Digital Sanskrit Buddhist Canon

अमोघपाशकल्पराज (VII)

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

अमोघपाशकल्पराज VII


91a


1.॥ अथ खलु वज्रपानिर् महायक्षसेनपति भगवन्तम् एतद्

अवोचत्। पश्य भगवन्न् अवलोकितेश्वरेण बोधिसत्वेन महासत्वेन

अमोघपाशहृदयं भाषिताः सहकल्पोपचारमण्डलमुद्रापटल-

दुष्यं। अतिगम्भीरं। अतिदुरवगाहं। अतिविस्तीर्ण्णं अतिदुःसाध्यं

बहूनि मण्डलानि बहूनि मुद्रानि बहूनि मन्त्रा ब-


2. हूनि दुष्यपटानि परिकीर्त्तितानि। तिमिरापगतं मे भगवन्

महासमुद्रसागरगम्भीरोपमाः। महासुमेरुतुल्योपमाः।

मरीच्युपमाः परमाणो(णू)पमा तथागतज्ञानतुल्योपमाः।

अगणनसमतिक्रान्ता अतुल्या अमाप्याः। अपरिमाणाः। असंख्येय-

कल्पसंख्याः कल्पप्रमाणाः। अचिन्त्यकल्पप्रमाणाः। देवविषय-

प्रमाणाः। नागविषयप्र-


3. माणाः सत्वविषयप्रमाणाः। तथागत अचिन्त्यप्रमाणाः।

तथागतचक्षुसाभासप्रमाणाः। तथागतज्ञानावभासप्रमा-

णाः। बोधिसत्वज्ञानप्रमाणाः। मारविषयप्रमाणाः। न पूर्व्वो

भगव<न>न् उपलभ्यते। न मध्यम् उपलभ्यते। न पर्यव-

सानम् उपलभ्यते। तत् कथम् भगवन्न् अनुजानामि। कतमस्या

साधनविधिना साधयामि। कत[मं]


4. मन्त्र कतमं मुद्रा कतमस्यां मण्डलं कतमालेख्यमुद्रां

कतमस्या हस्तमुद्रां कतमं धूपयुक्तिं कतमाञ्जनं कतमं

गुडिकं कतमं धूपं कतमं दुष्यपटं कतमं मूलमन्त्रं

कतमं हृदयं कतमस्योपहृदयं। कतमं क्रोधमन्त्रं।

कतमं रौद्रं कतमं सौम्यं कतमं। एकाक्षरं कतमं

द्व्याक्षरं कतमं त्र्याक्षरं कतमं चतुराक्षरं कतमं<ः>।

पञ्चा-


5. क्षरं। कतमं षडाक्षरं कतमः सप्ताक्षरं कतमः

अष्टाक्षरं। कतम नवाक्षरं कतमं दशाक्षरं। कथं

उपवासं। कथ<ं>म् अहोरात्रं कथं स्नानविधिः कथं

वस्त्रप्रावरणं कथं दिशाबन्धं कथं मण्डलबन्धं


(१)


कथं शिखाबन्ध<ं>ः कथं आत्मरक्षा कथं पररक्षा कथं

सहायरक्षा। कथं शिष्यरक्षा। कथं प्रवेश कथं नमस्कारः

कथं प्रदक्षिणः


6. कथ<ं>म् अर्घपाद्यानिवेदनं कथं बलिनिवेदनं कथं

पुष्पनिवेदन। कथं धूपं कथं गन्धा कथं दीप

कथ<ं>म् उपस्पृशन। कथं निवेदन सर्वत्र<ं> कथम(म् आ)

वाहनं। कथं निमन्त्रणम्। कथं स्वप्नसंचोदनं। कथं

होमविधिः। कतमः शान्तिकः कतमः पौष्टिकः कतमस्याभिचारुकः

कतमः पाशं कतमद् वज्रं। कतमः पद्मं कतमं

विसर्ज्जतं। कतमस्यान् उपसंक्रमणं कर्त्तव्यः तद् भगवन् न

जानामि कीदृ-


7. ग् लक्षणनिमित्तं कीदृक् संचारणं भवति। कतमस्याहं

भगवन् कर्मसाधनविधि अनुवर्त्तयिष्यामि कथं भवन् पश्चिमे

काले पश्चिमे सय(म)ये सत्वानाम् अनुवर्त्तयिष्यामि<ः> कतमस्य

सिद्धिम् अनुप्रदास्यामि। कथ सत्वान् उत्तारयिष्यामि। एतन् मे भगवन्

व्याकुलीभूतः॥ निष्प्रतिभानता मे भगवन् न शक्यं मा(म)या

ज्ञातुं तन् मे भगवन् ब्रूहि <य>


91b


1. यथाविधिलक्षणं॥ संशयो मे भगवन् संशयं

भगवंश् छेदयतु॥ अथ भगवान् शाक्यमुनिस् तथागतम्

अर्हन्तं सम्यक्संबुद्धं भूतप्रश्नपरिपृच्छतं श्रू(श्रु)त्वा

वज्रपाणिं महायक्षसेनापतिम् एतद् अवोचत्॥ साधु साधु वज्रपाणि

परमदुर्लभो[ऽ]यं पृच्छासुपरि[पृ]ष्ट वज्रपाणे प्रतिभानम्

उत्पन्नं परिपृच्छनाय<ः> कारि(रु)णिकस् त्वं वज्रपाणे सर्व्वसत्वाना

हितार्थाय परिपृच्छतः सर्व्वविद्याधरा-


2. णां परमसिध्यर्थं परिपृच्छतः परम-म्-अद्भुतो

[ऽ]यं वज्रपाणे पृष्टापरिपृष्टः मायोपमसमाधितुल्यो

[ऽ]यं वज्रपाणे अमोघपाशहृदयं महाकल्पराजविधिः


(२)


