Digital Sanskrit Buddhist Canon

प्रज्ञोपायविनिश्चयसिद्धिः

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

प्रज्ञोपायविनिश्चयसिद्धिः।

 

प्रथमः परिच्छेदः।

 

नमः श्रीवज्रसत्त्वाय।

 

यत्रा भूतसमस्तकल्पपटलालिप्तं स्वभावामलं

बौद्धं धर्म शरीरमप्रतिसमं सद्धर्मवृद्ध्या स्पदम्।

सम्भोगं च विचित्ररूपरचितं सन्निर्मितं जायते

प्रज्ञोपायमयं प्रणाम्य तदलं चैतत् तदेवीच्यते॥१॥

श्रीमतानङ्ग वज्ज्रेण संक्षेपात् तत्त्वतो मया।

अज्ञाततत्स्व रूपाणां हितायाशेषजन्मिनाम्॥२॥

अभूतकल्पसम्भूतो भाव सङ्कल्पनात्मकः।

भवः स एव चाख्यातो बालव्यामोहको बुधैः॥३॥

ततः प्रजायंतेऽशेषक्लेशराशिः सुदुःसहः।

असकृद्विविधं चैव महत्कर्मकदम्बकम्।॥४॥

ताभ्यां च मरणोत्पादप्रभृत्यात्यन्तविस्तरम्।

अजस्रं जायते दुःखमश्रद्वा सक्तचेतसाम्॥५॥

यावद् भावमहाग्राहो भवचारकवर्त्तिनाम्।

प्रज्ञाहीनतया तावत् स्व[हितं] परहितं न च॥६॥

अतस्त्रिजगदानन्दं कर्त्तुकामैस्स्वविभ्रमम्।

इर्तुकामैश्च सन्त्याज्यो [भाव]ग्राहो मनीषिभिः॥७॥

भावंग्राहं परित्यज्य नाभावं कल्पयेद् बुधः।

यदि नामानयोर्भेदः कल्पना नैव भिद्यते॥८॥

वरं हि भावसङ्कल्पो न त्वभावप्रकल्पना।

निर्वाति ज्वलितो दीपो निर्वृतः कां गतिं व्रजेत्॥९॥

यावद् भावस्य सङ्कल्पस्तावद् भावो हि लक्ष्यते।

न ह्यादिरहितस्येह व्योम्नो निधनसम्भवः॥१०॥

अभावमात्रसाध्योऽपि उपायरहितो न च।

स्वपरार्थासमर्थोऽसौ अभावत्वात् खपुष्पवत्॥११॥

एवं भावः परित्याज्यो भ्रान्तत्वादिन्द्र जालवत्।

अभावत्वादभावश्च बुद्धत्वफलवाञ्छिभिः ॥१२॥

यथानयोः परित्यागे [संक्षयो] यद्वस्थितः।

असंसारमनिर्वाणमधुना श्रूयतां बुधाः॥१३॥

परामर्षणधोगेन धर्माणां निःस्वभावता।

