Digital Sanskrit Buddhist Canon

धर्मधातुस्तव

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

धर्मधातुस्तव


धर्मधातोऽ नमस् तुभ्यं

सर्वसत्त्वेष्व् अवस्थित।

यस्य ते अपरिज्ञानाद्

भ्रमन्ति त्रिभवालये॥ <1>


ये एव धातुः संसारे

शोध्यमानः स एव तु।

शुद्धः स एव निर्वाणे

धर्मकायः स एव हि॥  <2>


यथा हि क्षीरसम्मिशरं

सर्पिमण्डं न दृश्यते

तथा हि क्लेशसम्मिश्रो

धर्मधातुर् न दृश्यते॥  <3>


यथा विशोधितं क्षीरं

घृतद्रव्यं सुनिर्मलम्।

तथा विशोधिताः क्लेशा

धर्मधातुः सुनिर्मलः॥  <4>


यथा दीपो घटस्थो हि 

न किञ्चिद् अवभासते।

तथा क्लेशघटस्थो हि 

धर्मधातुर् न भासते॥  <5>


(१)


येन येन हि पार्श्वेन

च्छिद्रीभवति तद् घटम्।

तेन तेन हि पार्श्वेन

रश्मयस् तस्य निर्गताः॥  <6>


यदा समाधिवज्रेण

भिन्नं भवति तद् घटम्।

स तदाकाशपर्यन्तं

समन्ताद् अवभासते॥ <7>


धर्मधातुर् न चोत्पन्नो

न निरुद्धः कदाचन।

सर्वकालम् असङ्क्लिष्ट

आदिमध्यान्तनिर्मलः॥ <8>


यथा वैडुर्यरत्नं हि

सर्वकालप्रभास्वरम्।

पाषाणकोशे सञ्छन्नम्

आभा तस्य न राजते॥ <9>


एवं हि क्लेशसञ्छन्नो

धर्मधातुः सुनिर्मलः।

नासौ भ्राजति संसारे

निर्वाणे तु प्रभास्वरः॥ <10>

गोत्रे च सति व्यायामो


(२)


जातरूपनिदर्शनात्।

गोत्रे असति व्यायामः

श्रमः केवलम् इष्यते॥ <11>


यथा हि तुषसञ्छन्नं

न धान्यं तत् फलं मतम्।

तथा हि क्लेशसञ्छन्नो

नासौ बुद्धेति कल्प्यते॥ <12>


यथा हि तुषनिर्मुक्तं

तत् फलं प्रतिभासते।

तथा हि क्लेशनिर्मुक्तो

धर्मकायः प्रभासते॥ <13>


उपमा क्रियते लोके

कदल्या नास्ति सारता।

फलानि तस्य साराणि

भक्ष्यते अमृतोपमा॥ <14>


एवं ह्य् असारे संसारे

निर्वृते क्लेशसागरे।


(३)


फलं तस्यापि बुद्धत्वम्

अमृतं सर्वदेहिनाम्॥ <15>


एवं हि सर्वबीजेषु

सादृश्यां जायते फलम्।

बीजैर् विना फलं नास्ति

कः प्राज्ञः प्रतिपत्स्यते॥ <16>


बीजभूतस् त्व् असौ धातुर्

धर्माणाम् आश्रयो मतः।

शोध्यमानः क्रमेणैवं

बुद्धत्वास्पदम् आवहेत्॥ <17>


निर्मालौ चन्द्रसूर्यौ हि

आवृतौ पञ्चभिर् मलैः।

अभ्रनीहारधूमेन

राहुवक्त्ररजादिभिः॥ <18>


एवं प्रभास्वरं चित्तम्

आवृतं पञ्चभिर् मलैः।

कामव्यापादमिद्धेन

औद्धत्यविचिकित्सया॥ <19>


(४)


अग्निशौचं यथा वस्त्रं

मलिनं विविधैर् मलैः।

अग्निमध्ये यथा क्षिप्तं

मलं दग्धं न वस्त्रता॥ <20>


एवं प्रभास्वरं चित्तं

मलिनं रागजैर् मलैः।

ज्ञानाग्निना मलं दग्धं

न दग्धं तत् प्रभास्वरम्॥ <21>


शून्यताहारकाः सूत्रा

ये केचिद् भाषिता जिनैः।

सर्वैस् तैः क्लेशव्यावृत्तिर्

नैव धातोर् विनाशनम्॥ <22>


पृथिव्यन्तर्हितं तोयं

यथा तिष्ठति निर्मलम्।

क्लेशैर् अन्तरितं ज्ञानं

तथाभाति सुनिर्मलम्॥ <23>


धर्मधातुर् यतो नात्मा

न च स्त्रीनृनपुंसकः।


(५)