महासमुद्रसागरगम्भीरतुल्यो[ऽ]यं दुरवगाहतया न 

शक्यं वज्रपाणिं महासमुद्रबिन्दवो गणयितुन् न च वज्रपाणे

अमोघपाशहृदयस्य शक्यं प्रमाणं गृहीतुम्॥ अयञ् च वज्रपाणे

सुमेरो पर्व्वतराजा पर-


3. माशु(णु)रजैः विकीर्ण्णं गणनया शक्यं पर्यन्तं कर्त्तुम्

इति। पुनर् अपि सुमेरुपर्व्वतराजा स्थातुं प्रतिष्ठापयित्त(तु)ञ् च

स्वाथांना (स्वस्थानं) न तु अमोघपाशहृदयकल्पस्य प्रमाणम्

उद्गृहीतुम् एवं विस्तीर्ण्णा एवं दुरवगहा एवं गम्भीरा न शक्यं

वज्रमा(पा)णे सर्व्वतथागतानाम(म्) अतीतानागतप्रत्युत्पन्नाना

चित्तज्ञानानि-र् अवगाहयितुम्। न तु अमो-


4. घपा[श]हृदयं कल्पस्य प्रमाणम् उद्ग्रहीतुम्। यश् च वज्रपाणे

मायोपमा तद् धृदयं यत् समाधि तत् पाशं मायोपमसमाधि-

विकुर्व्वितेयं। अवलोकितेश्वरो बोधिसत्वो महासत्वः सत्वानां नानारू

पवर्ण्णलिङ्गसंस्थानविश्वरूपे दर्शयति सर्व्वसत्वानाम् उत्तारणाय

सर्व्वविद्याधराणा सिद्धिं परमसाधको[ऽ]यं वज्रपाणे अ-


5. वलोकितेश्वरो बोधिसत्वो महासत्वः सम सर्व्वत्र धावन्ति। यत्र

क्षीरोदकी सम समेति। सम सर्व्वत्र महामैत्रीकरुणा स्फरति।

अमोघपाशेनाकर्षयति। उत्तारयति। अमृतस्थले वज्रमण्डले स्थापय-

ति। हीनोत्कृष्टमध्यमा नीचोच्चकुली नरकतिर्यग्योनियमलोकादय सम

सर्व्वत्र स्मरणनामोद्ग्रहणमात्रे-


6. ण धावति सर्व्वसत्वान् उत्तारयति न च श्रमक्लमविप्रतिसारी

मानशं प्रवर्त्तते। देवानां नागयक्षगन्धर्व्वासु[र]गरुड-

किन्नरमहोरगराक्षसभूतापस्मारप्रेत<न>वनेषु यमालयेषु यावत्

पातालान्तर्गतेषु भवाग्राद् अवीचिपर्यन्तः। यावद् अकनिष्ठभवना

एकचित्तोपादेन परिधावति। सर्व्वां सदेवनागां याव त्रियग्योनिस्त्री-

पुरुषदारकदारिकान् उत्तारय-


7. ति। यथा सूर्यरश्मयो सर्व्वतमोन्धकारा विधमति। सम

सर्व्वत्र जम्बूद्वीपे[ऽ]च(व)भासयन्ति। एवम् एवार्या[व] लोकितेश्वरो 

बोधिसत्वो मह(हा)सत्वः सर्व्वत्र महाकरुणाद् अवभासयति। सम


(३)


सर्व्वं सर्व्वत्र तिष्ठन्ति। सर्व्वदुःखवेदनाभयदारुणव्याधिशोक-

दुःखबन्धनां परिमोचयति। जातिजरामरणदुःखां परिमोचयति।

सर्व्वस्वर्गपरायणा-


92a


1. दिषु मार्गे प्रतिष्ठापयति। एवं महाकरुणामहामैत्री सम

सर्व्वत्र-म् अनुधावति। समं सर्व्वत्र-म् उत्तारयति। सम सर्व्वत्र

बोधिमार्गे प्रतिष्ठापयति। सम सर्व्वत्र श[र]णपरायणो भव-

ति। एवं महादृढसन्नाहोत्साह वज्रपाणे अवलोकितेश्वरो बोधिसत्वो

महासत्वः सर्व्वविद्याधराणां सर्व्वसत्वानाम् अर्थाय प्रतिपन्नः।

एष महासार्थवाहो वज्रपाणे सर्व्व-


2. सत्वानां महाभयपथे प्रतिनि[श्]चारयति। क्षेमसुगतमार्गे

प्रतिष्ठापयति। न च कल्पं न विकल्पं न चान्यथाभावं

प्रवर्त्तते। न च विप्रतिसारीभवति मानसं॥ अथ खलु वज्रपाणि

महायक्षसेनापतिर् भगवतः सम्मुख इदम् आर्यावलोकितेश्वरस्य

बोधिसत्वस्य महासत्वस्य महागुणवर्ण्णं श्रू(श्रु)त्वा तुष्ट उदग्र

अ(आ)त्तमनाः प्रमुदितः प्रीतिसौम-


3. नस्यजाता उदानम् उदानयन्ति स्म॥ अहो लोकेश्वरनाथ<स्य> अहो 

लोकेश्वरो गुरु तव नामगुणोद्भाव सर्व्वे मुच्यन्ति दुर्गतिं।

वज्रपाणिर् ब्बोधिसत्वम् उवाच॥ एष लोकगुरुर् नाथ एष लोके पिताम-

हः। एष लोके(को)त्तारको नाथ एष सूर्ये दिने मुने॥ भगवान् इदम्

अवोचत्॥ एवं वज्रपाणे यथा वदशि॥ भगवान् आह॥


4. गच्छ वज्रपाणे अवलोकितेश्वरो बोधिसत्वो महासत्व अभि-

वन्द्य परिपृच्छ एष ते सद्भूतवचन यथाविधि हृदयतत्व-

स(स्व)भावं दर्शयति। यथा अमोघपाशहृदयकल्पसाधन

सिद्धिं दर्शयिष्यति। उपदिषति च॥ अथ वज्रपाणिर् महायक्षसेनापति

गम्भीरगम्भीरगतिगमन सिंहविक्रान्तगामी वज्र भ्रामयमानं

चन्द्ररो-


5. चविमनपुष्पगृहीतं येनार्यावलोकितेश्वरं बोधिसत्वं


(४)


महासत्वं<सत्वं>-स् तेनोपसंक्राम उपसंक्रम्य आर्याव-

लोकितेश्वरो बोधिसत्वो महासत्वह् पादौ शिरसा वन्दित्वा त्रिः

प्रदक्षिणीकृत्य चन्द्ररोचविमलपुष्पम् अनुप्रदात्। दक्षिणं

जानुमण्डलं पृथिव्या प्रतिष्ठाप्य येनार्यावलोकितेश्वरं बोधिसत्वं

महासत्वम् एतद् अवोच-


6. त्। अतिं(हं) भगवन्<न> सम्मोह-म्-आपन्नः परिभ्रष्टस्मृति बुद्धिसंकुचितः। अतिवस्तीर्ण्णो[ऽ]यं। अमोघपाशहृद बहूनि

मन्त्रमुद्राः पटदुष्या साधनविधिः। तन् न जानामि कतमः पूर्व्व

कतमो मध्य कतमः पर्यवसान कतमं मूलमन्त्रः कतम

हृदयं कतम उपहृदयं कतमं यावद् दशाक्षरं मन्त्रः

कतम मण्डलकल्पदुष्य तु मे भगवन्न् अवकाशं कुरुष्व


7. इति॥ अथारयावलोकितेश्वरो बोधिसत्वो महासत्व वज्रपाणिस्यानु-

कम्पार्थं चन्द्ररोचविमलपुष्पं गृहीत्वा भगवते पूजार्थं

गगनतले प्रक्षिप्तवाम्। समनन्तरक्षिप्तश् च भगवतो

मूर्द्धसन्धौ चक्राकारम् अवतिष्ठं। पञ्चयोजनशतविस्तारेण

पृथिव्यात्युच्चत्वेन। यावद् अकनिष्ठभवने तिष्ठ महानीलवैदूर्य-

दण्डं जाम्बूनदसुवर्ण्णघण्टावलम्बि-


92b

1. तं पट्टावबन्धं देदीप्यमानं ज्वलन्त सुपरिणतः

सुपरिमण्डलं चक्राकारं सूर्यकोटीसतसहस्रातिरेकावभाषितं।

सुपरिशुद्धं पर्यवदातं सुनिर्मलं काञ्चनयूय(प)सुप्रतिष्ठितं

विराजितं॥ नानामहामणिरत्नखचितं रमणीयं मनोरथं

प्रह्लादनीयं प्रेमणीयदर्शनं। देवासुरावन्दनीयार्च्चनीयं ऋषयो

स्तवनीयं बुद्धानां भगवतां व्याकरणीयं। सर्व्वत्र च-


2. न्द्ररोचविमलं पुष्पकेशरतथागतविग्रहानिषण्णसप्त-

रत्नमयं कूटागारं परिवृता परिषन्मण्डला निषण्णा च्छत्त्रस्य

समन्तपरिमण्डलं दिव्याविमानैः। देवनागाप्सरदेवकन्या-

नागकन्याः किन्नरकन्या देव<। >नागयक्षगन्धर्व्वासुरकिन्नर-


(५)