ज्ञानज्ञेयविभागेन प्रज्ञातत्त्वं तदुच्यते॥१४॥

रब्ज त्यशेषदुःखौघानुत्थांस्तु दुःखहेतुतः।

सर्वसत्त्वान् यतस्तस्मात् कृपा रागः प्रगीयते॥१५॥

उपानयत्यभिमतं यन्नौकेवा नुकूलतः।

सदानुकूलयोगेन सैवोपायः प्रकीर्त्तितः॥१६॥

उभयोर्मेलनं यच्च सलिलक्षीरयोरिव।

अद्वयाकारयोगेन प्रज्ञोपायः स उच्यते॥१७॥

प्रक्षेप्तुं चापनेतुं च शक्यते यत्र नैव हि।

प्रक्षेपाय च यदुक्तं धर्मतत्त्वं तदुच्यते॥१८॥

ग्राह्यग्राहकसन्त्यक्तं सदसत्पङ्कवर्जितम्।

लक्ष्यलक्षणनिर्मुक्तं शुद्धं प्रकृतिनिर्मलम्॥१९॥

न द्वयं नाद्वयं शान्तं शिवं सर्वत्र संस्थितम्।

प्रत्यात्मवेद्यमचलं प्रज्ञोपायमनाकुलम्॥२०॥

तदेव  सर्वबुद्धानामालयं परमाद्भुतम्।

श्रेयःसम्पत्करं दिव्यं धर्मधातु प्रकीर्त्तितम्॥२१॥

अप्रतिष्ठितनिर्वाणं त्र्यध्व सम्बुद्धसेवितम्।

स्वाधिष्ठानपदं रम्यं प्रज्ञापारमिताशिवम्॥२२॥

कायत्रयं त्रियानं च असङ्ख्या मन्त्रकोटयः।

मुद्रामण्डलचक्रं च कौलिकं तदनुत्तरम्॥२३॥

सर्वे विनिर्गतास्तस्माद् देवदैत्येन्द्रमानवाः।

प्रेतादयस्तथा चान्धे निरुध्यन्ते च तत्र हि॥२४॥

चिन्तामणिरिवाशेषजगतः सर्वदा स्थितः।

भुक्तिमुक्तिपदं सम्यक् प्रज्ञोपायस्वरूपतः॥२५॥

इदमेव समागम्य मम्बुद्वाः सुगताः पुरा।

सम्बुद्ध्यन्ते च सर्वत्र सम्भोत्स्यन्ते जगद्विताः॥२६॥

अनन्तसुखरूपत्वात् श्रीमहासुखमंजितम्।

समन्तभद्रमग्यं तदभिसम्बोधिकारकम्॥२७॥

त्रिजगदखिलदुःखध्वंसनैकप्रवृत्तेः 

अनुपमक्रुणायाः सङ्गमुक्ताग्रबुद्धेः।

अपरिमितविचित्रज्ञेयराशेः समत्वं

स्वपरपरसुखाङ्गं तत्त्वमूचुर्मुनीन्द्राः॥२८॥

इति प्रज्ञोपायविनिश्चयसिद्धो प्रज्ञोपायविपञ्चो नाम

प्रथमः परिच्छेदः।

 

द्वितीयः परिच्छेदः।

 