सर्वग्राहविनिर्मुक्तः

कथम् आत्मेति कल्प्यते॥ <24>


सर्वे धर्मा ह्य् असंसक्ताः

स्त्रीपुंस्त्वं हि न विद्यते।

रागान्धविनेयार्थाय

स्त्रीपुंस्त्वं हि प्रदर्शितम्॥ <25>


अनित्यदुःखशून्येति

चित्तनिध्यप्तयस् त्रयः।

परमा चित्तनिध्यप्तिर्

धर्माणां निःस्वभावता॥ <26>


यथा हि गर्भो गर्भिण्यां

विद्यते न च दृश्यते।

तथा हि क्लेशसञ्छन्नं

धर्मतत्त्वं न दृश्यते॥ <27>


चतुर्णां हि विकल्पानाम्

उत्पत्तिर् भूतभौतिकात्।

अहंममविकल्पो हि


(६)


नामसञ्ज्ञानिमित्तजः॥ <28>


प्रणिधानं हि बुद्धानां

निराभासम् अलक्षणम्।

प्रत्यामवेद्ययोगित्वाद्

बुद्धानां नित्यधर्मता॥ <29>


यथा शशविषाणां हि

कल्प्यमानं न विद्यते।

तथा हि सर्वधर्मेषु

कल्पितं नैव विद्यते॥ <30>


परमाणुरजः किन्तु

गोविषानं न विद्यते।

यथा पूर्वं तथा पश्चात्

तस्य किं कल्प्यते बुद्धैः॥ <31>


प्रतीत्योपद्यते चैव

प्रतीत्य च निरुध्यते।

एकस्य सम्भवो नास्ति

कथं बालैर् विकल्प्यते॥ <32>


(७)


शशगोशृङ्गदृष्टानतम्

उभौ कल्पितलक्षणौ।

मध्यमा प्रतिपद्येत

यथा सुगतधर्मता॥ <33>


यथा चन्द्रार्कताराणां

स्वच्छ उदकभाजने।

दृश्यते प्रतिबिम्बं हि

तथा निष्पन्नलक्षणम्॥ <34>


आधिमध्यान्तकल्याणम्

अविसंवादकं ध्रुवम्।

यस्य चैवंविधानात्मा

कथम् आत्मेति कल्प्यते॥ <35>


ग्रीष्मकाले यथा वारि

उष्णम् इत्य् अभिधीयते।

तद् एव शीतकालेषु

शीतम् इत्य् अभिधीयते॥ <36>


आवृतं क्लेशजालेन

चित्तम् इत्य् अभिधीयते।


(८)


तद् एव क्लेशापगमाद्

बुद्ध इत्य् अभिधीयते॥ <37>


चक्षुः प्रतीत्य रूपं च

अवभासाः सुनिर्मलाः।

अनुत्पन्नानिरुद्धास् ते

धर्मधातुं प्रजानथ॥ <38>


श्रोत्रम् प्रतीत्य शब्दं च

चित्तं विज्ञप्तयस् त्रयः।

श्रूयते स्वविकल्पेन

धर्मधातुर् अलक्षणः॥ <39>


घ्राणं गन्धाश्रितं घ्राणि

अरूपम् अनिदर्शनम्।

घ्राणविज्ञानतथाता

धर्मधातुर् विकल्प्यते॥ <40>


जिह्वा स्वभावशून्या हि

रसधातुर् विविक्तता।


(९)