महोरगविद्याधरशतसहस्रः विद्याधर्यो नानादिव्यपुष्पविमानैर्

दिव्याभरणवस्त्रविभूषणैर् अलंकार-


3. पट्टपताकगन्धमाल्यविलेपनचूर्ण्णचीवरच्छत्रध्वज-

पताकैर् द्धारयन्ति। भगवन्तं पर्षन्मण्डलं पूजयति स्म

नानादिव्यपूजामेघं प्रवर्षयन्ति स्म दिव्यगन्धर्व्वगीतिसङ्गीति-

तूर्यताडावचरैः पूजार्थे प्रवारयन्ति स्म। महाकिलिकिलाशब्दं

पोतलके पर्व्वते सविमानपर्षन्मण्डले उदीरयन्ति स्म ये च पोतल-

कनिवाशिना देव-


4. नागयक्षगन्धर्व्वासुरगरुडकिन्न[र]महोरग औद्बिल्य-

प्राप्तह्। अद्भूतप्राप्तः। ये च तथागतकुलमण्डलदेवताः। ये

च पद्मकुलमण्डलदेवताः। ये च वज्रकुलमण्डलदेवताः। ये

च मणिकुलमण्डलदेवताः। ये च गजकुलमण्डलदेवताः। ये च

महामण्डलदेवतास् ते सर्व्वे परमविश्मयम् आपन्ना॥ अद्भूतप्रप्ता

औद्बिल्यजाताः। आ-


5. श्चर्यप्राप्ता भगवन्तम् उल्लोकयमानम् अवतिष्ठन्ते स्म॥ ये

च चन्द्रसूर्यनक्षत्रतारागणदेवता रात्रिदेवताः शक्रब्रह्मविष्णु-

महेश्वरकुमारनन्दिकेश्वरगणेश्वरमहाकाला ईश्वरमहेश्वर-

ब्रह्मादेवपुत्रश् चत्वारश् च महाराजा। माणिभद्रपूर्ण्णभद्र-

बलदेवयमवरुणकुवेरदेवताः कुमारश् च देवताश् छत्रदण्डम्

अनुपरिधार्य भग-


6. वन्तं पूजयति स्म। महता देवविमानैर् देवविकुर्व्वितः पूजा-

मेघैः प्रवर्षन्ते च्छत्त्राकाराशमन्ततः। अभ्यन्तरे तुषितदेवा

अकनिष्ठदेवा यत् सर्व्वदेवभवनेषु देवनु(पुत्र)परिवार्यः। आकाशे

महापूजामेघैर् भगवतः शाक्यमुने अवलोकितेश्वरं पर्षन्मण्डल

पूजां प्रवर्त्तन्ते। ये च भूमिदेवता नागयक्षराक्षसगन्धर्व्वा

पृथिवीदेवता <नागयक्ष-


7. राक्षसगन्धर्व्वा पृथिवीदेवताः>। जलदेवताः। वनदेव-

ताः। सस्यदेवताः। औषधिदेवतास् ते सर्व्वे धरणीतलविमान

स[ं]शोधयन्ति स्म॥ नानागन्धोदकसिक्तानि। नानागन्ध-


(६)


चूर्ण्णानुलिप्तानि। नानापुष्पप्रकीर्ण्णानि। नानाधूपधूपितानि।

पृथिवीमण्डलानि समलंकरन्ते स्म॥ एवं विस्तीर्ण्णावकाश-

विकुर्व्वितं। तथागतवृषभितं। तथा-


93a


1. गतसमयाधिष्ठानं। अथ वज्रपाणिर् महायक्षसेनापति।

एवं विपुलविस्तीर्ण्णं महता रिद्धिविकु[र्व]णं दृष्त्वा अतिविश्मयः

प्राप्तः। अद्भुतप्राप्तः। एवं चिन्तयति स्म। अतिविस्मयं।

आर्यावलोकितेश्वरेण बोधिसत्वेन महासत्वेन प्रदर्शितं। अथ

वज्रपाणिर् महायक्षसेनापति पुनर् अपि आयावलोकितेश्वरं बोधिसत्वं

महासत्व<ं>म् अध्येषति स्म। कुरुष्व भगवन्न् अ-


2. वकासः। अथार्यावलोकितेश्वरो बोधिसत्वो मह(हास)त्वो वज्रपाणिर्

महायक्षसेनापतिम् एतद् अवोचत्। अनुगृह्ण वज्रपाणे कांक्षाविनोदन-

विचिकित्सच्छेदनं॥ अथार्यावलोकितेश्वरो बोधिसत्वो महासत्वः।

उत्थायासना येन भगवांस् तेनाञ्जलीं प्रणम्य त्रिः प्रदक्षिणीकृत्वा

भगवन्तं सम्मुखं स्थित्वा अनिमिषनयनं प्रहसितवदनं

रश्मि-


3. ज्वालशरीरं भगवन्तम् एतद् अवोचत्। अस्ति मम भगवन्न्

अमोघपाशमण्डले पद्मोदारविकुर्व्विते। <पद्मोदारविकुर्व्विते।/>

पद्मोष्णीषमणिमण्डले। अमोघपाशगुह्ये। मायोपमहृदयमुद्रे

समन्तावलोकितमहामण्डलपटले। तद् अहं<म्> भगवन् भगवतः

पुरतः परिकी[र्]त्तयिष्यामि॥ सुखसाधनपठितसि-


4. द्धानि। समयसद्भूतानि हृदयम् उपदर्शयिष्यामि॥ अथ भगवान्

शाक्यमुनिस् तथागतः सुवर्ण्णवर्ण्णं नानारश्मिकोटीनियुतशत-

सहस्रसमलंकृतं बाहुं प्रशार्यावलोकितेश्वरं बोधिसत्वं

महासत्वं मूर्द्धशिरे पाणि स्थापयति साधु साधु महासुद्ध-

सत्वः॥ भाषस्व अवलोकितेश्वर यस्येदानीं कालम् मन्य-


5. से। अथार्यावलोकितेश्वरो बोधिसत्वो महासत्वः भगवतस्याध्येष-

णां विदित्वा दशदिशम् अवलोक्य<ः> सर्व्वतथागता नमस्य


(७)


सर्व्वतथागतान् अवलोक्य मूलमंत्रः। अमोघपाशपद्मोष्णीष-

मणि अमोघपाशहृदयं भाषति स्म॥॥ अमोघपाशहृदय-

मण्डले पद्मोष्णीषगुह्यो विकुर्व्वणप्रस्नविधिम-


6. ण्डलं प्रथमः॥॥ नमस् त्र्यध्वानुगतप्रतिष्ठितेभ्यः

सर्व्वतथागतोष्णीष अमोघ अमोघगुह्यमण्डलेभ्यः सर्व्वबुद्ध-

बोधिसत्वेभ्यः। नमः सर्व्वप्रत्येकबुद्धार्यश्रावकसंघेभ्यो

ऽतीतानागतप्रत्युत्प्न(त्प)न्नेभ्यः। नमः सर्व्वतथागतगुह्यकुल-

हृदयसमयेभ्यः। नमः सम्यग्गतानाः नमः सम्यक्प्रति-

पन्नानां। नमः श्री(शा)रद्वतीपुत्राय महामतये। नमो


7. आर्यमैत्रेयप्रमुखेभ्यो महाबोधिसत्वार्यगणवरेभ्यः।

नमः। आर्यामिताभाय तथागतायार्हते सम्यक्संबुद्धाय नमो

रत्नत्रयाय नमो पद्मोष्णीषाय मण्डलधराय आर्यावलोकितेश्वराय

बोधिसत्वाय महासत्वाय महाकारुणिकाय तेभ्यो महर्षि आर्य-

गणवरेभ्यः। तेभ्यो नमस्कृत्वा इदं विमोक्षमण्डलं। आर्या-


93b


1. [व]लोकितेश्वरमुखोद्गीर्ण्णम्। अमोघराजपद्मोष्णीषहृदय

तथागतसम्मुखभाषितं महता पर्षन(द) अहम् इदानीं

आवर्त्तयिष्ये सिध्यन्तु भिक्षुशीलाकरगुप्ते [ऽ]स्य सर्व्वकार्येषु

सर्व्वभयेषु रक्षा भवतु॥ तद्यथा ओं पद्मोष्णीषवरद हूं॥

चर चर चिरि चिरि चुरु चुरु महाकारुणिक<ः>। चिरि चिरि पिरि पिरि चिरि चिरि

परमकारुणिक। सिरि सिरि। चिरि चिरि। पिरि


2. पिरि विरि विरि महापद्महस्त<ं>। कल कल। किलि किलि कुलु कुलु

महाशुद्धसत्व एह्य् एहि बुध्य बुध्य धाव धाव। कण कण किणि

किणि कुणु कुणु परमशुद्धसत्व<ः> कर कर किरि किरि कुरु कुरु

महासथामप्राप्त<ः>। चल चल सञ्चल विचल एटट् एटट भर भर

भिरि भिरि भुरु भुरु महाविमलपद्मोष्णीषविरज साधय हूं हूं


(८)