अथातः कथ्यते किञ्चित् तत्त्वरत्नस्य लब्धये।

हिताय भवदुर्भेदभ्रान्तिब्यामोहितात्मनाम्॥१॥

उपायः पूर्व सम्बुद्धैर्यथोद्दिष्टः समासतः।

श्रीमतानङ्गवज्रेण करुणाविष्टचेतसा॥२॥

इदं तदिति तद्वक्तुं नैव शक्यं जिनैरपि।

प्रत्यात्मवेद्यरूपत्वाद् बाह्यार्थे न च गृह्यते॥३॥

तथा च त्र्यध्वसम्बुद्धैर्जगदानन्दकारकैः।

आख्यातं नैव सूत्रान्तमन्त्रचर्यादिषु क्रमात्॥४॥

श्रुतादिज्ञानगम्यं तन्न भवेद् वै कदाचन।

शब्दार्थयोरसम्बन्धात् शास्त्रलक्षणसूचकम्॥५॥

अत एव सदाऽऽसक्त्या युक्तं सद्गुरुसेवनम्।

न च तेन विना तत्त्वं प्राप्यते कल्पकोटिभिः॥६॥

अप्राप्ते तत्त्वरत्ने तु सिद्धिर्नैव कदाचन।

सुविशुद्धेऽपि सत्क्षेत्रे बीजाभावाद् यथाङ्कुरः॥७॥

साम्ना याः सन्ति ये केचित् प्रज्ञोपायार्थदेशकाः।

चिन्तामणिरिवाद्भुता निर्विकल्पपथ स्थिताः॥८॥

तत्त्वेनैव परिज्ञाय आचार्यान् वसुधातले।

तानुपासित यत्नेन आत्मसिद्ध्यग्रहेतवे॥९॥

अनन्तबोधिसत्सौख्यं प्राप्यते यस्य तेजसा।

श्रेष्ठत्वं सर्वभूतानां त्रैलोक्ये सचराचरे॥१०॥

तत् किमर्थं कृपामूर्त्तौ तत्राकारणवत्सले।

मायामलिनचेतीभिर्ढौकयन्ति दुराशयाः॥११॥

असत्प्रणामसत्कारैर्द्दढं चोपास्य सद्गुरुम्।

क्षीरादिदानपूजाभिरायुर्यावत् समीहिते॥१२॥

सम्प्राप्ते तत्त्वरत्ने तु स्र्वबुद्धगुणालये।

वार्त्तामपि न पृच्छन्ति छिद्राज्वेषणदारुणाः॥१३॥

तथाऽन्येऽपि दुरात्मानो ढौकन्ते गुरुवज्विणम्।

विहेठयन्ति चात्मानमात्मनैव दुराशयाः॥१४॥

हरणे गुरुमुद्राया रत्नत्रयधरस्य च।

निर्विकल्पाः प्रतिक्षेप्या धर्मतायाश्च योगिनः॥१५॥

उक्ताः श्रीवज्रनाथेन समये तु महाद्भुते।

जुगुप्साबुद्धयो नित्यं स्वमातृत्रासकारिणः॥१६॥

उपास्येक गुरुं पूर्वं नानुगृह्णाति मामिति।

आश्रयन्त्यपरं दुष्टास्तद्दोषकथनोत्सुकाः॥१७॥

योगिताऽऽचार्यसंज्ञा च कथमस्माकमस्त्वति।

एतन्मात्रप्रवृत्तास्ते बुद्धत्वं प्रति नार्थिनः॥१८॥

कथञ्चित् प्राप्य तद् ज्ञानं मन्यन्ते न गुरुं पुरा।

