवामयुतं ठलमध्यगं तकारस्य वामगं णकारं तेनयुत ठकार लकायर्मध्येगतं रेफं॥ ६॥


सर्वकरान्तफमध्यगं तृतीयवर्गादिवामगसमेतं॥

णोर्द्धयुतं लाधरगं छोर्द्धस्थं भतलगं ठसव्ययुतं॥ ७॥


सर्वकरान्तफमध्यं तृतीयवर्गादि वामगसमेतं सर्वकलात्त अःकार फकारश्च तयोर्मध्ये नकारः तृतीयवर्गस्यादिः टकारस्तस्य वामग ईकार तेन सहितं णोर्द्धयुतं लाधरं शकारस्योर्द्वे एकार स्ततसहितं लकार लाघरगतं छोर्द्धस्थितं छकारस्योर्द्धस्थितं वकारं भतलगं ठसव्ययुतं भकारस्य तलगं जकारठकारस्य दक्षिणं रेफं तद्युक्तं॥ ७॥


तोर्द्धगयुतं षाधरगं थोर्द्धगसंयुक्तं णाधरगं पश्चात्॥

फाधरगं ठाधरसंयुक्तं फोर्द्धस्थं णोर्द्धयुक्तं लाधरगं॥ ८॥


तोर्द्धयुत षधरगं तकारस्योर्द्धगं ऐकारं तत्सहितं ठकारस्याधरगं वकार थोर्द्धगसंयुक्तंणाधरं पश्चात् थकारस्योर्द्धगतं ओकार तत्संयुक्तं णाधरं रेफं फाधरगं फकारस्याधरगं चकार ठाधरसंयुक्तं फोर्द्धस्थं ठकारस्याधरगं ईकारं तद्युक्तं फकारस्योर्द्धस्थितं नकारं णोर्द्धयुतं लाधरगं णकारस्योर्द्धं एकारं तद्युक्तं लकारस्याधरगं यकारं॥ ८॥


डधरशून्यसमेतं त्रिवतलगं चोर्द्धस्थितं रतलं॥

थाधरयुतं शाधरगं ञाधरगसमायुक्तं चापि॥ ९॥


डाधर शून्यसमेतं त्रिवतलगं डकास्याधरं डकारं शून्यमनुस्वारं ताभ्यां समेतं वतलगं हकारं चोर्द्धस्थितं फकारः। रतलं रेफतलगं टकार समुद्रा येन फट्त्रयं बोधव्यं थाधरयुत शाधरगं भाधरगं समायुक्तं चापि थकारस्याधरं चकारं तत्सहितं शकारस्याधरगं सकारं ञाधरगसमायुक्तं चापि ञकास्याधर आकारं समायुक्तं आकारेणेत्यर्थः॥ ९॥ 


सयमध्यगं झवामगसमेतमुक्ताक्षरकृतो रहस्यः॥

मंत्रोयमशनीदेव्या लेख्यो जप्यो विभाव्यश्च॥ १०॥


सयमध्यगं झवामसमेतं सकारयकारयोर्मध्यगतं हकारं झकारस्य वामगेनाकारेण सहितमित्यर्थः। उक्ताक्षरकृतो रहस्य अक्षरकृतकाद्यक्षरात् समाकृष्य रहस्यतद्धेतुत्वात् कोसौरहस्य मंत्रोयं अशनीदेव्या-वज्रवाराह्याः मंत्र इत्यर्थः अयं मंत्रः किंकर्तव्यं अत आह लेख्यो जप्यो विभाव्यश्च। लिखनीयो जपनीयो भावनीयश्च॥ १०॥


चिन्तामणिः कल्पकुठाग्रकुम्भः 

श्रीकामदुग्धेनुरपि प्रशस्ताः

ते साध्यमाना ददतीह वित्ता-

न्ययन्तु सौख्यं सधनं ददाति॥ ११॥


इति तत्त्वज्ञानसंसिद्धौ मन्त्रोद्धारविधिः॥


चिन्तामणीत्यादि। चिन्तामणिरत्न कल्पकुठः कल्पवृक्षः अग्रकुम्भो भद्रघटः श्रीकामधुक् श्रीकामधेनुः अपि ये प्रशस्ताः ख्याताः सन्ति ते साध्यमानाः सन्तो वित्तानि ददन्ति॥ अस्मिंल्लोके। अयं पुनर्मन्त्रराजः सौख्यं लोकोत्तरं महासुखं ददाति। सधनं धनसहितमित्यर्थः अन्यः पुनःसाधिताः सन्तो धनमेव किंचददति ननिरूत्तरसुखं अयं तु सर्वप्रदः ततश्चायमेव सर्वप्रकारेण सर्वदा सर्वाभिवांछितसिद्ध्यर्थं लोके लोकोत्तरसिद्धिनिमित्तकं बोधिसत्त्वैः सेव्यः॥ ११॥


इति तत्त्वज्ञानसंसिद्धौ टीकायां मध्यमकरुचिभिक्षुश्रीध्यानचन्द्रविरचितायां मंत्रोद्धारणविधिः॥ ॥