एह्य् एहि महाकारुणिक महापशुपतिवेश-

3. धर<ः>। धर धर महापद्मोष्णीषधर<ः> सर सर

सर्व्वावरणहर<ः>। चर चर सर्व्वविद्याधरनमस्कृत<ः>।

हर हर सर्व्वकिल्बिषहर<ः>। हाहा हाहा। हीही हीही। हूं हूं

हूं हूं ओंकारब्रह्मवेषधर<ः>। धर धर धिरि धिरि धुरु

धुरु महापद्मज्वालाधर<ः>। तर तर सर सर पर पर

पद्मपाशधर<ः>। चर चर। वर वर वररश्मिशतसहस्रप्रति-

मण्डितशरीरा-


4. य। ज्वल ज्वल तप तप भगवत्सोमादित्ययमवरुणकुबेर-

ब्रह्मेन्द्ररिषिगणदेवगणाभ्यर्च्चितचरण सुरु सुरु चुरु चुरु पुरु

पुरु मुरु मुरु सनक्तु(त्कु)माररुद्रवासवविष्णुधनददेव ऋषिना-

यकबहुविविधवेषधर<ः> महापद्मदण्डधर<ः> पाशधर<ः>

। धर धर धिरि धिरि। धुरु धुरु थर थर घर घ[र] यर

यर लर लर। हर हर। पर पर। पर पर। च-


5. र चर वर वर महावरदायक। समन्तमण्डलावलोकित

लोकेश्वर महश्वर। मुहु मुहु। मुरु मुरु मुय मुय मुञ्च

मुञ्च भगवन्न् आर्यावलोकितेश्वर रक्ष रक्ष मम शिलाकरगुप्तेन

सर्व्वभयेभ्यः सर्व्वोपद्रव्ये(वे)भ्यः सर्व्वग्रहेभ्यः सर्व्व-

ज्वरेभ्यः सर्व्वव्याधिभ्यः वधबन्धनताडनतर्जनराजचोर-

तस्कराग्नि-र्-उदकविषशस्त्रपरिमो-


6. चक<ः> कण कण किणि किणि। कुणु कुणु। चर चर इन्द्रियबल-

बोध्यङ्गचतुरार्यसत्यसंप्रकाशक<ः>। तम तम दम

दम सम सम। सम सम महातमो[ऽ]न्धकारविधमन।

षट्पारमितापरिपूरक मिलि मिलि। टट टट। ठठ ठठ टिटि टिटि ठिठि

ठिठि। टुटु टुटु ठुठु ठुठु। एणेयचर्मकृतपरिकर। एह्य् एहि

ईश्वर महेश्वर पद्मेश्वर महाभूतगणस[ं]भञ्जक


7. <ः>। महासिद्धेस्वर कुरु कुरु पर पर। कट कट। मट

मट। विशुद्धविषयनिवासिन महाकारुणिक श्वेतयज्ञोपचि(वी)-


(९)


तरत्नमकुटमालाधर<ः> सर्व्वज्ञशिरसिकृतमकुट-

महाद्भुत<ः> कमलकृतकरतल ध्यानसमाधिविमो-

क्ष(क्षा)प्रकम्प बहुसत्वसन्ततिपरिपाचक महाकारुणिक<ः>

सर्व्वकर्मावरणविशोधक सर्व्वव्याधिप्रमोचक<ः>

सर्व्वाशापरिपूर-


94a


1. क<ः> सर्व्वसत्वसमाश्वासक ओं पद्मोष्णीषपाशहृदय-

मण्डल नमो [ऽ]स्तु ते स्वाहा॥॥ सम[न]न्तरभाषिता च

आर्यावलोकितेश्वर अमोघपादा(श)पद्मोष्णीषगुह्यहृदमण्डला

अयं त्रिसाहस्रमहासाहस्रो लोकधातुपृथिवीमहाकम्पश् चाभूवन्

। सशैलवनकानबा(ना) षड्विकारं कम्पितुम् आरब्धः। अयञ् च

समन्तधरणितले समन्ततः सप्तरत्नमयपद्मासनं


2. संत्तीर्ण्णो भूतानि भगवतश् च पद्मपाणिनाभिस्थाना महापद्मो

[ऽ]भ्युद्गतः सहस्रपत्रं सप्तरत्नमयं महानीलवैदूर्यदण्डं

जम्बूनदकर्क्कटिकालोहितमुक्तिकर्ण्णिकारदिव्यमहामुक्ति-

केशरम्। एकज्वालीभूतम्। नानारश्मियो निश्चरद्भिः। तद्यथा

नीलपीतलोहितावदा(दा)तमाञ्जिष्ठस्फटिकरजतवर्ण्णावभास्यमाना

ज्वलन्तं विराजते विरोचते समन्ता दशसु


3. दिक्षु सर्व्वबुद्धक्षेत्रेष्व् अवभासयति। सर्व्वदेवभवना

नागभवना यक्षराक्षसभवना गन्धर्व्वभवना असुरभवना

गरुडभवना किन्नरभवना महोरगभवना अवभासयति।

प्रह्लादयति। संचोदयति। समाश्वासयति। शोडसभिर् महानरकैर्

अवभास्य स्पृष्टेन ते च महानरका महापद्मिनी प्रादुर्भूताः। ते च

नारकासत्वावभास-


4. स्पर्शनमात्रेण। ते सर्व्वे परिमुक्ताः सुखावतीलोकधातु

सहभावताया उपपादुकपद्मेभ्यो उपपन्नाः। दिव्यकाया आभरण-

विभूषणवस्त्रालं कारविभूषिता जातौ जातौ जातिश्मरा जाताः।

एवन् तिर्यग्योनिगतानाम् अवभास्य मृगपक्षिणानान् ते सर्व्वे<न्>


(१०)