ज्ञातारो वयमित्याहुर्मत्तः केचिन्न चापरे॥१९॥

अन्ये च कुपिताः प्राहुः गृह्ण त्वं यत् समर्पितम्।

अहं न तव शिषाऽस्मि न भवान् साम्प्रतं गुरुः॥२०॥

कुतस्तेषां भवेत् सिद्धिः सौख्यं चैवेह जन्मनि।

गुरुवञ्चनचित्ता ये ते भ्रमन्ति विडम्बिताः॥२१॥

एवम्बिधाश्च ये सत्त्वाः स्वार्थसम्पहहिर्मुखाः।

उक्ताः श्रीवज्रनाथेन सर्वे तेऽपाय भाजनाः॥२२॥

न तेषां नरकादन्या गतिरस्त्यात्मविद्दिषाम्।

पच्यन्ते घोरकर्माणो दुःखर्बहुविधैर्मृशम्॥२३॥

अत एव सदा सद्भिरनन्तफलदायकः।

आचार्यः सर्वभावेन आत्मश्रेयोऽर्थवाञ्छिभिः॥२४॥

ईर्ष्यामात्सर्यमुत्सृज्य मानाहङ्कारमेव च।

मायासाध्यं तथापास्य सम्बोधौ कृतनिश्चयैः॥२५॥

सदा [परहित] स्यैव चर्ययाऽकम्प्यचेतसा।

पर्युपास्यो जगन्नाथो गुरुः सर्वार्थसिद्धिदः॥२६॥

स्वकार्यनिरपेक्षेण पूजामण्डलपूर्वकैः।

त्रिष्कालं परया भक्त्या शिरसा पादवन्दनैः॥२७॥

प्राप्नुवन्ति ततोऽविघ्नं गुरुपादप्रसादतः।

शिष्यास्तु परमं तत्त्वं त्र्यध्वबुद्धैर्यथोदितम्॥२८॥

नित्यं प्रभास्वरं शुद्धं बोधिचित्तं जिनालयम्।

सर्वधर्ममयं दिव्यं निखिलास्पदकारणम्॥२९॥

ध्वस्तसान्द्रान्धकारस्य सन्निधानाद् विवस्वतः।

धगिति प्रज्वलत्युच्चेः सूर्यकान्तिमणिर्यथा॥३०॥

सन्निधानात् जगद्दृष्टेस्तत्त्वयोगखरार्चिषः।

ज्वलत्यस्तमलध्वान्तशिष्यचेतोमणिस्तथा॥३१॥

प्रबोधानन्तरं श्रीमान् तत्त्वरत्नप्रदीपितः।

दशदिक् संस्थितैर्बुद्धैःकारुणयाक्षिप्तमानसौः॥३२॥

तूर्णमागत्य सम्बुद्धैःशिष्योऽधिष्ठयते ध्रुवम्।

अधिष्ठानाच्च बुद्धानां सर्वबुद्धसमो भवेत्॥३३॥

मानं [स्पर्द्वां] कपटपटलं सर्वमुत्सृज्य धीरैः

 यैः साम्नायो गुरुरममया श्रद्धया सेव्यतेऽत्र।

अग्राः प्राप्ताः सकलसुगताः यत् समासाद्य बोधिं

नूनं तत्तै र्जिनगुणपदं प्राप्यते तत्त्वरत्नम् ॥३४॥

इति प्रज्ञोपायविनिश्चयसिद्धौ वज्राचार्याराधननिर्देशो

नाम द्वितीयः परिच्छेदः।

 

तृतीयः परिच्छेदः।

 