अप्रतिष्ठितविज्ञानं

धर्मधातुस्वभावता॥ <41>


शुद्धकायस्वभावेन

स्पर्शप्रत्ययलक्षणम्।

प्रत्ययेभ्यो विनिर्मुक्तं

धर्मधातुं वदाम्य् अहम्॥ <42>


मनः प्रधानधर्मेषु

कल्प्यकल्पनवर्जितम्।

धर्माणां निःस्वभावत्वं

धर्मधातुर् विभाव्यते॥ <43>


पश्यते शृणुते घ्राति

स्वादते स्पृशतीति च।

धर्मान् विजानते योगी

एवं निष्पन्नलक्षणम्॥ <44>


चक्षुः श्रोत्रं च घ्राणं च

जिह्वा कायो मनस् तथा।

षडायतनं विशुद्धम्

एतत् तत्त्वस्य लक्षणम्॥ <45>


(१०)


चित्तम् एव द्विधा दृष्टं

लोकि लोकोत्तरं च यत्।

आत्मग्राहेण संसारः

प्रत्यात्म तथाता हि तत्॥ <46>


रागक्षयो हि निर्वाणं

द्वेषमोहक्षयश् च यत्।

तस्य बोधाय बुद्धत्वं

शरणं सर्वदेहिनाम्॥ <47>


अस्मिं कलेवरे सर्वं

ज्ञानम् अज्ञानम् एव च।

बध्यते स्वविकल्पेन

मुच्यते स्वपरिज्ञया॥ <48>


बोधिर् न दूरे नासन्ने

न गता नापि वागता।

न दृश्यते दृश्यते चैव


(११)


अत्रैव क्लेशपञ्जरे॥ <49>


उक्तं च सूत्रवर्गेषु

विहरत्य् आत्मचिन्तकः।

प्रज्ञादीपविहारेण

परमां शान्तिम् आगतः॥ <50>


न बोधेर् दूरं सञ्ज्ञी स्यान्

न सासन्ना च सञ्ज्ञिनः।

षण्णां हि विषयाभासो

यथाभूतं परिज्ञाया॥ <51>


यथादकेन सम्मिश्रं

क्षीरम् एकत्र भाजने।

क्षीरं पिबन्ति हंसा हि

उदकं च तथा स्थितम्॥ <52>


एवं हि क्लेशसम्मिश्रं

ज्ञानम् एकत्र भाजने।

पिबन्ति योगिनो ज्ञानम्

अज्ञानं स्फोरयन्ति ते॥ <53>


अहं ममेति वा ग्राहो

यावद् बाह्यो विकल्प्यते।

दृष्टे विषयनैरात्म्ये


(१२)


भवबीजं निरुध्यते॥ <54>


बुद्धो हि परिनिर्वाति

शुचिर् नित्यशुभालयः।

कल्पयन्ति द्वयं बाला

अद्वयं योगिनां पदम्॥ <55>


दुष्करैर् विविधैर् दानैः

शीलैः सत्त्वार्थसङ्ग्रहैः।

सत्त्वोपकारक्षान्त्या च

धातुपुष्टिर् इयं त्रिधा॥ <56>


वीर्यं च सर्वधर्मेषु

ध्याने चित्तं प्रचारितम्।

प्रज्ञायाम् अचलं नित्यं

बोधिपुष्टिर् इयं पुनः॥ <57>


उपायसहिता प्रज्ञा

प्रणिधानैर् विशोधिता।

बलेषु सुष्ठितं ज्ञानं

धातुपुष्टिश् चतुर्विधा॥ <58>


मा भोधिसत्त्वान् तु वन्देति


(१३)


अतिदुर्भाषितं कृतम्।

बोधिसत्त्वम् अजीवं तु

---------- <59>


----------

----------

----------

---------- <60>


----------

सन्निधायात्र चिन्तयेत्।

गुडशर्करखण्डानाम्

उत्पत्तिस् तत्र जायते॥  <61>


रक्षिते बोधिचित्ते हि

सन्निधायात्र चिन्तयेत्।

अर्हत्प्रत्येकबुद्धानाम्

उत्पत्तिस् तत्र जायते॥  <62>


यथा शाल्याङ्कुरादीनां

रक्षां कुर्वन्ति कार्षिकाः।

तथाश्रयाधिमुक्तानां


(१४)