तिर्योग्योनिगता परिमुक्ताः स्वर्गेषूपपन्नाश् चलद्विमलकुण्ड[ल]ध-

5. राः। एवं समन्ता दशसु दिक्षुः सर्व्वसत्वाना<ं>म् अवभासा

स्पृष्टाः। ते सर्व्वे अष्टषु महाभूमिषु प्रतिष्ठिता अभूवन्।

तेन च महता पर्षदि समागता महाबोधिसत्वगणाः ते सर्व्वे

अवैवर्त्तिकत्वे अनुत्तरस्यां सम्यक्संबोधौ प्रतिष्ठिता अभूवन्

। ये च विद्याधरपर्षदा ते सर्व्वे महामोघपद्मोष्णीषहृदय-

गुह्य अमोघपाशसिद्धिं


6. प्रतिलब्धा अभूवन्। ये च नागराजापर्षदा ते सर्व्वे चिन्तामणि-

ध्वजप्रतिभाषितो अभूवन्। ये च देवपर्षदा ते सर्व्वे ज्वलनोल्का-

समाधिं प्रतिलब्धाः। ये च यक्षराक्षसषर्पष(पर्ष)दा ते

सर्व्वे रत्नविमानवासिना अभूवन्। ये च भूतपर्षदा ते सर्व्वे

विमलतेजसमाधिं प्रतिलब्धा अभूवन्। ये च असुरपर्षदा ते सर्व्वे

वज्रकवचवज्रध्वजकवचि-


7. ताऽभूवन्। ये च गरुडपर्षदा ते वज्रतुण्डमहाशिखरा

बलवेगानुप्राप्ता अभूवन्। ये च किन्नरमहोरगपर्षदा ते सर्व्वे

परिशुद्धकायवाङ्मनो अभूवन्। ये च उपाशक उपासिकास्त्रीपुरुष-

दारकदारिकास् ते सर्व्वे जातिजरामरणदुःखपरिमुक्ता अभूवन्।

भगवतश् च काया सूर्यकेतुर् नाम महारश्मि विप्रमुक्ताः

आर्यावलोकितेश्वरं बो-


94b


1. धिसत्वमहासत्वं हृदयऽनुप्रविष्टाः समनन्तरानुप्रविष्टश्

च अवलोकितेश्वरहृदयं वज्रपाणिर् महायक्षसेनापतिम् एतद्

अवोचत्। पश्य वज्रपाणे अमोघपाशपद्मोष्णीषगुह्यहृदयविकु-

र्व्वितं। वज्रपाणिर् उवाच॥ दृष्टो मे भगवन् दृष्टो मे शुद्धसत्व

अचिन्त्यविकुर्व्वितायं महाशुद्धसत्वः पद्मेश्वर अमोघपाश-

हृदयपद्मोष्णीषगुह्यहृदयम-


2. ण्डलं। अतिगम्भीरम् अतिविस्तीर्ण्णं महाद्भुत-

साधनसिद्धिपरमं ब्रूहि भगवन् सकलविस्तरं।


(११)


अन्त्रपट् (मन्त्रपट)लविद्यामण्डलम् अद्भुतसोपचारविधिं

तथागतसम्मुखम् भाषस्व सर्व्वसत्वानां पापविनाशना<ं>र्थं

विद्याधराणां परमसिद्ध्यर्थं। अथार्यावलोकितेश्वरो बोधिसत्वो

महासत्वः। वज्रपाणिं महायक्षसेनापतिम् एतद्वो(द् अवो)चत्।

अनुगृह्ण वज्रपा-


3. णे अमोघपाशहृदयं परमगुह्यं। सर्व्वोष्णीषमण्डलं

सर्व्वसत्वानाम् अर्थाय सर्व्वपापक्षपणं सर्व्वावरणविशोधकं

। सर्व्वमलकालुष्यनिर्व्वाहकं सर्व्वव्याधिप्रशमकं

सर्व्वालक्षमीनिवारकं। सर्व्वकिल्विषदुष्टसत्वा(त्व)प्रत्यर्थिक-

प्रत्यमित्रभयप्रशमनं। सर्र्वविघ्नविनायकनिग्रहकरणं

सर्व्वमारादिदुष्टप्र<र्>मर्दकं। सर्व्वविषशस्त्राग्नि-


4. र्-उदकभयाशीविषसिंघ<ं>राजयक्षाशि(क्ष)निवारकं सर्व्वगर-

काखोर्द ओकिरणचूर्ण्णयोगविनाशनं। हृदयम् अमोघपाशस्य

तत्वसारम् अद्भुतं। साधनतत्वसाराञ् च पठितसिद्धिर् अनुत्तरम्

इति। अथ वज्रपाणेर् महायक्षसेनापति। प्रहसितवदनं

विगतभृकुटीमुखं वज्रं भ्रमयमानं। अवलोकितेश्वरं

बोधिसत्वं महासत्वम् एतद् अवो-


5. चत्। कतमस् ते भगवन्। अमोघपाशहृदयसद्भूतगुह्य-

पद्मोष्णीषमण्डलं तद् भगवन् ब्रूहि<ः>। अथार्यावलोकितेस्वरो

बोधिसत्वो महासत्वो वज्रपाणेये महायक्षसेनापतये

[ऽ]द्ध्येषणां विदित्वा दक्षिणपाणि नाभिपद्मं मुद्राकारं स्पृष्टः

समनन्तरस्पृष्टवान् दक्षिणकरे पद्मं स च हृदयविद्या-

पद्मस्योपरि निषण्णं स्वरूपं विमा-


6. नं दृश्यते ब्रह्मवेषधर। अमोघरूपतृलोचनचतुर्बाहु-

सर्वालङ्कारविभूषितं मणिकनकम<ण्डि>कुटं। अमिताभमकुट-

भूषितं पद्मोष्णीषमण्डितजटामकुट। अर्द्धचन्द्रविराजितं।

पाशधरं पद्मोष्णीषधरं मणिदण्डधरं वज्रदण्डधरं

पर्यङ्कनिषण्णं। रश्मिज्वालसमलंकृतं। नानाविचित्रवस्त्रैश्

चन्द्रसूर्यातिरेकनयनोज्वलैः। विराजिते पद्मनाम् उपरि


(१२)


7. <न्>देदीप्यमानं सर्व्वतथागतहृदयनंदनीयं।

सर्व्वबोधिसत्वैर् व्वन्दनीय सर्व्वदेवतैः पूजनीयं सर्व्वनागैर्

अनुग्रहणीयं। सर्व्वरिषयैस् तोषणीयं। सर्व्वासुरगरुड-

किन्नरमहोरगैर् अनुगमनीयं। सर्व्वसत्वैर् उत्तारणीयं।

एवं विस्तीर्ण्णावकाश आर्यावलोकितेश्वरेण बोधिसत्वेन महासत्वेन

तत्वसारहृदयभूतहृदयम् उपदर्शितं॥ अथ वज्रपाणे-


95a


1. र् महायक्षसेनापति तञ् च महता पर्षन्मण्डले सह

दर्शनमात्रा हृदयगुह्यं अमोघपद्मविमलोष्णीषरश्मिज्वाल-

समाधिः प्रतिलब्दा अभूवन्। येन समाधिना प्रतिलब्देन

मायोपमसमाधिनान्तर्गता अभूवत् सर्व्वे ते प्रहृष्टमानसा पादयो

प्रतिपत्य नमस्यन्ते स्म॥ अथार्यावलोकितेश्वरो बोधिसत्वो महासत्वो

इदं अमोघपाशहृदयमन्त्र भाषते स्म


2.॥॥ ओं अमोघपाशहृदयपद्मोष्णीष कुमारवेषधर<ः>

पद्मेश्वर<ः>। आवेशय सर्व्वामोघकुलसमयहृदया सर्व्वसिद्धि

[अ]मोघं प्रयच्छ। पद्म पद्म। हूं हूं मनो(नमो) [ऽ]स्तु ते

स्वाहा॥ एष अमोघपाशहृदयं सिद्धिपठितसाधनं॥॥ ओं

अमोघपद्मोष्णीषेश्वर पद्मेश्वर आमन्त्रय सर्व्वतथागतानां।

अमोघपद्मोष्णीषसमयम् आकर्षय प्रवेशय सर्व्वकर्म-


3. सिद्धिम् प्रयच्छ मे शिलाकरगुप्तेन अवलोकितेश्वर हूं हूं

महापद्मोष्णीषभुजे स्वाहा॥ कुलराजमन्त्रः॥॥ ओं

महाचण्डपद्मेश्वर विविधरूपविकटपद्मदंष्ट्राकरालभीषण-

वक्त्र सर्व्वं दुष्टहृदयां खादय विघ्नां पद्मधृक् चिटि धृटि

हूं स्वाहा॥ कुलहृदयक्रोधराजः॥ अभ्यन्तरमण्डले गुह्यकर्माणि

॥॥ ओं अमोघपद्मोष्णी-


4. ष महापद्मपाशक्रोधाकमा(र्ष)य कर्म प्रवेशय महापशुप-


(१३)