अथातः कथ्यते सम्यक् वज्रसत्त्वपदार्थिनाम्।

साधकानां हितार्थायाभिषेकं त्रिभवास्पदम्॥१॥

मन्त्रमार्गानुसारेण अभिषिक्तो यदा बुधः।

प्रत्यक्षं सर्वबुद्धानां मण्डले सुगतालये॥२॥

अनन्तलोकधात्वीशो ग्राह्यस्तथापि धीमता।

स्वाधिष्ठानक्रमं प्राप्य समयक्षतिभीरुणा॥३॥

मन्त्रमार्गे तथा चोक्तं सम्बुद्धैः परमार्थतः।

वज्रसत्त्वादिदेवानां समयो दुरतिक्रमः॥४॥

अथातः सर्वयत्नेनाभिषेकार्थं जिनात्मजः।

उपसर्प्य यथायोगं वज्राचार्यगुणोदधिम्॥५॥

नवयौवनसम्पन्नां प्राप्य मुद्रां सुलोचनाम्।

स्रक्चन्दनसुवस्त्राद्यैर्भूपयित्वा निबेदयेत्॥६॥

गन्धमाल्यादिसत्कारैः क्षीरपूजादिविस्तरैः।

भक्त्या सम्पूज्य यत्नेन मुद्रया सह नायकम्॥७॥

शिष्यो भूमौ समारोप्य श्रद्वया जानुमण्डलम्।

अध्येषयीत शास्त्रं स्तोत्रेणानेन माञ्जलिः॥८॥

नमस्ते श्रून्यतागर्भ सर्वसङ्कल्पवर्जित।

सर्वज्ञ ज्ञानसन्दोह ज्ञानमूर्त्ते नमोऽस्तु ते॥९॥

जगदज्ञानविच्छेदिशुद्धतत्त्वार्थदेशक।

 धर्मनैरात्म्यसम्भूत वज्रसत्त्व नमोऽस्तु ते॥१०॥

सम्बुद्धा बोधिसत्त्वाश्च [त्वत्तः] पारमितागुणाः।

सम्भवन्ति सदा नाथ बोधिचित्त नमोऽस्तु ते॥११॥

रत्नत्रयं महायानं त्वत्तः स्थावरजङ्गमम्।

चैधातुकमिदं सर्वं जगद्दीर नमोऽस्तु ते॥१२॥

चिन्तामणिरिवाद्भुत जगदिष्टार्थसिद्धये।

सुगताज्ञाकर श्रीमन् बुद्धपुत्र नमोऽस्तु ते॥१३॥

ज्ञातं मेऽनुत्तरं तत्त्वं प्रसादात् ते गुणार्णव।

वज्राभिषेकं सर्वज्ञ प्रसादं कुरु साम्प्रतम्॥१४॥

रहस्यं सर्वबुद्धानां दर्शितं धर्मवज्रिणा।

यथा श्रीचित्तवज्रेण तथा नाथ प्रसीद मे॥१५॥

भवत्पादाम्बुजे त्यक्त्वा नान्या मे विद्यते गतिः।

तस्मात् कुरु दयानाथ संसारगतिनिर्जित॥१६॥

वज्राचार्यस्ततः श्रीमान् सानुकम्पो हिताशयः।

समुत्पाद्य कृपां शिष्यं आहुय गणमण्डले॥१७॥

पञ्चकामगुणाकीर्णे वितानविततोज्ज्वले।

योगिनीयोगसंयुक्ते घण्टाकणकणस्वने॥१८॥

पुष्पधूपाकुले रम्ये स्रक्सुरामोदसत्सुखे।

वज्रसत्त्वादिदेवानामालये परमाद्भुते॥१९॥

मुद्रायोगं ततः कृत्वा आचार्यः सुभगोत्तमः।

निवेश्य पद्मभाण्डे तु बोधिचित्तं जिनालये॥२०॥

उच्छ्रितैश्चामरैः छत्रैर्गाथामङ्गलगीतिभिः।

मुद्रायुक्तं ततः शिष्यमभिषिञ्चेत् जगत्प्रभुः॥२१॥

दत्त्वाऽभिषेकं सद्रत्नमाचार्यः परमेश्वरः।

दद्याद् वै समयं रम्यं दिव्यं प्रकृतिनिर्मलम्॥२२॥

महारत्नं सकर्पूरं रक्तचन्दनयोजितम्।

कुलिशाम्बुसमायुक्त पञ्चमं वाक्समुद्भवम्॥२३॥

इदं ते समयं वत्स पूर्वबुद्धैरुदाहृतम्।

पालयस्व सदा भद्र संवरं शृणु साम्प्रतम्॥२४॥

नहि प्राणिबधः कार्यः त्रिरत्नं मा परित्यज।

आचार्यस्ते न सन्त्याज्यः संवरो दुरतिक्रमः॥२५॥

बोधिचित्ताभिषि[क्ताय] शिष्याय विगतैनसे।