रक्षां कुर्वन्ति नायकाः॥  <63>


यथा कृष्णचतुर्दश्यां

दृश्यते चन्द्रविग्रहम्।

तथाग्रयानाधिमुक्तानां

दृश्यते बुद्धविग्रहम्।  <64>


यथैव बालचन्द्रस्य

दृष्टा वृद्धिः क्षणे क्षणे।

तथा भूमिप्रविष्टानां

दृष्टा वृद्धिः क्षणे क्षणे॥  <65>


यथा हि पञ्चदश्यां वै

पूर्णचन्द्रो हि जायते।

तथा निष्ठागताभूम्यां

धर्मकायो हि जायते॥  <66>


अधिमुक्तिदृढं यस्य

बुद्धे धर्मे च नित्यशः।

उत्पादयति तच् चित्तम्

अनिवर्त्यम् भवे भवे॥  <67>


कृष्णाश्रयपरावृत्तिः

शुक्लाश्रयपरिग्रहः।


(१५)


तदा तस्यावबोधेन

मुदितेत्य् अभिधीयते॥  <68>


मलिमं नित्यकालं हि

रागाद्यैर् विविधैर् मलैः।

मलाभावे च या शुद्धिः

विमलेत्य् अभिधीयते॥  <69>


निरोधात् क्लेशजालस्य

प्रभाभ्राजविनिर्मला।

अप्रमाणान्धकारस्य

विगता तु प्रभाकरी॥  <70>


शुद्धा प्रभास्वरा नित्यं

सङ्गजैः परिवर्जिता।

ज्ञानार्चिषैः परिवृता

भूमिर् अर्चिष्मती मता॥ <71>


सर्वविद्याकलाशिल्प-

ध्यानानां च विचित्रता।

दुर्जयानां हि क्लेशानां

विजया तु सुदुर्जया॥ <72>


तिसृणाम् अपि बोधीनां

सङ्ग्रहः सर्वसम्पदाम्।

उत्पादव्ययगम्भीरा

भूमिस् त्व् अभिमुखीभूता॥ <73>


(१६)


क्रीडते रश्मिजालेन

चक्रव्यूहैः समन्ततः।

त्रिलोकात् तीर्णपङ्कौघैर्

दूरङ्गमा इति स्मृता॥ <74>


बुद्धैः सन्ध्रियमाणोऽसौ

प्रविष्टो ज्ञानसागरे।

अनाभोगवशिप्राप्तः

अकम्प्या मारकिङ्करैः॥ <75>


प्रतिसंवित्सु सर्वासु

स योगी पारमीगतः।

धर्मदेशन साङ्कथ्यैर्

भूमिः साधुमती स्मृता॥ <76>


कायं ज्ञानमयं राम्यम्

आकाशम् इव निर्मलम्।

सन्धारयति बुद्धानां

धर्ममेघा समन्ततः। <77>


आश्रयः सर्वधर्माणां


(१७)


चर्याफलपरिग्रहः।

आश्रयस्य परावृत्तिर्

धर्मकायोऽभिधीयते॥ <78>


अचिन्त्यो वासनाद् मुक्तश्

चिन्त्यः संसारवासनः।

त्वम् अचिन्त्योऽसि सर्वेषां

कस् त्वा विज्ञातुम् अर्हति॥ <79>


सर्ववाग्विषयातीतं

सर्वेन्द्रियम् अगोचरम्।

मनोविज्ञानगम्योऽसि

योऽसि योऽसि नमोऽस्तु ते॥ <80>


क्रमेण समुदानीता

बुद्धपुत्रा महायशाः।

धर्ममेघेन ज्ञानेन

शून्यं पश्यन्ति धर्मताम्॥ <81>


यदा प्रक्षालितं चित्तम्

उत्तीर्णं भवसागरात्।


(१८)


महापद्ममयं तस्य

आसनं सम्प्रतिष्ठति॥ <82>


अनेकरत्नपत्त्राभं

लक्षणोज्ज्वलकल्पिकम्।

अनेकैः पद्मकोटीभिः

समन्तात् परिवारितम्॥ <83>


दशभिश् च बलैर् बालस्

तिष्ठते बालचन्द्रवत्।

क्लेशैर् मलिनसत्त्वानां

न पश्यति तथागतम्॥ <84>


यदा प्रेताः समन्तात् तु

शुष्कं पश्यन्ति सागरम्।

तथैवाज्ञानदग्धानां

बुद्धो नास्तीति कल्पना। <85>


सत्त्वानाम् अल्पपुण्यानां

भगवान् किं करिष्यति।

जात्य .........


(१९)


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project