तियमवरुणाकुबेरब्रह्मवेषधर<ः>। महाचण्डवेग अमोघकुल-

समयपद्मे हूं हूं॥ क्रोधराज अमोष(घ)पाशपद्मोष्णीषहृदयं

॥॥ अथ अमोघहृदयकर्म्माणि भवन्ति सह स्मरणमात्रेण

सर्व्व-स्-त्रैयध्विकतथागतान् समसमैको भविष्यन्ति।

अमितायुसमात्मभावो भवेत्


5. सर्व्वत्र बुद्धक्षेत्रेषु दशसु दिक्षु<ः> समासर्व्वतथागत-

समसमैव प्रवर्त्तते। समसमैव सर्व्वतथागतासमैव

दृश्यते। पद्महस्त समाधाय पद्मोष्णीषञ् च पाणिना लोकेश्वर-

समं भवेत्। पद्मोष्णीष बध्वा वै अभिषिंच्या हि मूर्द्धशरीर

यो सर्व्व-स्-त्र्यैयध्विकतथागताभिषिच्यन्ते। पद्मोष्णीषैर्

अमोघाभिषेकं यो पद्मोष्णीषहृदयम् उस्मा-


6. र्य लभते समाधिशतसहस्राणि लभते श्रियम् अनुत्तरम्॥

॥ कुलराजमन्त्रम् उष्मार्य पद्मोष्णीषा तु मण्डले॥ भवते

कुलराजसुसिद्धिञ् च सर्व्वत्र कुलराजसुसिद्धिषु आयास्यन्ति कुलराजा

वै मन्त्रराजा विद्याराजानु<मु>त्तमा सर्व्वसिद्धि प्रयच्छन्ति।

अनुवर्त्तन्ते यथा पद्मपाणिना अमोघकुल सिध्यंते। पठितसिद्धा

नात्र शंसयः। पद्मोष्णीषकुले सिद्धि प-


7. द्मोदारे तु मण्डले। अमोघपाशमण्डले सिद्धो वा पठित्वा

जापमात्रा तु कुलराजविद्याध[र]राजो या सर्व्वत्र रा[जे]श्वरो भोति

मण्डलानां कल्पमुद्रया बोधिसत्वानां कुलसामन्यं सर्व्वत्र

राजकार्याणि करिष्यति बुद्धक्षेत्रसहस्राणि बुद्धक्षेत्रशतानि च

गङ्गानदीवालिकसमाक्षेत्रे राजा वै कुलविद्यया। देवेश्वरो देवानां

गणेश्वरो भवति


95b


1. नित्यशः। यक्षणां राक्षसानाम् अभूवः। गन्धर्व्वाणां यक्षाणां

राक्षसानां तथैव च। सर्व्वत्र राजेश्वरो नित्यं भविष्यति

न शंसयः। गरुडानां किन्नरानाञ् च महोरगाणां सर्व्वत्र

कुलराजा च यावद् बोधिं स[ं]तिष्ठति॥ अथ क्रोधराजस्य सह


(१४)


स्मरणमात्रेण रौद्रन् तम् एन चेतसा सुमेरुं पातये सद्यं

चक्रवाडा विकीर्यते। महासु(स)मुद्रसंक्षोभात् समुद्रम् उपजायते।

आदिप्यन्ते


2. नागभवना सर्व्वे नागालया ज्वलन्ति [सर्]वैः। विघ्नैर् व्विनायकैस्

सर्व्वैर् उद्धूप्यन्ते क्षणमात्रया। यक्षराक्षसा भूता ग्रहा

ऽप्रस्मारा दारुणाः सर्व्वे ते प्रलयं यान्ति क्रोधराजास्मरण-

मात्रया। क्रोधराजान सर्व्वा वै गुह्यकैः कुलसमयस्थितैः।

मण्डले मुद्रसंस्थानैर् ये चान्ये मन्त्रदेवतैः। सर्व्वे ते 

विध्याधरशरणं यान्ति क्रोधराजस्मरणमात्रया। सर्व्वे ते

अनुबद्धा भविष्यन्ति तिष्ठ-


3. न्ति। व्रजन्तो वा यत्रो वा तिष्ठते क्वचित्। शक्रश् च त्रिदशा देवा

ब्रह्माविष्णुमहेश्वरयमश् च वरुणश् चैव सागरो नागराजा

नन्दोपनन्दश् च कुमारसेनापतिस् तथा<ः>। चत्वारश् च महाराजान

अनुवर्त्तयति सदाकालं विद्याधरस्य न शंसयः। क्रूरकर्म्माणि

सर्व्वाणि रौद्रकर्म्म तथापि वा हूंकारमात्राणि सिद्धिस् तत्र दर्शिनो

। प्रत्यर्थिकाप्रत्यमित्राश् च दुष्ट-


4. सत्वा सुदारुणा परचक्र या घोरा विद्विष्टा जन किल्बिषाः सर्व्वे

ते भस्मी प्रलयं यान्ति। हूंकारोत्पीडनमात्रया सर्व्वदुष्टा

दुज्ञ(र्ज्ञे)याना सत्वा अकृतज्ञा कृते वैरिणा रौद्रहुंकारमात्रया

। दह्य्न्ते क्षणा सर्व्वे पतङ्गैर् व्वा यथाग्निना॥ आ(अ)न्यानि

कर्मसहस्राणि कर्माम् एव शतसहस्रयोः। जापमात्राणि सिध्यन्ति

सद्य वै स्मम(र)णमात्रया सर्व्वकर्मा-


5. णि सिद्ध्यन्ति॥॥ अथ अमोघपद्मोष्णीषस्मरणमात्रया

सर्व्वकार्याणि द्विर् भविष्यति। यथा मनसि कुर्व्वते। यत् किञ्चित्

कर्म कुर्व्वीत<ः>। मण्डल वा स्थानम् अन्यथा सर्व्वत्र। सर्व्वत्र

कुरुते कार्यं यथा मनसि वर्त्ततेति॥॥ अथ मन्त्राणां

प्रवर्त्तमानानां पृथक्पृथक् सर्व्वकार्याणि सिध्यति। ओंकार

सर्व्वा अमोघपाशस्य पद्मोष्णीषस्य मण्डले


6. स्मरणाद् एकाक्षरा मन्त्रा लोकनाथस्य सम्मुख। शतसहस्राणि


(१५)


प्रथमा भूमि प्रतिष्ठितो भविष्यति। यत् किञ्चित् पापका सर्व्वे सञ्चिता

नरका दारुणा। सर्व्वे ते विनश्यन्ति यथा वायुना-र् इव पाम्सुना।

सर्व्वसिद्धिम् अवाप्नोति। सर्व्वार्थानुवर्त्ती भवन्ति तथागता तूष्णीम्

अवाप्नोति ये चान्ये मण्डलदेवता। आर्यावलोकितेश्वर वरदो नित्यं।

ओंकारामन्त्रस्मारणा च्युति सुखावती-


7. लोकधातु गच्छति एकाक्षरमन्त्रः॥ ओं भूः॥

द्व्याक्षरशतसहस्रजापेन द्वितीयायां भूमिलाभो भविष्यति

। अमिताभस्य तथागतस्याग्रतम् उपतिष्ठति। सर्व्ववरम्

अनुप्रदास्यति। सर्व्वपापाविशुद्धिञ् च करोति। पूर्व्वव्याधिञ् च

परिमुच्यते। मणिभद्रस्य धनेस्वरं वशवर्त्ती-म् उपतिष्ठति॥ न

च भूय केनचिद् अमनुष्येण शहृ(क्य)म् अन्तरायं कर्त्तुम्। च्युतः

पोतलके पर्व्वते


96a


1. उपपद्यते। अमोघपाशसिद्धिञ् च प्रतिलभते। ओं पद्मे

॥॥ त्रियाक्षरमन्त्रजप्तया शतसहस्र तृतीयायां भूमौ-म्

अनुप्रविष्टो भवति। ये च पद्मोदारमण्डलमुद्रमन्त्रा

सर्व्वे प्रवर्त्तितानि भवन्ति॥ आर्यावलोकितेश्वर कुमार-

वेषेण अग्रतम् उपतिष्ठति। सर्व्वकामिकवर(रा)णि-म्

अनुप्रदाश्यति। अमोघपाशपद्मोष्णीषमण्डलन् दर्शयति।

सर्व्वतथागतगुह्यमण्डलानि दर्शयति। स-


2. र्व्वत्र सिद्धिम् अनुप्रदाश्यति॥॥ ओं पद्म ह्री॥

चतुराक्षरमन्त्रेण शतसहस्रजप्तया चतुर्थो भूमिन् आक्रमति।

आर्याक्षोभ्यतथागतः सुवर्ण्णवर्ण्णकायेन अग्रतः स्थास्यन्ति।

बाहुं प्रसार्य पाणि मूर्द्धं स्थापयति। विद्याधरस्य साधुकारम्

अनुप्रदाश्यति। एहि विद्याधर सर्व्वपापावरणाणि। परिशुद्धास् ते

सर्व्वात्मभावसुनिर्मलपरिशुद्धम्॥ इत मनुष्यलोको च्युति म-


3. म बुद्धक्षेत्रे आगच्छति जातीजातिस्मरश् च प्रजास्यते। न च

भूयः कदाचिद् गर्भावासेषु लिप्यसे। लौकिकानि सर्व्वकार्याणि


(१६)