यस्मिन्नयं पात्रगते व्यलिख्य, पूजानिमित्तं विधिना विधिज्ञः॥

वालस्य रक्षा विधिवद्विधेया, वद्धेन दोकण्ठशिखासुवाहौ॥


यस्मिन्नित्यादि। यस्मिन्दर्पणादिभाजनगतेऽयं मंत्रराजो विलिख्य पूजानिमित्तं विधिना यथाविधिज्ञस्सन्मंत्रिभिः बालस्य रक्षा विधिवद्धिधेया शिशोः रक्षा कार्या भगवतीपूजापुरः सरं वद्धेन तेन मंत्रसहितं सिन्दूरेण कुत्र दोःकण्ठ शिखासुवाहौ कण्ठे शिखायां॥ १॥


दृष्ट्वाऽपयान्ति भुजगाः शिशुकं सरक्षं,

भूता ग्रहा निशिचराः सपिशाचसंघाः॥

अन्ये च वालकभर्यात्तिकराः सुभीमाः 

सिंहं यथा वनचरा वलिनम्भयार्त्ताः॥ २॥


दृष्ट्वेत्यादि अपयन्ति पलायन्ते भुजगाः सर्प्पाः। शिशुकंदृष्ट्वा सरक्षं रक्षासहितं भूतग्रहा निशिचराः सपिशाचसंघा अपि पलायन्ते अन्येपि बालकभयार्त्तिकराः डाकिन्यादयः सुभीमाः परमभयानकाः। अत्र दृष्टान्तमाह॥ सिंहं दृष्त्वा यथा वनचरा मृगादयः अपयान्ति सिंहं किंविशिष्टं बलिनं बलवन्तं वनचराः किंविशिष्टा भयार्त्ता भयपीडिताः सन्तः पलायन्ते॥ २॥


संप्राप्य सदुपदेशं दृष्ट्वा संप्रत्ययं च योगस्य सिद्धिरियं समभिलेखि स्फुरदमलज्ञानसंवसतिः॥


संप्राप्येति। सिद्धिरियंसमभिलेखीति सम्बन्धः। सम्प्राप्य सदुपदेशं यथावदुपदेशं लब्ध्वा दृष्ट्वा संप्रत्ययंच योगस्य अस्य भगवतीयोगस्य प्रतीतिम्वीक्ष्य स्फुरदमलज्ञानं सम्वसतिः स्फुरत्प्रकाशरूपत्वात् अमलं ज्ञानं सर्वक्लेशोपरमात्रस्य संवसतिः स्थानं॥ ३॥


तस्मात्तत्संप्राप्त्यै संसेव्यं सगुरोः पदाम्बुरुहं॥

सान्ना प्रदानविधिना कायक्लेशैः प्रणामैश्च॥ ४॥


तस्मादित्यादि। अत‍एव तत्संप्राप्त्यै तदुपदेशलाभाय संसेव्यं सम्यगाराधनीयं सगुरोर्लब्धनिमित्तस्य पादाम्बुरुहं चरणपद्मं साम्ना सौमनस्येन अथवा प्रदानविधिना प्रकृष्टवस्त्रदानेन कायक्लेशैर्वा प्रणामैर्वा सर्वप्रकारेण गुरोः आराधनं सर्वं 


तत्त्वज्ञानाग्रसिद्धिर्बहुहितजननी या जनन्येव लोके

सत्त्वानां यन्मयासीत्कुशलमकलुषं पूर्णचंद्राशुशुभ्रं॥

भूयासुस्तेन लोकाः कलिमलविकला शुद्धसम्बोधिभाजो

लब्ध्वा मुद्रामुदारां भवभयशमनीं सर्वसत्त्वार्थकर्त्रीं॥ ५॥


समाप्तोयं तत्त्वज्ञानसंसिद्धिर्नाम स्वाधिष्ठानश्चेति 

शुभम् सर्वदा


तत्त्वज्ञानेत्यादि। तत्त्वं अनुत्पादं तथा च जिनजनन्यां योऽनुत्पादः सर्वधर्माणां सा प्रज्ञापारमिता तस्य तत्त्वज्ञानाग्रसिद्धिं श्रेष्ठसिद्धि श्चक्रहितजननी चक्रपुण्यजननी यो लोके त्रैधातुके जनन्येव सर्वसत्त्वानां समीहितार्थप्रसवनाद्वङ्ग पुण्यमासीत् कुशल अकुशलं क्लेशरहितं पूर्णचन्द्रांशुवत् शुभ्रं भूयासुः तेन पुण्येन लोकाः कलिमलविकलाः कलिविवादो मलंक्लेशालास्ताभ्यां विकलारहिताः शुद्धसम्बोधिभाजः सम्यक्सम्बोधि जाभिलध्वा उदारां महामुद्रां प्राप्य भवभयशमनीं भव संसारः समो निर्वाणं तयोः शमनीं भवनिर्वाणग्रहनिवारणीं सर्वासत्त्वार्थकत्रीं सर्वसत्त्वानां सम्बोधिकारिणीत्यर्थः॥ ५॥


इति तत्त्वज्ञानसंसिद्धिटीकायां मध्यमकरुभिक्षुश्रीज्ञानचन्द्रविरचितायां सामर्थ्यपुण्यपरिणामनाविधिः समाप्तः॥  ॥


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project