अनुज्ञां च ततो दद्यात् तस्मै बुद्धाग्रसूनवे॥२६॥

आबोधिमण्डपर्यन्तं दिशि चक्रे समन्ततः।

प्रवर्त्तयस्व सत्त्वाग्र धर्मचक्रमनुत्तरम्॥२७॥

प्रज्ञोपायस्वरूपात्मा चिन्तामणिरिवोच्यते।

अखिन्नो विगतासङ्गः सत्त्वार्थं कुरु साम्प्रतम्॥२८॥

प्राप्ताभिषेकः सानुज्ञः कृतकृत्यः प्रहर्षितः।

वदेत् सुमधुरां वाणौं जगदानन्दकारिणीम्॥२९॥

अद्य मे सफलं जन्म सफलं जीवितं च मे।

अद्य बुद्धकुले जातो बुद्धपुत्रोऽसि साम्प्रतम्॥३०॥

कल्पार्णवान्महाघोराज्जन्मवीचिसमाकुलात्।

तारितोऽहं त्वया नाथ क्लेशपङ्क सुदुस्तरात्॥३१॥

निष्पन्नमिव चात्मानं जाने युष्मत्प्रसादतः।

बोधये न च मे काङ्क्षा प्रहीणाः सर्ववासनाः॥३२॥

निपत्य पादयोर्भक्त्या प्रहृष्टोत्फुल्ललोचनः।

यद् यदिष्टतरं द्रव्यं तत् तदेव निवेदयेत्॥३३॥

निरवग्रहचित्तेन गुरुणाऽपि कृपालुना।

शिष्यस्याग्रहनाशायग्राह्यं तस्य हिताय च॥३४॥

ततः प्रणम्य सम्पूज्य दत्त्वा च गुरुदक्षिणाम्।

एवं विज्ञापयेद् भूयः सम्प्राप्ताभिमतास्पदः॥३५॥

अघुना भवबुद्धाग्रः सुप्रसादो ममान्तिके।

यथा तेऽनुत्तरां बोधिं प्रसादात् साधयाम्यहम्॥३६॥

निष्पाद्यानुत्तरं बौद्धं पदं सर्वाग्रपूजितम्।

तत्रैव स्थापयिष्यामि सत्त्वांस्त्रिभववर्त्तिनः॥३७॥

देयोऽभिषेको विधिभिर्यथोक्तैः

 शिष्याधिमुक्तिं मनसाऽवगम्य।

उदारगम्भीरनयाधिमुक्तो

वाचैव दद्यादभिषेकरत्नम्॥३८॥

प्राप्ताशेषा भिषेकप्रवरकुलिशभृद्दुर्लभातुल्यसम्पत्-

सम्भोगक्षेत्रलक्ष्मीग्रहणकृति महाबोधिचित्ताभेषेकः।

लब्धानुज्ञस्त्रिलोकी दुरितरिपुजयारम्भसन्नद्धबुद्धिः

बोधावारोप्य चित्तं विपुलमिह चरेन्निर्मलं

तत्त्वयोगी॥३९॥

 

इति प्रज्ञोपायविनिश्चयसिद्धौ बोधिचित्ताभिषेकस्तृतीयः

परिच्छेदः।

 

चतुर्थः परिच्छेदः।

अथातः कथ्यते स्पष्टं प्रज्ञोपायाग्रभावना।

परार्थारब्ध वीर्याणां साधकानां हिताय वै॥१॥

यां विभाव्य न संसारे घोरे दुस्तरवारिधौ।

निर्वाणेऽपि न तिष्ठन्ति योगिनः स्वार्थमात्रके॥२॥

यस्याः प्रकर्षपर्यन्तं बुद्धानाममलाद्भुता।

हानिवृद्धिविनिर्मुक्ता जाता बोधिरनुत्तरा॥३॥

पञ्चस्कन्धादिकान् धर्मान् नातिक्रामति यो न च।

कदाचित् परिगृह्णाति सर्वधर्मसमा[त्मताम्]॥४॥

न श्रून्यभावनां कुर्यात् नापि चाश्रून्यभावनाम्।

न श्रून्यं सन्त्यजेद् योगी न चाश्रून्यं परित्यजेत्॥५॥

अश्रून्यश्रून्ययोर्ग्राहे जायतेऽनल्पकल्पना।

परित्यागे च सङ्कल्पस्तस्मादेतद् द्वयं त्यजेत्॥६॥

उभयग्राह्यसन्त्यागाद् विमुक्तो विगतास्पदः।

अहमित्येष सङ्कल्पस्तस्मादेतद् द्वयं त्यजेत्॥७॥

निर्विकारी निरासङ्गो निष्काङ्क्षो गतकल्पषः।

आद्यन्त कल्पनामुक्तो व्योमवद् भावयेद् बुधः॥८॥

 