सिद्धम् इति॥॥ ओं पद्मभुजे॥ पञ्चाक्षरमन्त्रजाप-

शतसहस्रेण पञ्चभूमिप्रतिष्ठितो भव। पद्मोत्तर तथागतोऽर्हते

सम्यक्संबुद्ध प्रदर्शनन् दाश्यति। सर्व्वावरणान(नि) परिक्षयं

ग[च्छन्]ति। विद्याधरस्य <सा>साधु-


4. कारशब्दम् उदीरयति। साधु साधु विद्याधर महापुण्यस्कन्धस्

ते प्रसूतः। महाकुशलमूलावरोपितस् त्वं विद्याधरः। च्युतस्

त्वं विद्याधरः। द्वानवतीनान् तथागतकोटीनियुतशतसहस्र-

स्यान्तिके कुशलमूलः सहभावताया उपपादुक मम बुद्धक्षेत्रेषु

उपपत्स्यते। निवारणस् त्वं विद्याधरः सर्व्वपापप्रहीणः। सिद्धस् 

त्वया अमोघपाश-


5. पद्मोष्णीषहृदयगुह्यमण्डलं महामुद्रपटले कुरुष्व सर्व्व-

कार्याणि यथेष्टं स मनसि वर्त्तमानं तत् सर्व्वं सुसिद्ध 

सर्व्व-साधनम् इति॥ ओं पद्मावलोकिते॥॥ षद्धा(ड्धा)

रण्यां शतसहस्रजापेन षटभूम्या(ड्भूम्य)धिष्ठितम् आक्रामति

। सर्व्वतथागतानाम् आलोक करोति। त्रिसाहस्रमहासाहस्रो लोकधातु-

परमाणुरजःसमा तथागतोऽ-


6. र्हन्तः सम्यक्संबुद्धा व्यवलोकयंति। सम्मुखदर्शनं<ञ्>

च दाश्यन्ति समाश्वासयन्ति। अथ पद्मावलोकितध्वज तथागता

ऽर्हन् सम्यक्संबुद्धस् तम् विद्याधरम् आश्वासयति। एहि विद्याधर

मम बुद्धक्षेत्रे याद्वा(व)द् बोधिमण्ड<ल>पर्यवसानं

सुपरिनिष्ठितकर्मकृतम्। पिथितस् त्वया नरकद्वाराणि अपावृतस् ते

सर्व्वबुद्धकृतद्वाराणि। अधिगतन् ते सर्व्वतथागतबीजकुलसामा-


7. न्यं सिद्ध त्वया अमोघपाद(श)पद्मोष्णीषहृदयगुह्यमण्डले।

अपावृतस् ते सर्व्वत्र भवनद्वाराणि लौकिकलोकोत्तराणि कर्मसाधनानि

। यथा मनसि वर्त्तमानं सर्व्वकर्माणि कुरुष्व इति। ओं

पद्मज्वाल हूं धृक्॥॥ सम[न]न्तरसप्ताक्षरशतसहस्रजापेन

पद्मविमलविगतावरणशुद्धिन् नाम समाधिं प्रतिलभते। येन

समाधिना लब्देन देदी-


(१७)


96b


1. प्यमानं शरीरं नानावर्ण्णरश्मयो भविष्यति।

सप्तमीभूमिप्रतिष्थितो भविष्यति ये च शरीररश्म्यावभासेन

त्रिसाहस्रमहासाहस्रं लोकधातुं सर्व्वबुद्धक्षेत्रभवनानि

अवभासयति। यत्र यत्र रश्मिनिपातेन नानारत्नविचित्ररत्नोज्वलै

विविधानि पुष्पवर्षाणि प्रादुर्भू(भ)वन्ति। सर्व्वतथागतपूजा

प्रवर्त्तन्ते॥ अथ विमलपद्माज्वलरश्मिस् तथागतोऽर्हत्

सम्यक्षंबुद्धः सुव-


2. र्ण्णवर्ण्णं बाहूं प्रसार्य दक्षिणपाणिना विद्याधर्सय

मूर्ध्नि स्थापयति। साधुकारञ् च दाश्यति। [स]माश्वासयति।

साधु साधु विद्याधरः। एष परमपूजाजापविधि बुद्धानां

भगवता हृदयगुह्यं। एष आर्यावलोकितेश्वरसद्भूतहृदय-

गुह्यं सारमण्डलं। अमोघपाद(श)पद्मोष्णीषहृदय सिद्ध

त्वया विद्याधर सकलमण्डलसमाप्तं पद्मोष्णीषहृदयकल्पं।

अमोघपाशवि-


3. कुर्व्वितम्। गच्छ विद्याधर मम बुद्धक्षेत्रे बुद्धकार्य

कुरुष्व इति॥॥ ओं अमोघमणिपद्मे॥ अष्टमीहृदयधारणी-

शतसहस्रजापेन सुपरिशुद्धकायविमलो भवति जापमात्रया। यथा

स्फटिकमहामाणि<नि>रत्नं सुपरिशुद्धम् अन्तर्ब्बहिः। एवं

विद्याधरस्य शरीरपरिशुद्धिर् भविष्यति। अष्टम्यां भूमि प्रतिष्ठितो

भविष्यति। आर्यावलोकितेश्व-


4. रो बोधिसत्वो महासत्वः सुपरिशुद्धेनात्मभावेन

स्वाभाविकरूपदर्शनेन विद्याधरस्य पुरत तिष्ठति। विद्याधरस्य

समाश्वासयति। दक्षिणपाणि मूर्द्धशिरे स्थापयति। साधुकारञ्

च दास्यति। साधु साधु विद्याधर परमाध्याशयप्रतिपन्न

ते विद्याधर आगच्छ विद्याधर समनुबद्धलोकविलोकितायां

बुद्धक्षेत्रे। तत्र त्वया बुद्ध-


5. कृत्यं भविष्यति<ति>। सिद्ध त्वया अमोघपासपद्मोष्णीष-

हृदयमण्डलगुह्यं कुरुष्व सर्व्वकर्माणि लौकिकलोकोत्तरपरम-


(१८)