न चापि सत्त्ववैमुख्यं कर्त्तव्यं करुणावता। 

सत्त्वो नामास्ति नास्तीति न चैवं परिकल्पयेत्।

निष्प्रपञ्चस्वरूपत्वात् प्रज्ञेति परिकीर्त्त्यते।

चिन्तामणिरिवाशेषसत्त्वार्थकरणं कृपा॥१०॥

निरालम्बपदे प्रज्ञा निरालम्बा महाकृपा।

एकीभूता धिया सार्द्धं गगने गगनं यथा॥११॥

न य च भावकः कश्चित् नापि काचिद् विभावना।

भावनीयं न चैवास्ति सोच्यते तत्त्वभावना॥१२॥

न कर्त्ता कश्चिदस्त्यत्र भोक्ता नैवाच विद्यते।

कर्त्तृभोक्तृविनिर्मुक्ता परमार्थविभावना॥१३॥

न चात्र ग्राहकः कश्चित् न वा कश्चित् समर्पकः।

न प्रहार्यमतः किञ्चित् ग्राह्यं नैवात्र विद्यते॥१४॥

पश्यतां सर्वरूपाणि शृण्वतां शब्दमेव च।

जल्पतां हमतां वापि प्राश्नतां विविधान् रसाम्॥१५॥

कुर्वतां सर्वकर्माणि अन्यत्र गत चेतसाम्।

अजस्रं योगिनां योगो जायते तत्त्ववेदि नाम्॥१६॥

एतदद्वयमित्युक्तं बोधिचित्तैदं परम्।

वज्रं श्रीवज्रसत्त्वं च सम्बुद्धो बोधिरे च॥१७॥

प्रज्ञापारमिता चैषा सर्वपारमितामयी।

समता चेयमेवोक्ता सर्वबुद्धाग्रभावना॥१८॥

अत्रै सर्वमुत्पन्नं जगत् स्थिरचलात्मकम्।

अनन्ता बोधिसत्त्वाश्च सम्बुद्धाः श्रावकादयः॥१९॥

तदेव भावयेद् योगी भावाभाववियोगतः।

भावा भावविनिर्मुक्तो भावयन् सिध्यते लघु॥२०॥

अशेषदोषविद्वेषी संक्लेशविमुखो ध्रुवम्।

अनन्तास्तस्य जायन्ते श्रीमन्तः सौगता गुणाः॥२१॥

अनल्पसङ्कल्पतमोऽभिभूतं

प्रभञ्जनोन्मत्ततडिच्चलं च।

रागादिदुर्वारमलावलिप्तं

चित्तं हि संसारमुवाच वज्री॥२२॥

प्रभास्वरं कल्पनया विमुक्तं

प्रहीणरागादिमलप्रलेपम्।

ग्राह्यं न च ग्राहकमग्र सत्त्वं

तदेव निर्वाणवरं जगाद॥२३॥

अतश्च नातः परमस्ति किञ्चित्

निमित्तभूतं बहुदुःखराशेः।

अनन्तसौख्योदयहेतुभूतं

मुमुक्षवो नास्ति ततः परंच॥२४॥

अशेषदुःखक्षयवद्धकक्षैः

सम्बुद्धसत्सौख्यमवाप्तुकामैः।

चित्तं स्थिरीकृत्य विचार्य यत्नात्

तस्य स्वभावः क्रियतां स्वभावः॥२५॥

यावत् कल्पतमः पटेन गुरुणा रुद्धं मनो जन्मिनां

तावद् दुःखमनन्तकं विरहितं स्यात् तेन यावत् ततः।

तावत् सौख्यमुदारमप्रतिसमं तात्पर्यमार्यैरतः

कार्यं तत्कृतये स्वयं सुविपुलां रक्ष्यन्ति तत्सङ्गतिम्॥२६॥

इति प्रज्ञोपायविनिश्चयसिद्धौ तत्त्वभावना

नाम चतुर्थः परिच्छेदः।

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project