साधनम् इति॥॥ ओं पद्मलोचने हुरु हूं॥ नवम्या

हृदयधारण्यां शतसहस्रजापया नवमीभूमिप्रतिष्ठितो

भविष्यति। आर्यावलोकितेश्वरस्य ज्येष्ठपुत्रो भविष्यति। नवनवति-

तथागतकोटीनियुत-


6. शतसहस्राणि तथागतस्यार्हतः सम्यक्संबुद्धस्य विद्याधरस्य

सम्मुखदर्शनं नानाबुद्धविश(ष)यविकुर्व्वितं। दर्शयति।

विद्या[ध]रस्य सर्व्वे पाणि मूर्द्ध स्थापयन्ति। साधुकारञ् च

दाश्यंति। साधु साधु महाविद्याधर कृतस् त्वया लौकिकलोकोत्तरं

बुद्धत्वसाधने अमोघपाशमण्डलकल्पविधिससूत्रोपदेशविधिना

सर्व्वम् एताति(नि) सिद्धानि ये निर्दिष्टा लोकनायकम् इति


7.॥ ओं पद्मोष्णीषविमले हूं फट्॥॥ दशाक्षरं

हृदयमन्त्रस्य लक्षजाप्पञ् च कुर्व्वतः। अवैवर्त्तिक<ं>तां स्थित्वा

दशभूमिप्रतिष्ठितः। तथागतैष वक्तव्यः। देवमानुषीप्रजाः

। अविनिवर्त्तनीयो न(भ)वत्य् अनुत्तरस्यां सम्यक्संबोधौ अमो-

घपद्मोष्णीषचक्रप्रवर्त्तनं भविष्यति न शंसयम् इति॥

दशमन्त्रं साधना ह्य् एषा तत्वसिद्धिर् अनुत्तरा जापमात्राणि

सिध्यन्ते अमोघ-


97a


1. पाशहृदयविकुर्व्वितम् समाख्याता मया सर्व्वे पूर्व्वम्

अध्यवसानिकं। शुचिना सौचसमाचारेण शुचिवस्त्राणि धारकः।

मैत्रचित्तकरुणोद्भाव सत्यवादी गुरुवस्त्सल तृरत्नप्रशादपरो

नित्यं गुरु आचार्यपूजकः। एष जापविधिः ख्याता बुद्धबोधिर्

अनुत्तरम् इति॥॥ अथ खलु वज्रपाणिर् महायक्षसेनापति

आर्यावलोकितेश्वरो बोधिसत्वो


2. महासत्वः प्रहसितवदना वज्रं भ्रामयमानं प्रणतशिरसाम्

एतद् अवोचत्। अतिदुर्लभो[ऽ]यं महासत्व इदं दशधारणीमन्त्रपदा

अमोघपाशपद्मोष्णीषमण्डलहृदयमहाविपुलगुह्य॥ बुद्धकृत्यैष

एकैकय हृदया धारणीहृदयं जापमात्रया करिष्यन्ति। किं पुनर्


(१९)


अवलोकितेश्वर ये बहुतरकं श्रमक्लम जापसाधनविधिविस्तरं

साधयन्ति। अहोरात्रो-


3. पवासभैक्षाहारफलकन्दमूलभोजनानि भुक्त्वायं विद्या

साधयिष्यति। तस्य किं वदअवलोकेश्वर सिद्धिर् उपजायते।

अवलोकितेश्वर आह। शृणु वज्रपाणे अहोरात्रोपवासजापमात्रेण

एकदिवसमात्रेण फलसिद्धिम् उपजायते। यः कश्चिद् वज्रपाणे

कुलपुत्रो वा कुलदुहिता वा भिक्षुभिक्षुण्युपाशकोपाशिका अन्यैर् व्वा

क[श्चि]न् मुण्ड-


4. श्रमण कुल-म्-उपजीवीब्राह्मणक्षत्रियस्त्रीपुर(रु)षदारक-

दारिकाविट्छूद्रा वा एकक्षणलवमू(मु)हूर्त्तम् वा एकसन्ध्यम् वा

त्रिसन्ध्यपरिपूर्ण्णम् वा अनालापतः। इदं अमोघपाशपद्मोष्णीष-

हृदयक्रोधकुलमन्त्रपटलं दशमहाधारण्यां हृदयम् एकवारा

स्मरिष्यति वा। वाचैष्यति वा नामोद्ग्रहणम् अपि श्मरिष्यति। तस्य

वज्रपाणे एकसन्ध्यम् अ-


5. पि स्मरणमात्रेण पञ्चानन्तर्यकारकम् अपि अवीचिपरायणं

कल्पस्थायी तस्य सर्व्व विसुध्यंते। सर्व्वावरणसंचितानि

पापावरणानि क्षपयिष्यन्ति। परिशुद्धनिर्मलकायश् च भविष्यन्ति

। विगतावरणपापश् च भविष्यन्ति। च्युतजन्मपरिवर्त्ते सुखावती-

लोकधातु-म् उपपादुकपद्मेभ्यो प्रजास्यते। जातीजतिस्मरश् च 

भविष्यति। न च


6. भूय कदाचि[द्]  दुर्ग्गतिगमनं भविष्यति। अशीतिकल्पशतसहस्राणि

वरचक्रवर्त्ती भविष्यति। न च भूय कदाचिद् दुर्गतिगमनं

भविष्यति। अशीतिकप्लशतसहस्राणि सुखावतीलोकधातु सु[ख]म् 

अनुभुक्ते द्वाषष्टिकल्पशतसहस्राणि अभिरत्यां लोकधातु सुखम्

अनुभूयते। द्वासप्त<ती>तिकल्पशतसहस्राणि लोकविलोकितायां

लोकधातु-म् उपपद्यते। जातीजा-


7. तिस्मरश् च भविष्यति। द्वादशकल्पशतसहस्राणि मणिन्धर-

चक्रवर्त्ती भविष्यति। अष्टादशकल्पसहस्राणि पोतलके

पर्व्वते आर्यावलोकितेश्वरभवने सुखम् अनुभूयते।


(२०)


नवानवतिकल्पशतसहस्राणि अकनिष्ठेषु देवेषूपपद्यते।

अशीतिकल्पशतसहस्राणि तुषितेषु देवेषु सुखम् अनुभूयते।

कल्पशतसहस्राणि त्रयस्त्रिंषेषु देवेषू शक्रत्वं


97b


1. करिष्यति। द्वापञ्चाशतकल्पशतसहस्राणि दशसु दिक्षु

सर्व्वबुद्धक्षेत्रेषु-म् आक्रामति। विङ्शतिकल्पसहस्राणि

चक्रवर्त्तिराज्यं परिभुञ्जते। न च भूयः कदाचिन् मातुगर्भावासम्

उपपद्यते यत्र यत्र-म् उपपद्यते सर्व्वत्र-म् उपपादुकं

प्रजास्यते। सर्व्वत्र जातीजातिस्मरश् च भविष्यति। एवं वज्रपाणे

एकविद्यास्मरणमात्रेण कुशलमूलमहापुण्यस्कन्धसमन्वागतो

भवि-


2. ष्यति। यदि क[श्]चिद् वज्रपाणे एकरात्रोषितं<म्> वा एकोपवास-

जापं वा करिष्यति। तस्य वज्रपाणे इहैव जन्मनि। इह

मानुष्यक-म्-आत्मभावे नाधिगतावरणमहामोघविमल नाम

समाधिं प्रतिलभते। अमोघव्यूहसमाधिं प्रतिलभते।

पद्मोज्वलविकुर्व्वणसमाधिं प्रतिलभते। अमोघविमलनिर्भासं

नाम समाधिं प्रतिलभते। अमोघविलोकितध्वजं नाम समा-


3. धिं प्रतिल[भ]ते। पद्मोष्णीषविरतध्वजं नाम समाधिं

प्रतिलभते। अमोघज्वलनोष्णीषहृदयगुह्यं सिद्धिं प्रति-

लभते। द्वानवतीनां च तथागतकोटीनियुतशतसहस्राणि गङ्गा-

नदीवालुकासमानां तथागतस्यान्तिके कुशलमूलावरोपितो भविष्यति।

महापुण्यस्कन्धसमन्वागतो भविष्यति जन्मपरिवर्त्ते सुखावती-

लोकधा-


4. तु-म् उपपादुकपद्मेभ्यो प्रजास्यते। अयं च अमोघपाश-

हृदयकल्पं। अमोघपद्मोष्णीषमण्डलं विमोक्षमण्डलकल्पं

सकलसमाप्तं मुद्राकल्प सकलसमाप्तं मुखाग्रे[ऽ]वतिष्ठन्ति

। अमोघविद्याधरचक्रवर्त्ती भविष्यतीति॥॥ अमोघपाशहृदय-

पद्मोष्णीषमण्डले हृदयमन्त्रसाधनविधिः। द्वितीयसाधनविधिं॥


(२१)


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project